Skip to content

नित्यग्रन्थ

Nithya Grantha

Nitya Grantha

The Daily Manual — Bhagavad Ramanuja's guide to the daily worship (nitya-aradhana) of Sriman Narayana, systematizing the ritual discipline of the Sri Vaishnava devotee.

Original Sanskrit · click to toggle

श्री-रामानुजाचार्य-विरचितः

Link copied

नित्य-ग्रन्थः

Link copied

अथ परमैकान्तिनो भगवद्-आराधन-प्रयोगं वक्ष्ये---

Link copied

भगवत्-कैङ्कर्यैक-रतिः परमैकान्ती भूत्वा भगवान् एव स्व-शेष-भूतेन मया स्वकीयैश् च कल्याणतमैर् औपचारिक-सांस्पर्शिकाभ्यवहारिकैर् भोगैर् अखिल-परिजन-परिच्छान्वितं स्वात्मानं प्रीतं कारयितुम् उपक्रमत इत्य् अनुसन्धाय तीर्थं गत्वा शुचौ देशे पादौ प्रक्षाल्याचम्य, तीरं संशोध्य, शुचौ देशे मूल-मन्त्रेण मृदम् आदाय द्विधा कृत्वा शोधित-तीरे निधाय, एकेनाधिक-भागेन देह-मल-प्रक्षालनं कृत्वा निमज्ज्य, आचम्य प्राणायाम-त्रयम् आसीनो भगवन्तं ध्यायन् कृत्वा, अन्यं मृद्-भागम् आदाय वाम-पाणि-तले त्रिधा कृत्वा पृथक् पृथक् सम्प्रोक्ष्य, अभिमन्त्र्य, एकेन दिग्-बन्धनम् अस्त्र-मन्त्रेण कुर्यात्। अन्येन तीर्थस्य पीठम्। इतरेण गात्रानुलेपनम्।

Link copied

ततः पाणी प्रक्षाल्य, उदकाञ्जलिम् आदाय तीर्थस्यार्घ्यम् उत्क्षिप्य भगवद्-वाम-पादाङ्गुष्ठ- विनिःसृत-गङ्गा-जलं सङ्कल्पित-पीठे आवाह्य, अर्घ्यं दत्त्वा मूल-मन्त्रेणाभिमन्त्र्य, उदकाञ्जलिम् आदाय सप्त कृत्वोऽभिमन्त्र्य स्व-मूर्धनि सिञ्चेत्। एवं त्रिः पञ्च कृत्वः सप्त कृत्वो वा।

Link copied

दक्षिणेन पाणिना जलम् आदाय अभिमन्त्र्य पीत्वा, आचम्य स्वात्मानं सम्प्रोक्ष्य परिषिच्य तीर्थे निमग्नो भगवत्-पादारविन्द-विन्यस्त-शरस्को यावच्-छक्ति मूल-मन्त्रं जपित्वा, उत्तीर्य शुक्ल-वस्त्र-धरो धृतोत्तरीयश् च आचम्य, ऊर्ध्व-पुण्ड्रांस् तत् तन् मन्त्रेण धारयित्वा भगवन्तम् अनुस्मृत्य, तत् तन् मन्त्रेण भगवत्-पर्यन्ताभिधायिना मूल-मन्त्रेण च जलं पीत्वा, आचम्य, प्रोक्ष्य, परिषिच्य, उदकाञ्जलिम् आदाय भगवत्-पादयोर् निक्षिप्य, प्राणान् आयम्य भगवन्तं ध्यात्वा, अष्टोत्तर-शतं मूल-मन्त्रम् आवर्त्य परिक्रम्य नमस्कृत्य, आधार- शक्त्य्-आदि-पृथिव्य्-अन्तं तर्पयित्वा, श्री-वैकुण्ठादि-पार्षदान्तं तर्पयित्वा देवान् ऋषीन् पितॄन् भगवद्-आत्मकान् ध्यात्वा सन्तर्प्य, शुचौ देशे वस्त्रं सम्पीड्य, आचम्य, आवाहित-तीर्थं मूल-मन्त्रेणात्मनि समाहृत्य याग-भूमिं गच्छेत्।

Link copied

सुप्रक्षालित-पाणि-पादः स्वाचान्तः शुचौ देशेऽतिमनोहरे निःशब्दे भुवं सङ्गृह्य तां शोषणादिभिर् विशोध्य गुरु-परम्परया परम-गुरुं भगवन्तम् उपगम्य तम् एव प्राप्यत्वेन प्रापकत्वेनानिष्ट-निवारकत्वेनेष्ट-प्रापकत्वेन च यथावस्थित-स्वरूप-रूप-गुण-विभूति-लीलोपकरण-विस्तारम् अनुसन्धाय तम् एव शरणम् उपगच्छेद् अखिलेत्य्-आदिना।

Link copied

एवं शरणम् उपगम्य तत्-प्रसादोपबृंहित-मनोवृत्तिः, तम् एव भगवन्तं सर्वेश्वरेश्वरम् आत्मनः स्वामित्वेनानुसन्धाय, अत्यर्थ-प्रियाविरत-विशदतम-प्रत्यक्ष-रूपानुध्यानेन ध्यायन् आसीत्। ततस् तद्-अनुभव-जनितातिमात्र-प्रीति-कारित-परिपूर्ण-कैङ्कर्य-रूप-पूजाम् आरभेत्।

