Bhagavad Gita Bhashya · Section 2 of 19
arjuna visha:da yo:go: na:ma prathamo:'dhya:yah
Original Sanskrit · click to toggle
उपोद्घाटः
Link copiedयत्-पदाम्भोरुह-ध्यान-विध्वस्ताशेष-कल्मषः।
Link copiedवस्तुताम् उपयातोऽहं यामुनेयं नमामि तम्॥
Link copiedश्रियः पतिर् निखिल-हेय-प्रत्यनीक-कल्याणैक-तानः स्वेतर-समस्त-वस्तु-विलक्षणानन्त-ज्ञानानन्दैक-स्वरूपः, स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असङ्ख्येय-कल्याण-गुण-गण-महोदधिः, स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य-निरतिशय्ज्ज्वल्य-सौगन्ध्य-सौन्दर्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधिर् दिव्य-रूपः, स्वोचित-विविध-विचित्रानन्ताश्चर्य-नित्य-निरवद्यापरिमित-दिव्य-भूषणः, स्वानुरूपासङ्ख्येयाचिन्त्य-शक्ति-नित्य-निरवद्य-निरतिशय-कल्याण-दिव्यायुधः, स्वाभिमतानुरूप-नित्य-निरवद्य-स्वरूप-रूप-गुण-विभवैश्वर्य-शीलाद्य्-अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-श्री-वल्लभः, स्व-सङ्कल्पानुविधायि-स्वरूप-स्थिति-प्रवृत्ति-भेदाशेष-शेषतैक-रति-रूप-नित्य-निरवद्य-निरतिशय-ज्ञान-क्रियैश्वर्याद्य्-अनन्त-गुण-गणापरिमित-सूरिभिर् अनवरताभिष्टुत-चरण-युगलः, वाङ्-मनसापरिच्छेद्य-स्वरूप-स्वभावः, स्वोचित-विविध-विचित्रानन्त-भोग्य-भोगोपकरण-भोग-स्थान-समृद्धानन्ताश्चर्यानन्त-महा-विभवानन्त-परिमाण- नित्य-निरवद्याक्षर-परम-व्योम-निलयः, विविध-विचित्रानन्त-भोग्य-भोक्तृ-वर्ग-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलः, परं ब्रह्म पुरुषोत्तओ नारायणो ब्रह्मादि-स्थावरान्तं निखिलं जगत् सृष्ट्वा स्वेन रूपेणावस्थितः, ब्रह्मादि-देव-मनुष्याणां ध्यानाराधनाद्य्-अगोचरोऽपार-कारुण्य-सौशील्य-वात्सल्यौदार्य-महोदधिः, स्वयम् एव रूपं तत्-तत्-सजातीय-संस्थानं स्व-स्वभावम् अजहद् एव कुर्वंस् तेषु तेषु लोकेष्व् अवतीर्यावतीर्य तैस् तैर् आराधितः, तत्-तद्-इष्टानुरूपं धर्मार्थ-काम-मोक्षाख्यं फलं प्रयच्छन्, भू-भारावतारणापदेशेनास्मद्-आदीनाम् अपि संसार-दुःख-शमनाय समाश्रयणीयत्वायावतीर्योर्व्यां सकल-मनुज-नयन-विषयतां गतः, परावर-निखिल-जन-मनो-नयन-हारि-दिव्य-चेष्टितानि कुर्वन्, पूतना-शकट-यमलार्जुनारिष्ट-प्रलम्ब-धेनुक-कालिय-केशि-कुवलयापीड-चाणूर-मुष्टिक-तोसल-कंसादीन् निहत्य अनवधिक-दया-सौहार्दानुराग-गर्भावलोकनालापामृतैर् विश्वम् आप्याययन्, निरतिशय-सौन्दर्य-सौशील्यादि-गुणाविष्कारेणाक्रूर-मालाकारादीन् परम-भागवतान् कृत्वा, पाण्डु-तनय-युद्ध-प्रोत्साहन-व्याजेन परम-पुरुषार्थ-लक्षण-मोक्ष-साधनतया वेदान्तोदितं स्व-विषयं ज्ञान-कर्मानुगृहीतं भक्ति-योगम् अवतारयामास।
Link copiedतत्र पाण्डवानां करुणां च युद्धे प्रारब्धे स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगद्-उपकृति-मर्त्य आश्रितवात्स्यल-विवशः पार्थं रथिनम् आत्मानं च सारथिं सर्व-लोक-साक्षिकं चकार। एवम् अर्जुनस्योत्कर्षं ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्रः सुयोधन-विजय-बुभुत्सया सञ्जयं पप्रच्छ---
Link copiedधर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः।
Link copiedमामकाः पाण्डवाश् चैव किम् अकुर्वत सञ्जय॥१॥
Link copiedसञ्जय उवाच
Link copiedदृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा।
Link copiedआचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत्॥२॥
Link copiedपश्यैतां पाण्डु-पुत्राणाम् आचार्य महतीं चमूम्।
Link copiedव्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता॥३॥
Link copiedअत्र शूरा महेष्वासा भीमार्जुन-समा युधि।
Link copiedयुयुधानो विराटश् च द्रुपदश् च महारथः॥४॥
Link copiedधृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान्।
Link copiedपुरुजित् कुन्तिभोजश् च शैब्यश् च नर-पुङ्गवः॥५॥
Link copiedयुधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान्।
Link copiedसौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः॥६॥
Link copiedअस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम।
Link copiedनायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते॥७॥
Link copiedभवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्जयः।
Link copiedअश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः॥८॥
Link copiedअन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः।
Link copiedनाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः॥९॥
Link copiedअपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम्।
Link copiedपर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम्॥१०॥
Link copiedअयनेषु च सर्वेषु यथा-भागम् अवस्थिताः।
Link copiedभीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि॥११॥
Link copiedदुर्योधनः स्वयम् एव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्म-विजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्-विजये चापर्याप्तताम् आचार्याय निवेद्य, अन्तर् विषण्णोऽभवत्॥१।२-११॥
Link copiedतस्य सञ्जनयन् हर्षं कुरु-वृद्धः पितामहः।
Link copiedसिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥१२॥
Link copiedततः शङ्खाश् च भेर्यश् च पणवानक-गोमुखाः।
Link copiedसहसैवाभ्यहन्यन्त स शब्दस् तुमुलोऽभवत्॥१३॥
Link copiedतस्य विषादम् आलोक्य भीष्मस् तस्य हर्षं जनयितुं सिंह-नादं शङ्खाध्मानं च कृत्वा शङ्ख-भेरी-निनादैश् च विजयाभिशंसिनं घोषं चाकरयत्॥१।१२-१३॥
Link copiedततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ।
Link copiedमाधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः॥१४॥
Link copiedततस् तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थ-सारथी रथी च पाण्डु-तनयस् त्रैलोक्य-विजयोपकरण-भूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्-पाञ्चजन्य-देवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः॥१।१४॥
