वेदार्थसंग्रह
Ve:da:rtha Sangraha
Vedartha Sangraha
The Summary of the Meaning of the Veda — Bhagavad Ramanuja's first major philosophical work, establishing Vishishtadvaita through a reading of the Upanishads. Written in flowing prose rather than sutra-commentary form.
Original Sanskrit · click to toggle
रामानुजाचार्य-विरचितः
Link copiedवेदार्थ-सङ्ग्रहह्
Link copied॥१॥
Link copiedअशेष-चिद्-अचिद्-वस्तु-विशेषिणे शेष-शायिने।
Link copiedनिर्मलानन्त-कल्याण-निधये विष्णवे नमः॥
Link copied॥२॥
Link copiedपरं ब्रह्मैवाज्ञं भ्रम-परिगतं संसरति
Link copiedतत्परोपाध्य्-आलीढं विवशम् अशुभस्यास्पदम् इति।
Link copiedश्रुति-न्यायापेतं जगति विततं मोहनम् इदं
Link copiedतमो येनापास्तं स हि विजयते यामुन-मुनिः॥
Link copied॥३॥
Link copiedअशेष-जगद्-धितानुशासन-श्रुति-निकर-शिरसि समधिगतोऽयम् अर्थो जीव-परमात्मयाथात्म्य-ज्ञान-पूर्वक-वर्णाश्रम-धर्मेतिकर्तव्यताक-परम-पुरुष-चरण-युगल-ध्यानार्चन-प्रणामादिर् अत्यर्थ-प्रियस् तत्-प्राप्ति-फलः।
Link copied॥४॥
Link copiedअस्य जीवात्मनोऽनाद्य्-अविद्या-सञ्चित-पुण्य-पाप-रूप-कर्म-प्रवाह-हेतुक-ब्रह्मादि-सुर-नर-तिर्यक्-स्थावरात्मक-चतुर्विध-देह-प्रवेश-कृत-तत्-तद्-अभिमान-जनितावर्जनीय-भव-भय-विध्वंसनाय देहातिरिक्तात्म-स्वरूप-तत्-स्वभाव-तद्-अन्तरयामि-परमात्म-स्वरूप-तत्-स्वभाव-तद्-उपासन-तत्-फल-भूतात्म-स्वरूपाविर्भाव-पूर्वकानवधिकातिशयानन्द-ब्रह्मानुभव-ज्ञापने प्रवृत्तं हि वेदान्त-वाक्य-जातम्, तत् त्वम् असि। अयम् आत्मा ब्रह्म। य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः। एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः। तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन। ब्रह्म-विद् आप्नोति परम्। तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यत इत्य् आदिकम्।
Link copied॥५॥
Link copiedजीवात्मनः स्वरूपं देव-मनुष्यादि-प्रकृति-परिणाम-विशेष-रूप-नाना-विध-भेद-रहितं ज्ञानानन्दैक-गुणं, तस्यैतस्य कर्म-कृत-देवादि-भेदेऽपध्वस्ते स्वरूप-भेदो वाचाम् अगोचरः स्व-संवेद्यः, ज्ञान-स्वरूपम् इत्य् एतावद् एव निर्देश्यम्। तच् च सर्वेषाम् आत्मनां समानम्।
Link copied॥६॥
Link copiedएवंविध-चिद्-अचिद्-आत्मक-प्रपञ्चस्योद्भव-स्थिति-प्रलय-संसार-निर्वर्तनैक-हेतु-भूतः समस्त-हेय-प्रत्यनीकानन्त-कल्याणतया च स्वेतर-समस्त-वस्तु-विलक्षण-स्वरूपोऽनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणः सर्वात्म-परब्रह्म-पर-ज्योतिः-पर-तत्त्व-परमात्म-सब्दादि-शब्द-भेदैर् निखिल-वेदान्त-वेद्यो भगवान् नारायणः पुरुषोत्तम इत्य् अन्तर्यामि-स्वरूपम्। अस्य च वैभव-प्रतिपादन-पराः श्रुतयः स्वेतर-समस्त-चिद्-अचिद्-वस्तु-जातान्तरात्मतया निखिल-नियमनं तच्-छक्ति-तद्-अंश-तद्-विभूति-तद्-रूप-तच्-छरीर-तत्-तनु-प्रभृतिभिः शब्दैस् तत्-सामानाधिकरण्येन च प्रतिपादयन्ति।
Link copied॥७॥
Link copiedतस्य वैभव-प्रतिपादन-पराणाम् एषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ताः केचन निर्विशेष-ज्ञान-मात्रम् एव ब्रह्म, तच् च नित्य-मुक्त-स्व-प्रकाश-स्वभावम् अपि तत् त्वम् अस्य् आदि सामानाधिकरण्यावगत-जीवैक्यं, ब्रह्मैवाज्ञं बध्यते मुच्यते च, निर्विशेष-चिन्-मात्रातिरेकेश्वरेशितव्याद्य्-अनन्त-विकल्प-रूपं कृत्स्नं जगन् मिथ्या, कश्चिद् बद्धः, कश्चिन् मुक्त इत्य् इयम् अवस्था न विद्यते। इतः पूर्वं केचन मुक्ता इत्य् अयम् अर्थो मिथ्या। एकम् एव शरीरं जीववन् निर्जीवानीतराणि, तच्-छरीरं किम् इति न व्यवस्थितम्, आचार्यो ज्ञानस्योपदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्र-प्रमाता च मिथ्या शास्त्र-जन्यं ज्ञानं च मिथ्या एतत् सर्वं मिथ्या-भूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति।
Link copied॥८॥
Link copiedअपरे त्व् अपहत-पाप्मत्वादि-समस्त-कल्याण-गुणोपेतम् अपि ब्रह्मैतेनैवैक्यावबोधेन केनचिद् उपाधि-विशेषेण सम्बद्धं बध्यते मुच्यते च नाना-विध-मल-रूप-परिणामास्पदं चेति व्यवस्थिताः।
Link copied॥९॥
Link copiedअन्ये पुनर् ऐक्यावबोध-याथात्म्यं वर्णयन्तः स्वाभाविक-निरतिशयापरिमितोदार-गुण-सागरं ब्रह्मैव सुर-नर-तिर्यक्-स्थावर-नारकि-स्वर्ग्य्-अपवर्गि-चेतनेषु स्वभावतो विलक्षणम् अविलक्षणं च वियद्-आदि-नाना-विध-मल-रूप-परिणामास्पदं चेति प्रत्यवतिष्ठन्ते।
Link copied॥१०॥
Link copiedतत्र प्रथम-पक्षस्य श्रुत्य्-अर्थ-पर्यालोचन-परा दुष्परिहारान् दोषान् उदाहरन्ति। प्रकृत-परामर्शि-तच्-छब्दावगत-स्व-सङ्कल्पकृतजगदुदयविभवविलयादयस् तद् ऐक्षत बहु स्यां प्रजायेयेत्य् आरभ्य सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठा इत्य् आदिभिः पदैः प्रतिपादितास् तत्-सम्बन्धितया प्रकरणान्तर-निर्दिष्टाः सर्वज्ञता-सर्व-शक्तित्व-सर्वेश्वरत्व-सर्व-प्रकारत्व-समाभ्यधिक-निवृत्ति-सत्य-कामत्व-सत्य-सङ्कल्पत्व-सर्वावभासकत्वाद्य्-अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणा अपहत-पाप्मेत्य्-आद्य्-अनेक-वाक्यावगत-निरस्त-निखिल-दोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते।
Link copied॥११॥
Link copiedअथ स्याद् उपक्रमेऽप्य् एक-विज्ञानेन सर्व-विज्ञान-मुखेन कारणस्यैव सत्यतां प्रतिज्ञाय तस्य कारण-भूतस्यैव ब्रह्मणः सत्यतां विकार-जातस्यासत्यतां मृद्-दृष्टान्तेन दर्शयित्वा सत्य-भूतस्यैव ब्रह्मणः सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति सजातीय-विजातीय-निखिल-भेद-निरसनेन निर्विशेषतैव प्रतिपादिता। एतच् छोधकानि प्रकरणान्तर-गत-वाक्यान्य् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, निष्कलं निष्क्रियं निर्गुणं, विज्ञानम् आनन्दम् इत्य् आदीनि सर्व-विशेष-प्रत्यनीकैकाकारतां बोधयन्ति। न चैकाकारता-बोधने पदानां पर्यायता। एकत्वेऽपि वस्तुनः सर्व-विशेष-प्रत्यनीकतोपस्थापनेन सर्व-पदानाम् अर्थवत्त्वाद् इति।
Link copied॥१२॥
Link copiedनैतद् एवम्। एक-विज्ञानेन सर्व-विज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान् न सेत्स्यति। सत्यत्व-मिथ्यात्वयोर् एकता-प्रसक्तिर् वा, अपि त्व् एक-विज्ञानेन सर्व-विज्ञानं सर्वस्य तदात्मकत्वेनैव सत्यत्वे सिध्यति।
Link copied॥१३॥
Link copiedअयम् अर्थः--- श्वेतकेतुं प्रत्याह स्तब्धोऽस्य् उत तम् आदेशम् अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तान् आचार्यान् प्रति तम् अप्य् आदेशं पृष्टवान् असीति। आदिश्यतेऽनेनेत्य् आदेशः। आदेषः प्रशासनम्। एतस्य वा अक्षरस्य गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्य् आदिभिर् ऐक्यर्थ्यात्। तथा च मानवं वचः प्रशासितारं सर्वेषाम् इत्य् आदि। अत्राप्य् एकम् एवेति जगद्-उपादानतां प्रतिपाद्याद्वितीय-पदेनाधिष्ठातर-निवारणाद् अस्यैवाधिष्ठातृत्वम् अपि प्रतिपाद्यते। अतस् तं प्रशासितारं जगद्-उपादान-भूतम् अपि पृष्टवान् असि येन श्रुतेन मतेन विज्ञातेनाश्रुतम् अमतम् अविज्ञानं श्रुतं मतं विज्ञातं भवतीत्य् उक्तं स्यात्। निखिल-जगद्-उदय-विभव-विलयादि-कारण-भूतं सर्वज्ञत्व-सत्य-कामत्व-सत्य-सङ्कल्पत्व-परिमितोदार-गुण-गण-सागरं किं ब्रह्मापि त्वया श्रुतम् इति हार्दो भावः। तस्य निखिल-कारणतया कारणम् एव नाना-संस्थान-विशेष-संस्थितं कार्यम् इत्य् उच्यत इति कारण-भूत-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरक-ब्रह्म-विज्ञानेन कारण-भूतम् अखिलं जगद् विज्ञातं भवतीति हृदि निधाय येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं स्याद् इति पुत्रं प्रति पृष्टवान् पिता। तद् एतत् सकलस्य वस्तु-जातस्यैक-कारणत्वं पितृ-हृदि निहितम् अजानन् पुत्रः परस्पर-विलक्षणेषु वस्तुष्व् अन्यस्य ज्ञानेन तद्-अन्य-विज्ञानस्याघटमानतां बुद्ध्वा परिचोदयति--- कथं नु भगवः स आदेश इति।
Link copied॥१४॥
Link copiedपरिचोदितः पुनस् तद् एव हृदि निहितं ज्ञानानन्दामलत्वैक-स्वरूपम् अपरिच्छेद्य-माहात्म्यं सत्य-सङ्कल्पत्व-मिश्रैर् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणैर् जुष्टम् अविकार-स्वरूपं परं ब्रह्मैव नाम-रूप-विभागानर्ह-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं स्व-लीलायै स्व-सङ्कल्पेनानन्त-विचित्र-स्थिर-त्रस-स्वरूप-जगत्-संस्थानं स्वांशेनावस्थितम् इति।
Link copied॥१५॥
Link copiedतज्-ज्ञानेनास्य निखिलस्य ज्ञाततां ब्रुवंल् लोक-दृष्टं कार्य-कारणयोर् अनन्यत्वं दर्शयितुं दृष्टान्तम् आह--- यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं स्याद् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति। एकम् एव मृद्-द्रव्यं स्वैकदेशेन नाना-व्यवहारास्पदत्वाय घट-शरावादि-नाना-संस्थानावस्था-रूप-विकारापन्नं नाना-नामधेयम् अपि मृत्तिका-संस्थान-विशेषत्वान् मृद्-द्रव्यम् एवेत्थम् अवस्थितं न वस्त्व्-अन्तरम् इति। यथा मृत्-पिण्ड-विज्ञानेन तत्-संस्थान-विशेषरूपं घट-शरावादि सर्वं ज्ञातम् एव भवतीत्य् अर्थः।
Link copied॥१६॥
Link copiedततः कृत्स्नस्य जगतो ब्रह्मैक-कारणताम् अजानन् पुत्रः पृच्छति भगवांस् त्व् एव मे तद् ब्रवीत्व् इति। ततः सर्वज्ञं सर्व-शक्ति ब्रह्मैव सर्व-कारणम् इत्य् उपदिशन् स होवाच सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति। अत्रेदम् इति जगन् निर्दिष्टम्। अग्र इति च सृष्टेः पूर्व-कालः। तस्मिन् काले जगतः सद्-आत्मकतां सद् एवेति प्रतिपाद्य, तत्-सृष्टि-कालेऽप्य् अविशिष्टम् इति कृत्वैकम् एवेति सद्-आपन्नस्य जगतस् तदानीम् अविभक्त-नाम-रूपतां प्रतिपाद्य तत्-प्रतिपादनेनैव सतो जगद्-उपादानत्वं प्रतिपादितम् इति स्व-व्यतिरिक्त-निमित्त-कारणम् अद्वितीय-पदेन प्रतिषिद्धम्।
Link copied॥१७॥
Link copiedतम् आदेशं प्राक्ष्यो येनाश्रुतं श्रुतं भवतीत्य् आदाव् एव प्रशास्तितैव जगद्-उपादानम् इति हृदि निहितम् इदानीम् अभिव्यक्तम्। स्वयम् एव जगद्-उपादानं जगन्-निमित्तं च सत् तद् ऐक्षत बहु स्यां प्रजायेयेति। तद् एतच् छब्द-वाच्यं परं ब्रह्म सर्वज्ञं सर्व-शक्ति सत्य-सङ्कल्पम् अवाप्त-समस्त-कामम् अपि लीलार्थं विचित्रानन्त-चिद्-अचिन्-मिश्र-जगद्-रूपेणाहम् एव बहु स्यां तद्-अर्थं प्रजायेयेति स्वयम् एव सङ्कल्प्य स्वांशैकदेशाद् एव वियद्-आदि-भूतानि सृष्ट्वा पुनर् अपि सैव सच्-छब्दाभिहिता परा देवतैवम् ऐक्षत हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति। अनेन जीवेनात्मनेति जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्म-जीवानुप्रवेशाद् एव कृत्स्नस्याचिद्-वस्तुनः पदार्थत्वम् एवम्भूतस्यैव सर्वस्य वस्तुनो नाम-भाक्त्वम् इति च दर्शयति। एतद् उक्तं भवति जीवात्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद् ब्रह्मात्मकः। यस्यात्मा शरीरम् इति श्रुत्यन्तरात्। एवम्भूतस्य जीवस्य शरीरतया प्रकार-भूतानि देव-मनुष्यादि-संस्थानानि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि। अतो देवो मनुष्यो राक्षसः पशुर् मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्य् आदयः सर्वे प्रकृति-प्रत्यय-योगेनाभिधायकतया प्रसिद्धाः शब्दा लोके तत्-तद्-वाच्यतया प्रतीयमान-तत्-तत्-संस्थान-वस्तु-मुखेन तद्-अभिमानि-जीव-तद्-अन्तर्यामि-परमात्म-पर्यन्त-सङ्घातस्यैव वाचका इति।
Link copied॥१८॥
Link copiedएवं समस्त-चिद्-अचिद्-आत्मक-प्रपञ्चस्य सद्-उपादानतासन्-निमित्ततासदाधारतासन्-नियम्यतासच्-छेषतादि सर्वं च सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठा इत्य् आदिना विस्तरेण प्रतिपाद्य कार्य-कारण-भावादि-मुखेनैतदात्म्यम् इदं सर्वं तत् सत्यम् इति कृत्स्नस्य जगतो ब्रह्मात्मकत्वम् एव सत्यम् इति प्रतिपाद्य कृत्स्नस्य जगतः स एवात्मा कृत्स्नं जगत् तस्य शरीरं तस्मात् त्वं-शब्द-वाच्यम् अपि जीव-प्रकारं ब्रह्मैवेति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातं तत् त्वम् असीति जीव-विशेष उपसंहृतम्।
Link copied॥१९॥
Link copiedएतद् उक्तं भवति। ऐतदात्म्यम् इदं सर्वम् इति चेतनाचेतन-प्रपञ्चम् इदं सर्वम् इति निर्दिश्य तस्य प्रपञ्चस्यैष आत्मेति प्रतिपादितः, प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं प्रतिपादितम् इत्य् अर्थः। तद् इदं ब्रह्मात्मकत्वं किम् आत्म-शरीर-भावेनोत स्वरूपेणेति विवेचनीयम्। स्वरूपेण चेद् ब्रह्मणः सत्य-सङ्कल्पाद्यस् तद् ऐक्षत बहु स्यं प्रजायेयेत्य् उपक्रमावगता बाधिता भवन्ति। शरीरात्म-भावेन च तदात्मकत्वं श्रुत्य्-अन्तराद् विशेषतोऽवगतम् अन्तः-प्रविष्टः शास्ता जनानां सर्वात्मेति प्रशासितृत्व-रूपात्मत्वेन सर्वेषां जनानाम् अन्तः-प्रविष्टोऽतः सर्वात्मा सर्वेषां जनानाम् आत्मा सर्वं चास्य शरीरम् इति विशेषतो ज्ञायते ब्रह्मात्मकत्वम्। य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृत इति च। अत्राप्य् अनेन जीवेनात्मनेतीदम् एव ज्ञायत इति पूर्वम् एवोक्तम्। अतः सर्वस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरत्वात् सर्व-प्रकारं सर्व-शब्दैर् ब्रह्मैवाभिधीयत इति तत् त्वम् इति सामानाधिकरण्येन जीव-शरीरतया जीव-प्रकारं ब्रह्मैवाभिहितम्।
Link copied॥२०॥
Link copiedएवम् अभिहिते सत्य् अयम् अर्थो ज्ञायते त्वम् इति यः पूर्वं देहस्याधिष्ठातृतया प्रतीतः स परमात्म-शरीरतया परमात्म-प्रकार-भूतः परमात्म-पर्यन्तः। अतस् त्वम् इति शब्दस् त्वत्-प्रकार-विशिष्टं त्वद्-अन्तर्यामिणम् एवाचष्ट इति। अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति ब्रह्मात्मकतयैव जीवस्य शरीरिणः स्व-नाम-भाक्त्वात् तत् त्वम् इति सामानाधिकरण्य-प्रवृत्तयोर् द्वयोर् अपि पदयोर् ब्रह्मैव वाच्यम्। तत्र च तत्-पदं जगत्-कारण-भूतं सकल-कल्याण-गुण-गणाकरं निर्वद्यं निर्विकारम् आचष्टे। त्वम् इति च तद् एव ब्रह्म जीवान्तर्यामि-रूपेण सशरीर-प्रकार-विशिष्टम् आचष्टे। तद् एवं प्रवृत्ति-निमित्त-भेदेनैकस्मिन् ब्रह्मण्य् एव तत् त्वम् इति द्वयोः पदयोर् वृत्तिर् उक्ता। ब्रह्मणो निरवद्यं निर्विकारं सकल-कल्याण-गुण-गणाकरत्वं जगत्-कारणत्वं चाबाधितम्।
Link copied॥२१॥
Link copiedअश्रुत-वेदान्ताः पुरुषाः पदार्थाः सर्वे जीवात्मनश् च ब्रह्मात्मका इति न पश्यति सर्व-शब्दानां च केवलेषु तत्-तत्-पदार्थेषु वाच्यैकदेशेषु वाच्य-पर्यवसानं मन्यन्ते। इदानीं वेदान्त-वाक्य-श्रवणेन ब्रह्म-कार्यतया तद्-अन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं सर्व-शब्दानां तत्-तत्-प्रकार-संस्थित-ब्रह्म-वाचित्वं च जानन्ति। नन्व् एवं गवादि-शब्दानां तत्-तत्-पदार्थ-वाचितया व्युत्पत्तिर् बाधिता स्यात्। नैवं सर्वे शब्दा अचिज्-जीव-विशिष्टस्य परमात्मनो वाचका इत्य् उक्तम्। नाम-रूपे व्याकरवाणीत्य् अत्र। तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्द-वाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्य्-अपरिच्छेद्यत्वाद् वाच्यैकदेश-भूते वाच्य-समाप्तिं मन्यन्ते। वेदान्त-श्रवणेन च व्युत्पत्तिः पूर्यते। एवम् एव वैदिकाः सर्वे शब्दाः परमात्म-पर्यन्तान् स्वार्थान् बोधयन्ति। वैदिका एव सर्वे शब्दा वेदादव् उद्धृत्योद्धृत्य परेणैव ब्रह्मणा सर्व-पदार्थान् पूर्ववत् सृष्ट्वा तेषु परमात्म-पर्यन्तेषु पूर्ववन् नामतया प्रयुक्ताः। तद् आह मनुः---
Link copiedसर्वेषां तु नामानि कर्माणि च पृथक् पृथक्।
Link copiedवेद-शब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे॥इति।
Link copiedसंस्थाः संस्थानानि रूपाणीति यावत्। आह च भगवान् पराशरः---
Link copiedनाम रूपं भूतानां कृत्यानां प्रपञ्चनम्।
Link copiedवेद-शब्देभ्य एवादौ दैवादीनां चकार सः॥
Link copiedइति। श्रुतिश् च सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयद् इति। सूर्यादीन् पूर्ववत् परिकल्प्य नामानि च पूर्ववच् चकार इत्य् अर्थः।
Link copied॥२२॥
Link copiedएवं जगद्-ब्रह्मणोर् अनन्यत्वं प्रपञ्चितम्। तेनैकेन ज्ञातेन सर्वस्य ज्ञाततोऽपपादिता भवति। सर्वस्य ब्रह्म-कार्यत्व-प्रतिपादनेन तदात्मकतयैव सत्यत्वं नान्यथेति तत् सत्यम् इत्य् उक्तम्। यथा दृष्टान्ते सर्वस्य मृद्-विकारस्य मृद्-आत्मनैव सत्यत्वम्।
Link copied॥२३॥
Link copiedशोधक-वाक्यान्य् अपि निरवद्यं सर्व-कल्याण-गुणाकरं परं ब्रह्म बोधयन्ति। सर्व-प्रत्यनीकाकारताबोधनेऽपि तत्-तत्-प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वान् न निर्विशेष-वस्तु-सिद्धिः।
Link copied॥२४॥
Link copiedननु च ज्ञान-मात्रं ब्रह्मेति प्रतिपादिते निर्विशेष-ज्ञान-मात्रं ब्रह्मेति निश्चीयते। नैवं। स्वरूप-निरूपण-धर्म-शब्दा हि धर्म-मुखेन स्वरूपम् अपि प्रतिपादयन्ति। गवादि-शब्दवत्। तद् आह सूत्र-कारः--- तद्-गुण-सारत्वात् तद्-व्यपदेशः प्राज्ञवत्। यावद् आत्म-भावितत्वाच् च न दोष इति। ज्ञानेन धर्मेण स्वरूपम् अपि निरूपितं न ज्ञान-मात्रं ब्रह्मेति। कथम् इदम् अवगम्यत इति चेद् यः सर्व-ज्ञः सर्व-विद् इत्य् आदि ज्ञातृत्व-श्रुतेः परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च। विज्ञातारम् अरे केन विजानीयाद् इत्य् आदि श्रुति-शत-समधिगतम् इदम्। ज्ञानस्य धर्म-मात्रत्वाद् धर्म-मात्रस्यैकस्य वस्तुत्व-प्रतिपादनानुपपत्तेश् च। अतः सत्य-ज्ञानादि-पदानि स्वार्थ-भूत-ज्ञानादि-विशिष्टम् एव ब्रह्म प्रतिपादयन्ति। तत् त्वम् इति द्वयोर् अपि पदयोः स्वार्थ-प्रहाणेन निर्विशेष-वस्तु-स्वरूपोपस्थापन-परत्वे मुख्यार्थ-परित्यागश् च।
Link copied॥२५॥
Link copiedनन्व् ऐक्ये तात्पर्य-निश्चयान् न लक्षणा-दोषः। सोऽयं देवदत्त इतिवत्। यथा सोऽयम् इत्य् अत्र स इति शब्देन देशान्तर-कालान्तर-सम्बन्धी पुरुषः प्रतीयत अयम् इति च सन्निहित-देश-वर्तमान-काल-सम्बन्धी, तयोः सामानाधिकरण्येनैक्यं प्रतीयते। तत्रैकस्य युगपद् विरुद्ध-देश-काल-सम्बन्धितया प्रतीतिर् न घटत इति द्वयोर् पदयोः स्वरूप-मात्रोपस्थापन-परत्वं स्वरूपस्य चैक्यं प्रतिपद्यत इति चेन् नैतद् एवम्। सोऽयं देवदत्त इत्य् अत्रापि लक्षणा-गन्धो न विद्यते। विरोधाभावात्। एकस्य भूत-वर्तमान-क्रिया-द्वय-सम्बंधो न विरुद्धः। देशान्तर-स्थितिर् भूत्वा सन्निहित-देश-स्थितिर् वर्तते। अतो भूत-वर्तमान-क्रिया-द्वय-सम्बन्धितयैक्य-प्रतिपादनम् अविरुद्धम्। देश-द्वय-विरोधश् च काल-भेदेन परिहृतः। लक्षणायाम् अपि न द्वयोर् अपि पदयोर् लक्षणा-समाश्रयणम्। एतेनैव लक्षितेन विरोध-परिहारात्। लक्षणाभाव एवोक्तः। देशान्तर-सम्बन्धितया भूतस्यैवान्य-देश-सम्बन्धितया वर्तमानत्वाविरोधात्।
Link copied॥२६॥
Link copiedएवम् अत्रापि जगत्-कारण-भूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वम् अविरुद्धम् इति प्रतिपादितम्। यथा भूतयोर् एव हि द्वयोर् ऐक्यं सामानाधिकरण्येन प्रतीयते। तत्-परित्यागेन स्वरूप-मात्रैक्यं न सामानाधिकरण्यार्थः भिन्न-प्रवृत्ति-निमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्-विदः। तथाभूतयोर् ऐक्यम् उपपादितम् अस्माभिः। उपक्रम-विरोध्य्-उपसंहार-पदेन वाक्य-तात्पर्य-निश्चयश् च न घटते। उपक्रमे हि तद् ऐक्षत बहु स्याम् इत्य् आदिना सत्य-सङ्कल्पत्वं जगद्-एक-कारणत्वम् अप्य् उक्तम्। तद्-विरोधि चाविद्याश्रयत्वादि ब्रह्मणः।
Link copied॥२७॥
Link copiedअपि चार्थ-भेद-तत्-संसर्ग-विशेष-बोधन-कृत-पद-वाक्यस्य स्वरूपता-लब्ध-प्रमाण-भावस्य शब्दस्य निर्विशेष-वस्तु-बोधनासामर्थान् न निर्विशेष-वस्तुनि शब्दः प्रमाणम्। निर्विशेष इत्य् आदि शब्दास् तु केनचिद् विशेषेण विशिष्टतयावगतस्य वस्तुनो वस्त्व्-अन्तर-गत-विशेष-निषेध-परतया बोधकाः। इतरथा तेषम् अप्य् अनवबोधकत्वम् एव। प्रकृति-प्रत्यय-रूपेण पदस्यैवानेकविशेष-गर्भत्वाद् अनेक-पदार्थ-संसर्ग-बोधकत्वाच् च वाक्यस्य।
Link copied॥२८॥
Link copiedअथ स्यान् नास्माभिर् निर्विशेषे स्वयम्प्रकाशे वस्तुनि शब्दः प्रमाणम् इत्य् उच्यते। स्वतः-सिद्धस्य प्रमाणानपेक्षत्वात्। सर्वैः शब्दैस् तद्-उपराग-विशेषा ज्ञातृत्वादयः सर्वे निरस्यन्ते। सर्वेषु विशेषेषु निवृत्तेषु वस्तु-मात्रम् अनवच्छिन्नं स्वयम्प्रकाशं स्वत एवावतिष्ठत इति। नैतद् एवम्। केन शब्देन तद् वस्तु निर्दिश्य तद्-गत-विशेषा निरस्यन्ते। ज्ञप्ति-मात्र-शब्देनेति चेन् न। सोऽपि सविशेषम् एव वस्त्व्-अवलम्बते। प्रकृति-प्रत्यय-रूपेण विशेष-गर्भत्वात्। ज्ञा अवबोधन इति सकर्मकः सकर्तृकः क्रिया-विशेषः क्रियान्तर-व्यावर्तक-स्वभाव-विशेषश् च प्रकृत्यावगम्यते। प्रत्ययेन च लिङ्ग-सङ्ख्यादयः। स्वतः-सिद्धाव् अप्य् एतत्-स्वभाव-विशेष-विरहे सिद्धिर् एव न स्यात्। अन्य-साधन-स्वभावतया हि ज्ञप्तेः स्वतः-सिद्धिर् उच्यते।
Link copied॥२९॥
Link copiedब्रह्म-स्वरूपं कृत्स्नं सर्वदा स्वयम् एव प्रकाशते चेन् न तस्मिन्न् अन्य-धर्माध्यासः सम्भवति। न हि रज्जु-स्वरूपेऽवभासमाने सर्पत्वादिर् अध्यस्यते। अत एव हि भवद्भिर् आच्छादिकाविद्याभ्युपगम्यते। ततश् च शास्त्रीय-निवर्तक-ज्ञानस्य ब्रह्मणि तिरोहितांशो विषयः। अन्यथा तस्य निवर्तकत्वं च न स्यात्। अधिष्ठानातिरेकि-रज्जुत्व-प्रकाशनेन हि सर्पत्वं बाध्यते। एकश् चेद् विशेषो ज्ञान-मात्रे वस्तुनि शब्देनाभिधीयते स च ब्रह्म-विशेषणं भवतीति सर्व-श्रुति-प्रतिपादित-सर्व-विशेषण-विशिष्टं ब्रह्म भवति।
Link copied॥३०॥
Link copiedअतः प्रामाणिकानां न केनापि प्रमाणेन निर्विशेष-वस्तु-सिद्धिः। निर्विकल्पक-प्रत्यक्षेऽपि सविशेषम् एव वस्तु प्रतीयते। अन्यथा सविकल्पके सोऽयम् इति पूर्वावगत-प्रकार-विशिष्ट-प्रत्ययानुपपत्तेः। वस्तु-संस्थान-विशेष-रूपत्वाद् गोत्वादेर् निर्विकल्पक-दशायाम् अपि ससंस्थानम् एव वस्त्व् इत्थम् इति प्रतीयते। द्वितीयादि-प्रत्ययेषु तस्य संस्थान-विशेषस्यानेक-वस्तु-निष्ठता-मात्रं प्रतीयते। संस्थान-रूप-प्रकाराख्यस्य पदार्थस्यानेक-वस्तु-निष्ठतयानेक-वस्तु-विशेषणत्वं द्वितीयादि-प्रत्ययावगम्यम् इति द्वितीयादि-प्रत्ययाः सविकल्पका इत्य् उच्यन्ते। अत एवैकस्य पदार्थस्य भिन्नाभिन्नत्व-रूपेण द्व्यात्मकत्वं विरुद्धं प्रत्युक्तम्। संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वम्। प्रकारत्वाद् एव पृथक्सिद्ध्य्-अनर्हत्वं पृथग्-अनुपलम्भश् चेति न द्व्य्-आत्मकत्व-सिद्धिः।
Link copied॥३१॥
Link copiedअपि च निर्विशेष-वस्त्व्-आदिना स्वयम्प्रकाशे वस्तुनि तद्-उपराग-विशेषाः सर्वैः शब्दैर् निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम्। वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति विकार-नामधेययोर् वाचारम्भण-मात्रत्वात्। यत् तत्र कारणतयोपलक्ष्यते वस्तु-मात्रं तद् एव सत्यम् अन्यद् असत्यम् इतीयं श्रुतिर् वदतीति चेन् नैतद् उपपद्यते। एकस्मिन् विज्ञाते सर्वं विज्ञातं भवतीति प्रतिज्ञातेऽन्य-ज्ञानेनान्य-ज्ञानासम्भवं मन्वानस्यैकम् एव वस्तु विकाराद्य्-अवस्था-विशेषेण पारमार्थिकेनैव नाम-रूपम् अवस्थितं चेत् तत्रैकस्मिन् विज्ञाते तस्माद् विलक्षण-संस्थानान्तरम् अपि तद् एवेति तत्र दृष्टान्तोऽयं निदर्शितः। नात्र कस्यचिद् विशेषस्य निषेधकः कोऽपि शब्दो दृश्यते। वाचारम्भणम् इति वाचा व्यवहारेणारभ्यत इत्य् आरम्भणम्। पिण्ड-रूपेणावस्थितायाः मृत्तिकाया नाम वान्यद् व्यवहारश् चान्यः। घट-शरावादि-रूपेणावस्थितायास् तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश् चान्यदृशाः। तथापि सर्वत्र मृत्तिका-द्रव्यम् एकम् एव नाना-संस्थान-नाना-नामधेयाभ्यां नाना-व्यवहारेण चारभ्यत इत्य् एतद् एव सत्यम् इत्य् अनेनान्य-ज्ञानेनान्य-ज्ञान-सम्भवो निदर्शितः। नात्र किञ्चिद् वस्तु निषिध्यत इति पूर्वम् एवायम् अर्थः प्रपञ्चितः।
Link copied॥३२॥
Link copiedअपि च येनाश्रुतं श्रुतम् इत्य् आदिना ब्रह्म-व्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद् यथा सोम्यैकेन मृत्-पिण्डेनेत्य् आदि दृष्टान्तः साध्य-विकलः स्यात्। रज्जु-सर्पादिवन् मृत्तिका-विकारस्य घट-शरावादेर् असत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणान्तरेण युक्त्या चासिद्धम् इत्य् एतद् अपि सिषाधयिषितम् इति चेत्। यथेति दृष्टान्तयोपादानं न घटते।
Link copied॥३३॥
Link copiedसद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् एवाद्वितीयम् इत्य् अत्र सद् एवैकम् एवेत्य् अवधारण-द्वयेनाद्वितीयम् इत्य् अनेन च सन्-मात्रातिरेकि-सजातीय-विजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्नैतद् एवम्। कार्य-कारण-भावावस्था-द्वयावस्थितस्यैकस्य वस्तुन एकावस्थावस्थितस्य ज्ञानेनावस्थान्तरावस्थितस्यापि वस्त्व्-ऐक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोर् अप्रज्ञातं सर्वस्य ब्रह्म-कारणत्वं च वक्तुं सद् एव सोम्येदम् इत्य् आरब्धम्। इदम् अग्रे सद् एवासीद् इति। अग्र इति काल-विशेषः। इदं-शब्द-वाच्यस्य प्रपञ्चस्य सद्-आपत्ति-रूपां क्रियां सद्रव्यतां च वदति। एकम् एवेति चास्य नाना-नाम-रूप-विकार-प्रहाणम्। एतस्मिन् प्रतिपादितेऽस्य जगतः सद्-उपादानता प्रतिपादिता भवति। अन्यत्रोपादान-कारणस्य स्व-व्यतिरिक्ताधिष्ठात्रपेक्षा-दर्शनेऽपि सर्व-विलक्षणत्वाद् अस्य सर्व-ज्ञस्य ब्रह्मणः सर्व-शक्ति-योगो न विरुद्ध इत्य् अद्वितीय-पदम् अधिष्ठात्रन्तरं निवारयति। सर्व-शक्ति-युक्तत्वाद् एव ब्रह्मणः। काश्चन श्रुतयः प्रथमम् उपादान-कारणत्वं प्रतिपाद्य निमित्त-कारणम् अपि तद् एवेति प्रतिपादयन्ति। यथेयं श्रुतिः। अन्याश् च श्रुतयो ब्रह्मणो निमित्त-कारणत्वम् अनुज्ञायास्यैवोपादानतादि कथम् इति परिचोद्य, सर्व-शक्ति-युक्तत्वाद् उपादान-कारणं तद्-इतराशेषोपकरणं च ब्रह्मैवेति परिहरन्ति किंस्विद् वनं क उ स वृक्ष आसीद् यतो द्याव् आपृथिवी निष्टतक्षुः, मणीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन्। ब्रह्म वनं ब्रह्म स वृक्ष आसीद् यतो द्याव् आपृथिवी निष्टतक्षुर् मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद् भुवनानि। धारयन्न् इति सामान्यतो दृष्टेन विरोधम् आशङ्क्य ब्रह्मणः सर्व-विलक्षणत्वेन परिहार उक्तः। अतः सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्राप्य् अग्र इत्य् आद्य् अनेक-विशेषा ब्रह्मणो प्रतिपादिताः। भवद्-अभिमत-विशेष-निषेध-वाची कोऽपि शब्दो न दृश्यते। प्रत्युत जगद्-ब्रह्मणोः कार्य-कारण-भाव-ज्ञापनायाग्र इति काल-विशेष-सद्-भावः। आसीद् इति क्रिया-विशेषो, जगद्-उपादानता जगन्-निमित्तता च, निमित्तोपादानयोर् भेद-निरसनेन तस्यैव ब्रह्मणः सर्व-शक्ति-योगश् चेत्य् अप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः।
Link copied॥३४॥
Link copiedयतो वास्तव-कार्य-कारण-भावादि-विज्ञाने प्रवृत्तम् अत एवासद् एवेदम् अग्र आसीद् इत्य् आरभ्यासत्कार्यवाद-निषेधश् च क्रियते कुतस् तु खलु सोम्यैवं स्याद् इति। प्रागसत उत्पत्तिर् अहेतुकेत्य् अर्थः। तद् एवोपपादयति कथम् असतः सज् जायेतेति। असत उत्पन्नम् असद्-आत्मकम् एव भवतीत्य् अर्थः। यथा मृद् उत्पन्नं घटादिकं मृद्-आत्मकम्। सत उत्पत्तिर् नाम व्यवहार-विशेष-हेतु-भूतोऽवस्था-विशेष-योगः।
Link copied॥३५॥
Link copiedएतद् उक्तं भवति--- एकम् एव कारण-भूतं द्रव्यम् अवस्थान्तर-योगेन कार्यम् इत्य् उच्यत इत्य् एक-विज्ञानेन सर्व-विज्ञानं प्रतिपिपादयिषितम्। तद् असत्कार्यवादे न सेत्स्यति। तथा हि निमित्त-समवाय्य-समवायि-प्रभृतिः कारणैर् अवयव्य्-आख्यं कार्यं द्रव्यान्तरम् एवोत्पद्यत इति कारण-भूताद् वस्तुनः कार्यस्य वस्त्व्-अन्तरत्वान् न तज्-ज्ञानेनास्य ज्ञातता कथम् अपि सम्भवतीति। कथम् अवयवि द्रव्यान्तरं निरस्यत इति चेत्। कारण-गतावस्थान्तर-योगस्य द्रव्यान्तरोत्पत्ति-वादिनः सम्प्रतिपन्नस्यैवैकत्व-नामान्तरादेर् उपपादकत्वाद् द्रव्यान्तरादर्शनाच् चेति कारणम् एवावस्थान्तरापन्नं कार्यम् इत्य् उच्यत इत्य् उक्तम्।
Link copied॥३६॥
Link copiedननु निरधिष्ठान-भ्रमासम्भव-ज्ञापनायासत्कार्यवाद-निरासः क्रियते। तथा ह्य् एकं चिद्-रूपं सत्यम् एवाविद्याच्छादितं जगद्-रूपेण विवर्तत इत्य् अविद्याश्रयत्वाय मूल-कारणं सत्यम् इत्य् अभ्युपगन्तव्यम् इत्य् असत्कार्यवाद-निरासः। नैतद् एवम्। एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा-दृष्टान्त-मुखेन सत्कार्यवादस्यैव प्रसक्तत्वाद् इत्य् उक्तम्। भवत्-पक्षे निरधिष्ठान-भ्रमासम्भवस्य दुरुपपादत्वाच् च। यस्य हि चेतन-गत-दोषः पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिक-दोषेण युक्तस्यापारमार्थिक-गन्धर्व-नगरादि-दर्शनम् उपपन्नं, यस्य तु दोषश् चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्य् आश्रयेण तद् उपपन्नम् इति भवत्-पक्षे न निरधिष्ठान-भ्रमासम्भवः।
Link copied॥३७॥
Link copiedशोधकेष्व् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्मेत्य् आदिषु वाक्येषु सामान्याधिकरण्य-व्युत्पत्ति-सिद्धानेक-गुण-विशिष्टैकार्थावबोधनम् अविरुद्धम् इति सर्व-गुण-विशिष्टं ब्रह्माभिधीयत इति पूर्वम् एवोक्तम्।
Link copied॥३८॥
Link copiedअथात आदेशो नेति नेतीति बहुधा निषेधो दृष्यत इति चेत्। किम् अत्र निषिध्यत इति वक्तव्यम्। द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेति मूर्तामूर्तात्मकः प्रपञ्चः सर्वोऽपि निषिध्यत इति चेन् नैवम्। ब्रह्मणो रूपतयाप्रज्ञातं सर्वं रूपतयोपदिश्य पुनर् तद् एव निषेद्धुम् अयुक्तम्। प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् इति न्यायात्। कस् तर्हि निषेध-वाक्यार्थः। सूत्र-कारः स्वयम् एव वदति--- प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति। उत्तरत्र अथ नामधेयं सत्य् अस्य सत्यं प्राणा वै सत्यं तेषाम् एष सत्यम् इति सत्यादि-गुण-गणस्य प्रतिपादितत्वात् पूर्व-प्रकृतैतावन् मात्रं न भवति ब्रह्मेति, ब्रह्मण एतावन्-मात्रता प्रतिषिध्यत इति सूत्रार्थः।
Link copied॥३९॥
Link copiedनेह नानास्ति किञ्चनेत्य् आदिना नानात्व-प्रतिषेध एव दृष्यत इति चेत्। अत्राप्य् उत्तरत्र सर्वस्य वशी सर्वस्येशन इति सत्य-सङ्कल्पत्व-सर्वेश्वरत्व-प्रतिपादनाच् चेतन-वस्तु-शरीर ईश्वर इति सर्व-प्रकार-संस्थितः स एक एवेति तत्-प्रत्यनीकाब्रह्मात्मक-नानात्वं प्रतिषिद्धं न भवद्-अभिमतम्। सर्वास्व् एवम्प्रकारासु श्रुतिष्व् इयम् एव स्थितिर् इति न क्वचिद् अपि ब्रह्मणः सविशेषत्व-निषेधक-वाची कोऽपि शब्दो दृश्यते।
Link copied॥४०॥
Link copiedअपि च निर्विशेष-ज्ञान-मात्रं ब्रह्म तच् चाच्छादिकाविद्या-तिरोहित-स्वरूपं स्वगत-नानात्वं पश्यतीत्य् अयम् अर्थो न घटते। तिरोधानं नाम प्रकाश-निवारणम्। स्वरूपातिरेकि-प्रकाश-धर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात् स्वरूपनाश एव स्यात्। प्रकाश-पर्यायं ज्ञानं नित्यं स च प्रकाशोऽविद्या-तिरोहित इति बालिश-भाषितम् इदम्। अविद्यया प्रकाश-तिरोहित इति प्रकाशोत्पत्ति-प्रतिबन्धो विद्यमानस्य विनाशो वा। प्रकाशस्यानुत्पाद्यत्वाद् विनाश एव स्यात्। प्रकाशो नित्यो निर्विकारस् तिष्ठतीति चेत्। सत्याम् अप्य् अविद्यायां ब्रह्मणि न किञ्चित् तिरोहितम् इति नानात्वं पश्यतीति भवताम् अयं व्यवहारः सत्स्व् अनिर्वचनीय एव।
Link copied॥४१॥
Link copiedननु च भवतोऽपि विज्ञान-स्वरूप आत्माभ्युपगन्तव्यः। स च स्वयम्प्रकाशः। तस्य च देवादि-स्वरूपात्माभिमाने स्वरूप-प्रकाश-तिरोधानम् अवश्यम् आश्रयणीयम्। स्वरूप-प्रकाशे सति स्वात्मन्य् आकारान्तराध्यासायोगात्। अतो भवतश् चायं समानो दोषः। किं चास्माकम् एकस्मिन्न् एवात्मनि भवद्-उदीरितं दुर्घटत्वं भवताम् आत्मानन्त्याभ्युपगमात् सर्वेष्व् अयं दोषः परिहरणीयः।
Link copied॥४२॥
Link copiedअत्रोच्यते--- स्वभावतो मल-प्रत्यनीकानन्त-ज्ञानानन्दैक-स्वरूपं स्वाभाविकानवधिकातिशयापरिमितोदार-गुण-सागरं निमेष-काष्ठा-कला-मुहूर्तादि-परार्ध-पर्यन्तापरिमित-व्यवच्छेद-स्वरूप-सर्वोत्पत्ति-स्थिति-विनाशादि-सर्व-परिणाम-निमित्त-भूत-काल-कृत-परिणामास्पष्टानन्त-महा-विभूति- स्व-लीला-परिकर-स्वांश-भूतानन्त-बद्ध-मुक्त-नाना-विध-चेतन-तद्-भोग्य-भूतानन्त-विचित्र-परिणाम-शक्ति-चेतनेतर-वस्तु-जातान्तर्यामित्व-कृत-सर्व-शक्ति-शरीरत्व-सर्व-प्रकारावस्थानावस्थितं परं ब्रह्मैव वेद्यं, तत्-साक्षात्कार-क्षम-भगवद्-द्वैपायन-पराशर-वाल्मीकि-मनु-याज्ञवल्क्य-गौतमापस्तम्ब-प्रभृति-मुनि-गण-प्रणीत-विध्य्-अर्थवाद-मन्त्र-स्वरूप-वेद-मूलेतिहास-पुराण-धर्म-शास्त्रोपभृंहित-परमार्थ-भूतानादि-निधनाविच्छिन्न-पाठ-सम्प्रदायर्ग्-यजुः-सामाथर्व-रूपानन्त-शाखं वेदं चाभ्युपगच्छताम् अस्माकं किं न सेत्स्यति। यथोक्तं भगवता द्वैपायनेन महाभारते---
Link copiedयो माम् अजम् अनादिं च वेत्ति लोक-महेश्वरम्।
Link copiedद्वाव् इमौ पुरषौ लोके क्षरश् चाक्षर एव च।
Link copiedक्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥
Link copiedउत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः।
Link copiedयो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः॥
Link copiedकालं च पचते तत्र न कालस् तत्र वै प्रभुः।
Link copiedएते वै निरयास् तात स्थानस्य परमात्मनः॥
Link copiedअव्यक्तादि-विशेषान्तं परिणामर्द्धि-संयुक्तम्।
Link copiedक्रीडा हरेर् इदं सर्वं क्षरम् इत्य् अवधार्यताम्॥
Link copiedकृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः।
Link copiedकृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम्॥
Link copiedइति। कृष्णस्य हि कृत इति कृष्णस्य शेष-भूतं सर्वम् इत्य् अर्थः।
Link copiedभगवता पराशरेणाप्य् उक्तम्---
Link copiedशुद्धे महा-विभूत्य्-आख्ये परे ब्रह्मणि शब्द्यते।
Link copiedमैत्रेय भगवच्-छब्दः सर्व-कारण-कारणे॥
Link copiedज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः।
Link copiedभगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः॥
Link copiedएवम् एष महा-शब्दो मैत्रेय भगवान् इति।
Link copiedपरम-ब्रह्म-भूतस्य वासुदेवस्य नान्यगः॥
Link copiedतत्र पूज्य-पदार्थोक्ति-परिभाषासमन्वितः।
Link copiedशब्दोऽयं नोपचारेण त्व् अन्यत्र ह्य् उपचारतः॥
Link copiedएवम्प्रकारम् अमलं सत्यं व्यापकम् अक्षयम्।
Link copiedसमस्त-हेय-रहितं विष्ण्व्-आख्यं परमं पदम्॥
Link copiedकला-मुहूर्तादि-मयश् च कालो न यद्-विभूतेः परिणाम-हेतुः॥
Link copiedक्रीडतो बालकस्येव चेष्टास् तस्य निशामय॥
Link copiedइत्य् आदि। मनुनापि---
Link copiedप्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्।
Link copiedइत्य् उक्तम्। याज्ञवल्क्येनापि---
Link copiedक्षेत्रस्येश्वर-ज्ञानाद् विशुद्धिः परमा मता।
Link copiedइति। आपस्तम्बेनापि--- पूः प्राणिनः सर्व एव गुहाशयस्येति। सर्वे प्राणिनो गुहाशयस् परमात्मनः पूः पुरं शरीरम् इत्य् अर्थः। प्राणिन इति सजीवात्म-भूत-सङ्घातः।
Link copied॥४३॥
Link copiedननु च किम् अनेनाडम्बरेण। चोद्यं तु न परिहृतम्। उच्यते--- एवम् अभ्युपगच्छताम् अस्माकम् आत्म-धर्म-भूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं सङ्कोचं विकासं च ब्रुवतां सर्वम् इदं परिहृतम्। भवस् तु प्रकाश एव स्वरूपम् इति प्रकाशो न धर्म-भूतस् तस्य सङ्कोच-विकासौ वा नाब्युपगम्येते। प्रकाश-प्रसारानुत्पत्तिम् एव तिरोधान-भूताः कर्मादयः कुर्वन्ति। अविद्या चेत् तिरोधानं तिरोधान-भूततयाविद्यया स्वरूप-भूत-प्रकाश-नाश इति पूर्वम् एवोक्तम्। अस्माकं त्व् अविद्या-रूपेण कर्मणा स्वरूप-नित्य-धर्म-भूत-प्रकाशः सङ्कुचितः। तेन देवादि-स्वरूपात्माभिमानो भवतीति विशेषः। यथोक्तम्---
Link copiedअविद्या कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते॥
Link copiedयथा क्षेत्र-शक्तिः सा वेष्टिता नृप सर्वगा।
Link copiedसंसार-तापान् अखिलान् अवाप्नोत्य् अतिसंततान्॥
Link copiedतया तिरोहितत्वाच् च शक्तिः क्षेत्रज्ञ-संज्ञिता।
Link copiedसर्व-भूतेषु भूपाले तारतम्येन वर्तते॥
Link copiedइति। क्षेत्रज्ञानां स्व-धर्म-भूतस्य ज्ञानस्य कर्म-संज्ञाविद्यया सङ्कोचं विकासं च दर्शयति।
Link copied॥४४॥
Link copiedअपि चाच्छादिकाविद्या श्रुतिभिश् चैक्योपदेश-बलाच् च ब्रह्म-स्वरूप-तिरोधान-हेय-दोष-रूपाश्रीयते तस्याश् च मिथ्या-रूपत्वेन प्रपञ्चवत् स्व-दर्शन-मूल-दोषापेक्षत्वात्। न सा मिथ्या दर्शन-मूल-दोषः स्याद् इति ब्रह्मैव मिथ्या-दर्शन-मूलं स्यात्। तस्याश् चानादित्वेऽपि मिथ्या-रूपत्वाद् एव ब्रह्म-दृश्यत्वेनैवानादित्वात् तद्-दर्शन-मूल-परमार्थ-दोषानभ्युपगमाच् च ब्रह्मैव तद्-दर्शन-मूलं स्यात्। तस्य नित्यत्वाद् अनिर्मोक्ष एव।
Link copied॥४५॥
Link copiedअत एवेदम् अपि निरस्तम् एकम् एव शरीरं जीववत्, निर्जीवानीतराणि शरीराणि स्वप्न-दृष्ट-नाना-विधानन्त-शरीराणां यथा निर्जीवत्वम्। तत्र स्वप्ने द्रष्टुः शरीरम् एकम् एव जीववत्। तस्य स्वप्न-वेलायां दृश्य-भूत-नाना-विध-शरीराणां निर्जीवत्वम् एव। अनेनैकेनैव परिकल्पितत्वाज् जीवा मिथ्या-भूता इति ब्रह्मणा स्व-स्वरूप-व्यतिरिक्तस्य जीव-भावस्य सर्व-शरीराणां च कल्पितत्वाद् एकस्मिन्न् अपि शरीरे शरीरवज् जीव-भावस्य च मिथ्या-रूपत्वात् सर्वाणि शरीराणि मिथ्या-रूपाणि, तत्र जीव-भावश् च मिथ्या-रूप इत्य् एकस्य शरीरस्य तत्र जीव-भावस्य च न कश्चिद् विशेषः। अस्माकं तु स्वप्ने द्रष्टुः स्व-शरीरस्य तस्मिन्न् आत्म-सद्-भावस्य च प्रबोध-वेलायाम् अबाधितत्वान् अन्येषां शरीराणां तद्-गत-जीवानां च बाधितत्वात् ते सर्वे मिथ्या-भूताः स्व-शरीरम् एकं तस्मिञ् जीव-भावश् च परमार्थ इति विशेषः।
Link copied॥४६॥
Link copiedअपि च केन वा विद्या-निवृत्तिः सा कीदृशीति विवेचनीयम्। ऐक्य-ज्ञानं निवर्तकं निवृत्तिश् चानिर्वचनीय-प्रत्यनीकाकारेति चेत्। अनिर्वचनीय-प्रत्यनीकं निर्वचनीयं तच् च सद् वासद् वा द्वि-रूपं वा कोट्य्-अन्तरं न विद्यते। ब्रह्म-व्यतिरेकेणैतद् अभ्युपगमे पुनर् अविद्या न निवृत्ता स्यात्। ब्रह्मैव चेन् निवृत्तिस् तत्-प्राग् अप्य् अविशिष्टम् इति वेदान्त-ज्ञानात् पूर्वम् एव निवृत्तिः स्यात्। ऐक्य-ज्ञानं निवर्तकं तद्-अभावात् संसार इति भवद्-दर्शनं विहन्यते।
Link copied॥४७॥
Link copiedकिं च निवर्तक-ज्ञानस्याप्य् अविद्या-रूपवात् तन्-निवर्तनं केनेति वक्तव्यम्। निवर्तक-ज्ञानं स्वेतर-समस्त-भेदं निवर्त्य क्षणिकत्वाद् एव स्वयम् एव विनश्यति दावानल-विष-नाशन-विषान्तरवद् इति चेन् न। निवर्तक-ज्ञानस्य ब्रह्म-व्यतिरिक्तत्वेन तत्-स्वरूप-तद्-उत्पत्ति-विनाशानां मिथ्या-रूपत्वात् तद्-विनाश-रूपा विद्या तिष्ठत्य् एवेति तद्-विनाश-दर्शनस्य निवर्तकं वक्तव्यम् एव। दावाग्न्य्-आदीनाम् अपि पूर्वावस्थाविरोधि-परिणाम-परम्परा-वर्जनीयैव।
Link copied॥४८॥
Link copiedअपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य कोऽयं ज्ञाता। अध्यासरूप इति चेन् न। तस्य निषेधतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः। ब्रह्मस्वरूप एवेति चेन् न। ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम् उताध्यस्तम्। अध्यस्तं चेद् अयम् अध्यासस् तन्मूलविद्यान्तरं च निवर्तकज्ञानविषयतया तिष्ठत्य् एव। तन्निवर्तकान्तराभ्युपगमे तस्यापि त्रिरूपतयानवस्थैव। सर्वस्य हि ज्ञानस्य त्रिरूपकत्वविरहे ज्ञानत्वम् एव हीयते। कस्यचित् कञ्चनार्थविशेषं प्रति सिद्धिरूपत्वात्। ज्ञानस्य त्रिरूपत्वविरहे भवतां स्वरूपभूतज्ञानवन् निवर्तकज्ञानम् अप्य् अनिवर्तकं स्यात्। ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमेऽस्मदीय एव पक्षः परिगृहीतः स्यात्। निवर्तकज्ञानस्वरूपज्ञातृत्वं च स्वनिवर्त्यान्तर्गतम् इति वचनं भूतलव्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेनेत्य् अस्याम् एव छेदनक्रियायाम् अस्याश् छेदनक्रियायाश् छेत्तृत्वस्य च छेद्यान्तर्भाववचनवद् उपहास्यम्।
Link copied॥४९॥
Link copiedअपि च निखिल-भेद-निवर्तकम् इदम् ऐक्य-ज्ञानं केन जातम् इति विमर्शनीयम्। श्रुत्यैवेति चेन् न। तस्या ब्रह्म-व्यतिरिक्ताया अविद्या-परिकल्पितत्वात् प्रपञ्च-बाधक-ज्ञानस्योत्पादकत्वं न सम्भवति। तथा हि दुष्ट-कारण-जातम् अपि रज्जु-सर्प-ज्ञानं न दुष्ट-कारण-जन्येन रज्जुर् इयं न सर्प इति ज्ञानेन बाध्यते। रज्जु-सर्प-ज्ञान-भये वर्तमाने केनचिद् भ्रान्तेन पुरुषेण रज्जुर् इयं न सर्प इत्य् उक्तेऽप्य् अयं भ्रान्त इति ज्ञाते सति तद्-वचनं रज्जु-सर्प-ज्ञानस्य बाधकं न भवति भयं च न निवर्तते। प्रयोजक-ज्ञानवतः श्रवण-वेलायाम् एव हि ब्रह्म-व्यतिरिक्तत्वेन श्रुतेर् अपि भ्रान्ति-मूलत्वं ज्ञातम् इति। निवर्तक-ज्ञानस्य ज्ञातुस् तत्-सामग्री-भूत-शास्त्रस्य च ब्रह्म-व्यतिरिक्ततया यदि बाध्यत्वम् उच्यते हन्त तर्हि प्रपञ्च-निवृत्तेर् मिथ्यात्वम् आपततीति प्रपञ्चस्य सत्यता स्यात्। स्वप्न-दृष्ट-पुरुष-वाक्यावगत-पित्रादि-मरणस्य मिथ्यात्वेन पित्रादि-सत्यतावत्। किं च तत् त्वम् अस्य् आदि वाक्यं न प्रपञ्चस्य बाधकम्। भ्रान्ति-मूलत्वाद् भ्रान्त-प्रयुक्त-रज्जु-सर्प-बाधक-वाक्यवत्।
Link copied॥५०॥
Link copiedननु च स्वप्ने कस्मिंश्चिद् भये वर्तमाने स्वप्न-दशायाम् एवायं स्वप्न इति ज्ञाते सति पूर्व-भय-निवृत्तिर् दृष्टा। तद्वद् अत्रापि सम्भवतीति। नैवम्। स्वप्न-वेलायाम् एव सोऽपि स्वप्न इति ज्ञाते सति पुनर् भयानिवृत्तिर् एव दृष्टेति न कश्चिद् विशेषः।
Link copied॥५१॥
Link copiedश्रवणवेलायाम् एव सोऽपि स्वप्न इति ज्ञातम् एवेत्युक्तम्। यद् अपि चेदम् उक्तं भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपम् अपि शास्त्रम् अद्वितीयं ब्रह्मेति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात् तनबाधादर्शनाद् ब्रह्म सुस्थितम् एवेति। तद् अयुक्तम्। शून्यम् एव तत् त्वम् इति वाक्येन तस्यापि बाधितत्वात्। इदं भ्रान्तिमूलवाक्यम् इति चेत्। सद् अद्वितीयं ब्रह्मेति वाक्यम् अपि भ्रान्तिमूलम् इति त्वयैवोक्तम्। पश्चात्तन-बाधादर्शनं तु सर्व-शून्य-वाक्यस्यैवेति विशेषः। सर्व-शून्य-वादिनो ब्रह्म-व्यतिरिक्त-वस्तु-मिथ्यात्व-वादिनश् च स्व-पक्ष-साधन-प्रमाण-पारमार्थ्यानभ्युपगमेनाभियुक्तैर् वादानधिकार एव प्रतिपादितः। अधिकारोऽनभ्युपायत्वान् न वादे शून्य-वादिनः, इति।
Link copied॥५२॥
Link copiedअपि च प्रत्यक्ष-दृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते। प्रत्यक्षस्य दोष-मूलत्वेनान्यथा-सिद्धि-सम्भवान् निर्दोषं शास्त्रम् अनन्यथा-सिद्धं प्रत्यक्षस्य बाधकम् इति चेत्। केन दोषेण जातं प्रत्यक्षम् अनन्त-भेद-विषयम् इति वक्तव्यम्। अनादि-भेद-वासनाख्य-दोष-जातं प्रत्यक्षम् इति चेत्। हन्त तर्ह्य् अनेनैव दोषेण जातं शास्त्रम् अपीत्य् एक-दोष-मूलत्वाच् छास्त्र-प्रत्यक्षयोर् न बाध्य-बाधक-भाव-सिद्धिः।
Link copied॥५३॥
Link copiedआकाश-वाय्व्-आदि-भूत-तद्-आरब्ध-शब्द-स्पर्शादि-युक्त-मनुष्यत्वादि-संस्थान-संस्थित-पदार्थ-ग्राहि प्रत्यक्षम्। शास्त्रं तु प्रत्यक्षाद्य्-अपरिच्छेद्य्-असर्वान्तरात्मत्व-सत्यत्वाद्य्-अनन्त-विशेषण-विशिष्ट-ब्रह्म-स्वरूप-तद्-उपासनाद्य्-आराधन-प्रकार-तत्-प्राप्ति-पूर्वक-तत्-प्रसाद-लभ्य-फल-विशेष-तद्-अनिष्ट-करण-मूल-निग्रह-विशेष-विषयम् इति न शास्त्र-प्रत्यक्षयोर् विरोधः। अनादि-निधनाविच्छिन्न-पाट-सम्प्रदायताद्य्-अनेक-गुण-विशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्ष-पारमार्थ्यम् अवश्यम् अभ्युपगन्तव्यम् इत्य् अलम् अनेन श्रुति-शत-वितति-वात-वेग-पराहत-कुदृष्टि-दुष्ट-युक्ति-जाल-तूल-निरसनेनेत्य् उपरम्यते।
Link copied॥५४॥
Link copiedद्वितीये तु पक्ष उपाधि-ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तरानभ्युपगमाद् ब्रह्मण्य् एवोपाधि-संसर्गाद् औपाधिकाः सर्वे दोषा ब्रह्मण्य् एव भवेयुः। ततश् चापहत-पाप्मत्वादि-निर्दोषत्व-श्रुतयः सर्वे विहन्यन्ते।
Link copied॥५५॥
Link copiedयथा घटाकाशादेः परिच्छिन्नतया महाकाशाद् वैलक्षण्यं परस्पर-भेदश् च दृश्यते तत्रस्था गुणा वा दोषा वानवच्छिन्ने महाकाशे न सम्बध्यन्ते एवम् उपाधि-कृत-भेद-व्यवस्थित-जीव-गता दोषा अनुपहिते परे ब्रह्मणि न सम्बध्यन्त इति चेत्। नैतद् उपपद्यते। निरवयवस्याकाशस्यानवच्छेद्यस्य घटादिभिश् छेदासम्भवात् तेनैवाकाशेन घटादयः संयुक्ता इति ब्रह्मणोऽप्य् अच्छेद्यत्वाद् ब्रह्मैवोपाधि-संयुक्तं स्यात्। घट-संयुक्ताकाश-प्रदेशोऽन्यस्माद् आकाश-प्रदेशाद् भिद्यत इच् चेत्। आकाशस्यैकस्यैव प्रदेश-भेदेन घटादि-संयोगाद् घटादौ गच्छति तस्य च प्रदेश-भेदस्यानियम इति तद्वद् ब्रह्मण्य् एव प्रदेश-भेदानियमेनोपाधि-संसर्गाद् उपाधौ गच्छति संयुक्त-वियुक्त-ब्रह्म-प्रदेश-भेदाच् च ब्रह्मण्य् एवोपाधि-संसर्गः क्षणे क्षणे बन्ध-मोक्षौ स्याताम् इति सन्तः परिहसन्ति।
Link copied॥५६॥
Link copiedनिरवयवस्यैवाकाशस्य श्रोत्रेन्द्रियत्वेऽपीन्द्रिय-व्यवस्थावद् ब्रह्मण्य् अपि व्यवस्थोपपद्यत इति चेत्। न वायु-विशेष-संस्कृत-कर्ण-प्रदेश-संयुक्तस्यैवाकाश-प्रदेशस्येन्द्रियत्वात् तस्य च प्रदेशान्तराभेदेऽपीन्द्रिय-व्यवस्थोपपद्यते। आकाशस्य तु सर्वेषां शरीरेषु गच्छत् स्व-नियमेन सर्व-प्रदेश-संयोग इति ब्रह्मण्य् उपाधि-संयोग-प्रदेशानियम एव।
Link copied॥५७॥
Link copiedआकाशस्य स्वरूपेणैव श्रोत्रेन्द्रियत्वम् अभ्युपगम्यापीन्द्रिय-व्यवस्थोक्ता। परमार्थतस् त्व् आकाशो न श्रोत्रेन्द्रियम्। वैकारिकाद् अहङ्काराद् एकादशेन्द्रियाणि जायन्त इति हि वैदिकाः। यथोक्तं भगवता पराशरेण---
Link copiedतैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश।
Link copiedएकादशं मनश् चात्र देवा वैकारिकाः स्मृताः॥ इति।
Link copiedअयम् अर्थः। वैकारिकस् तैजसो भूतादिर् इति त्रि-विधोऽहङ्कारः। स च क्रमात् सात्त्विको राजसस् तामसश् च। तत्र तामसाद् भूतादेर् आकाशादीनि भूतानि जायन्त इति सृष्टि-क्रमम् उक्त्वा तैजसाद् राजसाद् अहङ्काराद् एकदशेन्द्रियाणि जायन्त इति परमतम् उपन्यस्य सात्त्विकाहङ्काराद् वैकारिकानीन्द्रियाणि जायन्त इति स्व-मतम् उच्यते देवा वैकारिकाः स्मृता इति। देवा इन्द्रियाणि। एवम् इन्द्रियाणाम् आहङ्कारिकाणां भूतैश् चाप्य् आयनं महाभारत उच्यते। भौतिकत्वेऽपीन्द्रियाणाम् आकाशादि-भूत-विकारत्वाद् एवाकाशादि-भूत-परिणाम-विशेषा व्यवस्थिता एव शरीरवत् पुरुषाणाम् इन्द्रियाणि भवन्तीति ब्रह्मण्य् अच्छेद्ये निरवयवे निर्विकारे त्व् अनियमेनानन्त-हेयोपाधि-संसर्ग-दोषो दुष्परिहर एवेति श्रद्दधानानाम् एवायं पक्ष इति शास्त्र-विदो न बहु मन्यन्ते। स्वरूप-परिणामाभ्युपगमाद् अविकारत्व-श्रुतिर् बाध्यते। निरवद्यता च ब्रह्मणः शक्ति-परिणाम इति चेत्। केयं शक्तिर् उच्यते। किं ब्रह्म-परिणाम-रूपा। उत ब्रह्मणोऽनन्या कापीति। उभय-पक्षेऽपि स्वरूप-परिणामोऽवर्जनीय एव।
Link copied॥५८॥
Link copiedतृतीयेऽपि पक्षे जीव-ब्रह्मणोर् भेदवद् अभेदस्य चाभ्युपगमात् तस्य च तद्-भावात् सौभरि-भेदवच् च स्वावतार-भेदवच् च सर्वस्येश्वर-भेदत्वात् सर्वे जीव-गता दोषास् तस्यैव स्युः। एतद् उक्तं भवति--- ईश्वरः स्वरूपेणैव सुर-नर-तिर्यक्-स्थावरादि-भेदेनावस्थित इति हि तदात्मकत्व-वर्णनं क्रियते। तथा सत्य् एक-मृत्-पिण्डारब्ध-घट-शरावादि-गतान्य् उदकाहरणादीनि सर्व-कार्याणि यथा तस्यैव भवन्ति, एवं सर्व-जीव-गत-सुख-दुःखादि सर्वम् ईश्वर-गतम् एव स्यात्।
Link copied॥५९॥
Link copiedघट-शरावादि-संस्थानानुपयुक्त-मृद्-द्रव्यं यथा कार्यान्तरान्वितम् एवम् एव सुर-पशु-मनुजादि-जीवत्वानुपयुक्तेश्वरः सर्व-ज्ञः सत्य-सङ्कल्पत्वादि-कल्याण-गुणाकर इति चेत् सत्यं स एवेश्वर एकेनांशेन कल्याण-गुण-गणाकरः स एवान्येनांशेन हेय-गुणाकर इत्य् उक्तम्। द्वयोर् अंशयोर् ईश्वराविशेषात्। द्वव् अंशौ व्यवस्थितव् इति चेत्। कस् तेन लाभः। एकस्यैवानेकांशेन नित्य-दुःखित्वाद् अंशान्तरेण सुखित्वम् अपि नेश्वरत्वाय कल्पते। यथा देवदत्तस्यैकस्मिन् हस्ते चन्दन-पङ्कानुलेप-केयूर-कटकाङ्गुलीयालङ्कारस् तस्यैवान्यस्मिन् हस्ते मुद्गराभिघातः कालानल-ज्वालानुप्रवेशश् च तद्वद् एवेश्वरस्य स्याद् इति ब्रह्माज्ञान-पक्षाद् अपि पापीयान् अयं भेदाभेद-पक्षः। अपरिमित-दुःखस्य पारमार्थिकत्वात् संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च।
Link copied॥६०॥
Link copiedतस्माद् विलक्षणोऽयं जीवांश इति चेद् आगतोऽसि तर्हि मदीयं पन्थानम्। ईश्वरस्य स्वरूपेण तादात्म्य-वर्णने स्याद् अयं दोषः। आत्म-शरीर-भावेन तु तादात्म्य-प्रतिपादने न कश्चिद् दोषः। प्रत्युत निखिल-भुवन-नियमनादिर् महान् अयं गुण-गणः प्रतिपादितो भवति। सामानाधिकरण्यं च मुख्य-वृत्तम्।
Link copied॥६१॥
Link copiedअपि चैकस्य वस्तुनो भिन्नाभिन्नत्वं विरुद्धत्वान् न सम्भवतीत्य् उक्तम्। घटस्य पटाद् भिन्नत्वे सति तस्य तस्मिन्न् अभावः। अभिन्नत्वे सति तस्य च भाव इति। एकस्मिन् काले चैकस्मिन् देशे चैकस्य हि पदार्थस्य युगपत् सद्-भावोऽसद्भावश् च विरुद्धः।
Link copied॥६२॥
Link copiedजात्य्-आत्मना भावो व्यक्त्य्-आत्मना चाभाव इति चेत्। जातेर् मुण्डेन चाभावे सति खण्डे मुण्डस्यापि सद्-भाव-प्रसङ्गः। खण्डेन च जातेर् अभिन्नत्वे सद्-भावो भिन्नत्वे चासद्-भावः, अश्वे महिषत्वस्यैवेति विरोधो दुष्परिहर एव। जात्य्-आदेर् वस्तु-संस्थानतया वस्तुनः प्रकारत्वात् प्रकार-प्रकारिणोश् च पदार्थान्तरत्वं प्रकारस्य पृथक्सिद्ध्य्-अनर्हत्वं पृथग्-अनुपलम्भश् च तस्य च संस्थानस्य चानेक-वस्तुषु प्रकारतयावस्थितश् चेत्य् आदि पूर्वम् उक्तम्।
Link copied॥६३॥
Link copiedसोऽयम् इति बुद्धिः प्रकारैक्याद् अयम् अपि दण्डीति बुद्धिमत्। अयं च जात्य्-आदि-प्रकारो वस्तुनो भेद इत्य् उच्यते। तद्-योग एव वस्तुनो भिन्नम् इति व्यवहार-हेतुर् इत्य् अर्थः। स च वस्तुनो भेद-व्यवहार-हेतुः स्वस्य च संवेदनवत्। यथा संवेदनं वस्तुनो व्यवहार-हेतुः स्वस्य व्यवहार-हेतुश् च भवति।
Link copied॥६४॥
Link copiedअत एव सन्-मात्र-ग्राहि प्रत्यक्षं न भेद-ग्राहीत्य्-आदि-वादा निरस्ताः। जात्य्-आदि-संस्थान-संस्थितस्यैव वस्तुनः प्रत्यक्षेण गृहीतत्वात् तस्यैव संस्थान-रूप-जात्य्-आदेः प्रतियोग्य्-अपेक्षया भेद-व्यवहार-हेतुत्वाच् च। स्वरूप-परिणाम-दोषश् च पूर्वम् एवोक्तः।
Link copied॥६५॥
Link copiedयः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति एष त आत्मान्तर्याम्य् अमृतः। य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो य आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति एष त आत्मान्तर्याम्य् अमृतः। यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेदेत्य् आदि योऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरं शरीरम् अक्षरं न वेद यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युः शरीरं यं मृत्युर् न वेद एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः। द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्योऽभिचाकशीति। अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा। तत् सृष्ट्वा तद् एवानुप्राविशत्। तद् अनुप्रविश्य सच् च त्यच् चानृतं च सत्यम् अभवत्। अनेन जीवेनात्मनेत्य् आदि। पृथग् आत्मानं प्रेरितारं मत्वा जुष्टस् ततस् तेनामृतत्वम् एति। भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रि-विधं ब्रह्म, एतत्। नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्। प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः। ज्ञाज्ञौ द्वव् अजव् ईशानीशव् इत्य् आदि श्रुति-शतैस् तद्-उपबृंहणैः
Link copiedजगत् सर्वं शरीरं ते स्थैर्यं ते वसुधा-तलम्॥
Link copiedयत् किञ्चित् सृज्यते येन सत्त्व-जातेन वै द्विज।
Link copiedतस्य सृज्यस्य सम्भूतौ तत् सर्वं वै हरेस् तनुः॥
Link copiedअहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः॥
Link copiedसर्वस्य चाहं हृदि सन्निविष्टो
Link copiedमत्तः स्मृतिर् ज्ञानम् अपोहनं च॥
Link copiedइत्य् आदि वेद-विद्-अग्रेसर-वाल्मीकि-पराशर-द्वैपायन-वचोभिश् च परस्य ब्रह्मणः सर्वस्यात्मत्वावगमाच् चिद्-अचिद्-आत्मकस्य वस्तुनस् तच्-छरीरत्वावगमाच् च शरीरस्य शरीरिणं प्रति प्रकारतयैव पदार्थत्वाच् शरीर-शरीरिणोश् च धर्म-भेदेऽपि तयोर् असङ्करात् सर्व-शरीरं ब्रह्मेति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्यादिभिर् मुख्य-वृत्तैः सर्व-चेतनाचेतन-प्रकारं ब्रह्मैवाभिधीयते। सामानाधिकरण्यं हि द्वयोः पदयोः प्रकार-द्वय-मुखेनैकार्थ-निष्ठत्वं। तस्य चैतस्मिन् पक्षे मुख्यता। तथा हि तत् त्वम् इति सामानाधिकरण्ये तद् इत्य् अनेन जगत्-कारणं सर्व-कल्याण-गुण-गणाकरं निरवद्यं ब्रह्मोच्यते। त्वम् इति च चेतन-सामानाधिकरण्य-वृत्तेन जीवान्तर्यानिरूपि तच्-छरीरं तदात्मतयावस्थितं तत्-प्रकारं ब्रह्मोच्यते। इतरेषु पक्षेषु सामानाधिकरण्य-हानिर् ब्रह्मणः सदोषता च स्यात्।
Link copied॥६६॥
Link copiedएतद् उक्तं भवति--- ब्रह्मैवम् अवस्थितम् इत्य् अत्रैवं-शब्दार्थ-भूत-प्रकारतयैव विचित्र-चेतनाचेतनात्मक-प्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्-भावः। तथा च बहु स्यां प्रजायेयेत्य् अयम् अर्थः सम्पन्नो भवति। तस्यैवेश्वरस्य कार्यतया कारणतया च नाना-संस्थान-संस्थितस्य संस्थानतया चिद्-अचिद्-वस्तु-जातम् अवस्थितम् इति।
Link copied॥६७॥
Link copiedननु च संस्थान-रूपेण प्रकारतयैवं-शब्दार्थत्वं जाति-गुणयोर् एव दृष्टं न द्रव्यस्य। स्वतन्त्र-सिद्धि-योग्यस्य पदार्थस्यैवं-शब्दार्थतयेश्वरस्य प्रकार-मात्रत्वम् अयुक्तं। उच्यते--- द्रव्यस्यापि दण्ड-कुण्डलादेर् द्रव्यान्तर-प्रकारत्वं दृष्टम् एव। ननु च दण्डादेः स्वतन्त्रस्य द्रव्यान्तर-प्रकारत्वे मत्वर्थीय-प्रत्ययो दृष्टः। यथा दण्डी कुण्डलीति। अतो गोत्वादि-तुल्यतया चेतनाचेतनस्य द्रव्य-भूतस्य वस्तुन ईश्वर-प्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते। अत्रोच्यते--- गौर् अश्वो मनुष्यो देव इति भूत-सङ्घात-रूपाणां द्रव्याणाम् एव देवदत्तो मनुष्यो जातः पुण्य-विशेषेण यज्ञदत्तो गौर् जातः पापेन, अन्यश् चेतनः पुण्यातिरेकेण देवो जात इत्य् आदि देवादि-शरीराणां चेतन-प्रकारतया लोक-देवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टम्।
Link copied॥६८॥
Link copiedअयम् अर्थः--- जातिर् वा गुणो वा द्रव्यं वा न तत्रादरः। कञ्चन द्रव्य-विशेषं प्रति विशेषणतयैव यस्य सद्-भावस् तस्य तद्-अपृथक्सिद्धेस् तत्-प्रकारतया तत्-सामानाधिकरण्येन प्रतिपादनं युक्तम्। यस्य पुनर् द्रव्यस्य पृथक्सिद्धस्यैव कदाचित् क्वचिद् द्रव्यान्तर-प्रकारत्वम् इष्यते तत्र मत्वर्थीय-प्रत्यय इति विशेषः। एवम् एव स्थावर-जङ्गमात्मकस्य सर्वस्य वस्तुन ईश्वर-शरीरत्वेन तत्-प्रकारतयैव स्वरूप-सद्-भाव इति। तत्-प्रकारीश्वर एव तत्-तच्-छब्देनाभिधीयत इति तत्-सामानाधिकरण्येन प्रतिपादनं युक्तं। तद् एवैतत् सर्वं पूर्वम् एव नाम-रूप-व्याकरण-श्रुति-विवरणे प्रपञ्चितम्।
Link copied॥६९॥
Link copiedअतः प्रकृति-पुरुष-महद्-अहङ्कार-तन्मात्र-भूतेन्द्रिय-तद्-आरब्ध-चतुर्दश-भुवनात्मक-ब्रह्माण्ड-तद्-अन्तर्वर्ति-देव-तिर्यङ्-मनुष्य-स्थावरादि-सर्व-प्रकार-संस्थान-संस्थितं कार्यम् अपि सर्वं ब्रह्मैवेति कारण-भूत-ब्रह्म-विज्ञानाद् एव सर्वं विज्ञातं भवतीत्य् एक-विज्ञानेन सर्व-विज्ञानम् उपपन्नतरम्। तद् एवं कार्य-कारण-भावादि-मुखेन कृत्स्नस्य चिद्-अचिद्-वस्तुनः परब्रह्म-प्रकारतया तदात्मकत्वम् उक्तम्।
Link copied॥७०॥
Link copiedननु च परस्य ब्रह्मणः स्वरूपेण परिणामास्पदत्वं निर्विकारत्व-निरवद्यत्व-श्रुति-व्याकोप-प्रसङ्गेन निवारितम्। प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधाद् इत्य् एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञान-मृत्-तत्-कार्य-दृष्टान्ताभ्यां परम-पुरुषस्य जगद्-उपादान-कारणत्वं च प्रतिपादितम्। उपादान-कारणत्वं च परिणामास्पदत्वम् एव। कथम् इदम् उपपद्यते।
Link copied॥७१॥
Link copiedअत्रोच्यते--- सजीवस्य प्रपञ्चस्याविशेषेण कारणत्वम् उक्तम्। तत्रेश्वरस्य जीव-रूप-परिणामाभ्युपगमेन नात्मा श्रुतेर् नित्यत्वाच् च ताभ्य इति विरुध्यते। वैषम्य-नैर्घृण्य-परिहारश् च जीवनम् अनादित्वाभ्युपगमेन तत्-कर्म-निमित्ततया प्रतिपादितः वैषम्य-नैर्घृण्ये न सापेक्षत्वान् न कर्म-विभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते चेत्य् अकृताभ्यागमकृत-विप्रणाश-प्रसङ्गश् चानित्यत्वेऽभिहितः।
Link copied॥७२॥
Link copiedतथा प्रकृतेर् अप्य् अनादिता श्रुतिभिः प्रतिपदिता---
Link copiedअजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्।
Link copiedअजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः॥
Link copiedइति प्रकृति-पुरुषयोर् अजत्वं दर्शयति। अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः, मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति प्रकृतिर् एव स्वरूपेण विकारास्पदम् इति च दर्शयति। गौर् अनाद्यन्तवती सा जनित्री भूत-भाविनीति च। स्मृतिश् च भवति---
Link copiedप्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभव् अपि।
Link copiedविकारांश् च गुणांश् चैव विद्धि प्रकृति-सम्भवान्॥
Link copiedभूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च।
Link copiedअहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा॥
Link copiedअपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्।
Link copiedजीव-भूतां महा-बाहो ययेदं धार्यते जगत्॥
Link copiedप्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः।
Link copiedमयाध्यक्षेण प्रकृतिः सूयते सचराचरम्॥
Link copiedइत्य् आदिका।
Link copied॥७३॥
Link copiedएवं च प्रकृतेर् अपीश्वर-शरीरत्वात् प्रकृति-शब्दोऽपि तदात्म-भूतस्येश्वरस्य तत्-प्रकार-संस्थितस्य वाचकः। पुरुष-शब्दोऽपि तदात्म-भूतस्येश्वरस्य पुरुष-प्रकार-संस्थितस्य वाचकः। अतस् तद्-विकाराणाम् अपि तथेश्वर एवात्मा। तद् आह---
Link copiedव्यक्तं विष्णुस् तथाव्यक्तं पुरुषः काल एव च।
Link copiedसा एव क्षोभको ब्रह्मन् क्षोभ्यश् च परमेश्वरः॥
Link copiedइति। अतः प्रकृति-प्रकार-संस्थिते परमात्मनि प्रकार-भूत-प्रकृत्य्-अंसे विकारः प्रकार्य्-अंसे चाविकारः। एवम् एव जीव-प्रकार-संस्थिते परमात्मनि च प्रकार-भूत-जीवांशे सर्वे चापुरुषार्थाः प्रकार्य्-अंशो नियन्ता निरवद्यः सर्व-कल्याण-गुणाकरः सत्य-सङ्कल्प एव।
Link copied॥७४॥
Link copiedतथा च सति कारणावस्थ ईश्वर एवेति तद्-उपादानक-जगत्-कार्यावस्थोऽपि स एवेति कार्य-कारणयोर् अनन्यत्वं सर्व-श्रुत्य्-अविरोधश् च भवति। तद् एवं नाम-रूप-विभागानर्ह-सूक्ष्म-दशापन्न-प्रकृति-पुरुष-शरीरं ब्रह्म कारणावस्थं, जगतस् तद्-आपत्तिर् एव च प्रलयः। नाम-रूप-विभाग-विभक्त-स्थूल-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कार्यत्वं, ब्रह्मणस् तथाविध-स्थूल-भाव एव जगतः सृष्टिर् इत्य् उच्यते। यथोक्तं भगवता पराशरेण---
Link copiedप्रधान-पुंसोर् अजयोः कारणं कार्य-भूतयोः। इति।
Link copied॥७५॥
Link copiedतस्माद् ईश्वर-प्रकार-भूत-सर्वावस्थ-प्रकृति-पुरुष-वाचिनः शब्दास् तत्-प्रकार-विशिष्टतयावस्थिते परमात्मनि मुख्यतया वर्तन्ते। जीवात्म-वाचि-देव-मनुष्य-शब्दवत्। यथा देव-मनुष्यादि-शब्दा देव-मनुष्यादि-प्रकृति-परिणाम-विशेषाणां जीवात्म-प्रकारतयैव पदार्थत्वात् प्रकारिणि जीवात्मनि मुख्यतया वर्तन्ते। तस्मात् सर्वस्य चिद्-अचिद्-वस्तुनः परमात्म-शरीरतया तत्-प्रकारत्वात् परमात्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः।
Link copied॥७६॥
Link copiedअयम् एव चात्म-शरीर-भावः पृथक्सिद्ध्य्-अनर्हाधाराधेय-भावो नियन्तृ-नियाम्य-भावः शेष-शेषि-भावश् च। सर्वात्मनाधारतया नियन्तृतया शेषितया चाप्नोतीत्य् आत्मा सर्वात्मनाधेयतया नियाम्यतया शेषतया चापृथक्सिद्धं प्रकार-भूतम् इत्य् आकारः शरीरम् इति चोच्यते। एवम् एव हि जीवात्मनः स्व-शरीर-सम्बन्धः। एवम् एव परमात्मनः सर्व-शरीरत्वेन सर्व-शब्द-वाच्यत्वम्।
Link copied॥७७॥
Link copiedतद् आह श्रुति-गणः--- सर्वे वेदा यत् पदम् आमनन्ति सर्वे वेदा यत्रैकं भवन्तीति। तस्यैकस्य वाच्यत्वाद् एकार्थ-वाचिनो भवन्तीत्य् अर्थः। एको देवो बहुधा निविष्टः, सहैव सन्तं न विजानन्ति देवा इत्य् आदि। देवा इन्द्रियाणि। देव-मनुष्यादीनाम् अन्तर्यामितयात्मत्वेन निविश्य सहैव सन्तं तेषाम् इन्द्रियाणि मनः-पर्यन्तानि न विजानन्तीत्य् अर्थः। तथा च पौराणिकानि वचांसि---
Link copiedनताः स्म सर्व-वचसां प्रतिष्ठा यत्र शश्वती।
Link copiedवाच्ये हि वचसः प्रतिष्ठा।
Link copiedकार्याणां कारणां पूर्वं वचसां वाच्यम् उत्तमम्।
Link copiedवेदैश् च सर्वैर् अहम् एव वेद्यः।
Link copiedइत्य् आदीनि सर्वाणि हि वचांसि सशरीरात्म-विशिष्टम् अन्तर्यामिणम् एवाचक्षते। हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मानुप्रविश्य नाम-रूपे व्याकरवाणीति हि श्रुतिः। तथा च मानवं वचः---
Link copiedप्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्।
Link copiedरुक्माभं स्वप्नधी-गम्यं विद्यात् तं पुरुषं परम्॥
Link copiedअन्तः प्रविश्यान्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् अणीयांस आत्मानः कृत्स्नस्याचेतनस्य व्यापकतया सूक्ष्म-भूतास् ते तेषाम् अपि व्यापकत्वात् तेभ्योऽपि सूक्ष्मतर इत्य् अर्थः रुक्माभः आदित्य-वर्णः स्वप्न-कल्प-बुद्धि-प्राप्यः, विशदतम-प्रत्यक्षतापन्नानुध्यानैक-लभ्य इत्य् अर्थः।
Link copiedएनम् एके वदन्त्य् अग्निं मारुतोऽन्ये प्रजापतिम्।
Link copiedइन्द्रम् एके परे प्रमाणम् अपरे ब्रह्म शाश्वतम्॥
Link copiedइति। एके वेदा इत्य् अर्थः। उक्त-रीत्या परस्यैव ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्वान्तरात्मतया प्रविश्यावस्थितत्वाद् अग्न्य्-आदयः शब्दा अपि शाश्वत-ब्रह्म-शब्दवत् तस्यैव वाचका भवन्तीत्य् अर्थः। तथा च स्मृत्य्-अन्तरम्---
Link copiedये यजन्ति पितॄन् देवान् ब्राह्मणान् सहुताशनान्।
Link copiedसर्व-भूतान्तरात्मानं विष्णुम् एव यजन्ति ते॥
Link copiedइति। पितृ-देव-ब्राह्मण-हुताशनादि-शब्दास् तन्-मुखेन तद्-अन्तरात्म-भूतस्य विष्णोर् एव वाचका इत्य् उक्तं भवति।
Link copied॥७८॥
Link copiedअत्रेदं सर्व-शास्त्र-हृदयं जीवात्मानः स्वयम् असङ्कुचितापरिच्छिन्न-निर्मल-ज्ञान-स्वरूपाः सन्तः कर्म-रूपाविद्यावेष्टितास् तत्-तत्-कर्मानुरूप-ज्ञान-सङ्कोचम् आपन्नाः, ब्रह्मादि-स्तम्ब-पर्यन्त-विविध-विचित्र-देहेषु प्रविश्टास् तत्-तद्-देहोचित-लब्ध-ज्ञान-प्रसरास् तत्-तद्-देहात्माभिमानिनस् तद्-उचित-कर्माणि कुर्वाणास् तद्-अनुगुण-सुख-दुःखोपभोग-रूप-संसार-प्रवाहं प्रतिपद्यन्ते। एतेषां संसार-मोचनं भगवत्-प्रपत्तिम् अन्तरेण नोपपद्यत इति तद्-अर्थः प्रथमम् एषां देवादि-भेद-रहित-ज्ञानैकाकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्यापि स्वरूपस्य भगवच्-छेषतैकरसतया भगवद्-आत्मकताम् अपि प्रतिपाद्य, भगवत्-स्वरूपं च हेय-प्रत्यनीक-कल्याणैकतानतया सकलेतर-विसजातीयम् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणाश्रयं स्व-सङ्कल्प-प्रवृत्त-समस्त-चिद्-अचिद्-वस्तु-जाततया सर्वस्यात्म-भूतं प्रतिपाद्य तद्-उपासन-साङ्गं तत्-प्रापकं प्रतिपदयन्ति शास्त्राणीति।