Link copied

भगवान् एव स्व-नियाम्य-स्वरूप-स्थिति-प्रवृत्ति-स्व-शेषतैकरसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तःकरणैः स्वकीय-कल्याणतम-द्रव्य-मयान् औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभूतान् अतिसमग्रान् अतिप्रियतमान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादयितुम् उपक्रमत इत्य् अनुसन्धाय, स्व-देहे पञ्चोपनिषन्-मन्त्रान् संहार-क्रमेण न्यस्य, प्राणायामेनैकेन दक्षिण-पाणिना नाभिदेशे मूल-मन्त्रं न्यस्य, मन्त्रोद्भूत-चण्ड-वाय्व्-आप्यायित-नाभि-देश-स्थ-वायुना शरीरम् अन्तर् बहिश् च सर्व-तत्त्व-मयं तत्त्व-क्रमेण विशोष्य, पुनः प्राणायामेनैकेन हृद्-देशे मूल-मन्त्रं न्यस्य मन्त्रोद्भूत-चक्राग्नि-ज्वालोपबृंहित-जाठराग्निना दग्ध्व-तत्-तत्-समष्टि-प्रलीन-सर्व-तत्त्व-सर्व-किल्बिष-सर्वाज्ञान-तद्-वासनो भूत्वा भगवद्-दक्षिण-पादाङ्गुष्ठे मूल-मन्त्रेण स्वात्मानं प्रवेशयेत्।

Link copied

अपरेण प्राणायामेन भगवत्-प्रसादेन भगवत्-किङ्करत्व-योग्यताम् आपाद्य तस्माद् आदाय, तद्-वाम-पादाङ्गुष्ठाधस्तान् मूल-मन्त्रेणात्मानं विन्यस्य देव-वाम-पादाङ्गुष्ठ-नख-शीतांशु-मण्डल-निर्गलद्-दिव्यामृत-रसैर् आत्मानम् अभिषिच्य, भगवत्-प्रसादेन तद्-अमृत-मयं सर्व-कैङ्कर्यैक-मनोहरं सर्व-कैङ्कर्यैक-योग्यं शरीरं लब्ध्वा तस्मिञ् शरीरे पञ्चोपनिषन्-मन्त्रान् सृष्टि-क्रमेण विन्यस्येत्। ॐ षां नमः पराय परमेष्ठ्य्-आत्मने नम इति मूर्ध्नि स्पृशेत्। ॐ यां नमः पराय पुरुषात्मने नम इति नासिकाग्रे। ॐ रां नमः पराय विश्वात्मने नम इति हृदये। ॐ वां नमः पराय निवृत्त्य्-आत्मने नम इति गुह्ये। ॐ लां नमः पराय सर्वात्मने नम इति पादयोः। एवं न्यासं कुर्वंस् तत्-तच्-छक्ति-मयम् उद्भूतं देहं ध्यायेत्।

Link copied

पुनर् अपि प्राणायामेनैकेन भगवद्-वाम-पादाङ्गुष्ठ-विनिःसृतामृत-धारयात्मानम् अभिषिच्य कृतलाञ्छनो धृतोर्ध्व-पुण्ड्रो भगवद्-यागम् आरभेत्।

Link copied

भगवान् एव सर्वं कारयतीति पूर्ववद् ध्यात्वा हृद्-यागं कृत्वा सम्भारान् सम्भृत्य, आत्मनो वाम-पार्श्वे जल-कुम्भे तोयम् उत्पूर्य गन्ध-पुष्प-युतं कृत्वा सप्त कृत्वोऽभिमन्त्र्य विशोष्य दग्ध्वा दिव्यामृत-मयं तोयम् उत्पाद्य, अस्त्र-मन्त्रेण रक्षां कृत्वा सुरभि-मुद्रां प्रदर्श्य, अन्यानि पूजा-द्रव्याण्य् आत्मनो दक्षिण-पार्श्वे निधाय, आत्मनः पुरतः स्वास्तीर्णे पीठे क्रमेणाग्नेयादिषु कोणेष्व् अर्घ्य-पाद्याचमनीय-स्नानीय-पात्राणि निधाय, अस्त्र-मन्त्रेण प्रक्षाल्य शोषणादिना पात्राणि विशोध्य संस्कृत-तोयेन तानि पूरयित्वा, अर्घ्य-पात्रे-गन्ध-पुष्प-कुशाग्राक्षतादीनि निक्षिपेत्। दूर्वां विष्णु-पर्णां श्यामाकं पद्मकं पाद्य-पात्रे। एला-लवङ्ग-तक्कोल-लामज्जक-जाती-पुष्पाण्य् आचमनीये। (द्वे हरिद्रे मुरा-शैलेय-तक्कोल-जटामांसी-मलयज-गन्ध-चम्पक-पुष्पाणि स्नानीये) सिद्धार्थकादीनि स्नानीये।

Link copied

अन्यस्मिन् पात्रे सर्वार्थ-तोयं सङ्कल्प्य ततोऽर्घ्य-पात्रं पाणिना स्पृष्ट्वा मूल-मन्त्रेणाभिमन्त्र्य, ॐ नमो भगवतेऽर्घ्यं परिकल्पयामीत्य् अर्घ्यं परिकल्पयेत्। एवं पाद्यं परिकल्पयामीति पाद्यम्। आचमनीयं परिकल्पयामीत्य् आचमनीयम्। स्नानीयं परिकल्पयामीति स्नानीयम्। शुद्धोदकं परिकल्पयामीति शुद्धोदकम्। ततोऽर्घ्य-जलाज् जलम् अन्येन पात्रेणादाय याग-भूमिं सर्वाणि याग-द्रव्याण्य् आत्मानं च प्रत्येकं सम्प्रोक्ष्य, आसनं परिकल्पयेत्।

