Skip to content

Sri Bhashya · Section 5 of 5

chathurtha:dhya:ye:

Original Sanskrit · click to toggle

प्रथमः पादः

आवृत्त्य्-अधिकरणम्॥१॥

Link copied

४७० आवृत्तिर् असकृद् उपदेशात् ॥४।१।१॥

Link copied

तृतीयेऽध्याये साधनैः सह विद्या चिन्तिता। अथेदानीं विद्या-स्वरूप-विशोधन-पूर्वकं विद्या-फलं चिन्त्यते। तत्र--- ब्रह्म-विद् आप्नोति परम्, तम् एव विदित्वातिमृत्युम् एति, ब्रह्म वेद ब्रह्मैव भवति, यदा पश्यः पश्यते रुक्म-वर्णम् इत्य् आदि वेदान्त-वाक्येषु ब्रह्म-प्राप्ति-साधनतया विहितं वेदनं किं सकृत् कृतम् एव शास्त्रार्थः, उतासकृद् आवृत्तम् इति संशयः। किं युक्तम्। सकृत् कृतम् इति। कुतः। ब्रह्म वेद ब्रह्मैव भवति इति वेदन-मात्रस्यैव विधानाद् असकृद् आवृत्तौ प्रमाणाभावात्। नचावघातादिवद् वेदनस्य ब्रह्मापरोक्ष्यं प्रति दृष्टोपायत्वाद् यावत् कार्यम् आवृत्तिर् इति शक्यं वक्तुम्; वेदनस्य दृष्टोपायत्वाभावात्। ज्योतिष्टोमादि-कर्माणि, वेदान्त-विहितं च वेदनं परम-पुरुषाराधन-रूपम्, आराधिताच् च परम-पुरुषाद् धर्मार्थ-काम-मोक्षाख्य-पुरुषार्थावाप्तिर् इति हि, फलम् अत उपपत्तेर् इत्य् अत्र प्रतिपादितम्। अतो ज्योतिष्टोमादिवद् यथाशब्दं सकृत् कृतम् एव शास्त्रार्थः।

Link copied

इति प्राप्ते प्रचक्ष्महे--- आवृत्तिर् असकृद् इति। असकृद् आवृत्तम् एव वेदनं शास्त्रार्थः। कुतः। उपदेशात्--- ध्यानोपासन-पर्यायेण वेदन-शब्देनोपदेशात्। तत्-पर्यायत्वं च विद्युपास्ति-ध्यायतीनाम् एकस्मिन् विषये वेदनोपदेश-पर-वाक्येषु प्रयोगाद् अवगम्यते। तथाहि---मनो ब्रह्मेत्य् उपासीत इत्य् उपासिनोपक्रान्तोऽर्थः। भाति च तपति च कीर्त्या यशसा ब्रह्म-वर्चसेन य एवं वेद इति विदिनोपसंह्रियते। तथा--- यस् तद् वेद यत् स वेद स मयैतद् उक्तः इत्य् उपक्रमे विदिनोक्तं रैक्वस्य ज्ञानम्, अनु म एतां भगवो देवतां शाधि यां देवताम् उपाःसे इत्य् उपासिनोपसंह्रियते। तथा--- ब्रह्म-विद् आप्नोति परम् इत्य् आदि वाक्य-समानार्थेषु वाक्येषु, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, ततस् तु तं पश्यति निष्कलं ध्यायमानः इत्य् आदिषु ध्यायतिना वेदनम् अभिधीयते। ध्यानं च चिन्तनम्। चिन्तनं च स्मृति-सन्तति-रूपम्। न स्मृति-मात्रम्। उपास्तिर् अपि तद्-एकार्थः, एकाग्र-चित्त-वृत्तिनैर् अन्तर्ये प्रयोग-दर्शनात्। तद्-उभयैकार्थ्याद् असकृद् आवृत्त-सन्तत-स्मृतिर् इह, ब्रह्म वेद ब्रह्मैव भवति, ज्ञात्वा देवं मुच्यते सर्व-पाशैः इत्य् आदिषु वेदनादि-शब्दैर् अभिधीयत इति निश्चीयते॥१॥

Link copied

४७१ लिङ्गाच् च॥४।१।२॥

Link copied

लिङ्ग-स्मृतिः। स्मृतेश् चायम् अर्थोऽवगम्यते। स्मर्यते हि मोक्ष-साधन-भूतं वेदनं स्मृति-सन्तति-रूपं, तद्-रूप-प्रत्यये चैका सन्ततिश् चान्यनिः स्पृहा। तद्-ध्यानं प्रथमैः षड्भिर् अङ्गैर् निष्पाद्यते तथा, इति। तस्माद् असकृद् आवृत्तम् एव वेदनं शास्त्रार्थः॥२॥ इत्य् आवृत्य्-अधिकरणम्॥१॥

Link copied

अथ आत्मत्वोपासनाधिकरणम्॥२॥

Link copied

४७२ आत्मेति तूपगच्छन्ति ग्राहयन्ति च॥४।१।३॥

Link copied

इदम् इदानीं चिन्त्यते--- किम् उपास्यं ब्रह्मोपासितुर् अन्यत्वेनोपास्यम्, उतोपासितुर् आत्मत्वे नेति। किं युक्तम्। अन्यत्वेनेति। कुतः। उपासितुः प्रत्यगात्मनोऽर्थन्तरत्वात् ब्रह्मणः। अर्थान्तरत्वं च--- अधिकं तु भेद-निर्देशात्, अधिकोपदेशात्, नेतरोऽनुपपत्तेः इत्य् आदिषूपपादितम्। यथावस्थितं च ब्रह्मोपास्यम्। अयथोपासने हि ब्रह्म-प्राप्तिर् अप्य् अयथा-भूता स्यात्, यथा-क्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति इति न्यायात्। अतोऽन्यत्वेनोपास्यम् इति॥

Link copied

एवं प्राप्तेऽभिधीयते--- आत्मेति त्व् इति। तु-शब्दोऽवधारणे। उपासितुर् आत्मेत्य् एवोपास्यम्, उपासिता प्रत्यगात्मा स्व-शरीरस्य स्वयं यथा आत्मा तथा स्वात्मनोऽपि परं ब्रह्मात्मेत्य् अवोपासीतेत्य् अर्थः। कुतः। एवं ह्य् उपगच्छन्ति पूर्वे उपासितारः, त्वं वा अहम् अस्मि भगवो देवते अहं वै त्वम् असि, इति। उपासितुर् अर्थान्तर-भूतं ब्रह्मोपासितारोऽहम् इति कथम् अभ्युपगच्छन्तीत्य् अत्राह--- ग्राहयन्ति चेति। इमम् अर्थम् अविरुद्धम् उपासितॄन् ग्राहयन्ति शास्त्राणि, तान् प्रत्य् उपपादयन्तीत्य् अर्थः। य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः इति; तथा--- सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः ऐतदात्म्यम् इदं सर्वम्, सर्वं खल्व् इदं ब्रह्म तज् जलान् इति, इति च सर्वस्य चिद्-अचिद्-वस्तुनस् तज्-जत्वात् तल्-लत्वात् तद्-अनत्वात् तन्-नियाम्यत्वात् तच्-छरीरत्वाच् च सर्वस्यायम् आत्मा। अतः स त आत्मा। अतो यथा प्रत्यगात्मनः स्व-शरीर-प्रत्यात्मत्वाद् देवोऽहं मनुष्योऽहम् इत्य् अनुसन्धानम्; तथा प्रत्यगात्मनोऽप्य् आत्मत्वात् परमात्मनस् तस्याप्य् अहम् इत्य् एवानुसन्धानं युक्तम् इति। एवं शास्त्रैर् उपपादितं सर्व-बुद्धीनां ब्रह्मैकनिष्ठत्वेन सर्व-शब्दानां ब्रह्मैकनिष्ठत्वम् अभ्युपगच्छन्तः, त्वं वा अहम् अस्मि भगवो देवते अहं वै त्वम् असि भगवो देवते, इति व्यतिकरेणोक्तवन्तः। एवं च--- अथ योऽन्यां देवताम् उपास्ते अन्योऽसावन्योऽहम् अस्मीति न स वेद, अकृत्स्नो ह्य् एष आत्मेत्य् एवोपासीत, सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद, इत्य् आत्मत्वाननुसन्धान-निषेधः, पृथगात्मानं प्रेरितारं च मत्वा, इति पृथक्त्वानुसन्धान-विधानं चाविरुद्धम्। अहम् इति स्वात्मतयानुसन्धानाद् अन्यत्वानुसन्धान-निषेधो रक्षितः। स्व-शरीरात् स्वात्मनोऽधिकत्वानुसन्धानवत् स्वात्मनोऽपि परमात्मनोऽधिकत्वानुसन्धानात् पृथक्त्वानुसन्धान-विधानं च रक्षितम्। अधिकस्य ब्रह्मणः प्रत्यगात्मन आत्मत्वात् तस्य च ब्रह्म-शरीरत्वान् निषेध-वाक्ये, अकृत्स्नो ह्य् एषः, इत्य् उक्तम्। अत उपासितुर् आत्मत्वेन ब्रह्मोपास्यम् इति स्थितम्॥३॥ इत्य् आत्मत्वोपासनाधिकरणम्॥२॥

Link copied

अथ प्रतीकाधिकरणम्॥३॥

Link copied

४७३ न प्रतीके न हि सः॥४।१।४॥

Link copied

मनो ब्रह्मेत्य् उपासीत, स यो नाम ब्रह्मेत्य् उपास्ते, इत्य् आदि प्रतीकोपासनेष्व् अप्य् आत्मत्वानुसन्धानं कार्यम् उत नेति चिन्तायां, मनो ब्रह्मेत्य् उपासीतेति ब्रह्मोपासनत्व-साम्याद् ब्रह्मणश् चोपासितुर् आत्मत्वाद् आत्मेत्य् एवोपासीतेति॥ एवं प्राप्तेऽभिधीयते--- न प्रतीक इति। प्रतीके नात्मत्वानुसन्धानं कार्यम्। न हि सः। न ह्य् उपासितुर् आत्मा प्रतीकः। प्रतीकोपासनेषु प्रतीक एवोपास्यः, न ब्रह्म। ब्रह्म तु तत्र दृष्टि-विशेषण-मात्रम्। प्रतीकोपासनं हि नामाब्रह्मणि ब्रह्म-दृष्ट्यानुसन्धानम्। तत्रोपास्यस्य प्रतीकस्योपासितुर् आत्मत्वाभावान् न तथानुसन्धेयम्॥४॥

Link copied

नन्व् अत्रापि ब्रह्मैवोपास्यं ब्रह्मण उपास्यत्व-सम्भवे मन-आदीनाम् अचेतनानाम् अल्प-शक्तीनां चोपास्यत्वाश्रयणस्यान्याय्यत्वात्। अतो मन-आदि-दृष्ट्या ब्रह्मैवोपास्यम् इति। अत आह---

Link copied

४७४ ब्रह्म-दृष्टिर् उत्कर्षात्॥४।१।५॥

Link copied

मन-आदिषु ब्रह्म-दृष्टिर् एव युक्ता, न ब्रह्मणि मन-आदि-दृष्टिः। ब्रह्मणो मन-आदिभ्य उत्कर्षात्। तेषां च विपर्ययात्। उत्कृष्टे हि राजनि भृत्य-दृष्टिः प्रत्यवाय-करी। भृत्ये तु राज-दृष्टिर् अभ्युदयाय॥५॥ इति प्रतीकाधिकरणम्॥३॥

Link copied

अथ आदित्यादि-मत्य्-अधिकरणम्॥४॥

Link copied

४७५ आदित्यादि-मतयश् चाङ्ग उपपत्तेः॥४।१।६॥

Link copied

य एवासौ तपति तम् उद्गीथम् उपासीत, इत्य् आदिषु कर्माङ्गाश्रयेषूपासनेषु संशयः--- किम् उद्गीथादौ कार्मङ्गे आदित्यादि-दृष्टिः कर्तव्या, उतादित्यादिषूद्गीथादि-दृष्टिर् इति। उत्कृष्ट-दृष्टिर् निकृष्टे कर्तव्येति न्यायात्। उद्गीथादीनां च फल-साधन-भूत-कर्माङ्गत्वेनाफलेभ्य आदित्यादिभ्यः उत्कृष्टत्वाद् आदित्यादिषूद्गीथादि-दृष्टिः, इति प्राप्तेऽभिधीयते---आदित्यादि-मतयश् चाङ्ग इति। चशब्दोऽवधारणे। क्रत्व्-अङ्गे उद्गीथादाव् आदित्यादि-दृष्टय एव कार्याः। कुतः। उपपत्तेः--- आदित्यादीनाम् एवोत्कृष्टत्वोपपत्तेः। आदित्यादि-देवताराधन-द्वारेण हि कर्मणाम् अपि फल-साधनत्वम्। अतस् तद्-दृष्टिर् उद्गीथाद्य्-अङ्गे॥६॥ इत्य् आदित्यादि-मत्य्-अधिकरणम्॥४॥

Link copied

अथ आसीनाधिकरणम्॥५॥

Link copied

४७६ आसीनः सम्भवात्॥४।१।७॥

Link copied

मोक्ष-साधनतया वेदान्त-शास्त्रैर् विहितं ज्ञानं ध्यानोपासनादि-शब्द-वाच्यम् असकृद् आवृत्तं सन्तत-स्मृति-रूपम् इत्य् उक्तम्। तद्-अनुतिष्ठन्न् आसीनः शयानस् तिष्ठन् गच्छंश् च विशेषाभावाद् अनियमेनानुतिष्ठेत्, इति प्राप्त उच्यते--- आसीन इति। आसीनः उपासनम् अनुतिष्ठेत्। कुतः। सम्भवात्--- आसीनस्यैव ह्य् एकाग्र-चित्ततासम्भवः। स्थितिगत्योः प्रयत्न-सापेक्षत्वात्, शयने च निद्रासम्भवात्। पश्चार्ध-धारण-प्रयत्न-निवृत्तये सापाश्रये आसीनः कुर्यात्॥७॥

Link copied

४७७ ध्यानाच् च॥४।१।८॥

Link copied

निदिध्यासितव्यः इति ध्यान-रूपत्वाद् उपासनस्य, एकाग्र-चित्ततावश्यम्भाविनी। ध्यानं हि विजातीय-प्रत्ययान्तराव्यवहितम् एक-चिन्तनम् इत्य् उक्तम्॥८॥

Link copied

४७८ अचलत्वं चापेक्ष्य॥४।१।९॥

Link copied

निश्चलत्वं चापेक्ष्य पृथिव्य्-अन्तरिक्षादिषु ध्यान-वाचो-युक्तिर् दृश्यते, ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षं, ध्यायतीव द्यौः, ध्यायन्तीवापो, ध्यायन्तीव पर्वताः इति। अतः पृथिवी-पर्वतादिवद् एकाग्र-चित्ततया निश्चलत्वम् उपासकस्यासीनस्यैव सम्भवेत्॥९॥

Link copied

४७९ स्मरन्ति च॥४।१।१०॥

Link copied

स्मरन्ति चासीनस्यैव ध्यानं--- शुचौ देशे प्रतिष्ठाप्य स्थिर-मासनम् आत्मनः। नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम्। तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः। उपविश्यासने युञ्ज्याद् योगमात्म-विशुद्धये॥ इति॥१०॥

Link copied

४८० यत्रैकाग्रता तत्राविशेषात्॥४।१।११॥

Link copied

एकाग्रतातिरिक्त-देश-काल-विशेषाश्रवणाद् एकाग्रतानुकूलो यो देशः कालश् च, स एवोपासनस्य देशः कालश् च। समे शुचौ शर्करा-वह्नि-वालुका-विवर्जिते इति वचनम् एकाग्रतैकान्त-देशम् आह, न तु देशं नियच्छति, मनोऽनुकूले इति वाक्य-शेषात्॥१॥ इत्य् आसीनाधिकरणम्॥५॥

Link copied

अथ आप्रयाणाधिकरणम्॥६॥

Link copied

४८१ आप्रयाणात् तत्रापि हि दृष्टम्॥४।१।१२॥

Link copied

तद् इदम् अपवर्ग-साधनम् उक्त-लक्षणम् उपासनम् एकाह एव सम्पाद्यम्, उताप्रयाणात् प्रत्यहम् अनुवर्तनीयम् इति विशये, एकस्मिन्न् एवाहनि शास्त्रार्थस्य कृतत्वात् तावतैव परिसमापनीयम्। इति प्राप्त उच्यते--- आप्रयाणाद् इति। आमरणाद् अनुवर्तनीयम्। कुतः। तत्रापि हि दृष्टम्--- उपासनोद्योग-प्रभृत्य्-आप्रयाणान् मध्ये यः कालः, तत्र सर्वत्रापि दृष्टम् उपासनं--- स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्म-लोकम् आभिसम्पद्यते इति॥२॥ इत्य् आप्रयाणाधिकरणम्॥६॥