Link copied॥७९॥
Link copiedयथोक्तम्---
Link copiedनिर्वाण-मय एवायम् आत्मा ज्ञान-मयोऽमलः।
Link copiedदुःखाज्ञान-मला धर्मा प्रकृतेस् ते न चात्मनः।
Link copiedइति प्रकृति-संसर्ग-कृत-कर्म-मूलत्वान् नात्म-स्वरूप-प्रयुक्ता धर्मा इत्य् अर्थः। प्राप्ताप्राप्त-विवेकेन प्रकृतेर् एव धर्मा इत्य् उक्तम्।
Link copiedविद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि।
Link copiedशुनि चैव श्व-पाके च पाण्डिताः सम-दर्शिनः।
Link copiedइति। देव-तिर्यङ्-मनुष्य-स्थावर-रूप-प्रकृति-संसृष्टस्यात्मनः स्वरूप-विवेचनी बुद्धिर् एषां ते पण्डिताः। तत्-तत्-प्रकृति-विशेष-वियुक्तात्म-याथात्म्य-ज्ञानवन्तस् तत्र तत्रात्यन्त-विषमाकारे वर्तमानम् आत्मानं समानाकारं पश्यन्तीति सम-दर्शिन इत्य् उक्तम्। तद् इदम् आह---
Link copiedइहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः।
Link copiedनिर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥
Link copiedइति। निर्दोषं देवादि-प्रकृति-विशेष-संसर्ग-रूप-दोष-रहितं स्वरूपेणावस्थितं सर्वम् आत्म-वस्तु निर्वाण-रूप-ज्ञानैकाकारतया समम् इत्य् अर्थः।
Link copied॥८०॥
Link copiedतस्यैवम्भूतस्यात्मनो भगवच्-छेषतैकरसता तन्-नियाम्यता तद्-एकाधारता च तच्-छरीर-तत्-तनु-प्रभृतिभिः शब्दैस् तत्-समानाधिकरण्येन च श्रुति-स्मृतीतिहास-पुराणेषु प्रतिपाद्यत इति पूर्वम् एवोक्तम्।
Link copied॥८१॥
Link copiedदैवी ह्य् एषा गुण-मयी मम माया दुरत्यया।
Link copiedमाम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते॥
Link copiedइति तस्यात्मनः कर्म-कृत-विचित्र-गुण-मय-प्रकृति-संसर्ग-रूपात् संसारान् मोक्षो भगवत्-प्रपत्तिम् अन्तरेण नोपपद्यत इत्य् उक्तं भवति। नान्यः पन्था अयनाय विद्यत इत्य् आदि श्रुतिभिश् च।
Link copiedमया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना।
Link copiedमत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः॥
Link copiedन च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम्॥
Link copiedइति सर्व-शक्ति-योगात् स्वैश्वर्य-वैचित्र्यम् उक्तम्। तद् आह---
Link copiedविष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्।
Link copiedइत्य् अनन्त-विचित्र-महाश्चर्य-रूपं जगन् ममायुतांशेनात्मतया प्रविश्य सर्वं मत्-सङ्कल्पेन विष्टभ्यानेन रूपेणानन्त-महा-विभूति-परिमितोदार-गुण-सागरो निरतिशयाश्चर्य-भूतः स्थितोऽहम् इत्य् अर्थः। तद् इदम् आह---
Link copiedएकत्वे सति नानात्वं नानात्वे सति चैकता।
Link copiedअचिन्त्यं ब्रह्मणो रूपं कुतस् तद् वेदितुम् अर्हति॥
Link copiedइति। प्रशासितृत्वेनैक एव सन् विचित्र-चिद्-अचिद्-वस्तुष्व् अन्तरात्मतया प्रविश्य तत्-तद्-रूपेण विचित्र-प्रकारो विचित्र-कर्म कारयन् नाना-रूपां भजते। एवं स्वल्पांशेन तु सर्वाश्चर्यं नाना-रूपं जगत्-तद्-अन्तरात्मतया प्रविश्य विष्टभ्य नानात्वेनावस्थितोऽपि सन्न् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणः सर्वेश्वरः परब्रह्म-भूतः पुरुषोत्तमो नारायणो निरतिशयाश्चर्य-भूतो नील-तोयद-सङ्काशः पुण्डरीक-दलामलायतेक्षणः सहस्रांशु-सहस्र-किरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस् तद्-अक्षरे परमे व्योमन्न् इत्य् आदि श्रुति-सिद्ध एक एवातिष्ठते।
Link copied॥८२॥
Link copiedब्रह्म-व्यतिरिक्तस्य कस्यचिद् अपि वस्तुन एक-स्वभावस्यैक-कार्य-शक्ति-युक्तस्यैक-रूपस्य रूपान्तर-योगः स्वभावान्तर-योगः शक्त्य्-अन्तर-योगश् च न घटते। तस्यैतस्य परब्रह्मणः सर्व-वस्तु-विजातीयतया सर्व-स्वभावत्वं सर्व-शक्ति-योगश् चेत्य् एकस्यैव विचित्रानन्त-रूपता च पुनर् अप्य् अनन्तापरिमिताश्चर्य-योगेनैक-रूपता च न विरुद्धेति वस्तु-मात्र-साम्याद् विरोध-चिन्ता न युक्तेत्य् अर्थः। यथोक्तं---
Link copiedशक्तयः सर्व-भावानाम् अचिन्त्य-ज्ञान-गोचराः।
Link copiedयतोऽतो ब्रह्मणस् तास् तु सर्गाद्या भाव-शक्तयः॥
Link copiedभवन्ति तपसां श्रेष्ट पावकस्य यथोष्णता॥इति।
Link copiedएतद् उक्तं भवति सर्वेषाम् अग्नि-जलादीनां भावानाम् एकस्मिन्न् अपि भावे दृष्टैव शक्तिस् तद्-विजातीय-भावान्तरेऽपीति न चिन्तयितुं युक्ता जलादाव् अदृष्टापि तद्-विजातीय-पावके भास्वरत्वोष्णतादि-शक्तिर् यथा दृश्यते, एवम् एव सर्व-वस्तु-विसजातीये ब्रह्मणि सर्व-साम्यं नानुमातुं युक्तम् इति। अतो विचित्रानन्त-शक्ति-युक्तं ब्रह्मैवेत्य् अर्थः तद् आह---
Link copiedजगद् एतन् महाश्चर्यं रूपं यस्य महात्मनः।
Link copiedतेनाश्चर्य-वरेणाहं भवता कृष्ण सङ्गतः॥
Link copiedइति।
Link copied॥८३॥
Link copiedतद् एतन् नाना-विधानन्त-श्रुति-निकर-शिष्ट-परिगृहीत-तद्-व्याख्यान-परिश्रमाद् अवधारितम्। तथा हि प्रमाणान्तरापरिदृष्टापरिमित-परिणामान् एक-तत्त्व-नियत-क्रम-विशिष्टौ सृष्टि-प्रलयौ ब्रह्मणोऽनेक-विधाः श्रुतयो वदन्ति निरवद्यं निरञ्जनं विज्ञानम् आनन्दं निर्विकारं निष्कलं निष्क्रियं शान्तं निर्गुणम् इत्य् आदिकाः निर्गुणं ज्ञान-स्वरूपं ब्रह्मेति काश्चन श्रुतयोऽभिदधति। नेह नानास्ति किञ्चन मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् तत् केन कं विजातीयाद् इत्य् आदिका नानात्व-निषेध-वादिन्यः सन्ति काश्चन श्रुतयः। यः सर्व-ज्ञः सर्व-विद् यस्य ज्ञान-मयं तपः सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यद् आस्ते सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि अपहत-पाप्मा विजरो विमृत्युर् विशोको विजघत्सोऽपिपासः सत्य-कामः सत्य-सङ्कल्प इति सर्वस्मिञ् जगति हेयतयावगतं सर्व-गुणं प्रतिषिध्य निरतिशय-कल्याण-गुणानन्त्यं सर्वज्ञता सर्व-शक्ति-योगं सर्व-नाम-रूप-व्याकरणं सर्वस्यावधारतां च काश्चन श्रुतयो ब्रुवते। सर्वं खल्व् इदं ब्रह्म तज् जलान् इति ऐतदात्म्यम् इदं सर्वम् एकः सन् बहुधा विचार इत्य् आदिका ब्रह्म-सृष्टं जगन् नानाकारं प्रतिपाद्य तद्-ऐक्यं च प्रतिपादयन्ति काश्चन। पृथग् आत्मानं प्रेरितारं च मत्वा भोक्ता भोग्यं प्रेरितारं च मत्वा प्रजापतिर् अकामयत प्रजाः सृजेयेति पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवम् अच्युतं तम् ईश्वराणां परं महेश्वरं तं देवतानां परं च दैवतं सर्वस्य वशी सर्वस्येशान इत्य् आदिका ब्रह्मणः सर्वस्माद् अन्यत्वं सर्वस्येशितव्यम् ईश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं चेश्वरस्य काश्चन। अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा एष त आत्मान्तर्याम्य् अमृतः यस्य पृथिवी शरीरं यस्यापः शरीरं यस्य तेजः शरीरम् इत्य् आदि यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युः शरीरं यस्यात्मा शरीरम् इति ब्रह्म-व्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश् च शरीरात्म-भावं दर्शयन्ति काश्चनेति।
Link copied॥८४॥
Link copiedनाना-रूपाणां वाक्यानाम् अविरोधो मुख्यार्थापरित्यागश् च यथा सम्भवति तथा वर्णनीयम्। वर्णितं च अविकार-श्रुतयः स्वरूप-परिणाम-परिहाराद् एव मुख्यार्थाः। निर्गुण-वादाश् च प्राकृत-हेय-गुण-निषेध-परतया व्यवस्थिताः। नानात्व-निषेध-वादाश् चैकस्य ब्रह्मणः शरीरतया प्रकार-भूतं सर्वं चेतनाचेतनं वस्त्व् इति सर्वस्यात्मतया सर्व-प्रकारं ब्रह्मैवावस्थितम् इति सुरक्षिताः। सर्व-प्रकार-विलक्षणत्व-पतित्वेश्वरत्व-सर्व-कल्याण-गुण-गणाकारत्व-सत्य-कामत्व-सत्य-सङ्कल्पत्वादि-वाक्यं तद्-अभ्युपगमाद् एव सुरक्षितम्। ज्ञानानन्द-मात्र-वादि च सर्वस्माद् अन्यस्य सर्व-कल्याण-गुण-गणाश्रयस्य सर्वेश्वरस्य सर्व-शेषिणः सर्वाधारस्य सर्वोत्पत्ति-स्थिति-प्रलय-हेतु-भूतस्य निरवद्यस्य निर्विकारस्य सर्वात्म-भूतस्य परस्य ब्रह्मणः स्वरूप-निरूपक-धर्मो मल-प्रत्यनीकानन्द-रूप-ज्ञानम् एवेति स्व-प्रकाशतया स्वरूपम् अपि ज्ञानम् एवेति च प्रतिपादनाद् अनुपालितम्। ऐक्य-वादाश् च शरीरात्म-भावेन सामानाधिकरण्य-मुख्यार्थतोपपादनाद् एव सुस्थिताः।
Link copied॥८५॥
Link copiedएवं च सत्य् अभेदो वा भेदो वा द्व्य्-आत्मकता वा वेदान्त-वेद्यः कोऽयम् अर्थः समर्थितो भवति। सर्वस्य वेद-वेद्यत्वात् सर्वं समर्थितम्। सर्व-शरीरतया सर्व-प्रकारं ब्रह्मैवावस्थितम् इत्य् अभेदः समर्थितः। एकम् एव ब्रह्म नाना-भूत-चिद्-अचिद्-वस्तु-प्रकारं नानात्वेनावस्थितम् इति भेदाभेदौ। अचिद्-वस्तुनश् चिद्-वस्तुनश् चेश्वरस्य च स्वरूप-स्वभाव-वैलक्षण्याद् असङ्कराच् च भेदः समर्थितः।
Link copied॥८६॥
Link copiedननु च तत् त्वम् असि श्वेतकेतो तस्य तावद् एव चिरम् इत्य् ऐक्य-ज्ञानम् एव परम-पुरुषार्थ-लक्षण-मोक्ष-साधनम् इति गम्यते। नैतद् एवम्। पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एतीत्य् आत्मानं प्रेरितारं चान्तर्यामिणं पृथग् मत्वा ततः पृथक्त्व-ज्ञानाद् धेतोस् तेन परमात्मना जुष्टोऽमृतत्वम् एतीति साक्षाद् अमृतत्व-प्राप्ति-साधनम् आत्मनो नियन्तुश् च पृथग्-भाव-ज्ञानम् एवेत्य् अवगम्यते।
Link copied॥८७॥
Link copiedऐक्य-वाक्य-विरोधाद् एतद् अपरमार्थ-सगुण-ब्रह्म-प्राप्ति-विषयम् इत्य् अभ्युपगन्तव्यम् इति चेत्। पृथक्त्व-ज्ञानस्यैव साक्षाद् अमृतत्व-प्राप्ति-साधनत्व-श्रवणाद् विपरीतं कस्मान् न भवति।
Link copiedएतद् उक्तं भवति--- द्वयोर् तुल्ययोर् विरोधे सत्य् अविरोधेन तयोर् विषयो विवेचनीय इति। कथम् अविरोध इति चेद् अन्तर्यामि-रूपेणावस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीवात्मनस् तत्-प्रकारं ब्रह्मैव त्वम् इति शब्देनाभिधीयते। तथैव ज्ञातव्यम् इति तस्य वाक्यस्य विषयः। एवम्भूताज् जीवात् तदात्मतयावस्थितस्य परमात्मनो निखिल-दोष-रहिततया सत्य-सङ्कल्पत्वाद् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणाकरत्वेन च यः पृथग्-भावः सोऽनुसन्धेय इत्य् अस्य वाक्यस्य विषय इत्य् अयम् अर्थः पूर्वम् असकृद् उक्तः। भोक्ता भोग्यं प्रेरितारं च मत्वेति भोग्य-रूपस्य वस्तुनोऽचेतनत्वं परमार्थत्वं सततं विकारास्पदत्वम् इत्य् आदयः स्वभावाः, भोक्तुर् जीवात्मनश् चामलापरिच्छिन्न-ज्ञानानन्द-स्वभावस्यैवानादि-कर्म-रूपाविद्या-कृत-नाना-विध-ज्ञान-सङ्कोच-विकासौ भोग्य-भूताचिद्-वस्तु-संसर्गश् च परमात्मोपासनान् मोक्षश् चेत्य् आदयः स्वभावाः, एवम्भूत-भोक्तृ-भोग्ययोर् अन्तर्यामि-रूपेणावस्थानं स्वरूपेण चापरिमित-गुणौघाश्रयत्वेनावस्थानम् इति परस्य ब्रह्मणस् त्रि-विधावस्थानं ज्ञातव्यम् इत्य् अर्थः॥
Link copied॥८८॥
Link copiedतत् त्वम् असीति सद्-विद्यायाम् उपास्यं ब्रह्म सगुणं सगुण-ब्रह्म-प्राप्तिश् च फलम् इत्य् अभियुक्तैः पूर्वाचार्यैर् व्याख्यातम्। यथोक्तं वाक्य-कारेण युक्तं तद्-गुणकोपासनाद् इति। व्याख्यातं च द्रमिडाचार्येण विद्या-विकल्पं वदता यद्य् अपि सच्-चित्तो न निर्भुग्न-दैवतं गुण-गणं मनसानुधावेत् तथाप्य् अन्तर्गुणाम् एव देवतां भजत इति तत्रापि सगुणैव देवता प्राप्यत इति। सच्-चित्तः सद्-विद्या-निष्ठः। न निर्भुग्न-दैवतं गुण-गणं मनसानुधावेद् अपहत-पाप्मत्वादि-कल्याण-गुण-गणं दैवताद् विभक्तं यद्य् अपि दहर-विद्यानिष्ठ इव सच्-चित्तो न स्मरेत्। तथाप्य् अन्तर्गुणाम् एव देवतां भजते देवता-स्वरूपानुबन्धित्वात् सकल-कल्याण-गुण-गणस्य केनचिद् पर-देवता-साधारणेन निखिल-जगत्-कारणत्वादिना गुणेनोपास्यमानापि देवता वस्तुतः स्वरूपानुबन्धि सर्व-कल्याण-गुण-गण-विशिष्टैवोपास्यते। अतः सगुणम् एव ब्रह्म तत्रापि प्राप्यम् इति सद्-विद्यादहर-विद्ययोर् विकल्प इत्य् अर्थः।
Link copied॥८९॥
Link copiedननु च सर्वस्य जन्तोः परमात्मान्तर्यामी तन्-नियाम्यं च सर्वम् एवेत्य् उक्तम्। एवं च सति विधि-निषेध-शास्त्राणाम् अधिकारी न दृश्यते। यः स्व-बुद्ध्यैव प्रवृत्ति-निवृत्ति-शक्तः स एवं कुर्यान् न कुर्याद् इति विधि-निषेध-योग्यः। न चैष दृश्यते। सर्वस्मिन् प्रवृत्ति-जाते सर्वस्य प्रेरकः परमात्मा कारयितेति तस्य सर्व-नियमनं प्रतिपादितम्। तथा च श्रूयते एष एव साधु कर्म कारयति ते यम् एभ्यो लोकेभ्य उन्निनीषति। एष एवासाधु कर्म कारयति तं यम् अधो निनीषतीति। साध्व्-असाधु-कर्म-कारयितृत्वान् नैर्घृण्यं च।
Link copied॥९०॥
Link copiedअत्रोच्यते--- सर्वेषाम् एव चेतनानां चिच्-छक्ति-योगः प्रवृत्ति-शक्ति-योग इत्य् आदि सर्वं प्रवृत्ति-निवृत्ति-परिकरं सामान्येन संविधाय तन्-निर्वहणाय तद्-आधारो भूत्वान्तः प्रविश्यानुमन्तृतया च नियमनं कुर्वञ् शेषित्वेनावस्थितः परमात्मैतद्-आहित-शक्तिः सन् प्रवृत्ति-निवृत्त्य्-आदि स्वयम् एव कुरुते। एवं कुर्वाणम् ईक्षमाणः परमात्मोदासीन आस्ते। अतः सर्वम् उपपन्नम्। साध्व्-असाधु-कर्मणोः कारयितृत्वं तु व्यवस्थित-विषयं न सर्व-साधारणम्। यस् तु सर्वं स्वयम् एवातिमात्रम् आनुकूल्ये प्रवृत्तस् तं प्रति प्रीतः स्वयम् एव भगवान् कल्याण-बुद्धि-योग-दानं कुर्वन् कल्याणे प्रवर्तयति। यः पुनर् अतिमात्रं प्रातिकूल्ये प्रवृत्तस् तस्य क्रूरां बुद्धिं ददन् स्वयम् एव क्रूरेष्व् एव कर्मसु प्रेरयति भगवान्। यथोक्तं भगवता---
Link copiedतेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम्।
Link copiedददामि बुद्धि-योगं तं येन माम् उपयान्ति ते॥
Link copiedतेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः।
Link copiedनाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता॥
Link copiedतान् अहं द्विषतः क्रूरान् संसारेषु नराधमान्।
Link copiedक्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु॥ इति।
Link copied॥९१॥
Link copiedसोऽयं परब्रह्म-भूतः पुरुषोत्तमो निरतिशय-पुण्य-सञ्चय-क्षीणाशेष-जन्मोपचित-पाप-राशेः परम-पुरुष-चरणारविन्द-शरणागति-जनित-तद्-अभिमुख्यस्य सद्-आचार्योपदेशोपबृंहित-शास्त्राधिगत-तत्त्व-याथात्म्यावबोध-पूर्वकाहर् अहर् उपचीयमान-शम-दम-तपः-शौच-क्षमार्जव-भयाभय-स्थान-विवेक-दयाहिंसाद्य्-आत्म-गुणोपेतस्य वर्णाश्रमोचित-परम-पुरुषाराधन-वेष-नित्य-नैमित्तिक-कर्मोपसंहृति-निषिद्ध-परिहार-निष्ठस्य परम-पुरुष-चरणारविन्द-युगल-न्यस्तात्मात्मीयस्य तद्-भक्ति-कारितानवरत-स्तुति-स्मृति-नमस्कृति-वन्दन-यतन-कीर्तन-गुण-श्रवण-वचन-ध्यानार्चन-प्रणामादि-प्रीत-परम-कारुणिक-पुरुषोत्तम-प्रसाद-विध्वस्त-स्वान्त-ध्वान्तस्यानन्य-प्रयोजनानवरत-निरतिशय-प्रिय-विशदतम-प्रत्यक्षतापन्नानुध्यान-रूप-भक्त्य्-एक-लभ्यः। तद् उक्तं परम-गुरुभिर् भगवद्-यामुनाचार्य-पादैः--- उभय-परिकर्मित-स्वान्तस्यैकान्तिकात्यन्तिक-भक्ति-योग-लभ्य इति। ज्ञान-योग-कर्म-योग-संस्कृतान्तःकरणस्येत्य् अर्थः। तथा च श्रुतिः---
Link copiedविद्यां चाविद्यां च यस् तद् वेदोभ्यं सह।
Link copiedअविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते॥
Link copiedइति। अत्राविद्या-शब्देन विद्येतरत्वाद् वर्णाश्रमाचारादि पूर्वोक्तं कर्मोच्यते विद्या-शब्देन च भक्ति-रूपापन्नं ध्यानम् उच्यते। यथोक्तम्---
Link copiedइजाय सोऽपि सुबहून्य् अज्ञाञ् ज्ञान-व्यपाश्रयः।
Link copiedब्रह्म-विद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया॥
Link copiedइति। तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते। य एनं विदुर् अमृतास् ते भवन्ति। ब्रह्म-विद् आप्नोति परम्। सो यो ह वै तत् परं वेद ब्रह्म वेद ब्रह्मैव भवतीत्य् आदि। वेदन-शब्देन ध्यानम् एवाभिहितम्। निदिध्यासितव्य इत्य् आदिनैकार्थ्यात्। तद् एव ध्यानं पुनर् अपि विशिनष्टि नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन। यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् इति। भक्ति-रूपापन्नानुध्यानेनैव लभ्यते न केवलं वेदन-मात्रेण न मेधयेति केवलस्य निषिद्धत्वात्।
Link copied॥९२॥
Link copiedएतद् उक्तं भवति--- योऽयं मुमुक्षुर् वेदान्त-विहित-वेदन-रूप-ध्यानादिनिष्ठो यदा तस्य तस्मिन्न् एवानुध्याने निरवधिकातिशया प्रीतिर् जायते तदैव तेन लभ्यते परः पुरुष इति। यथोक्तं भगवता---
Link copiedपुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया।
Link copiedभक्त्या त्व् अनन्यया शक्योऽहम् एवंविधोऽर्जुन।
Link copiedज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥
Link copiedभक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः।
Link copiedततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम्॥
Link copiedइति। तद्-अनन्तरं तत एव भक्तितो विशत इत्य् अर्थः। भक्तिर् अपि निरतिशय-प्रियानन्य-प्रयोजन-सकलेतर-वैतृष्ण्यावह-ज्ञान-विशेष एवेति। तद्-युक्त एव तेन परेणात्मना वरणीयो भवतीति तेन लभ्यत इति श्रुत्य् अर्थः। एवंविध-पर-भक्ति-रूप-ज्ञान-विशेषस्योत्पादकः पूर्वोक्ताहर्-अहर्-उपचीयमान-ज्ञान-पूर्वक-कर्मानुगृहीत-भक्ति-योग एव। यथोक्तं भगवता पराशरेण---
Link copiedवर्णाश्रमाचारवता पुरुषेण परः पुमान्।
Link copiedविष्णुर् आराध्यते पन्था नान्यस् तत्-तोष-कारकः॥
Link copiedइति। निखिल-जगद्-उद्धारणायावनि-तलेऽवतीर्णः परब्रह्म-भूतः पुरुषोत्तमः स्वयम् एवैतद् उक्तवान्---
Link copiedस्व-कर्म-निरतः सिद्धिं यथा विन्दति तच् छृणु।
Link copiedयतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम्॥
Link copiedस्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः।
Link copiedइति। यथोदित-क्रम-परिणत-भक्त्य्-एक-लभ्य एव।
Link copied॥९३॥
Link copiedबोधायन-टङ्क-द्रमिड-गुहदेव-कपर्दि-भारुचि-प्रभृत्य्-अविगीत-शिष्ट-परिगृहीत-पुरातन-वेद-वेदान्त-व्याख्यान-सुव्यक्तार्थ-श्रुति-निकर-निदर्शितोऽयं पन्थाः। अनेन चार्वाक-शाक्यौलूक्याक्षपाद-क्षपणक-कपिल-पतञ्जलि-मतानुसारिणो वेद-बाह्या वेदावलम्बि-कुदृष्टिभिः सह निरस्ताः। वेदावलम्बिनाम् अपि यथावस्थित-वस्तु-विपर्ययस् ताडृशां बाह्य-साम्यं मनुनैवोक्तम्---
Link copiedयो वेद-बाह्याः स्मृतयो याश् च काश् च कुदृष्टयः।
Link copiedसर्वास् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः॥
Link copiedइति। रजस्-तमोभ्याम् अस्पृष्टम् उत्तमं सत्त्वम् एव येषां स्वाभाविको गुणस् तेषाम् एव वैदिकी रुचिर् वेदार्थ-याथात्म्यावबोधश् चेत्य् अर्थः।
Link copied॥९४॥
Link copiedयथोक्तं मात्स्ये---
Link copiedसङ्कीर्णाः सात्त्विकाश् चैव राजसास् तामसास् तथा।
Link copiedइति। केचिद् ब्रह्म-कल्पाः सङ्कीर्णाः केचित् सत्त्व-प्रायाः केचिद् रजः-प्राया केचित् तमः-प्राया इति कल्प-विभागम् उक्त्वा सत्त्व-रजस्-तमो-मयानां तत्त्वानां माहात्म्य-वर्णनं च तत्-तत्-कल्प-प्रोक्त-पुराणेषु सत्त्वादि-गुण-मयेन ब्रह्मणा क्रियत इति चोक्तम्---
Link copiedयस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा।
Link copiedतस्य तस्य तु माहात्म्यं तत्-स्वरूपेण वर्ण्यते॥
Link copiedइति। विशेषतश् चोक्तम्---
Link copiedअग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते।
Link copiedराजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः॥
Link copiedसात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः।
Link copiedतेष्व् एव योग-संसिद्धा गमिष्यन्ति परां गतिम्॥
Link copiedसङ्कीर्णेषु सरस्वत्याः \॥।\॥॥।॥
Link copiedइत्य् आदि। एतद् उक्तं भवति--- आदि-क्षेत्रज्ञत्वाद् ब्रह्मणस् तस्यापि केषुचिद् अहःसु सत्त्व-मुद्रिकं केषुचिद् रजः केषुचित् तमः। यथोक्तं भगवता---
Link copiedन तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः।
Link copiedसत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः॥
Link copiedइति। यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मा इति श्रुतेः। ब्रह्मणोऽपि सृज्यत्वेन शास्त्र-वश्यत्वेन च क्षेत्रज्ञत्वं गम्यते। सत्त्व-प्रायेष्व् अहःसु तद्-इतरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्पर-विरोधे सति सात्त्विकाहः प्रोक्तम् एव पुराणं यथार्थं तद्-विरोध्य् अन्यद् अयथार्थम् इति पुराण-निर्णयायैवेदं सत्त्व-निष्ठेन ब्रह्मणाभिहितम् इति विज्ञायत इति।
Link copiedसत्त्वादीनां कार्यं च भगवतैवोक्तम्---
Link copiedसत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च।
Link copiedप्रमाद-मोहौ तमसो भवतोऽज्ञानम् एव च॥
Link copiedप्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।
Link copiedबन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥
Link copiedयथा धर्मम् अधर्मं च कार्यं चाकार्यम् एव च।
Link copiedअयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी॥
Link copiedअधर्मं धर्मम् इति या मन्यते तमसावृता।
Link copiedसर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी॥
Link copiedइति।
Link copiedसर्वान् पुराणार्थान् ब्रह्मणः सकाशाद् अधिगम्यैव सर्वाणि पुराणानि पुराण-काराश् चक्रुः। यथोक्तम्---
Link copiedकथयामि यथा पूर्वं दक्षाद्यैर् मुनि-सत्तमैः।
Link copiedपृष्टः प्रोवाच भगवान् अब्ज-योनिः पितामहः॥
Link copiedइति।
Link copied॥९५॥
Link copiedअपौरुषेयेषु वेद-वाक्येषु परस्पर-विरुद्धेषु कथम् इति चेत्। तात्पर्य-निश्चयाद् अविरोधः पूर्वम् एवोक्तः। यद् अपि चेद् एवं विरुद्धवद् दृश्यते प्राणं मनसि सह कारणैर् नादान्ते परमात्मनि सम्प्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वम् इदं, ब्रह्म-विष्णु-रुद्रास् ते सर्वे सम्प्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्वैश्वर्य-सम्पन्नः सर्वेश्वरः शम्भुर् आकाश-मध्ये ध्येयः यस्मात् परं नापरम् अस्ति किञ्चिद् यस्मान् नाणीयो न ज्यायोऽस्ति कश्चिद् वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वं ततो यद् उत्तरतरं तद् अरूपम् अनामयं य एतद् विदुर् अमृतास् ते भवन्ति, अथेतरे दुःखम् एवापियन्ति---
Link copiedसर्वानन-शिरो-ग्रीवः सर्व-भूत-गुहाशयः।
Link copiedसर्वव्यापी च भगवांस् तस्मात् सर्व-गतः शिवः॥
Link copiedयदा तमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः।
Link copiedतद् अक्षरं तत् सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी॥
Link copiedइत्य् आदि नारायणः परं ब्रह्मेति च पूर्वम् एव प्रतिपादितं, तेनास्य कथम् अविरोधः।
Link copied॥९६॥
Link copiedअत्यल्पम् एतत्---
Link copiedवेद-वित्-प्रवर-प्रोक्त-वाक्य-न्यायोपबृंहिताः।
Link copiedवेदाः साङ्गा हरिं प्राहुर् जगज्-जन्मादि-कारणं॥
Link copiedजन्माद्यस्य यतः यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञानस्व तद् ब्रह्मेति जगज्-जन्मादि-कारणं ब्रह्मेत्य् अवगम्यते। तच् च जगत्-सृष्टि-प्रलय-प्रकरणेष्व् अवगन्तव्यम्। सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति जगद्-उपादानता-जगन्-निमित्तता-जगद्-अन्तर्यामितादि-मुखेन परम-कारणं सच्-छब्देन प्रतिपादितं ब्रह्मेत्य् अवगतम्। अयम् एवार्थः ब्रह्म वा इदम् एकम् एवाग्र आसीद् इति शाखान्तरे ब्रह्म-शब्देन प्रतिपादितः। अनेन सच्-छब्देनाभिहितं ब्रह्मेत्य् अवगतम्। अयम् एवार्थस् तथा शाखान्तर आत्मा वा इदम् एक एवाग्र आसीन् नान्यत् किञ्चन मिषद् इति सद्-ब्रह्म-शब्दाभ्याम् आत्मैवाभिहित इत्य् अवगम्यते। तथा च शाखान्तर एको ह वै नारायण आसीन् न ब्रह्म नेशानो नेमे द्याव् अपृथिवी न नक्षत्राणीति सद्-ब्रह्मात्मादि-परम-कारण-वादिभिः शब्दैर् नारायण एवाभिधीयत इति निश्चीयते।
Link copied॥९७॥
Link copiedयम् अन्तः समुद्रे कवयो वयन्तीत्य् आदि।
Link copiedनैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत्।
Link copiedन तस्येशे कश्चन तस्य नाम महद्यशः॥
Link copiedन सन्दृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम्, हृदा मनीषा मनसाभिकॢप्तो य एवं विदुर् अमृतास् ते भवन्तीति सर्वस्मात् परत्वम् अस्य प्रतिपाद्य, न तस्येशे कश्चनेति तस्मात् परं किम् अपि न विद्यत इति च प्रतिषिध्य, अद्भ्यः सम्भूतो हिरण्यगर्भ इत्य् अष्टाव् इति तेनैक-वाक्यतां गमयति। तच् च महा-पुरुष-प्रकरणं ह्रीश् च ते लक्ष्मीश् च पत्न्याव् इति च नारायण एवेति द्योतयति।
Link copied॥९८॥
Link copiedअयम् अर्थो नारायणानुवाके प्रपञ्चितः। सहस्र-शीर्षं देवम् इत्य् आरभ्य स ब्रह्म स शिवः सेन्द्रः सोऽक्षरः परमः स्वराड् इति। सर्व-शाखासु पर-तत्त्व-प्रतिपादन-परान् अक्षर-शिव-शम्भु-परब्रह्म-पर-ज्योतिः-पर-तत्त्व-परायण-परमात्मादि-सर्व-शब्दांस् तत्-तद्-गुण-योगेन नारायण एव प्रयुज्य तद्-व्यतिरिक्तस्य समस्तस्य तद्-आधारतां तन्-नियाम्यतां तच्-छेषतां तद्-आत्मकतां च प्रतिपाद्य ब्रह्म-शिवयोर् अपीन्द्रादि-समानाकारतया तद्-विभूतित्वं च प्रतिपादितम्। इदं च वाक्यं केवल-पर-तत्त्व-प्रतिपादनैक-परम् अन्यत् किञ्चिद् अप्य् अत्र न विधीयते।
Link copied॥९९॥
Link copiedअस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात् परत्वेनावस्थितस्य ब्रह्मणो वाक्यान्तरेषु ब्रह्म-विद् आप्नोति परम् इत्य् आदिषूपासनादि विधीयते। अतः प्राणं मनसि सह करणैर् इत्य् आदि वाक्यं सर्व-कारणे परमात्मनि करण-प्राणादि सर्वं विकार-जातम् उपसंहृत्य तम् एव परमात्मानं सर्वस्येशानं ध्यायीतेति परब्रह्म-भूत-नारायणस्यैव ध्यानं विदधाति।
Link copied॥१००॥
Link copiedपतिं विश्वस्येति न तस्येशे कश्चनेति च तस्यैव सर्वस्येशानता प्रतिपादिता। अत एव सर्वैश्वर्य-सम्पन्नः सर्वेश्वरः शम्भुर् आकाश-मध्ये ध्येय इति नारायणस्यैव परम-कारणस्य शम्भु-शब्द-वाच्यस्य ध्यानं विधीयते। कश् च ध्येय इत्य् आरभ्य कारणं तु ध्येय इति कार्यस्याध्येयता-पूर्वक-कारणैक-ध्येयता-परत्वाद् वाक्यस्य। तस्यैव नारायणस्य परम-कारणता शम्भु-शब्द-वाच्यता च परम-कारण-प्रतिपादनैक-परे नारायणानुवाक एव प्रतिपन्नेति तद्-विरोध्य्-अर्थान्तर-परिकल्पनं कारणस्यैव ध्येयत्वेन विधि-वाक्ये न युज्यते।
Link copied॥१०१॥
Link copiedयद् अपि ततो यद् उत्तरम् इत्य् अत्र पुरुषाद् अन्यस्य परतरत्वं प्रतीयत इत्य् अभ्यधायि तद् अपि यस्मात् परं नापरम् अस्ति किञ्चिद् यस्मान् नाणीयो न ज्यायोऽस्ति कश्चित् यस्माद् अपरं यस्माद् अन्यत् किञ्चिद् अपि परं नास्ति केनापि प्रकारेण पुरुष-व्यतिरिक्तस्य परत्वं नास्तीत्य् अर्थः। अणीयस्त्वं सूक्ष्मत्वम्। ज्यायस्त्वं सर्वेश्वरत्वम्। सर्व-व्यापित्वात् सर्वेश्वरत्वाद् अस्यैतद्-व्यतिरिकितस्य कस्याप्य् अणीयस्त्वं ज्यायस्त्वं च नास्तीत्य् अर्थः। यस्मान् नाणीयो न ज्यायोऽस्ति कश्चिद् इति पुरुषाद् अन्यस्य कस्यापि ज्यायस्त्वं निषिद्धम् इति तस्माद् अन्यस्य परत्वं न युज्यत इति प्रत्युक्तम्।
Link copied॥१०२॥
Link copiedकस् तर्ह्य् अस्य वाक्यस्यार्थः। अस्य प्रकरणस्योपक्रमे तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यतेऽयनायैति पुरुष-वेदनस्यामृतत्व-हेतुतां तद्-व्यतिरिक्तस्यापथतां च प्रतिज्ञाय यस्मात् परं नापरम् अस्ति किञ्चित् तेनेदं पूर्णं पुरुषेण सर्वम् इत्य् एतद् अन्तेन सर्वस्मात् परत्वं प्रतिपादितम्। यतः पुरुषतत्त्वम् एवोत्तरतरं ततो यद् उत्तरतरं पुरुष-तत्त्वं तद् एवारूपम् अनामयं य एतद् विदुर् अमृतास् ते भवन्ति, अथेतरे दुःखम् एवापियन्तीति पुरुष-वेदनस्यामृतत्व-हेतुत्वं तद्-इतरस्यापथत्वं प्रतिज्ञातं सहेतुकम् उपसंहृतम्। अन्यथोपक्रम-गत-प्रतिज्ञाभ्यां विरुध्यते। पुरुषस्यैव शुद्धि-गुण-योगेन शिव-शब्दाभिप्रायत्वं शाश्वतं शिवम् अच्युतम् इत्य् आदिना ज्ञातम् एव। पुरुष एव शिव-शब्दाभिधेय इत्य् अनन्तरम् एव वदति महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तक इति। उक्तेनैव न्यायेन न सन् न चासच् छिव एव केवल इत्य् आदि सर्वं नेयम्।
Link copied॥१०३॥
Link copiedकिं च न तस्येशे कश्चनेति निरस्त-समाभ्यधिक-सम्भावनस्य पुरुषस्याणोर् अणीयान् इत्य् अस्मिन्न् अनुवाके वेदाद्य्-अन्त-रूपतया वेद-बीज-भूत-प्रणवस्य प्रकृति-भूताकार-वाच्यतया महेश्वरत्वं प्रतिपाद्य दहर-पुण्डरीक-मध्य-स्थाकाशान्तर्वर्तितयोपास्यत्वम् उक्तम्। अयम् अर्थः--- सर्वस्य वेद-जातस्य प्रकृतिः प्रणव उक्तः। प्रणवस्य च प्रकृतिर् अकारः। प्रणव-विकारो वेदः स्व-प्रकृति-भूते प्रणवे लीनः। प्रणवोऽप्य् अकार-विकार-भूतः स्व-प्रकृताव् अकारे लीनः। तस्य प्रणव-प्रकृति-भूतस्याकारस्य यः परो वाच्यः स एव महेश्वर इति सर्व-वाचक-जात-प्रकृति-भूताकार-वाच्यः सर्व-वाच्य-जात-प्रकृति-भूत-नारायणो यः स महेश्वर इत्य् अर्थः। यथोक्तं भगवता---
Link copiedअहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा।
Link copiedमत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय॥
Link copiedअक्षरणाम् अकारोऽस्मि॥
Link copiedइति। अ इति ब्रह्मेति च श्रुतेः। अकारो वै सर्वा वाग् इति च। वाचक-जातस्याकार-प्रकृतित्वं वाच्य-जातस्य ब्रह्म-प्रकृतित्वं च सुस्पष्टम्। अतो ब्रह्मणोऽकार-वाच्यता-प्रतिपादनाद् अकार-वाच्यो नारायण एव महेश्वर इति सिद्धम्।
Link copied॥१०४॥
Link copiedतस्यैव सहस्रशीर्षं देवम् इति केवल-पर-तत्त्व-विशेष-प्रतिपादन-परेण नारायणानुवाकेन सर्वस्मात् परत्वं प्रपञ्चितम्। अनेनानन्य-परेण प्रतिपादितम् एव पर-तत्त्वम् अन्य-परेषु सर्व-वाक्येषु केनापि शब्देन प्रतीयमानं तद् एवेत्य् अवगम्य इति शास्त्र-दृष्त्या तूपदेशो वामदेववद् इति सूत्र-कारेण निर्णीतम्। तद् एतत् परं ब्रह्म क्वचिद् ब्रह्म-शिवादि-शब्दाद् अवगतम् इति केवल-ब्रह्म-शिवयोर् न परत्व-प्रसङ्गः। अस्मिन्न् अनन्य-परेऽनुवाके तयोर् इन्द्रादि-तुल्यतया तद्-विभूतित्व-प्रतिपादनात्। क्वचिद् आकाश-प्राणादि-शब्देन परं ब्रह्माभिहितम् इति भूताकाश-प्राणादेर् यथा न परत्वम्। यत् पुनर् इदम् आशङ्कितम् अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्न् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वा व विजिज्ञासितव्यम् इत्य् अत्राकाश-शब्देन जगद्-उपादान-कारणं प्रतिपाद्य तद्-अन्तर्वर्तिनः कस्यचित् तत्त्व-विशेषस्यान्वेष्टव्यता प्रतिपाद्यते। अस्याकाशस्य नाम-रूपयोर् निवोढृत्व-श्रवणात् पुरुषसूक्ते पुरुषस्य नाम-रूपयोः कर्तृत्व-दर्शनाच् चाकाश-पर्याय-भूतात् पुरुषाद् अन्यस्यान्वेष्टव्यतयोपास्यत्वं प्रतीयत इत्य् अनधीत-वेदानाम् अदृष्ट-शास्त्राणाम् इदं चोद्यं।
Link copied॥१०५॥
Link copiedयतस् तत्र श्रुतिर् एवास्य परिहारम् आह। वाक्य-कारश् च दहरोऽस्मिन्न् अन्तराकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वा व विजिज्ञासितव्यम् इति चोदिते यावान् वा अयम् आकाशस् तावान् एषोऽन्तर्हृदय आकाश इत्य् आदिनास्याकाश-शब्द-वाच्यस्य परम-पुरुषस्यानवधिक-महत्त्वं सकल-जगद्-आधारत्वं च प्रतिपाद्य तस्मिन् कामाः समाहिता इति काम-शब्देनापहत-पाप्मत्वादि-सत्य-सङ्कल्प-पर्यन्त-गुणाष्टकं निहितम् इति परम-पुरुषवत् परम-पुरुष-गुणाष्टकस्यापि पृथग् विजिज्ञासितव्यता-प्रतिपादयिषया तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् इत्य् उक्तम् इति श्रुत्यैव सर्वं परिहृतम्।
Link copied॥१०६॥
Link copiedएतद् उक्तं भवति--- किं तद् अत्र विद्यते यद् अनेष्टव्यम् इत्य् अस्य चोद्यस्य तस्मिन् सर्वस्य जगतः स्रष्टृत्वम् आधारत्वं नियन्तृत्वं शेषित्वम् अपहत-पाप्मत्वादयो गुणाश् च विद्यन्त इति परिहार इति। तथा च वाक्य-कार-वचनं तस्मिन् यद् अन्तर् इति काम-व्यपदेश इति। काम्यन्त इति कामाः। अपहत-पाप्मत्वादयो गुणा इत्य् अर्थः। एतद् उक्तं भवति--- यद् एतद् दहराकाश-शब्दाभिधेयं निखिल-जगद्-उदय-वैभव-लय-लीलं परं ब्रह्म तस्मिन् यद् अन्तर् निहितम् अनवधिकातिशयम् अपहत-पाप्मत्वादि-गुणाष्टकं तद् उभयम् अप्य् अन्वेष्टव्यं विजिज्ञासितव्यम् इति। यथाह अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु काम-चारो भवन्तीति।
Link copied॥१०७॥
Link copiedयः पुनः कारणस्यैव ध्येयता-प्रतिपादन-परे वाक्ये विष्णोर् अनन्य-पर-वाक्य-प्रतिपादित-पर-तत्त्व-भूतस्य कार्य-मध्ये निवेशः स स्व-कार्य-भूत-तत्त्व-सङ्ख्या-पूरणं कुर्वतः स्व-लीलया जगद्-उपकाराय स्वेच्छावतार इत्य् अवगन्तव्यः। यथा लीलया देव-सङ्ख्या-पूर्णं कुर्वत उपेन्द्रत्वं परस्यैव, यथा च असूर्य-वंशोद्भव-राज-सङ्ख्या-पूर्णं कुर्वतः परस्यैव ब्रह्मणो दाशरथि-रूपेण स्वेच्छावतारः, यथा च सोम-वंश-सङ्ख्या-पूरणं कुर्वतो भगवतो भू-भारावतारणाय स्वेच्छया वसुदेव-गृहेऽवतारः।
Link copied॥१०८॥
Link copiedसृष्टि-प्रलय-प्रकरणेषु नारायण एव परम-कारणतया प्रतिपाद्यत इति पूर्वम् एवोक्तम्। यत् पुनर् अथर्वशिरसि रुद्रेण स्व-सर्वैश्वर्यं प्रपञ्चितं तत् सोऽन्तराद् अन्तरं प्राविशद् इति परमात्म-प्रवेशाद् उक्तम् इति श्रुत्यैव व्यक्तम्। शास्त्र-दृष्ट्या तूपदेशो वामदेववद् इति सूत्र-कारेणैवं-वादिनाम् अर्थः प्रतिपादितः। यथोक्तं प्रह्लादेनापि---
Link copiedसर्व-गत्वाद् अनन्तरस्य स एवाहम् अवस्थितः।
Link copiedमत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने॥
Link copiedइत्य् आदि। अत्र सर्व-गत्वाद् अनन्तस्येति हेतुर् उक्तः। स्व-शरीर-भूतस्य सर्वस्य चिद्-अचिद्-वस्तुन आत्मत्वेन सर्व-गः परमात्मेति सर्वे शब्दाः सर्व-शरीरं परमात्मानम् एवाभिदधतीत्य् उक्तम्। अतोऽहम् इति शब्दः स्वात्म-प्रकार-प्रकारिणं परमात्मानम् एवाचष्टे। अत इदम् उच्यते। आत्मेत्य् एव तु गृह्णीयात् सर्वस्य तन्-निष्पत्तेर् इत्य् आदि नाहङ्ग्रहणोपासनं वाक्य-कारेण कार्यावस्थः कारणावस्थश् च स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः परमात्मैवेति सर्वस्य तन्-निष्पत्तेर् इत्य् उक्तम्। आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति सूत्र-कारेण च। महाभारते च ब्रह्म-रुद्र-संवादे ब्रह्मा रुद्रं प्रयाह---
Link copiedतवान्तरात्मा मम च ये चान्ये देहि-सञ्ज्ञिताः।
Link copiedइति। रुद्रस्य ब्रह्मणश् चान्येषां च देहिनां परमेश्वरो नारायणोऽन्तरात्मतयावस्थित इति। तथा तत्रैव---
Link copiedविष्णुर् आत्मा भगवतो भवस्यामित-तेजसः।
Link copiedतस्माद् धनुर् ज्या-संस्पर्शं स विषेहे महेश्वरः॥
Link copiedइति। तत्रैव---
Link copiedएतौ द्वौ विबुध-श्रेष्ठौ प्रसाद-क्रोध-जौ स्मृतौ।
Link copiedतद्-आदर्शित-पन्थानौ सृष्टि-संहार-कारकौ॥
Link copiedइति। अन्तरात्मतयावस्थित-नारायण-दर्शित-पथौ ब्रह्म-रुद्रौ सृष्टि-संहार-कार्य-कराव् इत्य् अर्थः।
Link copied॥१०९॥
Link copiedनिमित्तोपादानयोस् तु भेदं वदन्तो वेद-बाह्या एव स्युः। जन्माद्यस्य यतः प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुपरोधाद् इत्य् आदि वेदवित्-प्रणीत-सूत्र-विरोधात्। सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं तद् ऐक्षत बहु स्यां प्रजायेयेति ब्रह्म-वनं ब्रह्म स वृक्ष आसीद् यतो द्याव् आपृथिवी निष्टतक्षुः ब्रह्माध्यतिष्ठद् भुवनानि धारयन् सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि न तस्येशे कश्चन तस्य नाम महद् यशः नेह नानास्ति किञ्चन सर्वस्य वशी सर्वस्येशानः पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् उतामृतत्वस्येशानः नान्यः पन्था अयनाय विद्यत इत्य् आदि सर्व-श्रुति-विरोधाच् च।
Link copied॥११०॥
Link copiedइतिहास-पुराणेषु च सृष्टि-स्थिति-प्रलय-प्रकरणयोर् इदम् एव पर-तत्त्वम् इत्य् अवगम्यते। यथा महाभारते---
Link copiedकुतः सृष्टम् इदं सर्वं जगत् स्थावर-जङ्गमम्।
Link copiedप्रलये च कम् अभ्येति तन् नो ब्रूहि पितामह॥
Link copiedइति पृष्टः---
Link copiedनारायणो जगन्-मूर्तिर् अनन्तात्मा सनातनः।
Link copiedइत्य् आदि च वदति।
Link copiedऋषयः पितरो देवा महाभूतानि धातवः।
Link copiedजङ्गमाजङ्गमं चेदं जगन् नारायणोद्भवम्॥
Link copiedइति च। प्राच्योदीच्य-दाक्षिणात्य-पाश्चात्य-सर्व-शिष्टैः सर्व-धर्म-सर्व-तत्त्व-व्यवस्थायाम् इदम् एव पर्याप्तम् इत्य् अविगान-परिगृहीतं वैष्णवं च पुराणं जन्माद्य् अस्य यत इति जगज्-जन्मादि-कारणं ब्रह्मेत्य् अवगम्यते। तज्-जन्मादि-कारणं किम् इति प्रश्न-पूर्वकं विष्णोः सकाशाद् भूतम् इत्य् आदिना ब्रह्म-स्वरूप-विशेष-प्रतिपादनैक-परतया प्रवृत्तम् इति सर्व-सम्मतम्। तथा तत्रैव---
Link copiedप्रकृतिर् या ख्याता व्यक्ताव्यक्त-स्वरूपिणी।
Link copiedपुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनि॥
Link copiedपरमात्मा च सर्वेषाम् आधारः परमेश्वरः।
Link copiedविष्णु-नामा स वेदेषु वेदान्तेषु च गीयते॥
Link copiedइति। सर्व-वेद-वेदान्तेषु सर्वैः शब्दैः परम-कारणतयायम् एव गीयत इत्य् अर्थः। यथा सर्वासु ष्रुतिषु केवल-परब्रह्म-स्वरूप-विशेष-प्रतिपादनायैव प्रवृत्तो नारायणानुवाकस् तथेदं वैष्णवं च पुराणम्---
Link copiedसोऽहम् इच्छामि धर्म-ज्ञ श्रोतुं त्वत्तो यथा जगत्।
Link copiedबभूव भूयश् च यथा महा-भाग भविष्यति॥
Link copiedयन्-मयं च जगद् ब्रह्मन्य् अतश् चैतच् चराचरम्।
Link copiedलीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च॥
Link copiedइति परं ब्रह्म किम् इति प्रक्रम्य---
Link copiedविष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम्।
Link copiedस्थिति-संयम-कर्तासौ जगतोऽस्य जगच् च सः॥
Link copiedपरः पराणां परमः परमात्मात्म-संस्थितः।
Link copiedरूप-वर्णादि-निर्देश-विशेषण-विवर्जितः॥
Link copiedअपक्षय-विनाशाभ्यां परिणामर्द्धि-जन्मभिः।
Link copiedवर्जितः शक्यते वक्तुं यः सद् अस्तीति केवलम्॥
Link copiedसर्वत्रासौ समस्तं च वसत्य् अत्रेति वै यतः।
Link copiedततः स वासुदेवेति विद्वद्भिः परिपठ्यते॥
Link copiedतद् ब्रह्म परं नित्यम् अजम् अक्षयम् अव्ययम्।
Link copiedएक-स्वरूपं च सदा हेयाभावाच् च निर्मलम्॥
Link copiedतद् एव सर्वम् एवैतद् व्यक्ताव्यक्त-स्वरूपवत्।
Link copiedतथा पुरुष-रूपेण काल-रूपेण च स्थितम्॥
Link copiedस सर्व-भूत-प्रकृतिं विकारान् गुणादि-दोषांश् च मुने व्यतीतः।
Link copiedअतीत-सर्वावरणोऽखिलात्मा तेनास्तृतं यद् भुवनान्तराले॥
Link copiedसमस्त-कल्याण-गुणात्मकोऽसौ स्व-शक्ति-लेशोद्धृत-भूत-वर्गः।
Link copiedइच्छा-गृहीताभिमतोरु-देहः संसाधिताशेष-जगद्-धितोऽसौ॥
Link copiedतेजो-बलैश्वर्य-महावबोध-सुवीर्य-शक्त्य्-आदि-गुणैक-राशिः।
Link copiedपरः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे॥
Link copiedस ईश्वरो व्यष्टि-समष्टि-रूपोऽव्यक्त-स्वरूपः प्रकट-स्वरूपः।
Link copiedसर्वेश्वरः सर्व-दृक् सर्व-वेत्ता समस्त-शक्तिः परमेश्वराख्यः॥
Link copiedसञ्ज्ञायते येन तद् अस्त-दोषं शुद्धं परं निर्मलम् एक-रूपम्।
Link copiedसन्दृश्यते वाप्य् अधिगम्यते वा तज् ज्ञानम् अज्ञानम् अतोऽन्यद् उक्तम्॥
Link copiedइति परब्रह्म-स्वरूप-विशेष-निर्णयायैव प्रवृत्तम्।
Link copied॥१११॥
Link copiedअन्यानि सर्वाणि पुराणान्य् एतद्-अविरोधेन नेयानि। अन्य-परत्वं च तत्-तद्-आरम्भ-प्रकारैर् अवगम्यते। सर्वात्मना विरुद्धांशस् तामसत्वाद् अनादरणीयः।
Link copied॥११२॥
Link copiedनन्व् अस्मिन्न् अपि---
Link copiedसृष्टि-स्थित्य्-अन्तकरणीं ब्रह्म-विष्नु-शिवात्मिकां।
Link copiedस सञ्ज्ञा याति भगवान् एक जनार्दनः॥
Link copiedइति त्रि-मूर्ति-साम्यं प्रतीयते। नैतद् एवम्। एक एव जनार्दन इति जन अर्दनस्यैव ब्रह्म-शिवादि-कृत्स्न-प्रपञ्च-तादात्म्यं विधीयते। जगच् च स इति पूर्वोक्तम् एव विवृणोति स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च।
Link copiedउपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः॥
Link copiedइति च स्रष्टृत्वेनावस्थितं ब्रह्मणं सृज्यं च संहर्तारं संहार्यं च युगपन् निर्दिश्य सर्वस्य विष्णु-तादात्म्योपदेशात् सृज्य-संहार्य-भूताद् वस्तुनः स्रष्टृ-संहर्त्रोर् जनार्दन-विभूतित्वेन विशेषो दृश्यते। जनार्दन-विष्णु-शब्दयोः पर्यायत्वेन ब्रह्म-विष्णु-शिवात्मिकाम् इति विभूतिम्। अत एव स्वेच्छया लीलार्थं विभूत्य्-अन्तर्भाव उच्यते। यथेदम् अनन्तरम् एवोच्यते---
Link copiedपृथिव्य् आपस् तथा तेजो वायुर् आकाश एव च।
Link copiedसर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत्॥
Link copiedस एव सर्व-भूतात्मा विश्व-रूपो यतोऽव्ययः।
Link copiedसर्गादिकं ततोऽस्यैव भूत-स्थम् उपकारकम्॥
Link copiedस एव सृज्यः स च सर्व-कर्ता स एव पात्य् अत्ति च पाल्यते च।
Link copiedब्रह्माद्य्-अवस्थाभिर् अशेष-मूर्तिर् विष्णुर् वरिष्ठो वरदो वरेण्यः॥ इति।
Link copied॥११३॥
Link copiedअत्र सामानाधिकरण्य-निर्दिष्टं हेय-मिश्र-प्रपञ्च-तादात्म्यं निरवद्यस्य निर्विकारस्य समस्त-कल्याण-गुणात्मकस्य ब्रह्मणः कथम् उपपद्यत इत्य् आशङ्ख्य स एव सर्व-भूतात्मा विश्व-रूपो यतोऽव्यय इति स्वयम् एवोपपादयति। स एव सर्वेश्वरः परब्रह्म-भूतो विष्णुर् एव सर्वं जगद् इति प्रतिज्ञाय सर्व-भूतात्मा विश्व-रूपो यतोऽव्यय इति हेतुर् उक्तः। सर्व-भूतानाम् अयम् आत्मा विश्व-शरीरो यतोऽव्यय इत्य् अर्थः। वक्ष्यति च सत् सर्वं वै हरेस् तनुर् इति।
Link copiedएतद् उक्तं भवति--- अस्याव्ययस्यापि परस्य ब्रह्मणो विष्णोर् विश्व-शरीरतया तादात्म्य-विरुद्धम् इत्य् आत्म-शरीरयोश् च स्वभावा व्यवस्थिता एव। एवम्भूतस्य सर्वेश्वरस्य विष्णोः प्रपञ्चान्तर्भूत-नियाम्य-कोटि-निविष्ट-ब्रह्मादि-देव-तिर्यङ्-मनुष्येषु तत्-तत्-समाश्रयणीयत्वाय स्वेच्छावतारः पूर्वोक्तः। तद् एतद् ब्रह्मादीनां भावना-त्रयान्वयेन कर्म-वश्यत्वं भगवतः परब्रह्म-भूतस्य वासुदेवस्य निखिल-जगद्-उपकाराय स्वेच्छया स्वेनैव रूपेण देवादिष्व् अवतार इति च षष्टेऽंशे शुभाश्रय-प्रकरणे सुव्यक्तम् उक्तम्। अस्य देवादि-रूपेणावतारेष्व् अपि न प्राकृतो देह इति महाभारते न भूत-सङ्घ-संस्थानो देहोऽस्य परमात्मनः, इति प्रतिपादितः। श्रुतिभिश् च--- अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् इति। कर्म-वश्यानां ब्रह्मादीनाम् अनिच्छताम् अपि तत्-तत्-कर्मानुगुण-प्रकृति-परिणाम-रूप-भूत-सङ्घ-संस्थान-विशेष-देवादि-शरीर-प्रवेश-रूपं जन्मावर्जनीयम्। अयं तु सर्वेश्वरः सत्य-सङ्कल्पो भगवान् एवम्भूत-शुभेतर-जन्माकुर्वन्न् अपि स्वेच्छया स्वेनैव निरतिशय-कल्याण-रूपेण देवादिषु जगद्-उपकाराय बहुधा जायते, तस्यैतस्य शुभेतर-जन्माकुर्वतोऽपि स्व-कल्याण-गुणानन्त्येन बहुधा योनिं बहु-विध-जन्म धीराधीरमताम् अग्रेसरा जानन्तीत्य् अर्थः।
Link copied॥११४॥
Link copiedतद् एतन् निखिल-जगन्-निमित्तोपादान-भूताज् जन्माद्य् अस्य यतः प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुपरोधाद् इत्य् आदि-सूत्रैः प्रतिपादितात् परस्माद् ब्रह्मणः परम-पुरुषाद् अन्यस्य कस्यचित् परतरत्वं परमतः सेतून्मान-सम्बन्ध-भेद-व्यपदेशेभ्य इत्य् आशङ्क्य सामान्यात् तु बुद्ध्य्-अर्थः पादवत् स्थान-विशेषात् प्रकाशादिवद् उपपत्तेश् च तथान्य-प्रतिषेधाद् अनेन सर्व-गतत्व-मायाम् आदि-शब्दादिभ्य इति सूत्र-कारः स्वयम् एव निराकरोति।
Link copied॥११५॥
Link copiedमानवे च शास्त्रे---
Link copiedप्रादुरासीत् तमोनुदः सिसृक्षुर् विविधाः प्रजाः।
Link copiedअप एव ससर्जादौ तासु वीर्यम् अपासृजत्॥
Link copiedतस्मिञ् जज्ञे स्वयं ब्रह्म
Link copiedइति ब्रह्मणो जन्म-श्रवणात् क्षेत्रज्ञत्वम् एवावगम्यते। तथा च स्रष्टुः परम-पुरुषस्य तद्-विसृष्टस्य च ब्रह्मणः---
Link copiedअयं तस्य ताः पूर्वं तेन नारायणः स्मृतः।
Link copiedतद्-विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते॥
Link copiedइति नाम-निर्देशाच् च। तथा च वैष्णवे पुराणे हिरण्यगर्भादीनां भावनानाम् आनुष्ठेय-विषयकः संस्कारः। सा त्रिविधा ब्रह्म-भावनोपासना-दृढ-संस्कारः, ब्रह्म-शब्दस्य ज्ञात-परत्वात्। सा सनकादिषु कर्म-भावना, देवादिषु तेषां वैदिक-कर्म-परत्वात्। कर्म-ब्रह्मोभय-भावना हिरण्यगर्भस्य, तस्य वैदिक-कर्मोपासनात्मक-ज्ञानोभय-परायणत्वात्। भावना-त्रयान्वयाद् अशुद्धत्वेन शुभाश्रयत्वानर्हतोपपादनात् क्षेत्रत्वं निश्चीयते।
Link copied॥११६॥
Link copiedयद् अपि कैश्चिद् उक्तं सर्वस्य शब्द-जातस्य विध्य्-अर्थवाद-मन्त्र-रूपस्य कार्याभिधायित्वेनैव प्रामाण्यं वर्णनीयम्। व्यवहाराद् अन्यत्र शब्दस्य बोधकत्व-शक्त्य्-अवधारणासम्भवाद् व्यवहारस्य च कार्य-बुद्धि-मूलत्वात् कार्य-रूप एव शब्दार्थः। न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणम् इति। अत्रोच्यते। प्रवर्तक-वाक्य-व्यवहार एव शब्दानाम् अर्थ-बोधकत्व-शक्त्य्-अवधारणं कर्तव्यम् इति किम् इयं राजाज्ञा। सिद्ध-वस्तुषु शब्दस्य बोधकत्व-शक्ति-ग्रहणम् अत्यन्त-सुकरम्। तथा हि केनचिद् धस्त-चेष्टादिनापवरके दण्डः स्थित इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित् तज्-ज्ञापने प्रवृत्तोऽपवरके दण्डः स्थित इति शब्दं प्रयुङ्क्ते। मूकवद् धस्त-चेष्टाम् इमां जानन् पार्श्व-स्थोऽन्यः प्राग् व्युत्पन्नोऽपि तस्यार्थस्य बोधनायापवरके दण्डः स्थित इत्य् अस्य शब्दस्य प्रयोग-दर्शनाद् अस्यार्थस्यायं शब्दो बोधक इति जानातीति किम् अत्र दुष्करम्। तथा बालस् तातोऽयम् इयं मातायं मातुलोऽयं मनुष्योऽयं मृगश् चन्द्रोऽयम् अयं च सर्प इति माता-पितृ-प्रभृतिभिः शब्दैः शनैः शनैर् अङ्गुल्या निर्देशने तत्र तत्र बहुशः शिक्षितस् तैर् एव शब्दैस् तेष्व् अर्थेषु स्वात्मनश् च बुद्ध्य्-उत्पत्तिं दृष्ट्वा तेष्व् अर्थेषु तेषां शब्दानाम् अङ्गुल्या निर्देश-पूर्वकः प्रयोगः सम्बन्धान्तराभावात् सङ्केतयितृ-पुरुषाज्ञानाच् च बोधकत्व-निबन्धन इति क्रमेण निश्चित्य पुनर् अप्य् अस्य शब्दस्यायम् अर्थ इति पूर्व-वृद्धैः शिक्षितः सर्व-शब्दानाम् अर्थम् अवगम्य स्वयम् अपि सर्वं वाक्य-जातं प्रयुङ्क्ते। एवम् एव सर्व-पदानां स्वार्थाभिधायित्वं सङ्घात-विशेषणां च यथावस्थित-संसर्ग-विशेष-वाचित्वं च जानातीति कार्यार्थैव व्युतिपत्तिर् इत्य् आदि निर्बन्धो निर्बन्धनः। अतः परिष्पन्नः वस्तुनि शब्दस्य बोधकत्व-शक्त्य्-अवधारणात् सर्वाणि वेदान्त-वाक्यानि सकल-जगत्-कारणं सर्व-कल्याण-गुणाकरम् उक्त-लक्षणं ब्रह्म बोधयन्त्य् एव।
Link copied॥११७॥
Link copiedअपि च कार्यार्थ एव व्युत्पत्तिर् अस्तु। वेदान्द-वाक्यान्य् अप्य् उपासन-विषय-कार्याधिकृत-विशेषण-भूत-फलत्वेन दुःखासम्भिन्न-देश-विशेष-रूप-स्वर्गादिवद् अतिरात्र-सत्र-प्रतिष्ठादिवद् अपगोरण-शतयातना-साध्य-साधन-भाववच् च कर्योपयोगितयैव सर्वं बोधयन्ति। तथा हि ब्रह्म-विद् आप्नोति परम् इत्य् अत्र ब्रह्मोपासन-विषय-कार्याधिकृत-विशेषण-भूत-फलत्वेन ब्रह्म-प्राप्तिः श्रूयते पर-प्राप्ति-कामो ब्रह्म विद्याद् इत्य् अत्र प्राप्यतया प्रतीयमानं ब्रह्म-स्वरूपं तद्-विशेषणं च सर्वं कार्योपयोगितयैव सिद्धं भवति। तद्-अन्तर्गतम् एव जगत्-स्रष्टृत्वं संहर्तृत्वम् आधारत्वम् अन्तरात्मत्वम् इत्य् आद्य् उक्तम् अनुक्तं च सर्वम् इति न किञ्चिद् अनुपपन्नम्।
Link copied॥११८॥
Link copiedएवं च सति मन्त्रार्थवाद-गता ह्य् अविरुद्धा अपूर्वाश् चार्थाः सर्वे विधि-शेषतयैव सिद्धा भवन्ति। यथोक्तं द्रमिड-भाष्ये ऋणं हि वै जायत इति श्रुतेर् इत्य् उपक्रम्य यद्य् अप्य् अवदान-स्तुति-परं वाक्यं तथापि नासता स्तुतिर् उपपद्यत इति। एतद् उक्तं भवति सर्वो ह्य् अर्थवाद-भागो देवताराधन-भूत-यागादेः साङ्गस्याराध्य-देवतायाश् चादृष्ट-रूपान् गुणान् सहस्रशो वदन् सहस्रशः कर्मणि प्राशस्त्य-बुद्धिम् उत्पादयति। तेषाम् असद्-भावे प्राशस्त्य-बुद्धिर् एव न स्याद् इति कर्मणि प्राशस्त्य-बुद्ध्य्-अर्थं गुण-सद्-भावम् एव बोधयतीति। अनयैव दिशा सर्वे मन्त्रार्थवादावगता अर्थाः सिद्धाः।
Link copied॥११९॥
Link copiedअपि च कार्य-वाक्यार्थवादिभिः किम् इदं कार्यत्वं नामेति वक्तव्यम्। कृति-भाव-भाविता कृत्य्-उद्देश्यता चेति चेत्। किम् इदं कृत्य्-उद्देश्यत्वम्। यद् अधिकृत्य कृतिर् वर्तते तत् कृत्य्-उद्देश्यत्वम् इति चेत्। पुरुष-व्यापार-रूपायाः कृतेः कोऽयम् अधिकारो नाम। यत् प्राप्तीच्छया कृतिम् उत्पादयति पुरुषः तत् कृत्य्-उद्देश्यत्वम् इति चेद् धन्त तर्हीष्टत्वम् एव कृत्य्-उद्देश्यत्वम्। अथैवं मनुषे इष्टस्यैव रूप-द्वयम् अस्ति। इच्छा-विषयतया स्थितिः पुरुष-प्रेरकत्वं च। तत्र प्रेरकत्वाकारः कृत्य्-उद्देश्यत्वम् इति सोऽयं स्व-पक्षाभिनिवेश-कारितो वृथाश्रमः। तथा हीच्छा-विषयतया प्रतीतस्य स्व-प्रयत्नोत्पत्तिम् अन्तरेणासिद्धिर् एव प्रेरकत्वम्। तत एव प्रवृत्तेः। इच्छायां जातायाम् इष्टस्य स्व-प्रयत्नोत्पत्तिम् अन्तरेणासिद्धिः प्रतीयते चेत् ततश् चिकीर्षा जायते ततः प्रवर्तते पुरुष इति तत्त्व-विदां प्रक्रिया। तस्माद् इष्टस्य कृत्य्-अधीनात्म-लाभत्वातिरेकि कृत्य्-उद्देश्यत्वं नाम किम् अपि न दृष्यते। अथोच्यते इष्टता-हेतुश् च पुरुषानुकूलता। तत्-पुरुषानुकूलत्वं कृत्य्-उद्देश्यत्वम् इति चेत्। नैवम्। पुरुषानुकूलं सुखम् इत्य् अनर्थान्तरम्। तथा पुरुषानुकूलं दुःख-पर्यायम्। अतः सुख-व्यतिरिक्तस्य कस्यापि पुरुषानुकूलत्वं न सम्भवति।
Link copiedननु च दुःख-निवृत्तेर् अपि सुख-व्यतिरिक्तायाः पुरुषानुकूलता दृष्टा। नैतत्। आत्मानुकूलं सुखम् आत्म-प्रतिकूलं दुःखम् इति हि सुख-दुःखयोर् विवेकः। तत्रात्मानुकूलं सुखम् इष्टं भवति। तत्-प्रतिकूलं दुःखं चानिष्टम्। अतो दुःख-संयोगस्यासह्यतया तन्-निवृत्तिर् अपीष्टा भवति। तत एवेष्टता-साम्याद् अनुकूलता-भ्रमः। तथा हि प्रकृति-संसृष्टस्य संसारिणः पुरुषस्यानुकूल-संयोगः प्रतिकूल-संयोगः स्वरूपेणावस्थितिर् इति च तिस्रोऽवस्थाः। तत्र प्रतिकूल-सम्बन्ध-निवृत्तिश् चानुकूल-सम्बन्ध-निवृत्तिश् च स्वरूपेणावस्थितिर् एव। तस्मात् प्रतिकूल-संयोगे वर्तमाने तन्-निवृत्ति-रूपा स्वरूपेणावस्थितिर् अपीष्टा भवति। तत्रेष्टता-साम्याद् अनुकूलता-भ्रमः।
Link copied॥१२०॥
Link copiedअतः सुख-रूपत्वाद् अनुकूलतायाः नियोगस्यानुकूलतां वदन्तं प्रामाणिकाः परिहसन्ति। इष्टस्यार्थ-विशेषस्य निवर्तकतयैव हि नियोगस्य नियोगत्वं स्थिरत्वम् अपूर्वत्वं च प्रतीयते। स्वर्ग-कामो यजेतेत्य् अत्र कार्यस्य क्रियातिरिक्ता स्वर्ग-काम-पद-समभिव्याहारेण स्वर्ग-साधनत्व-निश्चयाद् एव भवन्ति। न च वाच्यं यजेतेत्य् अत्र प्रथमं नियोगः स्व-प्रधानतयैव प्रतीयते स्वर्ग-काम-पद-समभिव्याहारात् स्व-सिद्धये स्वर्ग-सिद्ध्य्-अनुकूलता च नियोगस्येति। यजेतेति हि धात्व्-अर्थस्य पुरुष-प्रयत्न-साध्यता प्रतीयते। स्वर्ग-काम-पद-समभिव्याहाराद् एव धात्व्-अर्थातिरेकिणो नियोगत्वं स्थिरत्वम् अपूर्वत्वं चेत्य् आदि। तच् च स्वर्ग-साधनत्व-प्रतीति-निबन्धनम्। समभिव्याहृत-स्वर्ग-काम-पदार्थान्वय-योग्यं स्वर्ग-साधनम् एव कार्यं लिङ्-आदयोऽभिदधतीति लोक-व्युत्पत्तिर् अपि तिरस्कृता। एतद् उक्तं भवति--- समभिव्यहृत-पदान्तर-वाच्यार्थान्वय-योग्यम् एवेतर-पद-प्रतिपाद्यम् इत्य् अन्विताभिधायि-पद-सङ्घात-रूप-वाक्य-श्रवण-समनन्तरम् एव प्रतीयते। तच् च स्वर्ग-साधन-रूपम्। अतः क्रियावद् अनन्यार्थतापि विरोधाद् एव परित्यक्तेति। अत एव गङ्गायां घोष इत्य् आदौ घोष-प्रतिवास-योग्यार्थोपस्थापन-परत्वं गङ्गा-पदस्याश्रीयते। प्रथमं गङ्गा-पदेन गङ्गार्थः स्मृत इति गङ्गा-पदार्थस्य पेयत्वं न वाक्यार्थान्वयीभवति। एवम् अत्र अपि यजेतेत्येतावन्-मात्र-श्रवणे कार्यम् अनन्यार्थं स्मृतम् इति वाक्यार्थान्वय-समये कार्यस्यानन्यार्थता नावतिष्ठते। कार्याभिधायि-पद-श्रवण-वेलायां प्रथमं कार्यम् अनन्यार्थं प्रतीतम् इत्य् एतद् अपि न सङ्गच्छते। व्युत्पत्ति-काले गवानयनादि-क्रियाया दुःख-रूपाया इष्ट-विशेष-साधनतयैव कार्यता-प्रतीतेः। अतो नियोगस्य पुरुषानुकूलत्वं सर्व-लोक-विरुद्धं नियोगस्य सुख-रूप-पुरुषानुकूलतां वदतः स्वानुभव-विरोधश् च। करीर्या वृष्टि-कामो यजेय्तेत्य् आदिषु सिद्धेऽपि नियोगे वृष्ट्य्-आदि-सिद्धि-निमित्तस्य वृष्टि-व्यतिरेकेण नियोगस्यानुकूलता नानुभूयते। यद्य् अप्य् अस्मिञ् जन्मनि वृष्ट्य्-आदि-सिद्धेर् अनियमस् तथाप्य् अनियमाद् एव नियोग-सिद्धिर् अवश्याश्रयणीया। तस्मिन्न् अनुकूलता-पर्याय-सुखानुभूतिर् न दृश्यते। एवम् उक्त-रीत्या कृति-साध्येष्टत्वातिरेकि कृत्य्-उद्देश्यत्वं न दृश्यते।
Link copied॥१२१॥
Link copiedकृतिं प्रति शेषित्वं कृत्य्-उद्देश्यत्वम् इति चेत्। किम् इदं शेषित्वं किं च शेषत्वम् इति वक्तव्यम्। कार्यं प्रति सम्बन्धी शेषः। तत्-प्रतिसम्बन्धित्वं शेषित्वम् इति चेत्। एवं तर्हि कार्यत्वम् एव शेषित्वम् इत्य् उक्तं भवति। कार्यत्वम् एव विचार्यते। परोद्देश-प्रवृत्त-कृति-व्याप्त्य्-अर्हत्वम् शेषत्वम् इति चेत्। कोऽयं परोद्देशो नामेति। अयम् एव हि विचार्यते। उद्देश्यत्वं नामेप्सितत्व-साध्यत्वम् इति चेत्। किम् इदम् ईप्सितत्वम्। कृति-प्रयोजनत्वम् इति चेत् पुरुषस्य कृत्य्-आरम्भ-प्रयोजनम् एव हि कृति-प्रयोजनम्। स चेच्छा-विषयः कृत्य्-अधीनात्म-लाभ इति पूर्वोक्त एव। अयम् एव हि सर्वत्र शेष-शेषि-भावः। पर-गतातिशयाधानेच्छोपादेयत्वम् एव यस्य स्वरूपं स शेषः परः शेषी। फलोत्पत्तीच्छया यागादेस् तत्-प्रयत्नस्य चोपादेयत्वं यागादि-सिद्धीच्छयान्यत् सर्वम् उपादेयम्।
Link copied॥१२२॥
Link copiedएवं गर्भ-दासादीनाम् अपि पुरुष-विशेषातिशयाधानोपादेयत्वम् एव स्वरूपम्। एवम् ईश्वर-गतातिशयाधानेच्छयोपादेयत्वम् एव चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च सर्वस्य वस्तुनः स्वरूपम् इति सर्वम् ईश्वर-शेषत्वम् एव सर्वस्य चेश्वरः शेषीति सर्वस्य वशी सर्वस्येशानः पतिं विश्वस्येत्य् आद्य् उक्तम्। कृति-साध्यं प्रधानं यत् तत् कार्यम् अभिधीयत इत्य् अयम् अर्थः श्रद्दधानेष्व् एव शोभते।
Link copied॥१२३॥
Link copiedअपि च स्वर्ग-कामो यजेतेत्य् आदिषु ल-कार-वाच्य-कर्तृ-विशेष-समर्पण-पराणां स्वर्ग-कामादि-पदानां नियोज्य-विशेष-समर्पण-परत्वं शब्दानुशासन-विरुद्धं केनावगम्यते। साध्य-स्वर्ग-विशिष्टस्य स्वर्ग-साधने कर्तृत्वान्वयो न घटत इति चेत्। नियोज्यत्वान्वयोऽपि न घटत इति हि स्वर्ग-साधनत्व-निश्चयः। स तु शास्त्र-सिद्धे कर्तृत्वान्वये स्वर्ग-साधनत्व-निश्चयः क्रियते। यथा भोक्तु-कामो देवदत्त-गृहं गच्छेद् इत्य् उक्ते भोजन-कामस्य देवदत्त-गृह-गमने कर्तृत्व-श्रवणाद् एव प्राग् अज्ञातम् अपि भोजन-साधनत्वं देवदत्त-गृह-गमनस्यावगम्यते। एवम् अत्रापि भवति। न क्रियान्तरं प्रति कर्तृतया श्रुतस्य क्रियान्तरे कर्तृत्व-कल्पनं युक्तं यजेतेति हि याग-कर्तृतया श्रुतस्य बुद्धौ कर्तृत्व-कल्पनं क्रियते। बुद्धेः कर्तृत्व-कल्पनम् एव हि नियोज्यत्वम्। यथोक्तं---
Link copiedनियोज्य सर्व-कार्यं यः स्वकीयत्वेन बुध्यते।
Link copiedइति। यष्टृत्वानुगुणं तद्-बोधृत्वम् इति चेत्। देवदत्तः पचेद् इति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाकार्थ-गमनं पाकानुगुणम् इति गमने कर्तृत्व-कल्पनं न युज्यते।
Link copied॥१२४॥
Link copiedकिं च लिङ्-आदि-शब्द-वाच्यं स्थायि-रूपं किम् इत्य् अपूर्वम् आश्रीयते। स्वर्ग-काम-पद-समभिव्याहारानुपपत्तेर् इति चेत्। कात्रानुपपत्तिः। सिषाधयिषित-स्वर्गो हि स्वर्ग-कामः। तस्य स्वर्ग-कामस्य कालान्तर-भावि-स्वर्ग-सिद्धौ क्षण-भङ्गिनी यागादि-क्रिया न समर्थेति चेत्। अनाघ्रात-वेद-सिद्धान्तानाम् इयम् अनुपपत्तिः। सर्वैः कर्मभिर् आराधितः परमेश्वरो भगवान् नारायणस् तत् तद् इष्टं फलं ददातीति वेद-विदो वदन्ति। यथाहुर् वेद-विद्-अग्रेसरा द्रमिडाचार्याः फल-सम्बिभत्सया। सम्बिभत्स इत्य् अत्र अ-कार-लोपश् चिन्यः, व-कारोत्तर-भ-कार-पूर्वम् अकारस्यौचित्त्यात्। व्याचष्टे हि कर्मभिर् आत्मानम् अपि प्रीणन्ति। स प्रीतोऽलं फलायेति शास्त्र-मर्यादा, इति फल-सम्बन्धेच्छया कर्मभिर् याग-दान-होमादिभिस् त्रिदशादि-देवता-मुखेन तत्-तद्-अन्तर्यामि-रूपेणावस्थितम् इन्द्रादि-शब्द-वाच्यं परमात्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति, स हि कर्मभिर् आराधितस् तेषाम् इष्टानि फलानि परमात्मा प्रयच्छतीत्य् अर्थः। तथा च श्रुतिः--- इष्टा-पूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिर् इति। इष्टा-पूर्तम् इति सकल-श्रुति-स्मृति-चोदितं कर्मोच्यते। तद्-विश्वं बिभर्ति इन्द्राग्नि-वरुणादि-सर्व-देवता-सम्बन्धितया प्रतीयमानं तत्-तद्-अन्तरात्मतयावस्थितः परम-पुरुषः स्वयम् एव बिभर्ति स्वयम् एव स्वीकरोति। भुवनस्य नाभिः ब्रह्म-क्षत्रादि-सर्व-वर्ण-पूर्णस्य भुवनस्य धारकः तैस् तैः कर्मभिर् आराधितस् तत्-तद्-इष्ट-फल-प्रदानेन भुवनानां धारक इति नाभिर् इत्य् उक्तः। अग्नि-वायु-प्रभृति-देवतान्तरात्मतया तत्-तच्-छब्दाभिधेयोऽयम् एवेत्य् आह तद् एवाग्निस् तद् वायुस् तत् सूर्यस् तद् उ चन्द्रमा इति। यथोक्तं भगवता---
Link copiedयो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति।
Link copiedतस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम्॥
Link copiedस तस्य श्रद्धया युक्तस् तस्याराधनम् ईहते।
Link copiedलभते च ततः कामान् मयैव विहितान् इह तान्॥ इति।
Link copiedयां यां तनुम् इतीन्द्रादि-देवता-विशेषास् तत्-तद्-अन्तर्यामितयावस्थितस्य भगवतस् तनवः शरीराणीत्य् अर्थः।
Link copiedअहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च।
Link copiedइत्य् आदि।
Link copiedप्रभुर् एव चेति सर्व-फलानां प्रदाता चेत्य् अर्थः।
Link copiedयथा च---
Link copiedयज्ञैस् त्वम् इज्यसे नित्यं सर्व-देव-मयाच्युत।
Link copiedयैः स्व-धर्म-परैर् नाथ नरैर् आराधितो भवान्।
Link copiedते तरन्त्य् अखिलाम् एतां मयाम् आत्म-विमुक्तये॥
Link copiedइति। सेतिहास-पुराणेषु सर्वेष्व् एव वेदेषु सर्वाणि कर्माणि सर्वेश्वराराधन-रूपाणि, तैस् तैः कर्मभिर् आराधितः पुरुषोत्तमस् तत् तद् इष्टं फलं ददातीति तत्र तत्र प्रपञ्चितम्। एवं हि सर्व-शक्तिं सर्व-ज्ञं सर्वेश्वरं भगवन्तम् इन्द्रादि-देवतान्तर्यामि-रूपेण याग-दान-होमादि-वेदोदित-सर्व-कर्मणां भोक्तारं सर्व-फलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति। चतुर्होतारो यत्र सम्पदं गच्छन्ति देवैर् इत्य् आद्याः। चतुर्होतारो यज्ञाः, यत्र परमात्मनि देवेष्व् अन्तर्यामि-रूपेणावस्थिते, देवैः सम्पदं गच्छन्ति देवैः सम्बन्धं गच्छन्ति यज्ञा इत्य् अर्थः। अन्तर्यामि-रूपेणावस्थितस्य परमात्मनः शरीरतयावस्थितानाम् इन्द्रादीनां यागादि-सम्बन्ध इत्य् उक्तं भवति। यथोक्तं भगवता---
Link copiedभोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम्।
Link copiedइति। तस्माद् अग्न्य्-आदि-देवतान्तरात्म-भूत-परम-पुरुषाराधन-रूप-भूतानि सर्वाणि कर्माणि, स एव चाभिलषित-फल-प्रदातेति किम् अत्रापूर्वेण व्युत्पत्ति-पथ-दूर-वर्तिना वाच्यतयाभ्युपगतेन कल्पितेन वा प्रयोजनम्। एवं च सति लिङ्-आदेः कोऽयम् अर्थः परिगृहीतो भवति। यज देव-पूजायाम् इति देवताराधन-भूत-यागादेः प्रकृत्य्-अर्थस्य कर्तृव्यापार-साध्यतां व्युत्पत्ति-सिद्धां लिङ्-आदयोऽभिदधतीति न किञ्चिद् अनुपपन्नम्। कर्तृ-वाचिनां प्रत्ययानां प्रकृत्य्-अर्थस्य कर्तृ-व्यापार-सम्बन्ध-प्रकारो हि वाच्यः। भूत-वर्तमानादिकम् अन्ये वदन्ति। लिङ्-आदयस् तु कर्तृ-व्यापार-साध्यतां वदन्ति।
Link copied॥१२५॥
Link copiedअपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवताराधन-रूपतां तद्-द्वारा फल-सम्भवं च तत्-तत्-कर्म-विधि-वाक्यान्य् एव वदन्ति। वायव्यं श्वेतम् आलभत भूति-कामो वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतीत्य् आदीनि। नात्र फल-सिद्ध्य्-अनुपपत्तिः कापि दृश्यत इति फल-साधनत्वावगतिर् औपादानिकीत्य् अपि न सङ्गच्छति। विध्य्-अपेक्षितं यागादेः फल-साधनत्व-प्रकारं वाक्य-शेष एव बोधयतीत्य् अर्थः। तस्माद् ब्राह्मणाय नापगुरेतेत्य् अत्रापगोरण-निषेध-विधि-पर-वाक्य-शेषे श्रूयमाणं निषेध्यस्यापगोरणस्य शत-यातना-साधनत्वं निषेध-विध्य्-उपयोगीति हि स्वीक्रियते। अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागादेः काम्य-स्वर्गादि-साधनत्व-प्रकारं वाक्य-शेषावगतम् अनादृत्य किम् इत्य् उपादानेन यागादेः फल-साधनत्वं परिकल्प्यते। हिरण्यनिधिम् अपवरके निधाय याचते कोद्रवादि-लुब्धः कृपणं जनम् इति श्रूयते तद् एतद् युष्मासु दृश्यते। शत-यातना-साधनत्वम् अपि नादृष्ट-द्वारेण। चोदितान्य् अनुतिष्ठो विहितं कर्माकुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परम-पुरुषानुग्रह-निग्रहाभ्याम् एव भवन्ति। एष ह्य् एवानन्दयति अथो सोऽभयं गतो भवति अथ तस्य भयं भवति भीषास्माद् वातः पवते भीषोदेति सूर्यो भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः इति। एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ता इत्य् आद्य्-अनेक-विधाः श्रुतयः सन्ति। यथोक्तं द्रमिड-भाष्ये--- तस्याज्ञया धावति वायुर् नद्यः स्रवन्ति तेन च कृतसीमानो जलाशयाः समदा इव मेष-विर्सपितं कुर्वन्तीति। तत्-सङ्कल्प-निबन्धना हीमे लोके न च्यवन्ते न स्फुटन्ते। स्व-शासनानुवर्तिनां ज्ञात्वा कारुण्यात् स भगवान् वर्धयेत विद्वान् कर्म-दक्ष इति च।
Link copied॥१२६॥
Link copiedपरम-पुरुष-याथात्म्य-ज्ञान-पूर्वक-तद्-उपासनादि-विहित-कर्मानुष्ठायिनस् तत्-प्रसादात् तत्-प्राप्ति-पर्यन्तानि सुखान्य् अभयं च यथाधिकारं भवन्ति। तज्-ज्ञान-पूर्वकं तद्-उपासनादि-विहितं कर्माकुर्वतो निन्दितानि च कुर्वतस् तन्-निग्रहाद् एव तद्-अप्राप्ति-पूर्वकापरिमित-दुःखानि भयं च भवन्ति। यथोक्तं भगवता---
Link copiedनियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः।
Link copiedइत्य् आदिना कृत्स्नं कर्म ज्ञान-पूर्वकम् अनुष्ठेयं विधाय
Link copiedमयि सर्वाणि कर्माणि सन्न्यस्य
Link copiedइति सर्वस्य कर्मणः स्वाराधनताम् आत्मनां स्व-नियाम्यतां च प्रतिपाद्य
Link copiedये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः।
Link copiedश्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥
Link copiedये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।
Link copiedसर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः॥
Link copiedइति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनर् अपि स्वाज्ञानुपालनम् अकुर्वताम् आसुर् अप्रकृत्य्-अन्तर्भावम् अभिधायाधमा गतिश् चोक्ता---
Link copiedतान् अहं द्विषतः क्रूरान् संसारेषु नराधमान्।
Link copiedक्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु॥
Link copiedआसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि।
Link copiedमाम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम्॥ इति।