Link copied

ॐ आधार-शक्त्यै नमः, ॐ मूल-प्रकृत्यै नमः, ॐ अखिल-जगद्-आधाराय कूर्म-रूपिणे नारायाणाय नमः, ॐ भगवतेऽनन्ताय नागराजाय नमः, ॐ भूं भूम्यै नम इति यथास्थानम् उपर्य् उपरि ध्यात्वा प्रणम्य, ॐ श्री-वैकुण्ठाय दिव्य-लोकाय नम इति श्री-वैकुण्ठ-दिव्य-लोकं प्रणम्य, ॐ श्री-वैकुण्ठाय दिव्य-जनपदाय नम इति दिव्य-जनपदं प्रणम्य, ॐ श्री-वैकुण्ठाय दिव्य-नगराय नम इति दिव्य-नगरं प्रणम्य, ॐ श्री-वैकुण्ठाय दिव्य-विमानाय नम इति दिव्य-विमानं प्रणम्य, ॐ आनन्द-मयाय दिव्य-मण्टप-रत्नाय नम इति मण्टप-रत्नं प्रणम्य, तस्मिन्, अनन्ताय (नारायणाय) नम इत्य् आस्तरणं प्रणम्य, तस्मिन्न् उपरि, ॐ धर्माय नम इत्य् आग्नेय्यां पादं विन्यस्य, ॐ ज्ञानाय नम इति नैरृत्यां, ॐ वैराग्याय नम इति वायव्यां, ॐ ऐश्वर्याय नम इत्य् ऐशान्याम्, ॐ अघर्माय नम इति प्राच्यां पीठ-गात्रं विन्यस्य, ॐ अज्ञानाय नम इति दक्षिणस्यां, ॐ अवैराग्याय नम इति प्रतीच्यां, ॐ अनैश्वर्याय नम इत्य् उत्तरस्याम्, एभिः परिच्छिन्न-तनुं पीठ-भूतं सद्-आत्मकम् अनन्तं विन्यस्य, सर्व-कार्योन्मुखं विभुम् अनन्तं, ॐ अनन्ताय नम इति विन्यस्य, तस्मिन्न् उपरि, ॐ पद्माय नम इति पद्मं विन्यस्य, तत्-पूर्व-पत्रे, ॐ विमलायै (चामर-हस्तायै) नम इति विमलां चामर-हस्तां विन्यस्य, तत आरभ्य प्रादक्षिण्येनैशानान्तं पन्नेषु, ॐ उत्कर्षिण्यै (चामर-हस्तायै) नमः, ॐ ज्ञानायै (चामर-हस्तायै) नमः, ॐ क्रियायै (चामर-हस्तायै) नमः, ॐ योगायै नमः, ॐ प्रह्व्यै (चामर-हस्तायै) नमः, ॐ सत्यायै (चामर-हस्तायै) नमः, ॐ ईशानायै (चामर-हस्तायै) नम इति सप्त शक्तीश् चामर-हस्ता विन्यस्य, ॐ अनुग्रहायै (चामर-हस्तायै) नम इति कर्णिका-पूर्व-भागेऽनुग्रहां चामर-हस्तां विन्यस्येत्, ॐ जगत्-प्रकृतये योग-पीठाय नम इति योग-पीठं विन्यस्य, ॐ (दिव्याय योग-पर्यङ्काय) दिव्य-योग-पीठाय नमः, इति दिव्य-योग-(पीठ)पर्यङ्कं विन्यस्य, तस्मिन्न् अनन्तं नागराजं सहस्र-फणा-शोभितं, ॐ अनन्ताय नागराजाय नम इति न्यस्य, ॐ अनन्ताय नम इति पुरतः पाद-पीठं विन्यस्य, सर्वाण्य् आधार-शक्त्य्-आदीनि पीठान्तानि तत्त्वानि प्रत्येकं गन्ध-पुष्प-धूप-दीपैर् अभ्यर्च्य, सर्व-परिवाराणां तत्-तत्-स्थानेषु पद्मासनानि सङ्कल्प्य, अनन्त-गरुड-विष्वक्सेनानां सपीठकं पद्मं विन्यस्य, सर्वतः पुष्पाक्षतान्दीनि विकीर्य, योग-पीठस्य पश्चिमोत्तर-दिग्-भागे, ॐ अस्मद्-गुरुभ्यो नम इति गुरून् गन्ध-पुष्प-धूप-दीपैः सम्पूज्य प्रणम्यानुज्ञाप्य भगवद्-यागम् आरभेत्।