Link copiedपाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
Link copiedपौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृकोदरः॥१५॥
Link copiedअनन्त-विजयं राजा कुन्ती-पुत्रो युधिष्ठिरः।
Link copiedनकुलः सहदेवश् च सुघोष-मणिपुष्पकौ॥१६॥
Link copiedकाश्यश् च परमेष्वासः शिखण्डी च महा-रथः।
Link copiedधृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः॥१७॥
Link copiedद्रुपदो द्रौपदेयाश् च सर्वशः पृथिवी-पते।
Link copiedसौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्॥१८॥
Link copiedस घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
Link copiedनभश् च पृथिवीं चैव तुमुलो व्यनुनादयन्॥१९॥
Link copiedततो युधिष्ठिरो वृकोदरादयश् च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मौः। स घोषो दुर्योधन-प्रमौखानां सर्वेषाम् एव भवत्-पुत्राणां हृदयानि बिभेद। अदयैव नष्टं कुरूणां बलम् इति धार्तराष्ट्रा मेनिरे। एवं तद्-विजयाभिकङ्क्षिणे धृतराष्ट्राय सञ्जयोऽकथयत्॥१।१५-१।१९॥
Link copiedअथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः।
Link copiedप्रवृत्ते शस्त्र-सम्पाते धनुर् उद्यम्य पाण्डवः॥२०॥
Link copiedहृषीकेशं तदा वाक्यम् इदम् आह मही-पते।
Link copiedसेनयोर् उभयोर् मध्ये रथं स्थापय मेऽच्युत॥२१॥
Link copiedयावद् एतान् निरीक्षेऽहं योद्धु-कामान् अवस्थितान्।
Link copiedकैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे॥२२॥
Link copiedयोत्स्यमानान् अवेक्षेऽहं य एतेऽत्र समागताः।
Link copiedधार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः॥२३॥
Link copiedएवम् उक्तो हृषीकेशो गुडाकेशेन भारत।
Link copiedसेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम्॥२४॥
Link copiedभीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम्।
Link copiedउवाच पार्थ पश्यैतान् समवेतान् कुरून् इति॥२५॥
Link copiedस च तेन चोदितस् तत्-क्षणाद् एव भीष्म-द्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथा चोदितम् अकरोत्। ईदृशी भवदीयानां विजय-स्थितिर् इति चावोचत्॥१।२५॥
Link copiedतत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान्।
Link copiedआचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा॥२६॥
Link copiedस तु पार्थो महा-मनाः परम-कारुणिको दीर्घ-बन्धुः परम-धार्मिकः स-भ्रातृको भवद्भिः अतिघोरैर् मारणैर् जतु-गृह-दाहादिभिर् असकृद्-वञ्चितोऽपि परम-पुरुष-सहायोऽपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धु-स्नेहेन परया कृपया धर्माधर्म-भयेन चातिमात्र-स्विन्न-सर्व-गात्रः॥१।२६॥
Link copiedश्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि।
Link copiedतान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान्॥२७॥
Link copiedकृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत्।
Link copiedदृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्॥२८॥
Link copiedसीदन्ति मम गात्राणि मुखं च परिशुष्यति।
Link copiedवेपथुश् च शरीरे मे रोमहर्षश् च जायते॥२९॥
Link copiedगाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते।
Link copiedन च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः॥३०॥
Link copiedनिमित्तानि च पश्यामि विपरीतानि केशव।
Link copiedन च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहवे॥३१॥
Link copiedन काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।
Link copiedकिं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा॥३२॥
Link copiedयेषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।
Link copiedत इमेऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च॥३३॥
Link copiedआचार्याः पितरः पुत्रास् तथैव च पितामहाः।
Link copiedमातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस् तथा॥३४॥
Link copiedएतान् न हन्तुम् इच्छामि घ्नतोऽपि मधुसूदन।
Link copiedअपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते॥३५॥
Link copiedनिहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन।
Link copiedपापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः॥३६॥
Link copiedतस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्व-बान्धवान्।
Link copiedस्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥३७॥
Link copiedयद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः।
Link copiedकुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम्॥३८॥
Link copiedकथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम्।
Link copiedकुल-क्षय-कृतं दोषं प्रपश्यद्भिर् जनार्दन॥३९॥
Link copiedकुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः।
Link copiedधर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्य् उत॥४०॥
Link copiedअधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः।
Link copiedस्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः॥४१॥
Link copiedसङ्करो नरकायैव कुल-घ्नानां कुलस्य च।
Link copiedपतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः॥४२॥
Link copiedदोषैर् एतैः कुल-घ्नानां वर्ण-सङ्कर-कारकैः।
Link copiedउत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः॥४३॥
Link copiedउत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन।
Link copiedनरके नियतं वासो भवतीत्य् अनुशुश्रुम॥४४॥
Link copiedअहो बत महत् पापं कर्तुं व्यवसिता वयम्।
Link copiedयद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः॥४५॥
Link copiedयदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः।
Link copiedधार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत्॥४६॥
Link copiedएवम् उक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत्।
Link copiedविसृज्य सशरं चापं शोक-संविग्न-मानसः॥४७॥