Link copiedसर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्य्पाश्रयः।
Link copiedमत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम्॥
Link copiedइति च स्वाज्ञानुवर्तिनां शाश्वतं पदं चोक्तम्। अश्रुत-वेदान्तानां कर्मण्य् अश्रद्धा मा भूद् इति देवताधिकरणेऽतिवादाः कृताः कर्म-मात्रे यथा श्रद्धा स्याद् इति सर्वम् एक-शास्त्रम् इति वेद-वित्-सिद्धान्तः।
Link copied॥१२७॥
Link copiedतस्यैतस्य परस्य ब्रह्मणो नारायणस्यापरिच्छेद्य-ज्ञानानन्दामलत्व-स्वरूपवज्-ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजः-प्रभृत्य्-अनवधिकातिशयासङ्ख्येय-कल्याण-गुणवत्-स्व-सङ्कल्प-प्रवर्त्य-स्वेतर-समस्त-चिद्-अचिद्-वस्तु-जातवत्-स्वाभिमत-स्वानुरूपैक-रूप-दिव्य-रूप-तद्-उचित-निरतिशय-कल्याण-विविधानन्त-भूषण-स्व-शक्ति-सदृशापरिमितानन्ताश्चर्य-नाना-विधायुध-स्वाभिमतानुरूप-स्वरूपगुण-विभवैश्वर्य-शीलाद्य्-अनवधिक-महिम-महिसी-स्वानुरूप-कल्याण-ज्ञान-क्रियाद्य्-अपरिमेय-गुणानन्त-परिजन-परिच्छेद-स्वोचित-निखिल-भोग्य-भोगोपकरणाद्य्-अनन्त-महा-विभवावाङ्-मनस-गोचर-स्वरूप-स्वभाव-दिव्य-स्थानादि-नित्यता-निरवद्यतागोचराश् च सहस्रशः श्रुतयः सन्ति। वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात्। य एषोऽन्तरादित्ये हिरण्-मयः पुरुषः। तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी। य एषोऽन्तर्हृदय आकाशस् तस्मिन्न् अयं पुरुषो मनो-मयोऽमृतो हिरण्-मयः मनो-मय इति मनसैव विशुद्धेन गृह्यत इत्य् अर्थः सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि विद्युद्-वर्णात् पुरुषाद् इत्य् अर्थः नील-तोयद-मध्य-स्था विद्युल्-लेखेव भास्वरा मध्य-स्थ-नील-तोयदा विद्युल्-लेखेव सेयं दहर-पुण्डरीक-मध्य-स्थाकाश-वर्तिनी वह्नि-शिखा स्वान्तर्निहित-नील-तोयदाभ-परमात्म-स्वरूपा अवान्तर्-निहित-नील-तोयदा विद्युद् इवाभातीत्य् अर्थः। मनो-मयः प्राण-शरीरो भा-रूपः। सत्य-कामः सत्य-सङ्कल्पः। आकाशात्मा सर्व-कामा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यात्तोऽवाक्यानादरः। महारजनं वास इत्य् आद्याः। अस्येशाना जगतो विष्णु-पत्नी। ह्रीश् च ते लक्ष्मीश् च पत्न्यौ। तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः। क्षयन्तम् अस्य रजसः पराके। यद् एकम् अव्यक्तम् अनन्त-रूपं विश्वं पुराणं तमसः परस्तात्। यो वेद निहितं गुहायां परमे व्योमन्। योऽस्याध्यक्षः परमे व्योमन्। तद् एव तद् उ भव्यमा इदं तद् अक्षरे परमे व्योमन् नित्यादि-श्रुति-शत-निश्चितोऽयम् अर्थः।
Link copied॥१२८॥
Link copiedतद् विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात् सर्व-काल-दर्शनवन्तः परिपूर्ण-ज्ञानाः केचन सन्तीति विज्ञायते। ये सूरयस् ते सदा पश्यन्तीति वचन-व्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा। उभय-पक्षेऽप्य् अनेक-विधानं न सम्भवतीति चेत्। न। अप्राप्तत्वात् सर्वस्य सर्व-विशिष्टं परम-स्थानं विधीयते। यथोक्तं तद्-गुणास् ते विधीयेरन्न् अविभागाद् विधानार्थे न चेद् अन्येन शिष्टा इति। यथा यदाग्नेयोऽष्टाक-पाल इत्य् आदि कर्म-विधौ कर्मणो गुणानां चाप्राप्तत्वेन सर्व-गुण-विशिष्टं कर्म विधीयते तथात्रापि सूरिभिः सदा दृश्यत्वेन विष्णोः परम-स्थानम् अप्राप्तं प्रतिपादयतीति न कश्चिद् विरोधः। करण-मन्त्राः क्रियमाणानुवादिनः स्तोत्र-शस्त्र-रूपा जपादिषु विनियुक्ताश् च प्रकरण-पथिताश् चाप्रकरण-पथिताश् च स्वार्थं सर्वं यथावस्थितम् एवाप्राप्तम् अविरुद्धं ब्राह्मणवद् बोधयन्तीति हि वैदिकाः। प्रगीत-मन्त्र-साध्य-गुण-गुणाभिमानं स्तोत्रम्। अप्रगीत-मन्त्र-साध्य-गुण-गुणि-निष्ठ-गुणाभिधानं शास्त्रम्। नियुक्तार्थ-प्रकाशनां च देवतादिष्व् अप्राप्ताविरुद्ध-गुण-विशेष-प्रतिपादनं विनियोगानुगुणम् एव। नेयं श्रुतिर् मुक्त-जन-विषया। तेशां सदा दर्शनानुपपत्तेः। नापि मुक्त-प्रवाह-विषया। सदा पश्यन्तीत्य् एकैक-कर्तृक-विषयतया प्रतीतेः श्रुति-भङ्ग-प्रसङ्गात्। मन्त्रार्थवाद-गता ह्य् अर्थाः कार्य-परत्वेऽपि सिद्ध्यन्तीत्य् उक्तम्। किं पुनः सिद्ध-वस्तुन्य् एव तात्पर्ये व्युत्पत्ति-सिद्ध इति सर्वम् उपपन्नम्। ननु चात्र तद् विष्णोः परमं पदम् इति पर-स्वरूपम् एव परम-पद-शब्देनाभिधीयते। समस्त-हेय-रहितं विष्ण्व्-आख्यं परं पदम् इत्य् आदिष्व् अव्यतिरेक-दर्शनात्। नैवम्। क्षयन्तम् अस्य रजतः पराके, तद्-अक्षरे परमे व्योमन्, यो अस्याध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन् नित्यादिषु परम-स्थानस्यैव दर्शनम्। तद् विष्णोः परमं पदम् इति व्यतिरेक-निर्देशाच् च। विष्ण्व्-आख्यं परमं पदम् इति विशेषणाद् अन्यद् अपि परमं पदं विद्यत इति च तेनैव ज्ञायते। तद् इदं पर-स्थानं सूरिभिः सदादृश्यत्वेन प्रतिपाद्यते।
Link copied॥१२९॥
Link copiedएतद् उक्तं भवति क्वचित् परस्थानं परम-पद-शब्देन प्रतिपाद्यते, क्वचित् प्रकृति-वियुक्तात्म-स्वरूपं, क्वचिद् भगवत्-स्वरूपम्। तद् विष्णोः परमं पदं सदा पश्यन्ति सूरय इति पर-स्थानम्।
Link copiedसर्ग-स्थित्य्-अन्त-कालेषु त्रि-विधैव प्रवर्तते।
Link copiedगुण-प्रवृत्त्या परमं पदं तस्यागुणं महत्॥
Link copiedइत्य् अत्र प्रकृति-वियुक्तात्म-स्वरूपम्।
Link copiedसमस्त-हेय-रहितं विष्ण्व्-आख्यं परमं पदम्।
Link copiedइत्य् अत्र भगवत्-स्वरूपम्। त्रीण्य् अप्य् एतानि परम-प्राप्तत्वेन परम-पद-शब्देन प्रतिपाद्यन्ते। कथं त्रयाणां परम-प्राप्यत्वम् इति चेत्। भगवत्-स्वरूपं परम-प्राप्यत्वाद् एव परमं पदम्। इतरयोर् अपि भगवत्-प्राप्ति-गर्भत्वाद् एव परम-पदत्वम्। सर्व-कर्म-बन्ध-विनिर्मुक्तात्म-स्वरूपावाप्तिर् भगवत्-प्राप्ति-गर्भा। त इमे सत्याः कामा अनृतापिधाना इति भगवतो गुण-गणस्य तिरोधायकत्वेनानृत-शब्देन स्व-कर्मणः प्रतिपादनम्।
Link copied॥१३०॥
Link copiedअनृत-रूप-तिरोधानं क्षेत्रज्ञ-कर्मेति कथम् अवगम्यत इति चेत्।
Link copiedअविद्या कर्म-सञ्ज्ञान्या तृतीया शक्तिर् इष्यते।
Link copiedयथा क्षेत्रज्ञ-शक्तिः सा वेष्टिता नृप सर्वगा॥
Link copiedसंसार-तापान् अखिलान् अवाप्नोत्य् अतिसन्ततान्।
Link copiedतया तिरोहितत्वाच् च, इत्य् आदि वचनात्।
Link copied॥१३१॥
Link copiedपर-स्थान-प्राप्तिर् अपि भगवत्-प्राप्ति-गर्भैवेति सुव्यक्तम्। क्षयन्तम् अस्य रजसः पराक इति रजतः-शब्देन त्रि-गुणात्मिका प्रकृतिर् उच्यते केवलस्य रजसोऽनवस्थानात्। इमां त्रि-गुणात्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तं वसन्तम् इत्य् अर्थः। अनेन त्रि-गुणात्मकात् क्षेत्रज्ञस्य भोग्य-भूताद् वस्तुनः परस्ताद् विष्णोर् वास-स्थानम् इति गम्यते। वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्ताद् इत्य् अत्रापि तमः-शब्देन सैव प्रकृतिर् उच्यते। केवलस्य तमसोऽनवस्थानाद् एव। रजसः पराके क्षयन्तम् इत्य् अनेनैक-वाक्यत्वात् तमसः परस्ताद् वसन्तं महान्तम् आदित्य-वर्णं पुरुषम् अहं वेदेत्य् अयम् अर्थोऽवगम्यते। सत्यं ज्ञानम् अनन्तं ब्रह्म। यो वेद निहितं गुहायां परमे व्योमन्। तद् अक्षरे परमे व्योमन्न् इति तत् स्थानम् अविकार-रूपं परम-व्योम-शब्दाभिधेयम् इति च गम्यते। अक्षरे परमे व्योमन् नित्यस्य स्थानस्याक्षरत्व-श्रवणात् क्षर-रूपादित्य-मण्डलादयो न परम-व्योम-शब्दाभिधेयाः। यत्र पूर्वे साध्याः सन्ति देवाः, यत्रर्षयः प्रथम-जा ये पुराणा इत्य् आदिषु च त एव सूरय इत्य् अवगम्यते। तद् विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर् यत् परं पदम् इत्य् अत्रापि विप्रासो मेधाविनः, विपन्यवः स्तुति-शीलाः, जागृवांसः अस्खलित-ज्ञानास् त एवास्खलित-ज्ञानास् तद् विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्य् अर्थः।
Link copied॥१३२॥
Link copiedएतेषां परिजन-स्थानादीनां सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्र ज्ञान-बलैश्वर्यादि-कल्याण-गुण-गणवत्-परब्रह्म-स्वरूपान्तर्भूतत्वात् सद् एवैकम् एवाद्वितीयम् इति ब्रह्मान्तर्भावोऽवगम्यते। एषाम् अपि कल्याण-गुणैकदेशत्वाद् एव सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्रेदम् इति शब्दस्य कर्म-वश्य-भोक्तृ-वर्ग-मिश्र-तद्-भोग्य-भूत-प्रपञ्च-विषयत्वाच् च सदा पश्यन्ति सूरय इति सदा दर्शित्वेन च तेषां कर्म-वश्यानन्तर्भावात्। अपहत-पाप्मेत्य् आद्य् अपिपास इत्य् अन्तेन सलीलोपकरण-भूत-त्रि-गुण-प्रकृति-प्राकृत-तत्-संसृष्ट-पुरुष-गतं हेय-स्वभावं सर्वं प्रतिषिध्य सत्य-काम इत्य् अनेन स्व-भोग्य-भोगोपकरण-जातस्य सर्वस्य सत्यता प्रतिपादिता। असत्याः कामा यस्यासौ सत्य-कामः। काम्यन्त इति कामाः। तेन परेण ब्रह्मणा स्व-भोग्य-तद्-उपकरणादयः स्वाभिमता ये काम्यन्ते ते सत्याः नित्या इत्य् अर्थः। अन्यस्य लीलोपकरणस्यापि वस्तुनः प्रमाण-सम्बन्ध-योग्यत्वे सत्य् अपि विकारास्पदत्वेनास्थिरत्वाद् तद्-विपरीतं स्थिरत्वम् एषां सत्य-पदेनोच्यते। सत्य-सङ्कल्प इत्य् एतेषु भोग्य-तद्-उपकरणादिषु नित्येषु निरतिशयेष्व् अनन्तेषु सत्स्व् अप्य् अपूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि सङ्कल्प-मात्रेण सिद्धिं वदति। एषां च भोगोपकरणानां लीलोपकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणां च तत्-सङ्कल्पायत्त-स्वरूप-स्थिति-प्रवृत्ति-भेदादि सर्वं वदति सत्य-सङ्कल्प इति।
Link copied॥१३३॥
Link copiedइतिहास-पुराणयोर् वेदोपबृंहणयोश् चायम् अर्थ उच्यते---
Link copiedतौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ।
Link copiedवेदोपबृंहणार्थाय ताव् अग्राहयत प्रभुः॥
Link copiedइति वेदोपबृंहणतया प्रारब्धे श्रीमद्-रामायणे---
Link copiedव्यक्तम् एष महा-योगी परमात्मा सनातनः।
Link copiedअनादि-मध्य-निधनो महतः परमो महान्॥
Link copiedतमसः परमो धाता शङ्ख-चक्र-गदाधरः।
Link copiedश्रीवत्स-वक्षा नित्य-श्रीर् अजय्यः शाश्वतो ध्रुवः॥
Link copiedशारा नाना-विधाश् चापि धनुर् आयत-विग्रहम्।
Link copiedअन्वगच्छन्त काकुत्स्थं सर्वे पुरुष-विग्रहाः॥
Link copiedविवेश वैष्णवं तेजः सशरीरः सहानुगः॥
Link copiedश्रीमद्वैष्णवपुराणे
Link copiedसमस्ताः शक्तयश् चैता नृप यत्र प्रतिष्ठिताः।
Link copiedतद् विश्वैरूप्यं रूपम् अन्यद् धरेर् महत्॥
Link copiedमूर्तं ब्रह्म महा-भाग सर्व-ब्रह्म-मयो हरिः॥
Link copiedनित्यैवैषा जगन्-माता विष्णोः श्रीर् अनपायिनी।
Link copiedयथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम॥
Link copiedदेवत्वे देव-देहेयं मनुष्यत्वे च मानुषी।
Link copiedविष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम्॥
Link copiedएकान्तिनः सदा ब्रह्म-ध्यायिनो योगिनो हि ये।
Link copiedतेषां तत्परं स्थानं यद् वै पश्यन्ति सूरयः॥
Link copiedकला-मुहूर्तादि-मयश् च कालो न यद्-विभूतेः परिणाम-हेतुः॥
Link copiedमहाभारते च---
Link copiedदिव्यं स्थानम् अजरं चाप्रमेयं दुर्विज्ञेयं चागमैर् गम्यम् आद्यम्।
Link copiedगच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्व-मूर्त्या॥
Link copiedकालः स पचते तत्र न कालस् तत्र वै प्रभुः।
Link copiedइति। परस्य ब्रह्मणो रूपवत्त्वं सूत्र-कारश् च वदति--- अन्तस् तद्-धर्मोपदेशाद् इति
Link copied॥१३४॥
Link copiedयोऽसाव् आदित्य-मण्डलान्तर्वर्ती तप्त-कार्तस्वर-गिरि-वर-प्रभः सहस्रांशु-शत-सहस्र-किरणो गम्भीराम्भः-समुद्भूत-सुमृष्ट-नाल-विकर-विकसित-पुण्डरीक-दलामलायतेक्षणः सुभ्रू-ललाटः सुनासः सुस्मिताधर-विद्रुमः सुरुचिर-कोमल-गण्डः कम्बुग्रीवः समुन्नतांस-विलम्बि-चारु-रूप-दिव्य-कर्ण-किसलयः पीन-वृत्तायत-भुजश् चारु-तरातम्र-कर-तलानुरक्ताङ्गुलीभिर् अलङ्कृतस् तनु-मध्यो विशाल-वक्षः-स्थलः सम-विभक्त-सर्वाङ्गोऽनिर्देश्य-दिव्य-रूप-संहननः स्निग्ध-वर्णः प्रबुद्ध-पुण्डरीक-चारु-चरण-युगलः स्वानुरूप-पीताम्बर-धरोऽमल-किरीट-कुण्डल-हार-कौस्तुभ-केयूर-कटक-नूपुरोदर-बन्धनाद्य्-अपरिमिताश्चर्यानन्त-दिव्य-भूषणः शङ्ख-चक्र-गदासि-श्रीवत्स-वन-मालालङ्कृतोऽनवधिकातिशय-सौन्दर्याहृताशेष-मनो-दृष्टि-वृत्तिर् लावण्यामृत-पूरिताशेष-चराचर-भूत-जातोऽत्यद्भुताचिन्त्य-नित्य-यौवनः पुष्प-हास-सुकुमारः पुण्य-गन्ध-वासितानन्त-दिग्-अन्तरालस् त्रैलोक्याक्रमण-प्रवृत्त-गम्भीर-भावः करुणानुराग-मधुर-लोचनावलोकिताश्रित-वर्गः पुरुष-वरो दरीदृश्यते। स च निखिल-जगद्-उदय-विभव-लय-लीलो निरस्त-समस्त-हेयः समस्त-कल्याण-गुण-गण-निधिः स्वेतर-समस्त-वस्तु-विलक्षणः परमात्मा परं ब्रह्म नारायण इत्य् अवगम्यते। तद्-धर्मोपदेशात् स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानां स एष सर्वेभ्यः पापभ्य उदित इत्य् आदि दर्शनात्। तस्यैते गुणाः सर्वस्य वशी सर्वस्येशानः अपहत-पाप्मा विजर इत्य् आदि सत्य-सङ्कल्प इत्य् अन्तं विश्वतः परमं नित्यं विश्वं नारायणं हरिम्। पतिं विश्वस्यात्मेश्वरम् इत्य् आदि वाक्य-प्रतिपादिताः।
Link copied॥१३५॥
Link copiedवाक्य-कारैश् चैतत् सर्वं सुस्पष्टम् आह हिरण्य-मयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्याल् लोक-कामेशोपदेशात् तथोदयात् पाप्मनाम् इत्य् आदिना। तस्य च रूपस्यानित्यतादि वाक्य-कारेणैव प्रतिषिद्धं स्यात् तद्-रूपं कृतकम् अनुग्रहार्थं तच्-चेतनानाम् ऐश्वर्याद् इत्य् उपासितुर् अनुग्रहार्थः परम-पुरुषस्य रूप-सङ्ग्रह इति पूर्व-पक्षं कृत्वा, रूपं वातीन्द्रियम् अन्तःकरण-प्रत्यक्षं तन्-निर्देशाद् इति। यथा ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात् स्वरूप-भूत-गुणास् तथेदम् अपि रूपं श्रुत्या स्वरूपतया निर्देशात् स्वरूप-भूतम् इत्य् अर्थः। भाष्य-कारेणैतद् व्याख्यातम् अञ्जसैव विश्वसृजो रूपं तत् तु न चक्षुषा ग्राह्यं मनसा त्व् अकलुषेण साधनान्तरवता गृह्यते, न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेनेति श्रुतेः, न ह्य् रूपाया देवताया रूपम् उपदिश्यते, यथाभूत-वादि हि शास्त्रम्, महारजनं वासः वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्ताद् इति प्रकरणान्तर-निर्देशाच् च साक्षिण इत्य् आदिना हिरण्य-मय इति रूप-सामान्याच् चन्द्र-मुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वाद् आत्मन इति। यथा ज्ञानादि-कल्याण-गुण-गणानन्तर्य-निर्देशाद् अपरिमित-कल्याण-गुण-गण-विशिष्टं परं ब्रह्मेत्य् अवगम्यत एवम् आदित्य-वर्णं पुरुषम् इत्य् आदि निर्देशात् स्वाभिमत-स्वानुरूप-कल्याणतम-रूपः परब्रह्म-भूतः पुरुषोत्तमो नारायण इति ज्ञायते। तथास्येशना जगतो विष्णु-पत्नी ह्रीश् च ते लक्ष्मीश् च पत्न्यौ सदा पश्यन्ति सूरयः तमसः परस्तात् क्षयन्तम् अस्य रजसः पराक इत्य् आदिना पत्नी-परिजन-स्थानादीनां निर्देशाद् एव तथैव सन्तीत्य् अवगम्यते। यथाह भाष्य-कारः--- यथाभूत-वादि हि शास्त्रम् इति।
Link copied॥१३६॥
Link copiedएतद् उक्तं भवति--- यथा सत्यं ज्ञानम् अनन्तं ब्रह्मेति निर्देशात् परमात्म-स्वरूपं समस्त-हेय-प्रत्यनीकानवधिकानन्तैकतानतयापरिच्छेद्यतया च सकलेतर-विलक्षणं तथा यः सर्व-ज्ञः सर्व-वित् परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभातीत्य् आदि निर्देशान् निरतिशयासङ्ख्येयाश् च गुणाः सकलेतर-विलक्षणाः। तथादित्य-वर्णम् इत्य् आदि निर्देशाद् रूप-परिजन-स्थानादयश् च सकलेतर-विलक्षणाः स्वासाधारणा अनिर्देश्य-स्वरूप-स्वभावा इति।
Link copied॥१३७॥
Link copiedवेदाः प्रमाणं चेद् विध्य्-अर्थवाद-मन्त्र-गतं सर्वम् अपूर्वम् अविरुद्धम् अर्थ-जातं यथावस्थितम् एव बोधयन्ति। प्रामाण्यं च वेदानाम् औत्पत्तिकस् तु शब्दस्यार्थेन सम्बन्ध इत्य् उक्तम्। यथाग्नि-जलादीनाम् औष्ण्यादि-शक्ति-योगः स्वाभाविकः, यथा च चक्षुर्-आदीनाम् इन्द्रियाणां बुद्धि-विशेष-जन-शक्तिः स्वाभाविकी तथा शब्दस्यापि बोधन-शक्तिः स्वाभाविकी। न च हस्त-चेष्टादिवत् सङ्केत-मूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम्। अनाद्य्-अनुसन्धानाविच्छेदेऽपि सङ्केतयितृ-पुरुषाज्ञानात्। यानि सङ्केत-मूलानि तानि सर्वाणि साक्षाद् वा परम्परया वा ज्ञायन्ते। न च देवदत्तादि-शब्दवत् कल्पयितुं युक्तम्। तेषु च साक्षाद् वा परम्परया वा सङ्केतो ज्ञायते। गवादि-शब्दानां त्व् अनाद्य्-अनुसन्धानाविच्छेदेऽपि सङ्केताज्ञानाद् एव बोधकत्व-शक्तिः स्वाभाविकी। अतोऽग्न्य्-आदीनां दाहकत्वादि-शक्तिवद् इन्द्रियाणां बोधकत्व-शक्तिवच् च शब्दस्यापि बोधकत्व-शक्तिर् आश्रयणीया॥
Link copied॥१३८॥
Link copiedननु चेन् इन्द्रियवच् छब्दस्यापि बोधकत्वं स्वाभाविकं सम्बन्ध-ग्रहणं बोधकत्वाय किम् इत्य् अपेक्षते, लिङ्गादिवद् इत्य् उच्यते यथा ज्ञात-सम्बन्ध-नियमं धूमाद्य्-अग्न्य्-आदि-विज्ञान-जनकं तथा ज्ञात-सम्बन्ध-नियमः शब्दोऽप्य् अर्थ-विशेष-बुद्धि-जनकः। एवं तर्हि शब्दोऽप्य् अर्थ-विशेषस्य लिङ्गम् इत्य् अनुमानं स्यात्। मैवम्। शब्दार्थयोः सम्बन्धो बोध्य-बोधक-भाव एव धूमादीनां तु सम्बन्धान्तर इति तस्य सम्बन्धस्य ज्ञान-द्वारेण बुद्धि-जनकत्वम् इति विशेषः। एवं गृहीत-सम्बन्धस्य बोधकत्व-दर्शनाद् अनाद्य्-अनुसन्धानाविच्छेदेऽपि सङ्केताज्ञानाद् बोधकत्व-शक्तिर् एवेति निश्चीयते।
Link copied॥१३९॥
Link copiedएवं बोधकानां पद-सङ्घातानां संसर्ग-विशेष-बोधकत्वेन वाक्य-शब्दाभिधेयानाम् उच्चारण-क्रमो यत्र पुरुष-बुद्धि-पूर्वकस् ते पौरुषेयाः शब्दा इत्य् उच्यन्ते। यत्र तु तद्-उच्चारण-क्रमः पूर्व-पूर्वोच्चरण-क्रम-जनित-संस्कार-पूर्वकः सर्वदापौरुषेयास् ते च वेदा इत्य् उच्यन्ते। एतद् एव वेदानाम् अपौरुषेयत्वं नित्यत्वं च यत् पूर्वोच्चारण-क्रम-जनित-संस्कारेण तम् एव क्रम-विशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यमाणत्वम्। ते चानुपूर्वी-विशेषेण संस्थिता अक्षर-राशयो वेदा ऋग्-यजुः-सामाथर्व-भेद-भिन्ना अनन्त-शाखा वर्तन्ते। ते च विध्य्-अर्थवाद-मन्त्र-रूपा वेदाः परब्रह्म-भूत-नारायण-स्वरूपं तद्-आराधन-प्रकाराधितात् फल-विशेषं च बोधयन्ति। परम-पुरुषवत् तत्-स्वरूप-तद्-आराधन-तत्-फल-ज्ञापक-वेदाख्य-शब्द-जातं नित्यम् एव। वेदानाम् अनन्तत्वाद् दुरवगाहत्वाच् च परम-पुरुष-नियुक्ताः परमर्षयः कल्पे कल्पे निखिल-जगद्-उपकारार्थं वेदार्थं स्मृत्वा विध्य्-अर्थवाद-मन्त्र-मूलानि धर्म-शास्त्राणीतिहास-पुराणानि च चक्रुः। लौकिकाश् च शब्दा वेद-राशेर् उद्धृत्यैव तत्-तद्-अर्थ-विशेष-नामतया पूर्ववत् प्रयुक्ताः पारम्पर्येण प्रयुज्यन्ते। ननु च वैदिक एव सर्वे वाचकाः शब्दाश् चेच् छन्दस्यैवं भाषायाम् एवम् इति लक्षण-भेदः कथम् उपपद्यते। उच्यते--- तेषाम् एव शब्दानां तस्याम् एवानुपूर्व्यां वर्तमानां तथैव प्रयोगः। अन्यत्र प्रयुज्यमानानाम् अन्यथेति न कश्चिद् दोषः।
Link copied॥१४०॥
Link copiedएवम् इतिहास-पुराण-धर्म-शास्त्रोपबृंहित-साङ्ग-वेद-वेद्यः परब्रह्म-भूतो नारायणो निखिल-हेय-प्रत्यनीकः सकलेतर-विलक्षणोऽपरिच्छिन्न-ज्ञानानन्दैक-स्वरूपः स्वाभाविकानवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणाकरः स्व-सङ्कल्पानुविधायि-स्वरूप-स्थिति-प्रवृत्ति-भेद-चिद्-अचिद्-वस्तु-जातोऽपरिच्छेद्य-स्वरूप-स्वभावानन्त-महा-विभूतिर् नाना-विधानन्त-चेतनाचेतनात्मक-प्रपञ्च-लीलोपकरण इति प्रतिपादितम्। सर्वं खल्व् इदं ब्रह्म, ऐतदात्म्यम् इदं सर्वं तत् त्वम् असि श्वेतकेतो
Link copiedएनम् एके वदन्त्य् अग्निं मरुतोऽन्यो प्रजापतिम्।
Link copiedइन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम्॥
Link copiedज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोक-पालास् त्रयी च।
Link copiedत्रयोऽग्नयश् चाहुतयश् च पञ्च सर्वे देव देवकी-पुत्र एव॥
Link copiedत्वं यज्ञस् त्वं वषट्कारस् त्वम् ओङ्कारः परन्तपः।
Link copiedऋतुधामा वसुः पूर्वो वसूनां त्वं प्रजापतिः॥
Link copiedजगत् सर्वं शरीरं ते स्थैर्यं ते वसुधा-तलम्।
Link copiedअग्निः कोपः प्रसादस् ते सोमः श्रीवत्स-लक्षणः॥
Link copiedज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च।
Link copiedनद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् नास्ति च विप्र-वर्य॥
Link copiedइत्य् आदि सामानाधिकरण्य-प्रयोगेषु सर्वैः शब्दैः सर्व-शरीरतया सर्व-प्रकारं ब्रह्मैवाभिधीयत इति चोक्तम्। सत्य-सङ्कल्पं परं ब्रह्म स्वयम् एव बहु-प्रकारं स्याम् इति सङ्कल्प्याचित्-समष्टि-रूप-महाभूत-सूक्ष्म-वस्तु भोक्तृ-वर्ग-समूहं च स्वस्मिन् प्रलीनं स्वयम् एव विभज्य तस्माद् भूत-सूक्ष्माद् वास्तुनो महाभूतानि सृष्ट्वा तेषु च भोक्तृ-वर्गात्मतया प्रवेश्य तैश्चिद् अधिष्ठितैर् महाभूतैर् अन्योन्य-संसृष्टैः कृत्स्नं जगद् विधाय स्वयम् अपि सर्वस्यात्मतया प्रविश्य परमात्मत्वेनावस्थितं सर्व-शरीरं बहु-प्रकारम् अवतिष्ठते। यद् इदं महाभूत-सूक्ष्मं वस्तु तद् एव प्रकृति-शब्देनाभिधीयते। भोक्तृ-वर्ग-समूह एव पुरुष-शब्देन चोच्यते। तौ च प्रकृति-पुरुषौ परमात्म-शरीरतया परमात्म-प्रकार-भूतौ। तत्-प्रकारः परमात्मैव प्रकृति-पुरुष-शब्दाभिदेयः। सोऽकामयत बहु स्यां प्रजायेयेति तत् सृष्ट्वा तद् एवानुप्रविशत् तद् अनुप्रविश्य सच् च त्यच् चाभवन् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवद् इति पूर्वोक्तं सर्वम् अनयैव श्रुत्या व्यक्तम्।
Link copied॥१४१॥
Link copiedब्रह्म-प्राप्त्य्-उपायश् च शास्त्राधिगत-तत्त्व-ज्ञान-पूर्वक-स्व-कर्मानुगृहीत-भक्ति-निष्ठा-साध्यानवधिकातिशय-प्रिय-विशदतम-प्रत्यक्षतापन्नानुध्यानरूप-परभक्तिर् एवेत्य् उक्तम्। भक्ति-शब्दश् च प्रीति-विशेषे वर्तते। प्रीतिश् च ज्ञान-विशेष एव। ननु च सुखं प्रीतिर् इत्य् अनर्थान्तरम्। सुखं च ज्ञान-विशेष-साध्यं पदार्थान्तरम् इति हि लौकिकाः। नैवम्। येन ज्ञान-विशेषेण तत् साध्यम् इत्य् उच्यते स एव ज्ञान-विशेषः सुखम्।
Link copied॥१४२॥
Link copiedएतद् उक्तं भवति--- विषय-ज्ञानानि सुख-दुःख-मध्य-साधारणानि। तानि च विषयाधीन-विशेषाणि तथा भवन्ति। येन च विषय-विशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्य् अभिमतं तद्-विषयं ज्ञानम् एव सुखं, तद्-अतिरेकि पदार्थान्तरं नोपलभ्यते। तेनैव सुखित्व-व्यवहारोपपत्तेश् च। एवंविध-सुख-स्वरूप-ज्ञानस्य विशेषकत्वं ब्रह्म-व्यतिरिक्तस्य वस्तुनः सातिशयम् अस्थिरं च। ब्रह्मणस् त्व् अनवधिकातिशयं स्थिरं चेति। आनन्दो ब्रह्मेत्य् उच्यते। विषयायत्तत्वाज् ज्ञानस्य सुख-स्वरूपतया ब्रह्मैव सुखम्। तद् इदम् आह रसो वै सः रसं हे एवायं लब्ध्वानन्दी भवतीति ब्रह्मैव सुखम् इति ब्रह्म लब्ध्वा सुखी भवतीत्य् अर्थः। परम-पुरुषः स्वेनैव स्वयम् अनवधिकातिशय-सुखः सन् परस्यापि सुखं भवति। सुख-स्वरूपत्वाविशेषात्। ब्रह्म यस्य ज्ञान-विषयो भवति स सुखी भवतीत्य् अर्थः। तद् एवं परस्य ब्रह्मणोऽनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणाकरस्य निरवद्यस्यानन्त-महा-विभूतेर् अनवधिकातिशय-सौशील्य-सौन्दर्य-वात्सल्य-जलधेः सर्व-शेषित्वाद् आत्मनः शेषत्वात् प्रतिबन्धितयानुसन्धीयमानम् अनवधिकातिशय-प्रीति-विषयं सत् परं ब्रह्मैवैनम् आत्मानं प्रापयतीति।
Link copied॥१४३॥
Link copiedननु चात्यन्त-शेषतैवात्मनोऽनवधिकातिशय-सुखम् इत्य् उक्तं भवति। तद् एतत् सर्व-लोक-विरुद्धम्। तथा हि सर्वेषाम् एव चेतनानां स्वातन्त्र्यम् एव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरम्। स्मृतिश् च---
Link copiedसर्वं पर-वशं दुःखं सर्वम् आत्म-वशं सुखम्।
Link copiedतथा हि---
Link copiedसेवा श्व-वृत्तिर् आख्याता तस्मात् तां परिवर्जयेत्।
Link copiedइति। तद् इदम् अनधिगत-देहातिरिक्तात्म-रूपाणां शरीरात्माभिमान-विजृम्भितम्। तथा हि शरीरं हि मनुष्यत्वादि-जाति-गुणाश्रय-पिण्ड-भूतं स्वतन्त्रं प्रतीयते। तस्मिन्न् एवाहम् इति संसारिणां प्रतीतिः। आत्माभिमानो यादृशस् तद्-अनुगुणैव पुरुषार्थ-प्रतीतिः। सिंह-व्याघ्र-वराह-मनुष्य-यक्ष-रक्षः-पिशाच-देव-दानव-स्त्री-पुंस-व्यवस्थितात्माभिमानानां सुखानि व्यवस्थितानि। तानि च परस्पर-विरुद्धानि। तस्माद् आत्माभिमानानुगुण-पुरुषार्थ-व्यवस्थया सर्वं समाहितम्। आत्म-स्वरूपं तु देवादि-देह-विलक्षणं ज्ञानैकाकारम्। तच् च परशेषतैक-स्वरूपम्। यथावस्थितात्माभिमाने तद्-अनुगुणैव पुरुषार्थ-प्रतीतिः। आत्मा ज्ञान-मयोऽमल इति स्मृतेर् ज्ञानैकाकारता प्रतिपन्ना। पतिं विश्वस्येत्य् आदि श्रुति-गुणैः परमात्म-शेषतैकाकारता च प्रतीता। अतः सिंह-व्याघ्रादि-शरीरात्माभिमानवत् स्वातन्त्र्याभिमानोऽपि कर्म-कृत-विपरीतात्म-ज्ञान-रूपो वेदितव्यः। अतः कर्म-कृतम् एव परम-पुरुष-व्यतिरिक्त-विषयाणां सुखत्वम्। अत एव तेषाम् अल्पत्वम् अस्थिरत्वं च परम-पुरुषस्यैव स्वत एव सुखत्वम्। अतस् तद् एव स्थिरम् अनवधिकातिशयं च कं ब्रह्म खं ब्रह्म आनन्दो ब्रह्म सत्यं ज्ञानम् अनन्तं ब्रह्मेति श्रुतेः। ब्रह्म-व्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्वरूपेण सुखत्वाभावः कर्म-कृतत्वेन चास्थिरत्वं भगवता पराशरेणोक्तम्---
Link copiedनरक-स्वर्ग-संज्ञे वै पाप-पुण्ये द्विजोत्तम।
Link copiedवस्त्व् एकम् एव दुःखाय सुखायेर्ष्यागमाय च।
Link copiedकोपाय च यतस् तस्माद् वस्तु वस्त्व्-आत्मकं कुतः॥
Link copiedसुख-दुःखाद्य्-एकान्त-रूपिणो वस्तुनो वस्तुत्वं कुतः। तद्-एकान्तता पुण्य-पाप-कृतेत्य् अर्थः। एवम् अनेक-पुरुषापेक्षया कस्यचित् सुखम् एव कस्यचिद् दुःखं भवतीत्य् अवस्थां प्रतिपाद्य, एकस्मिन्न् अपि पुरुषे न व्यवस्थितम् इत्य् आह---
Link copiedतद् एव प्रीयते भूत्वा पुनर् दुःखाय जायते।
Link copiedतद् एव कोपाय यतः प्रसादाय च जायते॥
Link copiedतस्माद् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम्।
Link copiedइति सुख-दुःखात्मकत्वं सर्वस्य वस्तुनः कर्म-कृतं न वस्तु-स्वरूप-कृतम्। अतः कर्मावसाने तद् अपैतीत्य् अर्थः।
Link copied॥१४४॥
Link copiedयत् तु सर्वं पर-वशं दुःखम् इत्य् उक्तं तत् परम-पुरुष-व्यतिरिक्तानां परस्पर-शेष-शेषि-भावाभावात् तद्-व्यतिरिक्तं प्रति शेषता दुःखम् एवेत्य् उक्तम्। सेवा श्व-वृत्तिर् आख्यातेत्य् अत्राप्य् असेव्य-सेवा श्व-वृत्तिर् एवेत्य् उक्तम्। स ह्य् आश्रमैः सदोपास्यः समस्तैर् एक एव त्व् इति सर्वैर् आत्म-याथात्म्य-वेदिभिः सेव्यः पुरुषोत्तम एक एव। यथोक्तं भगवता---
Link copiedमां च योऽव्यभिचारेण भक्ति-योगेन सेवते।
Link copiedस गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते॥
Link copiedइतीयम् एव भक्ति-रूपा सेवा ब्रह्म-विद् आप्नोति परं तम् एवं विद्वान् अमृत इह भवति ब्रह्म वेद ब्रह्मैव भवतीत्य् आदिषु वेदन-शब्देनाभिधीयत इत्य् उक्तम्। यम् एवैष वृणुते तेन लभ्य इति विशेषणाद् यम् एवैष वृणुत इति भवगता वरणीयत्वं प्रतीयते। वरणीयश् च प्रियतमः। यस्य भगवत्य् अनवधिकातिशया प्रीतिर् जायते स एव भगवतः प्रियतमः। तद् उक्तं भगवता---
Link copiedप्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः।
Link copiedइति। तस्मात् पर-भक्ति-रूपापन्नम् एव वेदनं तत्त्वतो भगवत्-प्राप्ति-साधनम्। यथोक्तं भगवता द्वैपायनेन मोक्षधर्मे सर्वोपनिषद्-व्याख्यान-रूपम्---
Link copiedन सन्दृशो तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम्।
Link copiedभक्त्या च धृत्या च समाहितात्मा ज्ञान-स्वरूपं परिपश्यतीतीह॥
Link copiedधृत्या समाहितात्मा भक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोतीत्य् अर्थः। भक्त्या त्व् अनन्यया शक्य इत्य् अनेनैकार्थ्यात्। भक्तिश् च ज्ञान-विशेष एवेति सर्वम् उपपन्नम्।
Link copied॥१४५॥
Link copiedसारासार-विवेक-ज्ञा गरीयांसो विमत्सराः।
Link copiedप्रमाण-तन्त्राः सन्तीति कृतो वेदार्थसङ्ग्रहः॥
Link copied॥ इति श्री-रामानुजाचार्य-विरचितो वेदार्थ-सङ्ग्रहः समाप्तः॥
Link copiedరామానుజాచార్య-విరచితః
Link copiedవేదార్థ-సఙ్గ్రహహ్
Link copied॥౧॥
Link copiedఅశేష-చిద్-అచిద్-వస్తు-విశేషిణే శేష-శాయినే।
Link copiedనిర్మలానన్త-కల్యాణ-నిధయే విష్ణవే నమః॥
Link copied॥౨॥
Link copiedపరం బ్రహ్మైవాజ్ఞం భ్రమ-పరిగతం సంసరతి
Link copiedతత్పరోపాధ్య్-ఆలీఢం వివశమ్ అశుభస్యాస్పదమ్ ఇతి।
Link copiedశ్రుతి-న్యాయాపేతం జగతి వితతం మోహనమ్ ఇదం
Link copiedతమో యేనాపాస్తం స హి విజయతే యామున-మునిః॥
Link copied॥౩॥
Link copiedఅశేష-జగద్-ధితానుశాసన-శ్రుతి-నికర-శిరసి సమధిగతోఽయమ్ అర్థో జీవ-పరమాత్మయాథాత్మ్య-జ్ఞాన-పూర్వక-వర్ణాశ్రమ-ధర్మేతికర్తవ్యతాక-పరమ-పురుష-చరణ-యుగల-ధ్యానార్చన-ప్రణామాదిర్ అత్యర్థ-ప్రియస్ తత్-ప్రాప్తి-ఫలః।
Link copied॥౪॥
Link copiedఅస్య జీవాత్మనోఽనాద్య్-అవిద్యా-సఞ్చిత-పుణ్య-పాప-రూప-కర్మ-ప్రవాహ-హేతుక-బ్రహ్మాది-సుర-నర-తిర్యక్-స్థావరాత్మక-చతుర్విధ-దేహ-ప్రవేశ-కృత-తత్-తద్-అభిమాన-జనితావర్జనీయ-భవ-భయ-విధ్వంసనాయ దేహాతిరిక్తాత్మ-స్వరూప-తత్-స్వభావ-తద్-అన్తరయామి-పరమాత్మ-స్వరూప-తత్-స్వభావ-తద్-ఉపాసన-తత్-ఫల-భూతాత్మ-స్వరూపావిర్భావ-పూర్వకానవధికాతిశయానన్ద-బ్రహ్మానుభవ-జ్ఞాపనే ప్రవృత్తం హి వేదాన్త-వాక్య-జాతమ్, తత్ త్వమ్ అసి। అయమ్ ఆత్మా బ్రహ్మ। య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద యస్యాత్మా శరీరం య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః। ఏష సర్వ-భూతాన్తరాత్మాపహత-పాప్మా దివ్యో దేవ ఏకో నారాయణః। తమ్ ఏతం వేదానువచనేన బ్రాహ్మణా వివిదిషన్తి యజ్ఞేన దానేన తపసానాశకేన। బ్రహ్మ-విద్ ఆప్నోతి పరమ్। తమ్ ఏవం విద్వాన్ అమృత ఇహ భవతి నాన్యః పన్థా అయనాయ విద్యత ఇత్య్ ఆదికమ్।
Link copied॥౫॥
Link copiedజీవాత్మనః స్వరూపం దేవ-మనుష్యాది-ప్రకృతి-పరిణామ-విశేష-రూప-నానా-విధ-భేద-రహితం జ్ఞానానన్దైక-గుణం, తస్యైతస్య కర్మ-కృత-దేవాది-భేదేఽపధ్వస్తే స్వరూప-భేదో వాచామ్ అగోచరః స్వ-సంవేద్యః, జ్ఞాన-స్వరూపమ్ ఇత్య్ ఏతావద్ ఏవ నిర్దేశ్యమ్। తచ్ చ సర్వేషామ్ ఆత్మనాం సమానమ్।
Link copied॥౬॥
Link copiedఏవంవిధ-చిద్-అచిద్-ఆత్మక-ప్రపఞ్చస్యోద్భవ-స్థితి-ప్రలయ-సంసార-నిర్వర్తనైక-హేతు-భూతః సమస్త-హేయ-ప్రత్యనీకానన్త-కల్యాణతయా చ స్వేతర-సమస్త-వస్తు-విలక్షణ-స్వరూపోఽనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణః సర్వాత్మ-పరబ్రహ్మ-పర-జ్యోతిః-పర-తత్త్వ-పరమాత్మ-సబ్దాది-శబ్ద-భేదైర్ నిఖిల-వేదాన్త-వేద్యో భగవాన్ నారాయణః పురుషోత్తమ ఇత్య్ అన్తర్యామి-స్వరూపమ్। అస్య చ వైభవ-ప్రతిపాదన-పరాః శ్రుతయః స్వేతర-సమస్త-చిద్-అచిద్-వస్తు-జాతాన్తరాత్మతయా నిఖిల-నియమనం తచ్-ఛక్తి-తద్-అంశ-తద్-విభూతి-తద్-రూప-తచ్-ఛరీర-తత్-తను-ప్రభృతిభిః శబ్దైస్ తత్-సామానాధికరణ్యేన చ ప్రతిపాదయన్తి।
Link copied॥౭॥
Link copiedతస్య వైభవ-ప్రతిపాదన-పరాణామ్ ఏషాం సామానాధికరణ్యాదీనాం వివరణే ప్రవృత్తాః కేచన నిర్విశేష-జ్ఞాన-మాత్రమ్ ఏవ బ్రహ్మ, తచ్ చ నిత్య-ముక్త-స్వ-ప్రకాశ-స్వభావమ్ అపి తత్ త్వమ్ అస్య్ ఆది సామానాధికరణ్యావగత-జీవైక్యం, బ్రహ్మైవాజ్ఞం బధ్యతే ముచ్యతే చ, నిర్విశేష-చిన్-మాత్రాతిరేకేశ్వరేశితవ్యాద్య్-అనన్త-వికల్ప-రూపం కృత్స్నం జగన్ మిథ్యా, కశ్చిద్ బద్ధః, కశ్చిన్ ముక్త ఇత్య్ ఇయమ్ అవస్థా న విద్యతే। ఇతః పూర్వం కేచన ముక్తా ఇత్య్ అయమ్ అర్థో మిథ్యా। ఏకమ్ ఏవ శరీరం జీవవన్ నిర్జీవానీతరాణి, తచ్-ఛరీరం కిమ్ ఇతి న వ్యవస్థితమ్, ఆచార్యో జ్ఞానస్యోపదేష్టా మిథ్యా శాస్త్రం చ మిథ్యా శాస్త్ర-ప్రమాతా చ మిథ్యా శాస్త్ర-జన్యం జ్ఞానం చ మిథ్యా ఏతత్ సర్వం మిథ్యా-భూతేనైవ శాస్త్రేణావగమ్యత ఇతి వర్ణయన్తి।
Link copied॥౮॥
Link copiedఅపరే త్వ్ అపహత-పాప్మత్వాది-సమస్త-కల్యాణ-గుణోపేతమ్ అపి బ్రహ్మైతేనైవైక్యావబోధేన కేనచిద్ ఉపాధి-విశేషేణ సమ్బద్ధం బధ్యతే ముచ్యతే చ నానా-విధ-మల-రూప-పరిణామాస్పదం చేతి వ్యవస్థితాః।
Link copied॥౯॥
Link copiedఅన్యే పునర్ ఐక్యావబోధ-యాథాత్మ్యం వర్ణయన్తః స్వాభావిక-నిరతిశయాపరిమితోదార-గుణ-సాగరం బ్రహ్మైవ సుర-నర-తిర్యక్-స్థావర-నారకి-స్వర్గ్య్-అపవర్గి-చేతనేషు స్వభావతో విలక్షణమ్ అవిలక్షణం చ వియద్-ఆది-నానా-విధ-మల-రూప-పరిణామాస్పదం చేతి ప్రత్యవతిష్ఠన్తే।
Link copied॥౧౦॥
Link copiedతత్ర ప్రథమ-పక్షస్య శ్రుత్య్-అర్థ-పర్యాలోచన-పరా దుష్పరిహారాన్ దోషాన్ ఉదాహరన్తి। ప్రకృత-పరామర్శి-తచ్-ఛబ్దావగత-స్వ-సఙ్కల్పకృతజగదుదయవిభవవిలయాదయస్ తద్ ఐక్షత బహు స్యాం ప్రజాయేయేత్య్ ఆరభ్య సన్-మూలాః సోమ్యేమాః సర్వాః ప్రజాః సద్-ఆయతనాః సత్-ప్రతిష్ఠా ఇత్య్ ఆదిభిః పదైః ప్రతిపాదితాస్ తత్-సమ్బన్ధితయా ప్రకరణాన్తర-నిర్దిష్టాః సర్వజ్ఞతా-సర్వ-శక్తిత్వ-సర్వేశ్వరత్వ-సర్వ-ప్రకారత్వ-సమాభ్యధిక-నివృత్తి-సత్య-కామత్వ-సత్య-సఙ్కల్పత్వ-సర్వావభాసకత్వాద్య్-అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణా అపహత-పాప్మేత్య్-ఆద్య్-అనేక-వాక్యావగత-నిరస్త-నిఖిల-దోషతా చ సర్వే తస్మిన్ పక్షే విహన్యన్తే।
Link copied॥౧౧॥
Link copiedఅథ స్యాద్ ఉపక్రమేఽప్య్ ఏక-విజ్ఞానేన సర్వ-విజ్ఞాన-ముఖేన కారణస్యైవ సత్యతాం ప్రతిజ్ఞాయ తస్య కారణ-భూతస్యైవ బ్రహ్మణః సత్యతాం వికార-జాతస్యాసత్యతాం మృద్-దృష్టాన్తేన దర్శయిత్వా సత్య-భూతస్యైవ బ్రహ్మణః సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ ఇతి సజాతీయ-విజాతీయ-నిఖిల-భేద-నిరసనేన నిర్విశేషతైవ ప్రతిపాదితా। ఏతచ్ ఛోధకాని ప్రకరణాన్తర-గత-వాక్యాన్య్ అపి సత్యం జ్ఞానమ్ అనన్తం బ్రహ్మ, నిష్కలం నిష్క్రియం నిర్గుణం, విజ్ఞానమ్ ఆనన్దమ్ ఇత్య్ ఆదీని సర్వ-విశేష-ప్రత్యనీకైకాకారతాం బోధయన్తి। న చైకాకారతా-బోధనే పదానాం పర్యాయతా। ఏకత్వేఽపి వస్తునః సర్వ-విశేష-ప్రత్యనీకతోపస్థాపనేన సర్వ-పదానామ్ అర్థవత్త్వాద్ ఇతి।
Link copied॥౧౨॥
Link copiedనైతద్ ఏవమ్। ఏక-విజ్ఞానేన సర్వ-విజ్ఞానం సర్వస్య మిథ్యాత్వే సర్వస్య జ్ఞాతవ్యస్యాభావాన్ న సేత్స్యతి। సత్యత్వ-మిథ్యాత్వయోర్ ఏకతా-ప్రసక్తిర్ వా, అపి త్వ్ ఏక-విజ్ఞానేన సర్వ-విజ్ఞానం సర్వస్య తదాత్మకత్వేనైవ సత్యత్వే సిధ్యతి।
Link copied॥౧౩॥
Link copiedఅయమ్ అర్థః--- శ్వేతకేతుం ప్రత్యాహ స్తబ్ధోఽస్య్ ఉత తమ్ ఆదేశమ్ అప్రాక్ష్య ఇతి పరిపూర్ణ ఇవ లక్ష్యసే తాన్ ఆచార్యాన్ ప్రతి తమ్ అప్య్ ఆదేశం పృష్టవాన్ అసీతి। ఆదిశ్యతేఽనేనేత్య్ ఆదేశః। ఆదేషః ప్రశాసనమ్। ఏతస్య వా అక్షరస్య గార్గి సూర్యాచన్ద్రమసౌ విధృతౌ తిష్ఠత ఇత్య్ ఆదిభిర్ ఐక్యర్థ్యాత్। తథా చ మానవం వచః ప్రశాసితారం సర్వేషామ్ ఇత్య్ ఆది। అత్రాప్య్ ఏకమ్ ఏవేతి జగద్-ఉపాదానతాం ప్రతిపాద్యాద్వితీయ-పదేనాధిష్ఠాతర-నివారణాద్ అస్యైవాధిష్ఠాతృత్వమ్ అపి ప్రతిపాద్యతే। అతస్ తం ప్రశాసితారం జగద్-ఉపాదాన-భూతమ్ అపి పృష్టవాన్ అసి యేన శ్రుతేన మతేన విజ్ఞాతేనాశ్రుతమ్ అమతమ్ అవిజ్ఞానం శ్రుతం మతం విజ్ఞాతం భవతీత్య్ ఉక్తం స్యాత్। నిఖిల-జగద్-ఉదయ-విభవ-విలయాది-కారణ-భూతం సర్వజ్ఞత్వ-సత్య-కామత్వ-సత్య-సఙ్కల్పత్వ-పరిమితోదార-గుణ-గణ-సాగరం కిం బ్రహ్మాపి త్వయా శ్రుతమ్ ఇతి హార్దో భావః। తస్య నిఖిల-కారణతయా కారణమ్ ఏవ నానా-సంస్థాన-విశేష-సంస్థితం కార్యమ్ ఇత్య్ ఉచ్యత ఇతి కారణ-భూత-సూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరక-బ్రహ్మ-విజ్ఞానేన కారణ-భూతమ్ అఖిలం జగద్ విజ్ఞాతం భవతీతి హృది నిధాయ యేనాశ్రుతం శ్రుతం భవత్య్ అమతం మతమ్ అవిజ్ఞాతం విజ్ఞాతం స్యాద్ ఇతి పుత్రం ప్రతి పృష్టవాన్ పితా। తద్ ఏతత్ సకలస్య వస్తు-జాతస్యైక-కారణత్వం పితృ-హృది నిహితమ్ అజానన్ పుత్రః పరస్పర-విలక్షణేషు వస్తుష్వ్ అన్యస్య జ్ఞానేన తద్-అన్య-విజ్ఞానస్యాఘటమానతాం బుద్ధ్వా పరిచోదయతి--- కథం ను భగవః స ఆదేశ ఇతి।
Link copied॥౧౪॥
Link copiedపరిచోదితః పునస్ తద్ ఏవ హృది నిహితం జ్ఞానానన్దామలత్వైక-స్వరూపమ్ అపరిచ్ఛేద్య-మాహాత్మ్యం సత్య-సఙ్కల్పత్వ-మిశ్రైర్ అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణైర్ జుష్టమ్ అవికార-స్వరూపం పరం బ్రహ్మైవ నామ-రూప-విభాగానర్హ-సూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరం స్వ-లీలాయై స్వ-సఙ్కల్పేనానన్త-విచిత్ర-స్థిర-త్రస-స్వరూప-జగత్-సంస్థానం స్వాంశేనావస్థితమ్ ఇతి।
Link copied॥౧౫॥
Link copiedతజ్-జ్ఞానేనాస్య నిఖిలస్య జ్ఞాతతాం బ్రువంల్ లోక-దృష్టం కార్య-కారణయోర్ అనన్యత్వం దర్శయితుం దృష్టాన్తమ్ ఆహ--- యథా సోమ్యైకేన మృత్-పిణ్డేన సర్వం మృన్-మయం విజ్ఞాతం స్యాద్ వాచారమ్భణం వికారో నామధేయం మృత్తికేత్య్ ఏవ సత్యమ్ ఇతి। ఏకమ్ ఏవ మృద్-ద్రవ్యం స్వైకదేశేన నానా-వ్యవహారాస్పదత్వాయ ఘట-శరావాది-నానా-సంస్థానావస్థా-రూప-వికారాపన్నం నానా-నామధేయమ్ అపి మృత్తికా-సంస్థాన-విశేషత్వాన్ మృద్-ద్రవ్యమ్ ఏవేత్థమ్ అవస్థితం న వస్త్వ్-అన్తరమ్ ఇతి। యథా మృత్-పిణ్డ-విజ్ఞానేన తత్-సంస్థాన-విశేషరూపం ఘట-శరావాది సర్వం జ్ఞాతమ్ ఏవ భవతీత్య్ అర్థః।
Link copied॥౧౬॥
Link copiedతతః కృత్స్నస్య జగతో బ్రహ్మైక-కారణతామ్ అజానన్ పుత్రః పృచ్ఛతి భగవాంస్ త్వ్ ఏవ మే తద్ బ్రవీత్వ్ ఇతి। తతః సర్వజ్ఞం సర్వ-శక్తి బ్రహ్మైవ సర్వ-కారణమ్ ఇత్య్ ఉపదిశన్ స హోవాచ సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ ఇతి। అత్రేదమ్ ఇతి జగన్ నిర్దిష్టమ్। అగ్ర ఇతి చ సృష్టేః పూర్వ-కాలః। తస్మిన్ కాలే జగతః సద్-ఆత్మకతాం సద్ ఏవేతి ప్రతిపాద్య, తత్-సృష్టి-కాలేఽప్య్ అవిశిష్టమ్ ఇతి కృత్వైకమ్ ఏవేతి సద్-ఆపన్నస్య జగతస్ తదానీమ్ అవిభక్త-నామ-రూపతాం ప్రతిపాద్య తత్-ప్రతిపాదనేనైవ సతో జగద్-ఉపాదానత్వం ప్రతిపాదితమ్ ఇతి స్వ-వ్యతిరిక్త-నిమిత్త-కారణమ్ అద్వితీయ-పదేన ప్రతిషిద్ధమ్।
Link copied॥౧౭॥
Link copiedతమ్ ఆదేశం ప్రాక్ష్యో యేనాశ్రుతం శ్రుతం భవతీత్య్ ఆదావ్ ఏవ ప్రశాస్తితైవ జగద్-ఉపాదానమ్ ఇతి హృది నిహితమ్ ఇదానీమ్ అభివ్యక్తమ్। స్వయమ్ ఏవ జగద్-ఉపాదానం జగన్-నిమిత్తం చ సత్ తద్ ఐక్షత బహు స్యాం ప్రజాయేయేతి। తద్ ఏతచ్ ఛబ్ద-వాచ్యం పరం బ్రహ్మ సర్వజ్ఞం సర్వ-శక్తి సత్య-సఙ్కల్పమ్ అవాప్త-సమస్త-కామమ్ అపి లీలార్థం విచిత్రానన్త-చిద్-అచిన్-మిశ్ర-జగద్-రూపేణాహమ్ ఏవ బహు స్యాం తద్-అర్థం ప్రజాయేయేతి స్వయమ్ ఏవ సఙ్కల్ప్య స్వాంశైకదేశాద్ ఏవ వియద్-ఆది-భూతాని సృష్ట్వా పునర్ అపి సైవ సచ్-ఛబ్దాభిహితా పరా దేవతైవమ్ ఐక్షత హన్తాహమ్ ఇమాస్ తిస్రో దేవతా అనేన జీవేనాత్మనానుప్రవిశ్య నామ-రూపే వ్యాకరవాణీతి। అనేన జీవేనాత్మనేతి జీవస్య బ్రహ్మాత్మకత్వం ప్రతిపాద్య బ్రహ్మాత్మ-జీవానుప్రవేశాద్ ఏవ కృత్స్నస్యాచిద్-వస్తునః పదార్థత్వమ్ ఏవమ్భూతస్యైవ సర్వస్య వస్తునో నామ-భాక్త్వమ్ ఇతి చ దర్శయతి। ఏతద్ ఉక్తం భవతి జీవాత్మా తు బ్రహ్మణః శరీరతయా ప్రకారత్వాద్ బ్రహ్మాత్మకః। యస్యాత్మా శరీరమ్ ఇతి శ్రుత్యన్తరాత్। ఏవమ్భూతస్య జీవస్య శరీరతయా ప్రకార-భూతాని దేవ-మనుష్యాది-సంస్థానాని వస్తూనీతి బ్రహ్మాత్మకాని తాని సర్వాణి। అతో దేవో మనుష్యో రాక్షసః పశుర్ మృగః పక్షీ వృక్షో లతా కాష్ఠం శిలా తృణం ఘటః పట ఇత్య్ ఆదయః సర్వే ప్రకృతి-ప్రత్యయ-యోగేనాభిధాయకతయా ప్రసిద్ధాః శబ్దా లోకే తత్-తద్-వాచ్యతయా ప్రతీయమాన-తత్-తత్-సంస్థాన-వస్తు-ముఖేన తద్-అభిమాని-జీవ-తద్-అన్తర్యామి-పరమాత్మ-పర్యన్త-సఙ్ఘాతస్యైవ వాచకా ఇతి।
Link copied॥౧౮॥
Link copiedఏవం సమస్త-చిద్-అచిద్-ఆత్మక-ప్రపఞ్చస్య సద్-ఉపాదానతాసన్-నిమిత్తతాసదాధారతాసన్-నియమ్యతాసచ్-ఛేషతాది సర్వం చ సన్-మూలాః సోమ్యేమాః సర్వాః ప్రజాః సద్-ఆయతనాః సత్-ప్రతిష్ఠా ఇత్య్ ఆదినా విస్తరేణ ప్రతిపాద్య కార్య-కారణ-భావాది-ముఖేనైతదాత్మ్యమ్ ఇదం సర్వం తత్ సత్యమ్ ఇతి కృత్స్నస్య జగతో బ్రహ్మాత్మకత్వమ్ ఏవ సత్యమ్ ఇతి ప్రతిపాద్య కృత్స్నస్య జగతః స ఏవాత్మా కృత్స్నం జగత్ తస్య శరీరం తస్మాత్ త్వం-శబ్ద-వాచ్యమ్ అపి జీవ-ప్రకారం బ్రహ్మైవేతి సర్వస్య బ్రహ్మాత్మకత్వం ప్రతిజ్ఞాతం తత్ త్వమ్ అసీతి జీవ-విశేష ఉపసంహృతమ్।
Link copied॥౧౯॥
Link copiedఏతద్ ఉక్తం భవతి। ఐతదాత్మ్యమ్ ఇదం సర్వమ్ ఇతి చేతనాచేతన-ప్రపఞ్చమ్ ఇదం సర్వమ్ ఇతి నిర్దిశ్య తస్య ప్రపఞ్చస్యైష ఆత్మేతి ప్రతిపాదితః, ప్రపఞ్చోద్దేశేన బ్రహ్మాత్మకత్వం ప్రతిపాదితమ్ ఇత్య్ అర్థః। తద్ ఇదం బ్రహ్మాత్మకత్వం కిమ్ ఆత్మ-శరీర-భావేనోత స్వరూపేణేతి వివేచనీయమ్। స్వరూపేణ చేద్ బ్రహ్మణః సత్య-సఙ్కల్పాద్యస్ తద్ ఐక్షత బహు స్యం ప్రజాయేయేత్య్ ఉపక్రమావగతా బాధితా భవన్తి। శరీరాత్మ-భావేన చ తదాత్మకత్వం శ్రుత్య్-అన్తరాద్ విశేషతోఽవగతమ్ అన్తః-ప్రవిష్టః శాస్తా జనానాం సర్వాత్మేతి ప్రశాసితృత్వ-రూపాత్మత్వేన సర్వేషాం జనానామ్ అన్తః-ప్రవిష్టోఽతః సర్వాత్మా సర్వేషాం జనానామ్ ఆత్మా సర్వం చాస్య శరీరమ్ ఇతి విశేషతో జ్ఞాయతే బ్రహ్మాత్మకత్వమ్। య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద యస్యాత్మా శరీరం య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృత ఇతి చ। అత్రాప్య్ అనేన జీవేనాత్మనేతీదమ్ ఏవ జ్ఞాయత ఇతి పూర్వమ్ ఏవోక్తమ్। అతః సర్వస్య చిద్-అచిద్-వస్తునో బ్రహ్మ-శరీరత్వాత్ సర్వ-ప్రకారం సర్వ-శబ్దైర్ బ్రహ్మైవాభిధీయత ఇతి తత్ త్వమ్ ఇతి సామానాధికరణ్యేన జీవ-శరీరతయా జీవ-ప్రకారం బ్రహ్మైవాభిహితమ్।
Link copied॥౨౦॥
Link copiedఏవమ్ అభిహితే సత్య్ అయమ్ అర్థో జ్ఞాయతే త్వమ్ ఇతి యః పూర్వం దేహస్యాధిష్ఠాతృతయా ప్రతీతః స పరమాత్మ-శరీరతయా పరమాత్మ-ప్రకార-భూతః పరమాత్మ-పర్యన్తః। అతస్ త్వమ్ ఇతి శబ్దస్ త్వత్-ప్రకార-విశిష్టం త్వద్-అన్తర్యామిణమ్ ఏవాచష్ట ఇతి। అనేన జీవేనాత్మనానుప్రవిశ్య నామ-రూపే వ్యాకరవాణీతి బ్రహ్మాత్మకతయైవ జీవస్య శరీరిణః స్వ-నామ-భాక్త్వాత్ తత్ త్వమ్ ఇతి సామానాధికరణ్య-ప్రవృత్తయోర్ ద్వయోర్ అపి పదయోర్ బ్రహ్మైవ వాచ్యమ్। తత్ర చ తత్-పదం జగత్-కారణ-భూతం సకల-కల్యాణ-గుణ-గణాకరం నిర్వద్యం నిర్వికారమ్ ఆచష్టే। త్వమ్ ఇతి చ తద్ ఏవ బ్రహ్మ జీవాన్తర్యామి-రూపేణ సశరీర-ప్రకార-విశిష్టమ్ ఆచష్టే। తద్ ఏవం ప్రవృత్తి-నిమిత్త-భేదేనైకస్మిన్ బ్రహ్మణ్య్ ఏవ తత్ త్వమ్ ఇతి ద్వయోః పదయోర్ వృత్తిర్ ఉక్తా। బ్రహ్మణో నిరవద్యం నిర్వికారం సకల-కల్యాణ-గుణ-గణాకరత్వం జగత్-కారణత్వం చాబాధితమ్।
Link copied॥౨౧॥
Link copiedఅశ్రుత-వేదాన్తాః పురుషాః పదార్థాః సర్వే జీవాత్మనశ్ చ బ్రహ్మాత్మకా ఇతి న పశ్యతి సర్వ-శబ్దానాం చ కేవలేషు తత్-తత్-పదార్థేషు వాచ్యైకదేశేషు వాచ్య-పర్యవసానం మన్యన్తే। ఇదానీం వేదాన్త-వాక్య-శ్రవణేన బ్రహ్మ-కార్యతయా తద్-అన్తర్యామితయా చ సర్వస్య బ్రహ్మాత్మకత్వం సర్వ-శబ్దానాం తత్-తత్-ప్రకార-సంస్థిత-బ్రహ్మ-వాచిత్వం చ జానన్తి। నన్వ్ ఏవం గవాది-శబ్దానాం తత్-తత్-పదార్థ-వాచితయా వ్యుత్పత్తిర్ బాధితా స్యాత్। నైవం సర్వే శబ్దా అచిజ్-జీవ-విశిష్టస్య పరమాత్మనో వాచకా ఇత్య్ ఉక్తమ్। నామ-రూపే వ్యాకరవాణీత్య్ అత్ర। తత్ర లౌకికాః పురుషాః శబ్దం వ్యాహరన్తః శబ్ద-వాచ్యే ప్రధానాంశస్య పరమాత్మనః ప్రత్యక్షాద్య్-అపరిచ్ఛేద్యత్వాద్ వాచ్యైకదేశ-భూతే వాచ్య-సమాప్తిం మన్యన్తే। వేదాన్త-శ్రవణేన చ వ్యుత్పత్తిః పూర్యతే। ఏవమ్ ఏవ వైదికాః సర్వే శబ్దాః పరమాత్మ-పర్యన్తాన్ స్వార్థాన్ బోధయన్తి। వైదికా ఏవ సర్వే శబ్దా వేదాదవ్ ఉద్ధృత్యోద్ధృత్య పరేణైవ బ్రహ్మణా సర్వ-పదార్థాన్ పూర్వవత్ సృష్ట్వా తేషు పరమాత్మ-పర్యన్తేషు పూర్వవన్ నామతయా ప్రయుక్తాః। తద్ ఆహ మనుః---
Link copiedసర్వేషాం తు నామాని కర్మాణి చ పృథక్ పృథక్।
Link copiedవేద-శబ్దేభ్య ఏవాదౌ పృథక్ సంస్థాశ్ చ నిర్మమే॥ఇతి।
Link copiedసంస్థాః సంస్థానాని రూపాణీతి యావత్। ఆహ చ భగవాన్ పరాశరః---
Link copiedనామ రూపం భూతానాం కృత్యానాం ప్రపఞ్చనమ్।
Link copiedవేద-శబ్దేభ్య ఏవాదౌ దైవాదీనాం చకార సః॥
Link copiedఇతి। శ్రుతిశ్ చ సూర్యాచన్ద్రమసౌ ధాతా యథాపూర్వమ్ అకల్పయద్ ఇతి। సూర్యాదీన్ పూర్వవత్ పరికల్ప్య నామాని చ పూర్వవచ్ చకార ఇత్య్ అర్థః।
Link copied॥౨౨॥
Link copiedఏవం జగద్-బ్రహ్మణోర్ అనన్యత్వం ప్రపఞ్చితమ్। తేనైకేన జ్ఞాతేన సర్వస్య జ్ఞాతతోఽపపాదితా భవతి। సర్వస్య బ్రహ్మ-కార్యత్వ-ప్రతిపాదనేన తదాత్మకతయైవ సత్యత్వం నాన్యథేతి తత్ సత్యమ్ ఇత్య్ ఉక్తమ్। యథా దృష్టాన్తే సర్వస్య మృద్-వికారస్య మృద్-ఆత్మనైవ సత్యత్వమ్।
Link copied॥౨౩॥
Link copiedశోధక-వాక్యాన్య్ అపి నిరవద్యం సర్వ-కల్యాణ-గుణాకరం పరం బ్రహ్మ బోధయన్తి। సర్వ-ప్రత్యనీకాకారతాబోధనేఽపి తత్-తత్-ప్రత్యనీకాకారతాయాం భేదస్యావర్జనీయత్వాన్ న నిర్విశేష-వస్తు-సిద్ధిః।
Link copied॥౨౪॥
Link copiedనను చ జ్ఞాన-మాత్రం బ్రహ్మేతి ప్రతిపాదితే నిర్విశేష-జ్ఞాన-మాత్రం బ్రహ్మేతి నిశ్చీయతే। నైవం। స్వరూప-నిరూపణ-ధర్మ-శబ్దా హి ధర్మ-ముఖేన స్వరూపమ్ అపి ప్రతిపాదయన్తి। గవాది-శబ్దవత్। తద్ ఆహ సూత్ర-కారః--- తద్-గుణ-సారత్వాత్ తద్-వ్యపదేశః ప్రాజ్ఞవత్। యావద్ ఆత్మ-భావితత్వాచ్ చ న దోష ఇతి। జ్ఞానేన ధర్మేణ స్వరూపమ్ అపి నిరూపితం న జ్ఞాన-మాత్రం బ్రహ్మేతి। కథమ్ ఇదమ్ అవగమ్యత ఇతి చేద్ యః సర్వ-జ్ఞః సర్వ-విద్ ఇత్య్ ఆది జ్ఞాతృత్వ-శ్రుతేః పరాస్య శక్తిర్ వివిధైవ శ్రూయతే స్వాభావికీ జ్ఞాన-బల-క్రియా చ। విజ్ఞాతారమ్ అరే కేన విజానీయాద్ ఇత్య్ ఆది శ్రుతి-శత-సమధిగతమ్ ఇదమ్। జ్ఞానస్య ధర్మ-మాత్రత్వాద్ ధర్మ-మాత్రస్యైకస్య వస్తుత్వ-ప్రతిపాదనానుపపత్తేశ్ చ। అతః సత్య-జ్ఞానాది-పదాని స్వార్థ-భూత-జ్ఞానాది-విశిష్టమ్ ఏవ బ్రహ్మ ప్రతిపాదయన్తి। తత్ త్వమ్ ఇతి ద్వయోర్ అపి పదయోః స్వార్థ-ప్రహాణేన నిర్విశేష-వస్తు-స్వరూపోపస్థాపన-పరత్వే ముఖ్యార్థ-పరిత్యాగశ్ చ।
Link copied॥౨౫॥
Link copiedనన్వ్ ఐక్యే తాత్పర్య-నిశ్చయాన్ న లక్షణా-దోషః। సోఽయం దేవదత్త ఇతివత్। యథా సోఽయమ్ ఇత్య్ అత్ర స ఇతి శబ్దేన దేశాన్తర-కాలాన్తర-సమ్బన్ధీ పురుషః ప్రతీయత అయమ్ ఇతి చ సన్నిహిత-దేశ-వర్తమాన-కాల-సమ్బన్ధీ, తయోః సామానాధికరణ్యేనైక్యం ప్రతీయతే। తత్రైకస్య యుగపద్ విరుద్ధ-దేశ-కాల-సమ్బన్ధితయా ప్రతీతిర్ న ఘటత ఇతి ద్వయోర్ పదయోః స్వరూప-మాత్రోపస్థాపన-పరత్వం స్వరూపస్య చైక్యం ప్రతిపద్యత ఇతి చేన్ నైతద్ ఏవమ్। సోఽయం దేవదత్త ఇత్య్ అత్రాపి లక్షణా-గన్ధో న విద్యతే। విరోధాభావాత్। ఏకస్య భూత-వర్తమాన-క్రియా-ద్వయ-సమ్బంధో న విరుద్ధః। దేశాన్తర-స్థితిర్ భూత్వా సన్నిహిత-దేశ-స్థితిర్ వర్తతే। అతో భూత-వర్తమాన-క్రియా-ద్వయ-సమ్బన్ధితయైక్య-ప్రతిపాదనమ్ అవిరుద్ధమ్। దేశ-ద్వయ-విరోధశ్ చ కాల-భేదేన పరిహృతః। లక్షణాయామ్ అపి న ద్వయోర్ అపి పదయోర్ లక్షణా-సమాశ్రయణమ్। ఏతేనైవ లక్షితేన విరోధ-పరిహారాత్। లక్షణాభావ ఏవోక్తః। దేశాన్తర-సమ్బన్ధితయా భూతస్యైవాన్య-దేశ-సమ్బన్ధితయా వర్తమానత్వావిరోధాత్।
Link copied॥౨౬॥
Link copiedఏవమ్ అత్రాపి జగత్-కారణ-భూతస్యైవ పరస్య బ్రహ్మణో జీవాన్తర్యామితయా జీవాత్మత్వమ్ అవిరుద్ధమ్ ఇతి ప్రతిపాదితమ్। యథా భూతయోర్ ఏవ హి ద్వయోర్ ఐక్యం సామానాధికరణ్యేన ప్రతీయతే। తత్-పరిత్యాగేన స్వరూప-మాత్రైక్యం న సామానాధికరణ్యార్థః భిన్న-ప్రవృత్తి-నిమిత్తానాం శబ్దానామ్ ఏకస్మిన్న్ అర్థే వృత్తిః సామానాధికరణ్యమ్ ఇతి హి తద్-విదః। తథాభూతయోర్ ఐక్యమ్ ఉపపాదితమ్ అస్మాభిః। ఉపక్రమ-విరోధ్య్-ఉపసంహార-పదేన వాక్య-తాత్పర్య-నిశ్చయశ్ చ న ఘటతే। ఉపక్రమే హి తద్ ఐక్షత బహు స్యామ్ ఇత్య్ ఆదినా సత్య-సఙ్కల్పత్వం జగద్-ఏక-కారణత్వమ్ అప్య్ ఉక్తమ్। తద్-విరోధి చావిద్యాశ్రయత్వాది బ్రహ్మణః।
Link copied॥౨౭॥
Link copiedఅపి చార్థ-భేద-తత్-సంసర్గ-విశేష-బోధన-కృత-పద-వాక్యస్య స్వరూపతా-లబ్ధ-ప్రమాణ-భావస్య శబ్దస్య నిర్విశేష-వస్తు-బోధనాసామర్థాన్ న నిర్విశేష-వస్తుని శబ్దః ప్రమాణమ్। నిర్విశేష ఇత్య్ ఆది శబ్దాస్ తు కేనచిద్ విశేషేణ విశిష్టతయావగతస్య వస్తునో వస్త్వ్-అన్తర-గత-విశేష-నిషేధ-పరతయా బోధకాః। ఇతరథా తేషమ్ అప్య్ అనవబోధకత్వమ్ ఏవ। ప్రకృతి-ప్రత్యయ-రూపేణ పదస్యైవానేకవిశేష-గర్భత్వాద్ అనేక-పదార్థ-సంసర్గ-బోధకత్వాచ్ చ వాక్యస్య।
Link copied॥౨౮॥
Link copiedఅథ స్యాన్ నాస్మాభిర్ నిర్విశేషే స్వయమ్ప్రకాశే వస్తుని శబ్దః ప్రమాణమ్ ఇత్య్ ఉచ్యతే। స్వతః-సిద్ధస్య ప్రమాణానపేక్షత్వాత్। సర్వైః శబ్దైస్ తద్-ఉపరాగ-విశేషా జ్ఞాతృత్వాదయః సర్వే నిరస్యన్తే। సర్వేషు విశేషేషు నివృత్తేషు వస్తు-మాత్రమ్ అనవచ్ఛిన్నం స్వయమ్ప్రకాశం స్వత ఏవావతిష్ఠత ఇతి। నైతద్ ఏవమ్। కేన శబ్దేన తద్ వస్తు నిర్దిశ్య తద్-గత-విశేషా నిరస్యన్తే। జ్ఞప్తి-మాత్ర-శబ్దేనేతి చేన్ న। సోఽపి సవిశేషమ్ ఏవ వస్త్వ్-అవలమ్బతే। ప్రకృతి-ప్రత్యయ-రూపేణ విశేష-గర్భత్వాత్। జ్ఞా అవబోధన ఇతి సకర్మకః సకర్తృకః క్రియా-విశేషః క్రియాన్తర-వ్యావర్తక-స్వభావ-విశేషశ్ చ ప్రకృత్యావగమ్యతే। ప్రత్యయేన చ లిఙ్గ-సఙ్ఖ్యాదయః। స్వతః-సిద్ధావ్ అప్య్ ఏతత్-స్వభావ-విశేష-విరహే సిద్ధిర్ ఏవ న స్యాత్। అన్య-సాధన-స్వభావతయా హి జ్ఞప్తేః స్వతః-సిద్ధిర్ ఉచ్యతే।
Link copied॥౨౯॥
Link copiedబ్రహ్మ-స్వరూపం కృత్స్నం సర్వదా స్వయమ్ ఏవ ప్రకాశతే చేన్ న తస్మిన్న్ అన్య-ధర్మాధ్యాసః సమ్భవతి। న హి రజ్జు-స్వరూపేఽవభాసమానే సర్పత్వాదిర్ అధ్యస్యతే। అత ఏవ హి భవద్భిర్ ఆచ్ఛాదికావిద్యాభ్యుపగమ్యతే। తతశ్ చ శాస్త్రీయ-నివర్తక-జ్ఞానస్య బ్రహ్మణి తిరోహితాంశో విషయః। అన్యథా తస్య నివర్తకత్వం చ న స్యాత్। అధిష్ఠానాతిరేకి-రజ్జుత్వ-ప్రకాశనేన హి సర్పత్వం బాధ్యతే। ఏకశ్ చేద్ విశేషో జ్ఞాన-మాత్రే వస్తుని శబ్దేనాభిధీయతే స చ బ్రహ్మ-విశేషణం భవతీతి సర్వ-శ్రుతి-ప్రతిపాదిత-సర్వ-విశేషణ-విశిష్టం బ్రహ్మ భవతి।
Link copied॥౩౦॥
Link copiedఅతః ప్రామాణికానాం న కేనాపి ప్రమాణేన నిర్విశేష-వస్తు-సిద్ధిః। నిర్వికల్పక-ప్రత్యక్షేఽపి సవిశేషమ్ ఏవ వస్తు ప్రతీయతే। అన్యథా సవికల్పకే సోఽయమ్ ఇతి పూర్వావగత-ప్రకార-విశిష్ట-ప్రత్యయానుపపత్తేః। వస్తు-సంస్థాన-విశేష-రూపత్వాద్ గోత్వాదేర్ నిర్వికల్పక-దశాయామ్ అపి ససంస్థానమ్ ఏవ వస్త్వ్ ఇత్థమ్ ఇతి ప్రతీయతే। ద్వితీయాది-ప్రత్యయేషు తస్య సంస్థాన-విశేషస్యానేక-వస్తు-నిష్ఠతా-మాత్రం ప్రతీయతే। సంస్థాన-రూప-ప్రకారాఖ్యస్య పదార్థస్యానేక-వస్తు-నిష్ఠతయానేక-వస్తు-విశేషణత్వం ద్వితీయాది-ప్రత్యయావగమ్యమ్ ఇతి ద్వితీయాది-ప్రత్యయాః సవికల్పకా ఇత్య్ ఉచ్యన్తే। అత ఏవైకస్య పదార్థస్య భిన్నాభిన్నత్వ-రూపేణ ద్వ్యాత్మకత్వం విరుద్ధం ప్రత్యుక్తమ్। సంస్థానస్య సంస్థానినః ప్రకారతయా పదార్థాన్తరత్వమ్। ప్రకారత్వాద్ ఏవ పృథక్సిద్ధ్య్-అనర్హత్వం పృథగ్-అనుపలమ్భశ్ చేతి న ద్వ్య్-ఆత్మకత్వ-సిద్ధిః।
Link copied॥౩౧॥
Link copiedఅపి చ నిర్విశేష-వస్త్వ్-ఆదినా స్వయమ్ప్రకాశే వస్తుని తద్-ఉపరాగ-విశేషాః సర్వైః శబ్దైర్ నిరస్యన్త ఇతి వదతా కే తే శబ్దా నిషేధకా ఇతి వక్తవ్యమ్। వాచారమ్భణం వికారో నామధేయం మృత్తికేత్య్ ఏవ సత్యమ్ ఇతి వికార-నామధేయయోర్ వాచారమ్భణ-మాత్రత్వాత్। యత్ తత్ర కారణతయోపలక్ష్యతే వస్తు-మాత్రం తద్ ఏవ సత్యమ్ అన్యద్ అసత్యమ్ ఇతీయం శ్రుతిర్ వదతీతి చేన్ నైతద్ ఉపపద్యతే। ఏకస్మిన్ విజ్ఞాతే సర్వం విజ్ఞాతం భవతీతి ప్రతిజ్ఞాతేఽన్య-జ్ఞానేనాన్య-జ్ఞానాసమ్భవం మన్వానస్యైకమ్ ఏవ వస్తు వికారాద్య్-అవస్థా-విశేషేణ పారమార్థికేనైవ నామ-రూపమ్ అవస్థితం చేత్ తత్రైకస్మిన్ విజ్ఞాతే తస్మాద్ విలక్షణ-సంస్థానాన్తరమ్ అపి తద్ ఏవేతి తత్ర దృష్టాన్తోఽయం నిదర్శితః। నాత్ర కస్యచిద్ విశేషస్య నిషేధకః కోఽపి శబ్దో దృశ్యతే। వాచారమ్భణమ్ ఇతి వాచా వ్యవహారేణారభ్యత ఇత్య్ ఆరమ్భణమ్। పిణ్డ-రూపేణావస్థితాయాః మృత్తికాయా నామ వాన్యద్ వ్యవహారశ్ చాన్యః। ఘట-శరావాది-రూపేణావస్థితాయాస్ తస్యా ఏవ మృత్తికాయా అన్యాని నామధేయాని వ్యవహారాశ్ చాన్యదృశాః। తథాపి సర్వత్ర మృత్తికా-ద్రవ్యమ్ ఏకమ్ ఏవ నానా-సంస్థాన-నానా-నామధేయాభ్యాం నానా-వ్యవహారేణ చారభ్యత ఇత్య్ ఏతద్ ఏవ సత్యమ్ ఇత్య్ అనేనాన్య-జ్ఞానేనాన్య-జ్ఞాన-సమ్భవో నిదర్శితః। నాత్ర కిఞ్చిద్ వస్తు నిషిధ్యత ఇతి పూర్వమ్ ఏవాయమ్ అర్థః ప్రపఞ్చితః।
Link copied॥౩౨॥
Link copiedఅపి చ యేనాశ్రుతం శ్రుతమ్ ఇత్య్ ఆదినా బ్రహ్మ-వ్యతిరిక్తస్య సర్వస్య మిథ్యాత్వం ప్రతిజ్ఞాతం చేద్ యథా సోమ్యైకేన మృత్-పిణ్డేనేత్య్ ఆది దృష్టాన్తః సాధ్య-వికలః స్యాత్। రజ్జు-సర్పాదివన్ మృత్తికా-వికారస్య ఘట-శరావాదేర్ అసత్యత్వం శ్వేతకేతోః శుశ్రూషోః ప్రమాణాన్తరేణ యుక్త్యా చాసిద్ధమ్ ఇత్య్ ఏతద్ అపి సిషాధయిషితమ్ ఇతి చేత్। యథేతి దృష్టాన్తయోపాదానం న ఘటతే।
Link copied॥౩౩॥
Link copiedసద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ ఏవాద్వితీయమ్ ఇత్య్ అత్ర సద్ ఏవైకమ్ ఏవేత్య్ అవధారణ-ద్వయేనాద్వితీయమ్ ఇత్య్ అనేన చ సన్-మాత్రాతిరేకి-సజాతీయ-విజాతీయాః సర్వే విశేషా నిషిద్ధా ఇతి ప్రతీయత ఇతి చేన్నైతద్ ఏవమ్। కార్య-కారణ-భావావస్థా-ద్వయావస్థితస్యైకస్య వస్తున ఏకావస్థావస్థితస్య జ్ఞానేనావస్థాన్తరావస్థితస్యాపి వస్త్వ్-ఐక్యేన జ్ఞాతతాం దృష్టాన్తేన దర్శయిత్వా శ్వేతకేతోర్ అప్రజ్ఞాతం సర్వస్య బ్రహ్మ-కారణత్వం చ వక్తుం సద్ ఏవ సోమ్యేదమ్ ఇత్య్ ఆరబ్ధమ్। ఇదమ్ అగ్రే సద్ ఏవాసీద్ ఇతి। అగ్ర ఇతి కాల-విశేషః। ఇదం-శబ్ద-వాచ్యస్య ప్రపఞ్చస్య సద్-ఆపత్తి-రూపాం క్రియాం సద్రవ్యతాం చ వదతి। ఏకమ్ ఏవేతి చాస్య నానా-నామ-రూప-వికార-ప్రహాణమ్। ఏతస్మిన్ ప్రతిపాదితేఽస్య జగతః సద్-ఉపాదానతా ప్రతిపాదితా భవతి। అన్యత్రోపాదాన-కారణస్య స్వ-వ్యతిరిక్తాధిష్ఠాత్రపేక్షా-దర్శనేఽపి సర్వ-విలక్షణత్వాద్ అస్య సర్వ-జ్ఞస్య బ్రహ్మణః సర్వ-శక్తి-యోగో న విరుద్ధ ఇత్య్ అద్వితీయ-పదమ్ అధిష్ఠాత్రన్తరం నివారయతి। సర్వ-శక్తి-యుక్తత్వాద్ ఏవ బ్రహ్మణః। కాశ్చన శ్రుతయః ప్రథమమ్ ఉపాదాన-కారణత్వం ప్రతిపాద్య నిమిత్త-కారణమ్ అపి తద్ ఏవేతి ప్రతిపాదయన్తి। యథేయం శ్రుతిః। అన్యాశ్ చ శ్రుతయో బ్రహ్మణో నిమిత్త-కారణత్వమ్ అనుజ్ఞాయాస్యైవోపాదానతాది కథమ్ ఇతి పరిచోద్య, సర్వ-శక్తి-యుక్తత్వాద్ ఉపాదాన-కారణం తద్-ఇతరాశేషోపకరణం చ బ్రహ్మైవేతి పరిహరన్తి కింస్విద్ వనం క ఉ స వృక్ష ఆసీద్ యతో ద్యావ్ ఆపృథివీ నిష్టతక్షుః, మణీషిణో మనసా పృచ్ఛతేద్ ఉ తద్ యద్ అధ్యతిష్ఠద్ భువనాని ధారయన్। బ్రహ్మ వనం బ్రహ్మ స వృక్ష ఆసీద్ యతో ద్యావ్ ఆపృథివీ నిష్టతక్షుర్ మనీషిణో మనసా విబ్రవీమి వః బ్రహ్మాధ్యతిష్ఠద్ భువనాని। ధారయన్న్ ఇతి సామాన్యతో దృష్టేన విరోధమ్ ఆశఙ్క్య బ్రహ్మణః సర్వ-విలక్షణత్వేన పరిహార ఉక్తః। అతః సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఇత్య్ అత్రాప్య్ అగ్ర ఇత్య్ ఆద్య్ అనేక-విశేషా బ్రహ్మణో ప్రతిపాదితాః। భవద్-అభిమత-విశేష-నిషేధ-వాచీ కోఽపి శబ్దో న దృశ్యతే। ప్రత్యుత జగద్-బ్రహ్మణోః కార్య-కారణ-భావ-జ్ఞాపనాయాగ్ర ఇతి కాల-విశేష-సద్-భావః। ఆసీద్ ఇతి క్రియా-విశేషో, జగద్-ఉపాదానతా జగన్-నిమిత్తతా చ, నిమిత్తోపాదానయోర్ భేద-నిరసనేన తస్యైవ బ్రహ్మణః సర్వ-శక్తి-యోగశ్ చేత్య్ అప్రజ్ఞాతః సహస్రశో విశేషా ఏవ ప్రతిపాదితాః।
Link copied॥౩౪॥
Link copiedయతో వాస్తవ-కార్య-కారణ-భావాది-విజ్ఞానే ప్రవృత్తమ్ అత ఏవాసద్ ఏవేదమ్ అగ్ర ఆసీద్ ఇత్య్ ఆరభ్యాసత్కార్యవాద-నిషేధశ్ చ క్రియతే కుతస్ తు ఖలు సోమ్యైవం స్యాద్ ఇతి। ప్రాగసత ఉత్పత్తిర్ అహేతుకేత్య్ అర్థః। తద్ ఏవోపపాదయతి కథమ్ అసతః సజ్ జాయేతేతి। అసత ఉత్పన్నమ్ అసద్-ఆత్మకమ్ ఏవ భవతీత్య్ అర్థః। యథా మృద్ ఉత్పన్నం ఘటాదికం మృద్-ఆత్మకమ్। సత ఉత్పత్తిర్ నామ వ్యవహార-విశేష-హేతు-భూతోఽవస్థా-విశేష-యోగః।
Link copied॥౩౫॥
Link copiedఏతద్ ఉక్తం భవతి--- ఏకమ్ ఏవ కారణ-భూతం ద్రవ్యమ్ అవస్థాన్తర-యోగేన కార్యమ్ ఇత్య్ ఉచ్యత ఇత్య్ ఏక-విజ్ఞానేన సర్వ-విజ్ఞానం ప్రతిపిపాదయిషితమ్। తద్ అసత్కార్యవాదే న సేత్స్యతి। తథా హి నిమిత్త-సమవాయ్య-సమవాయి-ప్రభృతిః కారణైర్ అవయవ్య్-ఆఖ్యం కార్యం ద్రవ్యాన్తరమ్ ఏవోత్పద్యత ఇతి కారణ-భూతాద్ వస్తునః కార్యస్య వస్త్వ్-అన్తరత్వాన్ న తజ్-జ్ఞానేనాస్య జ్ఞాతతా కథమ్ అపి సమ్భవతీతి। కథమ్ అవయవి ద్రవ్యాన్తరం నిరస్యత ఇతి చేత్। కారణ-గతావస్థాన్తర-యోగస్య ద్రవ్యాన్తరోత్పత్తి-వాదినః సమ్ప్రతిపన్నస్యైవైకత్వ-నామాన్తరాదేర్ ఉపపాదకత్వాద్ ద్రవ్యాన్తరాదర్శనాచ్ చేతి కారణమ్ ఏవావస్థాన్తరాపన్నం కార్యమ్ ఇత్య్ ఉచ్యత ఇత్య్ ఉక్తమ్।
Link copied॥౩౬॥
Link copiedనను నిరధిష్ఠాన-భ్రమాసమ్భవ-జ్ఞాపనాయాసత్కార్యవాద-నిరాసః క్రియతే। తథా హ్య్ ఏకం చిద్-రూపం సత్యమ్ ఏవావిద్యాచ్ఛాదితం జగద్-రూపేణ వివర్తత ఇత్య్ అవిద్యాశ్రయత్వాయ మూల-కారణం సత్యమ్ ఇత్య్ అభ్యుపగన్తవ్యమ్ ఇత్య్ అసత్కార్యవాద-నిరాసః। నైతద్ ఏవమ్। ఏక-విజ్ఞానేన సర్వ-విజ్ఞాన-ప్రతిజ్ఞా-దృష్టాన్త-ముఖేన సత్కార్యవాదస్యైవ ప్రసక్తత్వాద్ ఇత్య్ ఉక్తమ్। భవత్-పక్షే నిరధిష్ఠాన-భ్రమాసమ్భవస్య దురుపపాదత్వాచ్ చ। యస్య హి చేతన-గత-దోషః పారమార్థికో దోషాశ్రయత్వం చ పారమార్థికం తస్య పారమార్థిక-దోషేణ యుక్తస్యాపారమార్థిక-గన్ధర్వ-నగరాది-దర్శనమ్ ఉపపన్నం, యస్య తు దోషశ్ చాపారమార్థికో దోషాశ్రయత్వం చాపారమార్థికం తస్యాపారమార్థికేనాప్య్ ఆశ్రయేణ తద్ ఉపపన్నమ్ ఇతి భవత్-పక్షే న నిరధిష్ఠాన-భ్రమాసమ్భవః।
Link copied॥౩౭॥
Link copiedశోధకేష్వ్ అపి సత్యం జ్ఞానమ్ అనన్తం బ్రహ్మ, ఆనన్దో బ్రహ్మేత్య్ ఆదిషు వాక్యేషు సామాన్యాధికరణ్య-వ్యుత్పత్తి-సిద్ధానేక-గుణ-విశిష్టైకార్థావబోధనమ్ అవిరుద్ధమ్ ఇతి సర్వ-గుణ-విశిష్టం బ్రహ్మాభిధీయత ఇతి పూర్వమ్ ఏవోక్తమ్।
Link copied॥౩౮॥
Link copiedఅథాత ఆదేశో నేతి నేతీతి బహుధా నిషేధో దృష్యత ఇతి చేత్। కిమ్ అత్ర నిషిధ్యత ఇతి వక్తవ్యమ్। ద్వే వావ బ్రహ్మణో రూపే మూర్తం చైవామూర్తం చేతి మూర్తామూర్తాత్మకః ప్రపఞ్చః సర్వోఽపి నిషిధ్యత ఇతి చేన్ నైవమ్। బ్రహ్మణో రూపతయాప్రజ్ఞాతం సర్వం రూపతయోపదిశ్య పునర్ తద్ ఏవ నిషేద్ధుమ్ అయుక్తమ్। ప్రక్షాలనాద్ ధి పఙ్కస్య దూరాద్ అస్పర్శనం వరమ్ ఇతి న్యాయాత్। కస్ తర్హి నిషేధ-వాక్యార్థః। సూత్ర-కారః స్వయమ్ ఏవ వదతి--- ప్రకృతైతావత్త్వం హి ప్రతిషేధతి తతో బ్రవీతి చ భూయ ఇతి। ఉత్తరత్ర అథ నామధేయం సత్య్ అస్య సత్యం ప్రాణా వై సత్యం తేషామ్ ఏష సత్యమ్ ఇతి సత్యాది-గుణ-గణస్య ప్రతిపాదితత్వాత్ పూర్వ-ప్రకృతైతావన్ మాత్రం న భవతి బ్రహ్మేతి, బ్రహ్మణ ఏతావన్-మాత్రతా ప్రతిషిధ్యత ఇతి సూత్రార్థః।
Link copied॥౩౯॥
Link copiedనేహ నానాస్తి కిఞ్చనేత్య్ ఆదినా నానాత్వ-ప్రతిషేధ ఏవ దృష్యత ఇతి చేత్। అత్రాప్య్ ఉత్తరత్ర సర్వస్య వశీ సర్వస్యేశన ఇతి సత్య-సఙ్కల్పత్వ-సర్వేశ్వరత్వ-ప్రతిపాదనాచ్ చేతన-వస్తు-శరీర ఈశ్వర ఇతి సర్వ-ప్రకార-సంస్థితః స ఏక ఏవేతి తత్-ప్రత్యనీకాబ్రహ్మాత్మక-నానాత్వం ప్రతిషిద్ధం న భవద్-అభిమతమ్। సర్వాస్వ్ ఏవమ్ప్రకారాసు శ్రుతిష్వ్ ఇయమ్ ఏవ స్థితిర్ ఇతి న క్వచిద్ అపి బ్రహ్మణః సవిశేషత్వ-నిషేధక-వాచీ కోఽపి శబ్దో దృశ్యతే।
Link copied॥౪౦॥
Link copiedఅపి చ నిర్విశేష-జ్ఞాన-మాత్రం బ్రహ్మ తచ్ చాచ్ఛాదికావిద్యా-తిరోహిత-స్వరూపం స్వగత-నానాత్వం పశ్యతీత్య్ అయమ్ అర్థో న ఘటతే। తిరోధానం నామ ప్రకాశ-నివారణమ్। స్వరూపాతిరేకి-ప్రకాశ-ధర్మానభ్యుపగమేన ప్రకాశస్యైవ స్వరూపత్వాత్ స్వరూపనాశ ఏవ స్యాత్। ప్రకాశ-పర్యాయం జ్ఞానం నిత్యం స చ ప్రకాశోఽవిద్యా-తిరోహిత ఇతి బాలిశ-భాషితమ్ ఇదమ్। అవిద్యయా ప్రకాశ-తిరోహిత ఇతి ప్రకాశోత్పత్తి-ప్రతిబన్ధో విద్యమానస్య వినాశో వా। ప్రకాశస్యానుత్పాద్యత్వాద్ వినాశ ఏవ స్యాత్। ప్రకాశో నిత్యో నిర్వికారస్ తిష్ఠతీతి చేత్। సత్యామ్ అప్య్ అవిద్యాయాం బ్రహ్మణి న కిఞ్చిత్ తిరోహితమ్ ఇతి నానాత్వం పశ్యతీతి భవతామ్ అయం వ్యవహారః సత్స్వ్ అనిర్వచనీయ ఏవ।
Link copied॥౪౧॥
Link copiedనను చ భవతోఽపి విజ్ఞాన-స్వరూప ఆత్మాభ్యుపగన్తవ్యః। స చ స్వయమ్ప్రకాశః। తస్య చ దేవాది-స్వరూపాత్మాభిమానే స్వరూప-ప్రకాశ-తిరోధానమ్ అవశ్యమ్ ఆశ్రయణీయమ్। స్వరూప-ప్రకాశే సతి స్వాత్మన్య్ ఆకారాన్తరాధ్యాసాయోగాత్। అతో భవతశ్ చాయం సమానో దోషః। కిం చాస్మాకమ్ ఏకస్మిన్న్ ఏవాత్మని భవద్-ఉదీరితం దుర్ఘటత్వం భవతామ్ ఆత్మానన్త్యాభ్యుపగమాత్ సర్వేష్వ్ అయం దోషః పరిహరణీయః।
Link copied॥౪౨॥
Link copiedఅత్రోచ్యతే--- స్వభావతో మల-ప్రత్యనీకానన్త-జ్ఞానానన్దైక-స్వరూపం స్వాభావికానవధికాతిశయాపరిమితోదార-గుణ-సాగరం నిమేష-కాష్ఠా-కలా-ముహూర్తాది-పరార్ధ-పర్యన్తాపరిమిత-వ్యవచ్ఛేద-స్వరూప-సర్వోత్పత్తి-స్థితి-వినాశాది-సర్వ-పరిణామ-నిమిత్త-భూత-కాల-కృత-పరిణామాస్పష్టానన్త-మహా-విభూతి- స్వ-లీలా-పరికర-స్వాంశ-భూతానన్త-బద్ధ-ముక్త-నానా-విధ-చేతన-తద్-భోగ్య-భూతానన్త-విచిత్ర-పరిణామ-శక్తి-చేతనేతర-వస్తు-జాతాన్తర్యామిత్వ-కృత-సర్వ-శక్తి-శరీరత్వ-సర్వ-ప్రకారావస్థానావస్థితం పరం బ్రహ్మైవ వేద్యం, తత్-సాక్షాత్కార-క్షమ-భగవద్-ద్వైపాయన-పరాశర-వాల్మీకి-మను-యాజ్ఞవల్క్య-గౌతమాపస్తమ్బ-ప్రభృతి-ముని-గణ-ప్రణీత-విధ్య్-అర్థవాద-మన్త్ర-స్వరూప-వేద-మూలేతిహాస-పురాణ-ధర్మ-శాస్త్రోపభృంహిత-పరమార్థ-భూతానాది-నిధనావిచ్ఛిన్న-పాఠ-సమ్ప్రదాయర్గ్-యజుః-సామాథర్వ-రూపానన్త-శాఖం వేదం చాభ్యుపగచ్ఛతామ్ అస్మాకం కిం న సేత్స్యతి। యథోక్తం భగవతా ద్వైపాయనేన మహాభారతే---
Link copiedయో మామ్ అజమ్ అనాదిం చ వేత్తి లోక-మహేశ్వరమ్।
Link copiedద్వావ్ ఇమౌ పురషౌ లోకే క్షరశ్ చాక్షర ఏవ చ।
Link copiedక్షరః సర్వాణి భూతాని కూటస్థోఽక్షర ఉచ్యతే॥
Link copiedఉత్తమః పురుషస్ త్వ్ అన్యః పరమాత్మేత్య్ ఉదాహృతః।
Link copiedయో లోక-త్రయమ్ ఆవిశ్య బిభర్త్య్ అవ్యయ ఈశ్వరః॥
Link copiedకాలం చ పచతే తత్ర న కాలస్ తత్ర వై ప్రభుః।
Link copiedఏతే వై నిరయాస్ తాత స్థానస్య పరమాత్మనః॥
Link copiedఅవ్యక్తాది-విశేషాన్తం పరిణామర్ద్ధి-సంయుక్తమ్।
Link copiedక్రీడా హరేర్ ఇదం సర్వం క్షరమ్ ఇత్య్ అవధార్యతామ్॥
Link copiedకృష్ణ ఏవ హి లోకానామ్ ఉత్పత్తిర్ అపి చాప్యయః।
Link copiedకృష్ణస్య హి కృతే భూతమ్ ఇదం విశ్వం చరాచరమ్॥
Link copiedఇతి। కృష్ణస్య హి కృత ఇతి కృష్ణస్య శేష-భూతం సర్వమ్ ఇత్య్ అర్థః।
Link copiedభగవతా పరాశరేణాప్య్ ఉక్తమ్---
Link copiedశుద్ధే మహా-విభూత్య్-ఆఖ్యే పరే బ్రహ్మణి శబ్ద్యతే।
Link copiedమైత్రేయ భగవచ్-ఛబ్దః సర్వ-కారణ-కారణే॥
Link copiedజ్ఞాన-శక్తి-బలైశ్వర్య-వీర్య-తేజాంస్య్ అశేషతః।
Link copiedభగవచ్-ఛబ్ద-వాచ్యాని వినా హేయైర్ గుణాదిభిః॥
Link copiedఏవమ్ ఏష మహా-శబ్దో మైత్రేయ భగవాన్ ఇతి।
Link copiedపరమ-బ్రహ్మ-భూతస్య వాసుదేవస్య నాన్యగః॥
Link copiedతత్ర పూజ్య-పదార్థోక్తి-పరిభాషాసమన్వితః।
Link copiedశబ్దోఽయం నోపచారేణ త్వ్ అన్యత్ర హ్య్ ఉపచారతః॥
Link copiedఏవమ్ప్రకారమ్ అమలం సత్యం వ్యాపకమ్ అక్షయమ్।
Link copiedసమస్త-హేయ-రహితం విష్ణ్వ్-ఆఖ్యం పరమం పదమ్॥
Link copiedకలా-ముహూర్తాది-మయశ్ చ కాలో న యద్-విభూతేః పరిణామ-హేతుః॥
Link copiedక్రీడతో బాలకస్యేవ చేష్టాస్ తస్య నిశామయ॥
Link copiedఇత్య్ ఆది। మనునాపి---
Link copiedప్రశాసితారం సర్వేషామ్ అణీయాంసమ్ అణీయసామ్।
Link copiedఇత్య్ ఉక్తమ్। యాజ్ఞవల్క్యేనాపి---
Link copiedక్షేత్రస్యేశ్వర-జ్ఞానాద్ విశుద్ధిః పరమా మతా।
Link copiedఇతి। ఆపస్తమ్బేనాపి--- పూః ప్రాణినః సర్వ ఏవ గుహాశయస్యేతి। సర్వే ప్రాణినో గుహాశయస్ పరమాత్మనః పూః పురం శరీరమ్ ఇత్య్ అర్థః। ప్రాణిన ఇతి సజీవాత్మ-భూత-సఙ్ఘాతః।
Link copied॥౪౩॥
Link copiedనను చ కిమ్ అనేనాడమ్బరేణ। చోద్యం తు న పరిహృతమ్। ఉచ్యతే--- ఏవమ్ అభ్యుపగచ్ఛతామ్ అస్మాకమ్ ఆత్మ-ధర్మ-భూతస్య చైతన్యస్య స్వాభావికస్యాపి కర్మణా పారమార్థికం సఙ్కోచం వికాసం చ బ్రువతాం సర్వమ్ ఇదం పరిహృతమ్। భవస్ తు ప్రకాశ ఏవ స్వరూపమ్ ఇతి ప్రకాశో న ధర్మ-భూతస్ తస్య సఙ్కోచ-వికాసౌ వా నాబ్యుపగమ్యేతే। ప్రకాశ-ప్రసారానుత్పత్తిమ్ ఏవ తిరోధాన-భూతాః కర్మాదయః కుర్వన్తి। అవిద్యా చేత్ తిరోధానం తిరోధాన-భూతతయావిద్యయా స్వరూప-భూత-ప్రకాశ-నాశ ఇతి పూర్వమ్ ఏవోక్తమ్। అస్మాకం త్వ్ అవిద్యా-రూపేణ కర్మణా స్వరూప-నిత్య-ధర్మ-భూత-ప్రకాశః సఙ్కుచితః। తేన దేవాది-స్వరూపాత్మాభిమానో భవతీతి విశేషః। యథోక్తమ్---
Link copiedఅవిద్యా కర్మ-సంజ్ఞాన్యా తృతీయా శక్తిర్ ఇష్యతే॥
Link copiedయథా క్షేత్ర-శక్తిః సా వేష్టితా నృప సర్వగా।
Link copiedసంసార-తాపాన్ అఖిలాన్ అవాప్నోత్య్ అతిసంతతాన్॥
Link copiedతయా తిరోహితత్వాచ్ చ శక్తిః క్షేత్రజ్ఞ-సంజ్ఞితా।
Link copiedసర్వ-భూతేషు భూపాలే తారతమ్యేన వర్తతే॥
Link copiedఇతి। క్షేత్రజ్ఞానాం స్వ-ధర్మ-భూతస్య జ్ఞానస్య కర్మ-సంజ్ఞావిద్యయా సఙ్కోచం వికాసం చ దర్శయతి।
Link copied॥౪౪॥