Link copied

कल्पिते नाग-भोगे समासीनं भगवन्तं नारायणं पुण्डरीक-दलामलायताक्षं किरीट-मकुट-केयूर-हार-कटकादि-सर्व-भूषणैर् भूषितम् आकुञ्चित-दक्षिण-पादं, प्रसारित-वाम-पादं जानु-विन्यस्त-प्रसरित-सारित-दक्षिण-भुजं नाग-भोग-विन्यस्त-वाम-भुजम् ऊर्ध्व-भुज-द्वयेन शङ्ख-चक्र-धरं सर्वेषां सृष्टि-स्थिति-प्रलय-हेतु-भूतम् अञ्जनाभं, कौस्तुभेन विराजमानं चकासतम् उदग्र-प्रबुद्ध-स्फुरद्-अपूर्वाचिन्त्य-परम-सत्त्व-पञ्च-शक्ति-मय-विग्रहं पञ्चोपणिषदैर् ध्यात्वा, आराधनाभिमुखो भवेति (मूल-मन्त्रेण) प्रार्थ्य, मूल-मन्त्रेण दण्डवत् प्रणम्य, उत्थाय स्वागतं निवेद्य, यावद् आराधन-समाप्ति-सान्निध्य-याचनं कुर्यात्।

Link copied

अन्यत्र स्वाभिमत-देशे पूजा चेद् एवम् आवाहनम्---

Link copied

मन्त्र-योगः समाह्वानं कर-पुष्पोप-दर्शनम्।

Link copied

बिम्बोपवेशनं चैव योग-विग्रह-चिन्तनम्॥

Link copied

प्रणामश् च समुत्थानं स्वागतं पुष्पम् एव च।

Link copied

सान्निध्य-याचनं चेति तत्राह्वानस्य सत्-क्रिया॥

Link copied

ततो भगवन्तं प्रणम्य दक्षिनतः, ॐ श्रीं श्रियै नम इति श्रियम् आवाह्य प्रणम्य, वामतः, ॐ भूं भूम्यै नम इति भुवम् आवाह्य तत्रैव ॐ नीम् नीलायै नम इति नीलाम् आवाह्य, किरीटाय मकुटाधिपतये नम इत्य् उपरि भगवतः पश्चिम-पार्श्वे चतुर्-बाहुं चतुर्-वक्त्रं कृताञ्जलि-पुटं मूर्ध्नि भगवत्-किरीटं धारयन्तं किरीटाख्य-दिव्य-पुरुषं प्रणम्य, एवम् एव, ॐ किरीट-माल्यायापीडात्मने नम इत्य् आपीडकं तत्रैव पुरस्तात् प्रणम्य, ॐ दक्षिण-कुण्डलाय मकरात्मने नम इति दक्षिण-कुण्डलं दक्षिणतः प्रणम्य, ॐ वाम-कुण्डलाय मकरात्मने नम इति वाम-कुण्डलं वामतः प्रणम्य, ॐ वैजयन्त्यै वनमालायै नम इति वनमालां पुरतः प्रणम्य, ॐ श्री-तुलस्यै नम इति तुलसीं देवीं पुरतः प्रणम्य, ॐ श्रीवत्साय श्रीनिवासाय नम इति श्रीवत्सं पुरतः प्रणम्य, ॐ हाराय सर्वाभरणाधिपतये नम इति हारं पुरतः प्रणम्य, ॐ श्री-कौस्तुभाय सर्व-रत्नाधिपतये नम इति कौस्तुभं पुरतः प्रणम्य, ॐ काञ्ची-गुणोज्ज्वलाय दिव्य-पीताम्बराय नम इति पीताम्बरं पुरतः प्रणम्य, ॐ सर्वेभ्यो भगवद्-भूषणेभ्यो नम इति सर्व-भूषणानि सर्वतः प्रणम्य, ॐ श्री-सुदर्शनाय हेतिराजाय नम इति सुदर्शनं रक्त-वर्णं रक्त-नेत्रं (द्वि-भुजं) चतुर्-भुजं कृताञ्जलि-पुटं भगवन्तम् आलोकयन्तम् तद्-दर्शनानन्द-बृंहित-मुखं मूर्ध्नि भगवच्-चक्रं धारयन्तं दक्षिणतः प्रणम्य, ॐ नन्दकाय खड्गाधिपतये नम इति नन्दकात्मानं शिरसि भगवत्-खड्गं धारयन्तं तत्रैव प्रणम्य, ॐ पद्माय नम इति पद्मं (शिरसि धारयन्तं) प्रणम्य, ॐ पाञ्चजन्याय शङ्खाधिपतये नम इति शङ्खात्मानं सित-वर्णं रक्त-नेत्रं द्वि-भुजं कृताञ्जलि-पुटं शिरसि भगवच्-छङ्खं धारयन्तं वामतः प्रणम्य, ॐ कौमोदक्यै गदाधिपतये नम इति गदात्मानं तत्रैव प्रणम्य, तत्रैव ॐ शार्ङ्गाय चापाधिपतये नम इति शार्ङ्गात्मानं प्रणम्य, ॐ सर्वेभ्यो भगवद्-दिव्यायुधेभ्यो नम इति सर्वायुधानि परितः प्रणम्य, ॐ सर्वाभ्यो भगवत्-पादारविन्द-संवाहिनीभ्यो नम इति दिव्य-पादारविन्द-संवाहिनीः समन्ततः प्रणम्य, ॐ अनन्ताय नागराजाय नम इति पृष्ठतोऽनन्तं (भगवन्तं) नागराजं चतुर्-भुजं हल-मुसल-धरं कृताञ्जलि-पुटं फणा-मणि-सहस्र-मण्डितोत्तमाङ्गं भगवद्-स्पर्शनानन्द-बृंहित-सर्व-गात्रं ध्यात्वा प्रणम्य, ॐ सर्वेभ्यो भगवत्-परिजनेभ्यो नम इत्य् अनुक्तानन्त-परिजनान् समन्ततः प्रणम्य, ॐ वैनतेयाय नम इत्य् अग्रतो (भगवतो भगवन्तं) वैनतेयम् आसीनं द्वि-भुजं कृताञ्जलि-पुटं ध्यात्वा प्रणम्य, ॐ भगवते विष्वक्सेनायेति भगवतः प्राग् उत्तर-पार्श्वे दक्षिणाभिमुखं भगवन्तं विष्वक्सेनम् आसीनं चतुर्-भुजं शङ्ख-चक्र-धरं नील-मेघ-निभं ध्यात्वा प्रणम्य, ॐ गं गजाननाय नमः, ॐ जं जयत्-सेनाय नमः, ॐ हं हरि-वक्त्राय नमः, ॐ कं काल-प्रकृति-संज्ञाय नमः, ॐ सर्वेभ्यो भगवद्-विष्वक्सेन-परिजनेभ्यो नम इति विष्वक्सेन-परिजनान् प्रणम्य, ॐ चण्डाय द्वार-पालाय नमः, ॐ प्रचण्डाय द्वार-पालाय नम इति पूर्व-द्वार-पार्श्वयोः प्रणम्य, ॐ भद्राय द्वार-पालाय नमः, ॐ सुभद्राय द्वार-पालाय नम इति दक्षिण-द्वार-पार्श्वयोः प्रणम्य, ॐ जयाय द्वार-पालाय नमः, ॐ विजयाय द्वार-पालाय नम इति पश्चिम-द्वार-पार्श्वयोः प्रणम्य, ॐ धात्रे द्वार-पालाय नमः, ॐ विधात्रे द्वार-पालाय नम इति उत्तर-द्वार-पार्श्वयोः प्रणम्य, ॐ धात्रे द्वार-पालाय नमः, ॐ विधात्रे द्वार-पालाय नम इत्य् उत्तर-द्वार-पार्श्वयोः प्रणमेत्।