Link copiedसर्वथाहं न योत्स्यामीत्य् उक्त्वा बन्धु-विश्लेष-जनित-शोक-संविग्न-मानसः पार्थः स-शरं चापं विसृज्य रथोपस्थ उपाविशत्॥१।४७॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये प्रथमोऽध्यायः॥१॥
Link copiedఉపోద్ఘాటః
Link copiedయత్-పదామ్భోరుహ-ధ్యాన-విధ్వస్తాశేష-కల్మషః।
Link copiedవస్తుతామ్ ఉపయాతోఽహం యామునేయం నమామి తమ్॥
Link copiedశ్రియః పతిర్ నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైక-తానః స్వేతర-సమస్త-వస్తు-విలక్షణానన్త-జ్ఞానానన్దైక-స్వరూపః, స్వాభావికానవధికాతిశయ-జ్ఞాన-బలైశ్వర్య-వీర్య-శక్తి-తేజః-ప్రభృత్య్-అసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణ-మహోదధిః, స్వాభిమతానురూపైక-రూపాచిన్త్య-దివ్యాద్భుత-నిత్య-నిరవద్య-నిరతిశయ్జ్జ్వల్య-సౌగన్ధ్య-సౌన్దర్య-సౌకుమార్య-లావణ్య-యౌవనాద్య్-అనన్త-గుణ-నిధిర్ దివ్య-రూపః, స్వోచిత-వివిధ-విచిత్రానన్తాశ్చర్య-నిత్య-నిరవద్యాపరిమిత-దివ్య-భూషణః, స్వానురూపాసఙ్ఖ్యేయాచిన్త్య-శక్తి-నిత్య-నిరవద్య-నిరతిశయ-కల్యాణ-దివ్యాయుధః, స్వాభిమతానురూప-నిత్య-నిరవద్య-స్వరూప-రూప-గుణ-విభవైశ్వర్య-శీలాద్య్-అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణ-శ్రీ-వల్లభః, స్వ-సఙ్కల్పానువిధాయి-స్వరూప-స్థితి-ప్రవృత్తి-భేదాశేష-శేషతైక-రతి-రూప-నిత్య-నిరవద్య-నిరతిశయ-జ్ఞాన-క్రియైశ్వర్యాద్య్-అనన్త-గుణ-గణాపరిమిత-సూరిభిర్ అనవరతాభిష్టుత-చరణ-యుగలః, వాఙ్-మనసాపరిచ్ఛేద్య-స్వరూప-స్వభావః, స్వోచిత-వివిధ-విచిత్రానన్త-భోగ్య-భోగోపకరణ-భోగ-స్థాన-సమృద్ధానన్తాశ్చర్యానన్త-మహా-విభవానన్త-పరిమాణ- నిత్య-నిరవద్యాక్షర-పరమ-వ్యోమ-నిలయః, వివిధ-విచిత్రానన్త-భోగ్య-భోక్తృ-వర్గ-పరిపూర్ణ-నిఖిల-జగద్-ఉదయ-విభవ-లయ-లీలః, పరం బ్రహ్మ పురుషోత్తఓ నారాయణో బ్రహ్మాది-స్థావరాన్తం నిఖిలం జగత్ సృష్ట్వా స్వేన రూపేణావస్థితః, బ్రహ్మాది-దేవ-మనుష్యాణాం ధ్యానారాధనాద్య్-అగోచరోఽపార-కారుణ్య-సౌశీల్య-వాత్సల్యౌదార్య-మహోదధిః, స్వయమ్ ఏవ రూపం తత్-తత్-సజాతీయ-సంస్థానం స్వ-స్వభావమ్ అజహద్ ఏవ కుర్వంస్ తేషు తేషు లోకేష్వ్ అవతీర్యావతీర్య తైస్ తైర్ ఆరాధితః, తత్-తద్-ఇష్టానురూపం ధర్మార్థ-కామ-మోక్షాఖ్యం ఫలం ప్రయచ్ఛన్, భూ-భారావతారణాపదేశేనాస్మద్-ఆదీనామ్ అపి సంసార-దుఃఖ-శమనాయ సమాశ్రయణీయత్వాయావతీర్యోర్వ్యాం సకల-మనుజ-నయన-విషయతాం గతః, పరావర-నిఖిల-జన-మనో-నయన-హారి-దివ్య-చేష్టితాని కుర్వన్, పూతనా-శకట-యమలార్జునారిష్ట-ప్రలమ్బ-ధేనుక-కాలియ-కేశి-కువలయాపీడ-చాణూర-ముష్టిక-తోసల-కంసాదీన్ నిహత్య అనవధిక-దయా-సౌహార్దానురాగ-గర్భావలోకనాలాపామృతైర్ విశ్వమ్ ఆప్యాయయన్, నిరతిశయ-సౌన్దర్య-సౌశీల్యాది-గుణావిష్కారేణాక్రూర-మాలాకారాదీన్ పరమ-భాగవతాన్ కృత్వా, పాణ్డు-తనయ-యుద్ధ-ప్రోత్సాహన-వ్యాజేన పరమ-పురుషార్థ-లక్షణ-మోక్ష-సాధనతయా వేదాన్తోదితం స్వ-విషయం జ్ఞాన-కర్మానుగృహీతం భక్తి-యోగమ్ అవతారయామాస।
Link copiedతత్ర పాణ్డవానాం కరుణాం చ యుద్ధే ప్రారబ్ధే స భగవాన్ పురుషోత్తమః సర్వేశ్వరేశ్వరో జగద్-ఉపకృతి-మర్త్య ఆశ్రితవాత్స్యల-వివశః పార్థం రథినమ్ ఆత్మానం చ సారథిం సర్వ-లోక-సాక్షికం చకార। ఏవమ్ అర్జునస్యోత్కర్షం జ్ఞాత్వాపి సర్వాత్మనాన్ధో ధృతరాష్ట్రః సుయోధన-విజయ-బుభుత్సయా సఞ్జయం పప్రచ్ఛ---
Link copiedధర్మ-క్షేత్రే కురు-క్షేత్రే సమవేతా యుయుత్సవః।
Link copiedమామకాః పాణ్డవాశ్ చైవ కిమ్ అకుర్వత సఞ్జయ॥౧॥
Link copiedసఞ్జయ ఉవాచ
Link copiedదృష్ట్వా తు పాణ్డవానీకం వ్యూఢం దుర్యోధనస్ తదా।
Link copiedఆచార్యమ్ ఉపసఙ్గమ్య రాజా వచనమ్ అబ్రవీత్॥౨॥
Link copiedపశ్యైతాం పాణ్డు-పుత్రాణామ్ ఆచార్య మహతీం చమూమ్।
Link copiedవ్యూఢాం ద్రుపద-పుత్రేణ తవ శిష్యేణ ధీమతా॥౩॥
Link copiedఅత్ర శూరా మహేష్వాసా భీమార్జున-సమా యుధి।
Link copiedయుయుధానో విరాటశ్ చ ద్రుపదశ్ చ మహారథః॥౪॥
Link copiedధృష్టకేతుశ్ చేకితానః కాశిరాజశ్ చ వీర్యవాన్।
Link copiedపురుజిత్ కున్తిభోజశ్ చ శైబ్యశ్ చ నర-పుఙ్గవః॥౫॥
Link copiedయుధామన్యుశ్ చ విక్రాన్త ఉత్తమౌజాశ్ చ వీర్యవాన్।
Link copiedసౌభద్రో ద్రౌపదేయాశ్ చ సర్వ ఏవ మహా-రథాః॥౬॥
Link copiedఅస్మాకం తు విశిష్టా యే తాన్ నిబోధ ద్విజోత్తమ।
Link copiedనాయకా మమ సైన్యస్య సంజ్ఞార్థం తాన్ బ్రవీమి తే॥౭॥
Link copiedభవాన్ భీష్మశ్ చ కర్ణశ్ చ కృపశ్ చ సమితిఞ్జయః।
Link copiedఅశ్వత్థామా వికర్ణశ్ చ సౌమదత్తిర్ జయద్రథః॥౮॥
Link copiedఅన్యే చ బహవః శూరా మద్-అర్థే త్యక్త-జీవితాః।
Link copiedనానా-శస్త్ర-ప్రహరణాః సర్వే యుద్ధ-విశారదాః॥౯॥
Link copiedఅపర్యాప్తం తద్ అస్మాకం బలం భీష్మాభిరక్షితమ్।
Link copiedపర్యాప్తం త్వ్ ఇదమ్ ఏతేషాం బలం భీమాభిరక్షితమ్॥౧౦॥
Link copiedఅయనేషు చ సర్వేషు యథా-భాగమ్ అవస్థితాః।
Link copiedభీష్మమ్ ఏవాభిరక్షన్తు భవన్తః సర్వ ఏవ హి॥౧౧॥
Link copiedదుర్యోధనః స్వయమ్ ఏవ భీమాభిరక్షితం పాణ్డవానాం బలమ్, ఆత్మీయం చ భీష్మాభిరక్షితం బలమ్ అవలోక్య ఆత్మ-విజయే తస్య బలస్య పర్యాప్తతామ్ ఆత్మీయస్య బలస్య తద్-విజయే చాపర్యాప్తతామ్ ఆచార్యాయ నివేద్య, అన్తర్ విషణ్ణోఽభవత్॥౧।౨-౧౧॥
Link copiedతస్య సఞ్జనయన్ హర్షం కురు-వృద్ధః పితామహః।
Link copiedసింహ-నాదం వినద్యోచ్చైః శఙ్ఖం దధ్మౌ ప్రతాపవాన్॥౧౨॥
Link copiedతతః శఙ్ఖాశ్ చ భేర్యశ్ చ పణవానక-గోముఖాః।
Link copiedసహసైవాభ్యహన్యన్త స శబ్దస్ తుములోఽభవత్॥౧౩॥
Link copiedతస్య విషాదమ్ ఆలోక్య భీష్మస్ తస్య హర్షం జనయితుం సింహ-నాదం శఙ్ఖాధ్మానం చ కృత్వా శఙ్ఖ-భేరీ-నినాదైశ్ చ విజయాభిశంసినం ఘోషం చాకరయత్॥౧।౧౨-౧౩॥
Link copiedతతః శ్వేతైర్ హయైర్ యుక్తే మహతి స్యన్దనే స్థితౌ।
Link copiedమాధవః పాణ్డవశ్ చైవ దివ్యౌ శఙ్ఖౌ ప్రదధ్మతుః॥౧౪॥
Link copiedతతస్ తం ఘోషమ్ ఆకర్ణ్య సర్వేశ్వరేశ్వరః పార్థ-సారథీ రథీ చ పాణ్డు-తనయస్ త్రైలోక్య-విజయోపకరణ-భూతే మహతి స్యన్దనే స్థితౌ త్రైలోక్యం కమ్పయన్తౌ శ్రీమత్-పాఞ్చజన్య-దేవదత్తౌ దివ్యౌ శఙ్ఖౌ ప్రదధ్మతుః॥౧।౧౪॥
Link copiedపాఞ్చజన్యం హృషీకేశో దేవదత్తం ధనఞ్జయః।
Link copiedపౌణ్డ్రం దధ్మౌ మహా-శఙ్ఖం భీమ-కర్మా వృకోదరః॥౧౫॥
Link copiedఅనన్త-విజయం రాజా కున్తీ-పుత్రో యుధిష్ఠిరః।
Link copiedనకులః సహదేవశ్ చ సుఘోష-మణిపుష్పకౌ॥౧౬॥