Link copiedఅపి చాచ్ఛాదికావిద్యా శ్రుతిభిశ్ చైక్యోపదేశ-బలాచ్ చ బ్రహ్మ-స్వరూప-తిరోధాన-హేయ-దోష-రూపాశ్రీయతే తస్యాశ్ చ మిథ్యా-రూపత్వేన ప్రపఞ్చవత్ స్వ-దర్శన-మూల-దోషాపేక్షత్వాత్। న సా మిథ్యా దర్శన-మూల-దోషః స్యాద్ ఇతి బ్రహ్మైవ మిథ్యా-దర్శన-మూలం స్యాత్। తస్యాశ్ చానాదిత్వేఽపి మిథ్యా-రూపత్వాద్ ఏవ బ్రహ్మ-దృశ్యత్వేనైవానాదిత్వాత్ తద్-దర్శన-మూల-పరమార్థ-దోషానభ్యుపగమాచ్ చ బ్రహ్మైవ తద్-దర్శన-మూలం స్యాత్। తస్య నిత్యత్వాద్ అనిర్మోక్ష ఏవ।
Link copied॥౪౫॥
Link copiedఅత ఏవేదమ్ అపి నిరస్తమ్ ఏకమ్ ఏవ శరీరం జీవవత్, నిర్జీవానీతరాణి శరీరాణి స్వప్న-దృష్ట-నానా-విధానన్త-శరీరాణాం యథా నిర్జీవత్వమ్। తత్ర స్వప్నే ద్రష్టుః శరీరమ్ ఏకమ్ ఏవ జీవవత్। తస్య స్వప్న-వేలాయాం దృశ్య-భూత-నానా-విధ-శరీరాణాం నిర్జీవత్వమ్ ఏవ। అనేనైకేనైవ పరికల్పితత్వాజ్ జీవా మిథ్యా-భూతా ఇతి బ్రహ్మణా స్వ-స్వరూప-వ్యతిరిక్తస్య జీవ-భావస్య సర్వ-శరీరాణాం చ కల్పితత్వాద్ ఏకస్మిన్న్ అపి శరీరే శరీరవజ్ జీవ-భావస్య చ మిథ్యా-రూపత్వాత్ సర్వాణి శరీరాణి మిథ్యా-రూపాణి, తత్ర జీవ-భావశ్ చ మిథ్యా-రూప ఇత్య్ ఏకస్య శరీరస్య తత్ర జీవ-భావస్య చ న కశ్చిద్ విశేషః। అస్మాకం తు స్వప్నే ద్రష్టుః స్వ-శరీరస్య తస్మిన్న్ ఆత్మ-సద్-భావస్య చ ప్రబోధ-వేలాయామ్ అబాధితత్వాన్ అన్యేషాం శరీరాణాం తద్-గత-జీవానాం చ బాధితత్వాత్ తే సర్వే మిథ్యా-భూతాః స్వ-శరీరమ్ ఏకం తస్మిఞ్ జీవ-భావశ్ చ పరమార్థ ఇతి విశేషః।
Link copied॥౪౬॥
Link copiedఅపి చ కేన వా విద్యా-నివృత్తిః సా కీదృశీతి వివేచనీయమ్। ఐక్య-జ్ఞానం నివర్తకం నివృత్తిశ్ చానిర్వచనీయ-ప్రత్యనీకాకారేతి చేత్। అనిర్వచనీయ-ప్రత్యనీకం నిర్వచనీయం తచ్ చ సద్ వాసద్ వా ద్వి-రూపం వా కోట్య్-అన్తరం న విద్యతే। బ్రహ్మ-వ్యతిరేకేణైతద్ అభ్యుపగమే పునర్ అవిద్యా న నివృత్తా స్యాత్। బ్రహ్మైవ చేన్ నివృత్తిస్ తత్-ప్రాగ్ అప్య్ అవిశిష్టమ్ ఇతి వేదాన్త-జ్ఞానాత్ పూర్వమ్ ఏవ నివృత్తిః స్యాత్। ఐక్య-జ్ఞానం నివర్తకం తద్-అభావాత్ సంసార ఇతి భవద్-దర్శనం విహన్యతే।
Link copied॥౪౭॥
Link copiedకిం చ నివర్తక-జ్ఞానస్యాప్య్ అవిద్యా-రూపవాత్ తన్-నివర్తనం కేనేతి వక్తవ్యమ్। నివర్తక-జ్ఞానం స్వేతర-సమస్త-భేదం నివర్త్య క్షణికత్వాద్ ఏవ స్వయమ్ ఏవ వినశ్యతి దావానల-విష-నాశన-విషాన్తరవద్ ఇతి చేన్ న। నివర్తక-జ్ఞానస్య బ్రహ్మ-వ్యతిరిక్తత్వేన తత్-స్వరూప-తద్-ఉత్పత్తి-వినాశానాం మిథ్యా-రూపత్వాత్ తద్-వినాశ-రూపా విద్యా తిష్ఠత్య్ ఏవేతి తద్-వినాశ-దర్శనస్య నివర్తకం వక్తవ్యమ్ ఏవ। దావాగ్న్య్-ఆదీనామ్ అపి పూర్వావస్థావిరోధి-పరిణామ-పరమ్పరా-వర్జనీయైవ।
Link copied॥౪౮॥
Link copiedఅపి చ చిన్మాత్రబ్రహ్మవ్యతిరిక్తకృత్స్ననిషేధవిషయజ్ఞానస్య కోఽయం జ్ఞాతా। అధ్యాసరూప ఇతి చేన్ న। తస్య నిషేధతయా నివర్తకజ్ఞానకర్మత్వాత్ తత్కర్తృత్వానుపపత్తేః। బ్రహ్మస్వరూప ఏవేతి చేన్ న। బ్రహ్మణో నివర్తకజ్ఞానం ప్రతి జ్ఞాతృత్వం కిం స్వరూపమ్ ఉతాధ్యస్తమ్। అధ్యస్తం చేద్ అయమ్ అధ్యాసస్ తన్మూలవిద్యాన్తరం చ నివర్తకజ్ఞానవిషయతయా తిష్ఠత్య్ ఏవ। తన్నివర్తకాన్తరాభ్యుపగమే తస్యాపి త్రిరూపతయానవస్థైవ। సర్వస్య హి జ్ఞానస్య త్రిరూపకత్వవిరహే జ్ఞానత్వమ్ ఏవ హీయతే। కస్యచిత్ కఞ్చనార్థవిశేషం ప్రతి సిద్ధిరూపత్వాత్। జ్ఞానస్య త్రిరూపత్వవిరహే భవతాం స్వరూపభూతజ్ఞానవన్ నివర్తకజ్ఞానమ్ అప్య్ అనివర్తకం స్యాత్। బ్రహ్మస్వరూపస్యైవ జ్ఞాతృత్వాభ్యుపగమేఽస్మదీయ ఏవ పక్షః పరిగృహీతః స్యాత్। నివర్తకజ్ఞానస్వరూపజ్ఞాతృత్వం చ స్వనివర్త్యాన్తర్గతమ్ ఇతి వచనం భూతలవ్యతిరిక్తం కృత్స్నం ఛిన్నం దేవదత్తేనేత్య్ అస్యామ్ ఏవ ఛేదనక్రియాయామ్ అస్యాశ్ ఛేదనక్రియాయాశ్ ఛేత్తృత్వస్య చ ఛేద్యాన్తర్భావవచనవద్ ఉపహాస్యమ్।
Link copied॥౪౯॥
Link copiedఅపి చ నిఖిల-భేద-నివర్తకమ్ ఇదమ్ ఐక్య-జ్ఞానం కేన జాతమ్ ఇతి విమర్శనీయమ్। శ్రుత్యైవేతి చేన్ న। తస్యా బ్రహ్మ-వ్యతిరిక్తాయా అవిద్యా-పరికల్పితత్వాత్ ప్రపఞ్చ-బాధక-జ్ఞానస్యోత్పాదకత్వం న సమ్భవతి। తథా హి దుష్ట-కారణ-జాతమ్ అపి రజ్జు-సర్ప-జ్ఞానం న దుష్ట-కారణ-జన్యేన రజ్జుర్ ఇయం న సర్ప ఇతి జ్ఞానేన బాధ్యతే। రజ్జు-సర్ప-జ్ఞాన-భయే వర్తమానే కేనచిద్ భ్రాన్తేన పురుషేణ రజ్జుర్ ఇయం న సర్ప ఇత్య్ ఉక్తేఽప్య్ అయం భ్రాన్త ఇతి జ్ఞాతే సతి తద్-వచనం రజ్జు-సర్ప-జ్ఞానస్య బాధకం న భవతి భయం చ న నివర్తతే। ప్రయోజక-జ్ఞానవతః శ్రవణ-వేలాయామ్ ఏవ హి బ్రహ్మ-వ్యతిరిక్తత్వేన శ్రుతేర్ అపి భ్రాన్తి-మూలత్వం జ్ఞాతమ్ ఇతి। నివర్తక-జ్ఞానస్య జ్ఞాతుస్ తత్-సామగ్రీ-భూత-శాస్త్రస్య చ బ్రహ్మ-వ్యతిరిక్తతయా యది బాధ్యత్వమ్ ఉచ్యతే హన్త తర్హి ప్రపఞ్చ-నివృత్తేర్ మిథ్యాత్వమ్ ఆపతతీతి ప్రపఞ్చస్య సత్యతా స్యాత్। స్వప్న-దృష్ట-పురుష-వాక్యావగత-పిత్రాది-మరణస్య మిథ్యాత్వేన పిత్రాది-సత్యతావత్। కిం చ తత్ త్వమ్ అస్య్ ఆది వాక్యం న ప్రపఞ్చస్య బాధకమ్। భ్రాన్తి-మూలత్వాద్ భ్రాన్త-ప్రయుక్త-రజ్జు-సర్ప-బాధక-వాక్యవత్।
Link copied॥౫౦॥
Link copiedనను చ స్వప్నే కస్మింశ్చిద్ భయే వర్తమానే స్వప్న-దశాయామ్ ఏవాయం స్వప్న ఇతి జ్ఞాతే సతి పూర్వ-భయ-నివృత్తిర్ దృష్టా। తద్వద్ అత్రాపి సమ్భవతీతి। నైవమ్। స్వప్న-వేలాయామ్ ఏవ సోఽపి స్వప్న ఇతి జ్ఞాతే సతి పునర్ భయానివృత్తిర్ ఏవ దృష్టేతి న కశ్చిద్ విశేషః।
Link copied॥౫౧॥
Link copiedశ్రవణవేలాయామ్ ఏవ సోఽపి స్వప్న ఇతి జ్ఞాతమ్ ఏవేత్యుక్తమ్। యద్ అపి చేదమ్ ఉక్తం భ్రాన్తిపరికల్పితత్వేన మిథ్యారూపమ్ అపి శాస్త్రమ్ అద్వితీయం బ్రహ్మేతి బోధయతి తస్య సతో బ్రహ్మణో విషయస్య పశ్చాత్ తనబాధాదర్శనాద్ బ్రహ్మ సుస్థితమ్ ఏవేతి। తద్ అయుక్తమ్। శూన్యమ్ ఏవ తత్ త్వమ్ ఇతి వాక్యేన తస్యాపి బాధితత్వాత్। ఇదం భ్రాన్తిమూలవాక్యమ్ ఇతి చేత్। సద్ అద్వితీయం బ్రహ్మేతి వాక్యమ్ అపి భ్రాన్తిమూలమ్ ఇతి త్వయైవోక్తమ్। పశ్చాత్తన-బాధాదర్శనం తు సర్వ-శూన్య-వాక్యస్యైవేతి విశేషః। సర్వ-శూన్య-వాదినో బ్రహ్మ-వ్యతిరిక్త-వస్తు-మిథ్యాత్వ-వాదినశ్ చ స్వ-పక్ష-సాధన-ప్రమాణ-పారమార్థ్యానభ్యుపగమేనాభియుక్తైర్ వాదానధికార ఏవ ప్రతిపాదితః। అధికారోఽనభ్యుపాయత్వాన్ న వాదే శూన్య-వాదినః, ఇతి।
Link copied॥౫౨॥
Link copiedఅపి చ ప్రత్యక్ష-దృష్టస్య ప్రపఞ్చస్య మిథ్యాత్వం కేన ప్రమాణేన సాధ్యతే। ప్రత్యక్షస్య దోష-మూలత్వేనాన్యథా-సిద్ధి-సమ్భవాన్ నిర్దోషం శాస్త్రమ్ అనన్యథా-సిద్ధం ప్రత్యక్షస్య బాధకమ్ ఇతి చేత్। కేన దోషేణ జాతం ప్రత్యక్షమ్ అనన్త-భేద-విషయమ్ ఇతి వక్తవ్యమ్। అనాది-భేద-వాసనాఖ్య-దోష-జాతం ప్రత్యక్షమ్ ఇతి చేత్। హన్త తర్హ్య్ అనేనైవ దోషేణ జాతం శాస్త్రమ్ అపీత్య్ ఏక-దోష-మూలత్వాచ్ ఛాస్త్ర-ప్రత్యక్షయోర్ న బాధ్య-బాధక-భావ-సిద్ధిః।
Link copied॥౫౩॥
Link copiedఆకాశ-వాయ్వ్-ఆది-భూత-తద్-ఆరబ్ధ-శబ్ద-స్పర్శాది-యుక్త-మనుష్యత్వాది-సంస్థాన-సంస్థిత-పదార్థ-గ్రాహి ప్రత్యక్షమ్। శాస్త్రం తు ప్రత్యక్షాద్య్-అపరిచ్ఛేద్య్-అసర్వాన్తరాత్మత్వ-సత్యత్వాద్య్-అనన్త-విశేషణ-విశిష్ట-బ్రహ్మ-స్వరూప-తద్-ఉపాసనాద్య్-ఆరాధన-ప్రకార-తత్-ప్రాప్తి-పూర్వక-తత్-ప్రసాద-లభ్య-ఫల-విశేష-తద్-అనిష్ట-కరణ-మూల-నిగ్రహ-విశేష-విషయమ్ ఇతి న శాస్త్ర-ప్రత్యక్షయోర్ విరోధః। అనాది-నిధనావిచ్ఛిన్న-పాట-సమ్ప్రదాయతాద్య్-అనేక-గుణ-విశిష్టస్య శాస్త్రస్య బలీయస్త్వం వదతా ప్రత్యక్ష-పారమార్థ్యమ్ అవశ్యమ్ అభ్యుపగన్తవ్యమ్ ఇత్య్ అలమ్ అనేన శ్రుతి-శత-వితతి-వాత-వేగ-పరాహత-కుదృష్టి-దుష్ట-యుక్తి-జాల-తూల-నిరసనేనేత్య్ ఉపరమ్యతే।
Link copied॥౫౪॥
Link copiedద్వితీయే తు పక్ష ఉపాధి-బ్రహ్మ-వ్యతిరిక్త-వస్త్వ్-అన్తరానభ్యుపగమాద్ బ్రహ్మణ్య్ ఏవోపాధి-సంసర్గాద్ ఔపాధికాః సర్వే దోషా బ్రహ్మణ్య్ ఏవ భవేయుః। తతశ్ చాపహత-పాప్మత్వాది-నిర్దోషత్వ-శ్రుతయః సర్వే విహన్యన్తే।
Link copied॥౫౫॥
Link copiedయథా ఘటాకాశాదేః పరిచ్ఛిన్నతయా మహాకాశాద్ వైలక్షణ్యం పరస్పర-భేదశ్ చ దృశ్యతే తత్రస్థా గుణా వా దోషా వానవచ్ఛిన్నే మహాకాశే న సమ్బధ్యన్తే ఏవమ్ ఉపాధి-కృత-భేద-వ్యవస్థిత-జీవ-గతా దోషా అనుపహితే పరే బ్రహ్మణి న సమ్బధ్యన్త ఇతి చేత్। నైతద్ ఉపపద్యతే। నిరవయవస్యాకాశస్యానవచ్ఛేద్యస్య ఘటాదిభిశ్ ఛేదాసమ్భవాత్ తేనైవాకాశేన ఘటాదయః సంయుక్తా ఇతి బ్రహ్మణోఽప్య్ అచ్ఛేద్యత్వాద్ బ్రహ్మైవోపాధి-సంయుక్తం స్యాత్। ఘట-సంయుక్తాకాశ-ప్రదేశోఽన్యస్మాద్ ఆకాశ-ప్రదేశాద్ భిద్యత ఇచ్ చేత్। ఆకాశస్యైకస్యైవ ప్రదేశ-భేదేన ఘటాది-సంయోగాద్ ఘటాదౌ గచ్ఛతి తస్య చ ప్రదేశ-భేదస్యానియమ ఇతి తద్వద్ బ్రహ్మణ్య్ ఏవ ప్రదేశ-భేదానియమేనోపాధి-సంసర్గాద్ ఉపాధౌ గచ్ఛతి సంయుక్త-వియుక్త-బ్రహ్మ-ప్రదేశ-భేదాచ్ చ బ్రహ్మణ్య్ ఏవోపాధి-సంసర్గః క్షణే క్షణే బన్ధ-మోక్షౌ స్యాతామ్ ఇతి సన్తః పరిహసన్తి।
Link copied॥౫౬॥
Link copiedనిరవయవస్యైవాకాశస్య శ్రోత్రేన్ద్రియత్వేఽపీన్ద్రియ-వ్యవస్థావద్ బ్రహ్మణ్య్ అపి వ్యవస్థోపపద్యత ఇతి చేత్। న వాయు-విశేష-సంస్కృత-కర్ణ-ప్రదేశ-సంయుక్తస్యైవాకాశ-ప్రదేశస్యేన్ద్రియత్వాత్ తస్య చ ప్రదేశాన్తరాభేదేఽపీన్ద్రియ-వ్యవస్థోపపద్యతే। ఆకాశస్య తు సర్వేషాం శరీరేషు గచ్ఛత్ స్వ-నియమేన సర్వ-ప్రదేశ-సంయోగ ఇతి బ్రహ్మణ్య్ ఉపాధి-సంయోగ-ప్రదేశానియమ ఏవ।
Link copied॥౫౭॥
Link copiedఆకాశస్య స్వరూపేణైవ శ్రోత్రేన్ద్రియత్వమ్ అభ్యుపగమ్యాపీన్ద్రియ-వ్యవస్థోక్తా। పరమార్థతస్ త్వ్ ఆకాశో న శ్రోత్రేన్ద్రియమ్। వైకారికాద్ అహఙ్కారాద్ ఏకాదశేన్ద్రియాణి జాయన్త ఇతి హి వైదికాః। యథోక్తం భగవతా పరాశరేణ---
Link copiedతైజసానీన్ద్రియాణ్య్ ఆహుర్ దేవా వైకారికా దశ।
Link copiedఏకాదశం మనశ్ చాత్ర దేవా వైకారికాః స్మృతాః॥ ఇతి।
Link copiedఅయమ్ అర్థః। వైకారికస్ తైజసో భూతాదిర్ ఇతి త్రి-విధోఽహఙ్కారః। స చ క్రమాత్ సాత్త్వికో రాజసస్ తామసశ్ చ। తత్ర తామసాద్ భూతాదేర్ ఆకాశాదీని భూతాని జాయన్త ఇతి సృష్టి-క్రమమ్ ఉక్త్వా తైజసాద్ రాజసాద్ అహఙ్కారాద్ ఏకదశేన్ద్రియాణి జాయన్త ఇతి పరమతమ్ ఉపన్యస్య సాత్త్వికాహఙ్కారాద్ వైకారికానీన్ద్రియాణి జాయన్త ఇతి స్వ-మతమ్ ఉచ్యతే దేవా వైకారికాః స్మృతా ఇతి। దేవా ఇన్ద్రియాణి। ఏవమ్ ఇన్ద్రియాణామ్ ఆహఙ్కారికాణాం భూతైశ్ చాప్య్ ఆయనం మహాభారత ఉచ్యతే। భౌతికత్వేఽపీన్ద్రియాణామ్ ఆకాశాది-భూత-వికారత్వాద్ ఏవాకాశాది-భూత-పరిణామ-విశేషా వ్యవస్థితా ఏవ శరీరవత్ పురుషాణామ్ ఇన్ద్రియాణి భవన్తీతి బ్రహ్మణ్య్ అచ్ఛేద్యే నిరవయవే నిర్వికారే త్వ్ అనియమేనానన్త-హేయోపాధి-సంసర్గ-దోషో దుష్పరిహర ఏవేతి శ్రద్దధానానామ్ ఏవాయం పక్ష ఇతి శాస్త్ర-విదో న బహు మన్యన్తే। స్వరూప-పరిణామాభ్యుపగమాద్ అవికారత్వ-శ్రుతిర్ బాధ్యతే। నిరవద్యతా చ బ్రహ్మణః శక్తి-పరిణామ ఇతి చేత్। కేయం శక్తిర్ ఉచ్యతే। కిం బ్రహ్మ-పరిణామ-రూపా। ఉత బ్రహ్మణోఽనన్యా కాపీతి। ఉభయ-పక్షేఽపి స్వరూప-పరిణామోఽవర్జనీయ ఏవ।
Link copied॥౫౮॥
Link copiedతృతీయేఽపి పక్షే జీవ-బ్రహ్మణోర్ భేదవద్ అభేదస్య చాభ్యుపగమాత్ తస్య చ తద్-భావాత్ సౌభరి-భేదవచ్ చ స్వావతార-భేదవచ్ చ సర్వస్యేశ్వర-భేదత్వాత్ సర్వే జీవ-గతా దోషాస్ తస్యైవ స్యుః। ఏతద్ ఉక్తం భవతి--- ఈశ్వరః స్వరూపేణైవ సుర-నర-తిర్యక్-స్థావరాది-భేదేనావస్థిత ఇతి హి తదాత్మకత్వ-వర్ణనం క్రియతే। తథా సత్య్ ఏక-మృత్-పిణ్డారబ్ధ-ఘట-శరావాది-గతాన్య్ ఉదకాహరణాదీని సర్వ-కార్యాణి యథా తస్యైవ భవన్తి, ఏవం సర్వ-జీవ-గత-సుఖ-దుఃఖాది సర్వమ్ ఈశ్వర-గతమ్ ఏవ స్యాత్।
Link copied॥౫౯॥
Link copiedఘట-శరావాది-సంస్థానానుపయుక్త-మృద్-ద్రవ్యం యథా కార్యాన్తరాన్వితమ్ ఏవమ్ ఏవ సుర-పశు-మనుజాది-జీవత్వానుపయుక్తేశ్వరః సర్వ-జ్ఞః సత్య-సఙ్కల్పత్వాది-కల్యాణ-గుణాకర ఇతి చేత్ సత్యం స ఏవేశ్వర ఏకేనాంశేన కల్యాణ-గుణ-గణాకరః స ఏవాన్యేనాంశేన హేయ-గుణాకర ఇత్య్ ఉక్తమ్। ద్వయోర్ అంశయోర్ ఈశ్వరావిశేషాత్। ద్వవ్ అంశౌ వ్యవస్థితవ్ ఇతి చేత్। కస్ తేన లాభః। ఏకస్యైవానేకాంశేన నిత్య-దుఃఖిత్వాద్ అంశాన్తరేణ సుఖిత్వమ్ అపి నేశ్వరత్వాయ కల్పతే। యథా దేవదత్తస్యైకస్మిన్ హస్తే చన్దన-పఙ్కానులేప-కేయూర-కటకాఙ్గులీయాలఙ్కారస్ తస్యైవాన్యస్మిన్ హస్తే ముద్గరాభిఘాతః కాలానల-జ్వాలానుప్రవేశశ్ చ తద్వద్ ఏవేశ్వరస్య స్యాద్ ఇతి బ్రహ్మాజ్ఞాన-పక్షాద్ అపి పాపీయాన్ అయం భేదాభేద-పక్షః। అపరిమిత-దుఃఖస్య పారమార్థికత్వాత్ సంసారిణామ్ అనన్తత్వేన దుస్తరత్వాచ్ చ।
Link copied॥౬౦॥
Link copiedతస్మాద్ విలక్షణోఽయం జీవాంశ ఇతి చేద్ ఆగతోఽసి తర్హి మదీయం పన్థానమ్। ఈశ్వరస్య స్వరూపేణ తాదాత్మ్య-వర్ణనే స్యాద్ అయం దోషః। ఆత్మ-శరీర-భావేన తు తాదాత్మ్య-ప్రతిపాదనే న కశ్చిద్ దోషః। ప్రత్యుత నిఖిల-భువన-నియమనాదిర్ మహాన్ అయం గుణ-గణః ప్రతిపాదితో భవతి। సామానాధికరణ్యం చ ముఖ్య-వృత్తమ్।
Link copied॥౬౧॥
Link copiedఅపి చైకస్య వస్తునో భిన్నాభిన్నత్వం విరుద్ధత్వాన్ న సమ్భవతీత్య్ ఉక్తమ్। ఘటస్య పటాద్ భిన్నత్వే సతి తస్య తస్మిన్న్ అభావః। అభిన్నత్వే సతి తస్య చ భావ ఇతి। ఏకస్మిన్ కాలే చైకస్మిన్ దేశే చైకస్య హి పదార్థస్య యుగపత్ సద్-భావోఽసద్భావశ్ చ విరుద్ధః।
Link copied॥౬౨॥
Link copiedజాత్య్-ఆత్మనా భావో వ్యక్త్య్-ఆత్మనా చాభావ ఇతి చేత్। జాతేర్ ముణ్డేన చాభావే సతి ఖణ్డే ముణ్డస్యాపి సద్-భావ-ప్రసఙ్గః। ఖణ్డేన చ జాతేర్ అభిన్నత్వే సద్-భావో భిన్నత్వే చాసద్-భావః, అశ్వే మహిషత్వస్యైవేతి విరోధో దుష్పరిహర ఏవ। జాత్య్-ఆదేర్ వస్తు-సంస్థానతయా వస్తునః ప్రకారత్వాత్ ప్రకార-ప్రకారిణోశ్ చ పదార్థాన్తరత్వం ప్రకారస్య పృథక్సిద్ధ్య్-అనర్హత్వం పృథగ్-అనుపలమ్భశ్ చ తస్య చ సంస్థానస్య చానేక-వస్తుషు ప్రకారతయావస్థితశ్ చేత్య్ ఆది పూర్వమ్ ఉక్తమ్।
Link copied॥౬౩॥
Link copiedసోఽయమ్ ఇతి బుద్ధిః ప్రకారైక్యాద్ అయమ్ అపి దణ్డీతి బుద్ధిమత్। అయం చ జాత్య్-ఆది-ప్రకారో వస్తునో భేద ఇత్య్ ఉచ్యతే। తద్-యోగ ఏవ వస్తునో భిన్నమ్ ఇతి వ్యవహార-హేతుర్ ఇత్య్ అర్థః। స చ వస్తునో భేద-వ్యవహార-హేతుః స్వస్య చ సంవేదనవత్। యథా సంవేదనం వస్తునో వ్యవహార-హేతుః స్వస్య వ్యవహార-హేతుశ్ చ భవతి।
Link copied॥౬౪॥
Link copiedఅత ఏవ సన్-మాత్ర-గ్రాహి ప్రత్యక్షం న భేద-గ్రాహీత్య్-ఆది-వాదా నిరస్తాః। జాత్య్-ఆది-సంస్థాన-సంస్థితస్యైవ వస్తునః ప్రత్యక్షేణ గృహీతత్వాత్ తస్యైవ సంస్థాన-రూప-జాత్య్-ఆదేః ప్రతియోగ్య్-అపేక్షయా భేద-వ్యవహార-హేతుత్వాచ్ చ। స్వరూప-పరిణామ-దోషశ్ చ పూర్వమ్ ఏవోక్తః।
Link copied॥౬౫॥
Link copiedయః పృథివ్యాం తిష్ఠన్ పృథివ్యా అన్తరో యం పృథివీ న వేద యస్య పృథివీ శరీరం యః పృథివీమ్ అన్తరో యమయతి ఏష త ఆత్మాన్తర్యామ్య్ అమృతః। య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో య ఆత్మా న వేద యస్యాత్మా శరీరం య ఆత్మానమ్ అన్తరో యమయతి ఏష త ఆత్మాన్తర్యామ్య్ అమృతః। యః పృథివీమ్ అన్తరే సఞ్చరన్ యస్య పృథివీ శరీరం యం పృథివీ న వేదేత్య్ ఆది యోఽక్షరమ్ అన్తరే సఞ్చరన్ యస్యాక్షరం శరీరమ్ అక్షరం న వేద యో మృత్యుమ్ అన్తరే సఞ్చరన్ యస్య మృత్యుః శరీరం యం మృత్యుర్ న వేద ఏష సర్వ-భూతాన్తరాత్మాపహత-పాప్మా దివ్యో దేవ ఏకో నారాయణః। ద్వా సుపర్ణా సయుజా సఖాయా సమానం వృక్షం పరిషస్వజాతే। తయోర్ అన్యః పిప్పలం స్వాద్వ్ అత్త్య్ అనశ్నన్న్ అన్యోఽభిచాకశీతి। అన్తః ప్రవిష్టః శాస్తా జనానాం సర్వాత్మా। తత్ సృష్ట్వా తద్ ఏవానుప్రావిశత్। తద్ అనుప్రవిశ్య సచ్ చ త్యచ్ చానృతం చ సత్యమ్ అభవత్। అనేన జీవేనాత్మనేత్య్ ఆది। పృథగ్ ఆత్మానం ప్రేరితారం మత్వా జుష్టస్ తతస్ తేనామృతత్వమ్ ఏతి। భోక్తా భోగ్యం ప్రేరితారం చ మత్వా సర్వం ప్రోక్తం త్రి-విధం బ్రహ్మ, ఏతత్। నిత్యో నిత్యానాం చేతనశ్ చేతనానామ్ ఏకో బహూనాం యో విదధాతి కామాన్। ప్రధాన-క్షేత్రజ్ఞ-పతిర్ గుణేశః। జ్ఞాజ్ఞౌ ద్వవ్ అజవ్ ఈశానీశవ్ ఇత్య్ ఆది శ్రుతి-శతైస్ తద్-ఉపబృంహణైః
Link copiedజగత్ సర్వం శరీరం తే స్థైర్యం తే వసుధా-తలమ్॥
Link copiedయత్ కిఞ్చిత్ సృజ్యతే యేన సత్త్వ-జాతేన వై ద్విజ।
Link copiedతస్య సృజ్యస్య సమ్భూతౌ తత్ సర్వం వై హరేస్ తనుః॥
Link copiedఅహమ్ ఆత్మా గుడాకేశ సర్వ-భూతాశయ-స్థితః॥
Link copiedసర్వస్య చాహం హృది సన్నివిష్టో
Link copiedమత్తః స్మృతిర్ జ్ఞానమ్ అపోహనం చ॥
Link copiedఇత్య్ ఆది వేద-విద్-అగ్రేసర-వాల్మీకి-పరాశర-ద్వైపాయన-వచోభిశ్ చ పరస్య బ్రహ్మణః సర్వస్యాత్మత్వావగమాచ్ చిద్-అచిద్-ఆత్మకస్య వస్తునస్ తచ్-ఛరీరత్వావగమాచ్ చ శరీరస్య శరీరిణం ప్రతి ప్రకారతయైవ పదార్థత్వాచ్ శరీర-శరీరిణోశ్ చ ధర్మ-భేదేఽపి తయోర్ అసఙ్కరాత్ సర్వ-శరీరం బ్రహ్మేతి బ్రహ్మణో వైభవం ప్రతిపాదయద్భిః సామానాధికరణ్యాదిభిర్ ముఖ్య-వృత్తైః సర్వ-చేతనాచేతన-ప్రకారం బ్రహ్మైవాభిధీయతే। సామానాధికరణ్యం హి ద్వయోః పదయోః ప్రకార-ద్వయ-ముఖేనైకార్థ-నిష్ఠత్వం। తస్య చైతస్మిన్ పక్షే ముఖ్యతా। తథా హి తత్ త్వమ్ ఇతి సామానాధికరణ్యే తద్ ఇత్య్ అనేన జగత్-కారణం సర్వ-కల్యాణ-గుణ-గణాకరం నిరవద్యం బ్రహ్మోచ్యతే। త్వమ్ ఇతి చ చేతన-సామానాధికరణ్య-వృత్తేన జీవాన్తర్యానిరూపి తచ్-ఛరీరం తదాత్మతయావస్థితం తత్-ప్రకారం బ్రహ్మోచ్యతే। ఇతరేషు పక్షేషు సామానాధికరణ్య-హానిర్ బ్రహ్మణః సదోషతా చ స్యాత్।
Link copied॥౬౬॥
Link copiedఏతద్ ఉక్తం భవతి--- బ్రహ్మైవమ్ అవస్థితమ్ ఇత్య్ అత్రైవం-శబ్దార్థ-భూత-ప్రకారతయైవ విచిత్ర-చేతనాచేతనాత్మక-ప్రపఞ్చస్య స్థూలస్య సూక్ష్మస్య చ సద్-భావః। తథా చ బహు స్యాం ప్రజాయేయేత్య్ అయమ్ అర్థః సమ్పన్నో భవతి। తస్యైవేశ్వరస్య కార్యతయా కారణతయా చ నానా-సంస్థాన-సంస్థితస్య సంస్థానతయా చిద్-అచిద్-వస్తు-జాతమ్ అవస్థితమ్ ఇతి।
Link copied॥౬౭॥
Link copiedనను చ సంస్థాన-రూపేణ ప్రకారతయైవం-శబ్దార్థత్వం జాతి-గుణయోర్ ఏవ దృష్టం న ద్రవ్యస్య। స్వతన్త్ర-సిద్ధి-యోగ్యస్య పదార్థస్యైవం-శబ్దార్థతయేశ్వరస్య ప్రకార-మాత్రత్వమ్ అయుక్తం। ఉచ్యతే--- ద్రవ్యస్యాపి దణ్డ-కుణ్డలాదేర్ ద్రవ్యాన్తర-ప్రకారత్వం దృష్టమ్ ఏవ। నను చ దణ్డాదేః స్వతన్త్రస్య ద్రవ్యాన్తర-ప్రకారత్వే మత్వర్థీయ-ప్రత్యయో దృష్టః। యథా దణ్డీ కుణ్డలీతి। అతో గోత్వాది-తుల్యతయా చేతనాచేతనస్య ద్రవ్య-భూతస్య వస్తున ఈశ్వర-ప్రకారతయా సామానాధికరణ్యేన ప్రతిపాదనం న యుజ్యతే। అత్రోచ్యతే--- గౌర్ అశ్వో మనుష్యో దేవ ఇతి భూత-సఙ్ఘాత-రూపాణాం ద్రవ్యాణామ్ ఏవ దేవదత్తో మనుష్యో జాతః పుణ్య-విశేషేణ యజ్ఞదత్తో గౌర్ జాతః పాపేన, అన్యశ్ చేతనః పుణ్యాతిరేకేణ దేవో జాత ఇత్య్ ఆది దేవాది-శరీరాణాం చేతన-ప్రకారతయా లోక-దేవయోః సామానాధికరణ్యేన ప్రతిపాదనం దృష్టమ్।
Link copied॥౬౮॥
Link copiedఅయమ్ అర్థః--- జాతిర్ వా గుణో వా ద్రవ్యం వా న తత్రాదరః। కఞ్చన ద్రవ్య-విశేషం ప్రతి విశేషణతయైవ యస్య సద్-భావస్ తస్య తద్-అపృథక్సిద్ధేస్ తత్-ప్రకారతయా తత్-సామానాధికరణ్యేన ప్రతిపాదనం యుక్తమ్। యస్య పునర్ ద్రవ్యస్య పృథక్సిద్ధస్యైవ కదాచిత్ క్వచిద్ ద్రవ్యాన్తర-ప్రకారత్వమ్ ఇష్యతే తత్ర మత్వర్థీయ-ప్రత్యయ ఇతి విశేషః। ఏవమ్ ఏవ స్థావర-జఙ్గమాత్మకస్య సర్వస్య వస్తున ఈశ్వర-శరీరత్వేన తత్-ప్రకారతయైవ స్వరూప-సద్-భావ ఇతి। తత్-ప్రకారీశ్వర ఏవ తత్-తచ్-ఛబ్దేనాభిధీయత ఇతి తత్-సామానాధికరణ్యేన ప్రతిపాదనం యుక్తం। తద్ ఏవైతత్ సర్వం పూర్వమ్ ఏవ నామ-రూప-వ్యాకరణ-శ్రుతి-వివరణే ప్రపఞ్చితమ్।
Link copied॥౬౯॥
Link copiedఅతః ప్రకృతి-పురుష-మహద్-అహఙ్కార-తన్మాత్ర-భూతేన్ద్రియ-తద్-ఆరబ్ధ-చతుర్దశ-భువనాత్మక-బ్రహ్మాణ్డ-తద్-అన్తర్వర్తి-దేవ-తిర్యఙ్-మనుష్య-స్థావరాది-సర్వ-ప్రకార-సంస్థాన-సంస్థితం కార్యమ్ అపి సర్వం బ్రహ్మైవేతి కారణ-భూత-బ్రహ్మ-విజ్ఞానాద్ ఏవ సర్వం విజ్ఞాతం భవతీత్య్ ఏక-విజ్ఞానేన సర్వ-విజ్ఞానమ్ ఉపపన్నతరమ్। తద్ ఏవం కార్య-కారణ-భావాది-ముఖేన కృత్స్నస్య చిద్-అచిద్-వస్తునః పరబ్రహ్మ-ప్రకారతయా తదాత్మకత్వమ్ ఉక్తమ్।
Link copied॥౭౦॥
Link copiedనను చ పరస్య బ్రహ్మణః స్వరూపేణ పరిణామాస్పదత్వం నిర్వికారత్వ-నిరవద్యత్వ-శ్రుతి-వ్యాకోప-ప్రసఙ్గేన నివారితమ్। ప్రకృతిశ్ చ ప్రతిజ్ఞాదృష్టాన్తానుపరోధాద్ ఇత్య్ ఏక-విజ్ఞానేన సర్వ-విజ్ఞాన-ప్రతిజ్ఞాన-మృత్-తత్-కార్య-దృష్టాన్తాభ్యాం పరమ-పురుషస్య జగద్-ఉపాదాన-కారణత్వం చ ప్రతిపాదితమ్। ఉపాదాన-కారణత్వం చ పరిణామాస్పదత్వమ్ ఏవ। కథమ్ ఇదమ్ ఉపపద్యతే।
Link copied॥౭౧॥
Link copiedఅత్రోచ్యతే--- సజీవస్య ప్రపఞ్చస్యావిశేషేణ కారణత్వమ్ ఉక్తమ్। తత్రేశ్వరస్య జీవ-రూప-పరిణామాభ్యుపగమేన నాత్మా శ్రుతేర్ నిత్యత్వాచ్ చ తాభ్య ఇతి విరుధ్యతే। వైషమ్య-నైర్ఘృణ్య-పరిహారశ్ చ జీవనమ్ అనాదిత్వాభ్యుపగమేన తత్-కర్మ-నిమిత్తతయా ప్రతిపాదితః వైషమ్య-నైర్ఘృణ్యే న సాపేక్షత్వాన్ న కర్మ-విభాగాద్ ఇతి చేన్ నానాదిత్వాద్ ఉపపద్యతే చాప్య్ ఉపలభ్యతే చేత్య్ అకృతాభ్యాగమకృత-విప్రణాశ-ప్రసఙ్గశ్ చానిత్యత్వేఽభిహితః।
Link copied॥౭౨॥
Link copiedతథా ప్రకృతేర్ అప్య్ అనాదితా శ్రుతిభిః ప్రతిపదితా---
Link copiedఅజామ్ ఏకాం లోహిత-శుక్ల-కృష్ణాం బహ్వీం ప్రజాం జనయన్తీం సరూపామ్।
Link copiedఅజో హ్య్ ఏకో జుషమాణోఽనుశేతే జహాత్య్ ఏనాం భుక్త-భోగామ్ అజోఽన్యః॥
Link copiedఇతి ప్రకృతి-పురుషయోర్ అజత్వం దర్శయతి। అస్మాన్ మాయీ సృజతే విశ్వమ్ ఏతత్ తస్మింశ్ చాన్యో మాయయా సన్నిరుద్ధః, మాయాం తు ప్రకృతిం విద్యాన్ మాయినం తు మహేశ్వరమ్ ఇతి ప్రకృతిర్ ఏవ స్వరూపేణ వికారాస్పదమ్ ఇతి చ దర్శయతి। గౌర్ అనాద్యన్తవతీ సా జనిత్రీ భూత-భావినీతి చ। స్మృతిశ్ చ భవతి---
Link copiedప్రకృతిం పురుషం చైవ విద్ధ్య్ అనాదీ ఉభవ్ అపి।
Link copiedవికారాంశ్ చ గుణాంశ్ చైవ విద్ధి ప్రకృతి-సమ్భవాన్॥
Link copiedభూమిర్ ఆపోఽనలో వాయుః ఖం మనో బుద్ధిర్ ఏవ చ।
Link copiedఅహఙ్కార ఇతీయం మే భిన్నా ప్రకృతిర్ అష్టధా॥
Link copiedఅపరేయమ్ ఇతస్ త్వ్ అన్యాం ప్రకృతిం విద్ధి మే పరామ్।
Link copiedజీవ-భూతాం మహా-బాహో యయేదం ధార్యతే జగత్॥
Link copiedప్రకృతిం స్వామ్ అవష్టభ్య విసృజామి పునః పునః।
Link copiedమయాధ్యక్షేణ ప్రకృతిః సూయతే సచరాచరమ్॥
Link copiedఇత్య్ ఆదికా।
Link copied॥౭౩॥
Link copiedఏవం చ ప్రకృతేర్ అపీశ్వర-శరీరత్వాత్ ప్రకృతి-శబ్దోఽపి తదాత్మ-భూతస్యేశ్వరస్య తత్-ప్రకార-సంస్థితస్య వాచకః। పురుష-శబ్దోఽపి తదాత్మ-భూతస్యేశ్వరస్య పురుష-ప్రకార-సంస్థితస్య వాచకః। అతస్ తద్-వికారాణామ్ అపి తథేశ్వర ఏవాత్మా। తద్ ఆహ---
Link copiedవ్యక్తం విష్ణుస్ తథావ్యక్తం పురుషః కాల ఏవ చ।
Link copiedసా ఏవ క్షోభకో బ్రహ్మన్ క్షోభ్యశ్ చ పరమేశ్వరః॥
Link copiedఇతి। అతః ప్రకృతి-ప్రకార-సంస్థితే పరమాత్మని ప్రకార-భూత-ప్రకృత్య్-అంసే వికారః ప్రకార్య్-అంసే చావికారః। ఏవమ్ ఏవ జీవ-ప్రకార-సంస్థితే పరమాత్మని చ ప్రకార-భూత-జీవాంశే సర్వే చాపురుషార్థాః ప్రకార్య్-అంశో నియన్తా నిరవద్యః సర్వ-కల్యాణ-గుణాకరః సత్య-సఙ్కల్ప ఏవ।
Link copied॥౭౪॥
Link copiedతథా చ సతి కారణావస్థ ఈశ్వర ఏవేతి తద్-ఉపాదానక-జగత్-కార్యావస్థోఽపి స ఏవేతి కార్య-కారణయోర్ అనన్యత్వం సర్వ-శ్రుత్య్-అవిరోధశ్ చ భవతి। తద్ ఏవం నామ-రూప-విభాగానర్హ-సూక్ష్మ-దశాపన్న-ప్రకృతి-పురుష-శరీరం బ్రహ్మ కారణావస్థం, జగతస్ తద్-ఆపత్తిర్ ఏవ చ ప్రలయః। నామ-రూప-విభాగ-విభక్త-స్థూల-చిద్-అచిద్-వస్తు-శరీరం బ్రహ్మ కార్యత్వం, బ్రహ్మణస్ తథావిధ-స్థూల-భావ ఏవ జగతః సృష్టిర్ ఇత్య్ ఉచ్యతే। యథోక్తం భగవతా పరాశరేణ---
Link copiedప్రధాన-పుంసోర్ అజయోః కారణం కార్య-భూతయోః। ఇతి।
Link copied॥౭౫॥
Link copiedతస్మాద్ ఈశ్వర-ప్రకార-భూత-సర్వావస్థ-ప్రకృతి-పురుష-వాచినః శబ్దాస్ తత్-ప్రకార-విశిష్టతయావస్థితే పరమాత్మని ముఖ్యతయా వర్తన్తే। జీవాత్మ-వాచి-దేవ-మనుష్య-శబ్దవత్। యథా దేవ-మనుష్యాది-శబ్దా దేవ-మనుష్యాది-ప్రకృతి-పరిణామ-విశేషాణాం జీవాత్మ-ప్రకారతయైవ పదార్థత్వాత్ ప్రకారిణి జీవాత్మని ముఖ్యతయా వర్తన్తే। తస్మాత్ సర్వస్య చిద్-అచిద్-వస్తునః పరమాత్మ-శరీరతయా తత్-ప్రకారత్వాత్ పరమాత్మని ముఖ్యతయా వర్తన్తే సర్వే వాచకాః శబ్దాః।
Link copied॥౭౬॥
Link copiedఅయమ్ ఏవ చాత్మ-శరీర-భావః పృథక్సిద్ధ్య్-అనర్హాధారాధేయ-భావో నియన్తృ-నియామ్య-భావః శేష-శేషి-భావశ్ చ। సర్వాత్మనాధారతయా నియన్తృతయా శేషితయా చాప్నోతీత్య్ ఆత్మా సర్వాత్మనాధేయతయా నియామ్యతయా శేషతయా చాపృథక్సిద్ధం ప్రకార-భూతమ్ ఇత్య్ ఆకారః శరీరమ్ ఇతి చోచ్యతే। ఏవమ్ ఏవ హి జీవాత్మనః స్వ-శరీర-సమ్బన్ధః। ఏవమ్ ఏవ పరమాత్మనః సర్వ-శరీరత్వేన సర్వ-శబ్ద-వాచ్యత్వమ్।
Link copied॥౭౭॥
Link copiedతద్ ఆహ శ్రుతి-గణః--- సర్వే వేదా యత్ పదమ్ ఆమనన్తి సర్వే వేదా యత్రైకం భవన్తీతి। తస్యైకస్య వాచ్యత్వాద్ ఏకార్థ-వాచినో భవన్తీత్య్ అర్థః। ఏకో దేవో బహుధా నివిష్టః, సహైవ సన్తం న విజానన్తి దేవా ఇత్య్ ఆది। దేవా ఇన్ద్రియాణి। దేవ-మనుష్యాదీనామ్ అన్తర్యామితయాత్మత్వేన నివిశ్య సహైవ సన్తం తేషామ్ ఇన్ద్రియాణి మనః-పర్యన్తాని న విజానన్తీత్య్ అర్థః। తథా చ పౌరాణికాని వచాంసి---
Link copiedనతాః స్మ సర్వ-వచసాం ప్రతిష్ఠా యత్ర శశ్వతీ।
Link copiedవాచ్యే హి వచసః ప్రతిష్ఠా।
Link copiedకార్యాణాం కారణాం పూర్వం వచసాం వాచ్యమ్ ఉత్తమమ్।
Link copiedవేదైశ్ చ సర్వైర్ అహమ్ ఏవ వేద్యః।
Link copiedఇత్య్ ఆదీని సర్వాణి హి వచాంసి సశరీరాత్మ-విశిష్టమ్ అన్తర్యామిణమ్ ఏవాచక్షతే। హన్తాహమ్ ఇమాస్ తిస్రో దేవతా అనేన జీవేనాత్మానుప్రవిశ్య నామ-రూపే వ్యాకరవాణీతి హి శ్రుతిః। తథా చ మానవం వచః---
Link copiedప్రశాసితారం సర్వేషామ్ అణీయాంసమ్ అణీయసామ్।
Link copiedరుక్మాభం స్వప్నధీ-గమ్యం విద్యాత్ తం పురుషం పరమ్॥
Link copiedఅన్తః ప్రవిశ్యాన్తర్యామితయా సర్వేషాం ప్రశాసితారం నియన్తారమ్ అణీయాంస ఆత్మానః కృత్స్నస్యాచేతనస్య వ్యాపకతయా సూక్ష్మ-భూతాస్ తే తేషామ్ అపి వ్యాపకత్వాత్ తేభ్యోఽపి సూక్ష్మతర ఇత్య్ అర్థః రుక్మాభః ఆదిత్య-వర్ణః స్వప్న-కల్ప-బుద్ధి-ప్రాప్యః, విశదతమ-ప్రత్యక్షతాపన్నానుధ్యానైక-లభ్య ఇత్య్ అర్థః।
Link copiedఏనమ్ ఏకే వదన్త్య్ అగ్నిం మారుతోఽన్యే ప్రజాపతిమ్।
Link copiedఇన్ద్రమ్ ఏకే పరే ప్రమాణమ్ అపరే బ్రహ్మ శాశ్వతమ్॥
Link copiedఇతి। ఏకే వేదా ఇత్య్ అర్థః। ఉక్త-రీత్యా పరస్యైవ బ్రహ్మణః సర్వస్య ప్రశాసితృత్వేన సర్వాన్తరాత్మతయా ప్రవిశ్యావస్థితత్వాద్ అగ్న్య్-ఆదయః శబ్దా అపి శాశ్వత-బ్రహ్మ-శబ్దవత్ తస్యైవ వాచకా భవన్తీత్య్ అర్థః। తథా చ స్మృత్య్-అన్తరమ్---
Link copiedయే యజన్తి పితౄన్ దేవాన్ బ్రాహ్మణాన్ సహుతాశనాన్।
Link copiedసర్వ-భూతాన్తరాత్మానం విష్ణుమ్ ఏవ యజన్తి తే॥
Link copiedఇతి। పితృ-దేవ-బ్రాహ్మణ-హుతాశనాది-శబ్దాస్ తన్-ముఖేన తద్-అన్తరాత్మ-భూతస్య విష్ణోర్ ఏవ వాచకా ఇత్య్ ఉక్తం భవతి।
Link copied॥౭౮॥
Link copiedఅత్రేదం సర్వ-శాస్త్ర-హృదయం జీవాత్మానః స్వయమ్ అసఙ్కుచితాపరిచ్ఛిన్న-నిర్మల-జ్ఞాన-స్వరూపాః సన్తః కర్మ-రూపావిద్యావేష్టితాస్ తత్-తత్-కర్మానురూప-జ్ఞాన-సఙ్కోచమ్ ఆపన్నాః, బ్రహ్మాది-స్తమ్బ-పర్యన్త-వివిధ-విచిత్ర-దేహేషు ప్రవిశ్టాస్ తత్-తద్-దేహోచిత-లబ్ధ-జ్ఞాన-ప్రసరాస్ తత్-తద్-దేహాత్మాభిమానినస్ తద్-ఉచిత-కర్మాణి కుర్వాణాస్ తద్-అనుగుణ-సుఖ-దుఃఖోపభోగ-రూప-సంసార-ప్రవాహం ప్రతిపద్యన్తే। ఏతేషాం సంసార-మోచనం భగవత్-ప్రపత్తిమ్ అన్తరేణ నోపపద్యత ఇతి తద్-అర్థః ప్రథమమ్ ఏషాం దేవాది-భేద-రహిత-జ్ఞానైకాకారతయా సర్వేషాం సామ్యం ప్రతిపాద్య, తస్యాపి స్వరూపస్య భగవచ్-ఛేషతైకరసతయా భగవద్-ఆత్మకతామ్ అపి ప్రతిపాద్య, భగవత్-స్వరూపం చ హేయ-ప్రత్యనీక-కల్యాణైకతానతయా సకలేతర-విసజాతీయమ్ అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణాశ్రయం స్వ-సఙ్కల్ప-ప్రవృత్త-సమస్త-చిద్-అచిద్-వస్తు-జాతతయా సర్వస్యాత్మ-భూతం ప్రతిపాద్య తద్-ఉపాసన-సాఙ్గం తత్-ప్రాపకం ప్రతిపదయన్తి శాస్త్రాణీతి।
Link copied॥౭౯॥
Link copiedయథోక్తమ్---
Link copiedనిర్వాణ-మయ ఏవాయమ్ ఆత్మా జ్ఞాన-మయోఽమలః।
Link copiedదుఃఖాజ్ఞాన-మలా ధర్మా ప్రకృతేస్ తే న చాత్మనః।
Link copiedఇతి ప్రకృతి-సంసర్గ-కృత-కర్మ-మూలత్వాన్ నాత్మ-స్వరూప-ప్రయుక్తా ధర్మా ఇత్య్ అర్థః। ప్రాప్తాప్రాప్త-వివేకేన ప్రకృతేర్ ఏవ ధర్మా ఇత్య్ ఉక్తమ్।
Link copiedవిద్యా-వినయ-సమ్పన్నే బ్రాహ్మణే గవి హస్తిని।
Link copiedశుని చైవ శ్వ-పాకే చ పాణ్డితాః సమ-దర్శినః।
Link copiedఇతి। దేవ-తిర్యఙ్-మనుష్య-స్థావర-రూప-ప్రకృతి-సంసృష్టస్యాత్మనః స్వరూప-వివేచనీ బుద్ధిర్ ఏషాం తే పణ్డితాః। తత్-తత్-ప్రకృతి-విశేష-వియుక్తాత్మ-యాథాత్మ్య-జ్ఞానవన్తస్ తత్ర తత్రాత్యన్త-విషమాకారే వర్తమానమ్ ఆత్మానం సమానాకారం పశ్యన్తీతి సమ-దర్శిన ఇత్య్ ఉక్తమ్। తద్ ఇదమ్ ఆహ---
Link copiedఇహైవ తైర్ జితః సర్గో యేషాం సామ్యే స్థితం మనః।
Link copiedనిర్దోషం హి సమం బ్రహ్మ తస్మాద్ బ్రహ్మణి తే స్థితాః॥
Link copiedఇతి। నిర్దోషం దేవాది-ప్రకృతి-విశేష-సంసర్గ-రూప-దోష-రహితం స్వరూపేణావస్థితం సర్వమ్ ఆత్మ-వస్తు నిర్వాణ-రూప-జ్ఞానైకాకారతయా సమమ్ ఇత్య్ అర్థః।
Link copied॥౮౦॥
Link copiedతస్యైవమ్భూతస్యాత్మనో భగవచ్-ఛేషతైకరసతా తన్-నియామ్యతా తద్-ఏకాధారతా చ తచ్-ఛరీర-తత్-తను-ప్రభృతిభిః శబ్దైస్ తత్-సమానాధికరణ్యేన చ శ్రుతి-స్మృతీతిహాస-పురాణేషు ప్రతిపాద్యత ఇతి పూర్వమ్ ఏవోక్తమ్।
Link copied॥౮౧॥
Link copiedదైవీ హ్య్ ఏషా గుణ-మయీ మమ మాయా దురత్యయా।
Link copiedమామ్ ఏవ యే ప్రపద్యన్తే మాయామ్ ఏతాం తరన్తి తే॥
Link copiedఇతి తస్యాత్మనః కర్మ-కృత-విచిత్ర-గుణ-మయ-ప్రకృతి-సంసర్గ-రూపాత్ సంసారాన్ మోక్షో భగవత్-ప్రపత్తిమ్ అన్తరేణ నోపపద్యత ఇత్య్ ఉక్తం భవతి। నాన్యః పన్థా అయనాయ విద్యత ఇత్య్ ఆది శ్రుతిభిశ్ చ।
Link copiedమయా తతమ్ ఇదం సర్వం జగద్ అవ్యక్త-మూర్తినా।
Link copiedమత్-స్థాని సర్వ-భూతాని న చాహం తేష్వ్ అవస్థితః॥
Link copiedన చ మత్-స్థాని భూతాని పశ్య మే యోగమ్ ఐశ్వరమ్॥
Link copiedఇతి సర్వ-శక్తి-యోగాత్ స్వైశ్వర్య-వైచిత్ర్యమ్ ఉక్తమ్। తద్ ఆహ---
Link copiedవిష్టభ్యాహమ్ ఇదం కృత్స్నమ్ ఏకాంశేన స్థితో జగత్।
Link copiedఇత్య్ అనన్త-విచిత్ర-మహాశ్చర్య-రూపం జగన్ మమాయుతాంశేనాత్మతయా ప్రవిశ్య సర్వం మత్-సఙ్కల్పేన విష్టభ్యానేన రూపేణానన్త-మహా-విభూతి-పరిమితోదార-గుణ-సాగరో నిరతిశయాశ్చర్య-భూతః స్థితోఽహమ్ ఇత్య్ అర్థః। తద్ ఇదమ్ ఆహ---
Link copiedఏకత్వే సతి నానాత్వం నానాత్వే సతి చైకతా।
Link copiedఅచిన్త్యం బ్రహ్మణో రూపం కుతస్ తద్ వేదితుమ్ అర్హతి॥
Link copiedఇతి। ప్రశాసితృత్వేనైక ఏవ సన్ విచిత్ర-చిద్-అచిద్-వస్తుష్వ్ అన్తరాత్మతయా ప్రవిశ్య తత్-తద్-రూపేణ విచిత్ర-ప్రకారో విచిత్ర-కర్మ కారయన్ నానా-రూపాం భజతే। ఏవం స్వల్పాంశేన తు సర్వాశ్చర్యం నానా-రూపం జగత్-తద్-అన్తరాత్మతయా ప్రవిశ్య విష్టభ్య నానాత్వేనావస్థితోఽపి సన్న్ అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణః సర్వేశ్వరః పరబ్రహ్మ-భూతః పురుషోత్తమో నారాయణో నిరతిశయాశ్చర్య-భూతో నీల-తోయద-సఙ్కాశః పుణ్డరీక-దలామలాయతేక్షణః సహస్రాంశు-సహస్ర-కిరణః పరమే వ్యోమ్ని యో వేద నిహితం గుహాయాం పరమే వ్యోమంస్ తద్-అక్షరే పరమే వ్యోమన్న్ ఇత్య్ ఆది శ్రుతి-సిద్ధ ఏక ఏవాతిష్ఠతే।
Link copied॥౮౨॥
Link copiedబ్రహ్మ-వ్యతిరిక్తస్య కస్యచిద్ అపి వస్తున ఏక-స్వభావస్యైక-కార్య-శక్తి-యుక్తస్యైక-రూపస్య రూపాన్తర-యోగః స్వభావాన్తర-యోగః శక్త్య్-అన్తర-యోగశ్ చ న ఘటతే। తస్యైతస్య పరబ్రహ్మణః సర్వ-వస్తు-విజాతీయతయా సర్వ-స్వభావత్వం సర్వ-శక్తి-యోగశ్ చేత్య్ ఏకస్యైవ విచిత్రానన్త-రూపతా చ పునర్ అప్య్ అనన్తాపరిమితాశ్చర్య-యోగేనైక-రూపతా చ న విరుద్ధేతి వస్తు-మాత్ర-సామ్యాద్ విరోధ-చిన్తా న యుక్తేత్య్ అర్థః। యథోక్తం---
Link copiedశక్తయః సర్వ-భావానామ్ అచిన్త్య-జ్ఞాన-గోచరాః।
Link copiedయతోఽతో బ్రహ్మణస్ తాస్ తు సర్గాద్యా భావ-శక్తయః॥
Link copiedభవన్తి తపసాం శ్రేష్ట పావకస్య యథోష్ణతా॥ఇతి।
Link copiedఏతద్ ఉక్తం భవతి సర్వేషామ్ అగ్ని-జలాదీనాం భావానామ్ ఏకస్మిన్న్ అపి భావే దృష్టైవ శక్తిస్ తద్-విజాతీయ-భావాన్తరేఽపీతి న చిన్తయితుం యుక్తా జలాదావ్ అదృష్టాపి తద్-విజాతీయ-పావకే భాస్వరత్వోష్ణతాది-శక్తిర్ యథా దృశ్యతే, ఏవమ్ ఏవ సర్వ-వస్తు-విసజాతీయే బ్రహ్మణి సర్వ-సామ్యం నానుమాతుం యుక్తమ్ ఇతి। అతో విచిత్రానన్త-శక్తి-యుక్తం బ్రహ్మైవేత్య్ అర్థః తద్ ఆహ---
Link copiedజగద్ ఏతన్ మహాశ్చర్యం రూపం యస్య మహాత్మనః।
Link copiedతేనాశ్చర్య-వరేణాహం భవతా కృష్ణ సఙ్గతః॥
Link copiedఇతి।
Link copied॥౮౩॥
Link copiedతద్ ఏతన్ నానా-విధానన్త-శ్రుతి-నికర-శిష్ట-పరిగృహీత-తద్-వ్యాఖ్యాన-పరిశ్రమాద్ అవధారితమ్। తథా హి ప్రమాణాన్తరాపరిదృష్టాపరిమిత-పరిణామాన్ ఏక-తత్త్వ-నియత-క్రమ-విశిష్టౌ సృష్టి-ప్రలయౌ బ్రహ్మణోఽనేక-విధాః శ్రుతయో వదన్తి నిరవద్యం నిరఞ్జనం విజ్ఞానమ్ ఆనన్దం నిర్వికారం నిష్కలం నిష్క్రియం శాన్తం నిర్గుణమ్ ఇత్య్ ఆదికాః నిర్గుణం జ్ఞాన-స్వరూపం బ్రహ్మేతి కాశ్చన శ్రుతయోఽభిదధతి। నేహ నానాస్తి కిఞ్చన మృత్యోః స మృత్యుమ్ ఆప్నోతి య ఇహ నానేవ పశ్యతి యత్ర త్వ్ అస్య సర్వమ్ ఆత్మైవాభూత్ తత్ కేన కం పశ్యేత్ తత్ కేన కం విజాతీయాద్ ఇత్య్ ఆదికా నానాత్వ-నిషేధ-వాదిన్యః సన్తి కాశ్చన శ్రుతయః। యః సర్వ-జ్ఞః సర్వ-విద్ యస్య జ్ఞాన-మయం తపః సర్వాణి రూపాణి విచిత్య ధీరో నామాని కృత్వాభివదన్ యద్ ఆస్తే సర్వే నిమేషా జజ్ఞిరే విద్యుతః పురుషాదధి అపహత-పాప్మా విజరో విమృత్యుర్ విశోకో విజఘత్సోఽపిపాసః సత్య-కామః సత్య-సఙ్కల్ప ఇతి సర్వస్మిఞ్ జగతి హేయతయావగతం సర్వ-గుణం ప్రతిషిధ్య నిరతిశయ-కల్యాణ-గుణానన్త్యం సర్వజ్ఞతా సర్వ-శక్తి-యోగం సర్వ-నామ-రూప-వ్యాకరణం సర్వస్యావధారతాం చ కాశ్చన శ్రుతయో బ్రువతే। సర్వం ఖల్వ్ ఇదం బ్రహ్మ తజ్ జలాన్ ఇతి ఐతదాత్మ్యమ్ ఇదం సర్వమ్ ఏకః సన్ బహుధా విచార ఇత్య్ ఆదికా బ్రహ్మ-సృష్టం జగన్ నానాకారం ప్రతిపాద్య తద్-ఐక్యం చ ప్రతిపాదయన్తి కాశ్చన। పృథగ్ ఆత్మానం ప్రేరితారం చ మత్వా భోక్తా భోగ్యం ప్రేరితారం చ మత్వా ప్రజాపతిర్ అకామయత ప్రజాః సృజేయేతి పతిం విశ్వస్యాత్మేశ్వరం శాశ్వతం శివమ్ అచ్యుతం తమ్ ఈశ్వరాణాం పరం మహేశ్వరం తం దేవతానాం పరం చ దైవతం సర్వస్య వశీ సర్వస్యేశాన ఇత్య్ ఆదికా బ్రహ్మణః సర్వస్మాద్ అన్యత్వం సర్వస్యేశితవ్యమ్ ఈశ్వరత్వం చ బ్రహ్మణః సర్వస్య శేషతాం పతిత్వం చేశ్వరస్య కాశ్చన। అన్తః ప్రవిష్టః శాస్తా జనానాం సర్వాత్మా ఏష త ఆత్మాన్తర్యామ్య్ అమృతః యస్య పృథివీ శరీరం యస్యాపః శరీరం యస్య తేజః శరీరమ్ ఇత్య్ ఆది యస్యావ్యక్తం శరీరం యస్యాక్షరం శరీరం యస్య మృత్యుః శరీరం యస్యాత్మా శరీరమ్ ఇతి బ్రహ్మ-వ్యతిరిక్తస్య సర్వస్య వస్తునో బ్రహ్మణశ్ చ శరీరాత్మ-భావం దర్శయన్తి కాశ్చనేతి।
Link copied॥౮౪॥
Link copiedనానా-రూపాణాం వాక్యానామ్ అవిరోధో ముఖ్యార్థాపరిత్యాగశ్ చ యథా సమ్భవతి తథా వర్ణనీయమ్। వర్ణితం చ అవికార-శ్రుతయః స్వరూప-పరిణామ-పరిహారాద్ ఏవ ముఖ్యార్థాః। నిర్గుణ-వాదాశ్ చ ప్రాకృత-హేయ-గుణ-నిషేధ-పరతయా వ్యవస్థితాః। నానాత్వ-నిషేధ-వాదాశ్ చైకస్య బ్రహ్మణః శరీరతయా ప్రకార-భూతం సర్వం చేతనాచేతనం వస్త్వ్ ఇతి సర్వస్యాత్మతయా సర్వ-ప్రకారం బ్రహ్మైవావస్థితమ్ ఇతి సురక్షితాః। సర్వ-ప్రకార-విలక్షణత్వ-పతిత్వేశ్వరత్వ-సర్వ-కల్యాణ-గుణ-గణాకారత్వ-సత్య-కామత్వ-సత్య-సఙ్కల్పత్వాది-వాక్యం తద్-అభ్యుపగమాద్ ఏవ సురక్షితమ్। జ్ఞానానన్ద-మాత్ర-వాది చ సర్వస్మాద్ అన్యస్య సర్వ-కల్యాణ-గుణ-గణాశ్రయస్య సర్వేశ్వరస్య సర్వ-శేషిణః సర్వాధారస్య సర్వోత్పత్తి-స్థితి-ప్రలయ-హేతు-భూతస్య నిరవద్యస్య నిర్వికారస్య సర్వాత్మ-భూతస్య పరస్య బ్రహ్మణః స్వరూప-నిరూపక-ధర్మో మల-ప్రత్యనీకానన్ద-రూప-జ్ఞానమ్ ఏవేతి స్వ-ప్రకాశతయా స్వరూపమ్ అపి జ్ఞానమ్ ఏవేతి చ ప్రతిపాదనాద్ అనుపాలితమ్। ఐక్య-వాదాశ్ చ శరీరాత్మ-భావేన సామానాధికరణ్య-ముఖ్యార్థతోపపాదనాద్ ఏవ సుస్థితాః।
Link copied॥౮౫॥
Link copiedఏవం చ సత్య్ అభేదో వా భేదో వా ద్వ్య్-ఆత్మకతా వా వేదాన్త-వేద్యః కోఽయమ్ అర్థః సమర్థితో భవతి। సర్వస్య వేద-వేద్యత్వాత్ సర్వం సమర్థితమ్। సర్వ-శరీరతయా సర్వ-ప్రకారం బ్రహ్మైవావస్థితమ్ ఇత్య్ అభేదః సమర్థితః। ఏకమ్ ఏవ బ్రహ్మ నానా-భూత-చిద్-అచిద్-వస్తు-ప్రకారం నానాత్వేనావస్థితమ్ ఇతి భేదాభేదౌ। అచిద్-వస్తునశ్ చిద్-వస్తునశ్ చేశ్వరస్య చ స్వరూప-స్వభావ-వైలక్షణ్యాద్ అసఙ్కరాచ్ చ భేదః సమర్థితః।
Link copied॥౮౬॥
Link copiedనను చ తత్ త్వమ్ అసి శ్వేతకేతో తస్య తావద్ ఏవ చిరమ్ ఇత్య్ ఐక్య-జ్ఞానమ్ ఏవ పరమ-పురుషార్థ-లక్షణ-మోక్ష-సాధనమ్ ఇతి గమ్యతే। నైతద్ ఏవమ్। పృథగ్ ఆత్మానం ప్రేరితారం చ మత్వా జుష్టస్ తతస్ తేనామృతత్వమ్ ఏతీత్య్ ఆత్మానం ప్రేరితారం చాన్తర్యామిణం పృథగ్ మత్వా తతః పృథక్త్వ-జ్ఞానాద్ ధేతోస్ తేన పరమాత్మనా జుష్టోఽమృతత్వమ్ ఏతీతి సాక్షాద్ అమృతత్వ-ప్రాప్తి-సాధనమ్ ఆత్మనో నియన్తుశ్ చ పృథగ్-భావ-జ్ఞానమ్ ఏవేత్య్ అవగమ్యతే।
Link copied॥౮౭॥
Link copiedఐక్య-వాక్య-విరోధాద్ ఏతద్ అపరమార్థ-సగుణ-బ్రహ్మ-ప్రాప్తి-విషయమ్ ఇత్య్ అభ్యుపగన్తవ్యమ్ ఇతి చేత్। పృథక్త్వ-జ్ఞానస్యైవ సాక్షాద్ అమృతత్వ-ప్రాప్తి-సాధనత్వ-శ్రవణాద్ విపరీతం కస్మాన్ న భవతి।
Link copiedఏతద్ ఉక్తం భవతి--- ద్వయోర్ తుల్యయోర్ విరోధే సత్య్ అవిరోధేన తయోర్ విషయో వివేచనీయ ఇతి। కథమ్ అవిరోధ ఇతి చేద్ అన్తర్యామి-రూపేణావస్థితస్య పరస్య బ్రహ్మణః శరీరతయా ప్రకారత్వాజ్ జీవాత్మనస్ తత్-ప్రకారం బ్రహ్మైవ త్వమ్ ఇతి శబ్దేనాభిధీయతే। తథైవ జ్ఞాతవ్యమ్ ఇతి తస్య వాక్యస్య విషయః। ఏవమ్భూతాజ్ జీవాత్ తదాత్మతయావస్థితస్య పరమాత్మనో నిఖిల-దోష-రహితతయా సత్య-సఙ్కల్పత్వాద్ అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణాకరత్వేన చ యః పృథగ్-భావః సోఽనుసన్ధేయ ఇత్య్ అస్య వాక్యస్య విషయ ఇత్య్ అయమ్ అర్థః పూర్వమ్ అసకృద్ ఉక్తః। భోక్తా భోగ్యం ప్రేరితారం చ మత్వేతి భోగ్య-రూపస్య వస్తునోఽచేతనత్వం పరమార్థత్వం సతతం వికారాస్పదత్వమ్ ఇత్య్ ఆదయః స్వభావాః, భోక్తుర్ జీవాత్మనశ్ చామలాపరిచ్ఛిన్న-జ్ఞానానన్ద-స్వభావస్యైవానాది-కర్మ-రూపావిద్యా-కృత-నానా-విధ-జ్ఞాన-సఙ్కోచ-వికాసౌ భోగ్య-భూతాచిద్-వస్తు-సంసర్గశ్ చ పరమాత్మోపాసనాన్ మోక్షశ్ చేత్య్ ఆదయః స్వభావాః, ఏవమ్భూత-భోక్తృ-భోగ్యయోర్ అన్తర్యామి-రూపేణావస్థానం స్వరూపేణ చాపరిమిత-గుణౌఘాశ్రయత్వేనావస్థానమ్ ఇతి పరస్య బ్రహ్మణస్ త్రి-విధావస్థానం జ్ఞాతవ్యమ్ ఇత్య్ అర్థః॥
Link copied॥౮౮॥
Link copiedతత్ త్వమ్ అసీతి సద్-విద్యాయామ్ ఉపాస్యం బ్రహ్మ సగుణం సగుణ-బ్రహ్మ-ప్రాప్తిశ్ చ ఫలమ్ ఇత్య్ అభియుక్తైః పూర్వాచార్యైర్ వ్యాఖ్యాతమ్। యథోక్తం వాక్య-కారేణ యుక్తం తద్-గుణకోపాసనాద్ ఇతి। వ్యాఖ్యాతం చ ద్రమిడాచార్యేణ విద్యా-వికల్పం వదతా యద్య్ అపి సచ్-చిత్తో న నిర్భుగ్న-దైవతం గుణ-గణం మనసానుధావేత్ తథాప్య్ అన్తర్గుణామ్ ఏవ దేవతాం భజత ఇతి తత్రాపి సగుణైవ దేవతా ప్రాప్యత ఇతి। సచ్-చిత్తః సద్-విద్యా-నిష్ఠః। న నిర్భుగ్న-దైవతం గుణ-గణం మనసానుధావేద్ అపహత-పాప్మత్వాది-కల్యాణ-గుణ-గణం దైవతాద్ విభక్తం యద్య్ అపి దహర-విద్యానిష్ఠ ఇవ సచ్-చిత్తో న స్మరేత్। తథాప్య్ అన్తర్గుణామ్ ఏవ దేవతాం భజతే దేవతా-స్వరూపానుబన్ధిత్వాత్ సకల-కల్యాణ-గుణ-గణస్య కేనచిద్ పర-దేవతా-సాధారణేన నిఖిల-జగత్-కారణత్వాదినా గుణేనోపాస్యమానాపి దేవతా వస్తుతః స్వరూపానుబన్ధి సర్వ-కల్యాణ-గుణ-గణ-విశిష్టైవోపాస్యతే। అతః సగుణమ్ ఏవ బ్రహ్మ తత్రాపి ప్రాప్యమ్ ఇతి సద్-విద్యాదహర-విద్యయోర్ వికల్ప ఇత్య్ అర్థః।
Link copied॥౮౯॥
Link copiedనను చ సర్వస్య జన్తోః పరమాత్మాన్తర్యామీ తన్-నియామ్యం చ సర్వమ్ ఏవేత్య్ ఉక్తమ్। ఏవం చ సతి విధి-నిషేధ-శాస్త్రాణామ్ అధికారీ న దృశ్యతే। యః స్వ-బుద్ధ్యైవ ప్రవృత్తి-నివృత్తి-శక్తః స ఏవం కుర్యాన్ న కుర్యాద్ ఇతి విధి-నిషేధ-యోగ్యః। న చైష దృశ్యతే। సర్వస్మిన్ ప్రవృత్తి-జాతే సర్వస్య ప్రేరకః పరమాత్మా కారయితేతి తస్య సర్వ-నియమనం ప్రతిపాదితమ్। తథా చ శ్రూయతే ఏష ఏవ సాధు కర్మ కారయతి తే యమ్ ఏభ్యో లోకేభ్య ఉన్నినీషతి। ఏష ఏవాసాధు కర్మ కారయతి తం యమ్ అధో నినీషతీతి। సాధ్వ్-అసాధు-కర్మ-కారయితృత్వాన్ నైర్ఘృణ్యం చ।
Link copied॥౯౦॥
Link copiedఅత్రోచ్యతే--- సర్వేషామ్ ఏవ చేతనానాం చిచ్-ఛక్తి-యోగః ప్రవృత్తి-శక్తి-యోగ ఇత్య్ ఆది సర్వం ప్రవృత్తి-నివృత్తి-పరికరం సామాన్యేన సంవిధాయ తన్-నిర్వహణాయ తద్-ఆధారో భూత్వాన్తః ప్రవిశ్యానుమన్తృతయా చ నియమనం కుర్వఞ్ శేషిత్వేనావస్థితః పరమాత్మైతద్-ఆహిత-శక్తిః సన్ ప్రవృత్తి-నివృత్త్య్-ఆది స్వయమ్ ఏవ కురుతే। ఏవం కుర్వాణమ్ ఈక్షమాణః పరమాత్మోదాసీన ఆస్తే। అతః సర్వమ్ ఉపపన్నమ్। సాధ్వ్-అసాధు-కర్మణోః కారయితృత్వం తు వ్యవస్థిత-విషయం న సర్వ-సాధారణమ్। యస్ తు సర్వం స్వయమ్ ఏవాతిమాత్రమ్ ఆనుకూల్యే ప్రవృత్తస్ తం ప్రతి ప్రీతః స్వయమ్ ఏవ భగవాన్ కల్యాణ-బుద్ధి-యోగ-దానం కుర్వన్ కల్యాణే ప్రవర్తయతి। యః పునర్ అతిమాత్రం ప్రాతికూల్యే ప్రవృత్తస్ తస్య క్రూరాం బుద్ధిం దదన్ స్వయమ్ ఏవ క్రూరేష్వ్ ఏవ కర్మసు ప్రేరయతి భగవాన్। యథోక్తం భగవతా---
Link copiedతేషాం సతత-యుక్తానాం భజతాం ప్రీతి-పూర్వకమ్।
Link copiedదదామి బుద్ధి-యోగం తం యేన మామ్ ఉపయాన్తి తే॥
Link copiedతేషామ్ ఏవానుకమ్పార్థమ్ అహమ్ అజ్ఞాన-జం తమః।
Link copiedనాశయామ్య్ ఆత్మ-భావ-స్థో జ్ఞాన-దీపేన భాస్వతా॥
Link copiedతాన్ అహం ద్విషతః క్రూరాన్ సంసారేషు నరాధమాన్।
Link copiedక్షిపామ్య్ అజస్రమ్ అశుభాన్ ఆసురీష్వ్ ఏవ యోనిషు॥ ఇతి।
Link copied॥౯౧॥
Link copiedసోఽయం పరబ్రహ్మ-భూతః పురుషోత్తమో నిరతిశయ-పుణ్య-సఞ్చయ-క్షీణాశేష-జన్మోపచిత-పాప-రాశేః పరమ-పురుష-చరణారవిన్ద-శరణాగతి-జనిత-తద్-అభిముఖ్యస్య సద్-ఆచార్యోపదేశోపబృంహిత-శాస్త్రాధిగత-తత్త్వ-యాథాత్మ్యావబోధ-పూర్వకాహర్ అహర్ ఉపచీయమాన-శమ-దమ-తపః-శౌచ-క్షమార్జవ-భయాభయ-స్థాన-వివేక-దయాహింసాద్య్-ఆత్మ-గుణోపేతస్య వర్ణాశ్రమోచిత-పరమ-పురుషారాధన-వేష-నిత్య-నైమిత్తిక-కర్మోపసంహృతి-నిషిద్ధ-పరిహార-నిష్ఠస్య పరమ-పురుష-చరణారవిన్ద-యుగల-న్యస్తాత్మాత్మీయస్య తద్-భక్తి-కారితానవరత-స్తుతి-స్మృతి-నమస్కృతి-వన్దన-యతన-కీర్తన-గుణ-శ్రవణ-వచన-ధ్యానార్చన-ప్రణామాది-ప్రీత-పరమ-కారుణిక-పురుషోత్తమ-ప్రసాద-విధ్వస్త-స్వాన్త-ధ్వాన్తస్యానన్య-ప్రయోజనానవరత-నిరతిశయ-ప్రియ-విశదతమ-ప్రత్యక్షతాపన్నానుధ్యాన-రూప-భక్త్య్-ఏక-లభ్యః। తద్ ఉక్తం పరమ-గురుభిర్ భగవద్-యామునాచార్య-పాదైః--- ఉభయ-పరికర్మిత-స్వాన్తస్యైకాన్తికాత్యన్తిక-భక్తి-యోగ-లభ్య ఇతి। జ్ఞాన-యోగ-కర్మ-యోగ-సంస్కృతాన్తఃకరణస్యేత్య్ అర్థః। తథా చ శ్రుతిః---
Link copiedవిద్యాం చావిద్యాం చ యస్ తద్ వేదోభ్యం సహ।
Link copiedఅవిద్యయా మృత్యుం తీర్త్వా విద్యయామృతమ్ అశ్నుతే॥
Link copiedఇతి। అత్రావిద్యా-శబ్దేన విద్యేతరత్వాద్ వర్ణాశ్రమాచారాది పూర్వోక్తం కర్మోచ్యతే విద్యా-శబ్దేన చ భక్తి-రూపాపన్నం ధ్యానమ్ ఉచ్యతే। యథోక్తమ్---
Link copiedఇజాయ సోఽపి సుబహూన్య్ అజ్ఞాఞ్ జ్ఞాన-వ్యపాశ్రయః।
Link copiedబ్రహ్మ-విద్యామ్ అధిష్ఠాయ తర్తుం మృత్యుమ్ అవిద్యయా॥
Link copiedఇతి। తమ్ ఏవం విద్వాన్ అమృత ఇహ భవతి నాన్యః పన్థా అయనాయ విద్యతే। య ఏనం విదుర్ అమృతాస్ తే భవన్తి। బ్రహ్మ-విద్ ఆప్నోతి పరమ్। సో యో హ వై తత్ పరం వేద బ్రహ్మ వేద బ్రహ్మైవ భవతీత్య్ ఆది। వేదన-శబ్దేన ధ్యానమ్ ఏవాభిహితమ్। నిదిధ్యాసితవ్య ఇత్య్ ఆదినైకార్థ్యాత్। తద్ ఏవ ధ్యానం పునర్ అపి విశినష్టి నాయమ్ ఆత్మా ప్రవచనేన లభ్యో న మేధయా న బహుధా శ్రుతేన। యమ్ ఏవైష వృణుతే తేన లభ్యస్ తస్యైష ఆత్మా వివృణుతే తనూం స్వామ్ ఇతి। భక్తి-రూపాపన్నానుధ్యానేనైవ లభ్యతే న కేవలం వేదన-మాత్రేణ న మేధయేతి కేవలస్య నిషిద్ధత్వాత్।
Link copied॥౯౨॥
Link copiedఏతద్ ఉక్తం భవతి--- యోఽయం ముముక్షుర్ వేదాన్త-విహిత-వేదన-రూప-ధ్యానాదినిష్ఠో యదా తస్య తస్మిన్న్ ఏవానుధ్యానే నిరవధికాతిశయా ప్రీతిర్ జాయతే తదైవ తేన లభ్యతే పరః పురుష ఇతి। యథోక్తం భగవతా---
Link copiedపురుషః స పరః పార్థ భక్త్యా లభ్యస్ త్వ్ అనన్యయా।
Link copiedభక్త్యా త్వ్ అనన్యయా శక్యోఽహమ్ ఏవంవిధోఽర్జున।
Link copiedజ్ఞాతుం ద్రష్టుం చ తత్త్వేన ప్రవేష్టుం చ పరన్తప॥
Link copiedభక్త్యా మామ్ అభిజానాతి యావాన్ యశ్ చాస్మి తత్త్వతః।
Link copiedతతో మాం తత్త్వతో జ్ఞాత్వా విశతే తద్-అనన్తరమ్॥
Link copiedఇతి। తద్-అనన్తరం తత ఏవ భక్తితో విశత ఇత్య్ అర్థః। భక్తిర్ అపి నిరతిశయ-ప్రియానన్య-ప్రయోజన-సకలేతర-వైతృష్ణ్యావహ-జ్ఞాన-విశేష ఏవేతి। తద్-యుక్త ఏవ తేన పరేణాత్మనా వరణీయో భవతీతి తేన లభ్యత ఇతి శ్రుత్య్ అర్థః। ఏవంవిధ-పర-భక్తి-రూప-జ్ఞాన-విశేషస్యోత్పాదకః పూర్వోక్తాహర్-అహర్-ఉపచీయమాన-జ్ఞాన-పూర్వక-కర్మానుగృహీత-భక్తి-యోగ ఏవ। యథోక్తం భగవతా పరాశరేణ---
Link copiedవర్ణాశ్రమాచారవతా పురుషేణ పరః పుమాన్।
Link copiedవిష్ణుర్ ఆరాధ్యతే పన్థా నాన్యస్ తత్-తోష-కారకః॥
Link copiedఇతి। నిఖిల-జగద్-ఉద్ధారణాయావని-తలేఽవతీర్ణః పరబ్రహ్మ-భూతః పురుషోత్తమః స్వయమ్ ఏవైతద్ ఉక్తవాన్---
Link copiedస్వ-కర్మ-నిరతః సిద్ధిం యథా విన్దతి తచ్ ఛృణు।
Link copiedయతః ప్రవృత్తిర్ భూతానాం యేన సర్వమ్ ఇదం తతమ్॥
Link copiedస్వ-కర్మణా తమ్ అభ్యర్చ్య సిద్ధిం విన్దతి మానవః।
Link copiedఇతి। యథోదిత-క్రమ-పరిణత-భక్త్య్-ఏక-లభ్య ఏవ।
Link copied॥౯౩॥
Link copiedబోధాయన-టఙ్క-ద్రమిడ-గుహదేవ-కపర్ది-భారుచి-ప్రభృత్య్-అవిగీత-శిష్ట-పరిగృహీత-పురాతన-వేద-వేదాన్త-వ్యాఖ్యాన-సువ్యక్తార్థ-శ్రుతి-నికర-నిదర్శితోఽయం పన్థాః। అనేన చార్వాక-శాక్యౌలూక్యాక్షపాద-క్షపణక-కపిల-పతఞ్జలి-మతానుసారిణో వేద-బాహ్యా వేదావలమ్బి-కుదృష్టిభిః సహ నిరస్తాః। వేదావలమ్బినామ్ అపి యథావస్థిత-వస్తు-విపర్యయస్ తాడృశాం బాహ్య-సామ్యం మనునైవోక్తమ్---
Link copiedయో వేద-బాహ్యాః స్మృతయో యాశ్ చ కాశ్ చ కుదృష్టయః।
Link copiedసర్వాస్ తా నిష్ఫలాః ప్రేత్య తమోనిష్ఠా హి తాః స్మృతాః॥
Link copiedఇతి। రజస్-తమోభ్యామ్ అస్పృష్టమ్ ఉత్తమం సత్త్వమ్ ఏవ యేషాం స్వాభావికో గుణస్ తేషామ్ ఏవ వైదికీ రుచిర్ వేదార్థ-యాథాత్మ్యావబోధశ్ చేత్య్ అర్థః।
Link copied॥౯౪॥
Link copiedయథోక్తం మాత్స్యే---
Link copiedసఙ్కీర్ణాః సాత్త్వికాశ్ చైవ రాజసాస్ తామసాస్ తథా।
Link copiedఇతి। కేచిద్ బ్రహ్మ-కల్పాః సఙ్కీర్ణాః కేచిత్ సత్త్వ-ప్రాయాః కేచిద్ రజః-ప్రాయా కేచిత్ తమః-ప్రాయా ఇతి కల్ప-విభాగమ్ ఉక్త్వా సత్త్వ-రజస్-తమో-మయానాం తత్త్వానాం మాహాత్మ్య-వర్ణనం చ తత్-తత్-కల్ప-ప్రోక్త-పురాణేషు సత్త్వాది-గుణ-మయేన బ్రహ్మణా క్రియత ఇతి చోక్తమ్---
Link copiedయస్మిన్ కల్పే తు యత్ ప్రోక్తం పురాణం బ్రహ్మణా పురా।
Link copiedతస్య తస్య తు మాహాత్మ్యం తత్-స్వరూపేణ వర్ణ్యతే॥
Link copiedఇతి। విశేషతశ్ చోక్తమ్---
Link copiedఅగ్నేః శివస్య మాహాత్మ్యం తామసేషు ప్రకీర్త్యతే।
Link copiedరాజసేషు చ మాహాత్మ్యమ్ అధికం బ్రహ్మణో విదుః॥
Link copiedసాత్త్వికేషు చ కల్పేషు మాహాత్మ్యమ్ అధికం హరేః।
Link copiedతేష్వ్ ఏవ యోగ-సంసిద్ధా గమిష్యన్తి పరాం గతిమ్॥
Link copiedసఙ్కీర్ణేషు సరస్వత్యాః \॥।\॥॥।॥
Link copiedఇత్య్ ఆది। ఏతద్ ఉక్తం భవతి--- ఆది-క్షేత్రజ్ఞత్వాద్ బ్రహ్మణస్ తస్యాపి కేషుచిద్ అహఃసు సత్త్వ-ముద్రికం కేషుచిద్ రజః కేషుచిత్ తమః। యథోక్తం భగవతా---
Link copiedన తద్ అస్తి పృథివ్యాం వా దివి దేవేషు వా పునః।
Link copiedసత్త్వం ప్రకృతి-జైర్ ముక్తం యద్ ఏభిః స్యాత్ త్రిభిర్ గుణైః॥
Link copiedఇతి। యో బ్రహ్మణం విదధతి పూర్వం యో వై వేదాంశ్ చ ప్రహిణోతి తస్మా ఇతి శ్రుతేః। బ్రహ్మణోఽపి సృజ్యత్వేన శాస్త్ర-వశ్యత్వేన చ క్షేత్రజ్ఞత్వం గమ్యతే। సత్త్వ-ప్రాయేష్వ్ అహఃసు తద్-ఇతరేషు యాని పురాణాని బ్రహ్మణా ప్రోక్తాని తేషాం పరస్పర-విరోధే సతి సాత్త్వికాహః ప్రోక్తమ్ ఏవ పురాణం యథార్థం తద్-విరోధ్య్ అన్యద్ అయథార్థమ్ ఇతి పురాణ-నిర్ణయాయైవేదం సత్త్వ-నిష్ఠేన బ్రహ్మణాభిహితమ్ ఇతి విజ్ఞాయత ఇతి।
Link copiedసత్త్వాదీనాం కార్యం చ భగవతైవోక్తమ్---
Link copiedసత్త్వాత్ సఞ్జాయతే జ్ఞానం రజసో లోభ ఏవ చ।
Link copiedప్రమాద-మోహౌ తమసో భవతోఽజ్ఞానమ్ ఏవ చ॥
Link copiedప్రవృత్తిం చ నివృత్తిం చ కార్యాకార్యే భయాభయే।
Link copiedబన్ధం మోక్షం చ యా వేత్తి బుద్ధిః సా పార్థ సాత్త్వికీ॥
Link copiedయథా ధర్మమ్ అధర్మం చ కార్యం చాకార్యమ్ ఏవ చ।
Link copiedఅయథావత్ ప్రజానాతి బుద్ధిః సా పార్థ రాజసీ॥
Link copiedఅధర్మం ధర్మమ్ ఇతి యా మన్యతే తమసావృతా।
Link copiedసర్వార్థాన్ విపరీతాంశ్ చ బుద్ధిః సా పార్థ తామసీ॥
Link copiedఇతి।
Link copiedసర్వాన్ పురాణార్థాన్ బ్రహ్మణః సకాశాద్ అధిగమ్యైవ సర్వాణి పురాణాని పురాణ-కారాశ్ చక్రుః। యథోక్తమ్---
Link copiedకథయామి యథా పూర్వం దక్షాద్యైర్ ముని-సత్తమైః।
Link copiedపృష్టః ప్రోవాచ భగవాన్ అబ్జ-యోనిః పితామహః॥
Link copiedఇతి।
Link copied॥౯౫॥
Link copiedఅపౌరుషేయేషు వేద-వాక్యేషు పరస్పర-విరుద్ధేషు కథమ్ ఇతి చేత్। తాత్పర్య-నిశ్చయాద్ అవిరోధః పూర్వమ్ ఏవోక్తః। యద్ అపి చేద్ ఏవం విరుద్ధవద్ దృశ్యతే ప్రాణం మనసి సహ కారణైర్ నాదాన్తే పరమాత్మని సమ్ప్రతిష్ఠాయ ధ్యాయీతవ్యం ప్రధ్యాయీతవ్యం సర్వమ్ ఇదం, బ్రహ్మ-విష్ణు-రుద్రాస్ తే సర్వే సమ్ప్రసూయన్తే, న కారణం, కారణం తు ధ్యాయః, సర్వైశ్వర్య-సమ్పన్నః సర్వేశ్వరః శమ్భుర్ ఆకాశ-మధ్యే ధ్యేయః యస్మాత్ పరం నాపరమ్ అస్తి కిఞ్చిద్ యస్మాన్ నాణీయో న జ్యాయోఽస్తి కశ్చిద్ వృక్ష ఇవ స్తబ్ధో దివి తిష్ఠత్య్ ఏకస్ తేనేదం పూర్ణం పురుషేణ సర్వం తతో యద్ ఉత్తరతరం తద్ అరూపమ్ అనామయం య ఏతద్ విదుర్ అమృతాస్ తే భవన్తి, అథేతరే దుఃఖమ్ ఏవాపియన్తి---
Link copiedసర్వానన-శిరో-గ్రీవః సర్వ-భూత-గుహాశయః।
Link copiedసర్వవ్యాపీ చ భగవాంస్ తస్మాత్ సర్వ-గతః శివః॥
Link copiedయదా తమస్ తన్ న దివా న రాత్రిర్ న సన్ న చాసచ్ ఛివ ఏవ కేవలః।
Link copiedతద్ అక్షరం తత్ సవితుర్ వరేణ్యం ప్రజ్ఞా చ తస్మాత్ ప్రసృతా పురాణీ॥
Link copiedఇత్య్ ఆది నారాయణః పరం బ్రహ్మేతి చ పూర్వమ్ ఏవ ప్రతిపాదితం, తేనాస్య కథమ్ అవిరోధః।
Link copied॥౯౬॥
Link copiedఅత్యల్పమ్ ఏతత్---
Link copiedవేద-విత్-ప్రవర-ప్రోక్త-వాక్య-న్యాయోపబృంహితాః।
Link copiedవేదాః సాఙ్గా హరిం ప్రాహుర్ జగజ్-జన్మాది-కారణం॥
Link copiedజన్మాద్యస్య యతః యతో వా ఇమాని భూతాని జాయన్తే, యేన జాతాని జీవన్తి, యత్ ప్రయన్త్య్ అభిసంవిశన్తి, తద్ విజిజ్ఞానస్వ తద్ బ్రహ్మేతి జగజ్-జన్మాది-కారణం బ్రహ్మేత్య్ అవగమ్యతే। తచ్ చ జగత్-సృష్టి-ప్రలయ-ప్రకరణేష్వ్ అవగన్తవ్యమ్। సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ ఇతి జగద్-ఉపాదానతా-జగన్-నిమిత్తతా-జగద్-అన్తర్యామితాది-ముఖేన పరమ-కారణం సచ్-ఛబ్దేన ప్రతిపాదితం బ్రహ్మేత్య్ అవగతమ్। అయమ్ ఏవార్థః బ్రహ్మ వా ఇదమ్ ఏకమ్ ఏవాగ్ర ఆసీద్ ఇతి శాఖాన్తరే బ్రహ్మ-శబ్దేన ప్రతిపాదితః। అనేన సచ్-ఛబ్దేనాభిహితం బ్రహ్మేత్య్ అవగతమ్। అయమ్ ఏవార్థస్ తథా శాఖాన్తర ఆత్మా వా ఇదమ్ ఏక ఏవాగ్ర ఆసీన్ నాన్యత్ కిఞ్చన మిషద్ ఇతి సద్-బ్రహ్మ-శబ్దాభ్యామ్ ఆత్మైవాభిహిత ఇత్య్ అవగమ్యతే। తథా చ శాఖాన్తర ఏకో హ వై నారాయణ ఆసీన్ న బ్రహ్మ నేశానో నేమే ద్యావ్ అపృథివీ న నక్షత్రాణీతి సద్-బ్రహ్మాత్మాది-పరమ-కారణ-వాదిభిః శబ్దైర్ నారాయణ ఏవాభిధీయత ఇతి నిశ్చీయతే।
Link copied॥౯౭॥
Link copiedయమ్ అన్తః సముద్రే కవయో వయన్తీత్య్ ఆది।
Link copiedనైనమ్ ఊర్ధ్వం న తిర్యఞ్చం న మధ్యే పరిజగ్రభత్।
Link copiedన తస్యేశే కశ్చన తస్య నామ మహద్యశః॥
Link copiedన సన్దృశే తిష్ఠతి రూపమ్ అస్య న చక్షుషా పశ్యతి కశ్చనైనమ్, హృదా మనీషా మనసాభికౢప్తో య ఏవం విదుర్ అమృతాస్ తే భవన్తీతి సర్వస్మాత్ పరత్వమ్ అస్య ప్రతిపాద్య, న తస్యేశే కశ్చనేతి తస్మాత్ పరం కిమ్ అపి న విద్యత ఇతి చ ప్రతిషిధ్య, అద్భ్యః సమ్భూతో హిరణ్యగర్భ ఇత్య్ అష్టావ్ ఇతి తేనైక-వాక్యతాం గమయతి। తచ్ చ మహా-పురుష-ప్రకరణం హ్రీశ్ చ తే లక్ష్మీశ్ చ పత్న్యావ్ ఇతి చ నారాయణ ఏవేతి ద్యోతయతి।
Link copied॥౯౮॥
Link copiedఅయమ్ అర్థో నారాయణానువాకే ప్రపఞ్చితః। సహస్ర-శీర్షం దేవమ్ ఇత్య్ ఆరభ్య స బ్రహ్మ స శివః సేన్ద్రః సోఽక్షరః పరమః స్వరాడ్ ఇతి। సర్వ-శాఖాసు పర-తత్త్వ-ప్రతిపాదన-పరాన్ అక్షర-శివ-శమ్భు-పరబ్రహ్మ-పర-జ్యోతిః-పర-తత్త్వ-పరాయణ-పరమాత్మాది-సర్వ-శబ్దాంస్ తత్-తద్-గుణ-యోగేన నారాయణ ఏవ ప్రయుజ్య తద్-వ్యతిరిక్తస్య సమస్తస్య తద్-ఆధారతాం తన్-నియామ్యతాం తచ్-ఛేషతాం తద్-ఆత్మకతాం చ ప్రతిపాద్య బ్రహ్మ-శివయోర్ అపీన్ద్రాది-సమానాకారతయా తద్-విభూతిత్వం చ ప్రతిపాదితమ్। ఇదం చ వాక్యం కేవల-పర-తత్త్వ-ప్రతిపాదనైక-పరమ్ అన్యత్ కిఞ్చిద్ అప్య్ అత్ర న విధీయతే।
Link copied॥౯౯॥
Link copiedఅస్మిన్ వాక్యే ప్రతిపాదితస్య సర్వస్మాత్ పరత్వేనావస్థితస్య బ్రహ్మణో వాక్యాన్తరేషు బ్రహ్మ-విద్ ఆప్నోతి పరమ్ ఇత్య్ ఆదిషూపాసనాది విధీయతే। అతః ప్రాణం మనసి సహ కరణైర్ ఇత్య్ ఆది వాక్యం సర్వ-కారణే పరమాత్మని కరణ-ప్రాణాది సర్వం వికార-జాతమ్ ఉపసంహృత్య తమ్ ఏవ పరమాత్మానం సర్వస్యేశానం ధ్యాయీతేతి పరబ్రహ్మ-భూత-నారాయణస్యైవ ధ్యానం విదధాతి।
Link copied॥౧౦౦॥
Link copiedపతిం విశ్వస్యేతి న తస్యేశే కశ్చనేతి చ తస్యైవ సర్వస్యేశానతా ప్రతిపాదితా। అత ఏవ సర్వైశ్వర్య-సమ్పన్నః సర్వేశ్వరః శమ్భుర్ ఆకాశ-మధ్యే ధ్యేయ ఇతి నారాయణస్యైవ పరమ-కారణస్య శమ్భు-శబ్ద-వాచ్యస్య ధ్యానం విధీయతే। కశ్ చ ధ్యేయ ఇత్య్ ఆరభ్య కారణం తు ధ్యేయ ఇతి కార్యస్యాధ్యేయతా-పూర్వక-కారణైక-ధ్యేయతా-పరత్వాద్ వాక్యస్య। తస్యైవ నారాయణస్య పరమ-కారణతా శమ్భు-శబ్ద-వాచ్యతా చ పరమ-కారణ-ప్రతిపాదనైక-పరే నారాయణానువాక ఏవ ప్రతిపన్నేతి తద్-విరోధ్య్-అర్థాన్తర-పరికల్పనం కారణస్యైవ ధ్యేయత్వేన విధి-వాక్యే న యుజ్యతే।
Link copied॥౧౦౧॥
Link copiedయద్ అపి తతో యద్ ఉత్తరమ్ ఇత్య్ అత్ర పురుషాద్ అన్యస్య పరతరత్వం ప్రతీయత ఇత్య్ అభ్యధాయి తద్ అపి యస్మాత్ పరం నాపరమ్ అస్తి కిఞ్చిద్ యస్మాన్ నాణీయో న జ్యాయోఽస్తి కశ్చిత్ యస్మాద్ అపరం యస్మాద్ అన్యత్ కిఞ్చిద్ అపి పరం నాస్తి కేనాపి ప్రకారేణ పురుష-వ్యతిరిక్తస్య పరత్వం నాస్తీత్య్ అర్థః। అణీయస్త్వం సూక్ష్మత్వమ్। జ్యాయస్త్వం సర్వేశ్వరత్వమ్। సర్వ-వ్యాపిత్వాత్ సర్వేశ్వరత్వాద్ అస్యైతద్-వ్యతిరికితస్య కస్యాప్య్ అణీయస్త్వం జ్యాయస్త్వం చ నాస్తీత్య్ అర్థః। యస్మాన్ నాణీయో న జ్యాయోఽస్తి కశ్చిద్ ఇతి పురుషాద్ అన్యస్య కస్యాపి జ్యాయస్త్వం నిషిద్ధమ్ ఇతి తస్మాద్ అన్యస్య పరత్వం న యుజ్యత ఇతి ప్రత్యుక్తమ్।
Link copied॥౧౦౨॥
Link copiedకస్ తర్హ్య్ అస్య వాక్యస్యార్థః। అస్య ప్రకరణస్యోపక్రమే తమ్ ఏవ విదిత్వాతిమృత్యుమ్ ఏతి నాన్యః పన్థా విద్యతేఽయనాయైతి పురుష-వేదనస్యామృతత్వ-హేతుతాం తద్-వ్యతిరిక్తస్యాపథతాం చ ప్రతిజ్ఞాయ యస్మాత్ పరం నాపరమ్ అస్తి కిఞ్చిత్ తేనేదం పూర్ణం పురుషేణ సర్వమ్ ఇత్య్ ఏతద్ అన్తేన సర్వస్మాత్ పరత్వం ప్రతిపాదితమ్। యతః పురుషతత్త్వమ్ ఏవోత్తరతరం తతో యద్ ఉత్తరతరం పురుష-తత్త్వం తద్ ఏవారూపమ్ అనామయం య ఏతద్ విదుర్ అమృతాస్ తే భవన్తి, అథేతరే దుఃఖమ్ ఏవాపియన్తీతి పురుష-వేదనస్యామృతత్వ-హేతుత్వం తద్-ఇతరస్యాపథత్వం ప్రతిజ్ఞాతం సహేతుకమ్ ఉపసంహృతమ్। అన్యథోపక్రమ-గత-ప్రతిజ్ఞాభ్యాం విరుధ్యతే। పురుషస్యైవ శుద్ధి-గుణ-యోగేన శివ-శబ్దాభిప్రాయత్వం శాశ్వతం శివమ్ అచ్యుతమ్ ఇత్య్ ఆదినా జ్ఞాతమ్ ఏవ। పురుష ఏవ శివ-శబ్దాభిధేయ ఇత్య్ అనన్తరమ్ ఏవ వదతి మహాన్ ప్రభుర్ వై పురుషః సత్త్వస్యైష ప్రవర్తక ఇతి। ఉక్తేనైవ న్యాయేన న సన్ న చాసచ్ ఛివ ఏవ కేవల ఇత్య్ ఆది సర్వం నేయమ్।
Link copied॥౧౦౩॥
Link copiedకిం చ న తస్యేశే కశ్చనేతి నిరస్త-సమాభ్యధిక-సమ్భావనస్య పురుషస్యాణోర్ అణీయాన్ ఇత్య్ అస్మిన్న్ అనువాకే వేదాద్య్-అన్త-రూపతయా వేద-బీజ-భూత-ప్రణవస్య ప్రకృతి-భూతాకార-వాచ్యతయా మహేశ్వరత్వం ప్రతిపాద్య దహర-పుణ్డరీక-మధ్య-స్థాకాశాన్తర్వర్తితయోపాస్యత్వమ్ ఉక్తమ్। అయమ్ అర్థః--- సర్వస్య వేద-జాతస్య ప్రకృతిః ప్రణవ ఉక్తః। ప్రణవస్య చ ప్రకృతిర్ అకారః। ప్రణవ-వికారో వేదః స్వ-ప్రకృతి-భూతే ప్రణవే లీనః। ప్రణవోఽప్య్ అకార-వికార-భూతః స్వ-ప్రకృతావ్ అకారే లీనః। తస్య ప్రణవ-ప్రకృతి-భూతస్యాకారస్య యః పరో వాచ్యః స ఏవ మహేశ్వర ఇతి సర్వ-వాచక-జాత-ప్రకృతి-భూతాకార-వాచ్యః సర్వ-వాచ్య-జాత-ప్రకృతి-భూత-నారాయణో యః స మహేశ్వర ఇత్య్ అర్థః। యథోక్తం భగవతా---
Link copiedఅహం కృత్స్నస్య జగతః ప్రభవః ప్రలయస్ తథా।
Link copiedమత్తః పరతరం నాన్యత్ కిఞ్చిద్ అస్తి ధనఞ్జయ॥
Link copiedఅక్షరణామ్ అకారోఽస్మి॥
Link copiedఇతి। అ ఇతి బ్రహ్మేతి చ శ్రుతేః। అకారో వై సర్వా వాగ్ ఇతి చ। వాచక-జాతస్యాకార-ప్రకృతిత్వం వాచ్య-జాతస్య బ్రహ్మ-ప్రకృతిత్వం చ సుస్పష్టమ్। అతో బ్రహ్మణోఽకార-వాచ్యతా-ప్రతిపాదనాద్ అకార-వాచ్యో నారాయణ ఏవ మహేశ్వర ఇతి సిద్ధమ్।
Link copied॥౧౦౪॥
Link copiedతస్యైవ సహస్రశీర్షం దేవమ్ ఇతి కేవల-పర-తత్త్వ-విశేష-ప్రతిపాదన-పరేణ నారాయణానువాకేన సర్వస్మాత్ పరత్వం ప్రపఞ్చితమ్। అనేనానన్య-పరేణ ప్రతిపాదితమ్ ఏవ పర-తత్త్వమ్ అన్య-పరేషు సర్వ-వాక్యేషు కేనాపి శబ్దేన ప్రతీయమానం తద్ ఏవేత్య్ అవగమ్య ఇతి శాస్త్ర-దృష్త్యా తూపదేశో వామదేవవద్ ఇతి సూత్ర-కారేణ నిర్ణీతమ్। తద్ ఏతత్ పరం బ్రహ్మ క్వచిద్ బ్రహ్మ-శివాది-శబ్దాద్ అవగతమ్ ఇతి కేవల-బ్రహ్మ-శివయోర్ న పరత్వ-ప్రసఙ్గః। అస్మిన్న్ అనన్య-పరేఽనువాకే తయోర్ ఇన్ద్రాది-తుల్యతయా తద్-విభూతిత్వ-ప్రతిపాదనాత్। క్వచిద్ ఆకాశ-ప్రాణాది-శబ్దేన పరం బ్రహ్మాభిహితమ్ ఇతి భూతాకాశ-ప్రాణాదేర్ యథా న పరత్వమ్। యత్ పునర్ ఇదమ్ ఆశఙ్కితమ్ అథ యద్ ఇదమ్ అస్మిన్ బ్రహ్మ-పురే దహరం పుణ్డరీకం వేశ్మ దహరోఽస్మిన్న్ అన్తరాకాశస్ తస్మిన్ యద్ అన్తస్ తద్ అన్వేష్టవ్యం తద్ వా వ విజిజ్ఞాసితవ్యమ్ ఇత్య్ అత్రాకాశ-శబ్దేన జగద్-ఉపాదాన-కారణం ప్రతిపాద్య తద్-అన్తర్వర్తినః కస్యచిత్ తత్త్వ-విశేషస్యాన్వేష్టవ్యతా ప్రతిపాద్యతే। అస్యాకాశస్య నామ-రూపయోర్ నివోఢృత్వ-శ్రవణాత్ పురుషసూక్తే పురుషస్య నామ-రూపయోః కర్తృత్వ-దర్శనాచ్ చాకాశ-పర్యాయ-భూతాత్ పురుషాద్ అన్యస్యాన్వేష్టవ్యతయోపాస్యత్వం ప్రతీయత ఇత్య్ అనధీత-వేదానామ్ అదృష్ట-శాస్త్రాణామ్ ఇదం చోద్యం।
Link copied॥౧౦౫॥
Link copiedయతస్ తత్ర శ్రుతిర్ ఏవాస్య పరిహారమ్ ఆహ। వాక్య-కారశ్ చ దహరోఽస్మిన్న్ అన్తరాకాశః కిం తద్ అత్ర విద్యతే యద్ అన్వేష్టవ్యం యద్ వా వ విజిజ్ఞాసితవ్యమ్ ఇతి చోదితే యావాన్ వా అయమ్ ఆకాశస్ తావాన్ ఏషోఽన్తర్హృదయ ఆకాశ ఇత్య్ ఆదినాస్యాకాశ-శబ్ద-వాచ్యస్య పరమ-పురుషస్యానవధిక-మహత్త్వం సకల-జగద్-ఆధారత్వం చ ప్రతిపాద్య తస్మిన్ కామాః సమాహితా ఇతి కామ-శబ్దేనాపహత-పాప్మత్వాది-సత్య-సఙ్కల్ప-పర్యన్త-గుణాష్టకం నిహితమ్ ఇతి పరమ-పురుషవత్ పరమ-పురుష-గుణాష్టకస్యాపి పృథగ్ విజిజ్ఞాసితవ్యతా-ప్రతిపాదయిషయా తస్మిన్ యద్ అన్తస్ తద్ అన్వేష్టవ్యమ్ ఇత్య్ ఉక్తమ్ ఇతి శ్రుత్యైవ సర్వం పరిహృతమ్।
Link copied॥౧౦౬॥
Link copiedఏతద్ ఉక్తం భవతి--- కిం తద్ అత్ర విద్యతే యద్ అనేష్టవ్యమ్ ఇత్య్ అస్య చోద్యస్య తస్మిన్ సర్వస్య జగతః స్రష్టృత్వమ్ ఆధారత్వం నియన్తృత్వం శేషిత్వమ్ అపహత-పాప్మత్వాదయో గుణాశ్ చ విద్యన్త ఇతి పరిహార ఇతి। తథా చ వాక్య-కార-వచనం తస్మిన్ యద్ అన్తర్ ఇతి కామ-వ్యపదేశ ఇతి। కామ్యన్త ఇతి కామాః। అపహత-పాప్మత్వాదయో గుణా ఇత్య్ అర్థః। ఏతద్ ఉక్తం భవతి--- యద్ ఏతద్ దహరాకాశ-శబ్దాభిధేయం నిఖిల-జగద్-ఉదయ-వైభవ-లయ-లీలం పరం బ్రహ్మ తస్మిన్ యద్ అన్తర్ నిహితమ్ అనవధికాతిశయమ్ అపహత-పాప్మత్వాది-గుణాష్టకం తద్ ఉభయమ్ అప్య్ అన్వేష్టవ్యం విజిజ్ఞాసితవ్యమ్ ఇతి। యథాహ అథ య ఇహాత్మానమ్ అనువిద్య వ్రజన్త్య్ ఏతాంశ్ చ సత్యాన్ కామాంస్ తేషాం సర్వేషు లోకేషు కామ-చారో భవన్తీతి।
Link copied॥౧౦౭॥
Link copiedయః పునః కారణస్యైవ ధ్యేయతా-ప్రతిపాదన-పరే వాక్యే విష్ణోర్ అనన్య-పర-వాక్య-ప్రతిపాదిత-పర-తత్త్వ-భూతస్య కార్య-మధ్యే నివేశః స స్వ-కార్య-భూత-తత్త్వ-సఙ్ఖ్యా-పూరణం కుర్వతః స్వ-లీలయా జగద్-ఉపకారాయ స్వేచ్ఛావతార ఇత్య్ అవగన్తవ్యః। యథా లీలయా దేవ-సఙ్ఖ్యా-పూర్ణం కుర్వత ఉపేన్ద్రత్వం పరస్యైవ, యథా చ అసూర్య-వంశోద్భవ-రాజ-సఙ్ఖ్యా-పూర్ణం కుర్వతః పరస్యైవ బ్రహ్మణో దాశరథి-రూపేణ స్వేచ్ఛావతారః, యథా చ సోమ-వంశ-సఙ్ఖ్యా-పూరణం కుర్వతో భగవతో భూ-భారావతారణాయ స్వేచ్ఛయా వసుదేవ-గృహేఽవతారః।
Link copied॥౧౦౮॥
Link copiedసృష్టి-ప్రలయ-ప్రకరణేషు నారాయణ ఏవ పరమ-కారణతయా ప్రతిపాద్యత ఇతి పూర్వమ్ ఏవోక్తమ్। యత్ పునర్ అథర్వశిరసి రుద్రేణ స్వ-సర్వైశ్వర్యం ప్రపఞ్చితం తత్ సోఽన్తరాద్ అన్తరం ప్రావిశద్ ఇతి పరమాత్మ-ప్రవేశాద్ ఉక్తమ్ ఇతి శ్రుత్యైవ వ్యక్తమ్। శాస్త్ర-దృష్ట్యా తూపదేశో వామదేవవద్ ఇతి సూత్ర-కారేణైవం-వాదినామ్ అర్థః ప్రతిపాదితః। యథోక్తం ప్రహ్లాదేనాపి---
Link copiedసర్వ-గత్వాద్ అనన్తరస్య స ఏవాహమ్ అవస్థితః।
Link copiedమత్తః సర్వమ్ అహం సర్వం మయి సర్వం సనాతనే॥
Link copiedఇత్య్ ఆది। అత్ర సర్వ-గత్వాద్ అనన్తస్యేతి హేతుర్ ఉక్తః। స్వ-శరీర-భూతస్య సర్వస్య చిద్-అచిద్-వస్తున ఆత్మత్వేన సర్వ-గః పరమాత్మేతి సర్వే శబ్దాః సర్వ-శరీరం పరమాత్మానమ్ ఏవాభిదధతీత్య్ ఉక్తమ్। అతోఽహమ్ ఇతి శబ్దః స్వాత్మ-ప్రకార-ప్రకారిణం పరమాత్మానమ్ ఏవాచష్టే। అత ఇదమ్ ఉచ్యతే। ఆత్మేత్య్ ఏవ తు గృహ్ణీయాత్ సర్వస్య తన్-నిష్పత్తేర్ ఇత్య్ ఆది నాహఙ్గ్రహణోపాసనం వాక్య-కారేణ కార్యావస్థః కారణావస్థశ్ చ స్థూల-సూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరః పరమాత్మైవేతి సర్వస్య తన్-నిష్పత్తేర్ ఇత్య్ ఉక్తమ్। ఆత్మేతి తూపగచ్ఛన్తి గ్రాహయన్తి చేతి సూత్ర-కారేణ చ। మహాభారతే చ బ్రహ్మ-రుద్ర-సంవాదే బ్రహ్మా రుద్రం ప్రయాహ---
Link copiedతవాన్తరాత్మా మమ చ యే చాన్యే దేహి-సఞ్జ్ఞితాః।
Link copiedఇతి। రుద్రస్య బ్రహ్మణశ్ చాన్యేషాం చ దేహినాం పరమేశ్వరో నారాయణోఽన్తరాత్మతయావస్థిత ఇతి। తథా తత్రైవ---
Link copiedవిష్ణుర్ ఆత్మా భగవతో భవస్యామిత-తేజసః।
Link copiedతస్మాద్ ధనుర్ జ్యా-సంస్పర్శం స విషేహే మహేశ్వరః॥
Link copiedఇతి। తత్రైవ---
Link copiedఏతౌ ద్వౌ విబుధ-శ్రేష్ఠౌ ప్రసాద-క్రోధ-జౌ స్మృతౌ।
Link copiedతద్-ఆదర్శిత-పన్థానౌ సృష్టి-సంహార-కారకౌ॥
Link copiedఇతి। అన్తరాత్మతయావస్థిత-నారాయణ-దర్శిత-పథౌ బ్రహ్మ-రుద్రౌ సృష్టి-సంహార-కార్య-కరావ్ ఇత్య్ అర్థః।
Link copied॥౧౦౯॥
Link copiedనిమిత్తోపాదానయోస్ తు భేదం వదన్తో వేద-బాహ్యా ఏవ స్యుః। జన్మాద్యస్య యతః ప్రకృతిశ్ చ ప్రతిజ్ఞా-దృష్టాన్తానుపరోధాద్ ఇత్య్ ఆది వేదవిత్-ప్రణీత-సూత్ర-విరోధాత్। సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయం తద్ ఐక్షత బహు స్యాం ప్రజాయేయేతి బ్రహ్మ-వనం బ్రహ్మ స వృక్ష ఆసీద్ యతో ద్యావ్ ఆపృథివీ నిష్టతక్షుః బ్రహ్మాధ్యతిష్ఠద్ భువనాని ధారయన్ సర్వే నిమేషా జజ్ఞిరే విద్యుతః పురుషాదధి న తస్యేశే కశ్చన తస్య నామ మహద్ యశః నేహ నానాస్తి కిఞ్చన సర్వస్య వశీ సర్వస్యేశానః పురుష ఏవేదం సర్వం యద్ భూతం యచ్ చ భవ్యమ్ ఉతామృతత్వస్యేశానః నాన్యః పన్థా అయనాయ విద్యత ఇత్య్ ఆది సర్వ-శ్రుతి-విరోధాచ్ చ।
Link copied॥౧౧౦॥
Link copiedఇతిహాస-పురాణేషు చ సృష్టి-స్థితి-ప్రలయ-ప్రకరణయోర్ ఇదమ్ ఏవ పర-తత్త్వమ్ ఇత్య్ అవగమ్యతే। యథా మహాభారతే---
Link copiedకుతః సృష్టమ్ ఇదం సర్వం జగత్ స్థావర-జఙ్గమమ్।
Link copiedప్రలయే చ కమ్ అభ్యేతి తన్ నో బ్రూహి పితామహ॥
Link copiedఇతి పృష్టః---
Link copiedనారాయణో జగన్-మూర్తిర్ అనన్తాత్మా సనాతనః।
Link copiedఇత్య్ ఆది చ వదతి।
Link copiedఋషయః పితరో దేవా మహాభూతాని ధాతవః।
Link copiedజఙ్గమాజఙ్గమం చేదం జగన్ నారాయణోద్భవమ్॥
Link copiedఇతి చ। ప్రాచ్యోదీచ్య-దాక్షిణాత్య-పాశ్చాత్య-సర్వ-శిష్టైః సర్వ-ధర్మ-సర్వ-తత్త్వ-వ్యవస్థాయామ్ ఇదమ్ ఏవ పర్యాప్తమ్ ఇత్య్ అవిగాన-పరిగృహీతం వైష్ణవం చ పురాణం జన్మాద్య్ అస్య యత ఇతి జగజ్-జన్మాది-కారణం బ్రహ్మేత్య్ అవగమ్యతే। తజ్-జన్మాది-కారణం కిమ్ ఇతి ప్రశ్న-పూర్వకం విష్ణోః సకాశాద్ భూతమ్ ఇత్య్ ఆదినా బ్రహ్మ-స్వరూప-విశేష-ప్రతిపాదనైక-పరతయా ప్రవృత్తమ్ ఇతి సర్వ-సమ్మతమ్। తథా తత్రైవ---
Link copiedప్రకృతిర్ యా ఖ్యాతా వ్యక్తావ్యక్త-స్వరూపిణీ।
Link copiedపురుషశ్ చాప్య్ ఉభావ్ ఏతౌ లీయేతే పరమాత్మని॥
Link copiedపరమాత్మా చ సర్వేషామ్ ఆధారః పరమేశ్వరః।
Link copiedవిష్ణు-నామా స వేదేషు వేదాన్తేషు చ గీయతే॥
Link copiedఇతి। సర్వ-వేద-వేదాన్తేషు సర్వైః శబ్దైః పరమ-కారణతయాయమ్ ఏవ గీయత ఇత్య్ అర్థః। యథా సర్వాసు ష్రుతిషు కేవల-పరబ్రహ్మ-స్వరూప-విశేష-ప్రతిపాదనాయైవ ప్రవృత్తో నారాయణానువాకస్ తథేదం వైష్ణవం చ పురాణమ్---
Link copiedసోఽహమ్ ఇచ్ఛామి ధర్మ-జ్ఞ శ్రోతుం త్వత్తో యథా జగత్।
Link copiedబభూవ భూయశ్ చ యథా మహా-భాగ భవిష్యతి॥
Link copiedయన్-మయం చ జగద్ బ్రహ్మన్య్ అతశ్ చైతచ్ చరాచరమ్।
Link copiedలీనమ్ ఆసీద్ యథా యత్ర లయమ్ ఏష్యతి యత్ర చ॥
Link copiedఇతి పరం బ్రహ్మ కిమ్ ఇతి ప్రక్రమ్య---