Link copied

एते द्वार-पालाः सर्वे शङ्ख-चक्र-गदाधरा आज्ञा-मुद्रायुता ध्यातव्याः॥

Link copied

ॐ सर्वेभ्यो भगवद्-द्वार-पालेभ्यो नम इति सर्व-द्वारेषु सर्व-द्वार-पालान् प्रणम्य,

Link copied

ॐ कुमुदाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति पूर्वस्यां दिशि पार्षदेश्वरं कुमुदं प्रणम्य, ॐ कुमुदाक्षाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इत्य् आग्नेय्यां कुमुदाक्षं प्रणम्य, ॐ पुण्डरीकाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति दक्षिणस्यां पुण्डरीकं प्रणम्य, ॐ वामनाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति नैरृत्यां वामनं प्रणम्य, ॐ शङ्कुकर्णाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति पश्चिमस्यां शङ्कुकर्णं प्रणम्य, ॐ सर्प-नेत्राय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति वायव्यां सर्प-नेत्रं प्रणम्य, ॐ सुमुखाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इत्य् उदीच्यां सुमुखं प्रणम्य, ॐ सुप्रतिष्ठिताय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इत्य् ऐशान्यां सुप्रतिष्ठितं प्रणम्य, ॐ सर्वेभ्यो भगवत्-पारिषदेभ्यो नम इति सर्वस्माद् बहिः प्रणमेत्।

Link copied

अन्यत्रावाह्य पूजायाम् आवाहन-स्थानानि परम-व्योम-क्षीरार्णवादित्य-मण्डल-हृदयानि मधुरा-द्वारका-गोकुलायोध्यादीनि दिव्यावतार-स्थानानि चान्यानि पौराणिकानि श्री-रङ्गादीनि च यथारुचि।

Link copied

एवं भगवन्तं नारायणं देवी-भूषणायुध-परिजन-परिच्छद-द्वार-पाल-पार्षदैः सेव्यमानं स्वाधीन-त्रिविध-चेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेदं क्लेश-कर्माद्य्-अशेष-दोषासंस्पृष्टं स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः प्रभृत्य्-असङ्ख्येय-कल्पाण-गुण-गणौघ-महार्णवं ध्यात्वा प्रणम्य, मूल-मन्त्रेण स्वात्मानं देवाय निवेद्य, प्रणम्यानुज्ञाप्य, भगवत्-पूजाम् आरभेत्।