Link copiedకాశ్యశ్ చ పరమేష్వాసః శిఖణ్డీ చ మహా-రథః।
Link copiedధృష్టద్యుమ్నో విరాటశ్ చ సాత్యకిశ్ చాపరాజితః॥౧౭॥
Link copiedద్రుపదో ద్రౌపదేయాశ్ చ సర్వశః పృథివీ-పతే।
Link copiedసౌభద్రశ్ చ మహాబాహుః శఙ్ఖాన్ దధ్ముః పృథక్ పృథక్॥౧౮॥
Link copiedస ఘోషో ధార్తరాష్ట్రాణాం హృదయాని వ్యదారయత్।
Link copiedనభశ్ చ పృథివీం చైవ తుములో వ్యనునాదయన్॥౧౯॥
Link copiedతతో యుధిష్ఠిరో వృకోదరాదయశ్ చ స్వకీయాన్ శఙ్ఖాన్ పృథక్ పృథక్ ప్రదధ్మౌః। స ఘోషో దుర్యోధన-ప్రమౌఖానాం సర్వేషామ్ ఏవ భవత్-పుత్రాణాం హృదయాని బిభేద। అదయైవ నష్టం కురూణాం బలమ్ ఇతి ధార్తరాష్ట్రా మేనిరే। ఏవం తద్-విజయాభికఙ్క్షిణే ధృతరాష్ట్రాయ సఞ్జయోఽకథయత్॥౧।౧౫-౧।౧౯॥
Link copiedఅథ వ్యవస్థితాన్ దృష్ట్వా ధార్తరాష్ట్రాన్ కపి-ధ్వజః।
Link copiedప్రవృత్తే శస్త్ర-సమ్పాతే ధనుర్ ఉద్యమ్య పాణ్డవః॥౨౦॥
Link copiedహృషీకేశం తదా వాక్యమ్ ఇదమ్ ఆహ మహీ-పతే।
Link copiedసేనయోర్ ఉభయోర్ మధ్యే రథం స్థాపయ మేఽచ్యుత॥౨౧॥
Link copiedయావద్ ఏతాన్ నిరీక్షేఽహం యోద్ధు-కామాన్ అవస్థితాన్।
Link copiedకైర్ మయా సహ యోద్ధవ్యమ్ అస్మిన్ రణ-సముద్యమే॥౨౨॥
Link copiedయోత్స్యమానాన్ అవేక్షేఽహం య ఏతేఽత్ర సమాగతాః।
Link copiedధార్తరాష్ట్రస్య దుర్బుద్ధేర్ యుద్ధే ప్రియ-చికీర్షవః॥౨౩॥
Link copiedఏవమ్ ఉక్తో హృషీకేశో గుడాకేశేన భారత।
Link copiedసేనయోర్ ఉభయోర్ మధ్యే స్థాపయిత్వా రథోత్తమమ్॥౨౪॥
Link copiedభీష్మ-ద్రోణ-ప్రముఖతః సర్వేషాం చ మహీక్షితామ్।
Link copiedఉవాచ పార్థ పశ్యైతాన్ సమవేతాన్ కురూన్ ఇతి॥౨౫॥
Link copiedస చ తేన చోదితస్ తత్-క్షణాద్ ఏవ భీష్మ-ద్రోణాదీనాం సర్వేషామ్ ఏవ మహీక్షితాం పశ్యతాం యథా చోదితమ్ అకరోత్। ఈదృశీ భవదీయానాం విజయ-స్థితిర్ ఇతి చావోచత్॥౧।౨౫॥
Link copiedతత్రాపశ్యత్ స్థితాన్ పార్థః పితౄన్ అథ పితామహాన్।
Link copiedఆచార్యాన్ మాతులాన్ భ్రాతౄన్ పుత్రాన్ పౌత్రాన్ సఖీంస్ తథా॥౨౬॥
Link copiedస తు పార్థో మహా-మనాః పరమ-కారుణికో దీర్ఘ-బన్ధుః పరమ-ధార్మికః స-భ్రాతృకో భవద్భిః అతిఘోరైర్ మారణైర్ జతు-గృహ-దాహాదిభిర్ అసకృద్-వఞ్చితోఽపి పరమ-పురుష-సహాయోఽపి హనిష్యమాణాన్ భవదీయాన్ విలోక్య బన్ధు-స్నేహేన పరయా కృపయా ధర్మాధర్మ-భయేన చాతిమాత్ర-స్విన్న-సర్వ-గాత్రః॥౧।౨౬॥
Link copiedశ్వశురాన్ సుహృదశ్ చైవ సేనయోర్ ఉభయోర్ అపి।
Link copiedతాన్ సమీక్ష్య స కౌన్తేయః సర్వాన్ బన్ధూన్ అవస్థితాన్॥౨౭॥
Link copiedకృపయా పరయావిష్టో విషీదన్న్ ఇదమ్ అబ్రవీత్।
Link copiedదృష్ట్వేమం స్వజనం కృష్ణ యుయుత్సుం సముపస్థితమ్॥౨౮॥
Link copiedసీదన్తి మమ గాత్రాణి ముఖం చ పరిశుష్యతి।
Link copiedవేపథుశ్ చ శరీరే మే రోమహర్షశ్ చ జాయతే॥౨౯॥
Link copiedగాణ్డీవం స్రంసతే హస్తాత్ త్వక్ చైవ పరిదహ్యతే।
Link copiedన చ శక్నోమ్య్ అవస్థాతుం భ్రమతీవ చ మే మనః॥౩౦॥
Link copiedనిమిత్తాని చ పశ్యామి విపరీతాని కేశవ।
Link copiedన చ శ్రేయోఽనుపశ్యామి హత్వా స్వజనమ్ ఆహవే॥౩౧॥
Link copiedన కాఙ్క్షే విజయం కృష్ణ న చ రాజ్యం సుఖాని చ।
Link copiedకిం నో రాజ్యేన గోవిన్ద కిం భోగైర్ జీవితేన వా॥౩౨॥
Link copiedయేషామ్ అర్థే కాఙ్క్షితం నో రాజ్యం భోగాః సుఖాని చ।
Link copiedత ఇమేఽవస్థితా యుద్ధే ప్రాణాంస్ త్యక్త్వా ధనాని చ॥౩౩॥
Link copiedఆచార్యాః పితరః పుత్రాస్ తథైవ చ పితామహాః।
Link copiedమాతులాః శ్వశురాః పౌత్రాః శ్యాలాః సమ్బన్ధినస్ తథా॥౩౪॥
Link copiedఏతాన్ న హన్తుమ్ ఇచ్ఛామి ఘ్నతోఽపి మధుసూదన।
Link copiedఅపి త్రైలోక్య-రాజ్యస్య హేతోః కిం ను మహీ-కృతే॥౩౫॥
Link copiedనిహత్య ధార్తరాష్ట్రాన్ నః కా ప్రీతిః స్యాజ్ జనార్దన।
Link copiedపాపమ్ ఏవాశ్రయేద్ అస్మాన్ హత్వైతాన్ ఆతతాయినః॥౩౬॥
Link copiedతస్మాన్ నార్హా వయం హన్తుం ధార్తరాష్ట్రాన్ స్వ-బాన్ధవాన్।
Link copiedస్వజనం హి కథం హత్వా సుఖినః స్యామ మాధవ॥౩౭॥
Link copiedయద్య్ అప్య్ ఏతే న పశ్యన్తి లోభోపహత-చేతసః।
Link copiedకుల-క్షయ-కృతం దోషం మిత్ర-ద్రోహే చ పాతకమ్॥౩౮॥
Link copiedకథం న జ్ఞేయమ్ అస్మాభిః పాపాద్ అస్మాన్ నివర్తితుమ్।
Link copiedకుల-క్షయ-కృతం దోషం ప్రపశ్యద్భిర్ జనార్దన॥౩౯॥
Link copiedకుల-క్షయే ప్రణశ్యన్తి కుల-ధర్మాః సనాతనాః।
Link copiedధర్మే నష్టే కులం కృత్స్నమ్ అధర్మోఽభిభవత్య్ ఉత॥౪౦॥
Link copiedఅధర్మాభిభవాత్ కృష్ణ ప్రదుష్యన్తి కుల-స్త్రియః।
Link copiedస్త్రీషు దుష్టాసు వార్ష్ణేయ జాయతే వర్ణ-సఙ్కరః॥౪౧॥
Link copiedసఙ్కరో నరకాయైవ కుల-ఘ్నానాం కులస్య చ।
Link copiedపతన్తి పితరో హ్య్ ఏషాం లుప్త-పిణ్డోదక-క్రియాః॥౪౨॥
Link copiedదోషైర్ ఏతైః కుల-ఘ్నానాం వర్ణ-సఙ్కర-కారకైః।
Link copiedఉత్సాద్యన్తే జాతి-ధర్మాః కుల-ధర్మాశ్ చ శాశ్వతాః॥౪౩॥
Link copiedఉత్సన్న-కుల-ధర్మాణాం మనుష్యాణాం జనార్దన।
Link copiedనరకే నియతం వాసో భవతీత్య్ అనుశుశ్రుమ॥౪౪॥
Link copiedఅహో బత మహత్ పాపం కర్తుం వ్యవసితా వయమ్।
Link copiedయద్ రాజ్య-సుఖ-లోభేన హన్తుం స్వజనమ్ ఉద్యతాః॥౪౫॥
Link copiedయది మామ్ అప్రతీకారమ్ అశస్త్రం శస్త్ర-పాణయః।
Link copiedధార్తరాష్ట్రా రణే హన్యుస్ తన్ మే క్షేమతరం భవేత్॥౪౬॥
Link copiedఏవమ్ ఉక్త్వార్జునః సఙ్ఖ్యే రథోపస్థ ఉపావిశత్।
Link copiedవిసృజ్య సశరం చాపం శోక-సంవిగ్న-మానసః॥౪౭॥
Link copiedసర్వథాహం న యోత్స్యామీత్య్ ఉక్త్వా బన్ధు-విశ్లేష-జనిత-శోక-సంవిగ్న-మానసః పార్థః స-శరం చాపం విసృజ్య రథోపస్థ ఉపావిశత్॥౧।౪౭॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే ప్రథమోఽధ్యాయః॥౧॥
Link copiedupo:dgha:tah
Link copiedyath pada:mbho:ruha dhya:na vidhvastha:se:sha kalmashah|
Link copiedvasthutha:m upaya:tho:'ham ya:mune:yam nama:mi tham||