Link copiedవిష్ణోః సకాశాద్ ఉద్భూతం జగత్ తత్రైవ చ స్థితమ్।
Link copiedస్థితి-సంయమ-కర్తాసౌ జగతోఽస్య జగచ్ చ సః॥
Link copiedపరః పరాణాం పరమః పరమాత్మాత్మ-సంస్థితః।
Link copiedరూప-వర్ణాది-నిర్దేశ-విశేషణ-వివర్జితః॥
Link copiedఅపక్షయ-వినాశాభ్యాం పరిణామర్ద్ధి-జన్మభిః।
Link copiedవర్జితః శక్యతే వక్తుం యః సద్ అస్తీతి కేవలమ్॥
Link copiedసర్వత్రాసౌ సమస్తం చ వసత్య్ అత్రేతి వై యతః।
Link copiedతతః స వాసుదేవేతి విద్వద్భిః పరిపఠ్యతే॥
Link copiedతద్ బ్రహ్మ పరం నిత్యమ్ అజమ్ అక్షయమ్ అవ్యయమ్।
Link copiedఏక-స్వరూపం చ సదా హేయాభావాచ్ చ నిర్మలమ్॥
Link copiedతద్ ఏవ సర్వమ్ ఏవైతద్ వ్యక్తావ్యక్త-స్వరూపవత్।
Link copiedతథా పురుష-రూపేణ కాల-రూపేణ చ స్థితమ్॥
Link copiedస సర్వ-భూత-ప్రకృతిం వికారాన్ గుణాది-దోషాంశ్ చ మునే వ్యతీతః।
Link copiedఅతీత-సర్వావరణోఽఖిలాత్మా తేనాస్తృతం యద్ భువనాన్తరాలే॥
Link copiedసమస్త-కల్యాణ-గుణాత్మకోఽసౌ స్వ-శక్తి-లేశోద్ధృత-భూత-వర్గః।
Link copiedఇచ్ఛా-గృహీతాభిమతోరు-దేహః సంసాధితాశేష-జగద్-ధితోఽసౌ॥
Link copiedతేజో-బలైశ్వర్య-మహావబోధ-సువీర్య-శక్త్య్-ఆది-గుణైక-రాశిః।
Link copiedపరః పరాణాం సకలా న యత్ర క్లేశాదయః సన్తి పరావరేశే॥
Link copiedస ఈశ్వరో వ్యష్టి-సమష్టి-రూపోఽవ్యక్త-స్వరూపః ప్రకట-స్వరూపః।
Link copiedసర్వేశ్వరః సర్వ-దృక్ సర్వ-వేత్తా సమస్త-శక్తిః పరమేశ్వరాఖ్యః॥
Link copiedసఞ్జ్ఞాయతే యేన తద్ అస్త-దోషం శుద్ధం పరం నిర్మలమ్ ఏక-రూపమ్।
Link copiedసన్దృశ్యతే వాప్య్ అధిగమ్యతే వా తజ్ జ్ఞానమ్ అజ్ఞానమ్ అతోఽన్యద్ ఉక్తమ్॥
Link copiedఇతి పరబ్రహ్మ-స్వరూప-విశేష-నిర్ణయాయైవ ప్రవృత్తమ్।
Link copied॥౧౧౧॥
Link copiedఅన్యాని సర్వాణి పురాణాన్య్ ఏతద్-అవిరోధేన నేయాని। అన్య-పరత్వం చ తత్-తద్-ఆరమ్భ-ప్రకారైర్ అవగమ్యతే। సర్వాత్మనా విరుద్ధాంశస్ తామసత్వాద్ అనాదరణీయః।
Link copied॥౧౧౨॥
Link copiedనన్వ్ అస్మిన్న్ అపి---
Link copiedసృష్టి-స్థిత్య్-అన్తకరణీం బ్రహ్మ-విష్ను-శివాత్మికాం।
Link copiedస సఞ్జ్ఞా యాతి భగవాన్ ఏక జనార్దనః॥
Link copiedఇతి త్రి-మూర్తి-సామ్యం ప్రతీయతే। నైతద్ ఏవమ్। ఏక ఏవ జనార్దన ఇతి జన అర్దనస్యైవ బ్రహ్మ-శివాది-కృత్స్న-ప్రపఞ్చ-తాదాత్మ్యం విధీయతే। జగచ్ చ స ఇతి పూర్వోక్తమ్ ఏవ వివృణోతి స్రష్టా సృజతి చాత్మానం విష్ణుః పాల్యం చ పాతి చ।
Link copiedఉపసంహ్రియతే చాన్తే సంహర్తా చ స్వయం ప్రభుః॥
Link copiedఇతి చ స్రష్టృత్వేనావస్థితం బ్రహ్మణం సృజ్యం చ సంహర్తారం సంహార్యం చ యుగపన్ నిర్దిశ్య సర్వస్య విష్ణు-తాదాత్మ్యోపదేశాత్ సృజ్య-సంహార్య-భూతాద్ వస్తునః స్రష్టృ-సంహర్త్రోర్ జనార్దన-విభూతిత్వేన విశేషో దృశ్యతే। జనార్దన-విష్ణు-శబ్దయోః పర్యాయత్వేన బ్రహ్మ-విష్ణు-శివాత్మికామ్ ఇతి విభూతిమ్। అత ఏవ స్వేచ్ఛయా లీలార్థం విభూత్య్-అన్తర్భావ ఉచ్యతే। యథేదమ్ అనన్తరమ్ ఏవోచ్యతే---
Link copiedపృథివ్య్ ఆపస్ తథా తేజో వాయుర్ ఆకాశ ఏవ చ।
Link copiedసర్వేన్ద్రియాన్తఃకరణం పురుషాఖ్యం హి యజ్ జగత్॥
Link copiedస ఏవ సర్వ-భూతాత్మా విశ్వ-రూపో యతోఽవ్యయః।
Link copiedసర్గాదికం తతోఽస్యైవ భూత-స్థమ్ ఉపకారకమ్॥
Link copiedస ఏవ సృజ్యః స చ సర్వ-కర్తా స ఏవ పాత్య్ అత్తి చ పాల్యతే చ।
Link copiedబ్రహ్మాద్య్-అవస్థాభిర్ అశేష-మూర్తిర్ విష్ణుర్ వరిష్ఠో వరదో వరేణ్యః॥ ఇతి।
Link copied॥౧౧౩॥
Link copiedఅత్ర సామానాధికరణ్య-నిర్దిష్టం హేయ-మిశ్ర-ప్రపఞ్చ-తాదాత్మ్యం నిరవద్యస్య నిర్వికారస్య సమస్త-కల్యాణ-గుణాత్మకస్య బ్రహ్మణః కథమ్ ఉపపద్యత ఇత్య్ ఆశఙ్ఖ్య స ఏవ సర్వ-భూతాత్మా విశ్వ-రూపో యతోఽవ్యయ ఇతి స్వయమ్ ఏవోపపాదయతి। స ఏవ సర్వేశ్వరః పరబ్రహ్మ-భూతో విష్ణుర్ ఏవ సర్వం జగద్ ఇతి ప్రతిజ్ఞాయ సర్వ-భూతాత్మా విశ్వ-రూపో యతోఽవ్యయ ఇతి హేతుర్ ఉక్తః। సర్వ-భూతానామ్ అయమ్ ఆత్మా విశ్వ-శరీరో యతోఽవ్యయ ఇత్య్ అర్థః। వక్ష్యతి చ సత్ సర్వం వై హరేస్ తనుర్ ఇతి।
Link copiedఏతద్ ఉక్తం భవతి--- అస్యావ్యయస్యాపి పరస్య బ్రహ్మణో విష్ణోర్ విశ్వ-శరీరతయా తాదాత్మ్య-విరుద్ధమ్ ఇత్య్ ఆత్మ-శరీరయోశ్ చ స్వభావా వ్యవస్థితా ఏవ। ఏవమ్భూతస్య సర్వేశ్వరస్య విష్ణోః ప్రపఞ్చాన్తర్భూత-నియామ్య-కోటి-నివిష్ట-బ్రహ్మాది-దేవ-తిర్యఙ్-మనుష్యేషు తత్-తత్-సమాశ్రయణీయత్వాయ స్వేచ్ఛావతారః పూర్వోక్తః। తద్ ఏతద్ బ్రహ్మాదీనాం భావనా-త్రయాన్వయేన కర్మ-వశ్యత్వం భగవతః పరబ్రహ్మ-భూతస్య వాసుదేవస్య నిఖిల-జగద్-ఉపకారాయ స్వేచ్ఛయా స్వేనైవ రూపేణ దేవాదిష్వ్ అవతార ఇతి చ షష్టేఽంశే శుభాశ్రయ-ప్రకరణే సువ్యక్తమ్ ఉక్తమ్। అస్య దేవాది-రూపేణావతారేష్వ్ అపి న ప్రాకృతో దేహ ఇతి మహాభారతే న భూత-సఙ్ఘ-సంస్థానో దేహోఽస్య పరమాత్మనః, ఇతి ప్రతిపాదితః। శ్రుతిభిశ్ చ--- అజాయమానో బహుధా విజాయతే తస్య ధీరాః పరిజానన్తి యోనిమ్ ఇతి। కర్మ-వశ్యానాం బ్రహ్మాదీనామ్ అనిచ్ఛతామ్ అపి తత్-తత్-కర్మానుగుణ-ప్రకృతి-పరిణామ-రూప-భూత-సఙ్ఘ-సంస్థాన-విశేష-దేవాది-శరీర-ప్రవేశ-రూపం జన్మావర్జనీయమ్। అయం తు సర్వేశ్వరః సత్య-సఙ్కల్పో భగవాన్ ఏవమ్భూత-శుభేతర-జన్మాకుర్వన్న్ అపి స్వేచ్ఛయా స్వేనైవ నిరతిశయ-కల్యాణ-రూపేణ దేవాదిషు జగద్-ఉపకారాయ బహుధా జాయతే, తస్యైతస్య శుభేతర-జన్మాకుర్వతోఽపి స్వ-కల్యాణ-గుణానన్త్యేన బహుధా యోనిం బహు-విధ-జన్మ ధీరాధీరమతామ్ అగ్రేసరా జానన్తీత్య్ అర్థః।
Link copied॥౧౧౪॥
Link copiedతద్ ఏతన్ నిఖిల-జగన్-నిమిత్తోపాదాన-భూతాజ్ జన్మాద్య్ అస్య యతః ప్రకృతిశ్ చ ప్రతిజ్ఞా-దృష్టాన్తానుపరోధాద్ ఇత్య్ ఆది-సూత్రైః ప్రతిపాదితాత్ పరస్మాద్ బ్రహ్మణః పరమ-పురుషాద్ అన్యస్య కస్యచిత్ పరతరత్వం పరమతః సేతూన్మాన-సమ్బన్ధ-భేద-వ్యపదేశేభ్య ఇత్య్ ఆశఙ్క్య సామాన్యాత్ తు బుద్ధ్య్-అర్థః పాదవత్ స్థాన-విశేషాత్ ప్రకాశాదివద్ ఉపపత్తేశ్ చ తథాన్య-ప్రతిషేధాద్ అనేన సర్వ-గతత్వ-మాయామ్ ఆది-శబ్దాదిభ్య ఇతి సూత్ర-కారః స్వయమ్ ఏవ నిరాకరోతి।
Link copied॥౧౧౫॥
Link copiedమానవే చ శాస్త్రే---
Link copiedప్రాదురాసీత్ తమోనుదః సిసృక్షుర్ వివిధాః ప్రజాః।
Link copiedఅప ఏవ ససర్జాదౌ తాసు వీర్యమ్ అపాసృజత్॥
Link copiedతస్మిఞ్ జజ్ఞే స్వయం బ్రహ్మ
Link copiedఇతి బ్రహ్మణో జన్మ-శ్రవణాత్ క్షేత్రజ్ఞత్వమ్ ఏవావగమ్యతే। తథా చ స్రష్టుః పరమ-పురుషస్య తద్-విసృష్టస్య చ బ్రహ్మణః---
Link copiedఅయం తస్య తాః పూర్వం తేన నారాయణః స్మృతః।
Link copiedతద్-విసృష్టః స పురుషో లోకే బ్రహ్మేతి కీర్త్యతే॥
Link copiedఇతి నామ-నిర్దేశాచ్ చ। తథా చ వైష్ణవే పురాణే హిరణ్యగర్భాదీనాం భావనానామ్ ఆనుష్ఠేయ-విషయకః సంస్కారః। సా త్రివిధా బ్రహ్మ-భావనోపాసనా-దృఢ-సంస్కారః, బ్రహ్మ-శబ్దస్య జ్ఞాత-పరత్వాత్। సా సనకాదిషు కర్మ-భావనా, దేవాదిషు తేషాం వైదిక-కర్మ-పరత్వాత్। కర్మ-బ్రహ్మోభయ-భావనా హిరణ్యగర్భస్య, తస్య వైదిక-కర్మోపాసనాత్మక-జ్ఞానోభయ-పరాయణత్వాత్। భావనా-త్రయాన్వయాద్ అశుద్ధత్వేన శుభాశ్రయత్వానర్హతోపపాదనాత్ క్షేత్రత్వం నిశ్చీయతే।
Link copied॥౧౧౬॥
Link copiedయద్ అపి కైశ్చిద్ ఉక్తం సర్వస్య శబ్ద-జాతస్య విధ్య్-అర్థవాద-మన్త్ర-రూపస్య కార్యాభిధాయిత్వేనైవ ప్రామాణ్యం వర్ణనీయమ్। వ్యవహారాద్ అన్యత్ర శబ్దస్య బోధకత్వ-శక్త్య్-అవధారణాసమ్భవాద్ వ్యవహారస్య చ కార్య-బుద్ధి-మూలత్వాత్ కార్య-రూప ఏవ శబ్దార్థః। న పరినిష్పన్నే వస్తుని శబ్దః ప్రమాణమ్ ఇతి। అత్రోచ్యతే। ప్రవర్తక-వాక్య-వ్యవహార ఏవ శబ్దానామ్ అర్థ-బోధకత్వ-శక్త్య్-అవధారణం కర్తవ్యమ్ ఇతి కిమ్ ఇయం రాజాజ్ఞా। సిద్ధ-వస్తుషు శబ్దస్య బోధకత్వ-శక్తి-గ్రహణమ్ అత్యన్త-సుకరమ్। తథా హి కేనచిద్ ధస్త-చేష్టాదినాపవరకే దణ్డః స్థిత ఇతి దేవదత్తాయ జ్ఞాపయేతి ప్రేషితః కశ్చిత్ తజ్-జ్ఞాపనే ప్రవృత్తోఽపవరకే దణ్డః స్థిత ఇతి శబ్దం ప్రయుఙ్క్తే। మూకవద్ ధస్త-చేష్టామ్ ఇమాం జానన్ పార్శ్వ-స్థోఽన్యః ప్రాగ్ వ్యుత్పన్నోఽపి తస్యార్థస్య బోధనాయాపవరకే దణ్డః స్థిత ఇత్య్ అస్య శబ్దస్య ప్రయోగ-దర్శనాద్ అస్యార్థస్యాయం శబ్దో బోధక ఇతి జానాతీతి కిమ్ అత్ర దుష్కరమ్। తథా బాలస్ తాతోఽయమ్ ఇయం మాతాయం మాతులోఽయం మనుష్యోఽయం మృగశ్ చన్ద్రోఽయమ్ అయం చ సర్ప ఇతి మాతా-పితృ-ప్రభృతిభిః శబ్దైః శనైః శనైర్ అఙ్గుల్యా నిర్దేశనే తత్ర తత్ర బహుశః శిక్షితస్ తైర్ ఏవ శబ్దైస్ తేష్వ్ అర్థేషు స్వాత్మనశ్ చ బుద్ధ్య్-ఉత్పత్తిం దృష్ట్వా తేష్వ్ అర్థేషు తేషాం శబ్దానామ్ అఙ్గుల్యా నిర్దేశ-పూర్వకః ప్రయోగః సమ్బన్ధాన్తరాభావాత్ సఙ్కేతయితృ-పురుషాజ్ఞానాచ్ చ బోధకత్వ-నిబన్ధన ఇతి క్రమేణ నిశ్చిత్య పునర్ అప్య్ అస్య శబ్దస్యాయమ్ అర్థ ఇతి పూర్వ-వృద్ధైః శిక్షితః సర్వ-శబ్దానామ్ అర్థమ్ అవగమ్య స్వయమ్ అపి సర్వం వాక్య-జాతం ప్రయుఙ్క్తే। ఏవమ్ ఏవ సర్వ-పదానాం స్వార్థాభిధాయిత్వం సఙ్ఘాత-విశేషణాం చ యథావస్థిత-సంసర్గ-విశేష-వాచిత్వం చ జానాతీతి కార్యార్థైవ వ్యుతిపత్తిర్ ఇత్య్ ఆది నిర్బన్ధో నిర్బన్ధనః। అతః పరిష్పన్నః వస్తుని శబ్దస్య బోధకత్వ-శక్త్య్-అవధారణాత్ సర్వాణి వేదాన్త-వాక్యాని సకల-జగత్-కారణం సర్వ-కల్యాణ-గుణాకరమ్ ఉక్త-లక్షణం బ్రహ్మ బోధయన్త్య్ ఏవ।
Link copied॥౧౧౭॥
Link copiedఅపి చ కార్యార్థ ఏవ వ్యుత్పత్తిర్ అస్తు। వేదాన్ద-వాక్యాన్య్ అప్య్ ఉపాసన-విషయ-కార్యాధికృత-విశేషణ-భూత-ఫలత్వేన దుఃఖాసమ్భిన్న-దేశ-విశేష-రూప-స్వర్గాదివద్ అతిరాత్ర-సత్ర-ప్రతిష్ఠాదివద్ అపగోరణ-శతయాతనా-సాధ్య-సాధన-భావవచ్ చ కర్యోపయోగితయైవ సర్వం బోధయన్తి। తథా హి బ్రహ్మ-విద్ ఆప్నోతి పరమ్ ఇత్య్ అత్ర బ్రహ్మోపాసన-విషయ-కార్యాధికృత-విశేషణ-భూత-ఫలత్వేన బ్రహ్మ-ప్రాప్తిః శ్రూయతే పర-ప్రాప్తి-కామో బ్రహ్మ విద్యాద్ ఇత్య్ అత్ర ప్రాప్యతయా ప్రతీయమానం బ్రహ్మ-స్వరూపం తద్-విశేషణం చ సర్వం కార్యోపయోగితయైవ సిద్ధం భవతి। తద్-అన్తర్గతమ్ ఏవ జగత్-స్రష్టృత్వం సంహర్తృత్వమ్ ఆధారత్వమ్ అన్తరాత్మత్వమ్ ఇత్య్ ఆద్య్ ఉక్తమ్ అనుక్తం చ సర్వమ్ ఇతి న కిఞ్చిద్ అనుపపన్నమ్।
Link copied॥౧౧౮॥
Link copiedఏవం చ సతి మన్త్రార్థవాద-గతా హ్య్ అవిరుద్ధా అపూర్వాశ్ చార్థాః సర్వే విధి-శేషతయైవ సిద్ధా భవన్తి। యథోక్తం ద్రమిడ-భాష్యే ఋణం హి వై జాయత ఇతి శ్రుతేర్ ఇత్య్ ఉపక్రమ్య యద్య్ అప్య్ అవదాన-స్తుతి-పరం వాక్యం తథాపి నాసతా స్తుతిర్ ఉపపద్యత ఇతి। ఏతద్ ఉక్తం భవతి సర్వో హ్య్ అర్థవాద-భాగో దేవతారాధన-భూత-యాగాదేః సాఙ్గస్యారాధ్య-దేవతాయాశ్ చాదృష్ట-రూపాన్ గుణాన్ సహస్రశో వదన్ సహస్రశః కర్మణి ప్రాశస్త్య-బుద్ధిమ్ ఉత్పాదయతి। తేషామ్ అసద్-భావే ప్రాశస్త్య-బుద్ధిర్ ఏవ న స్యాద్ ఇతి కర్మణి ప్రాశస్త్య-బుద్ధ్య్-అర్థం గుణ-సద్-భావమ్ ఏవ బోధయతీతి। అనయైవ దిశా సర్వే మన్త్రార్థవాదావగతా అర్థాః సిద్ధాః।
Link copied॥౧౧౯॥
Link copiedఅపి చ కార్య-వాక్యార్థవాదిభిః కిమ్ ఇదం కార్యత్వం నామేతి వక్తవ్యమ్। కృతి-భావ-భావితా కృత్య్-ఉద్దేశ్యతా చేతి చేత్। కిమ్ ఇదం కృత్య్-ఉద్దేశ్యత్వమ్। యద్ అధికృత్య కృతిర్ వర్తతే తత్ కృత్య్-ఉద్దేశ్యత్వమ్ ఇతి చేత్। పురుష-వ్యాపార-రూపాయాః కృతేః కోఽయమ్ అధికారో నామ। యత్ ప్రాప్తీచ్ఛయా కృతిమ్ ఉత్పాదయతి పురుషః తత్ కృత్య్-ఉద్దేశ్యత్వమ్ ఇతి చేద్ ధన్త తర్హీష్టత్వమ్ ఏవ కృత్య్-ఉద్దేశ్యత్వమ్। అథైవం మనుషే ఇష్టస్యైవ రూప-ద్వయమ్ అస్తి। ఇచ్ఛా-విషయతయా స్థితిః పురుష-ప్రేరకత్వం చ। తత్ర ప్రేరకత్వాకారః కృత్య్-ఉద్దేశ్యత్వమ్ ఇతి సోఽయం స్వ-పక్షాభినివేశ-కారితో వృథాశ్రమః। తథా హీచ్ఛా-విషయతయా ప్రతీతస్య స్వ-ప్రయత్నోత్పత్తిమ్ అన్తరేణాసిద్ధిర్ ఏవ ప్రేరకత్వమ్। తత ఏవ ప్రవృత్తేః। ఇచ్ఛాయాం జాతాయామ్ ఇష్టస్య స్వ-ప్రయత్నోత్పత్తిమ్ అన్తరేణాసిద్ధిః ప్రతీయతే చేత్ తతశ్ చికీర్షా జాయతే తతః ప్రవర్తతే పురుష ఇతి తత్త్వ-విదాం ప్రక్రియా। తస్మాద్ ఇష్టస్య కృత్య్-అధీనాత్మ-లాభత్వాతిరేకి కృత్య్-ఉద్దేశ్యత్వం నామ కిమ్ అపి న దృష్యతే। అథోచ్యతే ఇష్టతా-హేతుశ్ చ పురుషానుకూలతా। తత్-పురుషానుకూలత్వం కృత్య్-ఉద్దేశ్యత్వమ్ ఇతి చేత్। నైవమ్। పురుషానుకూలం సుఖమ్ ఇత్య్ అనర్థాన్తరమ్। తథా పురుషానుకూలం దుఃఖ-పర్యాయమ్। అతః సుఖ-వ్యతిరిక్తస్య కస్యాపి పురుషానుకూలత్వం న సమ్భవతి।
Link copiedనను చ దుఃఖ-నివృత్తేర్ అపి సుఖ-వ్యతిరిక్తాయాః పురుషానుకూలతా దృష్టా। నైతత్। ఆత్మానుకూలం సుఖమ్ ఆత్మ-ప్రతికూలం దుఃఖమ్ ఇతి హి సుఖ-దుఃఖయోర్ వివేకః। తత్రాత్మానుకూలం సుఖమ్ ఇష్టం భవతి। తత్-ప్రతికూలం దుఃఖం చానిష్టమ్। అతో దుఃఖ-సంయోగస్యాసహ్యతయా తన్-నివృత్తిర్ అపీష్టా భవతి। తత ఏవేష్టతా-సామ్యాద్ అనుకూలతా-భ్రమః। తథా హి ప్రకృతి-సంసృష్టస్య సంసారిణః పురుషస్యానుకూల-సంయోగః ప్రతికూల-సంయోగః స్వరూపేణావస్థితిర్ ఇతి చ తిస్రోఽవస్థాః। తత్ర ప్రతికూల-సమ్బన్ధ-నివృత్తిశ్ చానుకూల-సమ్బన్ధ-నివృత్తిశ్ చ స్వరూపేణావస్థితిర్ ఏవ। తస్మాత్ ప్రతికూల-సంయోగే వర్తమానే తన్-నివృత్తి-రూపా స్వరూపేణావస్థితిర్ అపీష్టా భవతి। తత్రేష్టతా-సామ్యాద్ అనుకూలతా-భ్రమః।
Link copied॥౧౨౦॥
Link copiedఅతః సుఖ-రూపత్వాద్ అనుకూలతాయాః నియోగస్యానుకూలతాం వదన్తం ప్రామాణికాః పరిహసన్తి। ఇష్టస్యార్థ-విశేషస్య నివర్తకతయైవ హి నియోగస్య నియోగత్వం స్థిరత్వమ్ అపూర్వత్వం చ ప్రతీయతే। స్వర్గ-కామో యజేతేత్య్ అత్ర కార్యస్య క్రియాతిరిక్తా స్వర్గ-కామ-పద-సమభివ్యాహారేణ స్వర్గ-సాధనత్వ-నిశ్చయాద్ ఏవ భవన్తి। న చ వాచ్యం యజేతేత్య్ అత్ర ప్రథమం నియోగః స్వ-ప్రధానతయైవ ప్రతీయతే స్వర్గ-కామ-పద-సమభివ్యాహారాత్ స్వ-సిద్ధయే స్వర్గ-సిద్ధ్య్-అనుకూలతా చ నియోగస్యేతి। యజేతేతి హి ధాత్వ్-అర్థస్య పురుష-ప్రయత్న-సాధ్యతా ప్రతీయతే। స్వర్గ-కామ-పద-సమభివ్యాహారాద్ ఏవ ధాత్వ్-అర్థాతిరేకిణో నియోగత్వం స్థిరత్వమ్ అపూర్వత్వం చేత్య్ ఆది। తచ్ చ స్వర్గ-సాధనత్వ-ప్రతీతి-నిబన్ధనమ్। సమభివ్యాహృత-స్వర్గ-కామ-పదార్థాన్వయ-యోగ్యం స్వర్గ-సాధనమ్ ఏవ కార్యం లిఙ్-ఆదయోఽభిదధతీతి లోక-వ్యుత్పత్తిర్ అపి తిరస్కృతా। ఏతద్ ఉక్తం భవతి--- సమభివ్యహృత-పదాన్తర-వాచ్యార్థాన్వయ-యోగ్యమ్ ఏవేతర-పద-ప్రతిపాద్యమ్ ఇత్య్ అన్వితాభిధాయి-పద-సఙ్ఘాత-రూప-వాక్య-శ్రవణ-సమనన్తరమ్ ఏవ ప్రతీయతే। తచ్ చ స్వర్గ-సాధన-రూపమ్। అతః క్రియావద్ అనన్యార్థతాపి విరోధాద్ ఏవ పరిత్యక్తేతి। అత ఏవ గఙ్గాయాం ఘోష ఇత్య్ ఆదౌ ఘోష-ప్రతివాస-యోగ్యార్థోపస్థాపన-పరత్వం గఙ్గా-పదస్యాశ్రీయతే। ప్రథమం గఙ్గా-పదేన గఙ్గార్థః స్మృత ఇతి గఙ్గా-పదార్థస్య పేయత్వం న వాక్యార్థాన్వయీభవతి। ఏవమ్ అత్ర అపి యజేతేత్యేతావన్-మాత్ర-శ్రవణే కార్యమ్ అనన్యార్థం స్మృతమ్ ఇతి వాక్యార్థాన్వయ-సమయే కార్యస్యానన్యార్థతా నావతిష్ఠతే। కార్యాభిధాయి-పద-శ్రవణ-వేలాయాం ప్రథమం కార్యమ్ అనన్యార్థం ప్రతీతమ్ ఇత్య్ ఏతద్ అపి న సఙ్గచ్ఛతే। వ్యుత్పత్తి-కాలే గవానయనాది-క్రియాయా దుఃఖ-రూపాయా ఇష్ట-విశేష-సాధనతయైవ కార్యతా-ప్రతీతేః। అతో నియోగస్య పురుషానుకూలత్వం సర్వ-లోక-విరుద్ధం నియోగస్య సుఖ-రూప-పురుషానుకూలతాం వదతః స్వానుభవ-విరోధశ్ చ। కరీర్యా వృష్టి-కామో యజేయ్తేత్య్ ఆదిషు సిద్ధేఽపి నియోగే వృష్ట్య్-ఆది-సిద్ధి-నిమిత్తస్య వృష్టి-వ్యతిరేకేణ నియోగస్యానుకూలతా నానుభూయతే। యద్య్ అప్య్ అస్మిఞ్ జన్మని వృష్ట్య్-ఆది-సిద్ధేర్ అనియమస్ తథాప్య్ అనియమాద్ ఏవ నియోగ-సిద్ధిర్ అవశ్యాశ్రయణీయా। తస్మిన్న్ అనుకూలతా-పర్యాయ-సుఖానుభూతిర్ న దృశ్యతే। ఏవమ్ ఉక్త-రీత్యా కృతి-సాధ్యేష్టత్వాతిరేకి కృత్య్-ఉద్దేశ్యత్వం న దృశ్యతే।
Link copied॥౧౨౧॥
Link copiedకృతిం ప్రతి శేషిత్వం కృత్య్-ఉద్దేశ్యత్వమ్ ఇతి చేత్। కిమ్ ఇదం శేషిత్వం కిం చ శేషత్వమ్ ఇతి వక్తవ్యమ్। కార్యం ప్రతి సమ్బన్ధీ శేషః। తత్-ప్రతిసమ్బన్ధిత్వం శేషిత్వమ్ ఇతి చేత్। ఏవం తర్హి కార్యత్వమ్ ఏవ శేషిత్వమ్ ఇత్య్ ఉక్తం భవతి। కార్యత్వమ్ ఏవ విచార్యతే। పరోద్దేశ-ప్రవృత్త-కృతి-వ్యాప్త్య్-అర్హత్వమ్ శేషత్వమ్ ఇతి చేత్। కోఽయం పరోద్దేశో నామేతి। అయమ్ ఏవ హి విచార్యతే। ఉద్దేశ్యత్వం నామేప్సితత్వ-సాధ్యత్వమ్ ఇతి చేత్। కిమ్ ఇదమ్ ఈప్సితత్వమ్। కృతి-ప్రయోజనత్వమ్ ఇతి చేత్ పురుషస్య కృత్య్-ఆరమ్భ-ప్రయోజనమ్ ఏవ హి కృతి-ప్రయోజనమ్। స చేచ్ఛా-విషయః కృత్య్-అధీనాత్మ-లాభ ఇతి పూర్వోక్త ఏవ। అయమ్ ఏవ హి సర్వత్ర శేష-శేషి-భావః। పర-గతాతిశయాధానేచ్ఛోపాదేయత్వమ్ ఏవ యస్య స్వరూపం స శేషః పరః శేషీ। ఫలోత్పత్తీచ్ఛయా యాగాదేస్ తత్-ప్రయత్నస్య చోపాదేయత్వం యాగాది-సిద్ధీచ్ఛయాన్యత్ సర్వమ్ ఉపాదేయమ్।
Link copied॥౧౨౨॥
Link copiedఏవం గర్భ-దాసాదీనామ్ అపి పురుష-విశేషాతిశయాధానోపాదేయత్వమ్ ఏవ స్వరూపమ్। ఏవమ్ ఈశ్వర-గతాతిశయాధానేచ్ఛయోపాదేయత్వమ్ ఏవ చేతనాచేతనాత్మకస్య నిత్యస్యానిత్యస్య చ సర్వస్య వస్తునః స్వరూపమ్ ఇతి సర్వమ్ ఈశ్వర-శేషత్వమ్ ఏవ సర్వస్య చేశ్వరః శేషీతి సర్వస్య వశీ సర్వస్యేశానః పతిం విశ్వస్యేత్య్ ఆద్య్ ఉక్తమ్। కృతి-సాధ్యం ప్రధానం యత్ తత్ కార్యమ్ అభిధీయత ఇత్య్ అయమ్ అర్థః శ్రద్దధానేష్వ్ ఏవ శోభతే।
Link copied॥౧౨౩॥
Link copiedఅపి చ స్వర్గ-కామో యజేతేత్య్ ఆదిషు ల-కార-వాచ్య-కర్తృ-విశేష-సమర్పణ-పరాణాం స్వర్గ-కామాది-పదానాం నియోజ్య-విశేష-సమర్పణ-పరత్వం శబ్దానుశాసన-విరుద్ధం కేనావగమ్యతే। సాధ్య-స్వర్గ-విశిష్టస్య స్వర్గ-సాధనే కర్తృత్వాన్వయో న ఘటత ఇతి చేత్। నియోజ్యత్వాన్వయోఽపి న ఘటత ఇతి హి స్వర్గ-సాధనత్వ-నిశ్చయః। స తు శాస్త్ర-సిద్ధే కర్తృత్వాన్వయే స్వర్గ-సాధనత్వ-నిశ్చయః క్రియతే। యథా భోక్తు-కామో దేవదత్త-గృహం గచ్ఛేద్ ఇత్య్ ఉక్తే భోజన-కామస్య దేవదత్త-గృహ-గమనే కర్తృత్వ-శ్రవణాద్ ఏవ ప్రాగ్ అజ్ఞాతమ్ అపి భోజన-సాధనత్వం దేవదత్త-గృహ-గమనస్యావగమ్యతే। ఏవమ్ అత్రాపి భవతి। న క్రియాన్తరం ప్రతి కర్తృతయా శ్రుతస్య క్రియాన్తరే కర్తృత్వ-కల్పనం యుక్తం యజేతేతి హి యాగ-కర్తృతయా శ్రుతస్య బుద్ధౌ కర్తృత్వ-కల్పనం క్రియతే। బుద్ధేః కర్తృత్వ-కల్పనమ్ ఏవ హి నియోజ్యత్వమ్। యథోక్తం---
Link copiedనియోజ్య సర్వ-కార్యం యః స్వకీయత్వేన బుధ్యతే।
Link copiedఇతి। యష్టృత్వానుగుణం తద్-బోధృత్వమ్ ఇతి చేత్। దేవదత్తః పచేద్ ఇతి పాకే కర్తృతయా శ్రుతస్య దేవదత్తస్య పాకార్థ-గమనం పాకానుగుణమ్ ఇతి గమనే కర్తృత్వ-కల్పనం న యుజ్యతే।
Link copied॥౧౨౪॥
Link copiedకిం చ లిఙ్-ఆది-శబ్ద-వాచ్యం స్థాయి-రూపం కిమ్ ఇత్య్ అపూర్వమ్ ఆశ్రీయతే। స్వర్గ-కామ-పద-సమభివ్యాహారానుపపత్తేర్ ఇతి చేత్। కాత్రానుపపత్తిః। సిషాధయిషిత-స్వర్గో హి స్వర్గ-కామః। తస్య స్వర్గ-కామస్య కాలాన్తర-భావి-స్వర్గ-సిద్ధౌ క్షణ-భఙ్గినీ యాగాది-క్రియా న సమర్థేతి చేత్। అనాఘ్రాత-వేద-సిద్ధాన్తానామ్ ఇయమ్ అనుపపత్తిః। సర్వైః కర్మభిర్ ఆరాధితః పరమేశ్వరో భగవాన్ నారాయణస్ తత్ తద్ ఇష్టం ఫలం దదాతీతి వేద-విదో వదన్తి। యథాహుర్ వేద-విద్-అగ్రేసరా ద్రమిడాచార్యాః ఫల-సమ్బిభత్సయా। సమ్బిభత్స ఇత్య్ అత్ర అ-కార-లోపశ్ చిన్యః, వ-కారోత్తర-భ-కార-పూర్వమ్ అకారస్యౌచిత్త్యాత్। వ్యాచష్టే హి కర్మభిర్ ఆత్మానమ్ అపి ప్రీణన్తి। స ప్రీతోఽలం ఫలాయేతి శాస్త్ర-మర్యాదా, ఇతి ఫల-సమ్బన్ధేచ్ఛయా కర్మభిర్ యాగ-దాన-హోమాదిభిస్ త్రిదశాది-దేవతా-ముఖేన తత్-తద్-అన్తర్యామి-రూపేణావస్థితమ్ ఇన్ద్రాది-శబ్ద-వాచ్యం పరమాత్మానం భగవన్తం వాసుదేవమ్ ఆరిరాధయిషన్తి, స హి కర్మభిర్ ఆరాధితస్ తేషామ్ ఇష్టాని ఫలాని పరమాత్మా ప్రయచ్ఛతీత్య్ అర్థః। తథా చ శ్రుతిః--- ఇష్టా-పూర్తం బహుధా జాతం జాయమానం విశ్వం బిభర్తి భువనస్య నాభిర్ ఇతి। ఇష్టా-పూర్తమ్ ఇతి సకల-శ్రుతి-స్మృతి-చోదితం కర్మోచ్యతే। తద్-విశ్వం బిభర్తి ఇన్ద్రాగ్ని-వరుణాది-సర్వ-దేవతా-సమ్బన్ధితయా ప్రతీయమానం తత్-తద్-అన్తరాత్మతయావస్థితః పరమ-పురుషః స్వయమ్ ఏవ బిభర్తి స్వయమ్ ఏవ స్వీకరోతి। భువనస్య నాభిః బ్రహ్మ-క్షత్రాది-సర్వ-వర్ణ-పూర్ణస్య భువనస్య ధారకః తైస్ తైః కర్మభిర్ ఆరాధితస్ తత్-తద్-ఇష్ట-ఫల-ప్రదానేన భువనానాం ధారక ఇతి నాభిర్ ఇత్య్ ఉక్తః। అగ్ని-వాయు-ప్రభృతి-దేవతాన్తరాత్మతయా తత్-తచ్-ఛబ్దాభిధేయోఽయమ్ ఏవేత్య్ ఆహ తద్ ఏవాగ్నిస్ తద్ వాయుస్ తత్ సూర్యస్ తద్ ఉ చన్ద్రమా ఇతి। యథోక్తం భగవతా---
Link copiedయో యో యాం యాం తనుం భక్తః శ్రద్ధయార్చితుమ్ ఇచ్ఛతి।
Link copiedతస్య తస్యాచలాం శ్రద్ధాం తామ్ ఏవ విదధామ్య్ అహమ్॥
Link copiedస తస్య శ్రద్ధయా యుక్తస్ తస్యారాధనమ్ ఈహతే।
Link copiedలభతే చ తతః కామాన్ మయైవ విహితాన్ ఇహ తాన్॥ ఇతి।
Link copiedయాం యాం తనుమ్ ఇతీన్ద్రాది-దేవతా-విశేషాస్ తత్-తద్-అన్తర్యామితయావస్థితస్య భగవతస్ తనవః శరీరాణీత్య్ అర్థః।
Link copiedఅహం హి సర్వ-యజ్ఞానాం భోక్తా చ ప్రభుర్ ఏవ చ।
Link copiedఇత్య్ ఆది।
Link copiedప్రభుర్ ఏవ చేతి సర్వ-ఫలానాం ప్రదాతా చేత్య్ అర్థః।
Link copiedయథా చ---
Link copiedయజ్ఞైస్ త్వమ్ ఇజ్యసే నిత్యం సర్వ-దేవ-మయాచ్యుత।
Link copiedయైః స్వ-ధర్మ-పరైర్ నాథ నరైర్ ఆరాధితో భవాన్।
Link copiedతే తరన్త్య్ అఖిలామ్ ఏతాం మయామ్ ఆత్మ-విముక్తయే॥
Link copiedఇతి। సేతిహాస-పురాణేషు సర్వేష్వ్ ఏవ వేదేషు సర్వాణి కర్మాణి సర్వేశ్వరారాధన-రూపాణి, తైస్ తైః కర్మభిర్ ఆరాధితః పురుషోత్తమస్ తత్ తద్ ఇష్టం ఫలం దదాతీతి తత్ర తత్ర ప్రపఞ్చితమ్। ఏవం హి సర్వ-శక్తిం సర్వ-జ్ఞం సర్వేశ్వరం భగవన్తమ్ ఇన్ద్రాది-దేవతాన్తర్యామి-రూపేణ యాగ-దాన-హోమాది-వేదోదిత-సర్వ-కర్మణాం భోక్తారం సర్వ-ఫలానాం ప్రదాతారం చ సర్వాః శ్రుతయో వదన్తి। చతుర్హోతారో యత్ర సమ్పదం గచ్ఛన్తి దేవైర్ ఇత్య్ ఆద్యాః। చతుర్హోతారో యజ్ఞాః, యత్ర పరమాత్మని దేవేష్వ్ అన్తర్యామి-రూపేణావస్థితే, దేవైః సమ్పదం గచ్ఛన్తి దేవైః సమ్బన్ధం గచ్ఛన్తి యజ్ఞా ఇత్య్ అర్థః। అన్తర్యామి-రూపేణావస్థితస్య పరమాత్మనః శరీరతయావస్థితానామ్ ఇన్ద్రాదీనాం యాగాది-సమ్బన్ధ ఇత్య్ ఉక్తం భవతి। యథోక్తం భగవతా---
Link copiedభోక్తారం యజ్ఞ-తపసాం సర్వ-లోక-మహేశ్వరమ్।
Link copiedఇతి। తస్మాద్ అగ్న్య్-ఆది-దేవతాన్తరాత్మ-భూత-పరమ-పురుషారాధన-రూప-భూతాని సర్వాణి కర్మాణి, స ఏవ చాభిలషిత-ఫల-ప్రదాతేతి కిమ్ అత్రాపూర్వేణ వ్యుత్పత్తి-పథ-దూర-వర్తినా వాచ్యతయాభ్యుపగతేన కల్పితేన వా ప్రయోజనమ్। ఏవం చ సతి లిఙ్-ఆదేః కోఽయమ్ అర్థః పరిగృహీతో భవతి। యజ దేవ-పూజాయామ్ ఇతి దేవతారాధన-భూత-యాగాదేః ప్రకృత్య్-అర్థస్య కర్తృవ్యాపార-సాధ్యతాం వ్యుత్పత్తి-సిద్ధాం లిఙ్-ఆదయోఽభిదధతీతి న కిఞ్చిద్ అనుపపన్నమ్। కర్తృ-వాచినాం ప్రత్యయానాం ప్రకృత్య్-అర్థస్య కర్తృ-వ్యాపార-సమ్బన్ధ-ప్రకారో హి వాచ్యః। భూత-వర్తమానాదికమ్ అన్యే వదన్తి। లిఙ్-ఆదయస్ తు కర్తృ-వ్యాపార-సాధ్యతాం వదన్తి।
Link copied॥౧౨౫॥
Link copiedఅపి చ కామినః కర్తవ్యతా కర్మ విధాయ కర్మణో దేవతారాధన-రూపతాం తద్-ద్వారా ఫల-సమ్భవం చ తత్-తత్-కర్మ-విధి-వాక్యాన్య్ ఏవ వదన్తి। వాయవ్యం శ్వేతమ్ ఆలభత భూతి-కామో వాయుర్ వై క్షేపిష్ఠా దేవతా వాయుమ్ ఏవ స్వేన భాగధేయేనోపధావతి స ఏవైనం భూతిం గమయతీత్య్ ఆదీని। నాత్ర ఫల-సిద్ధ్య్-అనుపపత్తిః కాపి దృశ్యత ఇతి ఫల-సాధనత్వావగతిర్ ఔపాదానికీత్య్ అపి న సఙ్గచ్ఛతి। విధ్య్-అపేక్షితం యాగాదేః ఫల-సాధనత్వ-ప్రకారం వాక్య-శేష ఏవ బోధయతీత్య్ అర్థః। తస్మాద్ బ్రాహ్మణాయ నాపగురేతేత్య్ అత్రాపగోరణ-నిషేధ-విధి-పర-వాక్య-శేషే శ్రూయమాణం నిషేధ్యస్యాపగోరణస్య శత-యాతనా-సాధనత్వం నిషేధ-విధ్య్-ఉపయోగీతి హి స్వీక్రియతే। అత్ర పునః కామినః కర్తవ్యతయా విహితస్య యాగాదేః కామ్య-స్వర్గాది-సాధనత్వ-ప్రకారం వాక్య-శేషావగతమ్ అనాదృత్య కిమ్ ఇత్య్ ఉపాదానేన యాగాదేః ఫల-సాధనత్వం పరికల్ప్యతే। హిరణ్యనిధిమ్ అపవరకే నిధాయ యాచతే కోద్రవాది-లుబ్ధః కృపణం జనమ్ ఇతి శ్రూయతే తద్ ఏతద్ యుష్మాసు దృశ్యతే। శత-యాతనా-సాధనత్వమ్ అపి నాదృష్ట-ద్వారేణ। చోదితాన్య్ అనుతిష్ఠో విహితం కర్మాకుర్వతో నిన్దితాని చ కుర్వతః సర్వాణి సుఖాని దుఃఖాని చ పరమ-పురుషానుగ్రహ-నిగ్రహాభ్యామ్ ఏవ భవన్తి। ఏష హ్య్ ఏవానన్దయతి అథో సోఽభయం గతో భవతి అథ తస్య భయం భవతి భీషాస్మాద్ వాతః పవతే భీషోదేతి సూర్యో భీషాస్మాద్ అగ్నిశ్ చన్ద్రశ్ చ మృత్యుర్ ధావతి పఞ్చమః ఇతి। ఏతస్య వా అక్షరస్య ప్రశాసనే గార్గి సూర్యాచన్ద్రమసౌ విధృతౌ తిష్ఠతః ఏతస్య వా అక్షరస్య ప్రశాసనే గార్గి దదతో మనుష్యాః ప్రశంసన్తి యజమానం దేవా దర్వీం పితరోఽన్వాయత్తా ఇత్య్ ఆద్య్-అనేక-విధాః శ్రుతయః సన్తి। యథోక్తం ద్రమిడ-భాష్యే--- తస్యాజ్ఞయా ధావతి వాయుర్ నద్యః స్రవన్తి తేన చ కృతసీమానో జలాశయాః సమదా ఇవ మేష-విర్సపితం కుర్వన్తీతి। తత్-సఙ్కల్ప-నిబన్ధనా హీమే లోకే న చ్యవన్తే న స్ఫుటన్తే। స్వ-శాసనానువర్తినాం జ్ఞాత్వా కారుణ్యాత్ స భగవాన్ వర్ధయేత విద్వాన్ కర్మ-దక్ష ఇతి చ।
Link copied॥౧౨౬॥
Link copiedపరమ-పురుష-యాథాత్మ్య-జ్ఞాన-పూర్వక-తద్-ఉపాసనాది-విహిత-కర్మానుష్ఠాయినస్ తత్-ప్రసాదాత్ తత్-ప్రాప్తి-పర్యన్తాని సుఖాన్య్ అభయం చ యథాధికారం భవన్తి। తజ్-జ్ఞాన-పూర్వకం తద్-ఉపాసనాది-విహితం కర్మాకుర్వతో నిన్దితాని చ కుర్వతస్ తన్-నిగ్రహాద్ ఏవ తద్-అప్రాప్తి-పూర్వకాపరిమిత-దుఃఖాని భయం చ భవన్తి। యథోక్తం భగవతా---
Link copiedనియతం కురు కర్మ త్వం కర్మ జ్యాయో హ్య్ అకర్మణః।
Link copiedఇత్య్ ఆదినా కృత్స్నం కర్మ జ్ఞాన-పూర్వకమ్ అనుష్ఠేయం విధాయ
Link copiedమయి సర్వాణి కర్మాణి సన్న్యస్య
Link copiedఇతి సర్వస్య కర్మణః స్వారాధనతామ్ ఆత్మనాం స్వ-నియామ్యతాం చ ప్రతిపాద్య
Link copiedయే మే మతమ్ ఇదం నిత్యమ్ అనుతిష్ఠన్తి మానవాః।
Link copiedశ్రద్ధావన్తోఽనసూయన్తో ముచ్యన్తే తేఽపి కర్మభిః॥
Link copiedయే త్వ్ ఏతద్ అభ్యసూయన్తో నానుతిష్ఠన్తి మే మతమ్।
Link copiedసర్వ-జ్ఞాన-విమూఢాంస్ తాన్ విద్ధి నష్టాన్ అచేతసః॥
Link copiedఇతి స్వాజ్ఞానువర్తినః ప్రశస్య విపరీతాన్ వినిన్ద్య పునర్ అపి స్వాజ్ఞానుపాలనమ్ అకుర్వతామ్ ఆసుర్ అప్రకృత్య్-అన్తర్భావమ్ అభిధాయాధమా గతిశ్ చోక్తా---
Link copiedతాన్ అహం ద్విషతః క్రూరాన్ సంసారేషు నరాధమాన్।
Link copiedక్షిపామ్య్ అజస్రమ్ అశుభాన్ ఆసురీష్వ్ ఏవ యోనిషు॥
Link copiedఆసురీం యోనిమ్ ఆపన్నా మూఢా జన్మని జన్మని।
Link copiedమామ్ అప్రాప్యైవ కౌన్తేయ తతో యాన్త్య్ అధమాం గతిమ్॥ ఇతి।
Link copiedసర్వ-కర్మాణ్య్ అపి సదా కుర్వాణో మద్-వ్య్పాశ్రయః।
Link copiedమత్-ప్రసాదాద్ అవాప్నోతి శాశ్వతం పదమ్ అవ్యయమ్॥
Link copiedఇతి చ స్వాజ్ఞానువర్తినాం శాశ్వతం పదం చోక్తమ్। అశ్రుత-వేదాన్తానాం కర్మణ్య్ అశ్రద్ధా మా భూద్ ఇతి దేవతాధికరణేఽతివాదాః కృతాః కర్మ-మాత్రే యథా శ్రద్ధా స్యాద్ ఇతి సర్వమ్ ఏక-శాస్త్రమ్ ఇతి వేద-విత్-సిద్ధాన్తః।
Link copied॥౧౨౭॥
Link copiedతస్యైతస్య పరస్య బ్రహ్మణో నారాయణస్యాపరిచ్ఛేద్య-జ్ఞానానన్దామలత్వ-స్వరూపవజ్-జ్ఞాన-శక్తి-బలైశ్వర్య-వీర్య-తేజః-ప్రభృత్య్-అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణవత్-స్వ-సఙ్కల్ప-ప్రవర్త్య-స్వేతర-సమస్త-చిద్-అచిద్-వస్తు-జాతవత్-స్వాభిమత-స్వానురూపైక-రూప-దివ్య-రూప-తద్-ఉచిత-నిరతిశయ-కల్యాణ-వివిధానన్త-భూషణ-స్వ-శక్తి-సదృశాపరిమితానన్తాశ్చర్య-నానా-విధాయుధ-స్వాభిమతానురూప-స్వరూపగుణ-విభవైశ్వర్య-శీలాద్య్-అనవధిక-మహిమ-మహిసీ-స్వానురూప-కల్యాణ-జ్ఞాన-క్రియాద్య్-అపరిమేయ-గుణానన్త-పరిజన-పరిచ్ఛేద-స్వోచిత-నిఖిల-భోగ్య-భోగోపకరణాద్య్-అనన్త-మహా-విభవావాఙ్-మనస-గోచర-స్వరూప-స్వభావ-దివ్య-స్థానాది-నిత్యతా-నిరవద్యతాగోచరాశ్ చ సహస్రశః శ్రుతయః సన్తి। వేదాహమ్ ఏతం పురుషం మహాన్తమ్ ఆదిత్య-వర్ణం తమసః పరస్తాత్। య ఏషోఽన్తరాదిత్యే హిరణ్-మయః పురుషః। తస్య యథా కప్యాసం పుణ్డరీకమ్ ఏవమ్ అక్షిణీ। య ఏషోఽన్తర్హృదయ ఆకాశస్ తస్మిన్న్ అయం పురుషో మనో-మయోఽమృతో హిరణ్-మయః మనో-మయ ఇతి మనసైవ విశుద్ధేన గృహ్యత ఇత్య్ అర్థః సర్వే నిమేషా జజ్ఞిరే విద్యుతః పురుషాద్ అధి విద్యుద్-వర్ణాత్ పురుషాద్ ఇత్య్ అర్థః నీల-తోయద-మధ్య-స్థా విద్యుల్-లేఖేవ భాస్వరా మధ్య-స్థ-నీల-తోయదా విద్యుల్-లేఖేవ సేయం దహర-పుణ్డరీక-మధ్య-స్థాకాశ-వర్తినీ వహ్ని-శిఖా స్వాన్తర్నిహిత-నీల-తోయదాభ-పరమాత్మ-స్వరూపా అవాన్తర్-నిహిత-నీల-తోయదా విద్యుద్ ఇవాభాతీత్య్ అర్థః। మనో-మయః ప్రాణ-శరీరో భా-రూపః। సత్య-కామః సత్య-సఙ్కల్పః। ఆకాశాత్మా సర్వ-కామా సర్వ-కామః సర్వ-గన్ధః సర్వ-రసః సర్వమ్ ఇదమ్ అభ్యాత్తోఽవాక్యానాదరః। మహారజనం వాస ఇత్య్ ఆద్యాః। అస్యేశానా జగతో విష్ణు-పత్నీ। హ్రీశ్ చ తే లక్ష్మీశ్ చ పత్న్యౌ। తద్ విష్ణోః పరమం పదం సదా పశ్యన్తి సూరయః। క్షయన్తమ్ అస్య రజసః పరాకే। యద్ ఏకమ్ అవ్యక్తమ్ అనన్త-రూపం విశ్వం పురాణం తమసః పరస్తాత్। యో వేద నిహితం గుహాయాం పరమే వ్యోమన్। యోఽస్యాధ్యక్షః పరమే వ్యోమన్। తద్ ఏవ తద్ ఉ భవ్యమా ఇదం తద్ అక్షరే పరమే వ్యోమన్ నిత్యాది-శ్రుతి-శత-నిశ్చితోఽయమ్ అర్థః।
Link copied॥౧౨౮॥
Link copiedతద్ విష్ణోః పరమం పదమ్ ఇతి విష్ణోః పరస్య బ్రహ్మణః పరం పదం సదా పశ్యన్తి సూరయ ఇతి వచనాత్ సర్వ-కాల-దర్శనవన్తః పరిపూర్ణ-జ్ఞానాః కేచన సన్తీతి విజ్ఞాయతే। యే సూరయస్ తే సదా పశ్యన్తీతి వచన-వ్యక్తిః, యే సదా పశ్యన్తి తే సూరయ ఇతి వా। ఉభయ-పక్షేఽప్య్ అనేక-విధానం న సమ్భవతీతి చేత్। న। అప్రాప్తత్వాత్ సర్వస్య సర్వ-విశిష్టం పరమ-స్థానం విధీయతే। యథోక్తం తద్-గుణాస్ తే విధీయేరన్న్ అవిభాగాద్ విధానార్థే న చేద్ అన్యేన శిష్టా ఇతి। యథా యదాగ్నేయోఽష్టాక-పాల ఇత్య్ ఆది కర్మ-విధౌ కర్మణో గుణానాం చాప్రాప్తత్వేన సర్వ-గుణ-విశిష్టం కర్మ విధీయతే తథాత్రాపి సూరిభిః సదా దృశ్యత్వేన విష్ణోః పరమ-స్థానమ్ అప్రాప్తం ప్రతిపాదయతీతి న కశ్చిద్ విరోధః। కరణ-మన్త్రాః క్రియమాణానువాదినః స్తోత్ర-శస్త్ర-రూపా జపాదిషు వినియుక్తాశ్ చ ప్రకరణ-పథితాశ్ చాప్రకరణ-పథితాశ్ చ స్వార్థం సర్వం యథావస్థితమ్ ఏవాప్రాప్తమ్ అవిరుద్ధం బ్రాహ్మణవద్ బోధయన్తీతి హి వైదికాః। ప్రగీత-మన్త్ర-సాధ్య-గుణ-గుణాభిమానం స్తోత్రమ్। అప్రగీత-మన్త్ర-సాధ్య-గుణ-గుణి-నిష్ఠ-గుణాభిధానం శాస్త్రమ్। నియుక్తార్థ-ప్రకాశనాం చ దేవతాదిష్వ్ అప్రాప్తావిరుద్ధ-గుణ-విశేష-ప్రతిపాదనం వినియోగానుగుణమ్ ఏవ। నేయం శ్రుతిర్ ముక్త-జన-విషయా। తేశాం సదా దర్శనానుపపత్తేః। నాపి ముక్త-ప్రవాహ-విషయా। సదా పశ్యన్తీత్య్ ఏకైక-కర్తృక-విషయతయా ప్రతీతేః శ్రుతి-భఙ్గ-ప్రసఙ్గాత్। మన్త్రార్థవాద-గతా హ్య్ అర్థాః కార్య-పరత్వేఽపి సిద్ధ్యన్తీత్య్ ఉక్తమ్। కిం పునః సిద్ధ-వస్తున్య్ ఏవ తాత్పర్యే వ్యుత్పత్తి-సిద్ధ ఇతి సర్వమ్ ఉపపన్నమ్। నను చాత్ర తద్ విష్ణోః పరమం పదమ్ ఇతి పర-స్వరూపమ్ ఏవ పరమ-పద-శబ్దేనాభిధీయతే। సమస్త-హేయ-రహితం విష్ణ్వ్-ఆఖ్యం పరం పదమ్ ఇత్య్ ఆదిష్వ్ అవ్యతిరేక-దర్శనాత్। నైవమ్। క్షయన్తమ్ అస్య రజతః పరాకే, తద్-అక్షరే పరమే వ్యోమన్, యో అస్యాధ్యాక్షః పరమే వ్యోమన్, యో వేద నిహితం గుహాయాం పరమే వ్యోమన్ నిత్యాదిషు పరమ-స్థానస్యైవ దర్శనమ్। తద్ విష్ణోః పరమం పదమ్ ఇతి వ్యతిరేక-నిర్దేశాచ్ చ। విష్ణ్వ్-ఆఖ్యం పరమం పదమ్ ఇతి విశేషణాద్ అన్యద్ అపి పరమం పదం విద్యత ఇతి చ తేనైవ జ్ఞాయతే। తద్ ఇదం పర-స్థానం సూరిభిః సదాదృశ్యత్వేన ప్రతిపాద్యతే।
Link copied॥౧౨౯॥
Link copiedఏతద్ ఉక్తం భవతి క్వచిత్ పరస్థానం పరమ-పద-శబ్దేన ప్రతిపాద్యతే, క్వచిత్ ప్రకృతి-వియుక్తాత్మ-స్వరూపం, క్వచిద్ భగవత్-స్వరూపమ్। తద్ విష్ణోః పరమం పదం సదా పశ్యన్తి సూరయ ఇతి పర-స్థానమ్।
Link copiedసర్గ-స్థిత్య్-అన్త-కాలేషు త్రి-విధైవ ప్రవర్తతే।
Link copiedగుణ-ప్రవృత్త్యా పరమం పదం తస్యాగుణం మహత్॥
Link copiedఇత్య్ అత్ర ప్రకృతి-వియుక్తాత్మ-స్వరూపమ్।
Link copiedసమస్త-హేయ-రహితం విష్ణ్వ్-ఆఖ్యం పరమం పదమ్।
Link copiedఇత్య్ అత్ర భగవత్-స్వరూపమ్। త్రీణ్య్ అప్య్ ఏతాని పరమ-ప్రాప్తత్వేన పరమ-పద-శబ్దేన ప్రతిపాద్యన్తే। కథం త్రయాణాం పరమ-ప్రాప్యత్వమ్ ఇతి చేత్। భగవత్-స్వరూపం పరమ-ప్రాప్యత్వాద్ ఏవ పరమం పదమ్। ఇతరయోర్ అపి భగవత్-ప్రాప్తి-గర్భత్వాద్ ఏవ పరమ-పదత్వమ్। సర్వ-కర్మ-బన్ధ-వినిర్ముక్తాత్మ-స్వరూపావాప్తిర్ భగవత్-ప్రాప్తి-గర్భా। త ఇమే సత్యాః కామా అనృతాపిధానా ఇతి భగవతో గుణ-గణస్య తిరోధాయకత్వేనానృత-శబ్దేన స్వ-కర్మణః ప్రతిపాదనమ్।
Link copied॥౧౩౦॥
Link copiedఅనృత-రూప-తిరోధానం క్షేత్రజ్ఞ-కర్మేతి కథమ్ అవగమ్యత ఇతి చేత్।
Link copiedఅవిద్యా కర్మ-సఞ్జ్ఞాన్యా తృతీయా శక్తిర్ ఇష్యతే।
Link copiedయథా క్షేత్రజ్ఞ-శక్తిః సా వేష్టితా నృప సర్వగా॥
Link copiedసంసార-తాపాన్ అఖిలాన్ అవాప్నోత్య్ అతిసన్తతాన్।
Link copiedతయా తిరోహితత్వాచ్ చ, ఇత్య్ ఆది వచనాత్।
Link copied॥౧౩౧॥
Link copiedపర-స్థాన-ప్రాప్తిర్ అపి భగవత్-ప్రాప్తి-గర్భైవేతి సువ్యక్తమ్। క్షయన్తమ్ అస్య రజసః పరాక ఇతి రజతః-శబ్దేన త్రి-గుణాత్మికా ప్రకృతిర్ ఉచ్యతే కేవలస్య రజసోఽనవస్థానాత్। ఇమాం త్రి-గుణాత్మికాం ప్రకృతిమ్ అతిక్రమ్య స్థితే స్థానే క్షయన్తం వసన్తమ్ ఇత్య్ అర్థః। అనేన త్రి-గుణాత్మకాత్ క్షేత్రజ్ఞస్య భోగ్య-భూతాద్ వస్తునః పరస్తాద్ విష్ణోర్ వాస-స్థానమ్ ఇతి గమ్యతే। వేదాహమ్ ఏతం పురుషం మహాన్తమ్ ఆదిత్య-వర్ణం తమసః పరస్తాద్ ఇత్య్ అత్రాపి తమః-శబ్దేన సైవ ప్రకృతిర్ ఉచ్యతే। కేవలస్య తమసోఽనవస్థానాద్ ఏవ। రజసః పరాకే క్షయన్తమ్ ఇత్య్ అనేనైక-వాక్యత్వాత్ తమసః పరస్తాద్ వసన్తం మహాన్తమ్ ఆదిత్య-వర్ణం పురుషమ్ అహం వేదేత్య్ అయమ్ అర్థోఽవగమ్యతే। సత్యం జ్ఞానమ్ అనన్తం బ్రహ్మ। యో వేద నిహితం గుహాయాం పరమే వ్యోమన్। తద్ అక్షరే పరమే వ్యోమన్న్ ఇతి తత్ స్థానమ్ అవికార-రూపం పరమ-వ్యోమ-శబ్దాభిధేయమ్ ఇతి చ గమ్యతే। అక్షరే పరమే వ్యోమన్ నిత్యస్య స్థానస్యాక్షరత్వ-శ్రవణాత్ క్షర-రూపాదిత్య-మణ్డలాదయో న పరమ-వ్యోమ-శబ్దాభిధేయాః। యత్ర పూర్వే సాధ్యాః సన్తి దేవాః, యత్రర్షయః ప్రథమ-జా యే పురాణా ఇత్య్ ఆదిషు చ త ఏవ సూరయ ఇత్య్ అవగమ్యతే। తద్ విప్రాసో విపన్యవో జాగృవాంసః సమిన్ధతే విష్ణోర్ యత్ పరం పదమ్ ఇత్య్ అత్రాపి విప్రాసో మేధావినః, విపన్యవః స్తుతి-శీలాః, జాగృవాంసః అస్ఖలిత-జ్ఞానాస్ త ఏవాస్ఖలిత-జ్ఞానాస్ తద్ విష్ణోః పరమం పదం సదా స్తువన్తః సమిన్ధత ఇత్య్ అర్థః।
Link copied॥౧౩౨॥
Link copiedఏతేషాం పరిజన-స్థానాదీనాం సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఇత్య్ అత్ర జ్ఞాన-బలైశ్వర్యాది-కల్యాణ-గుణ-గణవత్-పరబ్రహ్మ-స్వరూపాన్తర్భూతత్వాత్ సద్ ఏవైకమ్ ఏవాద్వితీయమ్ ఇతి బ్రహ్మాన్తర్భావోఽవగమ్యతే। ఏషామ్ అపి కల్యాణ-గుణైకదేశత్వాద్ ఏవ సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఇత్య్ అత్రేదమ్ ఇతి శబ్దస్య కర్మ-వశ్య-భోక్తృ-వర్గ-మిశ్ర-తద్-భోగ్య-భూత-ప్రపఞ్చ-విషయత్వాచ్ చ సదా పశ్యన్తి సూరయ ఇతి సదా దర్శిత్వేన చ తేషాం కర్మ-వశ్యానన్తర్భావాత్। అపహత-పాప్మేత్య్ ఆద్య్ అపిపాస ఇత్య్ అన్తేన సలీలోపకరణ-భూత-త్రి-గుణ-ప్రకృతి-ప్రాకృత-తత్-సంసృష్ట-పురుష-గతం హేయ-స్వభావం సర్వం ప్రతిషిధ్య సత్య-కామ ఇత్య్ అనేన స్వ-భోగ్య-భోగోపకరణ-జాతస్య సర్వస్య సత్యతా ప్రతిపాదితా। అసత్యాః కామా యస్యాసౌ సత్య-కామః। కామ్యన్త ఇతి కామాః। తేన పరేణ బ్రహ్మణా స్వ-భోగ్య-తద్-ఉపకరణాదయః స్వాభిమతా యే కామ్యన్తే తే సత్యాః నిత్యా ఇత్య్ అర్థః। అన్యస్య లీలోపకరణస్యాపి వస్తునః ప్రమాణ-సమ్బన్ధ-యోగ్యత్వే సత్య్ అపి వికారాస్పదత్వేనాస్థిరత్వాద్ తద్-విపరీతం స్థిరత్వమ్ ఏషాం సత్య-పదేనోచ్యతే। సత్య-సఙ్కల్ప ఇత్య్ ఏతేషు భోగ్య-తద్-ఉపకరణాదిషు నిత్యేషు నిరతిశయేష్వ్ అనన్తేషు సత్స్వ్ అప్య్ అపూర్వాణామ్ అపరిమితానామ్ అర్థానామ్ అపి సఙ్కల్ప-మాత్రేణ సిద్ధిం వదతి। ఏషాం చ భోగోపకరణానాం లీలోపకరణానాం చేతనానామ్ అచేతనానాం స్థిరాణామ్ అస్థిరాణాం చ తత్-సఙ్కల్పాయత్త-స్వరూప-స్థితి-ప్రవృత్తి-భేదాది సర్వం వదతి సత్య-సఙ్కల్ప ఇతి।
Link copied॥౧౩౩॥
Link copiedఇతిహాస-పురాణయోర్ వేదోపబృంహణయోశ్ చాయమ్ అర్థ ఉచ్యతే---
Link copiedతౌ తే మేధావినౌ దృష్ట్వా వేదేషు పరినిష్ఠితౌ।
Link copiedవేదోపబృంహణార్థాయ తావ్ అగ్రాహయత ప్రభుః॥
Link copiedఇతి వేదోపబృంహణతయా ప్రారబ్ధే శ్రీమద్-రామాయణే---
Link copiedవ్యక్తమ్ ఏష మహా-యోగీ పరమాత్మా సనాతనః।
Link copiedఅనాది-మధ్య-నిధనో మహతః పరమో మహాన్॥
Link copiedతమసః పరమో ధాతా శఙ్ఖ-చక్ర-గదాధరః।
Link copiedశ్రీవత్స-వక్షా నిత్య-శ్రీర్ అజయ్యః శాశ్వతో ధ్రువః॥
Link copiedశారా నానా-విధాశ్ చాపి ధనుర్ ఆయత-విగ్రహమ్।
Link copiedఅన్వగచ్ఛన్త కాకుత్స్థం సర్వే పురుష-విగ్రహాః॥
Link copiedవివేశ వైష్ణవం తేజః సశరీరః సహానుగః॥
Link copiedశ్రీమద్వైష్ణవపురాణే
Link copiedసమస్తాః శక్తయశ్ చైతా నృప యత్ర ప్రతిష్ఠితాః।
Link copiedతద్ విశ్వైరూప్యం రూపమ్ అన్యద్ ధరేర్ మహత్॥
Link copiedమూర్తం బ్రహ్మ మహా-భాగ సర్వ-బ్రహ్మ-మయో హరిః॥
Link copiedనిత్యైవైషా జగన్-మాతా విష్ణోః శ్రీర్ అనపాయినీ।
Link copiedయథా సర్వ-గతో విష్ణుస్ తథైవేయం ద్విజోత్తమ॥
Link copiedదేవత్వే దేవ-దేహేయం మనుష్యత్వే చ మానుషీ।
Link copiedవిష్ణోర్ దేహానురూపాం వై కరోత్య్ ఏషాత్మనస్ తనుమ్॥
Link copiedఏకాన్తినః సదా బ్రహ్మ-ధ్యాయినో యోగినో హి యే।
Link copiedతేషాం తత్పరం స్థానం యద్ వై పశ్యన్తి సూరయః॥
Link copiedకలా-ముహూర్తాది-మయశ్ చ కాలో న యద్-విభూతేః పరిణామ-హేతుః॥
Link copiedమహాభారతే చ---
Link copiedదివ్యం స్థానమ్ అజరం చాప్రమేయం దుర్విజ్ఞేయం చాగమైర్ గమ్యమ్ ఆద్యమ్।
Link copiedగచ్ఛ ప్రభో రక్ష చాస్మాన్ ప్రపన్నాన్ కల్పే కల్పే జాయమానః స్వ-మూర్త్యా॥
Link copiedకాలః స పచతే తత్ర న కాలస్ తత్ర వై ప్రభుః।
Link copiedఇతి। పరస్య బ్రహ్మణో రూపవత్త్వం సూత్ర-కారశ్ చ వదతి--- అన్తస్ తద్-ధర్మోపదేశాద్ ఇతి
Link copied॥౧౩౪॥
Link copiedయోఽసావ్ ఆదిత్య-మణ్డలాన్తర్వర్తీ తప్త-కార్తస్వర-గిరి-వర-ప్రభః సహస్రాంశు-శత-సహస్ర-కిరణో గమ్భీరామ్భః-సముద్భూత-సుమృష్ట-నాల-వికర-వికసిత-పుణ్డరీక-దలామలాయతేక్షణః సుభ్రూ-లలాటః సునాసః సుస్మితాధర-విద్రుమః సురుచిర-కోమల-గణ్డః కమ్బుగ్రీవః సమున్నతాంస-విలమ్బి-చారు-రూప-దివ్య-కర్ణ-కిసలయః పీన-వృత్తాయత-భుజశ్ చారు-తరాతమ్ర-కర-తలానురక్తాఙ్గులీభిర్ అలఙ్కృతస్ తను-మధ్యో విశాల-వక్షః-స్థలః సమ-విభక్త-సర్వాఙ్గోఽనిర్దేశ్య-దివ్య-రూప-సంహననః స్నిగ్ధ-వర్ణః ప్రబుద్ధ-పుణ్డరీక-చారు-చరణ-యుగలః స్వానురూప-పీతామ్బర-ధరోఽమల-కిరీట-కుణ్డల-హార-కౌస్తుభ-కేయూర-కటక-నూపురోదర-బన్ధనాద్య్-అపరిమితాశ్చర్యానన్త-దివ్య-భూషణః శఙ్ఖ-చక్ర-గదాసి-శ్రీవత్స-వన-మాలాలఙ్కృతోఽనవధికాతిశయ-సౌన్దర్యాహృతాశేష-మనో-దృష్టి-వృత్తిర్ లావణ్యామృత-పూరితాశేష-చరాచర-భూత-జాతోఽత్యద్భుతాచిన్త్య-నిత్య-యౌవనః పుష్ప-హాస-సుకుమారః పుణ్య-గన్ధ-వాసితానన్త-దిగ్-అన్తరాలస్ త్రైలోక్యాక్రమణ-ప్రవృత్త-గమ్భీర-భావః కరుణానురాగ-మధుర-లోచనావలోకితాశ్రిత-వర్గః పురుష-వరో దరీదృశ్యతే। స చ నిఖిల-జగద్-ఉదయ-విభవ-లయ-లీలో నిరస్త-సమస్త-హేయః సమస్త-కల్యాణ-గుణ-గణ-నిధిః స్వేతర-సమస్త-వస్తు-విలక్షణః పరమాత్మా పరం బ్రహ్మ నారాయణ ఇత్య్ అవగమ్యతే। తద్-ధర్మోపదేశాత్ స ఏష సర్వేషాం లోకానామ్ ఈష్టే సర్వేషాం కామానాం స ఏష సర్వేభ్యః పాపభ్య ఉదిత ఇత్య్ ఆది దర్శనాత్। తస్యైతే గుణాః సర్వస్య వశీ సర్వస్యేశానః అపహత-పాప్మా విజర ఇత్య్ ఆది సత్య-సఙ్కల్ప ఇత్య్ అన్తం విశ్వతః పరమం నిత్యం విశ్వం నారాయణం హరిమ్। పతిం విశ్వస్యాత్మేశ్వరమ్ ఇత్య్ ఆది వాక్య-ప్రతిపాదితాః।
Link copied॥౧౩౫॥
Link copiedవాక్య-కారైశ్ చైతత్ సర్వం సుస్పష్టమ్ ఆహ హిరణ్య-మయః పురుషో దృశ్యత ఇతి ప్రాజ్ఞః సర్వాన్తరః స్యాల్ లోక-కామేశోపదేశాత్ తథోదయాత్ పాప్మనామ్ ఇత్య్ ఆదినా। తస్య చ రూపస్యానిత్యతాది వాక్య-కారేణైవ ప్రతిషిద్ధం స్యాత్ తద్-రూపం కృతకమ్ అనుగ్రహార్థం తచ్-చేతనానామ్ ఐశ్వర్యాద్ ఇత్య్ ఉపాసితుర్ అనుగ్రహార్థః పరమ-పురుషస్య రూప-సఙ్గ్రహ ఇతి పూర్వ-పక్షం కృత్వా, రూపం వాతీన్ద్రియమ్ అన్తఃకరణ-ప్రత్యక్షం తన్-నిర్దేశాద్ ఇతి। యథా జ్ఞానాదయః పరస్య బ్రహ్మణః స్వరూపతయా నిర్దేశాత్ స్వరూప-భూత-గుణాస్ తథేదమ్ అపి రూపం శ్రుత్యా స్వరూపతయా నిర్దేశాత్ స్వరూప-భూతమ్ ఇత్య్ అర్థః। భాష్య-కారేణైతద్ వ్యాఖ్యాతమ్ అఞ్జసైవ విశ్వసృజో రూపం తత్ తు న చక్షుషా గ్రాహ్యం మనసా త్వ్ అకలుషేణ సాధనాన్తరవతా గృహ్యతే, న చక్షుషా గృహ్యతే నాపి వాచా మనసా తు విశుద్ధేనేతి శ్రుతేః, న హ్య్ రూపాయా దేవతాయా రూపమ్ ఉపదిశ్యతే, యథాభూత-వాది హి శాస్త్రమ్, మహారజనం వాసః వేదాహమ్ ఏతం పురుషం మహాన్తమ్ ఆదిత్య-వర్ణం తమసః పరస్తాద్ ఇతి ప్రకరణాన్తర-నిర్దేశాచ్ చ సాక్షిణ ఇత్య్ ఆదినా హిరణ్య-మయ ఇతి రూప-సామాన్యాచ్ చన్ద్ర-ముఖవత్, న మయడ్ అత్ర వికారమ్ ఆదాయ ప్రయుజ్యతే, అనారభ్యత్వాద్ ఆత్మన ఇతి। యథా జ్ఞానాది-కల్యాణ-గుణ-గణానన్తర్య-నిర్దేశాద్ అపరిమిత-కల్యాణ-గుణ-గణ-విశిష్టం పరం బ్రహ్మేత్య్ అవగమ్యత ఏవమ్ ఆదిత్య-వర్ణం పురుషమ్ ఇత్య్ ఆది నిర్దేశాత్ స్వాభిమత-స్వానురూప-కల్యాణతమ-రూపః పరబ్రహ్మ-భూతః పురుషోత్తమో నారాయణ ఇతి జ్ఞాయతే। తథాస్యేశనా జగతో విష్ణు-పత్నీ హ్రీశ్ చ తే లక్ష్మీశ్ చ పత్న్యౌ సదా పశ్యన్తి సూరయః తమసః పరస్తాత్ క్షయన్తమ్ అస్య రజసః పరాక ఇత్య్ ఆదినా పత్నీ-పరిజన-స్థానాదీనాం నిర్దేశాద్ ఏవ తథైవ సన్తీత్య్ అవగమ్యతే। యథాహ భాష్య-కారః--- యథాభూత-వాది హి శాస్త్రమ్ ఇతి।
Link copied॥౧౩౬॥
Link copiedఏతద్ ఉక్తం భవతి--- యథా సత్యం జ్ఞానమ్ అనన్తం బ్రహ్మేతి నిర్దేశాత్ పరమాత్మ-స్వరూపం సమస్త-హేయ-ప్రత్యనీకానవధికానన్తైకతానతయాపరిచ్ఛేద్యతయా చ సకలేతర-విలక్షణం తథా యః సర్వ-జ్ఞః సర్వ-విత్ పరాస్య శక్తిర్ వివిధైవ శ్రూయతే స్వాభావికీ జ్ఞాన-బల-క్రియా చ తమ్ ఏవ భాన్తమ్ అనుభాతి సర్వం తస్య భాసా సర్వమ్ ఇదం విభాతీత్య్ ఆది నిర్దేశాన్ నిరతిశయాసఙ్ఖ్యేయాశ్ చ గుణాః సకలేతర-విలక్షణాః। తథాదిత్య-వర్ణమ్ ఇత్య్ ఆది నిర్దేశాద్ రూప-పరిజన-స్థానాదయశ్ చ సకలేతర-విలక్షణాః స్వాసాధారణా అనిర్దేశ్య-స్వరూప-స్వభావా ఇతి।
Link copied॥౧౩౭॥
Link copiedవేదాః ప్రమాణం చేద్ విధ్య్-అర్థవాద-మన్త్ర-గతం సర్వమ్ అపూర్వమ్ అవిరుద్ధమ్ అర్థ-జాతం యథావస్థితమ్ ఏవ బోధయన్తి। ప్రామాణ్యం చ వేదానామ్ ఔత్పత్తికస్ తు శబ్దస్యార్థేన సమ్బన్ధ ఇత్య్ ఉక్తమ్। యథాగ్ని-జలాదీనామ్ ఔష్ణ్యాది-శక్తి-యోగః స్వాభావికః, యథా చ చక్షుర్-ఆదీనామ్ ఇన్ద్రియాణాం బుద్ధి-విశేష-జన-శక్తిః స్వాభావికీ తథా శబ్దస్యాపి బోధన-శక్తిః స్వాభావికీ। న చ హస్త-చేష్టాదివత్ సఙ్కేత-మూలం శబ్దస్య బోధకత్వమ్ ఇతి వక్తుం శక్యమ్। అనాద్య్-అనుసన్ధానావిచ్ఛేదేఽపి సఙ్కేతయితృ-పురుషాజ్ఞానాత్। యాని సఙ్కేత-మూలాని తాని సర్వాణి సాక్షాద్ వా పరమ్పరయా వా జ్ఞాయన్తే। న చ దేవదత్తాది-శబ్దవత్ కల్పయితుం యుక్తమ్। తేషు చ సాక్షాద్ వా పరమ్పరయా వా సఙ్కేతో జ్ఞాయతే। గవాది-శబ్దానాం త్వ్ అనాద్య్-అనుసన్ధానావిచ్ఛేదేఽపి సఙ్కేతాజ్ఞానాద్ ఏవ బోధకత్వ-శక్తిః స్వాభావికీ। అతోఽగ్న్య్-ఆదీనాం దాహకత్వాది-శక్తివద్ ఇన్ద్రియాణాం బోధకత్వ-శక్తివచ్ చ శబ్దస్యాపి బోధకత్వ-శక్తిర్ ఆశ్రయణీయా॥
Link copied॥౧౩౮॥
Link copiedనను చేన్ ఇన్ద్రియవచ్ ఛబ్దస్యాపి బోధకత్వం స్వాభావికం సమ్బన్ధ-గ్రహణం బోధకత్వాయ కిమ్ ఇత్య్ అపేక్షతే, లిఙ్గాదివద్ ఇత్య్ ఉచ్యతే యథా జ్ఞాత-సమ్బన్ధ-నియమం ధూమాద్య్-అగ్న్య్-ఆది-విజ్ఞాన-జనకం తథా జ్ఞాత-సమ్బన్ధ-నియమః శబ్దోఽప్య్ అర్థ-విశేష-బుద్ధి-జనకః। ఏవం తర్హి శబ్దోఽప్య్ అర్థ-విశేషస్య లిఙ్గమ్ ఇత్య్ అనుమానం స్యాత్। మైవమ్। శబ్దార్థయోః సమ్బన్ధో బోధ్య-బోధక-భావ ఏవ ధూమాదీనాం తు సమ్బన్ధాన్తర ఇతి తస్య సమ్బన్ధస్య జ్ఞాన-ద్వారేణ బుద్ధి-జనకత్వమ్ ఇతి విశేషః। ఏవం గృహీత-సమ్బన్ధస్య బోధకత్వ-దర్శనాద్ అనాద్య్-అనుసన్ధానావిచ్ఛేదేఽపి సఙ్కేతాజ్ఞానాద్ బోధకత్వ-శక్తిర్ ఏవేతి నిశ్చీయతే।
Link copied॥౧౩౯॥
Link copiedఏవం బోధకానాం పద-సఙ్ఘాతానాం సంసర్గ-విశేష-బోధకత్వేన వాక్య-శబ్దాభిధేయానామ్ ఉచ్చారణ-క్రమో యత్ర పురుష-బుద్ధి-పూర్వకస్ తే పౌరుషేయాః శబ్దా ఇత్య్ ఉచ్యన్తే। యత్ర తు తద్-ఉచ్చారణ-క్రమః పూర్వ-పూర్వోచ్చరణ-క్రమ-జనిత-సంస్కార-పూర్వకః సర్వదాపౌరుషేయాస్ తే చ వేదా ఇత్య్ ఉచ్యన్తే। ఏతద్ ఏవ వేదానామ్ అపౌరుషేయత్వం నిత్యత్వం చ యత్ పూర్వోచ్చారణ-క్రమ-జనిత-సంస్కారేణ తమ్ ఏవ క్రమ-విశేషం స్మృత్వా తేనైవ క్రమేణోచ్చార్యమాణత్వమ్। తే చానుపూర్వీ-విశేషేణ సంస్థితా అక్షర-రాశయో వేదా ఋగ్-యజుః-సామాథర్వ-భేద-భిన్నా అనన్త-శాఖా వర్తన్తే। తే చ విధ్య్-అర్థవాద-మన్త్ర-రూపా వేదాః పరబ్రహ్మ-భూత-నారాయణ-స్వరూపం తద్-ఆరాధన-ప్రకారాధితాత్ ఫల-విశేషం చ బోధయన్తి। పరమ-పురుషవత్ తత్-స్వరూప-తద్-ఆరాధన-తత్-ఫల-జ్ఞాపక-వేదాఖ్య-శబ్ద-జాతం నిత్యమ్ ఏవ। వేదానామ్ అనన్తత్వాద్ దురవగాహత్వాచ్ చ పరమ-పురుష-నియుక్తాః పరమర్షయః కల్పే కల్పే నిఖిల-జగద్-ఉపకారార్థం వేదార్థం స్మృత్వా విధ్య్-అర్థవాద-మన్త్ర-మూలాని ధర్మ-శాస్త్రాణీతిహాస-పురాణాని చ చక్రుః। లౌకికాశ్ చ శబ్దా వేద-రాశేర్ ఉద్ధృత్యైవ తత్-తద్-అర్థ-విశేష-నామతయా పూర్వవత్ ప్రయుక్తాః పారమ్పర్యేణ ప్రయుజ్యన్తే। నను చ వైదిక ఏవ సర్వే వాచకాః శబ్దాశ్ చేచ్ ఛన్దస్యైవం భాషాయామ్ ఏవమ్ ఇతి లక్షణ-భేదః కథమ్ ఉపపద్యతే। ఉచ్యతే--- తేషామ్ ఏవ శబ్దానాం తస్యామ్ ఏవానుపూర్వ్యాం వర్తమానాం తథైవ ప్రయోగః। అన్యత్ర ప్రయుజ్యమానానామ్ అన్యథేతి న కశ్చిద్ దోషః।
Link copied॥౧౪౦॥
Link copiedఏవమ్ ఇతిహాస-పురాణ-ధర్మ-శాస్త్రోపబృంహిత-సాఙ్గ-వేద-వేద్యః పరబ్రహ్మ-భూతో నారాయణో నిఖిల-హేయ-ప్రత్యనీకః సకలేతర-విలక్షణోఽపరిచ్ఛిన్న-జ్ఞానానన్దైక-స్వరూపః స్వాభావికానవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణాకరః స్వ-సఙ్కల్పానువిధాయి-స్వరూప-స్థితి-ప్రవృత్తి-భేద-చిద్-అచిద్-వస్తు-జాతోఽపరిచ్ఛేద్య-స్వరూప-స్వభావానన్త-మహా-విభూతిర్ నానా-విధానన్త-చేతనాచేతనాత్మక-ప్రపఞ్చ-లీలోపకరణ ఇతి ప్రతిపాదితమ్। సర్వం ఖల్వ్ ఇదం బ్రహ్మ, ఐతదాత్మ్యమ్ ఇదం సర్వం తత్ త్వమ్ అసి శ్వేతకేతో
Link copiedఏనమ్ ఏకే వదన్త్య్ అగ్నిం మరుతోఽన్యో ప్రజాపతిమ్।
Link copiedఇన్ద్రమ్ ఏకే పరే ప్రాణమ్ అపరే బ్రహ్మ శాశ్వతమ్॥
Link copiedజ్యోతీంషి శుక్లాని చ యాని లోకే త్రయో లోకా లోక-పాలాస్ త్రయీ చ।
Link copiedత్రయోఽగ్నయశ్ చాహుతయశ్ చ పఞ్చ సర్వే దేవ దేవకీ-పుత్ర ఏవ॥
Link copiedత్వం యజ్ఞస్ త్వం వషట్కారస్ త్వమ్ ఓఙ్కారః పరన్తపః।
Link copiedఋతుధామా వసుః పూర్వో వసూనాం త్వం ప్రజాపతిః॥
Link copiedజగత్ సర్వం శరీరం తే స్థైర్యం తే వసుధా-తలమ్।
Link copiedఅగ్నిః కోపః ప్రసాదస్ తే సోమః శ్రీవత్స-లక్షణః॥
Link copiedజ్యోతీంషి విష్ణుర్ భువనాని విష్ణుర్ వనాని విష్ణుర్ గిరయో దిశశ్ చ।
Link copiedనద్యః సముద్రాశ్ చ స ఏవ సర్వం యద్ అస్తి యన్ నాస్తి చ విప్ర-వర్య॥
Link copiedఇత్య్ ఆది సామానాధికరణ్య-ప్రయోగేషు సర్వైః శబ్దైః సర్వ-శరీరతయా సర్వ-ప్రకారం బ్రహ్మైవాభిధీయత ఇతి చోక్తమ్। సత్య-సఙ్కల్పం పరం బ్రహ్మ స్వయమ్ ఏవ బహు-ప్రకారం స్యామ్ ఇతి సఙ్కల్ప్యాచిత్-సమష్టి-రూప-మహాభూత-సూక్ష్మ-వస్తు భోక్తృ-వర్గ-సమూహం చ స్వస్మిన్ ప్రలీనం స్వయమ్ ఏవ విభజ్య తస్మాద్ భూత-సూక్ష్మాద్ వాస్తునో మహాభూతాని సృష్ట్వా తేషు చ భోక్తృ-వర్గాత్మతయా ప్రవేశ్య తైశ్చిద్ అధిష్ఠితైర్ మహాభూతైర్ అన్యోన్య-సంసృష్టైః కృత్స్నం జగద్ విధాయ స్వయమ్ అపి సర్వస్యాత్మతయా ప్రవిశ్య పరమాత్మత్వేనావస్థితం సర్వ-శరీరం బహు-ప్రకారమ్ అవతిష్ఠతే। యద్ ఇదం మహాభూత-సూక్ష్మం వస్తు తద్ ఏవ ప్రకృతి-శబ్దేనాభిధీయతే। భోక్తృ-వర్గ-సమూహ ఏవ పురుష-శబ్దేన చోచ్యతే। తౌ చ ప్రకృతి-పురుషౌ పరమాత్మ-శరీరతయా పరమాత్మ-ప్రకార-భూతౌ। తత్-ప్రకారః పరమాత్మైవ ప్రకృతి-పురుష-శబ్దాభిదేయః। సోఽకామయత బహు స్యాం ప్రజాయేయేతి తత్ సృష్ట్వా తద్ ఏవానుప్రవిశత్ తద్ అనుప్రవిశ్య సచ్ చ త్యచ్ చాభవన్ నిరుక్తం చానిరుక్తం చ నిలయనం చానిలయనం చ విజ్ఞానం చావిజ్ఞానం చ సత్యం చానృతం చ సత్యమ్ అభవద్ ఇతి పూర్వోక్తం సర్వమ్ అనయైవ శ్రుత్యా వ్యక్తమ్।
Link copied॥౧౪౧॥
Link copiedబ్రహ్మ-ప్రాప్త్య్-ఉపాయశ్ చ శాస్త్రాధిగత-తత్త్వ-జ్ఞాన-పూర్వక-స్వ-కర్మానుగృహీత-భక్తి-నిష్ఠా-సాధ్యానవధికాతిశయ-ప్రియ-విశదతమ-ప్రత్యక్షతాపన్నానుధ్యానరూప-పరభక్తిర్ ఏవేత్య్ ఉక్తమ్। భక్తి-శబ్దశ్ చ ప్రీతి-విశేషే వర్తతే। ప్రీతిశ్ చ జ్ఞాన-విశేష ఏవ। నను చ సుఖం ప్రీతిర్ ఇత్య్ అనర్థాన్తరమ్। సుఖం చ జ్ఞాన-విశేష-సాధ్యం పదార్థాన్తరమ్ ఇతి హి లౌకికాః। నైవమ్। యేన జ్ఞాన-విశేషేణ తత్ సాధ్యమ్ ఇత్య్ ఉచ్యతే స ఏవ జ్ఞాన-విశేషః సుఖమ్।
Link copied॥౧౪౨॥
Link copiedఏతద్ ఉక్తం భవతి--- విషయ-జ్ఞానాని సుఖ-దుఃఖ-మధ్య-సాధారణాని। తాని చ విషయాధీన-విశేషాణి తథా భవన్తి। యేన చ విషయ-విశేషేణ విశేషితం జ్ఞానం సుఖస్య జనకమ్ ఇత్య్ అభిమతం తద్-విషయం జ్ఞానమ్ ఏవ సుఖం, తద్-అతిరేకి పదార్థాన్తరం నోపలభ్యతే। తేనైవ సుఖిత్వ-వ్యవహారోపపత్తేశ్ చ। ఏవంవిధ-సుఖ-స్వరూప-జ్ఞానస్య విశేషకత్వం బ్రహ్మ-వ్యతిరిక్తస్య వస్తునః సాతిశయమ్ అస్థిరం చ। బ్రహ్మణస్ త్వ్ అనవధికాతిశయం స్థిరం చేతి। ఆనన్దో బ్రహ్మేత్య్ ఉచ్యతే। విషయాయత్తత్వాజ్ జ్ఞానస్య సుఖ-స్వరూపతయా బ్రహ్మైవ సుఖమ్। తద్ ఇదమ్ ఆహ రసో వై సః రసం హే ఏవాయం లబ్ధ్వానన్దీ భవతీతి బ్రహ్మైవ సుఖమ్ ఇతి బ్రహ్మ లబ్ధ్వా సుఖీ భవతీత్య్ అర్థః। పరమ-పురుషః స్వేనైవ స్వయమ్ అనవధికాతిశయ-సుఖః సన్ పరస్యాపి సుఖం భవతి। సుఖ-స్వరూపత్వావిశేషాత్। బ్రహ్మ యస్య జ్ఞాన-విషయో భవతి స సుఖీ భవతీత్య్ అర్థః। తద్ ఏవం పరస్య బ్రహ్మణోఽనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణాకరస్య నిరవద్యస్యానన్త-మహా-విభూతేర్ అనవధికాతిశయ-సౌశీల్య-సౌన్దర్య-వాత్సల్య-జలధేః సర్వ-శేషిత్వాద్ ఆత్మనః శేషత్వాత్ ప్రతిబన్ధితయానుసన్ధీయమానమ్ అనవధికాతిశయ-ప్రీతి-విషయం సత్ పరం బ్రహ్మైవైనమ్ ఆత్మానం ప్రాపయతీతి।
Link copied॥౧౪౩॥
Link copiedనను చాత్యన్త-శేషతైవాత్మనోఽనవధికాతిశయ-సుఖమ్ ఇత్య్ ఉక్తం భవతి। తద్ ఏతత్ సర్వ-లోక-విరుద్ధమ్। తథా హి సర్వేషామ్ ఏవ చేతనానాం స్వాతన్త్ర్యమ్ ఏవ ఇష్టతమం దృశ్యతే, పారతన్త్ర్యం దుఃఖతరమ్। స్మృతిశ్ చ---
Link copiedసర్వం పర-వశం దుఃఖం సర్వమ్ ఆత్మ-వశం సుఖమ్।
Link copiedతథా హి---
Link copiedసేవా శ్వ-వృత్తిర్ ఆఖ్యాతా తస్మాత్ తాం పరివర్జయేత్।
Link copiedఇతి। తద్ ఇదమ్ అనధిగత-దేహాతిరిక్తాత్మ-రూపాణాం శరీరాత్మాభిమాన-విజృమ్భితమ్। తథా హి శరీరం హి మనుష్యత్వాది-జాతి-గుణాశ్రయ-పిణ్డ-భూతం స్వతన్త్రం ప్రతీయతే। తస్మిన్న్ ఏవాహమ్ ఇతి సంసారిణాం ప్రతీతిః। ఆత్మాభిమానో యాదృశస్ తద్-అనుగుణైవ పురుషార్థ-ప్రతీతిః। సింహ-వ్యాఘ్ర-వరాహ-మనుష్య-యక్ష-రక్షః-పిశాచ-దేవ-దానవ-స్త్రీ-పుంస-వ్యవస్థితాత్మాభిమానానాం సుఖాని వ్యవస్థితాని। తాని చ పరస్పర-విరుద్ధాని। తస్మాద్ ఆత్మాభిమానానుగుణ-పురుషార్థ-వ్యవస్థయా సర్వం సమాహితమ్। ఆత్మ-స్వరూపం తు దేవాది-దేహ-విలక్షణం జ్ఞానైకాకారమ్। తచ్ చ పరశేషతైక-స్వరూపమ్। యథావస్థితాత్మాభిమానే తద్-అనుగుణైవ పురుషార్థ-ప్రతీతిః। ఆత్మా జ్ఞాన-మయోఽమల ఇతి స్మృతేర్ జ్ఞానైకాకారతా ప్రతిపన్నా। పతిం విశ్వస్యేత్య్ ఆది శ్రుతి-గుణైః పరమాత్మ-శేషతైకాకారతా చ ప్రతీతా। అతః సింహ-వ్యాఘ్రాది-శరీరాత్మాభిమానవత్ స్వాతన్త్ర్యాభిమానోఽపి కర్మ-కృత-విపరీతాత్మ-జ్ఞాన-రూపో వేదితవ్యః। అతః కర్మ-కృతమ్ ఏవ పరమ-పురుష-వ్యతిరిక్త-విషయాణాం సుఖత్వమ్। అత ఏవ తేషామ్ అల్పత్వమ్ అస్థిరత్వం చ పరమ-పురుషస్యైవ స్వత ఏవ సుఖత్వమ్। అతస్ తద్ ఏవ స్థిరమ్ అనవధికాతిశయం చ కం బ్రహ్మ ఖం బ్రహ్మ ఆనన్దో బ్రహ్మ సత్యం జ్ఞానమ్ అనన్తం బ్రహ్మేతి శ్రుతేః। బ్రహ్మ-వ్యతిరిక్తస్య కృత్స్నస్య వస్తునః స్వరూపేణ సుఖత్వాభావః కర్మ-కృతత్వేన చాస్థిరత్వం భగవతా పరాశరేణోక్తమ్---
Link copiedనరక-స్వర్గ-సంజ్ఞే వై పాప-పుణ్యే ద్విజోత్తమ।
Link copiedవస్త్వ్ ఏకమ్ ఏవ దుఃఖాయ సుఖాయేర్ష్యాగమాయ చ।
Link copiedకోపాయ చ యతస్ తస్మాద్ వస్తు వస్త్వ్-ఆత్మకం కుతః॥
Link copiedసుఖ-దుఃఖాద్య్-ఏకాన్త-రూపిణో వస్తునో వస్తుత్వం కుతః। తద్-ఏకాన్తతా పుణ్య-పాప-కృతేత్య్ అర్థః। ఏవమ్ అనేక-పురుషాపేక్షయా కస్యచిత్ సుఖమ్ ఏవ కస్యచిద్ దుఃఖం భవతీత్య్ అవస్థాం ప్రతిపాద్య, ఏకస్మిన్న్ అపి పురుషే న వ్యవస్థితమ్ ఇత్య్ ఆహ---
Link copiedతద్ ఏవ ప్రీయతే భూత్వా పునర్ దుఃఖాయ జాయతే।
Link copiedతద్ ఏవ కోపాయ యతః ప్రసాదాయ చ జాయతే॥
Link copiedతస్మాద్ దుఃఖాత్మకం నాస్తి న చ కిఞ్చిత్ సుఖాత్మకమ్।
Link copiedఇతి సుఖ-దుఃఖాత్మకత్వం సర్వస్య వస్తునః కర్మ-కృతం న వస్తు-స్వరూప-కృతమ్। అతః కర్మావసానే తద్ అపైతీత్య్ అర్థః।
Link copied॥౧౪౪॥
Link copiedయత్ తు సర్వం పర-వశం దుఃఖమ్ ఇత్య్ ఉక్తం తత్ పరమ-పురుష-వ్యతిరిక్తానాం పరస్పర-శేష-శేషి-భావాభావాత్ తద్-వ్యతిరిక్తం ప్రతి శేషతా దుఃఖమ్ ఏవేత్య్ ఉక్తమ్। సేవా శ్వ-వృత్తిర్ ఆఖ్యాతేత్య్ అత్రాప్య్ అసేవ్య-సేవా శ్వ-వృత్తిర్ ఏవేత్య్ ఉక్తమ్। స హ్య్ ఆశ్రమైః సదోపాస్యః సమస్తైర్ ఏక ఏవ త్వ్ ఇతి సర్వైర్ ఆత్మ-యాథాత్మ్య-వేదిభిః సేవ్యః పురుషోత్తమ ఏక ఏవ। యథోక్తం భగవతా---
Link copiedమాం చ యోఽవ్యభిచారేణ భక్తి-యోగేన సేవతే।
Link copiedస గుణాన్ సమతీత్యైతాన్ బ్రహ్మ-భూయాయ కల్పతే॥
Link copiedఇతీయమ్ ఏవ భక్తి-రూపా సేవా బ్రహ్మ-విద్ ఆప్నోతి పరం తమ్ ఏవం విద్వాన్ అమృత ఇహ భవతి బ్రహ్మ వేద బ్రహ్మైవ భవతీత్య్ ఆదిషు వేదన-శబ్దేనాభిధీయత ఇత్య్ ఉక్తమ్। యమ్ ఏవైష వృణుతే తేన లభ్య ఇతి విశేషణాద్ యమ్ ఏవైష వృణుత ఇతి భవగతా వరణీయత్వం ప్రతీయతే। వరణీయశ్ చ ప్రియతమః। యస్య భగవత్య్ అనవధికాతిశయా ప్రీతిర్ జాయతే స ఏవ భగవతః ప్రియతమః। తద్ ఉక్తం భగవతా---
Link copiedప్రియో హి జ్ఞానినోఽత్యర్థమ్ అహం స చ మమ ప్రియః।
Link copiedఇతి। తస్మాత్ పర-భక్తి-రూపాపన్నమ్ ఏవ వేదనం తత్త్వతో భగవత్-ప్రాప్తి-సాధనమ్। యథోక్తం భగవతా ద్వైపాయనేన మోక్షధర్మే సర్వోపనిషద్-వ్యాఖ్యాన-రూపమ్---
Link copiedన సన్దృశో తిష్ఠతి రూపమ్ అస్య న చక్షుషా పశ్యతి కశ్చనైనమ్।
Link copiedభక్త్యా చ ధృత్యా చ సమాహితాత్మా జ్ఞాన-స్వరూపం పరిపశ్యతీతీహ॥
Link copiedధృత్యా సమాహితాత్మా భక్త్యా పురుషోత్తమం పశ్యతి సాక్షాత్కరోతి ప్రాప్నోతీత్య్ అర్థః। భక్త్యా త్వ్ అనన్యయా శక్య ఇత్య్ అనేనైకార్థ్యాత్। భక్తిశ్ చ జ్ఞాన-విశేష ఏవేతి సర్వమ్ ఉపపన్నమ్।
Link copied॥౧౪౫॥
Link copiedసారాసార-వివేక-జ్ఞా గరీయాంసో విమత్సరాః।
Link copiedప్రమాణ-తన్త్రాః సన్తీతి కృతో వేదార్థసఙ్గ్రహః॥
Link copied॥ ఇతి శ్రీ-రామానుజాచార్య-విరచితో వేదార్థ-సఙ్గ్రహః సమాప్తః॥
Link copiedRa:ma:nuja:cha:rya virachithah
Link copiedVe:da:rtha sangrahah
Link copied||1||
Link copiedase:sha chid achid vasthu vise:shine: se:sha sa:yine:|
Link copiednirmala:nantha kalya:na nidhaye: vishnave: namah||
Link copied||2||
Link copiedparam brahmaiva:jnam bhrama parigatham samsarathi
Link copiedthathparo:pa:dhy a:li:dham vivasam asubhasya:spadam ithi|
Link copiedsruthi nya:ya:pe:tham jagathi vithatham mo:hanam idam
Link copiedthamo: ye:na:pa:stham sa hi vijayathe: ya:muna munih||
Link copied||3||
Link copiedase:sha jagad dhitha:nusa:sana sruthi nikara sirasi samadhigatho:'yam artho: ji:va parama:thmaya:tha:thmya jna:na pu:rvaka varna:srama dharme:thikarthavyatha:ka parama purusha charana yugala dhya:na:rchana prana:ma:dir athyartha priyas thath pra:pthi phalah|
Link copied||4||
Link copiedasya ji:va:thmano:'na:dy avidya: sanchitha punya pa:pa ru:pa karma prava:ha he:thuka brahma:di sura nara thiryak stha:vara:thmaka chathurvidha de:ha prave:sa krutha thath thad abhima:na janitha:varjani:ya bhava bhaya vidhvamsana:ya de:ha:thiriktha:thma svaru:pa thath svabha:va thad antharaya:mi parama:thma svaru:pa thath svabha:va thad upa:sana thath phala bhu:tha:thma svaru:pa:virbha:va pu:rvaka:navadhika:thisaya:nanda brahma:nubhava jna:pane: pravruththam hi ve:da:ntha va:kya ja:tham, thath thvam asi| ayam a:thma: brahma| ya a:thmani thishthann a:thmano:'ntharo: yam a:thma: na ve:da yasya:thma: sari:ram ya a:thma:nam antharo: yamayathi sa tha a:thma:ntharya:my amruthah| e:sha sarva bhu:tha:nthara:thma:pahatha pa:pma: divyo: de:va e:ko: na:ra:yanah| tham e:tham ve:da:nuvachane:na bra:hmana: vividishanthi yajne:na da:ne:na thapasa:na:sake:na| brahma vid a:pno:thi param| tham e:vam vidva:n amrutha iha bhavathi na:nyah pantha: ayana:ya vidyatha ithy a:dikam|
Link copied||5||
Link copiedji:va:thmanah svaru:pam de:va manushya:di prakruthi parina:ma vise:sha ru:pa na:na: vidha bhe:da rahitham jna:na:nandaika gunam, thasyaithasya karma krutha de:va:di bhe:de:'padhvasthe: svaru:pa bhe:do: va:cha:m ago:charah sva samve:dyah, jna:na svaru:pam ithy e:tha:vad e:va nirde:syam| thach cha sarve:sha:m a:thmana:m sama:nam|
Link copied||6||
Link copiede:vamvidha chid achid a:thmaka prapanchasyo:dbhava sthithi pralaya samsa:ra nirvarthanaika he:thu bhu:thah samastha he:ya prathyani:ka:nantha kalya:nathaya: cha sve:thara samastha vasthu vilakshana svaru:po:'navadhika:thisaya:sankhye:ya kalya:na guna ganah sarva:thma parabrahma para jyo:thih para thaththva parama:thma sabda:di sabda bhe:dair nikhila ve:da:ntha ve:dyo: bhagava:n na:ra:yanah purusho:ththama ithy antharya:mi svaru:pam| asya cha vaibhava prathipa:dana para:h sruthayah sve:thara samastha chid achid vasthu ja:tha:nthara:thmathaya: nikhila niyamanam thach chhakthi thad amsa thad vibhu:thi thad ru:pa thach chhari:ra thath thanu prabhruthibhih sabdais thath sa:ma:na:dhikaranye:na cha prathipa:dayanthi|
Link copied||7||
Link copiedthasya vaibhava prathipa:dana para:na:m e:sha:m sa:ma:na:dhikaranya:di:na:m vivarane: pravruththa:h ke:chana nirvise:sha jna:na ma:thram e:va brahma, thach cha nithya muktha sva praka:sa svabha:vam api thath thvam asy a:di sa:ma:na:dhikaranya:vagatha ji:vaikyam, brahmaiva:jnam badhyathe: muchyathe: cha, nirvise:sha chin ma:thra:thire:ke:svare:sithavya:dy anantha vikalpa ru:pam kruthsnam jagan mithya:, kaschid baddhah, kaschin muktha ithy iyam avastha: na vidyathe:| ithah pu:rvam ke:chana muktha: ithy ayam artho: mithya:| e:kam e:va sari:ram ji:vavan nirji:va:ni:thara:ni, thach chhari:ram kim ithi na vyavasthitham, a:cha:ryo: jna:nasyo:pade:shta: mithya: sa:sthram cha mithya: sa:sthra prama:tha: cha mithya: sa:sthra janyam jna:nam cha mithya: e:thath sarvam mithya: bhu:the:naiva sa:sthre:na:vagamyatha ithi varnayanthi|
Link copied||8||
Link copiedapare: thv apahatha pa:pmathva:di samastha kalya:na guno:pe:tham api brahmaithe:naivaikya:vabo:dhe:na ke:nachid upa:dhi vise:she:na sambaddham badhyathe: muchyathe: cha na:na: vidha mala ru:pa parina:ma:spadam che:thi vyavasthitha:h|
Link copied||9||
Link copiedanye: punar aikya:vabo:dha ya:tha:thmyam varnayanthah sva:bha:vika nirathisaya:parimitho:da:ra guna sa:garam brahmaiva sura nara thiryak stha:vara na:raki svargy apavargi che:thane:shu svabha:vatho: vilakshanam avilakshanam cha viyad a:di na:na: vidha mala ru:pa parina:ma:spadam che:thi prathyavathishthanthe:|
Link copied||10||
Link copiedthathra prathama pakshasya sruthy artha parya:lo:chana para: dushpariha:ra:n do:sha:n uda:haranthi| prakrutha para:marsi thach chhabda:vagatha sva sankalpakruthajagadudayavibhavavilaya:dayas thad aikshatha bahu sya:m praja:ye:ye:thy a:rabhya san mu:la:h so:mye:ma:h sarva:h praja:h sad a:yathana:h sath prathishtha: ithy a:dibhih padaih prathipa:ditha:s thath sambandhithaya: prakarana:nthara nirdishta:h sarvajnatha: sarva sakthithva sarve:svarathva sarva praka:rathva sama:bhyadhika nivruththi sathya ka:mathva sathya sankalpathva sarva:vabha:sakathva:dy anavadhika:thisaya:sankhye:ya kalya:na guna gana: apahatha pa:pme:thy a:dy ane:ka va:kya:vagatha nirastha nikhila do:shatha: cha sarve: thasmin pakshe: vihanyanthe:|
Link copied||11||
Link copiedatha sya:d upakrame:'py e:ka vijna:ne:na sarva vijna:na mukhe:na ka:ranasyaiva sathyatha:m prathijna:ya thasya ka:rana bhu:thasyaiva brahmanah sathyatha:m vika:ra ja:thasya:sathyatha:m mrud drushta:nthe:na darsayithva: sathya bhu:thasyaiva brahmanah sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam ithi saja:thi:ya vija:thi:ya nikhila bhe:da nirasane:na nirvise:shathaiva prathipa:ditha:| e:thach chho:dhaka:ni prakarana:nthara gatha va:kya:ny api sathyam jna:nam anantham brahma, nishkalam nishkriyam nirgunam, vijna:nam a:nandam ithy a:di:ni sarva vise:sha prathyani:kaika:ka:ratha:m bo:dhayanthi| na chaika:ka:ratha: bo:dhane: pada:na:m parya:yatha:| e:kathve:'pi vasthunah sarva vise:sha prathyani:katho:pastha:pane:na sarva pada:na:m arthavaththva:d ithi|
Link copied||12||
Link copiednaithad e:vam| e:ka vijna:ne:na sarva vijna:nam sarvasya mithya:thve: sarvasya jna:thavyasya:bha:va:n na se:thsyathi| sathyathva mithya:thvayo:r e:katha: prasakthir va:, api thv e:ka vijna:ne:na sarva vijna:nam sarvasya thada:thmakathve:naiva sathyathve: sidhyathi|
Link copied||13||
Link copiedayam arthah--- sve:thake:thum prathya:ha sthabdho:'sy utha tham a:de:sam apra:kshya ithi paripu:rna iva lakshyase: tha:n a:cha:rya:n prathi tham apy a:de:sam prushtava:n asi:thi| a:disyathe:'ne:ne:thy a:de:sah| a:de:shah prasa:sanam| e:thasya va: aksharasya ga:rgi su:rya:chandramasau vidhruthau thishthatha ithy a:dibhir aikyarthya:th| thatha: cha ma:navam vachah prasa:sitha:ram sarve:sha:m ithy a:di| athra:py e:kam e:ve:thi jagad upa:da:natha:m prathipa:dya:dvithi:ya pade:na:dhishtha:thara niva:rana:d asyaiva:dhishtha:thruthvam api prathipa:dyathe:| athas tham prasa:sitha:ram jagad upa:da:na bhu:tham api prushtava:n asi ye:na sruthe:na mathe:na vijna:the:na:srutham amatham avijna:nam srutham matham vijna:tham bhavathi:thy uktham sya:th| nikhila jagad udaya vibhava vilaya:di ka:rana bhu:tham sarvajnathva sathya ka:mathva sathya sankalpathva parimitho:da:ra guna gana sa:garam kim brahma:pi thvaya: srutham ithi ha:rdo: bha:vah| thasya nikhila ka:ranathaya: ka:ranam e:va na:na: samstha:na vise:sha samsthitham ka:ryam ithy uchyatha ithi ka:rana bhu:tha su:kshma chid achid vasthu sari:raka brahma vijna:ne:na ka:rana bhu:tham akhilam jagad vijna:tham bhavathi:thi hrudi nidha:ya ye:na:srutham srutham bhavathy amatham matham avijna:tham vijna:tham sya:d ithi puthram prathi prushtava:n pitha:| thad e:thath sakalasya vasthu ja:thasyaika ka:ranathvam pithru hrudi nihitham aja:nan puthrah paraspara vilakshane:shu vasthushv anyasya jna:ne:na thad anya vijna:nasya:ghatama:natha:m buddhva: paricho:dayathi--- katham nu bhagavah sa a:de:sa ithi|
Link copied||14||
Link copiedparicho:dithah punas thad e:va hrudi nihitham jna:na:nanda:malathvaika svaru:pam aparichchhe:dya ma:ha:thmyam sathya sankalpathva misrair anavadhika:thisaya:sankhye:ya kalya:na guna ganair jushtam avika:ra svaru:pam param brahmaiva na:ma ru:pa vibha:ga:narha su:kshma chid achid vasthu sari:ram sva li:la:yai sva sankalpe:na:nantha vichithra sthira thrasa svaru:pa jagath samstha:nam sva:mse:na:vasthitham ithi|
Link copied||15||