Link copied

पात्रेण पूर्वस्थापितादर्घ्य-पात्राद् अर्घ्य-जलम् आदाय पाणिभ्यां मुख-समम् उद्धृत्य, भगवन्, इदं प्रतिगृह्णीष्वेति चिन्तयन् भगवन्-मुखे दर्शयित्वा भगवद्-दक्षिण-हस्ते किञ्चित् प्रदायार्घ्यं प्रतिग्रह-पात्रे प्रक्षिपेत्। हतौ प्रक्षाल्य पादयोः पुष्पाणि समर्प्य पाद्य-पात्रात् पाद्य-जलम् आदाय पादयोः किञ्चित् दत्वा मनसा पादौ प्रक्षाल्यन् पाद्यं प्रतिग्रह-पात्रे निक्षिपेत्। हस्तौ प्रक्षाल्य वस्त्रेण पादौ सम्मृज्य गन्ध-पुष्पाणि दत्वा, आचमनीय-पात्राद् आचमनीयम् आदाय भगवद्-दक्षिण-हस्ते किञ्चित् समर्प्य, भगवद्-वदने आचमनीयं समर्पितम् इति मनसा भावयञ् शेषम् आचमनीयं प्रतिग्रह-पात्रे निक्षिपेत्। ततो गन्ध-पुष्प-धूप-दीपाचमन-मुख-वास-ताम्बूलादि-निवेदनं कृत्वा प्रणम्य, आत्मानम् आत्मीयं च सर्वं भगवन् नित्य-किङ्करत्वाय स्वीकुर्व् इति भगवते निवेदयेत्। ततः स्नानार्थम् आसनम् आनीय गन्धादिभिर् अभ्यर्च्य भगवन्तं प्रणम्य, अनुज्ञाप्य पादुके प्रदाय तत्रोपविष्टे माल्य-भूषण-वस्त्राण्य् अपनीय विष्वक्सेनाय दत्वा स्नान-शाटिकां प्रदाय पाद्याचमनीय-पाद-पीठ-प्रदान-दन्त-काष्ठ-जिह्वानिर्लेहन-गण्डूष-मुख-प्रक्षालनाचमनादर्श-प्रदर्शन-हस्त-प्रक्षालन-मुख-वास-ताम्बूल-तैलाभ्यङ्गोद्वर्तामलक-तोय-कङ्कत-प्लोत-देह-शोधन-शाटिका-प्रदान-हरिद्रालेपन-प्रक्षालन-वस्त्रोत्तरीय-यज्ञोपवीत-प्रदान-पाद्याचमन-पवित्र-प्रदान-गन्ध-पुष्प- धूप-दीपाचमन-नृत-गीत-वाद्यादि-सर्व-मङ्गल-संयुक्ताभिषेक-नीराजनाचमन-देह-शोधन-प्लोत-वस्त्रौत्तरीय-यज्ञोपवीताचमन-कूर्च-प्रसारण-सहस्र-धाराभिषेक-नीराजनाचमन-देह-शोधन-प्लोत-वस्त्रोत्तरीय-यज्ञोपवीताचमनानि दद्यात्।

Link copied

ततोऽलङ्कारासनम् अभ्यर्च्य प्रणम्य, अनुज्ञाप्य, पादुके प्रदाय, तत्रोपविष्टे पूर्ववत् स्नानीय-वर्जम् अर्घ्य-पाद्याचमनीय-शुद्धोदकानि मन्त्रेण कल्पयित्वा भगवते गन्ध-पुष्प-पाद-सम्मर्दन-वस्त्रोत्तरीय-भूषणोपवीतार्घ्य-पाद्याचमनीयानि दत्वा सर्व-परिवाराणां स्नान-वस्त्रादि-भूषणान्तं दत्वा गन्धादीन् देवानन्तरं सर्व-परिवाराणां प्रत्येकं प्रदाय धूप-दीपाचमनीयानि दद्यात्। अथवा सर्व-परिवाराणां गन्धादीन् एव दद्यात्।

Link copied

गन्ध-पुष्प-प्रदानालङ्काराञ्जनोर्ध्वपुण्ड्रादर्श-धूप-दीपाचमन- ध्वज-च्छत्र-चामर-वाहन-शङ्ख-चिह्न-काहल-भेर्यादि-सकल-नृत-गीत-वाद्यादिभिर् अभ्यर्च्य मूल-मन्त्रेण पुष्पं प्रदाय प्रत्यक्षरं पुष्पं प्रदाय द्वादशाक्षरेण विष्णु-षड्-अक्षरेण विष्णु-गायत्र्या पञ्चोपनिषदैः पुरुषसूक्तर्ग्भिर् अन्यैश् च भगवन्-मन्त्रैः शक्तश् चेत् पुष्पं प्रदाय देव्यादि-पारिषदान्तं तत्-तन्-मन्त्रेण पुष्पं दत्वा, प्रणम्य, प्रतिदिशं प्रदक्षिण-प्रणाम-पूर्वकं भगवते पुष्पाञ्जलिं दत्वा पुरतः प्रणम्य, श्रुति-मुखैः स्तोत्रैः स्तुत्वा, आत्मानं नित्य-किङ्करतया निवेद्य तथैव ध्यात्वा यथाशक्ति मूल-मन्त्रं जपित्वा सर्व-भोग-प्रपूरनीं मात्रां दत्वा मुख-वास-ताम्बूले प्रदाय, अघ्यं दत्वा, भोज्यासनम् अभ्यर्च्य, प्रणम्य, अनुज्ञाप्य, पादुके प्रदाय, तत्रोपविष्टे पाद्याचमनीयार्हणानि दत्वा, गुडं माक्षिकं सर्पिर् दधि क्षीरं चेति पात्रे निक्षिप्य शोषणादिभिर् विशोध्य, अर्घ्य-जलेन सम्प्रोक्ष्य मधुपर्कम् अवनत-शिराः हर्षोत्फुल्ल-नयनो हृष्ट-मना भूत्वा प्रदाय, आचमनीयं दद्यात्। यत् किञ्चिद् द्रव्यं भगवते दीयते तत् सर्वं शोषणादिभिर् विशोध्य, अर्घ्य-जलेन सम्प्रोक्ष्य दद्यात्।