Link copiedsriyah pathir nikhila he:ya prathyani:ka kalya:naika tha:nah sve:thara samastha vasthu vilakshana:nantha jna:na:nandaika svaru:pah, sva:bha:vika:navadhika:thisaya jna:na balaisvarya vi:rya sakthi the:jah prabhruthy asankhye:ya kalya:na guna gana maho:dadhih, sva:bhimatha:nuru:paika ru:pa:chinthya divya:dbhutha nithya niravadya nirathisayjjvalya saugandhya saundarya saukuma:rya la:vanya yauvana:dy anantha guna nidhir divya ru:pah, svo:chitha vividha vichithra:nantha:scharya nithya niravadya:parimitha divya bhu:shanah, sva:nuru:pa:sankhye:ya:chinthya sakthi nithya niravadya nirathisaya kalya:na divya:yudhah, sva:bhimatha:nuru:pa nithya niravadya svaru:pa ru:pa guna vibhavaisvarya si:la:dy anavadhika:thisaya:sankhye:ya kalya:na guna gana sri: vallabhah, sva sankalpa:nuvidha:yi svaru:pa sthithi pravruththi bhe:da:se:sha se:shathaika rathi ru:pa nithya niravadya nirathisaya jna:na kriyaisvarya:dy anantha guna gana:parimitha su:ribhir anavaratha:bhishtutha charana yugalah, va:n manasa:parichchhe:dya svaru:pa svabha:vah, svo:chitha vividha vichithra:nantha bho:gya bho:go:pakarana bho:ga stha:na samruddha:nantha:scharya:nantha maha: vibhava:nantha parima:na- nithya niravadya:kshara parama vyo:ma nilayah, vividha vichithra:nantha bho:gya bho:kthru varga paripu:rna nikhila jagad udaya vibhava laya li:lah, param brahma purusho:ththao: na:ra:yano: brahma:di stha:vara:ntham nikhilam jagath srushtva: sve:na ru:pe:na:vasthithah, brahma:di de:va manushya:na:m dhya:na:ra:dhana:dy ago:charo:'pa:ra ka:runya sausi:lya va:thsalyauda:rya maho:dadhih, svayam e:va ru:pam thath thath saja:thi:ya samstha:nam sva svabha:vam ajahad e:va kurvams the:shu the:shu lo:ke:shv avathi:rya:vathi:rya thais thair a:ra:dhithah, thath thad ishta:nuru:pam dharma:rtha ka:ma mo:ksha:khyam phalam prayachchhan, bhu: bha:ra:vatha:rana:pade:se:na:smad a:di:na:m api samsa:ra duhkha samana:ya sama:srayani:yathva:ya:vathi:ryo:rvya:m sakala manuja nayana vishayatha:m gathah, para:vara nikhila jana mano: nayana ha:ri divya che:shtitha:ni kurvan, pu:thana: sakata yamala:rjuna:rishta pralamba dhe:nuka ka:liya ke:si kuvalaya:pi:da cha:nu:ra mushtika tho:sala kamsa:di:n nihathya anavadhika daya: sauha:rda:nura:ga garbha:valo:kana:la:pa:mruthair visvam a:pya:yayan, nirathisaya saundarya sausi:lya:di guna:vishka:re:na:kru:ra ma:la:ka:ra:di:n parama bha:gavatha:n kruthva:, pa:ndu thanaya yuddha pro:thsa:hana vya:je:na parama purusha:rtha lakshana mo:ksha sa:dhanathaya: ve:da:ntho:ditham sva vishayam jna:na karma:nugruhi:tham bhakthi yo:gam avatha:raya:ma:sa|
Link copiedthathra pa:ndava:na:m karuna:m cha yuddhe: pra:rabdhe: sa bhagava:n purusho:ththamah sarve:svare:svaro: jagad upakruthi marthya a:srithava:thsyala vivasah pa:rtham rathinam a:thma:nam cha sa:rathim sarva lo:ka sa:kshikam chaka:ra| e:vam arjunasyo:thkarsham jna:thva:pi sarva:thmana:ndho: dhruthara:shtrah suyo:dhana vijaya bubhuthsaya: sanjayam paprachchha---
Link copieddharma kshe:thre: kuru kshe:thre: samave:tha: yuyuthsavah|
Link copiedma:maka:h pa:ndava:s chaiva kim akurvatha sanjaya||1||
Link copiedsanjaya uva:cha
Link copieddrushtva: thu pa:ndava:ni:kam vyu:dham duryo:dhanas thada:|
Link copieda:cha:ryam upasangamya ra:ja: vachanam abravi:th||2||
Link copiedpasyaitha:m pa:ndu puthra:na:m a:cha:rya mahathi:m chamu:m|
Link copiedvyu:dha:m drupada puthre:na thava sishye:na dhi:matha:||3||
Link copiedathra su:ra: mahe:shva:sa: bhi:ma:rjuna sama: yudhi|
Link copiedyuyudha:no: vira:tas cha drupadas cha maha:rathah||4||
Link copieddhrushtake:thus che:kitha:nah ka:sira:jas cha vi:ryava:n|
Link copiedpurujith kunthibho:jas cha saibyas cha nara pungavah||5||
Link copiedyudha:manyus cha vikra:ntha uththamauja:s cha vi:ryava:n|
Link copiedsaubhadro: draupade:ya:s cha sarva e:va maha: ratha:h||6||
Link copiedasma:kam thu visishta: ye: tha:n nibo:dha dvijo:ththama|
Link copiedna:yaka: mama sainyasya samjna:rtham tha:n bravi:mi the:||7||
Link copiedbhava:n bhi:shmas cha karnas cha krupas cha samithinjayah|
Link copiedasvaththa:ma: vikarnas cha saumadaththir jayadrathah||8||
Link copiedanye: cha bahavah su:ra: mad arthe: thyaktha ji:vitha:h|
Link copiedna:na: sasthra praharana:h sarve: yuddha visa:rada:h||9||
Link copiedaparya:ptham thad asma:kam balam bhi:shma:bhirakshitham|
Link copiedparya:ptham thv idam e:the:sha:m balam bhi:ma:bhirakshitham||10||
Link copiedayane:shu cha sarve:shu yatha: bha:gam avasthitha:h|
Link copiedbhi:shmam e:va:bhirakshanthu bhavanthah sarva e:va hi||11||
Link copiedduryo:dhanah svayam e:va bhi:ma:bhirakshitham pa:ndava:na:m balam, a:thmi:yam cha bhi:shma:bhirakshitham balam avalo:kya a:thma vijaye: thasya balasya parya:pthatha:m a:thmi:yasya balasya thad vijaye: cha:parya:pthatha:m a:cha:rya:ya nive:dya, anthar vishanno:'bhavath||1.2-11||
Link copiedthasya sanjanayan harsham kuru vruddhah pitha:mahah|
Link copiedsimha na:dam vinadyo:chchaih sankham dadhmau pratha:pava:n||12||
Link copiedthathah sankha:s cha bhe:ryas cha panava:naka go:mukha:h|
Link copiedsahasaiva:bhyahanyantha sa sabdas thumulo:'bhavath||13||
Link copiedthasya visha:dam a:lo:kya bhi:shmas thasya harsham janayithum simha na:dam sankha:dhma:nam cha kruthva: sankha bhe:ri: nina:dais cha vijaya:bhisamsinam gho:sham cha:karayath||1.12-13||
Link copiedthathah sve:thair hayair yukthe: mahathi syandane: sthithau|
Link copiedma:dhavah pa:ndavas chaiva divyau sankhau pradadhmathuh||14||