Link copiedthaj jna:ne:na:sya nikhilasya jna:thatha:m bruvaml lo:ka drushtam ka:rya ka:ranayo:r ananyathvam darsayithum drushta:ntham a:ha--- yatha: so:myaike:na mruth pinde:na sarvam mrun mayam vijna:tham sya:d va:cha:rambhanam vika:ro: na:madhe:yam mruththike:thy e:va sathyam ithi| e:kam e:va mrud dravyam svaikade:se:na na:na: vyavaha:ra:spadathva:ya ghata sara:va:di na:na: samstha:na:vastha: ru:pa vika:ra:pannam na:na: na:madhe:yam api mruththika: samstha:na vise:shathva:n mrud dravyam e:ve:ththam avasthitham na vasthv antharam ithi| yatha: mruth pinda vijna:ne:na thath samstha:na vise:sharu:pam ghata sara:va:di sarvam jna:tham e:va bhavathi:thy arthah|
Link copied||16||
Link copiedthathah kruthsnasya jagatho: brahmaika ka:ranatha:m aja:nan puthrah pruchchhathi bhagava:ms thv e:va me: thad bravi:thv ithi| thathah sarvajnam sarva sakthi brahmaiva sarva ka:ranam ithy upadisan sa ho:va:cha sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam ithi| athre:dam ithi jagan nirdishtam| agra ithi cha srushte:h pu:rva ka:lah| thasmin ka:le: jagathah sad a:thmakatha:m sad e:ve:thi prathipa:dya, thath srushti ka:le:'py avisishtam ithi kruthvaikam e:ve:thi sad a:pannasya jagathas thada:ni:m avibhaktha na:ma ru:patha:m prathipa:dya thath prathipa:dane:naiva satho: jagad upa:da:nathvam prathipa:ditham ithi sva vyathiriktha nimiththa ka:ranam advithi:ya pade:na prathishiddham|
Link copied||17||
Link copiedtham a:de:sam pra:kshyo: ye:na:srutham srutham bhavathi:thy a:da:v e:va prasa:sthithaiva jagad upa:da:nam ithi hrudi nihitham ida:ni:m abhivyaktham| svayam e:va jagad upa:da:nam jagan nimiththam cha sath thad aikshatha bahu sya:m praja:ye:ye:thi| thad e:thach chhabda va:chyam param brahma sarvajnam sarva sakthi sathya sankalpam ava:ptha samastha ka:mam api li:la:rtham vichithra:nantha chid achin misra jagad ru:pe:na:ham e:va bahu sya:m thad artham praja:ye:ye:thi svayam e:va sankalpya sva:msaikade:sa:d e:va viyad a:di bhu:tha:ni srushtva: punar api saiva sach chhabda:bhihitha: para: de:vathaivam aikshatha hantha:ham ima:s thisro: de:vatha: ane:na ji:ve:na:thmana:nupravisya na:ma ru:pe: vya:karava:ni:thi| ane:na ji:ve:na:thmane:thi ji:vasya brahma:thmakathvam prathipa:dya brahma:thma ji:va:nuprave:sa:d e:va kruthsnasya:chid vasthunah pada:rthathvam e:vambhu:thasyaiva sarvasya vasthuno: na:ma bha:kthvam ithi cha darsayathi| e:thad uktham bhavathi ji:va:thma: thu brahmanah sari:rathaya: praka:rathva:d brahma:thmakah| yasya:thma: sari:ram ithi sruthyanthara:th| e:vambhu:thasya ji:vasya sari:rathaya: praka:ra bhu:tha:ni de:va manushya:di samstha:na:ni vasthu:ni:thi brahma:thmaka:ni tha:ni sarva:ni| atho: de:vo: manushyo: ra:kshasah pasur mrugah pakshi: vruksho: latha: ka:shtham sila: thrunam ghatah pata ithy a:dayah sarve: prakruthi prathyaya yo:ge:na:bhidha:yakathaya: prasiddha:h sabda: lo:ke: thath thad va:chyathaya: prathi:yama:na thath thath samstha:na vasthu mukhe:na thad abhima:ni ji:va thad antharya:mi parama:thma paryantha sangha:thasyaiva va:chaka: ithi|
Link copied||18||
Link copiede:vam samastha chid achid a:thmaka prapanchasya sad upa:da:natha:san nimiththatha:sada:dha:ratha:san niyamyatha:sach chhe:shatha:di sarvam cha san mu:la:h so:mye:ma:h sarva:h praja:h sad a:yathana:h sath prathishtha: ithy a:dina: visthare:na prathipa:dya ka:rya ka:rana bha:va:di mukhe:naithada:thmyam idam sarvam thath sathyam ithi kruthsnasya jagatho: brahma:thmakathvam e:va sathyam ithi prathipa:dya kruthsnasya jagathah sa e:va:thma: kruthsnam jagath thasya sari:ram thasma:th thvam sabda va:chyam api ji:va praka:ram brahmaive:thi sarvasya brahma:thmakathvam prathijna:tham thath thvam asi:thi ji:va vise:sha upasamhrutham|
Link copied||19||
Link copiede:thad uktham bhavathi| aithada:thmyam idam sarvam ithi che:thana:che:thana prapancham idam sarvam ithi nirdisya thasya prapanchasyaisha a:thme:thi prathipa:dithah, prapancho:dde:se:na brahma:thmakathvam prathipa:ditham ithy arthah| thad idam brahma:thmakathvam kim a:thma sari:ra bha:ve:no:tha svaru:pe:ne:thi vive:chani:yam| svaru:pe:na che:d brahmanah sathya sankalpa:dyas thad aikshatha bahu syam praja:ye:ye:thy upakrama:vagatha: ba:dhitha: bhavanthi| sari:ra:thma bha:ve:na cha thada:thmakathvam sruthy anthara:d vise:shatho:'vagatham anthah pravishtah sa:stha: jana:na:m sarva:thme:thi prasa:sithruthva ru:pa:thmathve:na sarve:sha:m jana:na:m anthah pravishto:'thah sarva:thma: sarve:sha:m jana:na:m a:thma: sarvam cha:sya sari:ram ithi vise:shatho: jna:yathe: brahma:thmakathvam| ya a:thmani thishthann a:thmano:'ntharo: yam a:thma: na ve:da yasya:thma: sari:ram ya a:thma:nam antharo: yamayathi sa tha a:thma:ntharya:my amrutha ithi cha| athra:py ane:na ji:ve:na:thmane:thi:dam e:va jna:yatha ithi pu:rvam e:vo:ktham| athah sarvasya chid achid vasthuno: brahma sari:rathva:th sarva praka:ram sarva sabdair brahmaiva:bhidhi:yatha ithi thath thvam ithi sa:ma:na:dhikaranye:na ji:va sari:rathaya: ji:va praka:ram brahmaiva:bhihitham|
Link copied||20||
Link copiede:vam abhihithe: sathy ayam artho: jna:yathe: thvam ithi yah pu:rvam de:hasya:dhishtha:thruthaya: prathi:thah sa parama:thma sari:rathaya: parama:thma praka:ra bhu:thah parama:thma paryanthah| athas thvam ithi sabdas thvath praka:ra visishtam thvad antharya:minam e:va:chashta ithi| ane:na ji:ve:na:thmana:nupravisya na:ma ru:pe: vya:karava:ni:thi brahma:thmakathayaiva ji:vasya sari:rinah sva na:ma bha:kthva:th thath thvam ithi sa:ma:na:dhikaranya pravruththayo:r dvayo:r api padayo:r brahmaiva va:chyam| thathra cha thath padam jagath ka:rana bhu:tham sakala kalya:na guna gana:karam nirvadyam nirvika:ram a:chashte:| thvam ithi cha thad e:va brahma ji:va:ntharya:mi ru:pe:na sasari:ra praka:ra visishtam a:chashte:| thad e:vam pravruththi nimiththa bhe:de:naikasmin brahmany e:va thath thvam ithi dvayo:h padayo:r vruththir uktha:| brahmano: niravadyam nirvika:ram sakala kalya:na guna gana:karathvam jagath ka:ranathvam cha:ba:dhitham|
Link copied||21||
Link copiedasrutha ve:da:ntha:h purusha:h pada:rtha:h sarve: ji:va:thmanas cha brahma:thmaka: ithi na pasyathi sarva sabda:na:m cha ke:vale:shu thath thath pada:rthe:shu va:chyaikade:se:shu va:chya paryavasa:nam manyanthe:| ida:ni:m ve:da:ntha va:kya sravane:na brahma ka:ryathaya: thad antharya:mithaya: cha sarvasya brahma:thmakathvam sarva sabda:na:m thath thath praka:ra samsthitha brahma va:chithvam cha ja:nanthi| nanv e:vam gava:di sabda:na:m thath thath pada:rtha va:chithaya: vyuthpaththir ba:dhitha: sya:th| naivam sarve: sabda: achij ji:va visishtasya parama:thmano: va:chaka: ithy uktham| na:ma ru:pe: vya:karava:ni:thy athra| thathra laukika:h purusha:h sabdam vya:haranthah sabda va:chye: pradha:na:msasya parama:thmanah prathyaksha:dy aparichchhe:dyathva:d va:chyaikade:sa bhu:the: va:chya sama:pthim manyanthe:| ve:da:ntha sravane:na cha vyuthpaththih pu:ryathe:| e:vam e:va vaidika:h sarve: sabda:h parama:thma paryantha:n sva:rtha:n bo:dhayanthi| vaidika: e:va sarve: sabda: ve:da:dav uddhruthyo:ddhruthya pare:naiva brahmana: sarva pada:rtha:n pu:rvavath srushtva: the:shu parama:thma paryanthe:shu pu:rvavan na:mathaya: prayuktha:h| thad a:ha manuh---
Link copiedsarve:sha:m thu na:ma:ni karma:ni cha pruthak pruthak|
Link copiedve:da sabde:bhya e:va:dau pruthak samstha:s cha nirmame:||ithi|
Link copiedsamstha:h samstha:na:ni ru:pa:ni:thi ya:vath| a:ha cha bhagava:n para:sarah---
Link copiedna:ma ru:pam bhu:tha:na:m kruthya:na:m prapanchanam|
Link copiedve:da sabde:bhya e:va:dau daiva:di:na:m chaka:ra sah||
Link copiedithi| sruthis cha su:rya:chandramasau dha:tha: yatha:pu:rvam akalpayad ithi| su:rya:di:n pu:rvavath parikalpya na:ma:ni cha pu:rvavach chaka:ra ithy arthah|
Link copied||22||
Link copiede:vam jagad brahmano:r ananyathvam prapanchitham| the:naike:na jna:the:na sarvasya jna:thatho:'papa:ditha: bhavathi| sarvasya brahma ka:ryathva prathipa:dane:na thada:thmakathayaiva sathyathvam na:nyathe:thi thath sathyam ithy uktham| yatha: drushta:nthe: sarvasya mrud vika:rasya mrud a:thmanaiva sathyathvam|
Link copied||23||
Link copiedso:dhaka va:kya:ny api niravadyam sarva kalya:na guna:karam param brahma bo:dhayanthi| sarva prathyani:ka:ka:ratha:bo:dhane:'pi thath thath prathyani:ka:ka:ratha:ya:m bhe:dasya:varjani:yathva:n na nirvise:sha vasthu siddhih|
Link copied||24||
Link copiednanu cha jna:na ma:thram brahme:thi prathipa:dithe: nirvise:sha jna:na ma:thram brahme:thi nischi:yathe:| naivam| svaru:pa niru:pana dharma sabda: hi dharma mukhe:na svaru:pam api prathipa:dayanthi| gava:di sabdavath| thad a:ha su:thra ka:rah--- thad guna sa:rathva:th thad vyapade:sah pra:jnavath| ya:vad a:thma bha:vithathva:ch cha na do:sha ithi| jna:ne:na dharme:na svaru:pam api niru:pitham na jna:na ma:thram brahme:thi| katham idam avagamyatha ithi che:d yah sarva jnah sarva vid ithy a:di jna:thruthva sruthe:h para:sya sakthir vividhaiva sru:yathe: sva:bha:viki: jna:na bala kriya: cha| vijna:tha:ram are: ke:na vija:ni:ya:d ithy a:di sruthi satha samadhigatham idam| jna:nasya dharma ma:thrathva:d dharma ma:thrasyaikasya vasthuthva prathipa:dana:nupapaththe:s cha| athah sathya jna:na:di pada:ni sva:rtha bhu:tha jna:na:di visishtam e:va brahma prathipa:dayanthi| thath thvam ithi dvayo:r api padayo:h sva:rtha praha:ne:na nirvise:sha vasthu svaru:po:pastha:pana parathve: mukhya:rtha parithya:gas cha|
Link copied||25||
Link copiednanv aikye: tha:thparya nischaya:n na lakshana: do:shah| so:'yam de:vadaththa ithivath| yatha: so:'yam ithy athra sa ithi sabde:na de:sa:nthara ka:la:nthara sambandhi: purushah prathi:yatha ayam ithi cha sannihitha de:sa varthama:na ka:la sambandhi:, thayo:h sa:ma:na:dhikaranye:naikyam prathi:yathe:| thathraikasya yugapad viruddha de:sa ka:la sambandhithaya: prathi:thir na ghatatha ithi dvayo:r padayo:h svaru:pa ma:thro:pastha:pana parathvam svaru:pasya chaikyam prathipadyatha ithi che:n naithad e:vam| so:'yam de:vadaththa ithy athra:pi lakshana: gandho: na vidyathe:| viro:dha:bha:va:th| e:kasya bhu:tha varthama:na kriya: dvaya sambamdho: na viruddhah| de:sa:nthara sthithir bhu:thva: sannihitha de:sa sthithir varthathe:| atho: bhu:tha varthama:na kriya: dvaya sambandhithayaikya prathipa:danam aviruddham| de:sa dvaya viro:dhas cha ka:la bhe:de:na parihruthah| lakshana:ya:m api na dvayo:r api padayo:r lakshana: sama:srayanam| e:the:naiva lakshithe:na viro:dha pariha:ra:th| lakshana:bha:va e:vo:kthah| de:sa:nthara sambandhithaya: bhu:thasyaiva:nya de:sa sambandhithaya: varthama:nathva:viro:dha:th|
Link copied||26||
Link copiede:vam athra:pi jagath ka:rana bhu:thasyaiva parasya brahmano: ji:va:ntharya:mithaya: ji:va:thmathvam aviruddham ithi prathipa:ditham| yatha: bhu:thayo:r e:va hi dvayo:r aikyam sa:ma:na:dhikaranye:na prathi:yathe:| thath parithya:ge:na svaru:pa ma:thraikyam na sa:ma:na:dhikaranya:rthah bhinna pravruththi nimiththa:na:m sabda:na:m e:kasminn arthe: vruththih sa:ma:na:dhikaranyam ithi hi thad vidah| thatha:bhu:thayo:r aikyam upapa:ditham asma:bhih| upakrama viro:dhy upasamha:ra pade:na va:kya tha:thparya nischayas cha na ghatathe:| upakrame: hi thad aikshatha bahu sya:m ithy a:dina: sathya sankalpathvam jagad e:ka ka:ranathvam apy uktham| thad viro:dhi cha:vidya:srayathva:di brahmanah|
Link copied||27||
Link copiedapi cha:rtha bhe:da thath samsarga vise:sha bo:dhana krutha pada va:kyasya svaru:patha: labdha prama:na bha:vasya sabdasya nirvise:sha vasthu bo:dhana:sa:martha:n na nirvise:sha vasthuni sabdah prama:nam| nirvise:sha ithy a:di sabda:s thu ke:nachid vise:she:na visishtathaya:vagathasya vasthuno: vasthv anthara gatha vise:sha nishe:dha parathaya: bo:dhaka:h| itharatha: the:sham apy anavabo:dhakathvam e:va| prakruthi prathyaya ru:pe:na padasyaiva:ne:kavise:sha garbhathva:d ane:ka pada:rtha samsarga bo:dhakathva:ch cha va:kyasya|
Link copied||28||
Link copiedatha sya:n na:sma:bhir nirvise:she: svayampraka:se: vasthuni sabdah prama:nam ithy uchyathe:| svathah siddhasya prama:na:nape:kshathva:th| sarvaih sabdais thad upara:ga vise:sha: jna:thruthva:dayah sarve: nirasyanthe:| sarve:shu vise:she:shu nivruththe:shu vasthu ma:thram anavachchhinnam svayampraka:sam svatha e:va:vathishthatha ithi| naithad e:vam| ke:na sabde:na thad vasthu nirdisya thad gatha vise:sha: nirasyanthe:| jnapthi ma:thra sabde:ne:thi che:n na| so:'pi savise:sham e:va vasthv avalambathe:| prakruthi prathyaya ru:pe:na vise:sha garbhathva:th| jna: avabo:dhana ithi sakarmakah sakarthrukah kriya: vise:shah kriya:nthara vya:varthaka svabha:va vise:shas cha prakruthya:vagamyathe:| prathyaye:na cha linga sankhya:dayah| svathah siddha:v apy e:thath svabha:va vise:sha virahe: siddhir e:va na sya:th| anya sa:dhana svabha:vathaya: hi jnapthe:h svathah siddhir uchyathe:|
Link copied||29||
Link copiedbrahma svaru:pam kruthsnam sarvada: svayam e:va praka:sathe: che:n na thasminn anya dharma:dhya:sah sambhavathi| na hi rajju svaru:pe:'vabha:sama:ne: sarpathva:dir adhyasyathe:| atha e:va hi bhavadbhir a:chchha:dika:vidya:bhyupagamyathe:| thathas cha sa:sthri:ya nivarthaka jna:nasya brahmani thiro:hitha:mso: vishayah| anyatha: thasya nivarthakathvam cha na sya:th| adhishtha:na:thire:ki rajjuthva praka:sane:na hi sarpathvam ba:dhyathe:| e:kas che:d vise:sho: jna:na ma:thre: vasthuni sabde:na:bhidhi:yathe: sa cha brahma vise:shanam bhavathi:thi sarva sruthi prathipa:ditha sarva vise:shana visishtam brahma bhavathi|
Link copied||30||
Link copiedathah pra:ma:nika:na:m na ke:na:pi prama:ne:na nirvise:sha vasthu siddhih| nirvikalpaka prathyakshe:'pi savise:sham e:va vasthu prathi:yathe:| anyatha: savikalpake: so:'yam ithi pu:rva:vagatha praka:ra visishta prathyaya:nupapaththe:h| vasthu samstha:na vise:sha ru:pathva:d go:thva:de:r nirvikalpaka dasa:ya:m api sasamstha:nam e:va vasthv iththam ithi prathi:yathe:| dvithi:ya:di prathyaye:shu thasya samstha:na vise:shasya:ne:ka vasthu nishthatha: ma:thram prathi:yathe:| samstha:na ru:pa praka:ra:khyasya pada:rthasya:ne:ka vasthu nishthathaya:ne:ka vasthu vise:shanathvam dvithi:ya:di prathyaya:vagamyam ithi dvithi:ya:di prathyaya:h savikalpaka: ithy uchyanthe:| atha e:vaikasya pada:rthasya bhinna:bhinnathva ru:pe:na dvya:thmakathvam viruddham prathyuktham| samstha:nasya samstha:ninah praka:rathaya: pada:rtha:ntharathvam| praka:rathva:d e:va pruthaksiddhy anarhathvam pruthag anupalambhas che:thi na dvy a:thmakathva siddhih|
Link copied||31||
Link copiedapi cha nirvise:sha vasthv a:dina: svayampraka:se: vasthuni thad upara:ga vise:sha:h sarvaih sabdair nirasyantha ithi vadatha: ke: the: sabda: nishe:dhaka: ithi vakthavyam| va:cha:rambhanam vika:ro: na:madhe:yam mruththike:thy e:va sathyam ithi vika:ra na:madhe:yayo:r va:cha:rambhana ma:thrathva:th| yath thathra ka:ranathayo:palakshyathe: vasthu ma:thram thad e:va sathyam anyad asathyam ithi:yam sruthir vadathi:thi che:n naithad upapadyathe:| e:kasmin vijna:the: sarvam vijna:tham bhavathi:thi prathijna:the:'nya jna:ne:na:nya jna:na:sambhavam manva:nasyaikam e:va vasthu vika:ra:dy avastha: vise:she:na pa:rama:rthike:naiva na:ma ru:pam avasthitham che:th thathraikasmin vijna:the: thasma:d vilakshana samstha:na:ntharam api thad e:ve:thi thathra drushta:ntho:'yam nidarsithah| na:thra kasyachid vise:shasya nishe:dhakah ko:'pi sabdo: drusyathe:| va:cha:rambhanam ithi va:cha: vyavaha:re:na:rabhyatha ithy a:rambhanam| pinda ru:pe:na:vasthitha:ya:h mruththika:ya: na:ma va:nyad vyavaha:ras cha:nyah| ghata sara:va:di ru:pe:na:vasthitha:ya:s thasya: e:va mruththika:ya: anya:ni na:madhe:ya:ni vyavaha:ra:s cha:nyadrusa:h| thatha:pi sarvathra mruththika: dravyam e:kam e:va na:na: samstha:na na:na: na:madhe:ya:bhya:m na:na: vyavaha:re:na cha:rabhyatha ithy e:thad e:va sathyam ithy ane:na:nya jna:ne:na:nya jna:na sambhavo: nidarsithah| na:thra kinchid vasthu nishidhyatha ithi pu:rvam e:va:yam arthah prapanchithah|
Link copied||32||
Link copiedapi cha ye:na:srutham srutham ithy a:dina: brahma vyathirikthasya sarvasya mithya:thvam prathijna:tham che:d yatha: so:myaike:na mruth pinde:ne:thy a:di drushta:nthah sa:dhya vikalah sya:th| rajju sarpa:divan mruththika: vika:rasya ghata sara:va:de:r asathyathvam sve:thake:tho:h susru:sho:h prama:na:nthare:na yukthya: cha:siddham ithy e:thad api sisha:dhayishitham ithi che:th| yathe:thi drushta:nthayo:pa:da:nam na ghatathe:|
Link copied||33||
Link copiedsad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam e:va:dvithi:yam ithy athra sad e:vaikam e:ve:thy avadha:rana dvaye:na:dvithi:yam ithy ane:na cha san ma:thra:thire:ki saja:thi:ya vija:thi:ya:h sarve: vise:sha: nishiddha: ithi prathi:yatha ithi che:nnaithad e:vam| ka:rya ka:rana bha:va:vastha: dvaya:vasthithasyaikasya vasthuna e:ka:vastha:vasthithasya jna:ne:na:vastha:nthara:vasthithasya:pi vasthv aikye:na jna:thatha:m drushta:nthe:na darsayithva: sve:thake:tho:r aprajna:tham sarvasya brahma ka:ranathvam cha vakthum sad e:va so:mye:dam ithy a:rabdham| idam agre: sad e:va:si:d ithi| agra ithi ka:la vise:shah| idam sabda va:chyasya prapanchasya sad a:paththi ru:pa:m kriya:m sadravyatha:m cha vadathi| e:kam e:ve:thi cha:sya na:na: na:ma ru:pa vika:ra praha:nam| e:thasmin prathipa:dithe:'sya jagathah sad upa:da:natha: prathipa:ditha: bhavathi| anyathro:pa:da:na ka:ranasya sva vyathiriktha:dhishtha:thrape:ksha: darsane:'pi sarva vilakshanathva:d asya sarva jnasya brahmanah sarva sakthi yo:go: na viruddha ithy advithi:ya padam adhishtha:thrantharam niva:rayathi| sarva sakthi yukthathva:d e:va brahmanah| ka:schana sruthayah prathamam upa:da:na ka:ranathvam prathipa:dya nimiththa ka:ranam api thad e:ve:thi prathipa:dayanthi| yathe:yam sruthih| anya:s cha sruthayo: brahmano: nimiththa ka:ranathvam anujna:ya:syaivo:pa:da:natha:di katham ithi paricho:dya, sarva sakthi yukthathva:d upa:da:na ka:ranam thad ithara:se:sho:pakaranam cha brahmaive:thi pariharanthi kimsvid vanam ka u sa vruksha a:si:d yatho: dya:v a:pruthivi: nishtathakshuh, mani:shino: manasa: pruchchhathe:d u thad yad adhyathishthad bhuvana:ni dha:rayan| brahma vanam brahma sa vruksha a:si:d yatho: dya:v a:pruthivi: nishtathakshur mani:shino: manasa: vibravi:mi vah brahma:dhyathishthad bhuvana:ni| dha:rayann ithi sa:ma:nyatho: drushte:na viro:dham a:sankya brahmanah sarva vilakshanathve:na pariha:ra ukthah| athah sad e:va so:mye:dam agra a:si:d ithy athra:py agra ithy a:dy ane:ka vise:sha: brahmano: prathipa:ditha:h| bhavad abhimatha vise:sha nishe:dha va:chi: ko:'pi sabdo: na drusyathe:| prathyutha jagad brahmano:h ka:rya ka:rana bha:va jna:pana:ya:gra ithi ka:la vise:sha sad bha:vah| a:si:d ithi kriya: vise:sho:, jagad upa:da:natha: jagan nimiththatha: cha, nimiththo:pa:da:nayo:r bhe:da nirasane:na thasyaiva brahmanah sarva sakthi yo:gas che:thy aprajna:thah sahasraso: vise:sha: e:va prathipa:ditha:h|
Link copied||34||
Link copiedyatho: va:sthava ka:rya ka:rana bha:va:di vijna:ne: pravruththam atha e:va:sad e:ve:dam agra a:si:d ithy a:rabhya:sathka:ryava:da nishe:dhas cha kriyathe: kuthas thu khalu so:myaivam sya:d ithi| pra:gasatha uthpaththir ahe:thuke:thy arthah| thad e:vo:papa:dayathi katham asathah saj ja:ye:the:thi| asatha uthpannam asad a:thmakam e:va bhavathi:thy arthah| yatha: mrud uthpannam ghata:dikam mrud a:thmakam| satha uthpaththir na:ma vyavaha:ra vise:sha he:thu bhu:tho:'vastha: vise:sha yo:gah|
Link copied||35||
Link copiede:thad uktham bhavathi--- e:kam e:va ka:rana bhu:tham dravyam avastha:nthara yo:ge:na ka:ryam ithy uchyatha ithy e:ka vijna:ne:na sarva vijna:nam prathipipa:dayishitham| thad asathka:ryava:de: na se:thsyathi| thatha: hi nimiththa samava:yya samava:yi prabhruthih ka:ranair avayavy a:khyam ka:ryam dravya:ntharam e:vo:thpadyatha ithi ka:rana bhu:tha:d vasthunah ka:ryasya vasthv antharathva:n na thaj jna:ne:na:sya jna:thatha: katham api sambhavathi:thi| katham avayavi dravya:ntharam nirasyatha ithi che:th| ka:rana gatha:vastha:nthara yo:gasya dravya:ntharo:thpaththi va:dinah samprathipannasyaivaikathva na:ma:nthara:de:r upapa:dakathva:d dravya:nthara:darsana:ch che:thi ka:ranam e:va:vastha:nthara:pannam ka:ryam ithy uchyatha ithy uktham|
Link copied||36||
Link copiednanu niradhishtha:na bhrama:sambhava jna:pana:ya:sathka:ryava:da nira:sah kriyathe:| thatha: hy e:kam chid ru:pam sathyam e:va:vidya:chchha:ditham jagad ru:pe:na vivarthatha ithy avidya:srayathva:ya mu:la ka:ranam sathyam ithy abhyupaganthavyam ithy asathka:ryava:da nira:sah| naithad e:vam| e:ka vijna:ne:na sarva vijna:na prathijna: drushta:ntha mukhe:na sathka:ryava:dasyaiva prasakthathva:d ithy uktham| bhavath pakshe: niradhishtha:na bhrama:sambhavasya durupapa:dathva:ch cha| yasya hi che:thana gatha do:shah pa:rama:rthiko: do:sha:srayathvam cha pa:rama:rthikam thasya pa:rama:rthika do:she:na yukthasya:pa:rama:rthika gandharva nagara:di darsanam upapannam, yasya thu do:shas cha:pa:rama:rthiko: do:sha:srayathvam cha:pa:rama:rthikam thasya:pa:rama:rthike:na:py a:sraye:na thad upapannam ithi bhavath pakshe: na niradhishtha:na bhrama:sambhavah|
Link copied||37||
Link copiedso:dhake:shv api sathyam jna:nam anantham brahma, a:nando: brahme:thy a:dishu va:kye:shu sa:ma:nya:dhikaranya vyuthpaththi siddha:ne:ka guna visishtaika:rtha:vabo:dhanam aviruddham ithi sarva guna visishtam brahma:bhidhi:yatha ithi pu:rvam e:vo:ktham|
Link copied||38||
Link copiedatha:tha a:de:so: ne:thi ne:thi:thi bahudha: nishe:dho: drushyatha ithi che:th| kim athra nishidhyatha ithi vakthavyam| dve: va:va brahmano: ru:pe: mu:rtham chaiva:mu:rtham che:thi mu:rtha:mu:rtha:thmakah prapanchah sarvo:'pi nishidhyatha ithi che:n naivam| brahmano: ru:pathaya:prajna:tham sarvam ru:pathayo:padisya punar thad e:va nishe:ddhum ayuktham| praksha:lana:d dhi pankasya du:ra:d asparsanam varam ithi nya:ya:th| kas tharhi nishe:dha va:kya:rthah| su:thra ka:rah svayam e:va vadathi--- prakruthaitha:vaththvam hi prathishe:dhathi thatho: bravi:thi cha bhu:ya ithi| uththarathra atha na:madhe:yam sathy asya sathyam pra:na: vai sathyam the:sha:m e:sha sathyam ithi sathya:di guna ganasya prathipa:dithathva:th pu:rva prakruthaitha:van ma:thram na bhavathi brahme:thi, brahmana e:tha:van ma:thratha: prathishidhyatha ithi su:thra:rthah|
Link copied||39||
Link copiedne:ha na:na:sthi kinchane:thy a:dina: na:na:thva prathishe:dha e:va drushyatha ithi che:th| athra:py uththarathra sarvasya vasi: sarvasye:sana ithi sathya sankalpathva sarve:svarathva prathipa:dana:ch che:thana vasthu sari:ra i:svara ithi sarva praka:ra samsthithah sa e:ka e:ve:thi thath prathyani:ka:brahma:thmaka na:na:thvam prathishiddham na bhavad abhimatham| sarva:sv e:vampraka:ra:su sruthishv iyam e:va sthithir ithi na kvachid api brahmanah savise:shathva nishe:dhaka va:chi: ko:'pi sabdo: drusyathe:|
Link copied||40||
Link copiedapi cha nirvise:sha jna:na ma:thram brahma thach cha:chchha:dika:vidya: thiro:hitha svaru:pam svagatha na:na:thvam pasyathi:thy ayam artho: na ghatathe:| thiro:dha:nam na:ma praka:sa niva:ranam| svaru:pa:thire:ki praka:sa dharma:nabhyupagame:na praka:sasyaiva svaru:pathva:th svaru:pana:sa e:va sya:th| praka:sa parya:yam jna:nam nithyam sa cha praka:so:'vidya: thiro:hitha ithi ba:lisa bha:shitham idam| avidyaya: praka:sa thiro:hitha ithi praka:so:thpaththi prathibandho: vidyama:nasya vina:so: va:| praka:sasya:nuthpa:dyathva:d vina:sa e:va sya:th| praka:so: nithyo: nirvika:ras thishthathi:thi che:th| sathya:m apy avidya:ya:m brahmani na kinchith thiro:hitham ithi na:na:thvam pasyathi:thi bhavatha:m ayam vyavaha:rah sathsv anirvachani:ya e:va|
Link copied||41||
Link copiednanu cha bhavatho:'pi vijna:na svaru:pa a:thma:bhyupaganthavyah| sa cha svayampraka:sah| thasya cha de:va:di svaru:pa:thma:bhima:ne: svaru:pa praka:sa thiro:dha:nam avasyam a:srayani:yam| svaru:pa praka:se: sathi sva:thmany a:ka:ra:nthara:dhya:sa:yo:ga:th| atho: bhavathas cha:yam sama:no: do:shah| kim cha:sma:kam e:kasminn e:va:thmani bhavad udi:ritham durghatathvam bhavatha:m a:thma:nanthya:bhyupagama:th sarve:shv ayam do:shah pariharani:yah|
Link copied||42||
Link copiedathro:chyathe:--- svabha:vatho: mala prathyani:ka:nantha jna:na:nandaika svaru:pam sva:bha:vika:navadhika:thisaya:parimitho:da:ra guna sa:garam nime:sha ka:shtha: kala: muhu:rtha:di para:rdha paryantha:parimitha vyavachchhe:da svaru:pa sarvo:thpaththi sthithi vina:sa:di sarva parina:ma nimiththa bhu:tha ka:la krutha parina:ma:spashta:nantha maha: vibhu:thi- sva li:la: parikara sva:msa bhu:tha:nantha baddha muktha na:na: vidha che:thana thad bho:gya bhu:tha:nantha vichithra parina:ma sakthi che:thane:thara vasthu ja:tha:ntharya:mithva krutha sarva sakthi sari:rathva sarva praka:ra:vastha:na:vasthitham param brahmaiva ve:dyam, thath sa:ksha:thka:ra kshama bhagavad dvaipa:yana para:sara va:lmi:ki manu ya:jnavalkya gauthama:pasthamba prabhruthi muni gana prani:tha vidhy arthava:da manthra svaru:pa ve:da mu:le:thiha:sa pura:na dharma sa:sthro:pabhrumhitha parama:rtha bhu:tha:na:di nidhana:vichchhinna pa:tha samprada:yarg yajuh sa:ma:tharva ru:pa:nantha sa:kham ve:dam cha:bhyupagachchhatha:m asma:kam kim na se:thsyathi| yatho:ktham bhagavatha: dvaipa:yane:na maha:bha:rathe:---
Link copiedyo: ma:m ajam ana:dim cha ve:ththi lo:ka mahe:svaram|
Link copieddva:v imau purashau lo:ke: ksharas cha:kshara e:va cha|
Link copiedksharah sarva:ni bhu:tha:ni ku:tastho:'kshara uchyathe:||
Link copieduththamah purushas thv anyah parama:thme:thy uda:hruthah|
Link copiedyo: lo:ka thrayam a:visya bibharthy avyaya i:svarah||
Link copiedka:lam cha pachathe: thathra na ka:las thathra vai prabhuh|
Link copiede:the: vai niraya:s tha:tha stha:nasya parama:thmanah||
Link copiedavyaktha:di vise:sha:ntham parina:marddhi samyuktham|
Link copiedkri:da: hare:r idam sarvam ksharam ithy avadha:ryatha:m||
Link copiedkrushna e:va hi lo:ka:na:m uthpaththir api cha:pyayah|
Link copiedkrushnasya hi kruthe: bhu:tham idam visvam chara:charam||
Link copiedithi| krushnasya hi krutha ithi krushnasya se:sha bhu:tham sarvam ithy arthah|
Link copiedbhagavatha: para:sare:na:py uktham---
Link copiedsuddhe: maha: vibhu:thy a:khye: pare: brahmani sabdyathe:|
Link copiedmaithre:ya bhagavach chhabdah sarva ka:rana ka:rane:||
Link copiedjna:na sakthi balaisvarya vi:rya the:ja:msy ase:shathah|
Link copiedbhagavach chhabda va:chya:ni vina: he:yair guna:dibhih||
Link copiede:vam e:sha maha: sabdo: maithre:ya bhagava:n ithi|
Link copiedparama brahma bhu:thasya va:sude:vasya na:nyagah||
Link copiedthathra pu:jya pada:rtho:kthi paribha:sha:samanvithah|
Link copiedsabdo:'yam no:pacha:re:na thv anyathra hy upacha:rathah||
Link copiede:vampraka:ram amalam sathyam vya:pakam akshayam|
Link copiedsamastha he:ya rahitham vishnv a:khyam paramam padam||
Link copiedkala: muhu:rtha:di mayas cha ka:lo: na yad vibhu:the:h parina:ma he:thuh||
Link copiedkri:datho: ba:lakasye:va che:shta:s thasya nisa:maya||
Link copiedithy a:di| manuna:pi---
Link copiedprasa:sitha:ram sarve:sha:m ani:ya:msam ani:yasa:m|
Link copiedithy uktham| ya:jnavalkye:na:pi---
Link copiedkshe:thrasye:svara jna:na:d visuddhih parama: matha:|
Link copiedithi| a:pasthambe:na:pi--- pu:h pra:ninah sarva e:va guha:sayasye:thi| sarve: pra:nino: guha:sayas parama:thmanah pu:h puram sari:ram ithy arthah| pra:nina ithi saji:va:thma bhu:tha sangha:thah|
Link copied||43||
Link copiednanu cha kim ane:na:dambare:na| cho:dyam thu na parihrutham| uchyathe:--- e:vam abhyupagachchhatha:m asma:kam a:thma dharma bhu:thasya chaithanyasya sva:bha:vikasya:pi karmana: pa:rama:rthikam sanko:cham vika:sam cha bruvatha:m sarvam idam parihrutham| bhavas thu praka:sa e:va svaru:pam ithi praka:so: na dharma bhu:thas thasya sanko:cha vika:sau va: na:byupagamye:the:| praka:sa prasa:ra:nuthpaththim e:va thiro:dha:na bhu:tha:h karma:dayah kurvanthi| avidya: che:th thiro:dha:nam thiro:dha:na bhu:thathaya:vidyaya: svaru:pa bhu:tha praka:sa na:sa ithi pu:rvam e:vo:ktham| asma:kam thv avidya: ru:pe:na karmana: svaru:pa nithya dharma bhu:tha praka:sah sankuchithah| the:na de:va:di svaru:pa:thma:bhima:no: bhavathi:thi vise:shah| yatho:ktham---
Link copiedavidya: karma samjna:nya: thruthi:ya: sakthir ishyathe:||
Link copiedyatha: kshe:thra sakthih sa: ve:shtitha: nrupa sarvaga:|
Link copiedsamsa:ra tha:pa:n akhila:n ava:pno:thy athisamthatha:n||
Link copiedthaya: thiro:hithathva:ch cha sakthih kshe:thrajna samjnitha:|
Link copiedsarva bhu:the:shu bhu:pa:le: tha:rathamye:na varthathe:||
Link copiedithi| kshe:thrajna:na:m sva dharma bhu:thasya jna:nasya karma samjna:vidyaya: sanko:cham vika:sam cha darsayathi|
Link copied||44||
Link copiedapi cha:chchha:dika:vidya: sruthibhis chaikyo:pade:sa bala:ch cha brahma svaru:pa thiro:dha:na he:ya do:sha ru:pa:sri:yathe: thasya:s cha mithya: ru:pathve:na prapanchavath sva darsana mu:la do:sha:pe:kshathva:th| na sa: mithya: darsana mu:la do:shah sya:d ithi brahmaiva mithya: darsana mu:lam sya:th| thasya:s cha:na:dithve:'pi mithya: ru:pathva:d e:va brahma drusyathve:naiva:na:dithva:th thad darsana mu:la parama:rtha do:sha:nabhyupagama:ch cha brahmaiva thad darsana mu:lam sya:th| thasya nithyathva:d anirmo:ksha e:va|
Link copied||45||
Link copiedatha e:ve:dam api nirastham e:kam e:va sari:ram ji:vavath, nirji:va:ni:thara:ni sari:ra:ni svapna drushta na:na: vidha:nantha sari:ra:na:m yatha: nirji:vathvam| thathra svapne: drashtuh sari:ram e:kam e:va ji:vavath| thasya svapna ve:la:ya:m drusya bhu:tha na:na: vidha sari:ra:na:m nirji:vathvam e:va| ane:naike:naiva parikalpithathva:j ji:va: mithya: bhu:tha: ithi brahmana: sva svaru:pa vyathirikthasya ji:va bha:vasya sarva sari:ra:na:m cha kalpithathva:d e:kasminn api sari:re: sari:ravaj ji:va bha:vasya cha mithya: ru:pathva:th sarva:ni sari:ra:ni mithya: ru:pa:ni, thathra ji:va bha:vas cha mithya: ru:pa ithy e:kasya sari:rasya thathra ji:va bha:vasya cha na kaschid vise:shah| asma:kam thu svapne: drashtuh sva sari:rasya thasminn a:thma sad bha:vasya cha prabo:dha ve:la:ya:m aba:dhithathva:n anye:sha:m sari:ra:na:m thad gatha ji:va:na:m cha ba:dhithathva:th the: sarve: mithya: bhu:tha:h sva sari:ram e:kam thasmin ji:va bha:vas cha parama:rtha ithi vise:shah|
Link copied||46||
Link copiedapi cha ke:na va: vidya: nivruththih sa: ki:drusi:thi vive:chani:yam| aikya jna:nam nivarthakam nivruththis cha:nirvachani:ya prathyani:ka:ka:re:thi che:th| anirvachani:ya prathyani:kam nirvachani:yam thach cha sad va:sad va: dvi ru:pam va: ko:ty antharam na vidyathe:| brahma vyathire:ke:naithad abhyupagame: punar avidya: na nivruththa: sya:th| brahmaiva che:n nivruththis thath pra:g apy avisishtam ithi ve:da:ntha jna:na:th pu:rvam e:va nivruththih sya:th| aikya jna:nam nivarthakam thad abha:va:th samsa:ra ithi bhavad darsanam vihanyathe:|
Link copied||47||
Link copiedkim cha nivarthaka jna:nasya:py avidya: ru:pava:th than nivarthanam ke:ne:thi vakthavyam| nivarthaka jna:nam sve:thara samastha bhe:dam nivarthya kshanikathva:d e:va svayam e:va vinasyathi da:va:nala visha na:sana visha:ntharavad ithi che:n na| nivarthaka jna:nasya brahma vyathirikthathve:na thath svaru:pa thad uthpaththi vina:sa:na:m mithya: ru:pathva:th thad vina:sa ru:pa: vidya: thishthathy e:ve:thi thad vina:sa darsanasya nivarthakam vakthavyam e:va| da:va:gny a:di:na:m api pu:rva:vastha:viro:dhi parina:ma parampara: varjani:yaiva|
Link copied||48||
Link copiedapi cha chinma:thrabrahmavyathirikthakruthsnanishe:dhavishayajna:nasya ko:'yam jna:tha:| adhya:saru:pa ithi che:n na| thasya nishe:dhathaya: nivarthakajna:nakarmathva:th thathkarthruthva:nupapaththe:h| brahmasvaru:pa e:ve:thi che:n na| brahmano: nivarthakajna:nam prathi jna:thruthvam kim svaru:pam utha:dhyastham| adhyastham che:d ayam adhya:sas thanmu:lavidya:ntharam cha nivarthakajna:navishayathaya: thishthathy e:va| thannivarthaka:nthara:bhyupagame: thasya:pi thriru:pathaya:navasthaiva| sarvasya hi jna:nasya thriru:pakathvavirahe: jna:nathvam e:va hi:yathe:| kasyachith kanchana:rthavise:sham prathi siddhiru:pathva:th| jna:nasya thriru:pathvavirahe: bhavatha:m svaru:pabhu:thajna:navan nivarthakajna:nam apy anivarthakam sya:th| brahmasvaru:pasyaiva jna:thruthva:bhyupagame:'smadi:ya e:va pakshah parigruhi:thah sya:th| nivarthakajna:nasvaru:pajna:thruthvam cha svanivarthya:nthargatham ithi vachanam bhu:thalavyathiriktham kruthsnam chhinnam de:vadaththe:ne:thy asya:m e:va chhe:danakriya:ya:m asya:s chhe:danakriya:ya:s chhe:ththruthvasya cha chhe:dya:ntharbha:vavachanavad upaha:syam|
Link copied||49||
Link copiedapi cha nikhila bhe:da nivarthakam idam aikya jna:nam ke:na ja:tham ithi vimarsani:yam| sruthyaive:thi che:n na| thasya: brahma vyathiriktha:ya: avidya: parikalpithathva:th prapancha ba:dhaka jna:nasyo:thpa:dakathvam na sambhavathi| thatha: hi dushta ka:rana ja:tham api rajju sarpa jna:nam na dushta ka:rana janye:na rajjur iyam na sarpa ithi jna:ne:na ba:dhyathe:| rajju sarpa jna:na bhaye: varthama:ne: ke:nachid bhra:nthe:na purushe:na rajjur iyam na sarpa ithy ukthe:'py ayam bhra:ntha ithi jna:the: sathi thad vachanam rajju sarpa jna:nasya ba:dhakam na bhavathi bhayam cha na nivarthathe:| prayo:jaka jna:navathah sravana ve:la:ya:m e:va hi brahma vyathirikthathve:na sruthe:r api bhra:nthi mu:lathvam jna:tham ithi| nivarthaka jna:nasya jna:thus thath sa:magri: bhu:tha sa:sthrasya cha brahma vyathirikthathaya: yadi ba:dhyathvam uchyathe: hantha tharhi prapancha nivruththe:r mithya:thvam a:pathathi:thi prapanchasya sathyatha: sya:th| svapna drushta purusha va:kya:vagatha pithra:di maranasya mithya:thve:na pithra:di sathyatha:vath| kim cha thath thvam asy a:di va:kyam na prapanchasya ba:dhakam| bhra:nthi mu:lathva:d bhra:ntha prayuktha rajju sarpa ba:dhaka va:kyavath|
Link copied||50||
Link copiednanu cha svapne: kasmimschid bhaye: varthama:ne: svapna dasa:ya:m e:va:yam svapna ithi jna:the: sathi pu:rva bhaya nivruththir drushta:| thadvad athra:pi sambhavathi:thi| naivam| svapna ve:la:ya:m e:va so:'pi svapna ithi jna:the: sathi punar bhaya:nivruththir e:va drushte:thi na kaschid vise:shah|
Link copied||51||
Link copiedsravanave:la:ya:m e:va so:'pi svapna ithi jna:tham e:ve:thyuktham| yad api che:dam uktham bhra:nthiparikalpithathve:na mithya:ru:pam api sa:sthram advithi:yam brahme:thi bo:dhayathi thasya satho: brahmano: vishayasya pascha:th thanaba:dha:darsana:d brahma susthitham e:ve:thi| thad ayuktham| su:nyam e:va thath thvam ithi va:kye:na thasya:pi ba:dhithathva:th| idam bhra:nthimu:lava:kyam ithi che:th| sad advithi:yam brahme:thi va:kyam api bhra:nthimu:lam ithi thvayaivo:ktham| pascha:ththana ba:dha:darsanam thu sarva su:nya va:kyasyaive:thi vise:shah| sarva su:nya va:dino: brahma vyathiriktha vasthu mithya:thva va:dinas cha sva paksha sa:dhana prama:na pa:rama:rthya:nabhyupagame:na:bhiyukthair va:da:nadhika:ra e:va prathipa:dithah| adhika:ro:'nabhyupa:yathva:n na va:de: su:nya va:dinah, ithi|
Link copied||52||
Link copiedapi cha prathyaksha drushtasya prapanchasya mithya:thvam ke:na prama:ne:na sa:dhyathe:| prathyakshasya do:sha mu:lathve:na:nyatha: siddhi sambhava:n nirdo:sham sa:sthram ananyatha: siddham prathyakshasya ba:dhakam ithi che:th| ke:na do:she:na ja:tham prathyaksham anantha bhe:da vishayam ithi vakthavyam| ana:di bhe:da va:sana:khya do:sha ja:tham prathyaksham ithi che:th| hantha tharhy ane:naiva do:she:na ja:tham sa:sthram api:thy e:ka do:sha mu:lathva:ch chha:sthra prathyakshayo:r na ba:dhya ba:dhaka bha:va siddhih|
Link copied||53||
Link copieda:ka:sa va:yv a:di bhu:tha thad a:rabdha sabda sparsa:di yuktha manushyathva:di samstha:na samsthitha pada:rtha gra:hi prathyaksham| sa:sthram thu prathyaksha:dy aparichchhe:dy asarva:nthara:thmathva sathyathva:dy anantha vise:shana visishta brahma svaru:pa thad upa:sana:dy a:ra:dhana praka:ra thath pra:pthi pu:rvaka thath prasa:da labhya phala vise:sha thad anishta karana mu:la nigraha vise:sha vishayam ithi na sa:sthra prathyakshayo:r viro:dhah| ana:di nidhana:vichchhinna pa:ta samprada:yatha:dy ane:ka guna visishtasya sa:sthrasya bali:yasthvam vadatha: prathyaksha pa:rama:rthyam avasyam abhyupaganthavyam ithy alam ane:na sruthi satha vithathi va:tha ve:ga para:hatha kudrushti dushta yukthi ja:la thu:la nirasane:ne:thy uparamyathe:|
Link copied||54||
Link copieddvithi:ye: thu paksha upa:dhi brahma vyathiriktha vasthv anthara:nabhyupagama:d brahmany e:vo:pa:dhi samsarga:d aupa:dhika:h sarve: do:sha: brahmany e:va bhave:yuh| thathas cha:pahatha pa:pmathva:di nirdo:shathva sruthayah sarve: vihanyanthe:|
Link copied||55||
Link copiedyatha: ghata:ka:sa:de:h parichchhinnathaya: maha:ka:sa:d vailakshanyam paraspara bhe:das cha drusyathe: thathrastha: guna: va: do:sha: va:navachchhinne: maha:ka:se: na sambadhyanthe: e:vam upa:dhi krutha bhe:da vyavasthitha ji:va gatha: do:sha: anupahithe: pare: brahmani na sambadhyantha ithi che:th| naithad upapadyathe:| niravayavasya:ka:sasya:navachchhe:dyasya ghata:dibhis chhe:da:sambhava:th the:naiva:ka:se:na ghata:dayah samyuktha: ithi brahmano:'py achchhe:dyathva:d brahmaivo:pa:dhi samyuktham sya:th| ghata samyuktha:ka:sa prade:so:'nyasma:d a:ka:sa prade:sa:d bhidyatha ich che:th| a:ka:sasyaikasyaiva prade:sa bhe:de:na ghata:di samyo:ga:d ghata:dau gachchhathi thasya cha prade:sa bhe:dasya:niyama ithi thadvad brahmany e:va prade:sa bhe:da:niyame:no:pa:dhi samsarga:d upa:dhau gachchhathi samyuktha viyuktha brahma prade:sa bhe:da:ch cha brahmany e:vo:pa:dhi samsargah kshane: kshane: bandha mo:kshau sya:tha:m ithi santhah parihasanthi|
Link copied||56||
Link copiedniravayavasyaiva:ka:sasya sro:thre:ndriyathve:'pi:ndriya vyavastha:vad brahmany api vyavastho:papadyatha ithi che:th| na va:yu vise:sha samskrutha karna prade:sa samyukthasyaiva:ka:sa prade:sasye:ndriyathva:th thasya cha prade:sa:nthara:bhe:de:'pi:ndriya vyavastho:papadyathe:| a:ka:sasya thu sarve:sha:m sari:re:shu gachchhath sva niyame:na sarva prade:sa samyo:ga ithi brahmany upa:dhi samyo:ga prade:sa:niyama e:va|
Link copied||57||
Link copieda:ka:sasya svaru:pe:naiva sro:thre:ndriyathvam abhyupagamya:pi:ndriya vyavastho:ktha:| parama:rthathas thv a:ka:so: na sro:thre:ndriyam| vaika:rika:d ahanka:ra:d e:ka:dase:ndriya:ni ja:yantha ithi hi vaidika:h| yatho:ktham bhagavatha: para:sare:na---
Link copiedthaijasa:ni:ndriya:ny a:hur de:va: vaika:rika: dasa|
Link copiede:ka:dasam manas cha:thra de:va: vaika:rika:h smrutha:h|| ithi|
Link copiedayam arthah| vaika:rikas thaijaso: bhu:tha:dir ithi thri vidho:'hanka:rah| sa cha krama:th sa:ththviko: ra:jasas tha:masas cha| thathra tha:masa:d bhu:tha:de:r a:ka:sa:di:ni bhu:tha:ni ja:yantha ithi srushti kramam ukthva: thaijasa:d ra:jasa:d ahanka:ra:d e:kadase:ndriya:ni ja:yantha ithi paramatham upanyasya sa:ththvika:hanka:ra:d vaika:rika:ni:ndriya:ni ja:yantha ithi sva matham uchyathe: de:va: vaika:rika:h smrutha: ithi| de:va: indriya:ni| e:vam indriya:na:m a:hanka:rika:na:m bhu:thais cha:py a:yanam maha:bha:ratha uchyathe:| bhauthikathve:'pi:ndriya:na:m a:ka:sa:di bhu:tha vika:rathva:d e:va:ka:sa:di bhu:tha parina:ma vise:sha: vyavasthitha: e:va sari:ravath purusha:na:m indriya:ni bhavanthi:thi brahmany achchhe:dye: niravayave: nirvika:re: thv aniyame:na:nantha he:yo:pa:dhi samsarga do:sho: dushparihara e:ve:thi sraddadha:na:na:m e:va:yam paksha ithi sa:sthra vido: na bahu manyanthe:| svaru:pa parina:ma:bhyupagama:d avika:rathva sruthir ba:dhyathe:| niravadyatha: cha brahmanah sakthi parina:ma ithi che:th| ke:yam sakthir uchyathe:| kim brahma parina:ma ru:pa:| utha brahmano:'nanya: ka:pi:thi| ubhaya pakshe:'pi svaru:pa parina:mo:'varjani:ya e:va|
Link copied||58||
Link copiedthruthi:ye:'pi pakshe: ji:va brahmano:r bhe:davad abhe:dasya cha:bhyupagama:th thasya cha thad bha:va:th saubhari bhe:davach cha sva:vatha:ra bhe:davach cha sarvasye:svara bhe:dathva:th sarve: ji:va gatha: do:sha:s thasyaiva syuh| e:thad uktham bhavathi--- i:svarah svaru:pe:naiva sura nara thiryak stha:vara:di bhe:de:na:vasthitha ithi hi thada:thmakathva varnanam kriyathe:| thatha: sathy e:ka mruth pinda:rabdha ghata sara:va:di gatha:ny udaka:harana:di:ni sarva ka:rya:ni yatha: thasyaiva bhavanthi, e:vam sarva ji:va gatha sukha duhkha:di sarvam i:svara gatham e:va sya:th|
Link copied||59||
Link copiedghata sara:va:di samstha:na:nupayuktha mrud dravyam yatha: ka:rya:nthara:nvitham e:vam e:va sura pasu manuja:di ji:vathva:nupayukthe:svarah sarva jnah sathya sankalpathva:di kalya:na guna:kara ithi che:th sathyam sa e:ve:svara e:ke:na:mse:na kalya:na guna gana:karah sa e:va:nye:na:mse:na he:ya guna:kara ithy uktham| dvayo:r amsayo:r i:svara:vise:sha:th| dvav amsau vyavasthithav ithi che:th| kas the:na la:bhah| e:kasyaiva:ne:ka:mse:na nithya duhkhithva:d amsa:nthare:na sukhithvam api ne:svarathva:ya kalpathe:| yatha: de:vadaththasyaikasmin hasthe: chandana panka:nule:pa ke:yu:ra kataka:nguli:ya:lanka:ras thasyaiva:nyasmin hasthe: mudgara:bhigha:thah ka:la:nala jva:la:nuprave:sas cha thadvad e:ve:svarasya sya:d ithi brahma:jna:na paksha:d api pa:pi:ya:n ayam bhe:da:bhe:da pakshah| aparimitha duhkhasya pa:rama:rthikathva:th samsa:rina:m ananthathve:na dustharathva:ch cha|
Link copied||60||
Link copiedthasma:d vilakshano:'yam ji:va:msa ithi che:d a:gatho:'si tharhi madi:yam pantha:nam| i:svarasya svaru:pe:na tha:da:thmya varnane: sya:d ayam do:shah| a:thma sari:ra bha:ve:na thu tha:da:thmya prathipa:dane: na kaschid do:shah| prathyutha nikhila bhuvana niyamana:dir maha:n ayam guna ganah prathipa:ditho: bhavathi| sa:ma:na:dhikaranyam cha mukhya vruththam|
Link copied||61||
Link copiedapi chaikasya vasthuno: bhinna:bhinnathvam viruddhathva:n na sambhavathi:thy uktham| ghatasya pata:d bhinnathve: sathi thasya thasminn abha:vah| abhinnathve: sathi thasya cha bha:va ithi| e:kasmin ka:le: chaikasmin de:se: chaikasya hi pada:rthasya yugapath sad bha:vo:'sadbha:vas cha viruddhah|
Link copied||62||
Link copiedja:thy a:thmana: bha:vo: vyakthy a:thmana: cha:bha:va ithi che:th| ja:the:r munde:na cha:bha:ve: sathi khande: mundasya:pi sad bha:va prasangah| khande:na cha ja:the:r abhinnathve: sad bha:vo: bhinnathve: cha:sad bha:vah, asve: mahishathvasyaive:thi viro:dho: dushparihara e:va| ja:thy a:de:r vasthu samstha:nathaya: vasthunah praka:rathva:th praka:ra praka:rino:s cha pada:rtha:ntharathvam praka:rasya pruthaksiddhy anarhathvam pruthag anupalambhas cha thasya cha samstha:nasya cha:ne:ka vasthushu praka:rathaya:vasthithas che:thy a:di pu:rvam uktham|
Link copied||63||
Link copiedso:'yam ithi buddhih praka:raikya:d ayam api dandi:thi buddhimath| ayam cha ja:thy a:di praka:ro: vasthuno: bhe:da ithy uchyathe:| thad yo:ga e:va vasthuno: bhinnam ithi vyavaha:ra he:thur ithy arthah| sa cha vasthuno: bhe:da vyavaha:ra he:thuh svasya cha samve:danavath| yatha: samve:danam vasthuno: vyavaha:ra he:thuh svasya vyavaha:ra he:thus cha bhavathi|
Link copied||64||
Link copiedatha e:va san ma:thra gra:hi prathyaksham na bhe:da gra:hi:thy a:di va:da: nirastha:h| ja:thy a:di samstha:na samsthithasyaiva vasthunah prathyakshe:na gruhi:thathva:th thasyaiva samstha:na ru:pa ja:thy a:de:h prathiyo:gy ape:kshaya: bhe:da vyavaha:ra he:thuthva:ch cha| svaru:pa parina:ma do:shas cha pu:rvam e:vo:kthah|
Link copied||65||
Link copiedyah pruthivya:m thishthan pruthivya: antharo: yam pruthivi: na ve:da yasya pruthivi: sari:ram yah pruthivi:m antharo: yamayathi e:sha tha a:thma:ntharya:my amruthah| ya a:thmani thishthann a:thmano:'ntharo: ya a:thma: na ve:da yasya:thma: sari:ram ya a:thma:nam antharo: yamayathi e:sha tha a:thma:ntharya:my amruthah| yah pruthivi:m anthare: sancharan yasya pruthivi: sari:ram yam pruthivi: na ve:de:thy a:di yo:'ksharam anthare: sancharan yasya:ksharam sari:ram aksharam na ve:da yo: mruthyum anthare: sancharan yasya mruthyuh sari:ram yam mruthyur na ve:da e:sha sarva bhu:tha:nthara:thma:pahatha pa:pma: divyo: de:va e:ko: na:ra:yanah| dva: suparna: sayuja: sakha:ya: sama:nam vruksham parishasvaja:the:| thayo:r anyah pippalam sva:dv aththy anasnann anyo:'bhicha:kasi:thi| anthah pravishtah sa:stha: jana:na:m sarva:thma:| thath srushtva: thad e:va:nupra:visath| thad anupravisya sach cha thyach cha:nrutham cha sathyam abhavath| ane:na ji:ve:na:thmane:thy a:di| pruthag a:thma:nam pre:ritha:ram mathva: jushtas thathas the:na:mruthathvam e:thi| bho:ktha: bho:gyam pre:ritha:ram cha mathva: sarvam pro:ktham thri vidham brahma, e:thath| nithyo: nithya:na:m che:thanas che:thana:na:m e:ko: bahu:na:m yo: vidadha:thi ka:ma:n| pradha:na kshe:thrajna pathir gune:sah| jna:jnau dvav ajav i:sa:ni:sav ithy a:di sruthi sathais thad upabrumhanaih
Link copiedjagath sarvam sari:ram the: sthairyam the: vasudha: thalam||
Link copiedyath kinchith srujyathe: ye:na saththva ja:the:na vai dvija|
Link copiedthasya srujyasya sambhu:thau thath sarvam vai hare:s thanuh||
Link copiedaham a:thma: guda:ke:sa sarva bhu:tha:saya sthithah||
Link copiedsarvasya cha:ham hrudi sannivishto:
Link copiedmaththah smruthir jna:nam apo:hanam cha||
Link copiedithy a:di ve:da vid agre:sara va:lmi:ki para:sara dvaipa:yana vacho:bhis cha parasya brahmanah sarvasya:thmathva:vagama:ch chid achid a:thmakasya vasthunas thach chhari:rathva:vagama:ch cha sari:rasya sari:rinam prathi praka:rathayaiva pada:rthathva:ch sari:ra sari:rino:s cha dharma bhe:de:'pi thayo:r asankara:th sarva sari:ram brahme:thi brahmano: vaibhavam prathipa:dayadbhih sa:ma:na:dhikaranya:dibhir mukhya vruththaih sarva che:thana:che:thana praka:ram brahmaiva:bhidhi:yathe:| sa:ma:na:dhikaranyam hi dvayo:h padayo:h praka:ra dvaya mukhe:naika:rtha nishthathvam| thasya chaithasmin pakshe: mukhyatha:| thatha: hi thath thvam ithi sa:ma:na:dhikaranye: thad ithy ane:na jagath ka:ranam sarva kalya:na guna gana:karam niravadyam brahmo:chyathe:| thvam ithi cha che:thana sa:ma:na:dhikaranya vruththe:na ji:va:ntharya:niru:pi thach chhari:ram thada:thmathaya:vasthitham thath praka:ram brahmo:chyathe:| ithare:shu pakshe:shu sa:ma:na:dhikaranya ha:nir brahmanah sado:shatha: cha sya:th|
Link copied||66||
Link copiede:thad uktham bhavathi--- brahmaivam avasthitham ithy athraivam sabda:rtha bhu:tha praka:rathayaiva vichithra che:thana:che:thana:thmaka prapanchasya sthu:lasya su:kshmasya cha sad bha:vah| thatha: cha bahu sya:m praja:ye:ye:thy ayam arthah sampanno: bhavathi| thasyaive:svarasya ka:ryathaya: ka:ranathaya: cha na:na: samstha:na samsthithasya samstha:nathaya: chid achid vasthu ja:tham avasthitham ithi|
Link copied||67||
Link copiednanu cha samstha:na ru:pe:na praka:rathayaivam sabda:rthathvam ja:thi gunayo:r e:va drushtam na dravyasya| svathanthra siddhi yo:gyasya pada:rthasyaivam sabda:rthathaye:svarasya praka:ra ma:thrathvam ayuktham| uchyathe:--- dravyasya:pi danda kundala:de:r dravya:nthara praka:rathvam drushtam e:va| nanu cha danda:de:h svathanthrasya dravya:nthara praka:rathve: mathvarthi:ya prathyayo: drushtah| yatha: dandi: kundali:thi| atho: go:thva:di thulyathaya: che:thana:che:thanasya dravya bhu:thasya vasthuna i:svara praka:rathaya: sa:ma:na:dhikaranye:na prathipa:danam na yujyathe:| athro:chyathe:--- gaur asvo: manushyo: de:va ithi bhu:tha sangha:tha ru:pa:na:m dravya:na:m e:va de:vadaththo: manushyo: ja:thah punya vise:she:na yajnadaththo: gaur ja:thah pa:pe:na, anyas che:thanah punya:thire:ke:na de:vo: ja:tha ithy a:di de:va:di sari:ra:na:m che:thana praka:rathaya: lo:ka de:vayo:h sa:ma:na:dhikaranye:na prathipa:danam drushtam|
Link copied||68||
Link copiedayam arthah--- ja:thir va: guno: va: dravyam va: na thathra:darah| kanchana dravya vise:sham prathi vise:shanathayaiva yasya sad bha:vas thasya thad apruthaksiddhe:s thath praka:rathaya: thath sa:ma:na:dhikaranye:na prathipa:danam yuktham| yasya punar dravyasya pruthaksiddhasyaiva kada:chith kvachid dravya:nthara praka:rathvam ishyathe: thathra mathvarthi:ya prathyaya ithi vise:shah| e:vam e:va stha:vara jangama:thmakasya sarvasya vasthuna i:svara sari:rathve:na thath praka:rathayaiva svaru:pa sad bha:va ithi| thath praka:ri:svara e:va thath thach chhabde:na:bhidhi:yatha ithi thath sa:ma:na:dhikaranye:na prathipa:danam yuktham| thad e:vaithath sarvam pu:rvam e:va na:ma ru:pa vya:karana sruthi vivarane: prapanchitham|
Link copied||69||
Link copiedathah prakruthi purusha mahad ahanka:ra thanma:thra bhu:the:ndriya thad a:rabdha chathurdasa bhuvana:thmaka brahma:nda thad antharvarthi de:va thiryan manushya stha:vara:di sarva praka:ra samstha:na samsthitham ka:ryam api sarvam brahmaive:thi ka:rana bhu:tha brahma vijna:na:d e:va sarvam vijna:tham bhavathi:thy e:ka vijna:ne:na sarva vijna:nam upapannatharam| thad e:vam ka:rya ka:rana bha:va:di mukhe:na kruthsnasya chid achid vasthunah parabrahma praka:rathaya: thada:thmakathvam uktham|
Link copied||70||
Link copiednanu cha parasya brahmanah svaru:pe:na parina:ma:spadathvam nirvika:rathva niravadyathva sruthi vya:ko:pa prasange:na niva:ritham| prakruthis cha prathijna:drushta:ntha:nuparo:dha:d ithy e:ka vijna:ne:na sarva vijna:na prathijna:na mruth thath ka:rya drushta:ntha:bhya:m parama purushasya jagad upa:da:na ka:ranathvam cha prathipa:ditham| upa:da:na ka:ranathvam cha parina:ma:spadathvam e:va| katham idam upapadyathe:|
Link copied||71||
Link copiedathro:chyathe:--- saji:vasya prapanchasya:vise:she:na ka:ranathvam uktham| thathre:svarasya ji:va ru:pa parina:ma:bhyupagame:na na:thma: sruthe:r nithyathva:ch cha tha:bhya ithi virudhyathe:| vaishamya nairghrunya pariha:ras cha ji:vanam ana:dithva:bhyupagame:na thath karma nimiththathaya: prathipa:dithah vaishamya nairghrunye: na sa:pe:kshathva:n na karma vibha:ga:d ithi che:n na:na:dithva:d upapadyathe: cha:py upalabhyathe: che:thy akrutha:bhya:gamakrutha viprana:sa prasangas cha:nithyathve:'bhihithah|
Link copied||72||
Link copiedthatha: prakruthe:r apy ana:ditha: sruthibhih prathipaditha:---
Link copiedaja:m e:ka:m lo:hitha sukla krushna:m bahvi:m praja:m janayanthi:m saru:pa:m|
Link copiedajo: hy e:ko: jushama:no:'nuse:the: jaha:thy e:na:m bhuktha bho:ga:m ajo:'nyah||
Link copiedithi prakruthi purushayo:r ajathvam darsayathi| asma:n ma:yi: srujathe: visvam e:thath thasmims cha:nyo: ma:yaya: sanniruddhah, ma:ya:m thu prakruthim vidya:n ma:yinam thu mahe:svaram ithi prakruthir e:va svaru:pe:na vika:ra:spadam ithi cha darsayathi| gaur ana:dyanthavathi: sa: janithri: bhu:tha bha:vini:thi cha| smruthis cha bhavathi---
Link copiedprakruthim purusham chaiva viddhy ana:di: ubhav api|
Link copiedvika:ra:ms cha guna:ms chaiva viddhi prakruthi sambhava:n||
Link copiedbhu:mir a:po:'nalo: va:yuh kham mano: buddhir e:va cha|
Link copiedahanka:ra ithi:yam me: bhinna: prakruthir ashtadha:||
Link copiedapare:yam ithas thv anya:m prakruthim viddhi me: para:m|
Link copiedji:va bhu:tha:m maha: ba:ho: yaye:dam dha:ryathe: jagath||
Link copiedprakruthim sva:m avashtabhya visruja:mi punah punah|
Link copiedmaya:dhyakshe:na prakruthih su:yathe: sachara:charam||
Link copiedithy a:dika:|
Link copied||73||
Link copiede:vam cha prakruthe:r api:svara sari:rathva:th prakruthi sabdo:'pi thada:thma bhu:thasye:svarasya thath praka:ra samsthithasya va:chakah| purusha sabdo:'pi thada:thma bhu:thasye:svarasya purusha praka:ra samsthithasya va:chakah| athas thad vika:ra:na:m api thathe:svara e:va:thma:| thad a:ha---
Link copiedvyaktham vishnus thatha:vyaktham purushah ka:la e:va cha|
Link copiedsa: e:va ksho:bhako: brahman ksho:bhyas cha parame:svarah||
Link copiedithi| athah prakruthi praka:ra samsthithe: parama:thmani praka:ra bhu:tha prakruthy amse: vika:rah praka:ry amse: cha:vika:rah| e:vam e:va ji:va praka:ra samsthithe: parama:thmani cha praka:ra bhu:tha ji:va:mse: sarve: cha:purusha:rtha:h praka:ry amso: niyantha: niravadyah sarva kalya:na guna:karah sathya sankalpa e:va|
Link copied||74||
Link copiedthatha: cha sathi ka:rana:vastha i:svara e:ve:thi thad upa:da:naka jagath ka:rya:vastho:'pi sa e:ve:thi ka:rya ka:ranayo:r ananyathvam sarva sruthy aviro:dhas cha bhavathi| thad e:vam na:ma ru:pa vibha:ga:narha su:kshma dasa:panna prakruthi purusha sari:ram brahma ka:rana:vastham, jagathas thad a:paththir e:va cha pralayah| na:ma ru:pa vibha:ga vibhaktha sthu:la chid achid vasthu sari:ram brahma ka:ryathvam, brahmanas thatha:vidha sthu:la bha:va e:va jagathah srushtir ithy uchyathe:| yatho:ktham bhagavatha: para:sare:na---
Link copiedpradha:na pumso:r ajayo:h ka:ranam ka:rya bhu:thayo:h| ithi|
Link copied||75||