Link copied

ततश् च गां स्वर्ण-रत्नादिकं च यथाशक्ति दद्यात्। ततः सुसंस्कृतान्नम् आज्याढ्यं दधि-क्षीर-मधूनि च फल-मूल-व्यञ्जनानि मोदकांश् चान्यानि च लोके प्रियतमान्य् आत्मनश् चेष्टानि शास्त्राविरुद्धानि सम्भृत्य शोषणादिभिर् विशोध्यार्घ्य-जलेन सम्प्रोक्ष्य, अस्त्र-मन्त्रेण रक्षां कृत्वा सुरभि-मुद्रां प्रदर्श्य, अर्हण-पूर्वकं हविर् निवेदयेत्। अतिप्रभूतम् अतिसमग्रम् अतिप्रियतमम् अत्यन्त-भक्ति-कृतम् इदं स्वीकुर्व् इति प्रणाम-पूर्वकम् अत्यन्त-साध्वस-विनयावनतो भूत्वा निवेदयेत्।

Link copied

ततश् चानुपान-तर्पणे प्रदाय हस्त-प्रक्षालनाचमन-हस्त-सम्मार्जन-चन्दन-मुख-वास-ताम्बूलादीनि दत्वा प्रणम्य पुनर् मन्त्रासनं कूर्चेन मार्जयित्वा, अभ्यर्च्य, अनुज्ञाप्य पादुके प्रदाय तत्रोपविष्टे माल्यादिकम् अपोह्य विश्वक्सेनाय दत्वा पाद्याचमनीय-गन्ध-पुष्प-धूप-दीपाचमनापूप-फलादीनि दत्वा, आचमन-मुख-वास-ताम्बूल-नृत-गीत-वाद्यादिभिर् अभ्यर्च्य प्रदक्षिणीकृत्य दण्डवत् प्रणम्य पर्यङ्कासनम् अभ्यर्च्य पादुके प्रदाय तत्रोपविष्टे पाद्याचमने दत्वा, माल्य-भूषण-वस्त्राण्य् अपनीय विश्वक्सेनाय दत्वा सुख-शयनोचितं सुख-स्पर्शं च वासः तद्-उचितानि भूषणान्य् उपवीतं च प्रदाय, आचमनीयं दत्वा गन्ध-पुष्प-धूप-दीपाचमन-मुख-वास-ताम्बूलादिभिर् अभ्यर्च्य श्रुति-सुखैः स्तोत्रैर् अभिष्टूया, भगवान् एव स्व-नियाम्य-स्वरूप-स्थिति-प्रवृत्ति-स्व-शेषतैकरसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तःकरणैः स्वकीय-कल्याणतम-द्रव्य-मयान् औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभूतान् अतिसमग्रान् अतिप्रियतमान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादितवान् इत्य् अनुसन्धाय भगवन्तम् अनुज्ञाप्य, भगवन् निवेदित-हविः-शेषाद् विश्वक्सेनाय किञ्चिद् उद्धृत्य निधाय, अन्यत् सर्वं स्वाचार्य-प्रमुखेभ्यो वैष्णवेभ्यो दत्वा, भगवद्-यागावशिष्टैर् जलादिभिर् द्रव्यैर् विष्वक्सेनम् अभ्यर्च्य पूर्वोद्धृतं हविश् च दत्वा तद्-अर्चनं परिसमाप्य भगवन्तम् अष्टाङ्गेन प्रणामेन प्रणम्य शरणम् उपगच्छेत्।

Link copied

मनो-बुद्ध्यभिमानेन सह न्यस्य धरा-तले।

Link copied

कूर्मवच् चतुरः पादान् शिरस् तत्रैव पञ्चमम्॥

Link copied

प्रदक्षिण-समेतेन त्व् एवं-रूपेण सर्वदा।

Link copied

अष्टाङ्गेन नमस्कृत्य ह्य् उपविश्याग्रतः प्रभो॥

Link copied

इत्य् उक्तोऽष्टाङ्ग-प्रणामः। शरणागति-प्रकारश् च पूर्वोक्तः।

Link copied

ततोऽर्घ्य-जलं प्रदाय भगवन्तम् अनुज्ञाप्य पूजां समापयेत्।

Link copied

इति श्री-रामानुजाचार्य-विरचितो नित्य ग्रन्थः॥

Link copied

English · simplified for modern readers

About this summary

This is an original summary prepared by JETNJ for English-speaking devotees, not a translation of Bhagavad Ramanujacharya's Sanskrit text. The full original is available above. A literal English translation is not in the public domain; we plan to commission one or link to authoritative scholarly editions as they become permissible.

Link copied

What the work is

The Nitya-Grantha — "The Daily Manual" — is Bhagavad Ramanuja's practical handbook for the daily worship of Sri:man Na:ra:yana. Where the Sri: Bhashya, the Vedanta Dipa, the Vedanta Sara, and the Vedartha Sangraha set out the philosophical vision of Vishishtadvaita, the Nitya-Grantha is the living practice that matches it. It is the book a Sri: Vaishnava keeps at hand — short, practical, and meant to be used every day.

Link copied

The work belongs to the genre of nitya-a:ra:dhana-paddhati — a guide to the obligatory daily worship of the Lord at one's own home shrine. It is addressed to the initiated Sri: Vaishnava, whether householder or renunciate, and it assumes that the devotee has received panca-samska:ra (the five sacraments of formal initiation) from a qualified acharya. Tradition holds that Ramanuja composed it so that every Sri: Vaishnava, however far from a temple, could keep an unbroken daily relationship with Sri:man Na:ra:yana through worship offered to the archa-vigraha (the consecrated deity image) in the home shrine. At roughly fifteen to twenty-five pages of Sanskrit, it is the shortest of Ramanuja's major works — and among the most constantly used.