Link copied

अथ तद्-अधिगमाधिकरणम्॥७॥

Link copied

४८२ तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशात्॥४।१।१३॥

Link copied

एवं विद्या-स्वरूपं विशोध्य विद्या-फलं चिन्तयितुम् आरभते; ब्रह्म-विद्या-प्राप्तौ पुरुषस्योत्तर-पूर्वाघयोर् अश्लेष-विनाशौ श्रूयेते तद् यथा पुष्कर-पलाश आपो न श्लिष्यन्ते एवम् एवंविदि पापं कर्म न श्लिष्यते--- तस्यैवात्मा पद-वित्तं विदित्वा न कर्मणा लिप्यते पापकेन इत्य् उत्तराघाश्लेषः, तद् यथेषीक-तूल-मग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते, क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे इति पूर्वाघ-विनाशः। एताव् अश्लेष-विनाशौ विद्या-फल-भूताव् उपपद्येते, नेति संशयः। किं युक्तम्। नोपपद्यते इति। कुतः। नाभुक्तं क्षीयते कर्म कल्पकोटिशतैर् अपि, इत्य् आदि शास्त्र-विरोधात्। अश्लेष-विनाश-व्यपदेशस् तु मोक्ष-साधन-भूत-विद्या-विधायि-वाक्य-शेष-गतः कथञ्चिद् विद्या-स्तुति-प्रतिपादनेनाप्य् उपपद्यते। न च विद्या पूर्वोत्तराघयोः प्रायश्चित्ततया विधीयते; येन प्रायश्चित्तेनाघ-विनाश उच्यते। विद्या हि ब्रह्म-विद् आप्नोति परम ब्रह्म वेद ब्रह्मैव भवति इति ब्रह्म-प्राप्त्य्-उपायतया विधीयते। अतो विद्यार्थवादोऽयम् अघ-विनाशाश्लेष-व्यपदेश इति॥

Link copied

एवं प्राप्तेऽभिधीयते तद्-अधिगम इति। विद्या-प्राप्तौ पुरुषस्य विद्या-माहात्म्याद् उत्तर-पूर्वाघयोर् अश्लेष-विनाशाव् उपपद्येते। कुतः। एवंविधं हि विद्या-माहात्म्यम् अवगम्यते एवंविदि पापं कर्म न श्लिष्यते--- एवं हास्य सर्वे पाप्मानः प्रदूयन्ते इत्य् आदि व्यपदेशात्। न च नाभुक्तं क्षीयते कर्म इत्य् अनेन शास्त्रेणास्य विरोधः, भिन्न-विषयत्वात्। तद् धि कर्मणां फल-जनन-सामर्थ्य-द्रढिम-विषयम्। एतत् तूत्पन्नाया विद्यायाः प्राकृतानां पाप्मनां फल-जनन-शक्ति-विनाश-सामर्थ्यम् उत्पत्स्यमानानां च फल-जनन-शक्त्य्-उत्पत्ति-प्रतिबन्ध-करण-सामर्थ्यं च प्रतिपादयतीति द्वयोर् विषयो भिद्यते। यथा अग्नि-जलयोर् औष्ण्य-तन्-निवारण-सामर्थ्य-विषययोर् द्वयोः प्रमाणयोर् अपि विषय-भेदात् प्रामाण्यम्; एवम् अत्रापीति न कश्चिद् विरोधः। अघस्याश्लेष-करणं--- वैदिक-कर्मायोग्यता-वासना-प्रत्यवाय-हेतु-शक्त्य्-उत्पत्ति-प्रतिबन्ध-करणम्। अघानि हि कृतानि पुरुषस्य वैदिक-कर्मायोग्यतां, सजातीय-कर्मान्तरारम्भ-रुचिं, प्रत्यवायं च कुर्वन्ति। अघस्य विनाश-करणम्-उत्पन्नायास् तच्-छक्तेर् विनाश-करणम्। शक्तिर् अपि परम-पुरुषाप्रीतिर् एव। तद् एवं विद्या वेदितुर् वेद्यात्यर्थ-प्रियत्वेन स्वयम् अपि निरतिशय-प्रिया सती वेद्य-भूत-परम-पुरुषाराधन-स्वरूपा पूर्व-कृताघ-सञ्चय-जनित-परम-पुरुषाप्रीतिं विनाशयति; सैव विद्या स्वोत्पत्त्य्-उत्तर-काल-भाव्य्-अघ-निमित्त-परम-पुरुषाप्रीत्य्-उत्पत्तिं च प्रतिबध्नाति। तद् इदम् अश्लेष-वचनं प्रामादिक-विषयं मन्तव्यम्; नाविरतो दुश्चरितात् इत्यादिभिः शास्त्रैर् आप्रयाणाद् अहर् अहर् उत्पद्यमानाया उत्तरोत्तरातिशय-भागिन्याः विद्यायाः दुश्चरित-विरति-निष्पाद्यत्वावगमात्॥३॥ इति तद्-अधिगमाधिकरणम्॥७॥

Link copied

अथ इतराधिकरणम्॥८॥

Link copied

४८३ इतरस्याप्य् एवम् असंश्लेषः पाते तु॥४।१।१४॥

Link copied

उत्तर-पूर्वाघयोर् विद्यया अश्लेष-विनाशाव् उक्तौ। इतरस्य-पुण्यस्यापि, एवम्--- उक्तेन न्यायेनाश्लेष-विनाशौ विद्यया स्याताम्, विद्या-फल-विरोधित्व-सामान्याद् व्यपदेशाच् च। भवति च व्यपदेशः उभे सुकृत-दुष्कृते निर्दिश्य-सर्वे पाप्मानोऽतो निवर्तन्ते इति, तत्-सुकृत-दुष्कृते धूनुते इति च। मुमुक्षोर् अनिष्ट-फलत्वात् सुकृतस्यापि पाप्म-शब्देन व्यपदेशः। सुकृतस्यापि शास्त्रीयत्वात् तत्-फलस्य केषाञ्चिद् इष्टत्व-दर्शनाच् च विद्यया अविरोध-शङ्कां निवर्तयितुम् अतिदेशः। ननु विदुषोऽपि सेतिकर्तव्यता कोपासन-निर्वृत्तये वृष्ट्य्-अन्नादि-फलानीष्टान्य् एव। कथं तेषां विरोधाद् विनाश उच्यते। तत्राह--- पाते त्व् इति। शरीर-पाते तु तेषां विनाशः; शरीर-पाताद् ऊर्ध्वं तु विद्यानुगुण-दृष्ट-फलानि सुकृतानि नश्यन्तीत्य् अथः॥१४॥ इति इतराधिकरणम्॥८॥

Link copied

अथ अनारब्ध-कार्याधिकरणम्॥९॥

Link copied

४८४ अनारब्ध-कार्ये एव तु पूर्वे तद्-अवधेः॥४।१।१५॥

Link copied

ब्रह्म-विद्योत्पत्तेः पूर्वोत्तर-भाविनोः सुकृत-दुष्कृतयोर् अश्लेष-विनाशाव् उक्तौ; ततः पूर्व-भाविनोः सुकृत-दुष्कृतयोः किम् अविशेषेण विनाशः, उतानारब्ध-कार्ययोर् एवेति विशये, सर्वे पाप्मानः प्रदूयन्ते इति विद्या-फलस्याविशेष-श्रवणाद् विद्योत्पत्त्य्-उत्तर-काल-भाविन्याश् च शरीर-स्थितेः कुलाल-चक्र-भ्रमणादिवत् संस्कार-वशाद् अप्य् उपपत्तेर् अविशेषेण, इति प्राप्ते उच्यते--- अनारब्ध-कार्ये एव तु पूर्वे इति। विद्योत्पत्तेः पूर्वे सुकृत-दुष्कृते अनारब्ध-कार्ये--- अप्रवृत्त-फले एव विद्यया विनश्यतः। कुतः। तद्-अवधेः--- तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ सम्पत्स्ये इति शरीर-पात-विलम्बावधिश्रुतेः। न च पुण्यापुण्य-कर्म-जन्य-भगवत्-प्रीत्य्-अप्रीति-व्यतिरेकेण शरीर-स्थिति-हेतु-भूत-संस्कार-सद्-भावे प्रमाणम् अस्ति॥१५॥ इत्य् अनारब्ध-कार्याधिकरणम्॥९॥

Link copied

अथ अग्नि-होत्राद्य्-अधिकरणम्॥१०॥

Link copied

४८५ अग्निहोत्रादि तु तत्-कार्यायेव तद्-दर्शनात्॥४।१।१६॥

Link copied

इतरस्याप्य् एवम् असंश्लेष इति विद्या-बलात् सुकृतस्याप्य् असंश्लेष उक्तः। अग्निहोत्रादीनां नित्य-नैमित्तिकानां स्वाश्रम-धर्माणाम् अपि सुकृतत्व-सामान्येन तत्-फलस्याश्लेषाद् अनिच्छतोऽननुष्ठाने प्राप्त उच्यते--- अग्निहोत्रादि त्व् इति। तु-शब्दः सुकृतान्तरेभ्यो विशेषणार्थः। अग्निहोत्राद्य्-आश्रम-धर्माः फलाश्लेषासम्भवाद् अनुष्ठेया एव। तद्-असम्भवश् च तत्-कार्यार्थत्वात् तेषाम्। विद्याख्य-कार्यायैव हि विदुषोऽग्निहोत्राद्य्-अनुष्ठानम्। कथम् इदम् अवगम्यते। तद्-दर्शनात्; दृश्यते हि तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इत्य् आदिनाग्निहोत्रादीनां विद्या-साधनत्वम्। विद्यायाश् चाप्रयाणाद् अभ्यासाधेयातिशयाया अहरहरुत्पाद्यत्वात्तदुत्पत्त्यर्थमाश्रमकर्माप्यहरहरनुष्ठेयमेव। अन्यथाश्रम-कर्म-लोपे दूषितान्तःकरणस्य विद्योत्पत्तिर् एव न स्यात्॥६॥

Link copied

यद्य् अग्निहोत्रादि-साधु-कृत्या विद्योत्पत्त्य्-अर्थाः, विद्योत्पत्तेः प्राचीनं च सुकृतं यावत् सम्पातम् उषित्वा प्राप्यान्तं कर्मणः इत्य् अनुभवेन विनष्टं भुक्त-शिष्टं च प्रारब्ध-फलम्; सुहृदः साधु-कृत्याम् इत्य् अस्य को विषयः। तत्राह---

Link copied

४८६ अतोऽन्यापि ह्य् एकेषाम् उभयोः॥४।१।१७॥

Link copied

अतः अग्निहोत्रादि-साधु-कृत्याया विद्योत्पत्त्य्-अर्थाया अन्यापि विद्याधिगमात् पूर्वोत्तरयोर् उभयोर् अपि पुण्य-कर्मणोः प्रबल-कर्म-प्रतिबद्ध-फला साधु-कृत्यानन्ता सम्भवत्य् एव, तद्-विषयम् इदम् एकेषां शाखिनां वचनं, तस्य पुत्रा दायम् उपयन्ति सुहृदः साधु-कृत्याम् इति। विद्ययाश्लेष-विनाश-श्रुतिश् च तद्-विषया॥१७॥

Link copied

अनुष्ठितस्यापि कर्मणः फल-प्रतिबन्ध-सम्भवं पूर्वोक्तं स्मारयति---

Link copied

४८७ यद् एव विद्ययेति हि॥४।१।१८॥

Link copied

यद् एव विद्यया करोति\॥।तद् एव वीर्यवत्तरम् इत्य् उद्गीथ-विद्यायाः क्रतु-फलाप्रतिबन्ध-फलत्व-वचनेनानुष्ठितस्यापि कर्मणः फल-प्रतिबन्धः सूच्यते हि। अतो विदुषोऽनुष्ठित-प्रतिबद्ध-फल-विषयम्, सुहृदः साधु-कृत्याम् इति शाट्यायनिकम्॥८॥ इत्य् अग्निहोत्राद्य्-अधिकरणम्॥१०॥

Link copied

अथ इतर-क्षपणाधिकरणम्॥११॥

Link copied

४८८ भोगेन त्वितरे क्षपयित्वाथ सम्पद्यते॥४।१।१९॥

Link copied

ययोः पुण्य-पापयोर् अश्लेष-विनाशायुक्तौ, ताभ्याम् इतरे आरब्ध-कार्ये पुण्य-पापे किं विद्या-योनि-शरीरावसाने, उत तच्-छरीरावसाने शरीरान्तरावसाने वेत्य् अनियम इति संशये, तस्य तावद् एव चिरं यावन् न विमोक्ष्ये इति तच्-छरीर-विमोक्षावसानत्व-श्रवणात् तद्-अवसाने। इति प्राप्त उच्यते--- भोगेन त्व् इति। तु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। इतरे--- आरब्ध-कार्ये पुण्य-पापे स्वारब्ध-फल-भोगेन क्षपयित्वा तत्-फल-भोग-समाप्त्य्-अनन्तरं ब्रह्म सम्पद्यते। ते च पुण्य-पापे एक-शरीरोपभोग्य-फले चेत्, तच्-छरीरावसाने सम्पद्यते; अनेक-शरीर-भोग्य-फले चेत्, तद्-अवसाने सम्पद्यते; भोगेनैव क्षपयितव्यत्वाद् आरब्ध-फलयोः कर्मणोः। तस्य तावद् एव चिरं यावन् न विमोक्ष्ये इति च भोगेन तयोः कर्मणोर् विमोक्ष उच्यते, देहावधि-नियमाश्रवणात्। तद् एवं ब्रह्म-विद्यायाः प्राग् अनुष्ठितम् अभुक्त-फलम् अनारब्ध-फलं पुण्य-पाप-रूपं कर्मानादि-काल-सञ्चितम् अनन्तं विद्या-माहात्म्याद् विनश्यति; विद्यारम्भोत्तर-कालम् अनुष्ठितं च न श्लिष्यति तत्र पुण्य-रूपं सर्व-विदुषः सुहृदो गृह्णन्ति, पापं च द्विषन्त इति निरवद्यम्॥१९॥ इति इतर-क्षपणाधिकरणम्॥११॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-शारीरक-मीमांसा-भाष्ये चतुर्थस्याध्यायस्य प्रथमः पादः।

Link copied

चतुर्थाध्याये

Link copied

द्वितीयः पादः

वाग्-अधिकरणम्॥१॥

Link copied

४८९ वाङ्-मनसि दर्शनाच् छब्दाच् च॥४।२।१॥

Link copied

इदानीं विदुषो गति-प्रकारं चिन्तयितुम् आरभते। प्रथमं तावद् उत्क्रान्तिश् चिन्त्यते। तत्रेदम् आम्नायते--- अस्य सोम्य पुरुषस्य प्रयतो वाङ्-मनसि सम्पद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् इति। अत्र वाङ्-मनसि सम्पद्यते इति वाचो मनसि सम्पत्ति-श्रुतिः किं वाग्-वृत्ति-मात्र-विषया, उत वाग्-विषयेति विशये वृत्ति-मात्र-विषयेति युक्तम्। कुतः। मनसो वाक्-प्रकृतित्वाभावात् तत्र वाक्-स्वरूप-सम्पत्त्य्-असम्भवात्। वाग्-आदि-वृत्तीनां मनो-ऽधीनत्वेन वृत्ति-सम्पत्ति-श्रुतिः कथञ्चिद् उपपद्यत इति। एवं प्राप्तेऽभिधीयते--- वाङ्-मनसीति। वाक्-स्वरूपम् एव मनसि सम्पद्यते। कुतः। दर्शनात्--- दृश्यते हि वाग्-इन्द्रिय उपरतेऽपि मनः-प्रवृत्तिः। वृत्ति-मात्र-सम्पत्त्यापि तद् उपपद्यत इति चेत्, तत्राह--- शब्दाच् चेति। वाङ्-मनसि सम्पद्यत इति वाक्-स्वरूप-सम्पत्ताव् एव हि शब्दः, न वृत्ति-मात्र-सम्पत्तौ। न हि तदानीं वृत्त्य्-उपरमे वाग्-इन्द्रियं प्रमाणान्तरेणोपलभ्यते; येन वृत्ति-मात्रम् एव सम्पद्यत इत्य् उच्येत। यद् उक्तं मनसो वाक्-प्रकृतित्वाभावाद् वाचो मनसि सम्पत्तिर् नोपपद्यत इति। तत् वाङ्-मनसि सम्पद्यत इति वचनात् मनसा वाक् संयुज्यते, न तु तत्र लीयत इति परिहर्तव्यम्।