Link copiedthasma:d i:svara praka:ra bhu:tha sarva:vastha prakruthi purusha va:chinah sabda:s thath praka:ra visishtathaya:vasthithe: parama:thmani mukhyathaya: varthanthe:| ji:va:thma va:chi de:va manushya sabdavath| yatha: de:va manushya:di sabda: de:va manushya:di prakruthi parina:ma vise:sha:na:m ji:va:thma praka:rathayaiva pada:rthathva:th praka:rini ji:va:thmani mukhyathaya: varthanthe:| thasma:th sarvasya chid achid vasthunah parama:thma sari:rathaya: thath praka:rathva:th parama:thmani mukhyathaya: varthanthe: sarve: va:chaka:h sabda:h|
Link copied||76||
Link copiedayam e:va cha:thma sari:ra bha:vah pruthaksiddhy anarha:dha:ra:dhe:ya bha:vo: niyanthru niya:mya bha:vah se:sha se:shi bha:vas cha| sarva:thmana:dha:rathaya: niyanthruthaya: se:shithaya: cha:pno:thi:thy a:thma: sarva:thmana:dhe:yathaya: niya:myathaya: se:shathaya: cha:pruthaksiddham praka:ra bhu:tham ithy a:ka:rah sari:ram ithi cho:chyathe:| e:vam e:va hi ji:va:thmanah sva sari:ra sambandhah| e:vam e:va parama:thmanah sarva sari:rathve:na sarva sabda va:chyathvam|
Link copied||77||
Link copiedthad a:ha sruthi ganah--- sarve: ve:da: yath padam a:mananthi sarve: ve:da: yathraikam bhavanthi:thi| thasyaikasya va:chyathva:d e:ka:rtha va:chino: bhavanthi:thy arthah| e:ko: de:vo: bahudha: nivishtah, sahaiva santham na vija:nanthi de:va: ithy a:di| de:va: indriya:ni| de:va manushya:di:na:m antharya:mithaya:thmathve:na nivisya sahaiva santham the:sha:m indriya:ni manah paryantha:ni na vija:nanthi:thy arthah| thatha: cha paura:nika:ni vacha:msi---
Link copiednatha:h sma sarva vachasa:m prathishtha: yathra sasvathi:|
Link copiedva:chye: hi vachasah prathishtha:|
Link copiedka:rya:na:m ka:rana:m pu:rvam vachasa:m va:chyam uththamam|
Link copiedve:dais cha sarvair aham e:va ve:dyah|
Link copiedithy a:di:ni sarva:ni hi vacha:msi sasari:ra:thma visishtam antharya:minam e:va:chakshathe:| hantha:ham ima:s thisro: de:vatha: ane:na ji:ve:na:thma:nupravisya na:ma ru:pe: vya:karava:ni:thi hi sruthih| thatha: cha ma:navam vachah---
Link copiedprasa:sitha:ram sarve:sha:m ani:ya:msam ani:yasa:m|
Link copiedrukma:bham svapnadhi: gamyam vidya:th tham purusham param||
Link copiedanthah pravisya:ntharya:mithaya: sarve:sha:m prasa:sitha:ram niyantha:ram ani:ya:msa a:thma:nah kruthsnasya:che:thanasya vya:pakathaya: su:kshma bhu:tha:s the: the:sha:m api vya:pakathva:th the:bhyo:'pi su:kshmathara ithy arthah rukma:bhah a:dithya varnah svapna kalpa buddhi pra:pyah, visadathama prathyakshatha:panna:nudhya:naika labhya ithy arthah|
Link copiede:nam e:ke: vadanthy agnim ma:rutho:'nye: praja:pathim|
Link copiedindram e:ke: pare: prama:nam apare: brahma sa:svatham||
Link copiedithi| e:ke: ve:da: ithy arthah| uktha ri:thya: parasyaiva brahmanah sarvasya prasa:sithruthve:na sarva:nthara:thmathaya: pravisya:vasthithathva:d agny a:dayah sabda: api sa:svatha brahma sabdavath thasyaiva va:chaka: bhavanthi:thy arthah| thatha: cha smruthy antharam---
Link copiedye: yajanthi pithru:n de:va:n bra:hmana:n sahutha:sana:n|
Link copiedsarva bhu:tha:nthara:thma:nam vishnum e:va yajanthi the:||
Link copiedithi| pithru de:va bra:hmana hutha:sana:di sabda:s than mukhe:na thad anthara:thma bhu:thasya vishno:r e:va va:chaka: ithy uktham bhavathi|
Link copied||78||
Link copiedathre:dam sarva sa:sthra hrudayam ji:va:thma:nah svayam asankuchitha:parichchhinna nirmala jna:na svaru:pa:h santhah karma ru:pa:vidya:ve:shtitha:s thath thath karma:nuru:pa jna:na sanko:cham a:panna:h, brahma:di sthamba paryantha vividha vichithra de:he:shu pravista:s thath thad de:ho:chitha labdha jna:na prasara:s thath thad de:ha:thma:bhima:ninas thad uchitha karma:ni kurva:na:s thad anuguna sukha duhkho:pabho:ga ru:pa samsa:ra prava:ham prathipadyanthe:| e:the:sha:m samsa:ra mo:chanam bhagavath prapaththim anthare:na no:papadyatha ithi thad arthah prathamam e:sha:m de:va:di bhe:da rahitha jna:naika:ka:rathaya: sarve:sha:m sa:myam prathipa:dya, thasya:pi svaru:pasya bhagavach chhe:shathaikarasathaya: bhagavad a:thmakatha:m api prathipa:dya, bhagavath svaru:pam cha he:ya prathyani:ka kalya:naikatha:nathaya: sakale:thara visaja:thi:yam anavadhika:thisaya:sankhye:ya kalya:na guna gana:srayam sva sankalpa pravruththa samastha chid achid vasthu ja:thathaya: sarvasya:thma bhu:tham prathipa:dya thad upa:sana sa:ngam thath pra:pakam prathipadayanthi sa:sthra:ni:thi|
Link copied||79||
Link copiedyatho:ktham---
Link copiednirva:na maya e:va:yam a:thma: jna:na mayo:'malah|
Link copiedduhkha:jna:na mala: dharma: prakruthe:s the: na cha:thmanah|
Link copiedithi prakruthi samsarga krutha karma mu:lathva:n na:thma svaru:pa prayuktha: dharma: ithy arthah| pra:ptha:pra:ptha vive:ke:na prakruthe:r e:va dharma: ithy uktham|
Link copiedvidya: vinaya sampanne: bra:hmane: gavi hasthini|
Link copiedsuni chaiva sva pa:ke: cha pa:nditha:h sama darsinah|
Link copiedithi| de:va thiryan manushya stha:vara ru:pa prakruthi samsrushtasya:thmanah svaru:pa vive:chani: buddhir e:sha:m the: panditha:h| thath thath prakruthi vise:sha viyuktha:thma ya:tha:thmya jna:navanthas thathra thathra:thyantha vishama:ka:re: varthama:nam a:thma:nam sama:na:ka:ram pasyanthi:thi sama darsina ithy uktham| thad idam a:ha---
Link copiedihaiva thair jithah sargo: ye:sha:m sa:mye: sthitham manah|
Link copiednirdo:sham hi samam brahma thasma:d brahmani the: sthitha:h||
Link copiedithi| nirdo:sham de:va:di prakruthi vise:sha samsarga ru:pa do:sha rahitham svaru:pe:na:vasthitham sarvam a:thma vasthu nirva:na ru:pa jna:naika:ka:rathaya: samam ithy arthah|
Link copied||80||
Link copiedthasyaivambhu:thasya:thmano: bhagavach chhe:shathaikarasatha: than niya:myatha: thad e:ka:dha:ratha: cha thach chhari:ra thath thanu prabhruthibhih sabdais thath sama:na:dhikaranye:na cha sruthi smruthi:thiha:sa pura:ne:shu prathipa:dyatha ithi pu:rvam e:vo:ktham|
Link copied||81||
Link copieddaivi: hy e:sha: guna mayi: mama ma:ya: durathyaya:|
Link copiedma:m e:va ye: prapadyanthe: ma:ya:m e:tha:m tharanthi the:||
Link copiedithi thasya:thmanah karma krutha vichithra guna maya prakruthi samsarga ru:pa:th samsa:ra:n mo:ksho: bhagavath prapaththim anthare:na no:papadyatha ithy uktham bhavathi| na:nyah pantha: ayana:ya vidyatha ithy a:di sruthibhis cha|
Link copiedmaya: thatham idam sarvam jagad avyaktha mu:rthina:|
Link copiedmath stha:ni sarva bhu:tha:ni na cha:ham the:shv avasthithah||
Link copiedna cha math stha:ni bhu:tha:ni pasya me: yo:gam aisvaram||
Link copiedithi sarva sakthi yo:ga:th svaisvarya vaichithryam uktham| thad a:ha---
Link copiedvishtabhya:ham idam kruthsnam e:ka:mse:na sthitho: jagath|
Link copiedithy anantha vichithra maha:scharya ru:pam jagan mama:yutha:mse:na:thmathaya: pravisya sarvam math sankalpe:na vishtabhya:ne:na ru:pe:na:nantha maha: vibhu:thi parimitho:da:ra guna sa:garo: nirathisaya:scharya bhu:thah sthitho:'ham ithy arthah| thad idam a:ha---
Link copiede:kathve: sathi na:na:thvam na:na:thve: sathi chaikatha:|
Link copiedachinthyam brahmano: ru:pam kuthas thad ve:dithum arhathi||
Link copiedithi| prasa:sithruthve:naika e:va san vichithra chid achid vasthushv anthara:thmathaya: pravisya thath thad ru:pe:na vichithra praka:ro: vichithra karma ka:rayan na:na: ru:pa:m bhajathe:| e:vam svalpa:mse:na thu sarva:scharyam na:na: ru:pam jagath thad anthara:thmathaya: pravisya vishtabhya na:na:thve:na:vasthitho:'pi sann anavadhika:thisaya:sankhye:ya kalya:na guna ganah sarve:svarah parabrahma bhu:thah purusho:ththamo: na:ra:yano: nirathisaya:scharya bhu:tho: ni:la tho:yada sanka:sah pundari:ka dala:mala:yathe:kshanah sahasra:msu sahasra kiranah parame: vyo:mni yo: ve:da nihitham guha:ya:m parame: vyo:mams thad akshare: parame: vyo:mann ithy a:di sruthi siddha e:ka e:va:thishthathe:|
Link copied||82||
Link copiedbrahma vyathirikthasya kasyachid api vasthuna e:ka svabha:vasyaika ka:rya sakthi yukthasyaika ru:pasya ru:pa:nthara yo:gah svabha:va:nthara yo:gah sakthy anthara yo:gas cha na ghatathe:| thasyaithasya parabrahmanah sarva vasthu vija:thi:yathaya: sarva svabha:vathvam sarva sakthi yo:gas che:thy e:kasyaiva vichithra:nantha ru:patha: cha punar apy anantha:parimitha:scharya yo:ge:naika ru:patha: cha na viruddhe:thi vasthu ma:thra sa:mya:d viro:dha chintha: na yukthe:thy arthah| yatho:ktham---
Link copiedsakthayah sarva bha:va:na:m achinthya jna:na go:chara:h|
Link copiedyatho:'tho: brahmanas tha:s thu sarga:dya: bha:va sakthayah||
Link copiedbhavanthi thapasa:m sre:shta pa:vakasya yatho:shnatha:||ithi|
Link copiede:thad uktham bhavathi sarve:sha:m agni jala:di:na:m bha:va:na:m e:kasminn api bha:ve: drushtaiva sakthis thad vija:thi:ya bha:va:nthare:'pi:thi na chinthayithum yuktha: jala:da:v adrushta:pi thad vija:thi:ya pa:vake: bha:svarathvo:shnatha:di sakthir yatha: drusyathe:, e:vam e:va sarva vasthu visaja:thi:ye: brahmani sarva sa:myam na:numa:thum yuktham ithi| atho: vichithra:nantha sakthi yuktham brahmaive:thy arthah thad a:ha---
Link copiedjagad e:than maha:scharyam ru:pam yasya maha:thmanah|
Link copiedthe:na:scharya vare:na:ham bhavatha: krushna sangathah||
Link copiedithi|
Link copied||83||
Link copiedthad e:than na:na: vidha:nantha sruthi nikara sishta parigruhi:tha thad vya:khya:na parisrama:d avadha:ritham| thatha: hi prama:na:nthara:paridrushta:parimitha parina:ma:n e:ka thaththva niyatha krama visishtau srushti pralayau brahmano:'ne:ka vidha:h sruthayo: vadanthi niravadyam niranjanam vijna:nam a:nandam nirvika:ram nishkalam nishkriyam sa:ntham nirgunam ithy a:dika:h nirgunam jna:na svaru:pam brahme:thi ka:schana sruthayo:'bhidadhathi| ne:ha na:na:sthi kinchana mruthyo:h sa mruthyum a:pno:thi ya iha na:ne:va pasyathi yathra thv asya sarvam a:thmaiva:bhu:th thath ke:na kam pasye:th thath ke:na kam vija:thi:ya:d ithy a:dika: na:na:thva nishe:dha va:dinyah santhi ka:schana sruthayah| yah sarva jnah sarva vid yasya jna:na mayam thapah sarva:ni ru:pa:ni vichithya dhi:ro: na:ma:ni kruthva:bhivadan yad a:sthe: sarve: nime:sha: jajnire: vidyuthah purusha:dadhi apahatha pa:pma: vijaro: vimruthyur viso:ko: vijaghathso:'pipa:sah sathya ka:mah sathya sankalpa ithi sarvasmin jagathi he:yathaya:vagatham sarva gunam prathishidhya nirathisaya kalya:na guna:nanthyam sarvajnatha: sarva sakthi yo:gam sarva na:ma ru:pa vya:karanam sarvasya:vadha:ratha:m cha ka:schana sruthayo: bruvathe:| sarvam khalv idam brahma thaj jala:n ithi aithada:thmyam idam sarvam e:kah san bahudha: vicha:ra ithy a:dika: brahma srushtam jagan na:na:ka:ram prathipa:dya thad aikyam cha prathipa:dayanthi ka:schana| pruthag a:thma:nam pre:ritha:ram cha mathva: bho:ktha: bho:gyam pre:ritha:ram cha mathva: praja:pathir aka:mayatha praja:h sruje:ye:thi pathim visvasya:thme:svaram sa:svatham sivam achyutham tham i:svara:na:m param mahe:svaram tham de:vatha:na:m param cha daivatham sarvasya vasi: sarvasye:sa:na ithy a:dika: brahmanah sarvasma:d anyathvam sarvasye:sithavyam i:svarathvam cha brahmanah sarvasya se:shatha:m pathithvam che:svarasya ka:schana| anthah pravishtah sa:stha: jana:na:m sarva:thma: e:sha tha a:thma:ntharya:my amruthah yasya pruthivi: sari:ram yasya:pah sari:ram yasya the:jah sari:ram ithy a:di yasya:vyaktham sari:ram yasya:ksharam sari:ram yasya mruthyuh sari:ram yasya:thma: sari:ram ithi brahma vyathirikthasya sarvasya vasthuno: brahmanas cha sari:ra:thma bha:vam darsayanthi ka:schane:thi|
Link copied||84||
Link copiedna:na: ru:pa:na:m va:kya:na:m aviro:dho: mukhya:rtha:parithya:gas cha yatha: sambhavathi thatha: varnani:yam| varnitham cha avika:ra sruthayah svaru:pa parina:ma pariha:ra:d e:va mukhya:rtha:h| nirguna va:da:s cha pra:krutha he:ya guna nishe:dha parathaya: vyavasthitha:h| na:na:thva nishe:dha va:da:s chaikasya brahmanah sari:rathaya: praka:ra bhu:tham sarvam che:thana:che:thanam vasthv ithi sarvasya:thmathaya: sarva praka:ram brahmaiva:vasthitham ithi surakshitha:h| sarva praka:ra vilakshanathva pathithve:svarathva sarva kalya:na guna gana:ka:rathva sathya ka:mathva sathya sankalpathva:di va:kyam thad abhyupagama:d e:va surakshitham| jna:na:nanda ma:thra va:di cha sarvasma:d anyasya sarva kalya:na guna gana:srayasya sarve:svarasya sarva se:shinah sarva:dha:rasya sarvo:thpaththi sthithi pralaya he:thu bhu:thasya niravadyasya nirvika:rasya sarva:thma bhu:thasya parasya brahmanah svaru:pa niru:paka dharmo: mala prathyani:ka:nanda ru:pa jna:nam e:ve:thi sva praka:sathaya: svaru:pam api jna:nam e:ve:thi cha prathipa:dana:d anupa:litham| aikya va:da:s cha sari:ra:thma bha:ve:na sa:ma:na:dhikaranya mukhya:rthatho:papa:dana:d e:va susthitha:h|
Link copied||85||
Link copiede:vam cha sathy abhe:do: va: bhe:do: va: dvy a:thmakatha: va: ve:da:ntha ve:dyah ko:'yam arthah samarthitho: bhavathi| sarvasya ve:da ve:dyathva:th sarvam samarthitham| sarva sari:rathaya: sarva praka:ram brahmaiva:vasthitham ithy abhe:dah samarthithah| e:kam e:va brahma na:na: bhu:tha chid achid vasthu praka:ram na:na:thve:na:vasthitham ithi bhe:da:bhe:dau| achid vasthunas chid vasthunas che:svarasya cha svaru:pa svabha:va vailakshanya:d asankara:ch cha bhe:dah samarthithah|
Link copied||86||
Link copiednanu cha thath thvam asi sve:thake:tho: thasya tha:vad e:va chiram ithy aikya jna:nam e:va parama purusha:rtha lakshana mo:ksha sa:dhanam ithi gamyathe:| naithad e:vam| pruthag a:thma:nam pre:ritha:ram cha mathva: jushtas thathas the:na:mruthathvam e:thi:thy a:thma:nam pre:ritha:ram cha:ntharya:minam pruthag mathva: thathah pruthakthva jna:na:d dhe:tho:s the:na parama:thmana: jushto:'mruthathvam e:thi:thi sa:ksha:d amruthathva pra:pthi sa:dhanam a:thmano: niyanthus cha pruthag bha:va jna:nam e:ve:thy avagamyathe:|
Link copied||87||
Link copiedaikya va:kya viro:dha:d e:thad aparama:rtha saguna brahma pra:pthi vishayam ithy abhyupaganthavyam ithi che:th| pruthakthva jna:nasyaiva sa:ksha:d amruthathva pra:pthi sa:dhanathva sravana:d vipari:tham kasma:n na bhavathi|
Link copiede:thad uktham bhavathi--- dvayo:r thulyayo:r viro:dhe: sathy aviro:dhe:na thayo:r vishayo: vive:chani:ya ithi| katham aviro:dha ithi che:d antharya:mi ru:pe:na:vasthithasya parasya brahmanah sari:rathaya: praka:rathva:j ji:va:thmanas thath praka:ram brahmaiva thvam ithi sabde:na:bhidhi:yathe:| thathaiva jna:thavyam ithi thasya va:kyasya vishayah| e:vambhu:tha:j ji:va:th thada:thmathaya:vasthithasya parama:thmano: nikhila do:sha rahithathaya: sathya sankalpathva:d anavadhika:thisaya:sankhye:ya kalya:na guna gana:karathve:na cha yah pruthag bha:vah so:'nusandhe:ya ithy asya va:kyasya vishaya ithy ayam arthah pu:rvam asakrud ukthah| bho:ktha: bho:gyam pre:ritha:ram cha mathve:thi bho:gya ru:pasya vasthuno:'che:thanathvam parama:rthathvam sathatham vika:ra:spadathvam ithy a:dayah svabha:va:h, bho:kthur ji:va:thmanas cha:mala:parichchhinna jna:na:nanda svabha:vasyaiva:na:di karma ru:pa:vidya: krutha na:na: vidha jna:na sanko:cha vika:sau bho:gya bhu:tha:chid vasthu samsargas cha parama:thmo:pa:sana:n mo:kshas che:thy a:dayah svabha:va:h, e:vambhu:tha bho:kthru bho:gyayo:r antharya:mi ru:pe:na:vastha:nam svaru:pe:na cha:parimitha gunaugha:srayathve:na:vastha:nam ithi parasya brahmanas thri vidha:vastha:nam jna:thavyam ithy arthah||
Link copied||88||
Link copiedthath thvam asi:thi sad vidya:ya:m upa:syam brahma sagunam saguna brahma pra:pthis cha phalam ithy abhiyukthaih pu:rva:cha:ryair vya:khya:tham| yatho:ktham va:kya ka:re:na yuktham thad gunako:pa:sana:d ithi| vya:khya:tham cha dramida:cha:rye:na vidya: vikalpam vadatha: yady api sach chiththo: na nirbhugna daivatham guna ganam manasa:nudha:ve:th thatha:py antharguna:m e:va de:vatha:m bhajatha ithi thathra:pi sagunaiva de:vatha: pra:pyatha ithi| sach chiththah sad vidya: nishthah| na nirbhugna daivatham guna ganam manasa:nudha:ve:d apahatha pa:pmathva:di kalya:na guna ganam daivatha:d vibhaktham yady api dahara vidya:nishtha iva sach chiththo: na smare:th| thatha:py antharguna:m e:va de:vatha:m bhajathe: de:vatha: svaru:pa:nubandhithva:th sakala kalya:na guna ganasya ke:nachid para de:vatha: sa:dha:rane:na nikhila jagath ka:ranathva:dina: gune:no:pa:syama:na:pi de:vatha: vasthuthah svaru:pa:nubandhi sarva kalya:na guna gana visishtaivo:pa:syathe:| athah sagunam e:va brahma thathra:pi pra:pyam ithi sad vidya:dahara vidyayo:r vikalpa ithy arthah|
Link copied||89||
Link copiednanu cha sarvasya jantho:h parama:thma:ntharya:mi: than niya:myam cha sarvam e:ve:thy uktham| e:vam cha sathi vidhi nishe:dha sa:sthra:na:m adhika:ri: na drusyathe:| yah sva buddhyaiva pravruththi nivruththi sakthah sa e:vam kurya:n na kurya:d ithi vidhi nishe:dha yo:gyah| na chaisha drusyathe:| sarvasmin pravruththi ja:the: sarvasya pre:rakah parama:thma: ka:rayithe:thi thasya sarva niyamanam prathipa:ditham| thatha: cha sru:yathe: e:sha e:va sa:dhu karma ka:rayathi the: yam e:bhyo: lo:ke:bhya unnini:shathi| e:sha e:va:sa:dhu karma ka:rayathi tham yam adho: nini:shathi:thi| sa:dhv asa:dhu karma ka:rayithruthva:n nairghrunyam cha|
Link copied||90||
Link copiedathro:chyathe:--- sarve:sha:m e:va che:thana:na:m chich chhakthi yo:gah pravruththi sakthi yo:ga ithy a:di sarvam pravruththi nivruththi parikaram sa:ma:nye:na samvidha:ya than nirvahana:ya thad a:dha:ro: bhu:thva:nthah pravisya:numanthruthaya: cha niyamanam kurvan se:shithve:na:vasthithah parama:thmaithad a:hitha sakthih san pravruththi nivruththy a:di svayam e:va kuruthe:| e:vam kurva:nam i:kshama:nah parama:thmo:da:si:na a:sthe:| athah sarvam upapannam| sa:dhv asa:dhu karmano:h ka:rayithruthvam thu vyavasthitha vishayam na sarva sa:dha:ranam| yas thu sarvam svayam e:va:thima:thram a:nuku:lye: pravruththas tham prathi pri:thah svayam e:va bhagava:n kalya:na buddhi yo:ga da:nam kurvan kalya:ne: pravarthayathi| yah punar athima:thram pra:thiku:lye: pravruththas thasya kru:ra:m buddhim dadan svayam e:va kru:re:shv e:va karmasu pre:rayathi bhagava:n| yatho:ktham bhagavatha:---
Link copiedthe:sha:m sathatha yuktha:na:m bhajatha:m pri:thi pu:rvakam|
Link copieddada:mi buddhi yo:gam tham ye:na ma:m upaya:nthi the:||
Link copiedthe:sha:m e:va:nukampa:rtham aham ajna:na jam thamah|
Link copiedna:saya:my a:thma bha:va stho: jna:na di:pe:na bha:svatha:||
Link copiedtha:n aham dvishathah kru:ra:n samsa:re:shu nara:dhama:n|
Link copiedkshipa:my ajasram asubha:n a:suri:shv e:va yo:nishu|| ithi|
Link copied||91||
Link copiedso:'yam parabrahma bhu:thah purusho:ththamo: nirathisaya punya sanchaya kshi:na:se:sha janmo:pachitha pa:pa ra:se:h parama purusha charana:ravinda sarana:gathi janitha thad abhimukhyasya sad a:cha:ryo:pade:so:pabrumhitha sa:sthra:dhigatha thaththva ya:tha:thmya:vabo:dha pu:rvaka:har ahar upachi:yama:na sama dama thapah saucha kshama:rjava bhaya:bhaya stha:na vive:ka daya:himsa:dy a:thma guno:pe:thasya varna:sramo:chitha parama purusha:ra:dhana ve:sha nithya naimiththika karmo:pasamhruthi nishiddha pariha:ra nishthasya parama purusha charana:ravinda yugala nyastha:thma:thmi:yasya thad bhakthi ka:ritha:navaratha sthuthi smruthi namaskruthi vandana yathana ki:rthana guna sravana vachana dhya:na:rchana prana:ma:di pri:tha parama ka:runika purusho:ththama prasa:da vidhvastha sva:ntha dhva:nthasya:nanya prayo:jana:navaratha nirathisaya priya visadathama prathyakshatha:panna:nudhya:na ru:pa bhakthy e:ka labhyah| thad uktham parama gurubhir bhagavad ya:muna:cha:rya pa:daih--- ubhaya parikarmitha sva:nthasyaika:nthika:thyanthika bhakthi yo:ga labhya ithi| jna:na yo:ga karma yo:ga samskrutha:nthahkaranasye:thy arthah| thatha: cha sruthih---
Link copiedvidya:m cha:vidya:m cha yas thad ve:do:bhyam saha|
Link copiedavidyaya: mruthyum thi:rthva: vidyaya:mrutham asnuthe:||
Link copiedithi| athra:vidya: sabde:na vidye:tharathva:d varna:srama:cha:ra:di pu:rvo:ktham karmo:chyathe: vidya: sabde:na cha bhakthi ru:pa:pannam dhya:nam uchyathe:| yatho:ktham---
Link copiedija:ya so:'pi subahu:ny ajna:n jna:na vyapa:srayah|
Link copiedbrahma vidya:m adhishtha:ya tharthum mruthyum avidyaya:||
Link copiedithi| tham e:vam vidva:n amrutha iha bhavathi na:nyah pantha: ayana:ya vidyathe:| ya e:nam vidur amrutha:s the: bhavanthi| brahma vid a:pno:thi param| so: yo: ha vai thath param ve:da brahma ve:da brahmaiva bhavathi:thy a:di| ve:dana sabde:na dhya:nam e:va:bhihitham| nididhya:sithavya ithy a:dinaika:rthya:th| thad e:va dhya:nam punar api visinashti na:yam a:thma: pravachane:na labhyo: na me:dhaya: na bahudha: sruthe:na| yam e:vaisha vrunuthe: the:na labhyas thasyaisha a:thma: vivrunuthe: thanu:m sva:m ithi| bhakthi ru:pa:panna:nudhya:ne:naiva labhyathe: na ke:valam ve:dana ma:thre:na na me:dhaye:thi ke:valasya nishiddhathva:th|
Link copied||92||
Link copiede:thad uktham bhavathi--- yo:'yam mumukshur ve:da:ntha vihitha ve:dana ru:pa dhya:na:dinishtho: yada: thasya thasminn e:va:nudhya:ne: niravadhika:thisaya: pri:thir ja:yathe: thadaiva the:na labhyathe: parah purusha ithi| yatho:ktham bhagavatha:---
Link copiedpurushah sa parah pa:rtha bhakthya: labhyas thv ananyaya:|
Link copiedbhakthya: thv ananyaya: sakyo:'ham e:vamvidho:'rjuna|
Link copiedjna:thum drashtum cha thaththve:na prave:shtum cha paranthapa||
Link copiedbhakthya: ma:m abhija:na:thi ya:va:n yas cha:smi thaththvathah|
Link copiedthatho: ma:m thaththvatho: jna:thva: visathe: thad anantharam||
Link copiedithi| thad anantharam thatha e:va bhakthitho: visatha ithy arthah| bhakthir api nirathisaya priya:nanya prayo:jana sakale:thara vaithrushnya:vaha jna:na vise:sha e:ve:thi| thad yuktha e:va the:na pare:na:thmana: varani:yo: bhavathi:thi the:na labhyatha ithi sruthy arthah| e:vamvidha para bhakthi ru:pa jna:na vise:shasyo:thpa:dakah pu:rvo:ktha:har ahar upachi:yama:na jna:na pu:rvaka karma:nugruhi:tha bhakthi yo:ga e:va| yatho:ktham bhagavatha: para:sare:na---
Link copiedvarna:srama:cha:ravatha: purushe:na parah puma:n|
Link copiedvishnur a:ra:dhyathe: pantha: na:nyas thath tho:sha ka:rakah||
Link copiedithi| nikhila jagad uddha:rana:ya:vani thale:'vathi:rnah parabrahma bhu:thah purusho:ththamah svayam e:vaithad ukthava:n---
Link copiedsva karma nirathah siddhim yatha: vindathi thach chhrunu|
Link copiedyathah pravruththir bhu:tha:na:m ye:na sarvam idam thatham||
Link copiedsva karmana: tham abhyarchya siddhim vindathi ma:navah|
Link copiedithi| yatho:ditha krama parinatha bhakthy e:ka labhya e:va|
Link copied||93||
Link copiedbo:dha:yana tanka dramida guhade:va kapardi bha:ruchi prabhruthy avigi:tha sishta parigruhi:tha pura:thana ve:da ve:da:ntha vya:khya:na suvyaktha:rtha sruthi nikara nidarsitho:'yam pantha:h| ane:na cha:rva:ka sa:kyaulu:kya:kshapa:da kshapanaka kapila pathanjali matha:nusa:rino: ve:da ba:hya: ve:da:valambi kudrushtibhih saha nirastha:h| ve:da:valambina:m api yatha:vasthitha vasthu viparyayas tha:drusa:m ba:hya sa:myam manunaivo:ktham---
Link copiedyo: ve:da ba:hya:h smruthayo: ya:s cha ka:s cha kudrushtayah|
Link copiedsarva:s tha: nishphala:h pre:thya thamo:nishtha: hi tha:h smrutha:h||
Link copiedithi| rajas thamo:bhya:m asprushtam uththamam saththvam e:va ye:sha:m sva:bha:viko: gunas the:sha:m e:va vaidiki: ruchir ve:da:rtha ya:tha:thmya:vabo:dhas che:thy arthah|
Link copied||94||
Link copiedyatho:ktham ma:thsye:---
Link copiedsanki:rna:h sa:ththvika:s chaiva ra:jasa:s tha:masa:s thatha:|
Link copiedithi| ke:chid brahma kalpa:h sanki:rna:h ke:chith saththva pra:ya:h ke:chid rajah pra:ya: ke:chith thamah pra:ya: ithi kalpa vibha:gam ukthva: saththva rajas thamo: maya:na:m thaththva:na:m ma:ha:thmya varnanam cha thath thath kalpa pro:ktha pura:ne:shu saththva:di guna maye:na brahmana: kriyatha ithi cho:ktham---
Link copiedyasmin kalpe: thu yath pro:ktham pura:nam brahmana: pura:|
Link copiedthasya thasya thu ma:ha:thmyam thath svaru:pe:na varnyathe:||
Link copiedithi| vise:shathas cho:ktham---
Link copiedagne:h sivasya ma:ha:thmyam tha:mase:shu praki:rthyathe:|
Link copiedra:jase:shu cha ma:ha:thmyam adhikam brahmano: viduh||
Link copiedsa:ththvike:shu cha kalpe:shu ma:ha:thmyam adhikam hare:h|
Link copiedthe:shv e:va yo:ga samsiddha: gamishyanthi para:m gathim||
Link copiedsanki:rne:shu sarasvathya:h ........||
Link copiedithy a:di| e:thad uktham bhavathi--- a:di kshe:thrajnathva:d brahmanas thasya:pi ke:shuchid ahahsu saththva mudrikam ke:shuchid rajah ke:shuchith thamah| yatho:ktham bhagavatha:---
Link copiedna thad asthi pruthivya:m va: divi de:ve:shu va: punah|
Link copiedsaththvam prakruthi jair muktham yad e:bhih sya:th thribhir gunaih||
Link copiedithi| yo: brahmanam vidadhathi pu:rvam yo: vai ve:da:ms cha prahino:thi thasma: ithi sruthe:h| brahmano:'pi srujyathve:na sa:sthra vasyathve:na cha kshe:thrajnathvam gamyathe:| saththva pra:ye:shv ahahsu thad ithare:shu ya:ni pura:na:ni brahmana: pro:ktha:ni the:sha:m paraspara viro:dhe: sathi sa:ththvika:hah pro:ktham e:va pura:nam yatha:rtham thad viro:dhy anyad ayatha:rtham ithi pura:na nirnaya:yaive:dam saththva nishthe:na brahmana:bhihitham ithi vijna:yatha ithi|
Link copiedsaththva:di:na:m ka:ryam cha bhagavathaivo:ktham---
Link copiedsaththva:th sanja:yathe: jna:nam rajaso: lo:bha e:va cha|
Link copiedprama:da mo:hau thamaso: bhavatho:'jna:nam e:va cha||
Link copiedpravruththim cha nivruththim cha ka:rya:ka:rye: bhaya:bhaye:|
Link copiedbandham mo:ksham cha ya: ve:ththi buddhih sa: pa:rtha sa:ththviki:||
Link copiedyatha: dharmam adharmam cha ka:ryam cha:ka:ryam e:va cha|
Link copiedayatha:vath praja:na:thi buddhih sa: pa:rtha ra:jasi:||
Link copiedadharmam dharmam ithi ya: manyathe: thamasa:vrutha:|
Link copiedsarva:rtha:n vipari:tha:ms cha buddhih sa: pa:rtha tha:masi:||
Link copiedithi|
Link copiedsarva:n pura:na:rtha:n brahmanah saka:sa:d adhigamyaiva sarva:ni pura:na:ni pura:na ka:ra:s chakruh| yatho:ktham---
Link copiedkathaya:mi yatha: pu:rvam daksha:dyair muni saththamaih|
Link copiedprushtah pro:va:cha bhagava:n abja yo:nih pitha:mahah||
Link copiedithi|
Link copied||95||
Link copiedapaurushe:ye:shu ve:da va:kye:shu paraspara viruddhe:shu katham ithi che:th| tha:thparya nischaya:d aviro:dhah pu:rvam e:vo:kthah| yad api che:d e:vam viruddhavad drusyathe: pra:nam manasi saha ka:ranair na:da:nthe: parama:thmani samprathishtha:ya dhya:yi:thavyam pradhya:yi:thavyam sarvam idam, brahma vishnu rudra:s the: sarve: samprasu:yanthe:, na ka:ranam, ka:ranam thu dhya:yah, sarvaisvarya sampannah sarve:svarah sambhur a:ka:sa madhye: dhye:yah yasma:th param na:param asthi kinchid yasma:n na:ni:yo: na jya:yo:'sthi kaschid vruksha iva sthabdho: divi thishthathy e:kas the:ne:dam pu:rnam purushe:na sarvam thatho: yad uththaratharam thad aru:pam ana:mayam ya e:thad vidur amrutha:s the: bhavanthi, athe:thare: duhkham e:va:piyanthi---
Link copiedsarva:nana siro: gri:vah sarva bhu:tha guha:sayah|
Link copiedsarvavya:pi: cha bhagava:ms thasma:th sarva gathah sivah||
Link copiedyada: thamas than na diva: na ra:thrir na san na cha:sach chhiva e:va ke:valah|
Link copiedthad aksharam thath savithur vare:nyam prajna: cha thasma:th prasrutha: pura:ni:||
Link copiedithy a:di na:ra:yanah param brahme:thi cha pu:rvam e:va prathipa:ditham, the:na:sya katham aviro:dhah|
Link copied||96||
Link copiedathyalpam e:thath---
Link copiedve:da vith pravara pro:ktha va:kya nya:yo:pabrumhitha:h|
Link copiedve:da:h sa:nga: harim pra:hur jagaj janma:di ka:ranam||
Link copiedjanma:dyasya yathah yatho: va: ima:ni bhu:tha:ni ja:yanthe:, ye:na ja:tha:ni ji:vanthi, yath prayanthy abhisamvisanthi, thad vijijna:nasva thad brahme:thi jagaj janma:di ka:ranam brahme:thy avagamyathe:| thach cha jagath srushti pralaya prakarane:shv avaganthavyam| sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam ithi jagad upa:da:natha: jagan nimiththatha: jagad antharya:mitha:di mukhe:na parama ka:ranam sach chhabde:na prathipa:ditham brahme:thy avagatham| ayam e:va:rthah brahma va: idam e:kam e:va:gra a:si:d ithi sa:kha:nthare: brahma sabde:na prathipa:dithah| ane:na sach chhabde:na:bhihitham brahme:thy avagatham| ayam e:va:rthas thatha: sa:kha:nthara a:thma: va: idam e:ka e:va:gra a:si:n na:nyath kinchana mishad ithi sad brahma sabda:bhya:m a:thmaiva:bhihitha ithy avagamyathe:| thatha: cha sa:kha:nthara e:ko: ha vai na:ra:yana a:si:n na brahma ne:sa:no: ne:me: dya:v apruthivi: na nakshathra:ni:thi sad brahma:thma:di parama ka:rana va:dibhih sabdair na:ra:yana e:va:bhidhi:yatha ithi nischi:yathe:|
Link copied||97||
Link copiedyam anthah samudre: kavayo: vayanthi:thy a:di|
Link copiednainam u:rdhvam na thiryancham na madhye: parijagrabhath|
Link copiedna thasye:se: kaschana thasya na:ma mahadyasah||
Link copiedna sandruse: thishthathi ru:pam asya na chakshusha: pasyathi kaschanainam, hruda: mani:sha: manasa:bhikluptho: ya e:vam vidur amrutha:s the: bhavanthi:thi sarvasma:th parathvam asya prathipa:dya, na thasye:se: kaschane:thi thasma:th param kim api na vidyatha ithi cha prathishidhya, adbhyah sambhu:tho: hiranyagarbha ithy ashta:v ithi the:naika va:kyatha:m gamayathi| thach cha maha: purusha prakaranam hri:s cha the: lakshmi:s cha pathnya:v ithi cha na:ra:yana e:ve:thi dyo:thayathi|
Link copied||98||
Link copiedayam artho: na:ra:yana:nuva:ke: prapanchithah| sahasra si:rsham de:vam ithy a:rabhya sa brahma sa sivah se:ndrah so:'ksharah paramah svara:d ithi| sarva sa:kha:su para thaththva prathipa:dana para:n akshara siva sambhu parabrahma para jyo:thih para thaththva para:yana parama:thma:di sarva sabda:ms thath thad guna yo:ge:na na:ra:yana e:va prayujya thad vyathirikthasya samasthasya thad a:dha:ratha:m than niya:myatha:m thach chhe:shatha:m thad a:thmakatha:m cha prathipa:dya brahma sivayo:r api:ndra:di sama:na:ka:rathaya: thad vibhu:thithvam cha prathipa:ditham| idam cha va:kyam ke:vala para thaththva prathipa:danaika param anyath kinchid apy athra na vidhi:yathe:|
Link copied||99||
Link copiedasmin va:kye: prathipa:dithasya sarvasma:th parathve:na:vasthithasya brahmano: va:kya:nthare:shu brahma vid a:pno:thi param ithy a:dishu:pa:sana:di vidhi:yathe:| athah pra:nam manasi saha karanair ithy a:di va:kyam sarva ka:rane: parama:thmani karana pra:na:di sarvam vika:ra ja:tham upasamhruthya tham e:va parama:thma:nam sarvasye:sa:nam dhya:yi:the:thi parabrahma bhu:tha na:ra:yanasyaiva dhya:nam vidadha:thi|
Link copied||100||
Link copiedpathim visvasye:thi na thasye:se: kaschane:thi cha thasyaiva sarvasye:sa:natha: prathipa:ditha:| atha e:va sarvaisvarya sampannah sarve:svarah sambhur a:ka:sa madhye: dhye:ya ithi na:ra:yanasyaiva parama ka:ranasya sambhu sabda va:chyasya dhya:nam vidhi:yathe:| kas cha dhye:ya ithy a:rabhya ka:ranam thu dhye:ya ithi ka:ryasya:dhye:yatha: pu:rvaka ka:ranaika dhye:yatha: parathva:d va:kyasya| thasyaiva na:ra:yanasya parama ka:ranatha: sambhu sabda va:chyatha: cha parama ka:rana prathipa:danaika pare: na:ra:yana:nuva:ka e:va prathipanne:thi thad viro:dhy artha:nthara parikalpanam ka:ranasyaiva dhye:yathve:na vidhi va:kye: na yujyathe:|
Link copied||101||
Link copiedyad api thatho: yad uththaram ithy athra purusha:d anyasya paratharathvam prathi:yatha ithy abhyadha:yi thad api yasma:th param na:param asthi kinchid yasma:n na:ni:yo: na jya:yo:'sthi kaschith yasma:d aparam yasma:d anyath kinchid api param na:sthi ke:na:pi praka:re:na purusha vyathirikthasya parathvam na:sthi:thy arthah| ani:yasthvam su:kshmathvam| jya:yasthvam sarve:svarathvam| sarva vya:pithva:th sarve:svarathva:d asyaithad vyathirikithasya kasya:py ani:yasthvam jya:yasthvam cha na:sthi:thy arthah| yasma:n na:ni:yo: na jya:yo:'sthi kaschid ithi purusha:d anyasya kasya:pi jya:yasthvam nishiddham ithi thasma:d anyasya parathvam na yujyatha ithi prathyuktham|
Link copied||102||
Link copiedkas tharhy asya va:kyasya:rthah| asya prakaranasyo:pakrame: tham e:va vidithva:thimruthyum e:thi na:nyah pantha: vidyathe:'yana:yaithi purusha ve:danasya:mruthathva he:thutha:m thad vyathirikthasya:pathatha:m cha prathijna:ya yasma:th param na:param asthi kinchith the:ne:dam pu:rnam purushe:na sarvam ithy e:thad anthe:na sarvasma:th parathvam prathipa:ditham| yathah purushathaththvam e:vo:ththaratharam thatho: yad uththaratharam purusha thaththvam thad e:va:ru:pam ana:mayam ya e:thad vidur amrutha:s the: bhavanthi, athe:thare: duhkham e:va:piyanthi:thi purusha ve:danasya:mruthathva he:thuthvam thad itharasya:pathathvam prathijna:tham sahe:thukam upasamhrutham| anyatho:pakrama gatha prathijna:bhya:m virudhyathe:| purushasyaiva suddhi guna yo:ge:na siva sabda:bhipra:yathvam sa:svatham sivam achyutham ithy a:dina: jna:tham e:va| purusha e:va siva sabda:bhidhe:ya ithy anantharam e:va vadathi maha:n prabhur vai purushah saththvasyaisha pravarthaka ithi| ukthe:naiva nya:ye:na na san na cha:sach chhiva e:va ke:vala ithy a:di sarvam ne:yam|
Link copied||103||
Link copiedkim cha na thasye:se: kaschane:thi nirastha sama:bhyadhika sambha:vanasya purushasya:no:r ani:ya:n ithy asminn anuva:ke: ve:da:dy antha ru:pathaya: ve:da bi:ja bhu:tha pranavasya prakruthi bhu:tha:ka:ra va:chyathaya: mahe:svarathvam prathipa:dya dahara pundari:ka madhya stha:ka:sa:ntharvarthithayo:pa:syathvam uktham| ayam arthah--- sarvasya ve:da ja:thasya prakruthih pranava ukthah| pranavasya cha prakruthir aka:rah| pranava vika:ro: ve:dah sva prakruthi bhu:the: pranave: li:nah| pranavo:'py aka:ra vika:ra bhu:thah sva prakrutha:v aka:re: li:nah| thasya pranava prakruthi bhu:thasya:ka:rasya yah paro: va:chyah sa e:va mahe:svara ithi sarva va:chaka ja:tha prakruthi bhu:tha:ka:ra va:chyah sarva va:chya ja:tha prakruthi bhu:tha na:ra:yano: yah sa mahe:svara ithy arthah| yatho:ktham bhagavatha:---
Link copiedaham kruthsnasya jagathah prabhavah pralayas thatha:|
Link copiedmaththah paratharam na:nyath kinchid asthi dhananjaya||
Link copiedaksharana:m aka:ro:'smi||
Link copiedithi| a ithi brahme:thi cha sruthe:h| aka:ro: vai sarva: va:g ithi cha| va:chaka ja:thasya:ka:ra prakruthithvam va:chya ja:thasya brahma prakruthithvam cha suspashtam| atho: brahmano:'ka:ra va:chyatha: prathipa:dana:d aka:ra va:chyo: na:ra:yana e:va mahe:svara ithi siddham|
Link copied||104||
Link copiedthasyaiva sahasrasi:rsham de:vam ithi ke:vala para thaththva vise:sha prathipa:dana pare:na na:ra:yana:nuva:ke:na sarvasma:th parathvam prapanchitham| ane:na:nanya pare:na prathipa:ditham e:va para thaththvam anya pare:shu sarva va:kye:shu ke:na:pi sabde:na prathi:yama:nam thad e:ve:thy avagamya ithi sa:sthra drushthya: thu:pade:so: va:made:vavad ithi su:thra ka:re:na nirni:tham| thad e:thath param brahma kvachid brahma siva:di sabda:d avagatham ithi ke:vala brahma sivayo:r na parathva prasangah| asminn ananya pare:'nuva:ke: thayo:r indra:di thulyathaya: thad vibhu:thithva prathipa:dana:th| kvachid a:ka:sa pra:na:di sabde:na param brahma:bhihitham ithi bhu:tha:ka:sa pra:na:de:r yatha: na parathvam| yath punar idam a:sankitham atha yad idam asmin brahma pure: daharam pundari:kam ve:sma daharo:'sminn anthara:ka:sas thasmin yad anthas thad anve:shtavyam thad va: va vijijna:sithavyam ithy athra:ka:sa sabde:na jagad upa:da:na ka:ranam prathipa:dya thad antharvarthinah kasyachith thaththva vise:shasya:nve:shtavyatha: prathipa:dyathe:| asya:ka:sasya na:ma ru:payo:r nivo:dhruthva sravana:th purushasu:kthe: purushasya na:ma ru:payo:h karthruthva darsana:ch cha:ka:sa parya:ya bhu:tha:th purusha:d anyasya:nve:shtavyathayo:pa:syathvam prathi:yatha ithy anadhi:tha ve:da:na:m adrushta sa:sthra:na:m idam cho:dyam|
Link copied||105||
Link copiedyathas thathra sruthir e:va:sya pariha:ram a:ha| va:kya ka:ras cha daharo:'sminn anthara:ka:sah kim thad athra vidyathe: yad anve:shtavyam yad va: va vijijna:sithavyam ithi cho:dithe: ya:va:n va: ayam a:ka:sas tha:va:n e:sho:'ntharhrudaya a:ka:sa ithy a:dina:sya:ka:sa sabda va:chyasya parama purushasya:navadhika mahaththvam sakala jagad a:dha:rathvam cha prathipa:dya thasmin ka:ma:h sama:hitha: ithi ka:ma sabde:na:pahatha pa:pmathva:di sathya sankalpa paryantha guna:shtakam nihitham ithi parama purushavath parama purusha guna:shtakasya:pi pruthag vijijna:sithavyatha: prathipa:dayishaya: thasmin yad anthas thad anve:shtavyam ithy uktham ithi sruthyaiva sarvam parihrutham|
Link copied||106||
Link copiede:thad uktham bhavathi--- kim thad athra vidyathe: yad ane:shtavyam ithy asya cho:dyasya thasmin sarvasya jagathah srashtruthvam a:dha:rathvam niyanthruthvam se:shithvam apahatha pa:pmathva:dayo: guna:s cha vidyantha ithi pariha:ra ithi| thatha: cha va:kya ka:ra vachanam thasmin yad anthar ithi ka:ma vyapade:sa ithi| ka:myantha ithi ka:ma:h| apahatha pa:pmathva:dayo: guna: ithy arthah| e:thad uktham bhavathi--- yad e:thad dahara:ka:sa sabda:bhidhe:yam nikhila jagad udaya vaibhava laya li:lam param brahma thasmin yad anthar nihitham anavadhika:thisayam apahatha pa:pmathva:di guna:shtakam thad ubhayam apy anve:shtavyam vijijna:sithavyam ithi| yatha:ha atha ya iha:thma:nam anuvidya vrajanthy e:tha:ms cha sathya:n ka:ma:ms the:sha:m sarve:shu lo:ke:shu ka:ma cha:ro: bhavanthi:thi|
Link copied||107||
Link copiedyah punah ka:ranasyaiva dhye:yatha: prathipa:dana pare: va:kye: vishno:r ananya para va:kya prathipa:ditha para thaththva bhu:thasya ka:rya madhye: nive:sah sa sva ka:rya bhu:tha thaththva sankhya: pu:ranam kurvathah sva li:laya: jagad upaka:ra:ya sve:chchha:vatha:ra ithy avaganthavyah| yatha: li:laya: de:va sankhya: pu:rnam kurvatha upe:ndrathvam parasyaiva, yatha: cha asu:rya vamso:dbhava ra:ja sankhya: pu:rnam kurvathah parasyaiva brahmano: da:sarathi ru:pe:na sve:chchha:vatha:rah, yatha: cha so:ma vamsa sankhya: pu:ranam kurvatho: bhagavatho: bhu: bha:ra:vatha:rana:ya sve:chchhaya: vasude:va gruhe:'vatha:rah|
Link copied||108||
Link copiedsrushti pralaya prakarane:shu na:ra:yana e:va parama ka:ranathaya: prathipa:dyatha ithi pu:rvam e:vo:ktham| yath punar atharvasirasi rudre:na sva sarvaisvaryam prapanchitham thath so:'nthara:d antharam pra:visad ithi parama:thma prave:sa:d uktham ithi sruthyaiva vyaktham| sa:sthra drushtya: thu:pade:so: va:made:vavad ithi su:thra ka:re:naivam va:dina:m arthah prathipa:dithah| yatho:ktham prahla:de:na:pi---
Link copiedsarva gathva:d anantharasya sa e:va:ham avasthithah|
Link copiedmaththah sarvam aham sarvam mayi sarvam sana:thane:||
Link copiedithy a:di| athra sarva gathva:d ananthasye:thi he:thur ukthah| sva sari:ra bhu:thasya sarvasya chid achid vasthuna a:thmathve:na sarva gah parama:thme:thi sarve: sabda:h sarva sari:ram parama:thma:nam e:va:bhidadhathi:thy uktham| atho:'ham ithi sabdah sva:thma praka:ra praka:rinam parama:thma:nam e:va:chashte:| atha idam uchyathe:| a:thme:thy e:va thu gruhni:ya:th sarvasya than nishpaththe:r ithy a:di na:hangrahano:pa:sanam va:kya ka:re:na ka:rya:vasthah ka:rana:vasthas cha sthu:la su:kshma chid achid vasthu sari:rah parama:thmaive:thi sarvasya than nishpaththe:r ithy uktham| a:thme:thi thu:pagachchhanthi gra:hayanthi che:thi su:thra ka:re:na cha| maha:bha:rathe: cha brahma rudra samva:de: brahma: rudram praya:ha---
Link copiedthava:nthara:thma: mama cha ye: cha:nye: de:hi sanjnitha:h|
Link copiedithi| rudrasya brahmanas cha:nye:sha:m cha de:hina:m parame:svaro: na:ra:yano:'nthara:thmathaya:vasthitha ithi| thatha: thathraiva---
Link copiedvishnur a:thma: bhagavatho: bhavasya:mitha the:jasah|
Link copiedthasma:d dhanur jya: samsparsam sa vishe:he: mahe:svarah||
Link copiedithi| thathraiva---
Link copiede:thau dvau vibudha sre:shthau prasa:da kro:dha jau smruthau|
Link copiedthad a:darsitha pantha:nau srushti samha:ra ka:rakau||
Link copiedithi| anthara:thmathaya:vasthitha na:ra:yana darsitha pathau brahma rudrau srushti samha:ra ka:rya kara:v ithy arthah|
Link copied||109||
Link copiednimiththo:pa:da:nayo:s thu bhe:dam vadantho: ve:da ba:hya: e:va syuh| janma:dyasya yathah prakruthis cha prathijna: drushta:ntha:nuparo:dha:d ithy a:di ve:davith prani:tha su:thra viro:dha:th| sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam thad aikshatha bahu sya:m praja:ye:ye:thi brahma vanam brahma sa vruksha a:si:d yatho: dya:v a:pruthivi: nishtathakshuh brahma:dhyathishthad bhuvana:ni dha:rayan sarve: nime:sha: jajnire: vidyuthah purusha:dadhi na thasye:se: kaschana thasya na:ma mahad yasah ne:ha na:na:sthi kinchana sarvasya vasi: sarvasye:sa:nah purusha e:ve:dam sarvam yad bhu:tham yach cha bhavyam utha:mruthathvasye:sa:nah na:nyah pantha: ayana:ya vidyatha ithy a:di sarva sruthi viro:dha:ch cha|
Link copied||110||
Link copiedithiha:sa pura:ne:shu cha srushti sthithi pralaya prakaranayo:r idam e:va para thaththvam ithy avagamyathe:| yatha: maha:bha:rathe:---
Link copiedkuthah srushtam idam sarvam jagath stha:vara jangamam|
Link copiedpralaye: cha kam abhye:thi than no: bru:hi pitha:maha||
Link copiedithi prushtah---
Link copiedna:ra:yano: jagan mu:rthir anantha:thma: sana:thanah|
Link copiedithy a:di cha vadathi|
Link copiedrushayah pitharo: de:va: maha:bhu:tha:ni dha:thavah|
Link copiedjangama:jangamam che:dam jagan na:ra:yano:dbhavam||
Link copiedithi cha| pra:chyo:di:chya da:kshina:thya pa:scha:thya sarva sishtaih sarva dharma sarva thaththva vyavastha:ya:m idam e:va parya:ptham ithy aviga:na parigruhi:tham vaishnavam cha pura:nam janma:dy asya yatha ithi jagaj janma:di ka:ranam brahme:thy avagamyathe:| thaj janma:di ka:ranam kim ithi prasna pu:rvakam vishno:h saka:sa:d bhu:tham ithy a:dina: brahma svaru:pa vise:sha prathipa:danaika parathaya: pravruththam ithi sarva sammatham| thatha: thathraiva---
Link copiedprakruthir ya: khya:tha: vyaktha:vyaktha svaru:pini:|
Link copiedpurushas cha:py ubha:v e:thau li:ye:the: parama:thmani||
Link copiedparama:thma: cha sarve:sha:m a:dha:rah parame:svarah|
Link copiedvishnu na:ma: sa ve:de:shu ve:da:nthe:shu cha gi:yathe:||
Link copiedithi| sarva ve:da ve:da:nthe:shu sarvaih sabdaih parama ka:ranathaya:yam e:va gi:yatha ithy arthah| yatha: sarva:su shruthishu ke:vala parabrahma svaru:pa vise:sha prathipa:dana:yaiva pravruththo: na:ra:yana:nuva:kas thathe:dam vaishnavam cha pura:nam---
Link copiedso:'ham ichchha:mi dharma jna sro:thum thvaththo: yatha: jagath|
Link copiedbabhu:va bhu:yas cha yatha: maha: bha:ga bhavishyathi||
Link copiedyan mayam cha jagad brahmany athas chaithach chara:charam|
Link copiedli:nam a:si:d yatha: yathra layam e:shyathi yathra cha||
Link copiedithi param brahma kim ithi prakramya---
Link copiedvishno:h saka:sa:d udbhu:tham jagath thathraiva cha sthitham|
Link copiedsthithi samyama kartha:sau jagatho:'sya jagach cha sah||
Link copiedparah para:na:m paramah parama:thma:thma samsthithah|
Link copiedru:pa varna:di nirde:sa vise:shana vivarjithah||
Link copiedapakshaya vina:sa:bhya:m parina:marddhi janmabhih|
Link copiedvarjithah sakyathe: vakthum yah sad asthi:thi ke:valam||
Link copiedsarvathra:sau samastham cha vasathy athre:thi vai yathah|
Link copiedthathah sa va:sude:ve:thi vidvadbhih paripathyathe:||
Link copiedthad brahma param nithyam ajam akshayam avyayam|
Link copiede:ka svaru:pam cha sada: he:ya:bha:va:ch cha nirmalam||
Link copiedthad e:va sarvam e:vaithad vyaktha:vyaktha svaru:pavath|
Link copiedthatha: purusha ru:pe:na ka:la ru:pe:na cha sthitham||
Link copiedsa sarva bhu:tha prakruthim vika:ra:n guna:di do:sha:ms cha mune: vyathi:thah|
Link copiedathi:tha sarva:varano:'khila:thma: the:na:sthrutham yad bhuvana:nthara:le:||
Link copiedsamastha kalya:na guna:thmako:'sau sva sakthi le:so:ddhrutha bhu:tha vargah|
Link copiedichchha: gruhi:tha:bhimatho:ru de:hah samsa:dhitha:se:sha jagad dhitho:'sau||
Link copiedthe:jo: balaisvarya maha:vabo:dha suvi:rya sakthy a:di gunaika ra:sih|
Link copiedparah para:na:m sakala: na yathra kle:sa:dayah santhi para:vare:se:||
Link copiedsa i:svaro: vyashti samashti ru:po:'vyaktha svaru:pah prakata svaru:pah|
Link copiedsarve:svarah sarva druk sarva ve:ththa: samastha sakthih parame:svara:khyah||
Link copiedsanjna:yathe: ye:na thad astha do:sham suddham param nirmalam e:ka ru:pam|
Link copiedsandrusyathe: va:py adhigamyathe: va: thaj jna:nam ajna:nam atho:'nyad uktham||
Link copiedithi parabrahma svaru:pa vise:sha nirnaya:yaiva pravruththam|
Link copied||111||
Link copiedanya:ni sarva:ni pura:na:ny e:thad aviro:dhe:na ne:ya:ni| anya parathvam cha thath thad a:rambha praka:rair avagamyathe:| sarva:thmana: viruddha:msas tha:masathva:d ana:darani:yah|
Link copied||112||
Link copiednanv asminn api---
Link copiedsrushti sthithy anthakarani:m brahma vishnu siva:thmika:m|
Link copiedsa sanjna: ya:thi bhagava:n e:ka jana:rdanah||
Link copiedithi thri mu:rthi sa:myam prathi:yathe:| naithad e:vam| e:ka e:va jana:rdana ithi jana ardanasyaiva brahma siva:di kruthsna prapancha tha:da:thmyam vidhi:yathe:| jagach cha sa ithi pu:rvo:ktham e:va vivruno:thi srashta: srujathi cha:thma:nam vishnuh pa:lyam cha pa:thi cha|
Link copiedupasamhriyathe: cha:nthe: samhartha: cha svayam prabhuh||
Link copiedithi cha srashtruthve:na:vasthitham brahmanam srujyam cha samhartha:ram samha:ryam cha yugapan nirdisya sarvasya vishnu tha:da:thmyo:pade:sa:th srujya samha:rya bhu:tha:d vasthunah srashtru samharthro:r jana:rdana vibhu:thithve:na vise:sho: drusyathe:| jana:rdana vishnu sabdayo:h parya:yathve:na brahma vishnu siva:thmika:m ithi vibhu:thim| atha e:va sve:chchhaya: li:la:rtham vibhu:thy antharbha:va uchyathe:| yathe:dam anantharam e:vo:chyathe:---
Link copiedpruthivy a:pas thatha: the:jo: va:yur a:ka:sa e:va cha|
Link copiedsarve:ndriya:nthahkaranam purusha:khyam hi yaj jagath||
Link copiedsa e:va sarva bhu:tha:thma: visva ru:po: yatho:'vyayah|
Link copiedsarga:dikam thatho:'syaiva bhu:tha stham upaka:rakam||
Link copiedsa e:va srujyah sa cha sarva kartha: sa e:va pa:thy aththi cha pa:lyathe: cha|
Link copiedbrahma:dy avastha:bhir ase:sha mu:rthir vishnur varishtho: varado: vare:nyah|| ithi|
Link copied||113||
Link copiedathra sa:ma:na:dhikaranya nirdishtam he:ya misra prapancha tha:da:thmyam niravadyasya nirvika:rasya samastha kalya:na guna:thmakasya brahmanah katham upapadyatha ithy a:sankhya sa e:va sarva bhu:tha:thma: visva ru:po: yatho:'vyaya ithi svayam e:vo:papa:dayathi| sa e:va sarve:svarah parabrahma bhu:tho: vishnur e:va sarvam jagad ithi prathijna:ya sarva bhu:tha:thma: visva ru:po: yatho:'vyaya ithi he:thur ukthah| sarva bhu:tha:na:m ayam a:thma: visva sari:ro: yatho:'vyaya ithy arthah| vakshyathi cha sath sarvam vai hare:s thanur ithi|
Link copiede:thad uktham bhavathi--- asya:vyayasya:pi parasya brahmano: vishno:r visva sari:rathaya: tha:da:thmya viruddham ithy a:thma sari:rayo:s cha svabha:va: vyavasthitha: e:va| e:vambhu:thasya sarve:svarasya vishno:h prapancha:ntharbhu:tha niya:mya ko:ti nivishta brahma:di de:va thiryan manushye:shu thath thath sama:srayani:yathva:ya sve:chchha:vatha:rah pu:rvo:kthah| thad e:thad brahma:di:na:m bha:vana: thraya:nvaye:na karma vasyathvam bhagavathah parabrahma bhu:thasya va:sude:vasya nikhila jagad upaka:ra:ya sve:chchhaya: sve:naiva ru:pe:na de:va:dishv avatha:ra ithi cha shashte:'mse: subha:sraya prakarane: suvyaktham uktham| asya de:va:di ru:pe:na:vatha:re:shv api na pra:krutho: de:ha ithi maha:bha:rathe: na bhu:tha sangha samstha:no: de:ho:'sya parama:thmanah, ithi prathipa:dithah| sruthibhis cha--- aja:yama:no: bahudha: vija:yathe: thasya dhi:ra:h parija:nanthi yo:nim ithi| karma vasya:na:m brahma:di:na:m anichchhatha:m api thath thath karma:nuguna prakruthi parina:ma ru:pa bhu:tha sangha samstha:na vise:sha de:va:di sari:ra prave:sa ru:pam janma:varjani:yam| ayam thu sarve:svarah sathya sankalpo: bhagava:n e:vambhu:tha subhe:thara janma:kurvann api sve:chchhaya: sve:naiva nirathisaya kalya:na ru:pe:na de:va:dishu jagad upaka:ra:ya bahudha: ja:yathe:, thasyaithasya subhe:thara janma:kurvatho:'pi sva kalya:na guna:nanthye:na bahudha: yo:nim bahu vidha janma dhi:ra:dhi:ramatha:m agre:sara: ja:nanthi:thy arthah|
Link copied||114||
Link copiedthad e:than nikhila jagan nimiththo:pa:da:na bhu:tha:j janma:dy asya yathah prakruthis cha prathijna: drushta:ntha:nuparo:dha:d ithy a:di su:thraih prathipa:ditha:th parasma:d brahmanah parama purusha:d anyasya kasyachith paratharathvam paramathah se:thu:nma:na sambandha bhe:da vyapade:se:bhya ithy a:sankya sa:ma:nya:th thu buddhy arthah pa:davath stha:na vise:sha:th praka:sa:divad upapaththe:s cha thatha:nya prathishe:dha:d ane:na sarva gathathva ma:ya:m a:di sabda:dibhya ithi su:thra ka:rah svayam e:va nira:karo:thi|
Link copied||115||
Link copiedma:nave: cha sa:sthre:---
Link copiedpra:dura:si:th thamo:nudah sisrukshur vividha:h praja:h|
Link copiedapa e:va sasarja:dau tha:su vi:ryam apa:srujath||
Link copiedthasmin jajne: svayam brahma
Link copiedithi brahmano: janma sravana:th kshe:thrajnathvam e:va:vagamyathe:| thatha: cha srashtuh parama purushasya thad visrushtasya cha brahmanah---
Link copiedayam thasya tha:h pu:rvam the:na na:ra:yanah smruthah|
Link copiedthad visrushtah sa purusho: lo:ke: brahme:thi ki:rthyathe:||
Link copiedithi na:ma nirde:sa:ch cha| thatha: cha vaishnave: pura:ne: hiranyagarbha:di:na:m bha:vana:na:m a:nushthe:ya vishayakah samska:rah| sa: thrividha: brahma bha:vano:pa:sana: drudha samska:rah, brahma sabdasya jna:tha parathva:th| sa: sanaka:dishu karma bha:vana:, de:va:dishu the:sha:m vaidika karma parathva:th| karma brahmo:bhaya bha:vana: hiranyagarbhasya, thasya vaidika karmo:pa:sana:thmaka jna:no:bhaya para:yanathva:th| bha:vana: thraya:nvaya:d asuddhathve:na subha:srayathva:narhatho:papa:dana:th kshe:thrathvam nischi:yathe:|
Link copied||116||
Link copiedyad api kaischid uktham sarvasya sabda ja:thasya vidhy arthava:da manthra ru:pasya ka:rya:bhidha:yithve:naiva pra:ma:nyam varnani:yam| vyavaha:ra:d anyathra sabdasya bo:dhakathva sakthy avadha:rana:sambhava:d vyavaha:rasya cha ka:rya buddhi mu:lathva:th ka:rya ru:pa e:va sabda:rthah| na parinishpanne: vasthuni sabdah prama:nam ithi| athro:chyathe:| pravarthaka va:kya vyavaha:ra e:va sabda:na:m artha bo:dhakathva sakthy avadha:ranam karthavyam ithi kim iyam ra:ja:jna:| siddha vasthushu sabdasya bo:dhakathva sakthi grahanam athyantha sukaram| thatha: hi ke:nachid dhastha che:shta:dina:pavarake: dandah sthitha ithi de:vadaththa:ya jna:paye:thi pre:shithah kaschith thaj jna:pane: pravruththo:'pavarake: dandah sthitha ithi sabdam prayunkthe:| mu:kavad dhastha che:shta:m ima:m ja:nan pa:rsva stho:'nyah pra:g vyuthpanno:'pi thasya:rthasya bo:dhana:ya:pavarake: dandah sthitha ithy asya sabdasya prayo:ga darsana:d asya:rthasya:yam sabdo: bo:dhaka ithi ja:na:thi:thi kim athra dushkaram| thatha: ba:las tha:tho:'yam iyam ma:tha:yam ma:thulo:'yam manushyo:'yam mrugas chandro:'yam ayam cha sarpa ithi ma:tha: pithru prabhruthibhih sabdaih sanaih sanair angulya: nirde:sane: thathra thathra bahusah sikshithas thair e:va sabdais the:shv arthe:shu sva:thmanas cha buddhy uthpaththim drushtva: the:shv arthe:shu the:sha:m sabda:na:m angulya: nirde:sa pu:rvakah prayo:gah sambandha:nthara:bha:va:th sanke:thayithru purusha:jna:na:ch cha bo:dhakathva nibandhana ithi krame:na nischithya punar apy asya sabdasya:yam artha ithi pu:rva vruddhaih sikshithah sarva sabda:na:m artham avagamya svayam api sarvam va:kya ja:tham prayunkthe:| e:vam e:va sarva pada:na:m sva:rtha:bhidha:yithvam sangha:tha vise:shana:m cha yatha:vasthitha samsarga vise:sha va:chithvam cha ja:na:thi:thi ka:rya:rthaiva vyuthipaththir ithy a:di nirbandho: nirbandhanah| athah parishpannah vasthuni sabdasya bo:dhakathva sakthy avadha:rana:th sarva:ni ve:da:ntha va:kya:ni sakala jagath ka:ranam sarva kalya:na guna:karam uktha lakshanam brahma bo:dhayanthy e:va|
Link copied||117||
Link copiedapi cha ka:rya:rtha e:va vyuthpaththir asthu| ve:da:nda va:kya:ny apy upa:sana vishaya ka:rya:dhikrutha vise:shana bhu:tha phalathve:na duhkha:sambhinna de:sa vise:sha ru:pa svarga:divad athira:thra sathra prathishtha:divad apago:rana sathaya:thana: sa:dhya sa:dhana bha:vavach cha karyo:payo:githayaiva sarvam bo:dhayanthi| thatha: hi brahma vid a:pno:thi param ithy athra brahmo:pa:sana vishaya ka:rya:dhikrutha vise:shana bhu:tha phalathve:na brahma pra:pthih sru:yathe: para pra:pthi ka:mo: brahma vidya:d ithy athra pra:pyathaya: prathi:yama:nam brahma svaru:pam thad vise:shanam cha sarvam ka:ryo:payo:githayaiva siddham bhavathi| thad anthargatham e:va jagath srashtruthvam samharthruthvam a:dha:rathvam anthara:thmathvam ithy a:dy uktham anuktham cha sarvam ithi na kinchid anupapannam|