Link copied

Structure

The Nitya-Grantha is organized as a walk through the devotee's day, from waking to sleep.

Link copied

It opens with the rites of early morning — the pra:thah-sandhya: (dawn observance), the ritual bath, and the mental preparations that place the devotee in a state of fitness for worship. It then takes up panca-samska:ra — the five rites of initiation by which a soul becomes a Sri: Vaishnava — and describes the sacred marks and mantras the devotee bears through life. It sets out bhagavad-a:ra:dhana, the formal worship of the Lord at the home shrine: the purification of self and space, the invocation, the offering of the sixteen traditional services, the recitation of mantras, the meditative offering of self, and the concluding prayers. It treats the taking of consecrated food (prasa:da), the afternoon and evening observances, and the closing rites before sleep. Interwoven throughout are instructions on posture, inner attitude, and the meanings of the mantras — so that the outer sequence is never mechanical but always carried by understanding.

Link copied

Key teachings

The body of the devotee is prepared for worship through panca-samska:ra. The five sacraments — tha:pa (the marking of the shoulders with the sacred emblems of conch and discus), pundra (wearing the u:rdhva-pundra, the upright clay mark), na:ma (receiving a servant-name from the acharya), mantra (initiation into the sacred mantras), and ya:ga (instruction in the daily worship) — constitute the devotee as a Sri: Vaishnava. The Nitya-Grantha describes these briefly and places them at the foundation of all that follows: one worships the Lord not as a stranger approaching a distant sovereign, but as a marked, mantra-bearing servant already received into His household.

Link copied

Worship is offered to the archa-vigraha, the Lord's own accessible form. Sri: Vaishnava theology recognizes five modes (panca-praka:ra) in which Sri:man Na:ra:yana makes Himself available — para (the supreme in His transcendent glory), vyu:ha (the cosmic emanations), vibhava (the avatha:ras), antharya:min (the inner ruler), and arca (the consecrated image). Of these, the arca is the form graciously given for daily, tangible worship. The Nitya-Grantha teaches the devotee to approach the home archa-vigraha not as an emblem but as the Lord Himself, present in full, having accepted this form out of love for those who would serve Him with their hands.

Link copied

The sixteen services shape the body and mind to servitude. The core of the daily a:ra:dhana is the offering of the traditional sixteen upacha:ras — welcome, a seat, water for the feet, water of greeting, water to sip, a ritual bath, fresh garments, the sacred thread, sandal paste, flowers, incense, lamp, food, betel, circumambulation, and salutation. The Nitya-Grantha sets out each with the accompanying mantras and the inner disposition it should carry. The point is never the external ritual alone: through these acts the devotee's whole life is schooled in kainkaryam (loving service), so that ordinary actions beyond the shrine begin to carry the same quality.

Link copied

Mantra, meditation, and offering of self are the inward spine of worship. Three mantras stand at the heart of Sri: Vaishnava life — the Tirumantra ("Om namo Narayanaya"), the Dvaya, and the Charama-Sloka of the Bhagavad Gi:tha. The Nitya-Grantha weaves these into the flow of daily worship: the Tirumantra as the constant remembrance of the soul's nature as servant of Sri:man Na:ra:yana, the Dvaya as the formal utterance of prapatti (surrender) and the prayer for eternal service, the Charama-Sloka as the Lord's own assurance to the surrendered soul. Around these, the Nitya-Grantha teaches meditative postures, the visualization of the Lord in the lotus of the heart, and the a:thma-nivedana — the formal offering of oneself, one's body, one's karma, and all that one calls one's own at the feet of the divine couple.

Link copied

Food becomes prasa:da; the day becomes service. Once worship is complete, the food offered to the Lord is received back as prasa:da. The Nitya-Grantha teaches that no Sri: Vaishnava eats what has not first been offered: every meal is a continuation of the morning's worship. The afternoon and evening observances — study, further meditation, the evening sandhya, and the concluding rites before sleep — extend this discipline through the whole day, so that the devotee's life itself becomes an unbroken a:ra:dhana.

Link copied

Why this work matters

Within the Vedic tradition, the Nitya-Grantha is the bridge between philosophy and practice. The longer works show what is true; this small book shows what the devotee does about it each morning. For centuries, Sri: Vaishnava households have structured their day around its instructions — not by reading it cover to cover, but by absorbing it through the guidance of an acharya and letting its rhythm become the rhythm of daily life.

Link copied

For devotees today, the Nitya-Grantha is a gift of astonishing concreteness. It answers the question that every earnest seeker eventually asks: given that Sri:man Na:ra:yana is the Lord of all, given that I am His servant, given that devotion and surrender are the way — what do I actually do with this next hour, this morning, this day? Ramanuja's answer, carefully preserved in this little manual, is the answer the tradition has lived by ever since: you welcome Him into your home, you serve Him with your hands, you offer Him your food, your breath, and yourself — and you let that worship shape every moment that follows.

Link copied

Text offered in original IAST Sanskrit from the Ramanuja Granthamala corpus. For cross-referenced study and search, visit netcausal.ai/veda.

Join our community