Link copied

४९० अत एव सर्वाण्य् अनु॥४।२।२॥

Link copied

यतो वाचो मनसा संयोग-मात्रं सम्पत्तिः, न तु लयः, अत एव वाचम् अनु सर्वेषाम् इन्द्रियाणां मनसि सम्पत्ति-श्रुतिर् उपपद्यते तस्माद् उपशान्त-तेजा (अ) पुनर्भवम् इन्द्रियैर् मनसि सम्पद्यमानैः इति॥२॥ इति वाग्-अधिकरणम्॥

Link copied

अथ मनो-ऽधिकरणम्॥२॥

Link copied

४९१ तन्-मनः-प्राण उत्तरात्॥४।२।३॥

Link copied

तत् सर्वेन्द्रिय-संयुक्तं मनः प्राणे सम्पद्यते--- प्राणेन संयुज्यते न मनो-वृत्ति-मात्रम्। कुतः। उत्तरात्--- मनः-प्राणे इति वाक्यात्॥ अधिका शङ्का तु--- अन्न-मयं हि सोम्य मनः इति वचनान् मनसोऽन्न-प्रकृतित्वम् अवगम्यते; अन्नस्य च--- ता अन्नम् असृजन्त इत्य् अम्मयत्वं सिद्धम्, आपो मयः प्राणः इति चाप्-प्रकृतित्वं प्राणस्यावगम्यते, अतो मनः प्राणे सम्पद्यत इत्य् अत्र प्राण-शब्देन प्राण-प्रकृति-भूता अपो निर्दिश्य तासु मनः सम्पत्ति-प्रतिपादने परम्परया स्व-कारणे लय इति सम्पत्ति-वचनम् उपपन्नं भवतीति॥ परिहारस् तु--- अन्न-मयं हि सोम्य मनः, आपो-मयः प्राणः इति मनः-प्राणयोर् अन्नेनाद्भिश् चाप्यायनम् उच्यते, न तत्-प्रकृतित्वम्; आहङ्कारिकत्वान् मनसः, आकाश-विकारत्वाच् च प्राणस्य। प्राण-शब्देनापां लक्षणा च स्याद् इति॥३॥ इति मनोधिकरणम्॥२॥

Link copied

अथ अध्यक्षाधिकरणम्॥३॥

Link copied

४९२ सोऽध्यक्षे तद्-उपगमादिभ्यः॥४।२।४॥

Link copied

यथा--- वाङ्-मनसि सम्पद्यते, मनः प्राणे इति वचनानुरोधेन मनः-प्राणयोर् एव वाङ्-मनसयोः सम्पत्तिः, तथा-प्राणस् तेजसि इति वचनात् तेजस्य् एव प्राणः सम्पद्यते। इति प्राप्त उच्यते--- सोऽध्यक्षे इति। सः प्राणः, अध्यक्षे करणाधिपे जीवे सम्पद्यते। कुतः। तद्-उपगमादिभ्यः--- प्राणस्य जीवोपगमस् तावच् छ्रयते, एवम् एवेमम् आत्मानम् अन्त-काले सर्वे प्राणा अभिसमायन्ति इति। तथा जीवेन सह प्राणस्योत्क्रान्तिः श्रूयते तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति इति। प्रतिष्ठा च जीवेन सह श्रूयते, कस्मिन्न् उत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि इति। एवं जीवेन संयुज्य तेन सह तेजः सम्पत्तिर् इह प्राणस् तेजसि इत्युच्यते; यथा यमुनायाः गङ्गया संयुज्य सागर-गमनेऽपि यमुना सागरं गच्छतीति वचो न विरुध्यते, तद्वत्॥४॥ इत्य् अध्यक्षाधिकरणम्॥३॥

Link copied

अथ भूताधिकरणम्॥४॥

Link copied

४९३ भूतेषु तच्-छ्रुतेः ॥४।२।५॥

Link copied

प्राणस् तेजसीति जीव-संयुक्तस्य प्राणस्य तेजसि सम्पत्तिर् उक्ता; सा सम्पत्तिः किं तेजो-मात्रे, उत संहतेषु सर्वेषु भूतेष्व् इति विशये तेजो-मात्र-श्रवणात् तेजसि। इति प्राप्त उच्यते--- भूतेष्व् इति। भूतेषु सम्पद्यते। कुतः। तच्-छ्रुतेः-पृथिवी-मयः आपोमयः\॥।तेजोमयः इति जीवस्य सञ्चरतः सर्व-भूत-मयत्व-श्रुतेः॥५॥

Link copied

ननु तेजः-प्रभृतिष्व् एकैकस्मिन् क्रमेण सम्पत्ताव् अपि पृथिवी-मय इत्य् आदिका श्रुतिर् उपपद्यते, अत आह---

Link copied

४९४ नैकस्मिन् दर्शयतो हि॥४।२।६॥

Link copied

नैकस्मिन्, एकैकस्य कार्याक्षमत्वात्। दर्शयतो ह्य् अक्षमत्वं श्रुति-स्मृती--- अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतम् एकैकां करवाणि इति नाम-रूप-व्याकरण-योग्यत्वाय त्रिवृत्-करणम् उपदिश्यते। नाना-वीर्याः पृथग् भूताः ततस् ते संहतिं विना। नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः। समेत्यान्योन्य-संयोगं परस्पर-समाश्रयाः। महद्-आद्या विशेषान्ता ह्य् अण्डम् उत्पादयन्ति ते इति। अतः प्राणस् तेजसीति तेजः-शब्देन भूतान्तर-संसृष्टम् एव तेजोऽभिधीयते। अतो भूतेष्व् एव सम्पत्तिः॥७॥ इति भूताधिकरणम्॥४॥

Link copied

अथ आसृत्य्-उपक्रमाधिकरणम्॥५॥

Link copied

४९५ समाना चासृत्य्-उपक्रमाद् अमृतत्वं चानुपोष्य ॥४।२।७॥

Link copied

इयम् उत्क्रान्तिः किं विद्वद्-अविदुषोः समाना, उताविदुष एवेति चिन्तायाम्, अविदुष एवेति प्राप्तम्। कुतः। विदुषोऽत्रैवामृतत्व-वचनाद् उत्क्रान्त्य्-अभावात्। विदुषो ह्य् अत्रैवामृतत्वं श्राव्यते---यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योर्ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते इति॥ एवं प्राप्तेऽभिधीयते-समाना चासृत्य्-उपक्रमाद् इति। विदुषोऽप्य् आसृत्य्-उपक्रमाद् उत्क्रान्तिः समाना। आसृत्य्-उपक्रमात-आगत्य्-उपक्रमात्। नाडी-प्रवेशात् प्राग् इत्य् अर्थः। विदुषोऽपि हि नाडी-विशेषेणोत्क्रम्य गतिः श्रूयते-शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम भिनिःसृतैका। तयोर् ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवन्ति इति। एवं नाडी-विशेषेण गति-श्रवणाद् विदुषोऽप्य् उत्क्रान्तिर् अवर्जनीया। सा च नाडी-प्रवेशात् प्राग्-विशेषाश्रवणात् समाना। तत्-प्रवेश-दशायां च विशेषः श्रूयते--- तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मृध्नोर् वा अन्येभ्यो वा शरीर-देशेभ्यः इति। शतं चैका च हृदयस्येत्यनया श्रुत्य्-ऐकार्थ्यान् मूर्ध्नोर् निष्क्रमणं विद्वद्-विषयम्; इतरद् अविद्वद्-विषयम्। यद् उक्तं विदुषोऽत्रैवामृतत्वं श्राव्यत इति; तत्रोच्यते--- अमृतत्वं चानुपोष्येति। चशब्दोऽवधारणे। अनुपोष्य शरीरेन्द्रियादि-सम्बन्धम् अदग्ध्वैव, यद् अमृतत्वम्--- उत्तर-पूर्वाघयोर् अश्लेष-विनाश-रूपं प्राप्यते तद् उच्यते--- यदा सर्वे प्रमुच्यन्ते इत्य् आदिकया श्रुत्येत्य् अर्थः। अत्र ब्रह्म समश्नुत इति च उपासन-वेलायां यो ब्रह्मानुभवः, तद्-विषयम् इत्य् अभिप्रायः॥

Link copied

४९६ तद्-आपीतेः संसार-व्यपदेशात् ॥४।२।८॥

Link copied

अवश्यं च तत्--- अमृतत्वम् अदग्ध-देह-सम्बन्धस्यैवेति विज्ञेयम्। कुतः। आपीतेः संसार-व्यपदेशात्। अपीतिः अप्ययः। ब्रह्म-प्राप्तिः। सा चार्चिरादिना मार्गेण देश-विशेषं गत्वेति वक्ष्यते। आतद्-अवस्था-प्राप्तेः संसारः देह-सम्बन्ध-लक्षणो हि व्यपदिश्यते--- तस्य तावद् एव चिरं यावन् न विमोक्ष्येऽथ सम्पत्स्ये इति, अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर् मुखात् प्रमुच्य। धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्म-लोकम् अभिसम्भवानि इति च॥८॥

Link copied

४९७ सूक्ष्मं प्रमाणतश् च तथोपलब्धेः ॥४।२।९॥

Link copied

इतश् च विदुषोऽपि बन्धो नात्र दग्धः, यतः सूक्ष्मं शरीरम् अनुवर्तते। कुत इदम् अवगम्यते। प्रमाणतस् तथोपलब्धेः--- उपलभ्यते हि देवयानेन पथा गच्छतो विदुषः, तं प्रतिब्रूयात्, सत्यं ब्रूयात् इति चन्द्रमसा संवाद-वचनेन शरीर-सद्-भावः। अतः सूक्ष्म-शरीरम् अनुवर्तते। अतश् च बन्धो न दग्धः॥९॥

Link copied

४९८ नोपमर्देनातः ॥४।२।१०॥

Link copied

अतः--- यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योर्ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते इति वचनं न बन्धोपमर्देनामृतत्वं वदति॥१०॥

Link copied

४९९ अस्यैव चोपपत्तेर् ऊष्मा ॥४।२।११॥

Link copied

अस्य--- सूक्ष्म-शरीरस्य क्वचिद् विद्यमानत्वोपपत्तेर् विदुषः प्रक्रान्त-मरणस्य मरणात् प्राग् ऊष्मा स्थूले शरीरे क्वाचित्क उपलभ्यते। न च स्थूलस्यैव शरीरस्यायम् ऊष्मा, अन्यत्रानुपलब्धेः। ततश् चोष्मणः क्वचिद् उपलब्धिर् विदुषः सूक्ष्म-शरीरस्योत्क्रान्ति-निबन्धनेति गम्यते। तस्माद् विदुषोऽप्य् आसृत्य् उप क्रमात् समानोत्क्रान्तिर् इति सुष्ठूक्तम्॥१॥

Link copied

पुनर् अपि विदुष उत्क्रान्तिर् न सम्भवतीत्य् आशङ्कय परिहृइयते---

Link copied

५०० प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्य् एकेषाम् ॥४।२।१२॥

Link copied

यद् उक्तं विदुषोऽप्य् उत्क्रान्तिः समानेति तन् नोपपद्यते, विदुष उत्क्रान्ति-प्रतिषेधात्। तथा हि--- स एतास् तेजो-मात्राः समभ्याददानो हृदयम् एवान्वपक्रामति इत्य् उपक्रम्य तेन प्रद्योतेनैष आत्मा निष्क्रामति तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति इत्य् अविदुष उत्क्रान्ति-प्रकारम् अभिधाय, अन्यन् नवतरं कल्याणतरं रूपं कुरुते इति देहान्तर-परिग्रहं चाभिधाय, प्राप्यान्तं कर्मणस् तस्य यत् किं चेह करोत्य् अयम्। तस्माल् लोकात् पुनर् एत्यस्मै लोकाय कर्मणे इति तु कामयमानः इत्य् अविद्वद्-विषयं परिसमाप्य, अथाकामयमानो योऽकामो निष्काम आप्त-काम आत्म-कामः न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्य् एति इति विदुष उत्क्रान्तिः प्रतिषिध्यते। तथा पूर्वत्र आर्तभाग-प्रश्नेऽपि विदुष उत्क्रान्ति-प्रतिषेधो दृश्यते, अप पुनर् मृत्युं जयति इति विद्वांसं प्रस्तुत्य, याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते उदस्मात् प्राणाः क्रामन्त्य् आहो न, इति पृष्टः, नेति होवाच याज्ञवल्क्योऽत्रैव समवलीयन्ते स उच्छ्वयत्याध्मातो मृतः शेते इति। अतो विद्वान् इहैवामृतत्वं प्राप्नोतीति चेत् तन् न। शारीरात् प्रत्यगात्मनः। प्राणानाम् उत्क्रान्तिर् ह्य् अत्र प्रतिषिध्यते, न शरीरात्। न तस्य प्राणा उत्क्रामन्तीत्य् अत्र तच्-छब्देन, अथाकामयमान इति प्रकृतः शारीर एव परामृश्यते; नाश्रुतं शरीरम्। तस्येति षष्ठया प्राणानां सम्बन्धित्वेन शारीरो निर्दिष्टः; नतूत्क्रान्त्य् अपादानत्वेन। उत्क्रान्त्य्-अपादानं तु शरीरम् एवेति चेन् न, अपादानापेक्षायाम् अश्रुताच् छरीरात् सम्बन्धितया श्रुतस्यात्मन एव सन्निहितत्वेनापादानतयापि ग्राह्यत्वात्। किं च प्राणानां जीव-सम्बन्धितयैव प्रज्ञातानां तत्-सम्बन्ध-कथने प्रयोजनाभावात् सम्बन्ध-मात्र-वाचिन्या षष्ठया अपादानम् एव विशेष इति निश्चीयते; यथा नटस्य श्रुणोतीति। न चात्र विवदितव्यम्। स्पष्टो ह्य् एकेषां--- माध्यन्दिनानाम् आम्नाये शारीरो जीव एवापादानम् इति, योऽकामो निष्काम आप्त-काम आत्म-कामो न तस्मात् प्राणा उत्क्रामन्ति इति। शारीरात् प्राणानाम् उत्क्रान्ति-प्रसङ्गाभावात् तन्-निषेधो नोपपद्यत इति चेन् न, तस्य तावद् एव चिरम् इति विदुषः शरीर-वियोग-काले ब्रह्म-सम्पत्ति-वचनेन प्राणानाम् अपि तस्मिन् काले शारीराद् विदुषो वियोगः प्रसज्यते ततश् च देवयानेन पथा ब्रह्म-सम्पत्तिर् नोपपद्यत इति, न तस्य प्राणा उत्क्रामन्ति-देवयानेन पथा ब्रह्म-प्राप्तेः प्राग् जीवाद् विदुषोऽपि प्राणा न विश्लिष्यन्तीत्य् उच्यते। आर्तम्भाग-प्रश्नोऽपि यदा विद्वद्-विषयः, तदायम् एव परिहारः। स त्व् अविद्वद्-विषयः, तत्र प्रश्न-प्रतिवचनयोर् ब्रह्म-विद्या-प्रसङ्गादर्शनात्। तत्र हि ग्रहातिग्रह-रूपेणेन्द्रियेन्द्रियार्थ-स्वभावः, अपाम् अग्न्य्-अन्नत्वं, म्रियमाणस्य जीवस्य प्राणापरित्यागः, मृतस्य नाम-वाच्य-कीर्त्य्-अनुवृत्तिः, तस्य च पुण्य-पापानुगुण-गति-प्राप्तिर् इत्य् एतेऽर्थाः प्रश्न-पूर्वकं प्रत्युक्ताः। तत्र च--- अप पुनर् मृत्युं जयतीत्य् अपाम् अग्न्य्-अन्नत्व-ज्ञानाद् अग्नि-जय एव मृत्यु-जय उच्यते। अतो नात्र विदुषः प्रसङ्गः। अविदुषस् तु प्राणान् उत्क्रान्ति-वचनं, स्थूल-देहवत् प्राणा न मुञ्चन्ति, अपि तु भूत-सूक्ष्मवज् जीवं परिष्वज्य गच्छन्तीति प्रतिपादयतीति निरवद्यम्॥२॥