Link copiedthathas tham gho:sham a:karnya sarve:svare:svarah pa:rtha sa:rathi: rathi: cha pa:ndu thanayas thrailo:kya vijayo:pakarana bhu:the: mahathi syandane: sthithau thrailo:kyam kampayanthau sri:math pa:nchajanya de:vadaththau divyau sankhau pradadhmathuh||1.14||
Link copiedpa:nchajanyam hrushi:ke:so: de:vadaththam dhananjayah|
Link copiedpaundram dadhmau maha: sankham bhi:ma karma: vruko:darah||15||
Link copiedanantha vijayam ra:ja: kunthi: puthro: yudhishthirah|
Link copiednakulah sahade:vas cha sugho:sha manipushpakau||16||
Link copiedka:syas cha parame:shva:sah sikhandi: cha maha: rathah|
Link copieddhrushtadyumno: vira:tas cha sa:thyakis cha:para:jithah||17||
Link copieddrupado: draupade:ya:s cha sarvasah pruthivi: pathe:|
Link copiedsaubhadras cha maha:ba:huh sankha:n dadhmuh pruthak pruthak||18||
Link copiedsa gho:sho: dha:rthara:shtra:na:m hrudaya:ni vyada:rayath|
Link copiednabhas cha pruthivi:m chaiva thumulo: vyanuna:dayan||19||
Link copiedthatho: yudhishthiro: vruko:dara:dayas cha svaki:ya:n sankha:n pruthak pruthak pradadhmauh| sa gho:sho: duryo:dhana pramaukha:na:m sarve:sha:m e:va bhavath puthra:na:m hrudaya:ni bibhe:da| adayaiva nashtam kuru:na:m balam ithi dha:rthara:shtra: me:nire:| e:vam thad vijaya:bhikankshine: dhruthara:shtra:ya sanjayo:'kathayath||1.15-1.19||
Link copiedatha vyavasthitha:n drushtva: dha:rthara:shtra:n kapi dhvajah|
Link copiedpravruththe: sasthra sampa:the: dhanur udyamya pa:ndavah||20||
Link copiedhrushi:ke:sam thada: va:kyam idam a:ha mahi: pathe:|
Link copiedse:nayo:r ubhayo:r madhye: ratham stha:paya me:'chyutha||21||
Link copiedya:vad e:tha:n niri:kshe:'ham yo:ddhu ka:ma:n avasthitha:n|
Link copiedkair maya: saha yo:ddhavyam asmin rana samudyame:||22||
Link copiedyo:thsyama:na:n ave:kshe:'ham ya e:the:'thra sama:gatha:h|
Link copieddha:rthara:shtrasya durbuddhe:r yuddhe: priya chiki:rshavah||23||
Link copiede:vam uktho: hrushi:ke:so: guda:ke:se:na bha:ratha|
Link copiedse:nayo:r ubhayo:r madhye: stha:payithva: ratho:ththamam||24||
Link copiedbhi:shma dro:na pramukhathah sarve:sha:m cha mahi:kshitha:m|
Link copieduva:cha pa:rtha pasyaitha:n samave:tha:n kuru:n ithi||25||
Link copiedsa cha the:na cho:dithas thath kshana:d e:va bhi:shma dro:na:di:na:m sarve:sha:m e:va mahi:kshitha:m pasyatha:m yatha: cho:ditham akaro:th| i:drusi: bhavadi:ya:na:m vijaya sthithir ithi cha:vo:chath||1.25||
Link copiedthathra:pasyath sthitha:n pa:rthah pithru:n atha pitha:maha:n|
Link copieda:cha:rya:n ma:thula:n bhra:thru:n puthra:n pauthra:n sakhi:ms thatha:||26||
Link copiedsa thu pa:rtho: maha: mana:h parama ka:runiko: di:rgha bandhuh parama dha:rmikah sa bhra:thruko: bhavadbhih athigho:rair ma:ranair jathu gruha da:ha:dibhir asakrud vanchitho:'pi parama purusha saha:yo:'pi hanishyama:na:n bhavadi:ya:n vilo:kya bandhu sne:he:na paraya: krupaya: dharma:dharma bhaye:na cha:thima:thra svinna sarva ga:thrah||1.26||
Link copiedsvasura:n suhrudas chaiva se:nayo:r ubhayo:r api|
Link copiedtha:n sami:kshya sa kaunthe:yah sarva:n bandhu:n avasthitha:n||27||
Link copiedkrupaya: paraya:vishto: vishi:dann idam abravi:th|
Link copieddrushtve:mam svajanam krushna yuyuthsum samupasthitham||28||
Link copiedsi:danthi mama ga:thra:ni mukham cha parisushyathi|
Link copiedve:pathus cha sari:re: me: ro:maharshas cha ja:yathe:||29||
Link copiedga:ndi:vam sramsathe: hastha:th thvak chaiva paridahyathe:|
Link copiedna cha sakno:my avastha:thum bhramathi:va cha me: manah||30||
Link copiednimiththa:ni cha pasya:mi vipari:tha:ni ke:sava|
Link copiedna cha sre:yo:'nupasya:mi hathva: svajanam a:have:||31||
Link copiedna ka:nkshe: vijayam krushna na cha ra:jyam sukha:ni cha|
Link copiedkim no: ra:jye:na go:vinda kim bho:gair ji:vithe:na va:||32||
Link copiedye:sha:m arthe: ka:nkshitham no: ra:jyam bho:ga:h sukha:ni cha|
Link copiedtha ime:'vasthitha: yuddhe: pra:na:ms thyakthva: dhana:ni cha||33||
Link copieda:cha:rya:h pitharah puthra:s thathaiva cha pitha:maha:h|
Link copiedma:thula:h svasura:h pauthra:h sya:la:h sambandhinas thatha:||34||
Link copiede:tha:n na hanthum ichchha:mi ghnatho:'pi madhusu:dana|
Link copiedapi thrailo:kya ra:jyasya he:tho:h kim nu mahi: kruthe:||35||
Link copiednihathya dha:rthara:shtra:n nah ka: pri:thih sya:j jana:rdana|
Link copiedpa:pam e:va:sraye:d asma:n hathvaitha:n a:thatha:yinah||36||
Link copiedthasma:n na:rha: vayam hanthum dha:rthara:shtra:n sva ba:ndhava:n|
Link copiedsvajanam hi katham hathva: sukhinah sya:ma ma:dhava||37||
Link copiedyady apy e:the: na pasyanthi lo:bho:pahatha che:thasah|
Link copiedkula kshaya krutham do:sham mithra dro:he: cha pa:thakam||38||
Link copiedkatham na jne:yam asma:bhih pa:pa:d asma:n nivarthithum|
Link copiedkula kshaya krutham do:sham prapasyadbhir jana:rdana||39||
Link copiedkula kshaye: pranasyanthi kula dharma:h sana:thana:h|
Link copieddharme: nashte: kulam kruthsnam adharmo:'bhibhavathy utha||40||
Link copiedadharma:bhibhava:th krushna pradushyanthi kula sthriyah|
Link copiedsthri:shu dushta:su va:rshne:ya ja:yathe: varna sankarah||41||