Link copied||118||
Link copiede:vam cha sathi manthra:rthava:da gatha: hy aviruddha: apu:rva:s cha:rtha:h sarve: vidhi se:shathayaiva siddha: bhavanthi| yatho:ktham dramida bha:shye: runam hi vai ja:yatha ithi sruthe:r ithy upakramya yady apy avada:na sthuthi param va:kyam thatha:pi na:satha: sthuthir upapadyatha ithi| e:thad uktham bhavathi sarvo: hy arthava:da bha:go: de:vatha:ra:dhana bhu:tha ya:ga:de:h sa:ngasya:ra:dhya de:vatha:ya:s cha:drushta ru:pa:n guna:n sahasraso: vadan sahasrasah karmani pra:sasthya buddhim uthpa:dayathi| the:sha:m asad bha:ve: pra:sasthya buddhir e:va na sya:d ithi karmani pra:sasthya buddhy artham guna sad bha:vam e:va bo:dhayathi:thi| anayaiva disa: sarve: manthra:rthava:da:vagatha: artha:h siddha:h|
Link copied||119||
Link copiedapi cha ka:rya va:kya:rthava:dibhih kim idam ka:ryathvam na:me:thi vakthavyam| kruthi bha:va bha:vitha: kruthy udde:syatha: che:thi che:th| kim idam kruthy udde:syathvam| yad adhikruthya kruthir varthathe: thath kruthy udde:syathvam ithi che:th| purusha vya:pa:ra ru:pa:ya:h kruthe:h ko:'yam adhika:ro: na:ma| yath pra:pthi:chchhaya: kruthim uthpa:dayathi purushah thath kruthy udde:syathvam ithi che:d dhantha tharhi:shtathvam e:va kruthy udde:syathvam| athaivam manushe: ishtasyaiva ru:pa dvayam asthi| ichchha: vishayathaya: sthithih purusha pre:rakathvam cha| thathra pre:rakathva:ka:rah kruthy udde:syathvam ithi so:'yam sva paksha:bhinive:sa ka:ritho: vrutha:sramah| thatha: hi:chchha: vishayathaya: prathi:thasya sva prayathno:thpaththim anthare:na:siddhir e:va pre:rakathvam| thatha e:va pravruththe:h| ichchha:ya:m ja:tha:ya:m ishtasya sva prayathno:thpaththim anthare:na:siddhih prathi:yathe: che:th thathas chiki:rsha: ja:yathe: thathah pravarthathe: purusha ithi thaththva vida:m prakriya:| thasma:d ishtasya kruthy adhi:na:thma la:bhathva:thire:ki kruthy udde:syathvam na:ma kim api na drushyathe:| atho:chyathe: ishtatha: he:thus cha purusha:nuku:latha:| thath purusha:nuku:lathvam kruthy udde:syathvam ithi che:th| naivam| purusha:nuku:lam sukham ithy anartha:ntharam| thatha: purusha:nuku:lam duhkha parya:yam| athah sukha vyathirikthasya kasya:pi purusha:nuku:lathvam na sambhavathi|
Link copiednanu cha duhkha nivruththe:r api sukha vyathiriktha:ya:h purusha:nuku:latha: drushta:| naithath| a:thma:nuku:lam sukham a:thma prathiku:lam duhkham ithi hi sukha duhkhayo:r vive:kah| thathra:thma:nuku:lam sukham ishtam bhavathi| thath prathiku:lam duhkham cha:nishtam| atho: duhkha samyo:gasya:sahyathaya: than nivruththir api:shta: bhavathi| thatha e:ve:shtatha: sa:mya:d anuku:latha: bhramah| thatha: hi prakruthi samsrushtasya samsa:rinah purushasya:nuku:la samyo:gah prathiku:la samyo:gah svaru:pe:na:vasthithir ithi cha thisro:'vastha:h| thathra prathiku:la sambandha nivruththis cha:nuku:la sambandha nivruththis cha svaru:pe:na:vasthithir e:va| thasma:th prathiku:la samyo:ge: varthama:ne: than nivruththi ru:pa: svaru:pe:na:vasthithir api:shta: bhavathi| thathre:shtatha: sa:mya:d anuku:latha: bhramah|
Link copied||120||
Link copiedathah sukha ru:pathva:d anuku:latha:ya:h niyo:gasya:nuku:latha:m vadantham pra:ma:nika:h parihasanthi| ishtasya:rtha vise:shasya nivarthakathayaiva hi niyo:gasya niyo:gathvam sthirathvam apu:rvathvam cha prathi:yathe:| svarga ka:mo: yaje:the:thy athra ka:ryasya kriya:thiriktha: svarga ka:ma pada samabhivya:ha:re:na svarga sa:dhanathva nischaya:d e:va bhavanthi| na cha va:chyam yaje:the:thy athra prathamam niyo:gah sva pradha:nathayaiva prathi:yathe: svarga ka:ma pada samabhivya:ha:ra:th sva siddhaye: svarga siddhy anuku:latha: cha niyo:gasye:thi| yaje:the:thi hi dha:thv arthasya purusha prayathna sa:dhyatha: prathi:yathe:| svarga ka:ma pada samabhivya:ha:ra:d e:va dha:thv artha:thire:kino: niyo:gathvam sthirathvam apu:rvathvam che:thy a:di| thach cha svarga sa:dhanathva prathi:thi nibandhanam| samabhivya:hrutha svarga ka:ma pada:rtha:nvaya yo:gyam svarga sa:dhanam e:va ka:ryam lin a:dayo:'bhidadhathi:thi lo:ka vyuthpaththir api thiraskrutha:| e:thad uktham bhavathi--- samabhivyahrutha pada:nthara va:chya:rtha:nvaya yo:gyam e:ve:thara pada prathipa:dyam ithy anvitha:bhidha:yi pada sangha:tha ru:pa va:kya sravana samanantharam e:va prathi:yathe:| thach cha svarga sa:dhana ru:pam| athah kriya:vad ananya:rthatha:pi viro:dha:d e:va parithyakthe:thi| atha e:va ganga:ya:m gho:sha ithy a:dau gho:sha prathiva:sa yo:gya:rtho:pastha:pana parathvam ganga: padasya:sri:yathe:| prathamam ganga: pade:na ganga:rthah smrutha ithi ganga: pada:rthasya pe:yathvam na va:kya:rtha:nvayi:bhavathi| e:vam athra api yaje:the:thye:tha:van ma:thra sravane: ka:ryam ananya:rtham smrutham ithi va:kya:rtha:nvaya samaye: ka:ryasya:nanya:rthatha: na:vathishthathe:| ka:rya:bhidha:yi pada sravana ve:la:ya:m prathamam ka:ryam ananya:rtham prathi:tham ithy e:thad api na sangachchhathe:| vyuthpaththi ka:le: gava:nayana:di kriya:ya: duhkha ru:pa:ya: ishta vise:sha sa:dhanathayaiva ka:ryatha: prathi:the:h| atho: niyo:gasya purusha:nuku:lathvam sarva lo:ka viruddham niyo:gasya sukha ru:pa purusha:nuku:latha:m vadathah sva:nubhava viro:dhas cha| kari:rya: vrushti ka:mo: yaje:ythe:thy a:dishu siddhe:'pi niyo:ge: vrushty a:di siddhi nimiththasya vrushti vyathire:ke:na niyo:gasya:nuku:latha: na:nubhu:yathe:| yady apy asmin janmani vrushty a:di siddhe:r aniyamas thatha:py aniyama:d e:va niyo:ga siddhir avasya:srayani:ya:| thasminn anuku:latha: parya:ya sukha:nubhu:thir na drusyathe:| e:vam uktha ri:thya: kruthi sa:dhye:shtathva:thire:ki kruthy udde:syathvam na drusyathe:|
Link copied||121||
Link copiedkruthim prathi se:shithvam kruthy udde:syathvam ithi che:th| kim idam se:shithvam kim cha se:shathvam ithi vakthavyam| ka:ryam prathi sambandhi: se:shah| thath prathisambandhithvam se:shithvam ithi che:th| e:vam tharhi ka:ryathvam e:va se:shithvam ithy uktham bhavathi| ka:ryathvam e:va vicha:ryathe:| paro:dde:sa pravruththa kruthi vya:pthy arhathvam se:shathvam ithi che:th| ko:'yam paro:dde:so: na:me:thi| ayam e:va hi vicha:ryathe:| udde:syathvam na:me:psithathva sa:dhyathvam ithi che:th| kim idam i:psithathvam| kruthi prayo:janathvam ithi che:th purushasya kruthy a:rambha prayo:janam e:va hi kruthi prayo:janam| sa che:chchha: vishayah kruthy adhi:na:thma la:bha ithi pu:rvo:ktha e:va| ayam e:va hi sarvathra se:sha se:shi bha:vah| para gatha:thisaya:dha:ne:chchho:pa:de:yathvam e:va yasya svaru:pam sa se:shah parah se:shi:| phalo:thpaththi:chchhaya: ya:ga:de:s thath prayathnasya cho:pa:de:yathvam ya:ga:di siddhi:chchhaya:nyath sarvam upa:de:yam|
Link copied||122||
Link copiede:vam garbha da:sa:di:na:m api purusha vise:sha:thisaya:dha:no:pa:de:yathvam e:va svaru:pam| e:vam i:svara gatha:thisaya:dha:ne:chchhayo:pa:de:yathvam e:va che:thana:che:thana:thmakasya nithyasya:nithyasya cha sarvasya vasthunah svaru:pam ithi sarvam i:svara se:shathvam e:va sarvasya che:svarah se:shi:thi sarvasya vasi: sarvasye:sa:nah pathim visvasye:thy a:dy uktham| kruthi sa:dhyam pradha:nam yath thath ka:ryam abhidhi:yatha ithy ayam arthah sraddadha:ne:shv e:va so:bhathe:|
Link copied||123||
Link copiedapi cha svarga ka:mo: yaje:the:thy a:dishu la ka:ra va:chya karthru vise:sha samarpana para:na:m svarga ka:ma:di pada:na:m niyo:jya vise:sha samarpana parathvam sabda:nusa:sana viruddham ke:na:vagamyathe:| sa:dhya svarga visishtasya svarga sa:dhane: karthruthva:nvayo: na ghatatha ithi che:th| niyo:jyathva:nvayo:'pi na ghatatha ithi hi svarga sa:dhanathva nischayah| sa thu sa:sthra siddhe: karthruthva:nvaye: svarga sa:dhanathva nischayah kriyathe:| yatha: bho:kthu ka:mo: de:vadaththa gruham gachchhe:d ithy ukthe: bho:jana ka:masya de:vadaththa gruha gamane: karthruthva sravana:d e:va pra:g ajna:tham api bho:jana sa:dhanathvam de:vadaththa gruha gamanasya:vagamyathe:| e:vam athra:pi bhavathi| na kriya:ntharam prathi karthruthaya: sruthasya kriya:nthare: karthruthva kalpanam yuktham yaje:the:thi hi ya:ga karthruthaya: sruthasya buddhau karthruthva kalpanam kriyathe:| buddhe:h karthruthva kalpanam e:va hi niyo:jyathvam| yatho:ktham---
Link copiedniyo:jya sarva ka:ryam yah svaki:yathve:na budhyathe:|
Link copiedithi| yashtruthva:nugunam thad bo:dhruthvam ithi che:th| de:vadaththah pache:d ithi pa:ke: karthruthaya: sruthasya de:vadaththasya pa:ka:rtha gamanam pa:ka:nugunam ithi gamane: karthruthva kalpanam na yujyathe:|
Link copied||124||
Link copiedkim cha lin a:di sabda va:chyam stha:yi ru:pam kim ithy apu:rvam a:sri:yathe:| svarga ka:ma pada samabhivya:ha:ra:nupapaththe:r ithi che:th| ka:thra:nupapaththih| sisha:dhayishitha svargo: hi svarga ka:mah| thasya svarga ka:masya ka:la:nthara bha:vi svarga siddhau kshana bhangini: ya:ga:di kriya: na samarthe:thi che:th| ana:ghra:tha ve:da siddha:ntha:na:m iyam anupapaththih| sarvaih karmabhir a:ra:dhithah parame:svaro: bhagava:n na:ra:yanas thath thad ishtam phalam dada:thi:thi ve:da vido: vadanthi| yatha:hur ve:da vid agre:sara: dramida:cha:rya:h phala sambibhathsaya:| sambibhathsa ithy athra a ka:ra lo:pas chinyah, va ka:ro:ththara bha ka:ra pu:rvam aka:rasyauchiththya:th| vya:chashte: hi karmabhir a:thma:nam api pri:nanthi| sa pri:tho:'lam phala:ye:thi sa:sthra marya:da:, ithi phala sambandhe:chchhaya: karmabhir ya:ga da:na ho:ma:dibhis thridasa:di de:vatha: mukhe:na thath thad antharya:mi ru:pe:na:vasthitham indra:di sabda va:chyam parama:thma:nam bhagavantham va:sude:vam a:rira:dhayishanthi, sa hi karmabhir a:ra:dhithas the:sha:m ishta:ni phala:ni parama:thma: prayachchhathi:thy arthah| thatha: cha sruthih--- ishta: pu:rtham bahudha: ja:tham ja:yama:nam visvam bibharthi bhuvanasya na:bhir ithi| ishta: pu:rtham ithi sakala sruthi smruthi cho:ditham karmo:chyathe:| thad visvam bibharthi indra:gni varuna:di sarva de:vatha: sambandhithaya: prathi:yama:nam thath thad anthara:thmathaya:vasthithah parama purushah svayam e:va bibharthi svayam e:va svi:karo:thi| bhuvanasya na:bhih brahma kshathra:di sarva varna pu:rnasya bhuvanasya dha:rakah thais thaih karmabhir a:ra:dhithas thath thad ishta phala prada:ne:na bhuvana:na:m dha:raka ithi na:bhir ithy ukthah| agni va:yu prabhruthi de:vatha:nthara:thmathaya: thath thach chhabda:bhidhe:yo:'yam e:ve:thy a:ha thad e:va:gnis thad va:yus thath su:ryas thad u chandrama: ithi| yatho:ktham bhagavatha:---
Link copiedyo: yo: ya:m ya:m thanum bhakthah sraddhaya:rchithum ichchhathi|
Link copiedthasya thasya:chala:m sraddha:m tha:m e:va vidadha:my aham||
Link copiedsa thasya sraddhaya: yukthas thasya:ra:dhanam i:hathe:|
Link copiedlabhathe: cha thathah ka:ma:n mayaiva vihitha:n iha tha:n|| ithi|
Link copiedya:m ya:m thanum ithi:ndra:di de:vatha: vise:sha:s thath thad antharya:mithaya:vasthithasya bhagavathas thanavah sari:ra:ni:thy arthah|
Link copiedaham hi sarva yajna:na:m bho:ktha: cha prabhur e:va cha|
Link copiedithy a:di|
Link copiedprabhur e:va che:thi sarva phala:na:m prada:tha: che:thy arthah|
Link copiedyatha: cha---
Link copiedyajnais thvam ijyase: nithyam sarva de:va maya:chyutha|
Link copiedyaih sva dharma parair na:tha narair a:ra:dhitho: bhava:n|
Link copiedthe: tharanthy akhila:m e:tha:m maya:m a:thma vimukthaye:||
Link copiedithi| se:thiha:sa pura:ne:shu sarve:shv e:va ve:de:shu sarva:ni karma:ni sarve:svara:ra:dhana ru:pa:ni, thais thaih karmabhir a:ra:dhithah purusho:ththamas thath thad ishtam phalam dada:thi:thi thathra thathra prapanchitham| e:vam hi sarva sakthim sarva jnam sarve:svaram bhagavantham indra:di de:vatha:ntharya:mi ru:pe:na ya:ga da:na ho:ma:di ve:do:ditha sarva karmana:m bho:ktha:ram sarva phala:na:m prada:tha:ram cha sarva:h sruthayo: vadanthi| chathurho:tha:ro: yathra sampadam gachchhanthi de:vair ithy a:dya:h| chathurho:tha:ro: yajna:h, yathra parama:thmani de:ve:shv antharya:mi ru:pe:na:vasthithe:, de:vaih sampadam gachchhanthi de:vaih sambandham gachchhanthi yajna: ithy arthah| antharya:mi ru:pe:na:vasthithasya parama:thmanah sari:rathaya:vasthitha:na:m indra:di:na:m ya:ga:di sambandha ithy uktham bhavathi| yatho:ktham bhagavatha:---
Link copiedbho:ktha:ram yajna thapasa:m sarva lo:ka mahe:svaram|
Link copiedithi| thasma:d agny a:di de:vatha:nthara:thma bhu:tha parama purusha:ra:dhana ru:pa bhu:tha:ni sarva:ni karma:ni, sa e:va cha:bhilashitha phala prada:the:thi kim athra:pu:rve:na vyuthpaththi patha du:ra varthina: va:chyathaya:bhyupagathe:na kalpithe:na va: prayo:janam| e:vam cha sathi lin a:de:h ko:'yam arthah parigruhi:tho: bhavathi| yaja de:va pu:ja:ya:m ithi de:vatha:ra:dhana bhu:tha ya:ga:de:h prakruthy arthasya karthruvya:pa:ra sa:dhyatha:m vyuthpaththi siddha:m lin a:dayo:'bhidadhathi:thi na kinchid anupapannam| karthru va:china:m prathyaya:na:m prakruthy arthasya karthru vya:pa:ra sambandha praka:ro: hi va:chyah| bhu:tha varthama:na:dikam anye: vadanthi| lin a:dayas thu karthru vya:pa:ra sa:dhyatha:m vadanthi|
Link copied||125||
Link copiedapi cha ka:minah karthavyatha: karma vidha:ya karmano: de:vatha:ra:dhana ru:patha:m thad dva:ra: phala sambhavam cha thath thath karma vidhi va:kya:ny e:va vadanthi| va:yavyam sve:tham a:labhatha bhu:thi ka:mo: va:yur vai kshe:pishtha: de:vatha: va:yum e:va sve:na bha:gadhe:ye:no:padha:vathi sa e:vainam bhu:thim gamayathi:thy a:di:ni| na:thra phala siddhy anupapaththih ka:pi drusyatha ithi phala sa:dhanathva:vagathir aupa:da:niki:thy api na sangachchhathi| vidhy ape:kshitham ya:ga:de:h phala sa:dhanathva praka:ram va:kya se:sha e:va bo:dhayathi:thy arthah| thasma:d bra:hmana:ya na:pagure:the:thy athra:pago:rana nishe:dha vidhi para va:kya se:she: sru:yama:nam nishe:dhyasya:pago:ranasya satha ya:thana: sa:dhanathvam nishe:dha vidhy upayo:gi:thi hi svi:kriyathe:| athra punah ka:minah karthavyathaya: vihithasya ya:ga:de:h ka:mya svarga:di sa:dhanathva praka:ram va:kya se:sha:vagatham ana:druthya kim ithy upa:da:ne:na ya:ga:de:h phala sa:dhanathvam parikalpyathe:| hiranyanidhim apavarake: nidha:ya ya:chathe: ko:drava:di lubdhah krupanam janam ithi sru:yathe: thad e:thad yushma:su drusyathe:| satha ya:thana: sa:dhanathvam api na:drushta dva:re:na| cho:ditha:ny anuthishtho: vihitham karma:kurvatho: ninditha:ni cha kurvathah sarva:ni sukha:ni duhkha:ni cha parama purusha:nugraha nigraha:bhya:m e:va bhavanthi| e:sha hy e:va:nandayathi atho: so:'bhayam gatho: bhavathi atha thasya bhayam bhavathi bhi:sha:sma:d va:thah pavathe: bhi:sho:de:thi su:ryo: bhi:sha:sma:d agnis chandras cha mruthyur dha:vathi panchamah ithi| e:thasya va: aksharasya prasa:sane: ga:rgi su:rya:chandramasau vidhruthau thishthathah e:thasya va: aksharasya prasa:sane: ga:rgi dadatho: manushya:h prasamsanthi yajama:nam de:va: darvi:m pitharo:'nva:yaththa: ithy a:dy ane:ka vidha:h sruthayah santhi| yatho:ktham dramida bha:shye:--- thasya:jnaya: dha:vathi va:yur nadyah sravanthi the:na cha kruthasi:ma:no: jala:saya:h samada: iva me:sha virsapitham kurvanthi:thi| thath sankalpa nibandhana: hi:me: lo:ke: na chyavanthe: na sphutanthe:| sva sa:sana:nuvarthina:m jna:thva: ka:runya:th sa bhagava:n vardhaye:tha vidva:n karma daksha ithi cha|
Link copied||126||
Link copiedparama purusha ya:tha:thmya jna:na pu:rvaka thad upa:sana:di vihitha karma:nushtha:yinas thath prasa:da:th thath pra:pthi paryantha:ni sukha:ny abhayam cha yatha:dhika:ram bhavanthi| thaj jna:na pu:rvakam thad upa:sana:di vihitham karma:kurvatho: ninditha:ni cha kurvathas than nigraha:d e:va thad apra:pthi pu:rvaka:parimitha duhkha:ni bhayam cha bhavanthi| yatho:ktham bhagavatha:---
Link copiedniyatham kuru karma thvam karma jya:yo: hy akarmanah|
Link copiedithy a:dina: kruthsnam karma jna:na pu:rvakam anushthe:yam vidha:ya
Link copiedmayi sarva:ni karma:ni sannyasya
Link copiedithi sarvasya karmanah sva:ra:dhanatha:m a:thmana:m sva niya:myatha:m cha prathipa:dya
Link copiedye: me: matham idam nithyam anuthishthanthi ma:nava:h|
Link copiedsraddha:vantho:'nasu:yantho: muchyanthe: the:'pi karmabhih||
Link copiedye: thv e:thad abhyasu:yantho: na:nuthishthanthi me: matham|
Link copiedsarva jna:na vimu:dha:ms tha:n viddhi nashta:n ache:thasah||
Link copiedithi sva:jna:nuvarthinah prasasya vipari:tha:n vinindya punar api sva:jna:nupa:lanam akurvatha:m a:sur aprakruthy antharbha:vam abhidha:ya:dhama: gathis cho:ktha:---
Link copiedtha:n aham dvishathah kru:ra:n samsa:re:shu nara:dhama:n|
Link copiedkshipa:my ajasram asubha:n a:suri:shv e:va yo:nishu||
Link copieda:suri:m yo:nim a:panna: mu:dha: janmani janmani|
Link copiedma:m apra:pyaiva kaunthe:ya thatho: ya:nthy adhama:m gathim|| ithi|
Link copiedsarva karma:ny api sada: kurva:no: mad vypa:srayah|
Link copiedmath prasa:da:d ava:pno:thi sa:svatham padam avyayam||
Link copiedithi cha sva:jna:nuvarthina:m sa:svatham padam cho:ktham| asrutha ve:da:ntha:na:m karmany asraddha: ma: bhu:d ithi de:vatha:dhikarane:'thiva:da:h krutha:h karma ma:thre: yatha: sraddha: sya:d ithi sarvam e:ka sa:sthram ithi ve:da vith siddha:nthah|
Link copied||127||
Link copiedthasyaithasya parasya brahmano: na:ra:yanasya:parichchhe:dya jna:na:nanda:malathva svaru:pavaj jna:na sakthi balaisvarya vi:rya the:jah prabhruthy anavadhika:thisaya:sankhye:ya kalya:na gunavath sva sankalpa pravarthya sve:thara samastha chid achid vasthu ja:thavath sva:bhimatha sva:nuru:paika ru:pa divya ru:pa thad uchitha nirathisaya kalya:na vividha:nantha bhu:shana sva sakthi sadrusa:parimitha:nantha:scharya na:na: vidha:yudha sva:bhimatha:nuru:pa svaru:paguna vibhavaisvarya si:la:dy anavadhika mahima mahisi: sva:nuru:pa kalya:na jna:na kriya:dy aparime:ya guna:nantha parijana parichchhe:da svo:chitha nikhila bho:gya bho:go:pakarana:dy anantha maha: vibhava:va:n manasa go:chara svaru:pa svabha:va divya stha:na:di nithyatha: niravadyatha:go:chara:s cha sahasrasah sruthayah santhi| ve:da:ham e:tham purusham maha:ntham a:dithya varnam thamasah parastha:th| ya e:sho:'nthara:dithye: hiran mayah purushah| thasya yatha: kapya:sam pundari:kam e:vam akshini:| ya e:sho:'ntharhrudaya a:ka:sas thasminn ayam purusho: mano: mayo:'mrutho: hiran mayah mano: maya ithi manasaiva visuddhe:na gruhyatha ithy arthah sarve: nime:sha: jajnire: vidyuthah purusha:d adhi vidyud varna:th purusha:d ithy arthah ni:la tho:yada madhya stha: vidyul le:khe:va bha:svara: madhya stha ni:la tho:yada: vidyul le:khe:va se:yam dahara pundari:ka madhya stha:ka:sa varthini: vahni sikha: sva:ntharnihitha ni:la tho:yada:bha parama:thma svaru:pa: ava:nthar nihitha ni:la tho:yada: vidyud iva:bha:thi:thy arthah| mano: mayah pra:na sari:ro: bha: ru:pah| sathya ka:mah sathya sankalpah| a:ka:sa:thma: sarva ka:ma: sarva ka:mah sarva gandhah sarva rasah sarvam idam abhya:ththo:'va:kya:na:darah| maha:rajanam va:sa ithy a:dya:h| asye:sa:na: jagatho: vishnu pathni:| hri:s cha the: lakshmi:s cha pathnyau| thad vishno:h paramam padam sada: pasyanthi su:rayah| kshayantham asya rajasah para:ke:| yad e:kam avyaktham anantha ru:pam visvam pura:nam thamasah parastha:th| yo: ve:da nihitham guha:ya:m parame: vyo:man| yo:'sya:dhyakshah parame: vyo:man| thad e:va thad u bhavyama: idam thad akshare: parame: vyo:man nithya:di sruthi satha nischitho:'yam arthah|
Link copied||128||
Link copiedthad vishno:h paramam padam ithi vishno:h parasya brahmanah param padam sada: pasyanthi su:raya ithi vachana:th sarva ka:la darsanavanthah paripu:rna jna:na:h ke:chana santhi:thi vijna:yathe:| ye: su:rayas the: sada: pasyanthi:thi vachana vyakthih, ye: sada: pasyanthi the: su:raya ithi va:| ubhaya pakshe:'py ane:ka vidha:nam na sambhavathi:thi che:th| na| apra:pthathva:th sarvasya sarva visishtam parama stha:nam vidhi:yathe:| yatho:ktham thad guna:s the: vidhi:ye:rann avibha:ga:d vidha:na:rthe: na che:d anye:na sishta: ithi| yatha: yada:gne:yo:'shta:ka pa:la ithy a:di karma vidhau karmano: guna:na:m cha:pra:pthathve:na sarva guna visishtam karma vidhi:yathe: thatha:thra:pi su:ribhih sada: drusyathve:na vishno:h parama stha:nam apra:ptham prathipa:dayathi:thi na kaschid viro:dhah| karana manthra:h kriyama:na:nuva:dinah stho:thra sasthra ru:pa: japa:dishu viniyuktha:s cha prakarana pathitha:s cha:prakarana pathitha:s cha sva:rtham sarvam yatha:vasthitham e:va:pra:ptham aviruddham bra:hmanavad bo:dhayanthi:thi hi vaidika:h| pragi:tha manthra sa:dhya guna guna:bhima:nam stho:thram| apragi:tha manthra sa:dhya guna guni nishtha guna:bhidha:nam sa:sthram| niyuktha:rtha praka:sana:m cha de:vatha:dishv apra:ptha:viruddha guna vise:sha prathipa:danam viniyo:ga:nugunam e:va| ne:yam sruthir muktha jana vishaya:| the:sa:m sada: darsana:nupapaththe:h| na:pi muktha prava:ha vishaya:| sada: pasyanthi:thy e:kaika karthruka vishayathaya: prathi:the:h sruthi bhanga prasanga:th| manthra:rthava:da gatha: hy artha:h ka:rya parathve:'pi siddhyanthi:thy uktham| kim punah siddha vasthuny e:va tha:thparye: vyuthpaththi siddha ithi sarvam upapannam| nanu cha:thra thad vishno:h paramam padam ithi para svaru:pam e:va parama pada sabde:na:bhidhi:yathe:| samastha he:ya rahitham vishnv a:khyam param padam ithy a:dishv avyathire:ka darsana:th| naivam| kshayantham asya rajathah para:ke:, thad akshare: parame: vyo:man, yo: asya:dhya:kshah parame: vyo:man, yo: ve:da nihitham guha:ya:m parame: vyo:man nithya:dishu parama stha:nasyaiva darsanam| thad vishno:h paramam padam ithi vyathire:ka nirde:sa:ch cha| vishnv a:khyam paramam padam ithi vise:shana:d anyad api paramam padam vidyatha ithi cha the:naiva jna:yathe:| thad idam para stha:nam su:ribhih sada:drusyathve:na prathipa:dyathe:|
Link copied||129||
Link copiede:thad uktham bhavathi kvachith parastha:nam parama pada sabde:na prathipa:dyathe:, kvachith prakruthi viyuktha:thma svaru:pam, kvachid bhagavath svaru:pam| thad vishno:h paramam padam sada: pasyanthi su:raya ithi para stha:nam|
Link copiedsarga sthithy antha ka:le:shu thri vidhaiva pravarthathe:|
Link copiedguna pravruththya: paramam padam thasya:gunam mahath||
Link copiedithy athra prakruthi viyuktha:thma svaru:pam|
Link copiedsamastha he:ya rahitham vishnv a:khyam paramam padam|
Link copiedithy athra bhagavath svaru:pam| thri:ny apy e:tha:ni parama pra:pthathve:na parama pada sabde:na prathipa:dyanthe:| katham thraya:na:m parama pra:pyathvam ithi che:th| bhagavath svaru:pam parama pra:pyathva:d e:va paramam padam| itharayo:r api bhagavath pra:pthi garbhathva:d e:va parama padathvam| sarva karma bandha vinirmuktha:thma svaru:pa:va:pthir bhagavath pra:pthi garbha:| tha ime: sathya:h ka:ma: anrutha:pidha:na: ithi bhagavatho: guna ganasya thiro:dha:yakathve:na:nrutha sabde:na sva karmanah prathipa:danam|
Link copied||130||
Link copiedanrutha ru:pa thiro:dha:nam kshe:thrajna karme:thi katham avagamyatha ithi che:th|
Link copiedavidya: karma sanjna:nya: thruthi:ya: sakthir ishyathe:|
Link copiedyatha: kshe:thrajna sakthih sa: ve:shtitha: nrupa sarvaga:||
Link copiedsamsa:ra tha:pa:n akhila:n ava:pno:thy athisanthatha:n|
Link copiedthaya: thiro:hithathva:ch cha, ithy a:di vachana:th|
Link copied||131||
Link copiedpara stha:na pra:pthir api bhagavath pra:pthi garbhaive:thi suvyaktham| kshayantham asya rajasah para:ka ithi rajathah sabde:na thri guna:thmika: prakruthir uchyathe: ke:valasya rajaso:'navastha:na:th| ima:m thri guna:thmika:m prakruthim athikramya sthithe: stha:ne: kshayantham vasantham ithy arthah| ane:na thri guna:thmaka:th kshe:thrajnasya bho:gya bhu:tha:d vasthunah parastha:d vishno:r va:sa stha:nam ithi gamyathe:| ve:da:ham e:tham purusham maha:ntham a:dithya varnam thamasah parastha:d ithy athra:pi thamah sabde:na saiva prakruthir uchyathe:| ke:valasya thamaso:'navastha:na:d e:va| rajasah para:ke: kshayantham ithy ane:naika va:kyathva:th thamasah parastha:d vasantham maha:ntham a:dithya varnam purusham aham ve:de:thy ayam artho:'vagamyathe:| sathyam jna:nam anantham brahma| yo: ve:da nihitham guha:ya:m parame: vyo:man| thad akshare: parame: vyo:mann ithi thath stha:nam avika:ra ru:pam parama vyo:ma sabda:bhidhe:yam ithi cha gamyathe:| akshare: parame: vyo:man nithyasya stha:nasya:ksharathva sravana:th kshara ru:pa:dithya mandala:dayo: na parama vyo:ma sabda:bhidhe:ya:h| yathra pu:rve: sa:dhya:h santhi de:va:h, yathrarshayah prathama ja: ye: pura:na: ithy a:dishu cha tha e:va su:raya ithy avagamyathe:| thad vipra:so: vipanyavo: ja:gruva:msah samindhathe: vishno:r yath param padam ithy athra:pi vipra:so: me:dha:vinah, vipanyavah sthuthi si:la:h, ja:gruva:msah askhalitha jna:na:s tha e:va:skhalitha jna:na:s thad vishno:h paramam padam sada: sthuvanthah samindhatha ithy arthah|
Link copied||132||
Link copiede:the:sha:m parijana stha:na:di:na:m sad e:va so:mye:dam agra a:si:d ithy athra jna:na balaisvarya:di kalya:na guna ganavath parabrahma svaru:pa:ntharbhu:thathva:th sad e:vaikam e:va:dvithi:yam ithi brahma:ntharbha:vo:'vagamyathe:| e:sha:m api kalya:na gunaikade:sathva:d e:va sad e:va so:mye:dam agra a:si:d ithy athre:dam ithi sabdasya karma vasya bho:kthru varga misra thad bho:gya bhu:tha prapancha vishayathva:ch cha sada: pasyanthi su:raya ithi sada: darsithve:na cha the:sha:m karma vasya:nantharbha:va:th| apahatha pa:pme:thy a:dy apipa:sa ithy anthe:na sali:lo:pakarana bhu:tha thri guna prakruthi pra:krutha thath samsrushta purusha gatham he:ya svabha:vam sarvam prathishidhya sathya ka:ma ithy ane:na sva bho:gya bho:go:pakarana ja:thasya sarvasya sathyatha: prathipa:ditha:| asathya:h ka:ma: yasya:sau sathya ka:mah| ka:myantha ithi ka:ma:h| the:na pare:na brahmana: sva bho:gya thad upakarana:dayah sva:bhimatha: ye: ka:myanthe: the: sathya:h nithya: ithy arthah| anyasya li:lo:pakaranasya:pi vasthunah prama:na sambandha yo:gyathve: sathy api vika:ra:spadathve:na:sthirathva:d thad vipari:tham sthirathvam e:sha:m sathya pade:no:chyathe:| sathya sankalpa ithy e:the:shu bho:gya thad upakarana:dishu nithye:shu nirathisaye:shv ananthe:shu sathsv apy apu:rva:na:m aparimitha:na:m artha:na:m api sankalpa ma:thre:na siddhim vadathi| e:sha:m cha bho:go:pakarana:na:m li:lo:pakarana:na:m che:thana:na:m ache:thana:na:m sthira:na:m asthira:na:m cha thath sankalpa:yaththa svaru:pa sthithi pravruththi bhe:da:di sarvam vadathi sathya sankalpa ithi|
Link copied||133||
Link copiedithiha:sa pura:nayo:r ve:do:pabrumhanayo:s cha:yam artha uchyathe:---
Link copiedthau the: me:dha:vinau drushtva: ve:de:shu parinishthithau|
Link copiedve:do:pabrumhana:rtha:ya tha:v agra:hayatha prabhuh||
Link copiedithi ve:do:pabrumhanathaya: pra:rabdhe: sri:mad ra:ma:yane:---
Link copiedvyaktham e:sha maha: yo:gi: parama:thma: sana:thanah|
Link copiedana:di madhya nidhano: mahathah paramo: maha:n||
Link copiedthamasah paramo: dha:tha: sankha chakra gada:dharah|
Link copiedsri:vathsa vaksha: nithya sri:r ajayyah sa:svatho: dhruvah||
Link copiedsa:ra: na:na: vidha:s cha:pi dhanur a:yatha vigraham|
Link copiedanvagachchhantha ka:kuthstham sarve: purusha vigraha:h||
Link copiedvive:sa vaishnavam the:jah sasari:rah saha:nugah||
Link copiedsri:madvaishnavapura:ne:
Link copiedsamastha:h sakthayas chaitha: nrupa yathra prathishthitha:h|
Link copiedthad visvairu:pyam ru:pam anyad dhare:r mahath||
Link copiedmu:rtham brahma maha: bha:ga sarva brahma mayo: harih||
Link copiednithyaivaisha: jagan ma:tha: vishno:h sri:r anapa:yini:|
Link copiedyatha: sarva gatho: vishnus thathaive:yam dvijo:ththama||
Link copiedde:vathve: de:va de:he:yam manushyathve: cha ma:nushi:|
Link copiedvishno:r de:ha:nuru:pa:m vai karo:thy e:sha:thmanas thanum||
Link copiede:ka:nthinah sada: brahma dhya:yino: yo:gino: hi ye:|
Link copiedthe:sha:m thathparam stha:nam yad vai pasyanthi su:rayah||
Link copiedkala: muhu:rtha:di mayas cha ka:lo: na yad vibhu:the:h parina:ma he:thuh||
Link copiedmaha:bha:rathe: cha---
Link copieddivyam stha:nam ajaram cha:prame:yam durvijne:yam cha:gamair gamyam a:dyam|
Link copiedgachchha prabho: raksha cha:sma:n prapanna:n kalpe: kalpe: ja:yama:nah sva mu:rthya:||
Link copiedka:lah sa pachathe: thathra na ka:las thathra vai prabhuh|
Link copiedithi| parasya brahmano: ru:pavaththvam su:thra ka:ras cha vadathi--- anthas thad dharmo:pade:sa:d ithi
Link copied||134||
Link copiedyo:'sa:v a:dithya mandala:ntharvarthi: thaptha ka:rthasvara giri vara prabhah sahasra:msu satha sahasra kirano: gambhi:ra:mbhah samudbhu:tha sumrushta na:la vikara vikasitha pundari:ka dala:mala:yathe:kshanah subhru: lala:tah suna:sah susmitha:dhara vidrumah suruchira ko:mala gandah kambugri:vah samunnatha:msa vilambi cha:ru ru:pa divya karna kisalayah pi:na vruththa:yatha bhujas cha:ru thara:thamra kara thala:nuraktha:nguli:bhir alankruthas thanu madhyo: visa:la vakshah sthalah sama vibhaktha sarva:ngo:'nirde:sya divya ru:pa samhananah snigdha varnah prabuddha pundari:ka cha:ru charana yugalah sva:nuru:pa pi:tha:mbara dharo:'mala kiri:ta kundala ha:ra kausthubha ke:yu:ra kataka nu:puro:dara bandhana:dy aparimitha:scharya:nantha divya bhu:shanah sankha chakra gada:si sri:vathsa vana ma:la:lankrutho:'navadhika:thisaya saundarya:hrutha:se:sha mano: drushti vruththir la:vanya:mrutha pu:ritha:se:sha chara:chara bhu:tha ja:tho:'thyadbhutha:chinthya nithya yauvanah pushpa ha:sa sukuma:rah punya gandha va:sitha:nantha dig anthara:las thrailo:kya:kramana pravruththa gambhi:ra bha:vah karuna:nura:ga madhura lo:chana:valo:kitha:sritha vargah purusha varo: dari:drusyathe:| sa cha nikhila jagad udaya vibhava laya li:lo: nirastha samastha he:yah samastha kalya:na guna gana nidhih sve:thara samastha vasthu vilakshanah parama:thma: param brahma na:ra:yana ithy avagamyathe:| thad dharmo:pade:sa:th sa e:sha sarve:sha:m lo:ka:na:m i:shte: sarve:sha:m ka:ma:na:m sa e:sha sarve:bhyah pa:pabhya uditha ithy a:di darsana:th| thasyaithe: guna:h sarvasya vasi: sarvasye:sa:nah apahatha pa:pma: vijara ithy a:di sathya sankalpa ithy antham visvathah paramam nithyam visvam na:ra:yanam harim| pathim visvasya:thme:svaram ithy a:di va:kya prathipa:ditha:h|
Link copied||135||
Link copiedva:kya ka:rais chaithath sarvam suspashtam a:ha hiranya mayah purusho: drusyatha ithi pra:jnah sarva:ntharah sya:l lo:ka ka:me:so:pade:sa:th thatho:daya:th pa:pmana:m ithy a:dina:| thasya cha ru:pasya:nithyatha:di va:kya ka:re:naiva prathishiddham sya:th thad ru:pam kruthakam anugraha:rtham thach che:thana:na:m aisvarya:d ithy upa:sithur anugraha:rthah parama purushasya ru:pa sangraha ithi pu:rva paksham kruthva:, ru:pam va:thi:ndriyam anthahkarana prathyaksham than nirde:sa:d ithi| yatha: jna:na:dayah parasya brahmanah svaru:pathaya: nirde:sa:th svaru:pa bhu:tha guna:s thathe:dam api ru:pam sruthya: svaru:pathaya: nirde:sa:th svaru:pa bhu:tham ithy arthah| bha:shya ka:re:naithad vya:khya:tham anjasaiva visvasrujo: ru:pam thath thu na chakshusha: gra:hyam manasa: thv akalushe:na sa:dhana:ntharavatha: gruhyathe:, na chakshusha: gruhyathe: na:pi va:cha: manasa: thu visuddhe:ne:thi sruthe:h, na hy ru:pa:ya: de:vatha:ya: ru:pam upadisyathe:, yatha:bhu:tha va:di hi sa:sthram, maha:rajanam va:sah ve:da:ham e:tham purusham maha:ntham a:dithya varnam thamasah parastha:d ithi prakarana:nthara nirde:sa:ch cha sa:kshina ithy a:dina: hiranya maya ithi ru:pa sa:ma:nya:ch chandra mukhavath, na mayad athra vika:ram a:da:ya prayujyathe:, ana:rabhyathva:d a:thmana ithi| yatha: jna:na:di kalya:na guna gana:nantharya nirde:sa:d aparimitha kalya:na guna gana visishtam param brahme:thy avagamyatha e:vam a:dithya varnam purusham ithy a:di nirde:sa:th sva:bhimatha sva:nuru:pa kalya:nathama ru:pah parabrahma bhu:thah purusho:ththamo: na:ra:yana ithi jna:yathe:| thatha:sye:sana: jagatho: vishnu pathni: hri:s cha the: lakshmi:s cha pathnyau sada: pasyanthi su:rayah thamasah parastha:th kshayantham asya rajasah para:ka ithy a:dina: pathni: parijana stha:na:di:na:m nirde:sa:d e:va thathaiva santhi:thy avagamyathe:| yatha:ha bha:shya ka:rah--- yatha:bhu:tha va:di hi sa:sthram ithi|
Link copied||136||
Link copiede:thad uktham bhavathi--- yatha: sathyam jna:nam anantham brahme:thi nirde:sa:th parama:thma svaru:pam samastha he:ya prathyani:ka:navadhika:nanthaikatha:nathaya:parichchhe:dyathaya: cha sakale:thara vilakshanam thatha: yah sarva jnah sarva vith para:sya sakthir vividhaiva sru:yathe: sva:bha:viki: jna:na bala kriya: cha tham e:va bha:ntham anubha:thi sarvam thasya bha:sa: sarvam idam vibha:thi:thy a:di nirde:sa:n nirathisaya:sankhye:ya:s cha guna:h sakale:thara vilakshana:h| thatha:dithya varnam ithy a:di nirde:sa:d ru:pa parijana stha:na:dayas cha sakale:thara vilakshana:h sva:sa:dha:rana: anirde:sya svaru:pa svabha:va: ithi|
Link copied||137||
Link copiedve:da:h prama:nam che:d vidhy arthava:da manthra gatham sarvam apu:rvam aviruddham artha ja:tham yatha:vasthitham e:va bo:dhayanthi| pra:ma:nyam cha ve:da:na:m authpaththikas thu sabdasya:rthe:na sambandha ithy uktham| yatha:gni jala:di:na:m aushnya:di sakthi yo:gah sva:bha:vikah, yatha: cha chakshur a:di:na:m indriya:na:m buddhi vise:sha jana sakthih sva:bha:viki: thatha: sabdasya:pi bo:dhana sakthih sva:bha:viki:| na cha hastha che:shta:divath sanke:tha mu:lam sabdasya bo:dhakathvam ithi vakthum sakyam| ana:dy anusandha:na:vichchhe:de:'pi sanke:thayithru purusha:jna:na:th| ya:ni sanke:tha mu:la:ni tha:ni sarva:ni sa:ksha:d va: paramparaya: va: jna:yanthe:| na cha de:vadaththa:di sabdavath kalpayithum yuktham| the:shu cha sa:ksha:d va: paramparaya: va: sanke:tho: jna:yathe:| gava:di sabda:na:m thv ana:dy anusandha:na:vichchhe:de:'pi sanke:tha:jna:na:d e:va bo:dhakathva sakthih sva:bha:viki:| atho:'gny a:di:na:m da:hakathva:di sakthivad indriya:na:m bo:dhakathva sakthivach cha sabdasya:pi bo:dhakathva sakthir a:srayani:ya:||
Link copied||138||
Link copiednanu che:n indriyavach chhabdasya:pi bo:dhakathvam sva:bha:vikam sambandha grahanam bo:dhakathva:ya kim ithy ape:kshathe:, linga:divad ithy uchyathe: yatha: jna:tha sambandha niyamam dhu:ma:dy agny a:di vijna:na janakam thatha: jna:tha sambandha niyamah sabdo:'py artha vise:sha buddhi janakah| e:vam tharhi sabdo:'py artha vise:shasya lingam ithy anuma:nam sya:th| maivam| sabda:rthayo:h sambandho: bo:dhya bo:dhaka bha:va e:va dhu:ma:di:na:m thu sambandha:nthara ithi thasya sambandhasya jna:na dva:re:na buddhi janakathvam ithi vise:shah| e:vam gruhi:tha sambandhasya bo:dhakathva darsana:d ana:dy anusandha:na:vichchhe:de:'pi sanke:tha:jna:na:d bo:dhakathva sakthir e:ve:thi nischi:yathe:|
Link copied||139||
Link copiede:vam bo:dhaka:na:m pada sangha:tha:na:m samsarga vise:sha bo:dhakathve:na va:kya sabda:bhidhe:ya:na:m uchcha:rana kramo: yathra purusha buddhi pu:rvakas the: paurushe:ya:h sabda: ithy uchyanthe:| yathra thu thad uchcha:rana kramah pu:rva pu:rvo:chcharana krama janitha samska:ra pu:rvakah sarvada:paurushe:ya:s the: cha ve:da: ithy uchyanthe:| e:thad e:va ve:da:na:m apaurushe:yathvam nithyathvam cha yath pu:rvo:chcha:rana krama janitha samska:re:na tham e:va krama vise:sham smruthva: the:naiva krame:no:chcha:ryama:nathvam| the: cha:nupu:rvi: vise:she:na samsthitha: akshara ra:sayo: ve:da: rug yajuh sa:ma:tharva bhe:da bhinna: anantha sa:kha: varthanthe:| the: cha vidhy arthava:da manthra ru:pa: ve:da:h parabrahma bhu:tha na:ra:yana svaru:pam thad a:ra:dhana praka:ra:dhitha:th phala vise:sham cha bo:dhayanthi| parama purushavath thath svaru:pa thad a:ra:dhana thath phala jna:paka ve:da:khya sabda ja:tham nithyam e:va| ve:da:na:m ananthathva:d duravaga:hathva:ch cha parama purusha niyuktha:h paramarshayah kalpe: kalpe: nikhila jagad upaka:ra:rtham ve:da:rtham smruthva: vidhy arthava:da manthra mu:la:ni dharma sa:sthra:ni:thiha:sa pura:na:ni cha chakruh| laukika:s cha sabda: ve:da ra:se:r uddhruthyaiva thath thad artha vise:sha na:mathaya: pu:rvavath prayuktha:h pa:ramparye:na prayujyanthe:| nanu cha vaidika e:va sarve: va:chaka:h sabda:s che:ch chhandasyaivam bha:sha:ya:m e:vam ithi lakshana bhe:dah katham upapadyathe:| uchyathe:--- the:sha:m e:va sabda:na:m thasya:m e:va:nupu:rvya:m varthama:na:m thathaiva prayo:gah| anyathra prayujyama:na:na:m anyathe:thi na kaschid do:shah|
Link copied||140||
Link copiede:vam ithiha:sa pura:na dharma sa:sthro:pabrumhitha sa:nga ve:da ve:dyah parabrahma bhu:tho: na:ra:yano: nikhila he:ya prathyani:kah sakale:thara vilakshano:'parichchhinna jna:na:nandaika svaru:pah sva:bha:vika:navadhika:thisaya:sankhye:ya kalya:na guna gana:karah sva sankalpa:nuvidha:yi svaru:pa sthithi pravruththi bhe:da chid achid vasthu ja:tho:'parichchhe:dya svaru:pa svabha:va:nantha maha: vibhu:thir na:na: vidha:nantha che:thana:che:thana:thmaka prapancha li:lo:pakarana ithi prathipa:ditham| sarvam khalv idam brahma, aithada:thmyam idam sarvam thath thvam asi sve:thake:tho:
Link copiede:nam e:ke: vadanthy agnim marutho:'nyo: praja:pathim|
Link copiedindram e:ke: pare: pra:nam apare: brahma sa:svatham||
Link copiedjyo:thi:mshi sukla:ni cha ya:ni lo:ke: thrayo: lo:ka: lo:ka pa:la:s thrayi: cha|
Link copiedthrayo:'gnayas cha:huthayas cha pancha sarve: de:va de:vaki: puthra e:va||
Link copiedthvam yajnas thvam vashatka:ras thvam o:nka:rah paranthapah|
Link copiedruthudha:ma: vasuh pu:rvo: vasu:na:m thvam praja:pathih||
Link copiedjagath sarvam sari:ram the: sthairyam the: vasudha: thalam|
Link copiedagnih ko:pah prasa:das the: so:mah sri:vathsa lakshanah||
Link copiedjyo:thi:mshi vishnur bhuvana:ni vishnur vana:ni vishnur girayo: disas cha|
Link copiednadyah samudra:s cha sa e:va sarvam yad asthi yan na:sthi cha vipra varya||
Link copiedithy a:di sa:ma:na:dhikaranya prayo:ge:shu sarvaih sabdaih sarva sari:rathaya: sarva praka:ram brahmaiva:bhidhi:yatha ithi cho:ktham| sathya sankalpam param brahma svayam e:va bahu praka:ram sya:m ithi sankalpya:chith samashti ru:pa maha:bhu:tha su:kshma vasthu bho:kthru varga samu:ham cha svasmin prali:nam svayam e:va vibhajya thasma:d bhu:tha su:kshma:d va:sthuno: maha:bhu:tha:ni srushtva: the:shu cha bho:kthru varga:thmathaya: prave:sya thaischid adhishthithair maha:bhu:thair anyo:nya samsrushtaih kruthsnam jagad vidha:ya svayam api sarvasya:thmathaya: pravisya parama:thmathve:na:vasthitham sarva sari:ram bahu praka:ram avathishthathe:| yad idam maha:bhu:tha su:kshmam vasthu thad e:va prakruthi sabde:na:bhidhi:yathe:| bho:kthru varga samu:ha e:va purusha sabde:na cho:chyathe:| thau cha prakruthi purushau parama:thma sari:rathaya: parama:thma praka:ra bhu:thau| thath praka:rah parama:thmaiva prakruthi purusha sabda:bhide:yah| so:'ka:mayatha bahu sya:m praja:ye:ye:thi thath srushtva: thad e:va:nupravisath thad anupravisya sach cha thyach cha:bhavan niruktham cha:niruktham cha nilayanam cha:nilayanam cha vijna:nam cha:vijna:nam cha sathyam cha:nrutham cha sathyam abhavad ithi pu:rvo:ktham sarvam anayaiva sruthya: vyaktham|
Link copied||141||
Link copiedbrahma pra:pthy upa:yas cha sa:sthra:dhigatha thaththva jna:na pu:rvaka sva karma:nugruhi:tha bhakthi nishtha: sa:dhya:navadhika:thisaya priya visadathama prathyakshatha:panna:nudhya:naru:pa parabhakthir e:ve:thy uktham| bhakthi sabdas cha pri:thi vise:she: varthathe:| pri:this cha jna:na vise:sha e:va| nanu cha sukham pri:thir ithy anartha:ntharam| sukham cha jna:na vise:sha sa:dhyam pada:rtha:ntharam ithi hi laukika:h| naivam| ye:na jna:na vise:she:na thath sa:dhyam ithy uchyathe: sa e:va jna:na vise:shah sukham|
Link copied||142||
Link copiede:thad uktham bhavathi--- vishaya jna:na:ni sukha duhkha madhya sa:dha:rana:ni| tha:ni cha vishaya:dhi:na vise:sha:ni thatha: bhavanthi| ye:na cha vishaya vise:she:na vise:shitham jna:nam sukhasya janakam ithy abhimatham thad vishayam jna:nam e:va sukham, thad athire:ki pada:rtha:ntharam no:palabhyathe:| the:naiva sukhithva vyavaha:ro:papaththe:s cha| e:vamvidha sukha svaru:pa jna:nasya vise:shakathvam brahma vyathirikthasya vasthunah sa:thisayam asthiram cha| brahmanas thv anavadhika:thisayam sthiram che:thi| a:nando: brahme:thy uchyathe:| vishaya:yaththathva:j jna:nasya sukha svaru:pathaya: brahmaiva sukham| thad idam a:ha raso: vai sah rasam he: e:va:yam labdhva:nandi: bhavathi:thi brahmaiva sukham ithi brahma labdhva: sukhi: bhavathi:thy arthah| parama purushah sve:naiva svayam anavadhika:thisaya sukhah san parasya:pi sukham bhavathi| sukha svaru:pathva:vise:sha:th| brahma yasya jna:na vishayo: bhavathi sa sukhi: bhavathi:thy arthah| thad e:vam parasya brahmano:'navadhika:thisaya:sankhye:ya kalya:na guna gana:karasya niravadyasya:nantha maha: vibhu:the:r anavadhika:thisaya sausi:lya saundarya va:thsalya jaladhe:h sarva se:shithva:d a:thmanah se:shathva:th prathibandhithaya:nusandhi:yama:nam anavadhika:thisaya pri:thi vishayam sath param brahmaivainam a:thma:nam pra:payathi:thi|
Link copied||143||
Link copiednanu cha:thyantha se:shathaiva:thmano:'navadhika:thisaya sukham ithy uktham bhavathi| thad e:thath sarva lo:ka viruddham| thatha: hi sarve:sha:m e:va che:thana:na:m sva:thanthryam e:va ishtathamam drusyathe:, pa:rathanthryam duhkhatharam| smruthis cha---
Link copiedsarvam para vasam duhkham sarvam a:thma vasam sukham|
Link copiedthatha: hi---
Link copiedse:va: sva vruththir a:khya:tha: thasma:th tha:m parivarjaye:th|
Link copiedithi| thad idam anadhigatha de:ha:thiriktha:thma ru:pa:na:m sari:ra:thma:bhima:na vijrumbhitham| thatha: hi sari:ram hi manushyathva:di ja:thi guna:sraya pinda bhu:tham svathanthram prathi:yathe:| thasminn e:va:ham ithi samsa:rina:m prathi:thih| a:thma:bhima:no: ya:drusas thad anugunaiva purusha:rtha prathi:thih| simha vya:ghra vara:ha manushya yaksha rakshah pisa:cha de:va da:nava sthri: pumsa vyavasthitha:thma:bhima:na:na:m sukha:ni vyavasthitha:ni| tha:ni cha paraspara viruddha:ni| thasma:d a:thma:bhima:na:nuguna purusha:rtha vyavasthaya: sarvam sama:hitham| a:thma svaru:pam thu de:va:di de:ha vilakshanam jna:naika:ka:ram| thach cha parase:shathaika svaru:pam| yatha:vasthitha:thma:bhima:ne: thad anugunaiva purusha:rtha prathi:thih| a:thma: jna:na mayo:'mala ithi smruthe:r jna:naika:ka:ratha: prathipanna:| pathim visvasye:thy a:di sruthi gunaih parama:thma se:shathaika:ka:ratha: cha prathi:tha:| athah simha vya:ghra:di sari:ra:thma:bhima:navath sva:thanthrya:bhima:no:'pi karma krutha vipari:tha:thma jna:na ru:po: ve:dithavyah| athah karma krutham e:va parama purusha vyathiriktha vishaya:na:m sukhathvam| atha e:va the:sha:m alpathvam asthirathvam cha parama purushasyaiva svatha e:va sukhathvam| athas thad e:va sthiram anavadhika:thisayam cha kam brahma kham brahma a:nando: brahma sathyam jna:nam anantham brahme:thi sruthe:h| brahma vyathirikthasya kruthsnasya vasthunah svaru:pe:na sukhathva:bha:vah karma kruthathve:na cha:sthirathvam bhagavatha: para:sare:no:ktham---
Link copiednaraka svarga samjne: vai pa:pa punye: dvijo:ththama|
Link copiedvasthv e:kam e:va duhkha:ya sukha:ye:rshya:gama:ya cha|
Link copiedko:pa:ya cha yathas thasma:d vasthu vasthv a:thmakam kuthah||
Link copiedsukha duhkha:dy e:ka:ntha ru:pino: vasthuno: vasthuthvam kuthah| thad e:ka:nthatha: punya pa:pa kruthe:thy arthah| e:vam ane:ka purusha:pe:kshaya: kasyachith sukham e:va kasyachid duhkham bhavathi:thy avastha:m prathipa:dya, e:kasminn api purushe: na vyavasthitham ithy a:ha---
Link copiedthad e:va pri:yathe: bhu:thva: punar duhkha:ya ja:yathe:|
Link copiedthad e:va ko:pa:ya yathah prasa:da:ya cha ja:yathe:||
Link copiedthasma:d duhkha:thmakam na:sthi na cha kinchith sukha:thmakam|
Link copiedithi sukha duhkha:thmakathvam sarvasya vasthunah karma krutham na vasthu svaru:pa krutham| athah karma:vasa:ne: thad apaithi:thy arthah|
Link copied||144||
Link copiedyath thu sarvam para vasam duhkham ithy uktham thath parama purusha vyathiriktha:na:m paraspara se:sha se:shi bha:va:bha:va:th thad vyathiriktham prathi se:shatha: duhkham e:ve:thy uktham| se:va: sva vruththir a:khya:the:thy athra:py ase:vya se:va: sva vruththir e:ve:thy uktham| sa hy a:sramaih sado:pa:syah samasthair e:ka e:va thv ithi sarvair a:thma ya:tha:thmya ve:dibhih se:vyah purusho:ththama e:ka e:va| yatho:ktham bhagavatha:---
Link copiedma:m cha yo:'vyabhicha:re:na bhakthi yo:ge:na se:vathe:|
Link copiedsa guna:n samathi:thyaitha:n brahma bhu:ya:ya kalpathe:||
Link copiedithi:yam e:va bhakthi ru:pa: se:va: brahma vid a:pno:thi param tham e:vam vidva:n amrutha iha bhavathi brahma ve:da brahmaiva bhavathi:thy a:dishu ve:dana sabde:na:bhidhi:yatha ithy uktham| yam e:vaisha vrunuthe: the:na labhya ithi vise:shana:d yam e:vaisha vrunutha ithi bhavagatha: varani:yathvam prathi:yathe:| varani:yas cha priyathamah| yasya bhagavathy anavadhika:thisaya: pri:thir ja:yathe: sa e:va bhagavathah priyathamah| thad uktham bhagavatha:---
Link copiedpriyo: hi jna:nino:'thyartham aham sa cha mama priyah|
Link copiedithi| thasma:th para bhakthi ru:pa:pannam e:va ve:danam thaththvatho: bhagavath pra:pthi sa:dhanam| yatho:ktham bhagavatha: dvaipa:yane:na mo:kshadharme: sarvo:panishad vya:khya:na ru:pam---
Link copiedna sandruso: thishthathi ru:pam asya na chakshusha: pasyathi kaschanainam|
Link copiedbhakthya: cha dhruthya: cha sama:hitha:thma: jna:na svaru:pam paripasyathi:thi:ha||
Link copieddhruthya: sama:hitha:thma: bhakthya: purusho:ththamam pasyathi sa:ksha:thkaro:thi pra:pno:thi:thy arthah| bhakthya: thv ananyaya: sakya ithy ane:naika:rthya:th| bhakthis cha jna:na vise:sha e:ve:thi sarvam upapannam|
Link copied||145||
Link copiedsa:ra:sa:ra vive:ka jna: gari:ya:mso: vimathsara:h|
Link copiedprama:na thanthra:h santhi:thi krutho: ve:da:rthasangrahah||
Link copied|| ithi sri: ra:ma:nuja:cha:rya virachitho: ve:da:rtha sangrahah sama:pthah||
Link copiedEnglish · simplified for modern readers
About this summary
This is an original summary prepared by JETNJ for English-speaking devotees, not a translation of Bhagavad Ramanujacharya's Sanskrit text. The full original is available above. A literal English translation is not in the public domain; we plan to commission one or link to authoritative scholarly editions as they become permissible.
Link copiedWhat the work is
The Ve:da:rtha-Sangraha — "A Summary of the Meaning of the Veda" — is Bhagavad Ramanuja's first major philosophical work, composed before his monumental Sri: Bhashya on the Brahma Sutras. Tradition holds that Ramanuja delivered its substance as a sustained oral teaching at Tirumala in the presence of the Lord of the Seven Hills, and later set it down in flowing Sanskrit prose so that seekers far beyond that assembly could receive it.
Link copiedUnlike the later Sri: Bhashya, which is bound to the terse sutra form, the Ve:da:rtha-Sangraha is a continuous essay. It was written for thoughtful devotees and scholars who wanted to understand, in one coherent movement, what the Upanishadhs actually teach. At roughly eight thousand words in Sanskrit, it is substantial but self-contained — an ideal entry point for readers who find the full Sri: Bhashya overwhelming. Here Ramanuja first set out, in his own voice, the vision that would come to be called Visishta:dvaitha — the non-duality of the qualified Reality.
Link copiedStructure
The work does not divide itself into numbered chapters; it unfolds as one sustained argument that can be read in three natural movements.
Link copiedThe opening movement establishes the problem. Ramanuja surveys the apparent disagreements among Upanishadhic passages — some texts speak of one Reality without a second, others speak of Brahman as endowed with infinite auspicious qualities, still others describe the world as His body — and he argues that a correct interpretive method must honour every one of these passages rather than explain some away.
Link copiedThe central movement is a sustained refutation of nirvisesha-brahma-va:da — the doctrine of an attributeless, undifferentiated Brahman associated with Sri: Shankara's school. Ramanuja takes up the Advaitic reading of the great sentences (maha:va:kyas) such as tat tvam asi ("That thou art") and shows that they do not teach the identity of an individual soul with a featureless absolute, but the inseparable relation between the individual self and the supreme Self who indwells it.
Link copiedThe closing movement is constructive. Having cleared the ground, Ramanuja sets out his own reading: the Upanishadhs teach one supreme Brahman — Sri:man Na:ra:yana, eternally united with Sri: Lakshmi — who has the entire universe of conscious beings and unconscious matter as His sari:ra (body), and who is their inner self and sole cause.
Link copiedKey teachings
The Upanishadhs speak of one Brahman who is Sri:man Na:ra:yana. For Ramanuja, the diverse descriptions of the supreme in the Vedas are not competing visions; they converge on a single personal Reality. Brahman — the unconditioned ground of all being — is none other than Sri:man Na:ra:yana, the Lord eternally accompanied by Sri: Lakshmi, possessed of infinite auspicious qualities (kalya:na-gunas) and free of every defect.
Link copiedAll of reality is the body of the Lord: the doctrine of sari:ra-sari:ri:-bha:va. The universe is not an illusion (ma:ya:) projected on a featureless absolute. It is real, and it is related to the Lord as a body (sari:ra) is related to the embodied self (sari:ri:) within it. The conscious souls (cit) and the unconscious material order (acit) together form the Lord's body; He dwells within them, supports them, and directs them, while remaining untouched by their limitations. This is what "non-duality of the qualified" means: there is one Reality, but that Reality is intrinsically qualified by the real universe it pervades.
Link copiedScripture coheres through sa:ma:na:dhikaranya. This technical term — co-reference, the grammatical rule by which two words in the same case refer to the same subject — becomes, in Ramanuja's hands, a theological key. When the Upanishadh says "all this is Brahman," the words "all this" and "Brahman" co-refer not because the world is unreal and only Brahman exists, but because the world is the Lord's body and every word that names any part of the world ultimately points to the Lord who ensouls it. Thus every Vedic statement, however diverse in surface meaning, is true of the one Brahman in one of His modes.
Link copiedThe Advaitic reading entails unacceptable consequences. Ramanuja lays out the well-known critique sometimes numbered as the seven anarthas (unwanted results) of the doctrine of an attributeless Brahman — among them, that it leaves no coherent locus for the ignorance (avidhya:) it invokes, no coherent scripture, no coherent liberation, and no coherent distinction between the bound soul and the supreme. Each of these problems, he argues, dissolves once we recognize Brahman as qualified, personal, and related to the world as its inner self.
Link copiedThe path to the Lord is devotion culminating in surrender. The work concludes that the meaning of the Veda is fulfilled in loving, reverent, meditative devotion (bhakti) directed to Sri:man Na:ra:yana — and, where such sustained devotion is beyond one's strength, in prapatti: complete self-offering to His grace. Liberation is not the erasure of the self into a featureless absolute, but the unobstructed, eternal service (kainkaryam) of the liberated soul to the Lord and His consort.
Link copiedWhy this work matters
Within the Sri: Vaishnava canon, the Ve:da:rtha-Sangraha holds a special place as Ramanuja's first published statement of the school he would come to define. Every later work — the Sri: Bhashya, the Vedanta Dipa, the Vedanta Sara, and even the devotional Gadya-traya — presupposes the vision articulated here. For the tradition, it is the seed from which the tree grew.
Link copiedFor devotees today, the work offers something rare: direct access to Ramanuja's own voice, without the constraints of commentary form. Readers approaching Vishishtadvaita for the first time will find here the essential teaching — that the Lord of the Veda is Sri:man Na:ra:yana, that the world is His body, that the soul is His servant, and that the way home is devotion and surrender — laid out with the calm certainty of a teacher who has seen what he describes.
Link copiedText offered in original IAST Sanskrit from the Ramanuja Granthamala corpus. For cross-referenced study and search, visit netcausal.ai/veda.