Link copied

५०१ स्मर्यते च॥४।२।१३॥

Link copied

स्मर्यते च विदुषोऽपि मूर्धन्य-नाड्योत्क्रान्तिः, ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्य-मण्डलम्। ब्रह्म-लोकम् अतिक्रम्य तेन याति परां गतिम् इति॥१३॥ इत्य् आसृत्य्-उपक्रमाधिकरणम्॥५॥

Link copied

अथ पर-सम्पत्य्-अधिकरणम् ॥६॥

Link copied

५०२ तानि परे तथा ह्य् आह ॥४।२।१४॥

Link copied

सकरण-ग्रामः सप्राणः करणाध्यक्षः प्रत्यगात्मा उत्क्रान्ति-वेलायां तेजः-प्रभृति-भूत-सूक्ष्मेषु सम्पद्यत इत्य् उक्तम्। सैषा सम्पत्तिर् विदुषो न विद्यत इत्य् आशङ्क्य परिहृतम्। तानि पुनर् जीव-परिष्वक्तानि भूत-सूक्ष्माणि किं यथाकर्म यथाविद्यं च स्व-कार्याय गच्छन्ति, उत परमात्मनि सम्पद्यन्त इति विशये मध्ये परमात्म-सम्पत्तौ सुख-दुःखोपभोग-रूप-कार्यादर्शनात्, तद्-उपभोगानुगुण्येन यथाकर्म यथाविद्यं च गच्छन्ति, इति प्राप्त उच्यते तानि परे इति। तानि परस्मिन्न् आत्मनि सम्पद्यन्ते। कुतः। तथा ह्य् आह श्रुतिः-तेजः परस्यां देवतायाम् इति। यथाह श्रुतिस् तद्-अनुगुणं कार्यं कल्प्यम् इत्य् अर्थः। सुषुप्ति-प्रलययोर् यथा परमात्म-सम्पत्त्या सुख-दुःखोपभोगायासविश्रमः। तद्वद् इहापि॥१४॥ इति पर-सम्पत्त्य्-अधिकरणम्॥६॥

Link copied

अथ अविभागाधिकरणम् ॥७॥

Link copied

५०३ अविभागो वचनात् ॥४।२।१५॥

Link copied

सेयं परमात्मनि सम्पत्तिः किं प्राकृत-लयवत् कारणापत्ति-रूपा, उत वाङ्-मनसि इत्य् आदिवद् अविभाग-रूपेति चिन्तायां, परमात्मनः सर्वेषां योनि-भूतत्वात् कारणापत्ति-रूपा, इति प्राप्त उच्यते--- अविभाग इति। अपृथग्-भावः-पृथग्-व्यवहारानर्ह-संसर्ग इत्य् अर्थः। कुतः। वचनात्--- तेजः परस्यां देवतायाम् इत्य् अत्रापि वाङ्-मनसि सम्पद्यत इत्य् अतः सम्पद्यत इति वचनस्यानुषङ्गात्। तस्य च संसर्ग-विशेष-वाचित्वात्। अनुषक्तस्याभिधान-वैरूप्ये प्रमाणाभावात्, उत्क्रान्ति-वेलायां कारणापत्ति-प्रयोजनाभावात् पुनस् तत्राव्यक्तादि-सृष्ट्य्-अवचनाच् च॥५॥ इत्य् अविभागाधिकरणम्॥७॥

Link copied

अथ तद्-ओकोधिकरणम् ॥८॥

Link copied

५०४ तद्-ओकोऽग्र-ज्वलनं तत्-प्रकाशित-द्वारो विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च हार्दानुगृहीतः शताधिकया ॥४।२।१६॥

Link copied

एवं गत्य्-उपक्रमावधि विद्वद्-अविदुषोः समानाकार उत्क्रान्ति-प्रकार उक्तः। इदानीं विदुषो विशेष उच्यते। तत्रेदम् आम्नायते--- शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका। तयोर् ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवन्ति इति। अनया नाडीनां शताधिकया मूर्धन्य-नाड्यैव विदुषो गमनम्, अन्याभिर् एव चाविदुषो गमनम् इत्य् अयं नियम उपपद्यते, नेति संशयः। किं युक्तम्। नियमो नोपपद्यत इति। कुतः। नाडीनां भूयस्त्वाद् अतिसूक्ष्मत्वाच् च दुर्विवेचतया पुरुषेणो पादातुम् अशक्यत्वात्। तयोर् ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवन्तीति यादृच्छिकीम् उत्क्रान्तिम् अनुवदतीति युक्तम् इति। एवं प्राप्ते प्रचक्ष्महे--- शताधिकयेति। विद्वान् शताधिकया मूर्धन्ययैव नाड्योत्क्रामति। नचास्याः विदुषो दुर्विवेचत्वम्; विद्वान् हि परम-पुरुषाराधन-भूतात्यर्थ-प्रिय-विद्या-सामर्थ्याद् विद्याशेष-भूततयात्मनोऽत्यर्थ-प्रिय-गत्य्-अनुस्मरण-योगाच् च प्रसन्नेन हार्देन परम-पुरुषेणानुगृहीतो भवति ततश् च तद्-ओकः-तस्य जीवस्य स्थानं हृदयम्, अग्र-ज्वलनं भवति--- अग्रे ज्वलनं प्रकाशनं यस्य, तद् इदम् अग्र-ज्वलनम्। परम-पुरुष-प्रसादात् प्रकाशित-द्वारो विद्वान् तां नाडी विजानातीति तया विदुषो गतिर् उपपद्यते॥६॥ इति तद्-ओकोधिकरणम्॥८॥

Link copied

अथ रश्म्य्-अनुसाराधिकरणम्॥९॥

Link copied

५०५ रश्म्य्-अनुसारी॥४।२।१७॥

Link copied

विदुषो हृदयाच् छताधिकया मूर्धन्य-नाड्या निर्गतस्यादित्य-रश्मीन् अनुसृत्यादित्य-मण्डल-गतिः श्रूयते--- अथ यत्रैतद् अस्माच् छरीराद् उत्क्रामत्य् अथैतैर् एव रश्मिभिर् ऊर्ध्व्म् आक्रमते इति। तत्र रश्म्य्-अनुसारेणैवेत्य् अयं गति-नियमः सम्भवति, नेति चिन्तायाम्, निशि मृतस्य विदुषो रश्म्य्-अनुसारासम्भवाद् अनियमः। वचनं तु पक्ष-प्राप्त-विषयम् इति प्राप्त उच्यते--- रश्म्य्-अनुसारीति। रश्म्य्-अनुसार्य् एव विद्वान् ऊर्ध्वं गच्छति। कुतः। अथैतैर् एव रश्मिभिर् इत्य् अवधारणात्; पाक्षिकत्वे ह्य् एवकारोऽनर्थकः स्यात्। यद् उक्तं निशि मृतस्य रश्म्य्-असम्भवाद् रश्मीन् अनुसृत्य गमनं नोपपद्यत इति; तन् न, निश्य् अपि सूर्य-रश्म्य्-अनुसारः सम्भवति। लक्ष्यते हि निश्य् अपि निदाघ-समये ऊष्मोपलब्ध्या रश्मि-सद्-भावः। हेमन्तादौ तु हिमाभिभवाद् दुर्दिन इवोष्मानुपलम्भः। श्रूयते च नाडी-रश्मीनां सवदान्योन्यान्वयः--- तद् यथा महा-पथ आतत उभौ ग्रामौ गच्छतीमं चामुं च एवम् एवैत आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं च अमुष्माद् आदित्यात् प्रतायन्ते त आसु नाडीषु सृप्ताः आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्न् आदित्ये सृप्ताः इति। तस्मान् निश्य् अपि रश्मि-सम्भवान् निशि मृतानाम् अपि विदुषां रश्म्य्-अनुसारेणैव ब्रह्म-प्राप्तिर् अस्त्य् एव॥७॥ इति रश्म्य्-अनुसाराधिकरणम्॥९॥

Link copied

अथ निशाधिकरणम्॥१०॥

Link copied

५०६ निशि नेति चेन् न सम्बन्धस्य यावद् देह-भावित्वाद् दर्शयति च॥४।२।१८॥

Link copied

इदम् इदानीं चिन्त्यते--- विदुषो निशि मृतस्य ब्रह्म-प्राप्तिर् अस्ति, नेति। यद्य् अपि निशायां सूर्य-रश्मि-सम्भवाद् रश्म्य्-अनुसारेण गतिर् निशायाम् अपि सम्भवति तथापि निशा-मरणस्य शास्त्रेषु गर्हितत्वात् परम-पुरुषार्थ-लक्षण-ब्रह्म-प्राप्तिर् निशामृतस्य न सम्भवति। शास्त्रेषु दिवा-मरणं प्रशस्तम्। विपरीतं निशा-मरणं-दिवा च शुक्ल-पक्षश् च उत्तरायणम् एव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम् इति। दिवा-मरण-निशा-मरणयोः प्रशस्तत्व-विपरीतत्वे चोत्तमाधम-गति-हेतुत्वेन स्याताम्। अतो निशि मरणम् अधो-गति-हेतुत्वान् न ब्रह्म-प्राप्ति-हेतुर् इति चेत् तन् न, विदुषः कर्म-सम्बन्धस्य यावद् देह-भावित्वात्। एतद् उक्तं भवति--- अनारब्ध-कार्याणाम् अधो-गति-हेतु-भूतानां कर्मणां विद्या-सम्बन्धेनैव विनाशाद् उत्तरेषां चाश्लेषात् प्रारब्ध-कार्यस्य च चरम-देहावधित्वाद् बन्ध-हेत्व्-अभावाद् विदुषो निशामृतस्यापि ब्रह्म-प्राप्तिः सिद्धैव। दर्शयति च श्रुतिः--- तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ सम्पत्स्ये इति। दिवा च शुक्ल-पक्षश् चेत्य् आदि वचनम् अविद्वद्-विषयम् ॥१८॥

Link copied

इति निशाधिकरणम्॥१०॥

Link copied

अथ दक्षिणायनाधिकरणम् ॥११॥

Link copied

५०७ अतश् चायनेपि दक्षिणे ॥४।२।१९॥

Link copied

निशि मृतस्यापि विदुषो ब्रह्म-प्राप्तौ यो हेतुर् उक्तः, तत एव हेतोर् दक्षिणेऽप्य् अयने मृतस्य ब्रह्म-प्राप्तिः सिद्धा। अधिकाशङ्का तु--- अथ यो दक्षिणे प्रमीयते पितृणाम् एव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छति इति दक्षिणायने मृतस्य चन्द्र-प्राप्ति-श्रवणाच् चन्द्रं प्राप्तानां च, तेषां यदा तत्पर्यवैत्य् अथैतम् एवाध्वानं पुनर् निवर्तन्ते इति पुनर्-आवृत्ति-श्रवणात्, भीष्मादीनां च ब्रह्म-विद्या-निष्ठानाम् उत्तरायण-प्रतीक्षादर्शनाद् दक्षिणायने मृतस्य ब्रह्म-प्राप्तिर् न सम्भवतीति॥ परिहारस् तु--- अविदुषां पितृ-याणेन पथा चन्द्रं प्राप्तानाम् एव पुनर्-आवृत्तिः, विदुषस् तु चन्द्रं प्राप्तस्यापि तस्माद् ब्रह्मणो महिमानम् आप्नोति इति वाक्य-शेषात् तस्य दक्षिणायनमृतस्य चन्द्र-प्राप्तिः ब्रह्म प्रपित्सतो विश्रम-हेतु-मात्रम् इति गम्यते। वाक्य-शेषाभावेऽपि पूर्वोक्ताद् एव बन्ध-हेत्व्-अभावाद् विदुषश् चन्द्रं प्राप्तस्यापि ब्रह्म-प्राप्तिर् अनिवार्या। भीष्मादीनां योग-प्रभावात् स्वच्छन्द-मरणानां धर्म-प्रवर्तनायोत्तरायण-प्राशस्त्य्-अप्रदर्शनार्थस् तथाविधाचारः॥९॥

Link copied

ननु च विदुषो मुमूर्षून प्रति पुनर्-आवृत्त्य्-अपुनर्-आवृत्ति-हेतुत्वेन काल-विशेष-विधिर् दृश्यते--- यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥ अग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः॥ धूमो रात्रिस् तथा कृष्णः षण्-मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते॥ शुक्ल-कृष्ण-गती ह्य् एते जगतः शाश्वते मते। एकया यात्य् अनावृत्तिम् अन्ययावर्तेते पुनः इति। तत्राह---

Link copied

५०८ योगिनः प्रति स्मर्येते स्मार्ते चैते ॥४।२।२०॥

Link copied

नात्र मुमूर्षून् प्रति मरण-काल-विशेषोपादानं स्मर्यते; अपि तु योगिनः---योग-निष्ठान् प्रति स्मार्ते--- स्मृति-विषय-भूते स्मर्तव्ये देवयान-पितृ-याणाख्ये गती स्मर्येते योगाङ्गतयानुदिनं स्मर्तुम्। तथा ह्य् उपसंहारः--- नेते सृती पार्थ जानन् योगी मुह्यति कश्चन। तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन, इति। अग्निर् ज्योतिः, धूमो रात्रिर् इति च देवयान-पितृ-याणे प्रत्यभिज्ञायेते। उपक्रमे च--- यत्र काले त्व् इति काल-शब्दः कालाभिमानि-देवतातिवाहिक-परः, अग्न्य्-आदेः, कालत्वासम्भवात्। अतः--- तेऽर्चिषम् अभिसम्भवन्ति इति विहित-देव-यानानुस्मृतिर् अत्र विद्या-निष्ठान् प्रति विधीयते, न मुमूर्षून् प्रति मरण-काल-विशेषः॥२०॥ इति दक्षिणायनाधिकरणम्॥१॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-शारीरक-मीमांसा-भाष्ये चतुर्थस्याध्यायस्य द्वितीयः पादः॥२॥

Link copied

चतुर्थाध्याये

Link copied

तृतीयः पादः

अर्चिर्-आद्य्-अधिकरणम्॥१॥

Link copied

५०९ अर्चिर्-आदिना तत्-प्रथितेः ॥४।३।१॥

Link copied

विदुष उत्क्रान्तस्य नाडी-विशेषेण हार्दानुग्रहाद् गत्य्-उपक्रम उक्तः। तस्य गच्छतो मार्ग इदानीं निर्णीयते। तत्र श्रुतिषु मार्ग-प्रकाराः बहुधा आम्नायन्ते। छान्दोग्ये तावत्--- यथा पुष्कर-पलाश आपो न श्लिष्यन्ते एवम् एवंविदि पापं कर्म न श्लिष्यते इत्य् उपक्रम्य ब्रह्म-विद्याम् उपदिश्याम्नायते--- अथ यद् उ चैवास्मिञ् च्छव्यं कुर्वन्ति यद् उ च न अर्चिषम् एवाभिसम्भवन्त्य् अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षड्-उदङ्ङेति मासांस् तान् मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् आदित्याच् चन्द्रमसं चन्द्रमसो विद्युतं तत्-पुरुषोऽमानवः--- स एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथः एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते इति। तथात्रैवाष्टम् एकौ रश्मिभिर् ऊर्ध्वम् आक्रमते इति। कौषीतकिनश् च देवयान-मार्गम् अन्यथाधीयते, स एतं देव-यानं पन्थानम् आपद्याग्नि-लोकम् आगच्छति स वायु-लोकं स वरुण-लोकं स आदित्य-लोकं स इन्द्र-लोकं स प्रजापति-लोकं स ब्रह्म-लोकम् इति। तथा बृहदारण्यके--- य एवम् एतद् विदुर्ये चेमेऽरण्ये श्रद्धां सत्यम् उपासते तेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षण्-मासान् उदङ्ङ् आदित्य एति मासेभ्यो देव-लोकं देव-लोकाद् आदित्यम् आदित्याद् वैद्युतं वैद्युतात् पुरुषोऽमानवः स एत्य ब्रह्म-लोकान् गमयति इति। तत्रैव पुनर् अन्यथा--- यदा वै पुरुषोऽस्माल् लोकात् प्रेति स वायुम् आगच्छति तस्मै स तत्र विजिहीते यथा रथ-चक्रस्य खं तेन स ऊर्ध्वम् आक्रमते स आदित्यम् आगच्छति तस्मै स तत्र विजिहीते यथा आडम्बरस्य खं तेन स ऊर्ध्वम् आक्रमते स चन्द्रमसम् आगच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् इत्य् आदि। तत्र संशयः--- किम् अर्चिर्-आदिर् एक एव मार्ग आभिः श्रुतिभिः प्रतिपाद्यत इति, तेनैव ब्रह्म गच्छति विद्वान्, उत तस्माद् अन्येऽन्यत्र मार्गा इति, तैर् वानेन वेत्य् अनियमः इति। किं युक्तम्। अनिमय इति। कुतः। अनेक-रूपत्वान् नैरपेक्ष्याच् चेति॥