Link copiedsankaro: naraka:yaiva kula ghna:na:m kulasya cha|
Link copiedpathanthi pitharo: hy e:sha:m luptha pindo:daka kriya:h||42||
Link copieddo:shair e:thaih kula ghna:na:m varna sankara ka:rakaih|
Link copieduthsa:dyanthe: ja:thi dharma:h kula dharma:s cha sa:svatha:h||43||
Link copieduthsanna kula dharma:na:m manushya:na:m jana:rdana|
Link copiednarake: niyatham va:so: bhavathi:thy anususruma||44||
Link copiedaho: batha mahath pa:pam karthum vyavasitha: vayam|
Link copiedyad ra:jya sukha lo:bhe:na hanthum svajanam udyatha:h||45||
Link copiedyadi ma:m aprathi:ka:ram asasthram sasthra pa:nayah|
Link copieddha:rthara:shtra: rane: hanyus than me: kshe:matharam bhave:th||46||
Link copiede:vam ukthva:rjunah sankhye: ratho:pastha upa:visath|
Link copiedvisrujya sasaram cha:pam so:ka samvigna ma:nasah||47||
Link copiedsarvatha:ham na yo:thsya:mi:thy ukthva: bandhu visle:sha janitha so:ka samvigna ma:nasah pa:rthah sa saram cha:pam visrujya ratho:pastha upa:visath||1.47||
Link copiedithi sri:mad ra:ma:nuja:cha:rya virachithe: gi:tha: bha:shye: prathamo:'dhya:yah||1||
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 1 — The Theme of Arjuna's Melancholy (in Sanskrit: Arjuna-visha:da-yoga)
The Bhagavad Gi:tha opens not with a teaching but with a collapse. On the field of Kurukshetra, between two armies drawn up for battle, the warrior Sri: Arjuna lets fall his bow and sits down in sorrow. His grief — triggered by the sight of kinsmen, teachers, and elders arrayed as enemies — is the occasion that calls forth the whole Gi:tha. Bhagavad Ramanuja treats this collapse as a spiritual crisis: Arjuna mistakes the body for the self, he confuses rightful duty with unrighteousness, and he takes refuge in a pity that looks noble but is in truth rooted in delusion.
Link copiedProem — Salutations and the purpose of the Gi:tha
Bhagavad Ramanuja opens his commentary by bowing at the feet of his own preceptor-lineage, beginning with the great Yamunacharya, whose summary verse gives the keynote of the entire chapter: "The Gi:tha was introduced to Partha who sought refuge, fearing right's wrong, by misplaced love and pity caught."
Link copiedThe invocatory verse placed at the head of the commentary addresses the devotee's heart directly: "To the feet of Blessed Ramanuja, do I resort as my Refuge — Bhagavad Ramanuja, Mercy's Ocean, who, from his love of the lotus-feet of Achyuta, regarded everything else as trivial." Achyuta — "He who does not abandon those who trust Him" — is itself a theological pledge: the Lord is the One who never forsakes the soul that has taken refuge.
Link copiedRamanuja then lays down a sublime meditation on the Lord of Sri:. Sri:man Na:ra:yana, consort of Sri: Lakshmi, is described as the sole Reservoir of all illustrious attributes and the antithesis of all evil (heya). He possesses jna:na (wisdom), a:nanda (bliss), bala (strength), aisvarya (sovereignty), vi:rya (constancy), sakthi (power), and tejas (lustre) — the six chief qualities. His divine form is a mine of effulgence, beauty, and eternal youth. He is adorned with transcendental ornaments and accoutred with divine weapons, ever attended by the Nitya-su:ris — the eternally free souls who sing His praise. He dwells in the imperishable firmament (akshara), and the whole universe is but His li:la: (sovereign play) in its three modes of projection, sustentation, and dissolution.
Link copiedThough the Lord, having created the cosmos from Brahma down to the immovable mineral kingdom, retired into His own Self — so that even to the meditations of Brahma and the devas He became incognizant — yet, moved by infinite mercy, He willed to assume bodies resembling those of His creatures. These are His avatha:ras, His descents. Never abandoning His essential divine nature, He enters our world to grant the four aspirations: dharma, artha, ka:ma, and moksha. The object of every incarnation is to relieve the earth of sin's burden and to make Himself accessible to people even of our sinful description.
Link copiedAs Sri: Krishna, He destroyed the demonic oppressors of society — Putana, Sakata, Yamala and Arjuna (the twin trees), Arishta, Pralamba, Dhenuka, Kaliya, Kesi, Kuvalayapida, Chanura, Mushtika, Thosala, Kamsa — and delighted the worlds with looks and language overflowing with the nectar of amity and love. Saints such as Akrura and Malakara became most godly — very saints — simply enraptured by His condescending deportment and presence.
Link copiedRamanuja's language here is deliberately theologically dense. The Lord has five aspects: para (transcendent), vyu:ha (emanatory), vibhava (incarnational), antharya:min (indweller), and archa:vatha:ra (the icon-presence at consecrated shrines). Incarnations as Sri: Rama and Sri: Krishna belong to the vibhava aspect. The su:ris who ever sing His praise correspond to what the Gnostic Christian tradition called the "Eternal Inheritances." His beloved Sri: — Sri: Lakshmi — is sradhdha: herself: the mediatrix by whom the soul approaches the Lord.