Link copied

एवं प्राप्तेऽभिधीयते--- अर्चिर्-आदिनेति। अर्चिर्-आदिर् एक एव मार्गः सर्वत्र प्रतिपाद्यते। अतोऽर्चिर्-आदिनैव गच्छति। कुतः। तत्-प्रथितेः--- तस्यैव सर्वत्र प्रथितेः। प्रथितिः--- प्रसिद्धिः, तस्यैव सर्वत्र प्रत्यभिज्ञानाद् इत्य् अर्थः। प्रत्यभिज्ञानात् स एव मार्गः सर्वत्र न्यूनाधिक-भावेन प्रतिपाद्यत इति विद्या-गुणोपसंहारवद् अन्यत्रोक्तानाम् अन्यत्रोपसंहारः क्रियते। छान्दोग्ये तावद् उपकोसल-विद्यायां पञ्चाग्नि-विद्यायां चैक-रूप एवाम्नायते। वाजसनेयके च पञ्चाग्नि-विद्यायां तथैवार्चिर्-आदिः अल्पान्तर आम्नायते, अतस् तत्रापि स एवेति प्रतीयते। अन्यत्रापि सर्वत्राग्न्य्-आदित्यादयः प्रत्यभिज्ञायन्ते॥१॥ इत्य् अर्चिर्-आद्य्-अधिकरणम्॥

Link copied

अथ वाय्व्-अधिकरणम्॥२॥

Link copied

५१० वायुम् अब्दाद् अविशेष-विशेषाभ्याम्॥४।३।२॥

Link copied

अर्चिर्-आदिनैव गच्छन्ति विद्वांस इत्य् उक्तम्। तत्रार्चिर्-आदिके मार्गे छन्दोगाः मासादित्ययोर् अन्तराले संवत्सरम् अधीयते--- मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् इति। वाजसनेयिनस् तु तयोर् एवान्तराले देव-लोकं-मासेभ्यो देव-लोकं देव-लोकाद् आदित्यम् इति। उभयत्रापि मार्गस्यकत्वाद् उभाव् उभयत्रोपसंहार्यौ। तत्र मासाद् ऊर्ध्वम् अभिहितयोः संवत्सर-देवलोकयोः पञ्चम्याभिहितस्य श्रौत-क्रमस्य तुल्यत्वेऽपि--- अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षड् उदङ्ङ् एति मासांस् तान् इत्य् अधिक-कालानां न्यून-कालेभ्य उत्तरोत्तरत्वेन निवेश-दर्शनात् संवत्सरस्यैव मासाद् अनन्तरं बुद्धौ विपरिवृत्तेः संवत्सर एव मासाद् ऊर्ध्वं निवेशयितव्य इति तत ऊर्ध्वं देव-लोक इति निश्चीयते। अन्यत्र वाजसनेयिनः--- यदा वै पुरुषोऽस्माल् लोकात् प्रैति स वायुम् आगच्छति, तस्मै स तत्र विजिहीते यथा रथ-चक्रस्य खं तेन स ऊर्ध्वम् आक्रमते स आदित्यम् आगच्छति इत्य् आदित्यात् पूर्वं वायुम् अधीयते। कौषीतकिनस् तु--- स एतं देवयानं पन्थानम् आपद्याग्नि-लोकम् आगच्छति स वायु-लोकम् इत्य् अग्नि-लोक-शब्द-निर्दिष्टाद् अर्चिषः परं वायुम् अधीयते। तत्र कौषीतकिनां पाठ-क्रमेणार्चिषः परत्वेन प्राप्तस्य वायोर् वाजसनेयिनां--- तेन स ऊर्ध्वम् आक्रमते स आदित्यम् आगच्छतीत्य् ऊर्ध्व-शब्द-निर्दिष्ट-श्रोत-क्रमेण पाठ-क्रमाद् बलीयसा आदित्यात् पूर्वं प्रवेशो निश्चीयते। अत आदित्यात् पूर्वं संवत्सराद् ऊर्ध्वं देव-लोको वायुश् च प्राप्तौ। तत्रेदं चिन्त्यते--- किं देव लोको वायुश् चार्थान्तर-भूतौ यथेष्ट-क्रमेण विद्वान् अभिगच्छेत्, उतानन्तरत्वेन संवत्सराद् ऊर्ध्वं देव-लोकं सन्तं वायुम् अभिगच्छेद् इति। किं युक्तम्। भिन्नार्थत्वम्, प्रसिद्धेः। भिन्नार्थत्वे चोर्ध्व-शब्देन पञ्चम्या चोभयोः संवत्सरादित्यान्तराले श्रुति-क्रमेण प्राप्तत्वात्, विशेषाभावाच् च यथेष्टम्, इति प्राप्त उच्यते--- वायुम् अब्दाद् इति। वायु संवत्सराद् ऊर्ध्वम् अभिगच्छेत्। कुतः। अविशेष-विशेषाभ्यां वायोर् एव निर्दिष्टत्वात्। देव-लोक-शब्दो ह्य् अविशेषेण---सामान्येन देवानां लोक इत्य् अनेन रूपेण वायुम् अभिधत्ते। स वायुम् आगच्छति तस्मै स तत्रेति वायु-शब्दो विशेषेण वायुम् अभिधत्ते। अतो देव-लोक-वायु-शब्दाभ्याम् अविशेष-विशेषाभ्यां वायुर् एवाभिधीयत इति संवत्सराद् ऊर्ध्वं वायुम् एवाभिगच्छेत्। कोषीतकिनां वायु-लोक-शब्दश् चाग्नि-लोक-शब्दवद् वायुश् चासौ लोकश् चेति व्युत्पत्त्या वायुम् एवाभिधत्ते। वायुश् च देवानाम् आवास-भूत इत्य् अन्यत्र श्रूयते--- योऽयं पवत एष एव देवानां गृहाः इति॥२॥ इति वाय्व्-अधिकरणम्॥२॥

Link copied

अथ वरुणाधिकरणम्॥३॥

Link copied

५११ तटितोऽधि वरुणः सम्बन्धात्॥४।३।३॥

Link copied

कौषीतकिनां--- स एतं देव-यानं पन्थानम् आपद्याग्नि-लोकम् आगच्छति स वायु-लोकं स वरुण-लोकं स आदित्य-लोकं स इन्द्र-लोकं स प्रजापति-लोकं स ब्रह्म-लोकम् इत्य् अत्राग्नि-लोक-शब्दस्यार्चिः-पर्यायत्वेन प्राथम्यम् अविगीतम्। वायोश् च संवत्सराद् ऊर्ध्वं निवेश उक्तः। आदित्यस्याप्य् अत्र प्राप्त-पाठ-क्रम-बाधेन-देव-लोकाद् आदित्यम् आदित्याद् वैद्युतम् इति वाजसनेयकोक्त-श्रुति-क्रमाद् देव-लोक-शब्दाभिहिताद् वायोर् उपरि निवेशः सिद्धः। इदानीं वरुणेन्द्रादिषु चिन्ता। किम् एते वरुणादयो यथापाठं वायोर् ऊर्ध्वं निवेशयितव्याः; आहोस्विद् विद्युतोऽधीति विशये, अर्चि-प्रभृतिषु सर्वेषु--- अर्चिषोऽहर् इत्य् आदि श्रुति-क्रमोपरोधाद् विद्युतः परस्ताच् च--- तत् पुरुषोऽमानवः स एनान् ब्रह्म गमयति इति विद्युत् पुरुषस्य ब्रह्म-गमयितृत्व-श्रवणाच् च सर्वत्रावकाशाभावेनाप्राप्तौ चोपदेशावैयर्थ्यायावश्यं कस्यचिद् बाध्यत्वे पाठ-क्रमानुरोधेन वायोर् अनन्तरं वरुणो निवेशयितव्यः। वाय्व्-आदित्ययोः क्रमस्य बाधितत्वेनेन्द्र-प्रजापती अपि ह्य् अत्रैव निवेशयितव्यौ। इति प्राप्त उच्यते--- तटितोऽधि वरुण इति। वरुणस् तावद् विद्युत उपरिष्टान् निवेशयितव्यः। कुतः। सम्बन्धात्--- मेघोदर-वर्तित्वाद् विद्युतो वरुणेन सम्बन्धो लोक-वेदयोः प्रसिद्धः। एतद् उक्तं भवति वरुणादीनाम् उपदेशावैयर्थ्याय क्वचिन् निवेशयितव्यत्वे सति पाठ-क्रमाद् अर्थ-क्रमस्य बलीयस्त्वाद् विद्युतोऽधि वरुणो निवेशयितव्यः। ततश् चामानवस्य गमयितृत्वं व्यवधान-सहम् इत्य् अवगम्यते। तस्य च व्यवधान-सहत्वाद् इन्द्रादेश् चोपदिष्टस्यावश्य-निवेशयितव्यस्य वरुणाद् उपर्य्-उपदिष्टत्वाद् आगन्तूनाम् अन्ते निवेशयितव्यत्वाच् च वरुणाद् उपरीन्द्रादि-निवेशयितव्य इति॥३॥ इति वरुणाधिकरणम्॥३॥

Link copied

अथ आतिवाहिकाधिकरणम्॥४॥

Link copied

५१२ आतिवाहिकास् तल्-लिङ्गात्॥४।३।४॥

Link copied

इदम् इदानीं चिन्त्यते--- किम् अर्चिर्-आदयो मार्ग-चिह्न-भूताः, उत भोग-भूमयः, अथवा विदुषां ब्रह्म प्रेप्सताम् अतिवोढार इति। किं तावद् युक्तम्। मार्ग-चिह्न-भूता इति। कुतः। उपदेशस्य तथाविधत्वात्। दृश्यते हि लोके ग्रामादीन् प्रति गन्तॄणाम् एवंविधो देशिकैर् उपदेशः--- इतो निष्क्रम्यामुकं वृक्षम् अमुकां नदीम् अमुकं च पर्वत-पार्श्वं गत्वामुकं ग्रामं गच्छेति। अथवा भोग-भूमय एताः स्युः, काल-विशेषतया प्रसिद्धानाम् अहर्-आदीनां मार्ग-चिह्नत्वानुपपत्तेर् अन्यस्य च मार्ग-चिह्न-भूतस्यैतेषाम् अनभिधायकत्वात्। भोग-भूमित्वं च--- एत एव लोका यद् अहो-रात्राण्य् अर्ध-मासा मासा ऋतवः संवत्सराः इत्य् अहर्-आदीनां लोकत्व-वचनाद् अपपद्यते। अत एव च कौषीतकिनः--- अग्नि-लोकम् आगच्छति इत्य् आदिना लोक-शब्दानुविधानेनाचिर्-आदीन पठन्तीति॥ एवं प्राप्ते ब्रूमः--- आतिवाहिका इति। विदुषाम् अतिवाहे परम-पुरुषेण नियुक्ताः आतिवाहिकाः देवता-विशेषा एतेऽर्चिर्-आदयः। कुतः। तल्-लिङ्गात्-अतिवहन-लिङ्गात्। अतिवहनं हि गन्तॄणां गमयितृत्वम्। गमयितृत्वं च--- तत् पुरुषोऽमानवः स एनान् ब्रह्म गमयति इत्य् उपसंहारे श्रूयमाणं पूर्वेषाम् अप्य् अविशेष-श्रुतानां स एव सम्बन्ध इति गमयति। वदन्ति चार्चिर्-आदयः शब्दाः अर्चिर्-आद्यात्म-भूतान् अभिमानि-देवता-विशेषान्; तं पृथिव्य् अब्रवीत् इतिवत्॥४॥

Link copied

यद्य् एवं तत् पुरुषोऽमानवः स एनान् ब्रह्म गमयतीति वैद्युतस्यैव पुरुषस्य ब्रह्म-गमयितृत्व-श्रुतेर् विद्युतः परेषां वरुणादीनां कथम् आतिवाहिकत्वेनान्वय इत्य् अत्राह---

Link copied

५१३ वैद्युतेनैव ततस् तच्-छ्रुतेः॥४।३॥५॥

Link copied

ततः--- विद्युत उपरि, वैद्युतेन--- अमानवेनैवातिवाहिकेन विदुषाम् आब्रह्म-प्राप्तेर् गमनम्। कुतः। तच्-छूतेः--- स एनान् ब्रह्म गमयतीति तस्यैव गमयितृत्व-श्रुतेः। वरुणादयस् त्व् अनुग्राहका इति तेषाम् अप्यातिवाहिकत्वेनान्वयो विद्यत एव॥५॥ इत्य् आतिवाहिकाधिकरणम्॥४॥

Link copied

अथ कार्याधिकरणम्॥५॥

Link copied

५१४ कार्यं बादरिर् अस्य गत्य्-उपपत्तेः॥४।३।६॥

Link copied

अर्चिर्-आदिनैव गच्छति विद्वान्; अर्चिर्-आदिर् अमानवान्तश् च गण आतिवाहिको विद्वांसं ब्रह्म गमयतीत्य् उक्तम्। इदम् इदानीं चिन्त्यते। किम् अयम् अर्चिर्-आदिको गणः कार्यं हिरण्यगर्भम् उपासीनान् नयति, उत परम् एव ब्रह्मोपासीनान्। अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश् च, इति विशये कार्यम् उपासीनान् एव गमयतीति बादरिर् आचार्यो मन्यते। कुतः। अस्य--- हिरण्यगर्भम् उपासीनस्यैव गत्य्-उपपत्तेः। न हि परिपूर्णं सर्व-ज्ञं सर्व-गतं सर्वात्म-भूतं परं ब्रह्मोपासीनस्य तत्-प्राप्तये देशान्तर-गतिर् उपपद्यते, प्राप्तत्वाद् एव। नित्य-प्राप्त-परब्रह्म-विषयाविद्या-निवृत्ति-मात्रम् एव हि पर-विद्या-कार्यम्। कार्यं तु हिरण्यगर्भ-रूपं ब्रह्मोपासीनस्य परिच्छिन्न-देश-वर्ति-प्राप्य-प्राप्त्य्-अर्थं गमनम् उपपद्यते। अतोऽर्चिर्-आदिर् आतिवाहिक-गणस् तम् एव नयति॥७॥

Link copied

५१५ विशेषितत्वाच् च॥४।३।७॥

Link copied

पुरुषो मानस एत्य ब्रह्म-लोकान् गमयतीति लोक-शब्देन बहु-वचनेन च लोक-विशेष-वर्तिनं हिरण्यगर्भम् उपासीनम् एवामानवो गमयतीति विशेष्यते। किं च--- प्रजापतेः सभां वेश्म प्रपद्ये, इति कार्यस्य हिरण्यगर्भस्य समीप-गमनम् अर्चिर्-आदिना गतः प्रत्यभिसन्धत्ते॥७॥

Link copied

नन्व् एवं--- तत् पुरुषोऽमानवः स एनान् ब्रह्म गमयति इत्य् अयं निर्देशो नोपपद्यते, हिरण्यगर्भ-नयने हि--- स एतान् ब्रह्माणं गमयतीति निर्देष्टव्यं स्यात्। अत आह---

Link copied

५१६ सामीप्यात् तु तद्-व्यपदेशः॥४।३।८॥

Link copied

यो ब्रह्माणं विदधाति इति हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्म-सामीप्यात् तस्य ब्रह्म-शब्देन व्यपदेश इति गत्य्-अनुपपत्ति-विशेषणादिभिर् उक्तैर् हेतुभिर् निश्चीयत इत्य् अर्थः॥८॥

Link copied

अथ स्यात्--- अर्चिर्-आदिना हिरण्यगर्भ-प्राप्तौ--- एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते, तयोर्ध्वम् आयन्न् अमृतत्वम् एति, इत्य् अमृतत्व-प्राप्त्य् अपुनर्-आवृत्ति-व्यपदेशो नोपपद्यते, हिरण्यगर्भस्य कार्य-भूतस्य द्वि-परार्ध-कालावसाने विनाश-शास्त्रात्, आब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनोऽर्जुन इति वचनाद् धिरण्यगर्भ-प्राप्तस्य पुनर्-आवृत्तेर् अवर्जनीयत्वाद् इति; अत्राह---

Link copied

५१७ कार्यात्यये तद्-अध्यक्षेण सहातः परम् अभिधानात्॥४।३।९॥

Link copied

कार्यस्य--- ब्रह्म-लोकस्यात्यये तद्-अध्यक्षेण--- हिरण्यगर्भेणाधिकारिकेणावसिताधिकारेण विदुषा सह स्वयम् अपि तत्राधिगत-विद्यः अतः--- कार्याद् ब्रह्म-लोकात् परं ब्रह्म प्राप्नोतीति, अर्चिर्-आदिना गतस्यामृतत्व-प्राप्त्य्-अपुनर्-आवृत्त्य्-अभिधानात्, ते ब्रह्म-लोके तु परान्त-काले परामृतात् परिमुच्यन्ति सर्वे इति वचनाच् चावगम्यते॥९॥

Link copied

५१८ स्मृतेश् च॥४।३।१०॥

Link copied

स्मृतेश् चायम् अर्थोऽवगम्यते--- ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् इति। अतः कार्यम् उपासीनम् एवार्चिरादिको गणो नयतीति बादरेर् मतम्॥१०॥

Link copied

अत्र जैमिनिः पक्षान्तर-परिग्रहेण प्रत्यवतिष्ठते---

Link copied

५१९ परं जैमिनिर् मुख्यत्वात्॥४।३।११॥

Link copied

परं ब्रह्मोपासीनान् अर्चिर्-आदिर् नयतीति जैमिनिर् आचार्यो मन्यते। कुतः। मुख्यत्वात्---तत् पुरुषोऽमानवः स एनान् ब्रह्म गमयतीति ब्रह्म-शब्दस्य परस्मिन्न् एव ब्रह्मणि मुख्यत्वात्। प्रमाणान्तरेण कार्यत्व-निश्चये सत्य् एव हि लाक्षणिकत्वं युक्तम्। न च गमनानुपपत्तिः प्रमाणम्, परस्य ब्रह्मणः सर्व-गतत्वेऽपि विदुषो विशिष्ट-देश-गतस्यैवाविद्यानिवृत्ति-शास्त्रात्। यथा हि विद्योत्पत्ति-वर्णाश्रम-धर्म-शौचाचार-देश-कालाद्य्-अपेक्षा, तम् एतं वेदानुवचनेनेत्य् आदि शास्त्राद् अवगम्यते, तथा निःशेषाविद्या निवर्तन-रूप-विद्या-निष्पत्तिर् अपि विशिष्ट-देश-गति-सापेक्षेति गति-शास्त्राद् अवगम्यते। विदुष उत्क्रान्ति प्रतिषेधादि तु पूर्वम् एव परिहृतम्। यत् तु--- ब्रह्म-लोकान् इति लोक-शब्द-बहु-वचनाभ्यां विशेषणात् कार्य-भूत-हिरण्यगर्भ-प्रतीतिर् इति तद् अयुक्तम्। निषाद-स्थपति-न्यायेन ब्रह्मैव लोको ब्रह्म-लोक इति कर्मधारयस्यैव युक्तत्वात्। अर्थस्य चैकत्वे निश्चिते बहु-वचनस्य-अदितिः पाशान् इतिवद् उपपत्तेः। परस्य ब्रह्मणः परिपूर्णस्य सर्व-गतस्य सत्य-सङ्कल्पस्य स्वेच्छा-परिकल्पिताः स्वासाधारणा अप्राकृताश् च लोका नात्यन्ताय न सन्ति, श्रुति-स्मृतीतिहास-पुराण-प्रामाण्यात्॥१॥

Link copied

५२० दर्शनाच् च॥४।३।१२॥

Link copied

दर्शयति च श्रुतिः मूर्धन्य-नाड्या निष्क्रम्य देव-यानेन गतस्य परब्रह्म-प्राप्तिम्--- एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति॥२॥

Link copied

यद् उक्तं प्रजापतेः सभां वेश्म प्रपद्ये इत्य् अर्चिर्-आदिना गतस्य कार्ये प्रत्यभिसन्धिर् दृश्यत इति; तत्रोत्तरम्---

Link copied

५२१ न च कार्ये प्रत्यभिसन्धिः॥४।३।१३॥

Link copied

न चायं प्रत्यभिसन्धिः कार्ये हिरण्यगभः अपि तु परस्मिन्न् एव ब्रह्मणि वाक्य-शेषे-यशोऽहं भवामि ब्राह्मणानाम् इति तस्याभिसन्धातुः सर्वाविद्या-विमोक-पूर्वक-सर्वात्म-भावाभिसन्धानात्, अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर् मुखात् प्रमुच्य। धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्म-लोकाभिसम्भवामि, इत्य् अभिसम्भाव्यस्य ब्रह्म-लोकस्याकृतत्व-श्रवणात्, सर्व-बन्ध-विनिर्मोकस्य च साक्षाच् छवणात्। अतः परम् एव ब्रह्मोपासीनम् अर्चिर्-आदिर् आतिवाहिको गणो नयतीति जैमिनेर् मतम्॥३॥

Link copied

इदानीं बादरायणस् तु भगवान् स्व-मतेन सिद्धान्तम् आह---

Link copied

५२२ अप्रतीकालम्बनान् नयतीति बादरायण उभयधा च दोषात् तत्-क्रतुश् च॥४।३।१४॥

Link copied

अप्रतीकालम्बनान्--- प्रतीकालम्बन-व्यतिरिक्तान् नयत्य् अर्चिर्-आदिर् आतिवाहिको गण इति भगवान् बादरायणो मन्यते। एतद् उक्तं भवति--- कार्यम् उपासीनान् नयतीति नायं पक्षः सम्भवतिः, परम् एवोपासीनान् इत्य् अयम् अपि नियमो नास्ति; न च प्रतीकालम्बनान् अपि नयति, अपि तु ये परं ब्रह्मोपासते, ये चात्मानं प्रकृति-वियुक्तं ब्रह्मात्मकम् उपासते, तान् उभय-विधान् नयति। ये तु ब्रह्म-कार्यान्तर्भूत-नामादिकं वस्तु देवदत्तादिषु सिंहादि-दृष्टिवद् ब्रह्म-दृष्ट्या, केवलं वा तत् तद् वस्तूपासते, न तान् नयति। अतः परं ब्रह्मोपासीनान् आत्मानं च प्रकृति-वियुक्तं ब्रह्मात्मकम् उपासीनान् नयतीति। कुतः। उभयधा च दोषात्। कार्यम् उपासीनान् नयतीति पक्षे--- अस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्येत्य् आदिकाः श्रुतयः प्रकुप्येयुः। परम् एवोपासीनान् इति नियमे--- तद् य इत्थं विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्तीति पश्चाग्नि-विदोऽर्चिर्-आदि-गणो नयतीति श्रुतिः प्रकुप्येत्। अतः उभयस्मिन्न् अपि पक्षे दोषः स्यात्। तस्माद् उभय-विधान् नयतीति। तद् एतद् आह--- तत्-क्रतुश् चेति। तत्-क्रतुः--- तथोपासीनस् तथैव प्राप्नोतीत्य् अर्थः; यथाक्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति, तं यथायथोपासते इति न्यायात्, पञ्चाग्नि-विदोऽप्य् अर्चिर्-आदिना गति-श्रवणात्, अर्चिर्-आदिना गतस्य ब्रह्म-प्राप्त्य्-अपुनर्-आवृत्ति-श्रवणाच् च। अत एव तत्-क्रतु-न्यायात् प्रकृति-विनिर्मुक्त-ब्रह्मात्मकात्मानुसन्धानं सिद्धम्। नामादि-प्राण-पर्यन्त-प्रतीकालम्बनानां तूभय-विध-श्रुति-सिद्धोपासनाभावाद् अचिन्-मिश्रोपासने तत्-क्रतु-न्यायाच् चार्चिरादिना गति-ब्रह्म-प्राप्तिश् च न विद्यते॥४॥

Link copied

तम् इमं विशेषं श्रुतिर् एव दर्शयतीत्य् आह---

Link copied

५२३ विशेषं च दर्शयति॥४।३।१५॥

Link copied

यावन् नाम्नो गतं तत्रास्य यथाकाम-चारो भवति इत्य् आदिका श्रुतिः नामादि-प्राण-पर्यन्त-प्रतीकम् उपासीनानां गत्य्-अनपेक्षं परिमित-फल-विशेषं च दर्शयति। तस्माद् अचिन्-मिश्रं केवलं वाचिद्-वस्तु ब्रह्म-दृष्ट्या तद्-वियोगेन च य उपासते, न तान् नयत्य् अपि तु परं ब्रह्मोपासीनान् आत्मान च प्रकृति-वियुक्तं ब्रह्मात्मकम् उपासीनान् आतिवाहिको गणो नयतीति सिद्धम्॥१५॥ इति कार्याधिकरणम्॥५॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-शारीरक-मीमांसा-भाष्ये चतुर्थस्याध्यायस्य तृतीयः पादः॥३॥

Link copied

चतुर्थाध्याये

Link copied

चतुर्थः पादः

सम्पद्याविर्भावाधिकरणम्॥

Link copied

५२४ सम्पद्याविर्भावः स्वेन-शब्दात्॥४।४।१॥

Link copied

परं ब्रह्मोपासीनानाम् आत्मानं च प्रकृति-वियुक्तं ब्रह्मात्मकम् उपासीनानाम् अर्चिर्-आदिना मार्गेणा पुनर्-आवृत्ति-लक्षणा गतिर् उक्ता। इदानीं मुक्तानाम् ऐश्वर्य-प्रकारं चिन्तयितुम् आरभते। इदम् आम्नायते---

Link copied

एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति। किम् अस्माच् छरीरात् समुत्थाय परञ्ज्योतिर्-उपसम्पन्नस्य देवादि-रूपवत्-साध्येन रूपेण सम्बन्धोऽनेन वाक्येन प्रतिपाद्यते, उत स्वाभाविकस्य स्वरूपस्याविर्भाव इति संशये, साध्येन रूपेण सम्बन्ध इति युक्तम्। अन्यथा ह्य् अपुरुषार्थावबोधित्वं मोक्ष-शास्त्रस्य स्यात्। स्वरूपस्य स्वतोऽपुरुषार्थत्व-दर्शनात्। न हि सुषुप्तौ देहेन्द्रिय-व्यापारेषूपरतेषु केवलस्यात्म-स्वरूपस्य पुरुषार्थ-सम्बन्धो दृश्यते। न च दुःख-निवृत्ति-मात्रं परञ्ज्योतिर्-उपसम्पन्नस्य पुरुषार्थः, येन स्वरूपाविर्भाव एव मोक्ष इत्य् उच्येत; स एको ब्रह्मण आनन्दः, श्रोत्रियस्य चाकाम-हतस्य, रसं ह्य् एवायं लब्ध्वानन्दी भवति इत्य् आदिभ्यो मुक्तस्य सुखानन्त्य-श्रवणात्। न चापरिच्छिन्नानन्द-रूप-चैतन्यम् एवास्य स्वरूपम्। तच् च संसार-दशायाम् अविद्यया तिरोहितं परं ज्योतिर्-उपसम्पन्नस्याविर्भवतीति शक्यं वक्तुं ज्ञान-स्वरूपस्य तिरोधानासम्भवात्। प्रकाश-पर्यायस्य ज्ञानस्य तिरोधानं तद्-विनाश एवेति हि पूर्वम् एवोक्तम्। न च प्रकाश-मात्र-स्थानन्दता सम्भवति। सुख-स्वरूपता ह्य् आनन्द-स्वरूपता; सुख-स्वरूपत्वं चात्मनोऽनुकूलत्वम्। प्रकाश-मात्रात्म-वादिनः कस्य प्रकाशोऽनुकूलवेदनीयो भवेद् इति प्रकाश-मात्रात्म-वादिनः कथञ्चिद् अप्य् आनन्द-स्वरूपता दुरुपपादा। स्वरूपापत्ति-मात्रे च साध्ये स्वरूपस्य नित्य-निष्पन्नत्वाद् उपसम्पन्नस्य, स्वेन रूपेणा भिनिष्पद्यत इति वचनम् अनर्थकं स्यात्। अतोऽपूर्वेण साध्येन रूपेण सम्पद्यते। एवं च--- अभिनिष्पद्यते इति वचनं मुख्यार्थम् एव भवति। स्वेन रूपेणेत्य् अप्य् आनन्दैकान्तेन स्वासाधारणेनाभिनिष्पद्यत इति सङ्गच्छत इति॥

Link copied

एवं प्राप्ते प्रचक्ष्महे--- सम्पद्याविर्भाव इति। अयं प्रत्यगात्मार्चिर्-आदिना परं ज्योतिर् उपसम्पद्य यं दशाविशेषम् आपद्यते, सः स्वरूपाविर्भाव-रूपः; नापूर्वाकारोत्पत्ति-रूपः। कुतः। स्वेन शब्दात्--- स्वेन रूपेणेति विशेषणोपादानाद् इत्य् अर्थः। आगन्तुक-विशेष-परिग्रहे हि, स्वेन रूपेणेति विशेषणम् अनर्थक स्यात्। अविशेषणेऽपि तस्य स्वकीय-रूपत्व-सिद्धेः॥

Link copied

यत् तूक्तं स्वरूपस्य नित्य-प्राप्तत्वात्, उपसम्पद्याभिनिष्पद्यते इति वचनम् अनर्थकम् इति, तत्रोत्तरम्---

Link copied

५२५ मुक्तः प्रतिज्ञानात्॥४।४।२॥

Link copied

कर्म-सम्बन्ध-तत्-कृत-देहादि-विनिर्मुक्तः स्वाभाविक-रूपेणावस्थितोऽत्र स्वेन रूपेणाभिनिष्पद्यत इत्य् उच्यते। अतो नित्य-प्राप्तस्यापि स्वरूपस्य कर्म-रूपाविद्यातिरोहितस्य तिरोधान-निवृत्तिर् अत्राभिनिष्पत्तिर् उच्यते। कुतः। प्रतिज्ञानात्--- सा हि प्रतिपाद्यतया प्रतिज्ञाता। कुत इदम् अवगम्यते। य आत्मा इति प्रकृतं प्रत्यगात्मानं जागरिताद्य्-अवस्था-त्रितय-विनिर्मुक्तं, प्रियाप्रिय-हेतु-भूत-कर्मारब्ध-शरीर-विनिमुक्तं च प्रतिपादयितुम् एतं त्व् एव ते भूयोऽनुव्याख्यास्यामि इति पुनः पुनर् उक्त्वा एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इत्य् अभिधानात्। अतः कर्मणा सम्बद्धस्य परं ज्योतिर् उपसम्पद्य बन्ध-निवृत्ति-रूपा मुक्तिः स्वेन रूपेणाभिनिष्पत्तिर् उच्यते। स्वरूपाविर्भावेऽप्य् अभिनिष्पत्ति-शब्दो दृश्यते, युक्त्यायम् अर्थो निष्पद्यत इत्य् आदिषु॥२॥

Link copied

यच् चोक्तम्--- आत्म-स्वरूपस्य सुषुप्ताव् अपुरुषार्थत्व-दर्शनात् स्वरूपाविर्भावे मोक्ष-शास्त्रस्यापुरुषार्थावबोधित्वं स्याद् इति कृत्वा देवाद्य्-अवस्थावत् सुख-सम्बन्ध्य्-अवस्थान्तर-प्राप्तिर् अभिनिष्पत्तिर् इति; तत्रोत्तरम्---