Link copiedUnder the pretext of persuading Sri: Arjuna to fight, Sri: Krishna now promulgates the doctrine of bhakti-yoga — the path of loving devotion which is the burden of all Vedanta teaching, led up to by jna:na (wisdom) and karma (works). Through bhakti, the Lord is revealed as the sole Object of love and also the Means by which devotees attain the climax of their ambition: moksha, final liberation from all conditioned existence. This is why, when Kauravas and Pandavas faced each other in war, Bhagavan — God of gods — appeared as the Charioteer of Sri: Arjuna, allowing Himself to be overpowered by love for His faithful dependent, so that the whole universe might witness His condescension.
Link copiedVerses 1–11 (The armies assemble; the conches sound)
Verse 1.1. Dhritarashtra said: "O Sanjaya! What did my people and the Pandavas do, assembled on the plains of Kurukshetra, the land of dharma, to carry on war?"
Link copiedThough blind both physically and spiritually, Dhritarashtra inquires anxiously about the fortunes of his son Duryodhana.
Link copiedVerse 1.2–11. Sanjaya narrates how Duryodhana, surveying the Pandava forces marshalled by Dhrishtadyumna, approaches his teacher Drona and points out the great heroes: Yuyudhana, Virata, Drupada, Dhrishtaketu, Chekitana, the king of Kasi, Purujit, Kunti-bhoja, Saibya, Uttamaujas, the son of Subhadra, and the sons of Draupadi. He then names his own commanders: Bhishma, Karna, Kripa, Asvatthama, Vikarna, and Saumadatti, asking them all to fortify Bhishma.
Link copiedDuryodhana's anxiety is visible. Perceiving this, Bhishma lets out a lion's roar and blows his conch, setting off a tumult of drums, trumpets, and cowhorns.
Link copiedVerses 12–19 (The divine conches answer)
Verse 1.14–19. Thereupon Sri: Krishna (Madhava) and Sri: Arjuna (Pandava), seated in their great war-chariot drawn by white horses, blow their divine conches. Hrishikesa sounds the Pa:nchajanya — made from the bones of the giant Pancajana of the ocean; Dhananjaya sounds the Devadatta; Bhima the Paundra; Yudhishthira the Anantavijaya; Nakula and Sahadeva the Sughosha and Manipushpaka. Kasya, Sikhandi, Dhrishtadyumna, Virata, Satyaki, Drupada, the Draupadeyas, and the son of Subhadra each blew their conches. The din rent the hearts of Dhritarashtra's men and filled earth and sky.
Link copiedRamanuja notes the theological weight: the Charioteer is no ordinary man but the Lord of all lords, the Treasury of wisdom, strength, lordliness, constancy, power, and lustre; Him, to whom the triple cosmos is but sport; Him, the Supreme Governor — who, out of condescending love for His faithful, took the role of Charioteer and stationed the car between the two armies at Sri: Arjuna's bidding.
Link copiedVerses 20–30 (Arjuna's request and his weakening)
Verse 1.20–25. Sri: Arjuna asks Hrishikesa to draw up the chariot between the two armies so that he may see those who stand ready to fight. Krishna complies and says: "See then, Partha, these Kurus assembled here."
Link copiedVerse 1.26–27. Sri: Arjuna sees there his fathers, grandfathers, teachers, maternal uncles, brothers, sons, grandsons, comrades, fathers-in-law, friends, and kinsmen arrayed in both armies.
Link copiedRamanuja pauses here on the full weight of this survey. Sri: Arjuna is no ordinary warrior observing a strange enemy; he is the intimate of every man on both sides. Every face he sees is the face of a relation. The Charioteer who has stationed the car between the armies has done so precisely that this recognition might dawn — and, with it, the crisis that will call forth the entire teaching of the Gi:tha.
Link copiedVerse 1.28–30. Overcome by compassion, Sri: Arjuna speaks in sorrow: "Beholding my own people standing to fight, O Krishna, my limbs quake, my mouth dries up, my frame quivers, my hair stands on end. The Gandiva bow slips from my hand; my skin burns; my legs totter; my head swims."
Link copiedVerses 31–46 (The lament: caste, ancestors, the web of consequence)
Verse 1.31–35. "Kesava, I perceive inauspicious omens; what good can come from slaughtering my own people? I desire no victory, no empire, no delights. What use, Govinda, is rule or enjoyment, or even life, when those for whom we would enjoy them stand risking their lives for this contest — teachers, sires, sons, grandsons, uncles, brothers-in-law, cousins? Madhusudana, I would rather be killed by them than kill them, even if the three worlds were my reward."
Link copiedVerse 1.36–38. "Janardana, what satisfaction comes from slaying the hosts of Dhritarashtra? To slay them would only bring sin upon us. Though their hearts, overrun with greed, fail to see the ruin of their race and the treachery of betraying friends, how should we — who can see the danger of the extinction of a clan — not know to avoid this sin?"
Link copiedVerse 1.40–44. Sri: Arjuna develops the elaborate social argument: when a race declines, so does its dharma; when dharma declines, unrighteousness (adharma) spreads; when unrighteousness holds sway, family women become corrupted; from corruption of women comes the intermingling of castes (varna-sankara); such intermingling is damnation to both the caste-breakers and the castes themselves. Deprived of the offerings of food, water, and rites, the manes (pitharah) of these men fall. By such faults, the ancient dharmas of race and caste are disregarded and broken. For those from whom clan-laws have departed, the scripture teaches that naraka (hell) is the inevitable residence.
Link copiedVerse 1.45–47. "Alas! Coveting possessions and enjoyments, how strange that we were about to commit an atrocious sin by massacring our kinsmen. It would be a far greater benefit if, unresisting and unarmed, I were killed on the battlefield by the armed hosts of Dhritarashtra." So saying, agitated with grief, Sri: Arjuna let go his arrowed bow and sat down in his chariot between the two armies.
Link copiedRamanuja observes the subtle inversion of wisdom inside this lament. Sri: Arjuna speaks of ancestors falling from their spiritual stations, of the collapse of clan-dharma, of the intermingling of castes, of hell — language that seems to presuppose a clear spiritual vision. He speaks, in fact, as if he knew the difference between body and soul. Yet his whole action — the dropping of the bow, the refusal of rightful kshathriya duty, the flight from his own ordained svadharma — belongs to a man who does not know this distinction. He is confusing body with a:thman; he imagines that bodies dying means souls perishing; he imagines that withholding his bow is itself a virtue when it is in truth the abdication of a righteous duty. This is why the Lord, in the next lecture, will begin precisely at this point — the nature of the a:thman — rather than with any immediate advice about the battle.
Link copiedRamanuja's summation
Sanjaya reports Partha's condition to Dhritarashtra. Bhagavad Ramanuja's commentary crystallises the spiritual picture here: Sri: Arjuna is the most noble-minded, the most compassionate, the eternal kinsman, the most virtuous — and yet, though he knows that with Paramapurusha Himself present beside him the destruction of Dhritarashtra's people is certain, he still looks on them with feelings of friendship, overcome by pity and by fear that righteousness may suffer. Shrinking within himself, he declares: "In no case whatsoever shall I fight." He then becomes most dejected, grieved at the thought of separation from kin, letting go his arrowed bow, and sits down in his chariot.
Link copiedThis is the crisis that Sri: Krishna will meet. Sri: Arjuna's pity is not the compassion of a sage but the confusion of a man who does not yet know the distinction between body and a:thman, nor the scope of lawful kshathriya duty, nor the proper orientation of action towards moksha. His lament sounds wise — he speaks of ancestors, castes, clan-law, hell — but it is spoken out of delusion. Sri: Krishna's smile in the next lecture will answer it.
Link copiedThus closes the First Lecture, the Book of Sri: Arjuna's Mood of Melancholy, in the colloquy between Sri: Krishna and Sri: Arjuna, in the Science of Yo:ga, in the Divine Knowledge of the Upanishads — the Bhagavad Gi:tha — with the commentary of Bhagavad Ramanuja.
Link copied