Link copied

५२६ आत्मा प्रकरणात्॥४।४।३॥

Link copied

स्वरूपेणैवायम् आत्मा अपहत-पाप्मत्वादि-सत्य-सङ्कल्पत्व-पर्यन्त-गुणकः प्रकरणाद् अवगम्यते; य आत्मापहत-पाप्मा विजरो विमृत्युर् विशोकोऽविजिघत्सोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः इति हि प्रजापति-वाक्य-प्रक्रमः। इदं च प्रकरणं प्रत्यगात्म-विषयम् इति, उत्तराच् चेद् आविर्भूत-स्वरूपस् तु, इत्य् अत्र प्रतिपादितम्। अतोऽपहत-पाप्मत्वादि-स्वरूप एवायम् आत्मा संसार-दशायां कर्माख्याविद्यया तिरोहित-स्वरूपः परं ज्योतिर्-उपसम्पद्याविर्भूत-स्वरूपो भवति। अतः प्रत्यगात्मनोऽपहत-पाप्मत्वादयः स्वाभाविका गुणाः परञ्ज्योतिर्-उपसम्पन्नस्याविर्भवन्ति नोत्पद्यन्ते। यथोक्तं भगवता शौनकेनापि--- यथा न क्रियते ज्योत्स्ना मल-प्रक्षालनान् मणेः। दोष-प्रहाणान् न ज्ञानम् आत्मनः क्रियते तथा॥ यथोदपान-करणाक्रियते न जलाम्बरम्। सद् एव नीयते व्यक्तिम् असतः सम्भवः कुतः॥ तथा हेय-गुण-ध्वंसाद् अवबोधादयो गुणाः। प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते॥ इति। अतो ज्ञानानन्दादि-गुणानां कर्मणा आत्मनि सङ्कुचितानां परं ज्योतिर् उपसम्पद्य कर्म-रूप-बन्ध-क्षये विकास-रूपाविर्भावो नानुपपन्न इति सुष्ठूक्तं सम्पद्याविर्भाव इति॥३॥ इति सम्पद्याविर्भावाधिकरणम्॥१॥

Link copied

अथ अविभागेन दृष्टत्वाधिकरणम्॥२॥

Link copied

५२७ अविभागेन दृष्टत्वात्॥४।४।४॥

Link copied

किम् अयं परञ्ज्योतिर्-उपसम्पन्नः सर्व-बन्ध-विनिर्मुक्तः प्रत्यगात्मा स्वात्मानं परमात्मनः पृथग्-भूतम् अनुभवति, उत तत्-प्रकारतया तद्-अविभक्तम् इति विशये, सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चिता, यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिम्। तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति, इदं ज्ञानम् अपाश्रित्य मम साधर्म्यम् आगताः। सर्गेऽपि नोप जायन्ते प्रलये न व्यथन्ति च॥ इत्य् आदि श्रुति-स्मृतिभ्यां मुक्तस्य परेण साहित्य-साम्य-साधावगमात् पृथग्-भूतम् अनुभवति। इति प्राप्त उच्यते--- अविभागेनेति। परस्माद् ब्रह्मणः स्वात्मानम् अविभागेनानुभवति मुक्तः। कुतः। दृष्टत्वात्--- परब्रह्मोपसम्पत्त्या निवृत्ताविद्यातिरोधानस्य याथातथ्येन स्वात्मनो दृष्टत्वात्। स्वात्मनः स्वरूपं हि तत् त्वम् असि, अयम् आत्मा ब्रह्म, ऐतदात्म्यम् इदं सर्वम्, सर्वं खल्व् इदं ब्रह्म, इत्य् आदि सामानाधिकरण्य-निर्देशैः, य आत्मनि तिष्ठन् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः, अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा, इत्य् आदिभिश् च परमात्मात्मकं तच्-छरीरतया तत्-प्रकार-भूतम् इति प्रतिपादितम्, अवस्थितेर् इति काशकृत्स्नः इत्य् अत्र। अतोऽविभागेन अहं ब्रह्मास्मीत्य् एवानुभवति। साम्य-साधर्म्य-व्यपदेशो ब्रह्म प्रकार-भूतस्यैव प्रत्यगात्मनः स्वरूपं तत् समम् इति देवादिप्राकृत-रूप-प्रहाणेन ब्रह्म-समान-शुद्धिं प्रतिपादयति। सह-श्रुतिस् त्व् एवम्भूतस्य प्रत्यगात्मनः प्रकारिणा ब्रह्मणा सह तद्-गुणानुभवं प्रतिपादयतीति न कश्चिद् विरोधः। ब्रह्म-प्रकारतया तद्-अविभागोक्ते हि सङ्कल्पाद् एव तच्-छ्रुतेः इत्य् आदि न विरुध्यते, अधिकं तु भेद-निर्देशात्, अधिकोपदेशात् इत्य् आदि च॥४॥ इत्य् अविभागेन दृष्टत्वाधिकरणम्॥२॥

Link copied

अथ ब्राह्माधिकरणम्॥३॥

Link copied

५२८ ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः॥४।४।५॥

Link copied

प्रत्यगात्मनः परं ज्योतिर् उपसम्पद्य निवृत्त-तिरोधानस्य स्वरूपाविर्भाव एवेत्य् उक्तम्। तत्र येन स्वरूपेणायम् आविर्भवति तत्-स्वरूपं श्रुति-वैविध्याद् विचार्यते। किम् अपहत-पाप्मत्वादिकम् एवास्य स्वरूपम् इति तेन रूपेणायम् आविर्भवति, उत विज्ञान-मात्रम् एवेति तेन रूपेण, अथोभयोर् अविरोध इत्य् उभय-रूपेणेति। किं तावत् प्राप्तम्। ब्राह्मेणेति जैमिनिर् आचार्यो मन्यते। ब्राह्मेण--- अपहत-पाप्मत्वादिनेत्य् अर्थः। अपहत-पाप्मत्वादयो हि दहर-वाक्ये ब्रह्म-सम्बन्धितया श्रुताः। ब्राह्मणेति कुतोऽवगम्यते। उपन्यासादिभ्यः; उपन्यस्यन्ते हि ब्रह्म-गुणाः अपहत-पाप्मत्वादयः प्रत्यगात्मनोऽपि प्रजापति-वाक्ये, य आत्मापहत-पाप्मेत्य् आदिना, सत्य-सङ्कल्प इत्य् अन्तेन। आदि-शब्देन सत्य-सङ्कल्पत्वादि-गुणायत्ता जक्षणादयः, जक्षत् क्रीडन् रममाणः इत्य् आदि वाक्यावगता व्यवहारा गृह्यन्ते। अत एभ्य उपन्यासादिभ्यः प्रत्यगात्मनो विज्ञान-मात्र-स्वरूपत्वं न सम्भवतीति जैमिनेर् मतम्॥५॥

Link copied

५२९ चिति तन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः॥४।४।६॥

Link copied

चैतन्य-मात्रम् एवास्य स्वरूपम् इति तेन रूपेणाविर्भवतीत्य् औडलोमिर् आचार्यो मन्यते। कुतः। तदात्मकत्वात् तावन् मात्रात्मकत्वाद् अस्य प्रत्यगात्मनः। स यथा सैन्धव-घनोऽनन्तरोऽबाह्यः कृत्स्नो रस-घन एव एवं वा अरेऽयम् आत्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञान-घन एव, विज्ञान-घन एव, इत्य् अवधारणाद् विज्ञान-मात्रम् एवास्य स्वरूपम् इत्य् अवगम्यते। अतोऽस्य गुणान्तराभावात्, अपहत-पाप्मेत्य् आदयः शब्दाः विकार-सुख-दुःखाद्य्-अविद्यात्मक-धर्म-व्यावृत्ति-परा इति चिति तन्मात्र-रूपेणाविर्भाव इत्य् औडुलोमेर् मतम्॥६॥

Link copied

सम्प्रति भगवान् बादरायणः स्व-मतेन सिद्धान्तम् आह---

Link copied

५३० एवम् अप्य् उपन्यासात् पूर्व-भावाद् अविरोधं बादरायणः॥४।४।७॥

Link copied

एवम् अपि--- विज्ञान-मात्र-स्वरूपत्व-प्रतिपादने सत्य् अपि, सत्य-कामत्वादीनां पूर्वोक्तानां गुणानाम् अविरोधं बादरायण आचार्यो मन्यते। कुतः। उपन्यासात् पूर्व-भावात्--- औपनिषदात्--- य आत्मापहत-पाप्मा इत्य् आद्य् उपन्यासात् प्रमाणात् पूर्वेषाम्--- अपहत-पाप्मत्व-सत्य-कामत्वादीनाम् अपि भावात्--- विद्यमानत्वात्। तुल्य-प्रमाणकानाम् इतरेतर-बाधो न युज्यत इत्य् अर्थः। न च वस्तु-विरोधाद् अपहत-पाप्मत्वादीनाम् अविद्या-परिकल्पितत्वं न्याय्यम्; विशेषाभावाद् विपरीतं कस्मान् न भवतीति न्यायात्। तुल्य-बलत्वे ह्य् अशक्यस्यावधारणस्यान्य-परत्वम् एव न्याय्यम्। एवम् अप्य् अविरोध इत्य् अभ्युपगम्य वदन् ज्ञान-मात्रम् एवास्य स्वरूपं नान्यत् किञ्चिद् अस्तीत्य् अयम् अर्थः--- विज्ञान-घन एवेत्य् आदिभिर् न प्रतिपाद्यत इति मन्यते। कस् तर्हि--- विज्ञान-घन एवेत्य् अवधारणस्यार्थः। कृत्स्नोऽप्य् आत्मा जड-व्यावृत्त-स्व-प्रकाशः, नान्यायत्त-प्रकाशः स्वल्पोऽपि प्रदेशोऽस्तीत्य् अयम् अर्थो वाक्याद् एव सुव्यक्तः स यथा सैन्धव-घनोऽनन्तरोऽ बाह्यः कृत्स्नो रस-घन एव एवं वा अरेऽयम् आत्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञान-घन एवेति। न चैवं प्रत्यगात्मनो धर्मि-स्वरूपस्य कृत्स्नस्य विज्ञान-घनत्वेऽप्य् अपहत-पाप्मत्व-सत्य-सङ्कल्पत्वादि-धर्म-सम्बन्धो वाक्यान्तरावगतो विरुध्यते; यथा सैन्धव-घनस्य कृत्स्नस्य रस-घनत्वे रसनेन्द्रियावगते चक्षुर्-आद्य्-अवगताः रूप-काठिन्यादयो न विरुध्यन्ते। इदम् अत्र वाक्य-तात्पर्यम्--- यथा रसवत् स्वाम्र-फलादिषु त्वग्-आदि-प्रदेश-भेदेन रस-भेदे सत्य् अपि सैन्धव-घनस्य सर्वत्रैकरसत्वम्; तथात्मनोऽपि सर्वत्र विज्ञान-स्वरूपत्वम्-स्व-प्रकाश-स्वरूपत्वम् इत्य् अर्थः॥७॥ इति ब्राह्माधिकरणम्॥३॥

Link copied

अथ सङ्कल्पाधिकरणम्॥४॥

Link copied

५३१ सङ्कल्पाद् एव तच्-छ्रुतेः॥४।४।८॥

Link copied

मुक्तः परं ब्रह्मोपसम्पद्य ज्ञान-स्वरूपोऽपहत-पाप्मत्वादि-सत्य-सङ्कल्पत्व-पर्यन्त-गुणक आविर्भवतीत्य् उक्तम्; तम् अधिकृत्य सत्य-सङ्कल्पत्व-प्रयुक्ता व्यवहाराः श्रूयन्ते--- स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा ज्ञातिभिर् वा इति। किम् अस्य ज्ञात्य्-आदि-प्राप्तिः प्रयत्नान्तर-सापेक्षा, उत परम-पुरुषस्येव सङ्कल्प-मात्राद् एव भवतीति विशये; लोके राजादीनां सत्य-सङ्कल्पत्वेन व्यवह्रियमाणानां कार्य-निष्पादने प्रयत्नान्तर-सापेक्षत्व-दर्शनाद् अस्यापि तत्-सापेक्षा, इति प्राप्त उच्यते--- सङ्कल्पाद् एवेति। कुतः। तच्-छूतेः--- स यदि पितृ-लोक-कामो भवति सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्ति इति हि सङ्कल्पाद् एव पित्रादीनां समुत्थानं श्रूयते। न च प्रयत्नान्तर-सापेक्षत्वाभिधायि श्रुत्य्-अन्तरं दृश्यते; येनास्य सङ्कल्पाद् एवेत्यवधारणस्य विज्ञान-घन एवेतिवद् ध्यवस्थापनं क्रियते॥८॥

Link copied

५३२ अत एव चानन्याधिपतिः॥४।४।९॥

Link copied

यतो मुक्तः सत्य-सङ्कल्पः; अत एवानन्याधिपतिश् च। अन्याधिपतित्वं हि विधि-निषेध-योग्यत्वम्। विधि-निषेध-योग्यत्वे हि प्रतिहत-सङ्कल्पत्वं भवेत्। अतः सत्य-सङ्कल्पत्व-श्रुत्यैवानन्याधिपतित्वं च सिद्धम्। अत एव--- स स्वराड् भवति इत्य् उच्यते॥९॥ इति सङ्कल्पाधिकरणम्॥४॥

Link copied

अथ अभावाधिकरणम्॥५॥

Link copied

५३३ अभावं बादरिर् आह ह्य् एवम्॥४।४।१०॥

Link copied

किं मुक्तस्य देहेन्द्रियाणि न सन्ति, उत सन्ति, अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये; शरीरेन्द्रियाणाम् अभावं बादरिर् आचार्यो मन्यते। कुतः। आह ह्य् एवम्--- न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति, अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः इति शरीर-सम्बन्धे दुःखस्यावर्जनीयत्वम् अभिधाय, अस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति मुक्तस्याशरीरत्वं ह्य् आह श्रुतिः॥१०॥

Link copied

५३४ भावं जैमिनिर् विकल्पामननात्॥४।४।११॥

Link copied

मुक्तस्य शरीरेन्द्रिय-भावं जैमिनिर् आचार्यो मन्यते। कुतः। विकल्पामननात्--- विविधः कल्पो विकल्पः, वैविध्यम् इत्य् अर्थः स एकधा भवति त्रिधा भवति, पञ्चधा सप्तधाइत्य् आदि श्रुतेः। आत्मन एकस्याच्छेद्यस्यानेकधा-भावासम्भवात् त्रिधा-भावादयः शरीर-निबन्धना इत्य् अवगम्यते। अशरीरत्व-वचनं तु कर्म-निमित्त-शरीराभाव-परम्। तद् एव हि शरीरं प्रियाप्रिय-हेतुः॥११॥

Link copied

भगवांस् तु बादरायणः स्व-मतेन सिद्धान्तम् आह---

Link copied

५३५ द्वादशाहवद् उभय-विधं बादरायणोऽतः॥४।४।२॥

Link copied

सङ्कल्पाद् एवेत्य् एतद् अतः शब्देन परामृश्यते; अत एव सङ्कल्पात्, उभय-विधं सशरीरम् अशरीरं च मुक्तं भगवान् बादरायणो मन्यते। एवं चोभयी श्रुतिर् उपपद्यते। द्वादशाहवत्, यथा--- द्वादशाहम् ऋद्धि-कामा उपेयुः द्वादशाहेन प्रजा-कामं याजयेत् इत्य् उपैति-यजति-चोदनाभ्यां सङ्कल्प-भेदेन सत्रमहीनं च भवति॥२॥

Link copied

यदा शरीराद्य्-उपकरणवत्त्वं तदा तानि शरीराद्य्-उपकरणानि स्वेनैव सृष्टानीति नास्ति नियम इत्य् आह---

Link copied

५३६ तन्व्-अभावे सन्ध्यवद् उपपत्तेः॥४।४।१३॥

Link copied

स्वेनैव सृष्ट-तनु-प्रभृत्य्-उपकरणाभावे परम-पुरुष-सृष्टैर् उपकरणैर् गोपपत्तेः सत्य-सङ्कल्पोऽपि स्वयं न सृजति। यथा स्वप्ने--- अथ रथान् रथ-योगान् पथः सृजते इत्य् आरभ्य, अथ वेशन्तान् पुष्करिण्यः स्रवन्त्यः सृजते स हि कर्ता इति, य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः, तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते, तस्मिन् लोकाश्रिताः सर्वे तद् उ नात्येति कश्चन, इति ईश्वर-सृष्टैः रथाद्य्-उपकरणैर् जीवो भुङ्क्ते तथा मुक्तोऽपि लीला-प्रवृत्तेनेश्वरेण सृष्टैः पितृ-लोकादिभिर् लीला-रसं भुङ्क्ते॥३॥

Link copied

५३७ भावे जाग्रद्वत्॥४।४।१४॥

Link copied

स्व-सङ्कल्पाद् एव सृष्ट-तनु-प्रभृति-पितृ-लोकाद्य्-उपकरण-भावे जाग्रत्-पुरुष-भोगवन् मुक्तोऽपि लीला-रसं भुङ्क्ते, परम-पुरुषोऽपि लीलार्थं दशरथ-वसुदेवादि-पितृ-लोकादिकम् आत्मनः सृष्ट्वा तैर् मनुष्य-धर्म-लीला-रसं यथा भुङ्क्ते तथा मुक्तानाम् अपि स्व-लीलायै पितृ-लोकादिकं स्वयम् एव सृजति कदाचित्; कदाचिच् च मुक्ताः सत्य-सङ्कल्पत्वात् परम-पुरुष-लीलान्तर्गत-स्व-पितृ-लोकादिकं स्वयम् एव सृजन्तीति सर्वम् उपपन्नम्॥१४॥

Link copied

या नन्व् आत्माणु-परिमाण इत्य् उक्तम्। कथम् अनेक-शरीरेष्व् एकस्याणोर् आत्माभिमान-सम्भव इत्य् अत्राह---

Link copied

५३८ प्रदीपवद् आवेशस् तथा हि दर्शयति॥४।४।१५॥

Link copied

यथा प्रदीपस्यैकस्यैकस्मिन् देशे वर्तमानस्य स्व-प्रभया देशान्तरावेशः; तथात्मनोऽ प्य् एक-देह-स्थितस्यैव स्व-प्रभा-रूपेण चैतन्येन सर्व-शरीरावेशो नानुपपन्नः। यथा कस्मिन्न् अपि देहे हृदयाद्य्-एक-प्रदेश-वर्तिनोऽपि चैतन्य-व्याप्त्या सर्वस्मिन् देह आत्माभिमानः, तद्वत्। इयान् विशेषः--- अमुक्तस्य कर्मणा सङ्कुचित-ज्ञानस्य देहान्तरेष्व् आत्माभिनानुगुणा व्याप्तिर् न सम्भवति; मुक्तस्य त्व् असङ्कुचित-ज्ञानस्य यथासङ्कल्पम् आत्माभिमानानुगुणा व्याप्तिर् इदम् इति ग्रहणानुगुणा च नानुपपन्ना। तथा हि दर्शयति बालाग्र-शत-भागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते इति। अमुक्तस्य कर्म नियामकम्; मुक्तस्य तु स्वेच्छेति विशेषः॥५॥

Link copied

ननु परं ब्रह्म प्राप्तस्यान्तर-बाह्य-ज्ञान-लोपं दर्शयति श्रुतिः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् इति; तत् कथं मुक्तस्य सार्वज्ञ्यम् उच्यते। तत्रोत्तरम्---

Link copied

५३९ स्वाप्यय-सम्पत्त्योर् अन्यतरापेक्षम् आविष्कृतं हि॥४।४।१६॥

Link copied

नेदं वचनं मुक्त-विषयम् अपि तु स्वाप्यय-सम्पत्योर् अन्यतरापेक्षम्। स्वाप्ययः--- सुषुप्तिः; सम्पत्तिश् च मरणम्--- वाङ्-मनसि सम्पद्यत, इत्य् आरभ्य तेजः परस्यां देवतायाम् इति वचनात्। तयोश् चावस्थयोः प्राज्ञ-प्राप्ति-निःसम्बोधत्वं च विद्यते। अतस् तयोर् अन्यतरापेक्षम् इदं वचनम्। सुषुप्ति-मरणयोर् निःसम्बोधत्वं, मुक्तस्य च सर्वज्ञत्वम् आविष्कृतं हि श्रुत्या, नाह खल्व् अयम् एवं सम्प्रत्य् आत्मानं जानात्य् अयम् अहम् अस्मीति नो एवेमानि भूतानि विनाशम् एवापीतो भवति नाहम् अत्र भोग्यं पश्यामि, इति सुषुप्ति-वेलायां निःसम्बोधत्वम् उक्त्वा तस्मिन्न् एव वाक्ये मुक्तम् अधिकृत्य, स वा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्म-लोके इति सर्वज्ञत्वम् उच्यते। तथा--- सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः, इति च स्पष्टम् एव सर्वज्ञत्वम् उच्यते। तथा मरणे च निःसम्बोधत्वम् एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति इत्य् उक्तम्। विनश्यति--- न पश्यतीत्य् अर्थः। अतः--- प्राज्ञेनात्मनेति वचनं वाप्यय-सम्पत्त्योर् अन्यतरापेक्षम्॥१६॥ इत्य् अभावाधिकरणम्॥५॥

Link copied

अथ जगद्-व्यापार-वर्जाधिकरणम्॥६॥

Link copied

५४० जगद्-व्यापार-वर्जं प्रकरणाद् असन्निहितत्वाच् च॥४।४।१७॥

Link copied

किं मुक्तस्यैश्वर्यं जगत्-सृष्ट्य्-आदि परम-पुरुषासाधारणं सर्वेश्वरत्वम् अपि, उत तद्-रहितं केवल-परम-पुरुषानुभव-विषयम् इति संशयः। किं युक्तम्। जगद्-ईश्वरत्वम् अपीति। कुतः। निरञ्जनः परमं साम्यम् उपैतीति परम-पुरुषेण परम-साम्यापत्ति-श्रुतेः, सत्य-सङ्कल्पत्व-श्रुतेश् च। न हि परम-साम्य-सत्य-सङ्कल्पत्वे सर्वेश्वरासाधारण-जगन्-नियमनेन विनोपपद्यते। अतः सत्य-सङ्कल्पत्व-परम-साम्योपपत्तये समस्त-जगन्-नियमन-रूपम् अपि मुक्तस्यैश्वर्यम् इति। एवं प्राप्ते प्रचक्ष्महे--- जगद्-व्यापार-वर्जम् इति। जगद्-व्यापारः--- निखिल-चेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेद-नियमनम्। तद्-वर्जं निरस्त-निखिल-तिरोधानस्य निर्व्याज-ब्रह्मानुभव-रूपं मुक्तस्यैश्वर्यम्। कुतः। प्रकरणात्--- निखिल-जगन्-नियमनं हि परं ब्रह्म प्रकृत्याम्नायते--- यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्म, इति। यद्य् एतन् निखिल-जगन्-नियमनं मुक्तानाम् अपि साधारणं स्यात्, ततश् चेदं जगद्-ईश्वरत्व-रूपं ब्रह्म-लक्षणं न सङ्गच्छते। असाधारणस्य हि लक्षणत्वम्। तथा--- सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं तद् ऐक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजत, ब्रह्म वा इदम् अग्र आसीद् एकम् एव तद् एकं सन् न व्यभवत् तच्-छ्रेयो-रूपम् अत्यसृजत क्षत्रं यान्य् एतनि देव-क्षत्राणि इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युर् ईशान इति, आत्मा वा इदम् एक एवाग्र आसीत् नान्यत् किञ्चन मिषत् स ईक्षत लोकान् नु सृजा इति स इमान् लोकान् असृजत, एको ह वै नारायण आसीन् न ब्रह्मा नेशानो नेमे द्याव् आपृथिवी न नक्षत्राणि नापो नाग्निर् न सोमो न सूर्यः स एकाकी न रमेत तस्य ध्यानान्त-स्थस्यैका कन्या दशेन्द्रियाणि, इत्यादिषु। यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः इत्य् आरभ्य, य आत्मनि तिष्ठन्न् इत्य् आदिषु च निखिल-जगन्-नियमनं परम-पुरुषं प्रकृत्यैव श्रूयते। असन्निहितत्वाच् च--- न चैतेषु निखिल-जगन्-नियमन-प्रसङ्गेषु मुक्तस्य सन्निधानम् अस्ति, येन जगद्-व्यापारस् तस्यापि स्यात्॥१७॥

Link copied

५४१ प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिक-मण्डल-स्थोक्तेः॥४।४।१८॥

Link copied

स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवति, इमान् लोकान् कामानी काम-रूप्य् अनुसञ्चरन्, इति प्रत्यक्षेण--- श्रुत्या मुक्तस्य जगद्-व्यापार उपदिश्यते; अतो न जगद्-व्यापार-वर्जम् इति चेत् तन् न, आधिकारिक-मण्डल-स्थोक्तेर् आधिकारिकाः--- अधिकारेषु नियुक्ता हिरण्यगर्भादयः, मण्डलानि--- तेषां लोकाः; तत्-स्थाः--- भोगाः मुक्तस्याकर्म-वश्यस्य भवन्तीत्य् अयम् अर्थः तस्य सर्वेषु लोकेषु काम-चारो भवतीत्य् आदिनोच्यते। अकर्म-प्रतिहत-ज्ञानो मुक्तो विकार-लोकान् ब्रह्म-विभूति-भूताननुभूय यथाकामं तृप्यतीत्य् अर्थः। तद् एवं विकारान्तर्वर्तिनः आधिकारिक-मण्डल-स्थान् सर्वान् भोगान् ब्रह्म-विभूति-भूतान् अनुभवतीत्य् अनेन वाक्येनोच्यते, न जगद्-व्यापारः॥१८॥

Link copied

यदि संसारिवन् मुक्तोऽपि विकारान्तर्वतिनो भोगान् भुङ्क्ते, तर्हि बद्धस्येव मुक्तस्याप्य् अन्तवद् एव भोग्य-जातम् अल्पं च स्यात्। तत्राह---

Link copied

५४२ विकारावर्ति च तथा हि स्थितिम् आह॥४।४।१९॥

Link copied

विकारे--- जन्मादिके न वर्तत इति विकारावर्ति; निर्धूत-निखिल-विकारं निखिल-हेय-प्रत्यनीक-कल्याणैकतानं, निरतिशयानन्दं परं ब्रह्म सविभूतिकं सकल-कल्याण-गुणम् अनुभवति मुक्तः। तद्-विभूत्य्-अन्तर्गतत्वेन विकार-वर्तिनां लोकानाम् अपि मुक्त-भोग्यत्वम्। तथा हि परस्मिन् ब्रह्मणि निर्विकारेऽनवधिकातिशयानन्दे मुक्तस्यानुभवितृत्वेन स्थितिम् आह श्रुतिः--- यदा ह्य् एवैष एतस्मिन्न् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवति रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति, इत्य् आदिका। तद्-विभूति-भूतं च जगत् तत्रैव वर्तते तस्मिंल् लोकाश्रिताः सर्वे तद् उ नात्येति कश्चन, इति श्रुतेः। अतः सविभूतिकं ब्रह्मानुभवन् विकारान्तर्वर्तिनः आधिकारिक-मण्डल-स्थान् अपि भोगान् भुङ्कः इति, सर्वेषु लोकेषु काम-चार इत्य् आदिनोच्यते; न मुक्तस्य जगद्-व्यापारः॥१९॥

Link copied

५४३ दर्शयतश् चैवं प्रत्यक्षानुमाने॥४।४।२०॥

Link copied

अस्य प्रत्यगात्मनो मुक्तस्य नियाम्य-भूतस्य नियन्त-भूत-परम-पुरुषासाधारणं जगद्-वयापार-रूपं नियमनं न सम्भवतीत्य् उक्तम्। निखिल-जगन्-नियमन-रूपो व्यापारः परम-पुरुषासाधारण इति दर्शयतः श्रुतिस्-मृती--- भीषास्माद् वातः पवते, भीषोदेति सूर्यः भीषास्माद् अग्निश् चेन्द्रश् च, मृत्युर् धावति पञ्चमः इति, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्य् आदि। तथा--- एष सर्वेश्वर एष भूताधिपतिर् एष भूत-पाल एष सेतुर्विधरण एषां लोकानाम् असम्भेदाय, इति च श्रुतिः। स्मृतिर् अपि, मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगद् धि परिवर्तते इति, विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति च। तथा मुक्तस्य सत्य-सङ्कल्पत्वादि-पूर्वकस्याप्य् आनन्दस्य परम-पुरुष एव हेतुर् इति श्रुति-स्मृती दर्शयतः, एष ह्य् एवानन्दयाति, मां च योऽव्यभिचारेण भक्ति-योगेन सेवते। स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते॥ ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्यच, इति। यद्य् अप्य् अपहत-पाप्मत्वादिः सत्य-सङ्कल्पत्व-पर्यन्तो गुण-गणः प्रत्यगात्मनः स्वाभाविक एवाविर्भूतः, तथापि तस्य तथाविधत्वम् एव परम-पुरुषायत्तम्, तस्य नित्य-स्थितिश् च तदायत्ता; परम-पुरुषस्यैतन्-नित्यतायाः नित्येष्टत्वान् नित्यतया वर्तत इति न कश्चिद् विरोधः। एवम् एव परम-पुरुष-भोगोपकरणस्य लीलोपकरणस्य च नित्यतया शास्त्रावगतस्य परम-पुरुषस्य नित्येष्टत्वाद् एव तथावस्थानम् अस्तीति शास्त्राद् अवगम्यते। अतो मुक्तस्य सत्य-सङ्कल्पत्वं परम-पुरुषसाम्यं च जगद्-व्यापार-वर्जम्॥२०॥

Link copied

५४४ भोग-मात्र-साम्य-लिङ्गाच् च॥४।४।२१॥

Link copied

ब्रह्म-याथात्म्यानुभव-रूप-भोग-मात्रे मुक्तस्य ब्रह्म-साम्य-प्रतिपादनाच् च लिङ्गाज् जगद्-व्यापार-वर्जम् इत्य् अवगम्यते, सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चितेति। अतो मुक्तस्य परम-पुरुष-साम्यं सत्य-सङ्कल्पत्वं च परम-पुरुषासाधारण-निखिल-जगन्-नियमन-श्रुत्य्-आनुगुण्येन वर्णनीयम् इति जगद्-व्यापार-वर्जम् एव मुक्तैश्वर्यम्॥२१॥

Link copied

यदि परम-पुरुषायत्तं मुक्तैश्वर्यं तर्हि तस्य स्व-तन्त्रत्वेन तत्-सङ्कल्पान् मुक्तस्य पुनर्-आवृत्ति-सम्भवाशङ्केत्य् अत्राह---

Link copied

५४५ अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात्॥४।४।२२॥

Link copied

यथा निखिल-हेय-प्रत्यनीक-कल्याणैकतानो जगज्-जन्मादि-कारणं समस्त-वस्तु-विलक्षणः सर्व-ज्ञः सत्य-सङ्कल्पः आश्रित-वात्सल्यैक-जलधिः परम-कारुणिको निरस्त-समाभ्यधिक-सम्भावनः परब्रह्माभिधानः परम-पुरुषोऽस्तीति शब्दाद् अवगम्यते; एवम् अहर् अहर् अनुष्ठीयमान-वर्णाश्रम-धर्मानुगृहीत-तद्-उपासन-रूप-तत्-समाराधन-प्रीतः उपासीनान् अनादि-काल-प्रवृत्तानन्त-दुस्तर-कर्म-सञ्चय-रूपाविद्यां विनिवर्त्य स्व-याथात्म्यानुभवरूपानवधिकातिशयानन्दं प्रापय्य पुनर् नावर्तयतीत्य् अपि शब्दाद् एवावगम्यते। शब्दश् च, स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्तते न च पुनर् आवर्तते इत्य् आदिकः। तथा च भगवता स्वयम् एवोक्तं--- माम् उपेत्य पुनर् जन्म दुःखालयम् अशाश्वतम्। नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥ आब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनोऽर्जुन। माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते इति। न चोच्छिन्न-कर्म-बन्धस्यासङ्कुचित-ज्ञानस्य परब्रह्मानुभवैक-स्वभावस्य तद्-एक-प्रियस्यानवधिकातिशयानन्दं ब्रह्मानुभवतोऽन्यापेक्षा-तद्-अर्थारम्भाद्य्-असम्भवात् पुनर्-आवृत्ति-शङ्का। न च परम-पुरुषः सत्य-सङ्कल्पोऽत्यर्थ-प्रियं ज्ञानिनं लब्ध्वा कदाचिद् आवर्तयिष्यति; य एवम् आह--- प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः। उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम्। आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम्। बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते॥ वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः इति। सूत्राभ्यासः शास्त्र-परिसमाप्तिं द्योतयति। इति सर्वं समञ्जसम्॥२२॥ इति जगद्-व्यापार-वर्जाधिकरणम्॥७॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-शारीरक-मीमांसा-भाष्ये चतुर्थस्याध्यायस्य चतुर्थः पादः॥४॥

Link copied

शास्त्रं च परिसमाप्तम्॥

Link copied
Join our community