Bhagavad Gita Bhashya · Section 6 of 19
atha panchamo:'dhya:yah
Original Sanskrit · click to toggle
अर्जुन उवाच
Link copiedसन्न्यासं कर्मणां कृष्ण पुनर् योगं च शंससि।
Link copiedयच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम्॥१॥
Link copiedकर्मणां सन्न्यासं ज्ञान-योगं पुनः कर्म-योगं च शंससि। एतद् उक्तं भवति द्वितीयेऽध्याये मुमुक्षोः प्रथमं कर्म-योग एव कार्यः, कर्म-योगेन मृदितान्तः-करण-कषायस्य ज्ञान-योगेन आत्म-दर्शनं कार्यम् इति प्रतिपाद्य, पुनस् तृतीय-चतुर्थयोः ज्ञान-योगाधिकार-दशाम् आपन्नस्यापि कर्म-निष्ठा एव ज्यायसी। सा एव ज्ञान-निष्ठा-निरपेक्षा आत्म-प्राप्त्य्-एक-साधनम् इति कर्म-निष्ठां प्रशंससीति। तत्रैतयोर् ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावे यद् एकं सौकर्यात् शैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितं तन् मे ब्रूहि॥५।१॥
Link copiedश्री-भगवान् उवाच---
Link copiedसन्न्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ।
Link copiedतयोस् तु कर्म-सन्न्यासात् कर्म-योगो विशिष्यते॥२॥
Link copiedसन्न्यासः ज्ञान-योगः, कर्म-योगश् च ज्ञान-योग-शक्तस्याप्य् उभौ निरपेक्षौ निःश्रेयस-करौ। तयोस् तु कर्म-सन्न्यासाद् ज्ञान-योगात् कर्म-योग एव विशिष्यते॥५।२॥
Link copiedकुत इत्य् अत आह---
Link copiedज्ञेयः स नित्य-सन्न्यासी यो न द्वेष्टि न काङ्क्षति।
Link copiedनिर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते॥३॥
Link copiedयः कर्म-योगी तद्-अन्तर्-गतात्मानुभव-तृप्तस् तद्-व्यतिरिक्तं किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्व-सहश् च। स नित्य-सन्न्यासी नित्य-ज्ञान-निष्ठ इति ज्ञेयः। स हि सुकर-कर्म-योग-निष्ठतया सुखं बन्धात् प्रमुच्यते॥५।३॥
Link copiedज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावेऽन्योन्य-नैरपेक्ष्यम् आह---
Link copiedसाङ्ख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः।
Link copiedएकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम्॥४॥
Link copiedज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग्-भूतौ ये प्रवदन्ति ते बाला अनिष्पन्न-ज्ञानाः, न पण्डिताः, न तु कृत्स्न-विदः। कर्म-योगो ज्ञान-योगम् एव साधयति। ज्ञान-योगस् त्व् एक आत्मावलोकनं साधयतीति तयोः फल-भेदेन पृथक्त्वं वदन्तो न पण्डिता इत्य् अर्थः। उभयोर् आत्मावलोकनैक-फलयोर् एक-फलत्वेन एकम् अप्य् आस्थितस् तद् एव फलं लभते॥५।४॥
Link copiedएतद् एव विवृणोति---
Link copiedयत् साङ्ख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते।
Link copiedएकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥५॥
Link copiedसाङ्ख्यैर् ज्ञान-निष्ठैर् यद् आत्मावलोकन-रूप-फलं प्राप्यते, तद् एव कर्म-योग-निष्ठैर् अपि प्राप्यते। एवम् एक-फलत्वेन एवं वैकल्पिकं साङ्खयं योगं च यः पश्यति, स पश्यति, स एव पण्डित इत्य् अर्थः॥५।५॥
Link copiedइयान् विशेष इत्य् आह---
Link copiedसन्न्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः।
Link copiedयोग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति॥६॥
Link copiedसन्न्यासो ज्ञान-योगस् त्व् अयोगतः कर्म-योगाद् ऋते प्राप्तुम् अशक्यः। योग-युक्तः कर्म-योग-युक्तः स्वयम् एव मुनिर् आत्म-मनन-शीलः सुखेन कर्म-योगं साधयित्वा न चिरेण एव अल्प-कालेनैव ब्रह्माधिगच्छति, आत्मानं प्राप्नोति। ज्ञान-योग-युक्तस् तु महता दुःखेन ज्ञान-योगं साधयति। दुःख-साध्यत्वाद् दुःख-प्राप्यत्वाद् आत्मानं चिरेण प्राप्नोतीत्य् अर्थः॥५।६॥
Link copiedयोग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।
Link copiedसर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते॥७॥
Link copiedकर्म-योग-युक्तस् तु शास्त्रीये परम-पुरुषाराधन-रूपे विशुद्धे कर्मणि वर्तमानः, तेन विशुद्ध-मनाः। विजितात्मा स्वाभ्यस्ते कर्मणि व्यापृत-मनस्त्वेन सुखेन विजित-मनाः। तत एवं जितेन्द्रियः। कर्तुर् आत्मनो याथात्म्यानुसन्धान-निष्ठतया सर्व-भूतात्म-भूतात्मा। सर्वेषां देवादि-भूतानाम् आत्म-भूत आत्मा यस्यासौ सर्व-भूतात्म-भूतात्मा। आत्म-याथात्म्यम् अनुसन्दधानस्य हि देवादीनां स्वस्य च एकाकार आत्मा। देवादि-भेदानां प्रकृति-परिणाम-विशेष-रूपतयात्माकारत्वासम्भवात्। प्रकृति-वियुक्तः सर्वत्र देवादि-देहेषु ज्ञानैकाकारतया समानाकार इति निर्दोषं हि समं ब्रह्म [गीता ५।१९] इति अनन्तरम् एव वक्ष्यते। स एवम्भूतः कर्म कुर्वन्न् अप्य् अनात्मन्य् आत्माभिमानेन न लिप्यते न सम्बध्यते। अतोऽचिरेण आत्मानम् आप्नोतीत्य् अर्थः॥५।७॥
Link copiedयतः सौकर्यात् शैघ्र्याच् च कर्म-योग एव श्रेयान्, अतस् तद्-अपेक्षितं सृणु---
Link copiedनैव किं चित् करोमीति युक्तो मन्येत तत्त्व-वित्।
Link copiedपश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन्॥८॥
Link copiedप्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि।
Link copiedइन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥९॥
Link copiedएवम् आत्म-तत्त्व-वित् श्रोत्रादीनि ज्ञानेन्द्रियाणि वाग्-आदीनि कर्मेन्द्रियाणि। प्राणाश् च स्वस्य विषयेषु वर्तन्त इति धारयन् अनुसन्दधानो नाहं किञ्चित् करोमीति मन्येत। ज्ञानैक-स्वभावस्य मम कर्म-मूलेन्द्रिय-प्राण-सम्बन्ध-कृतम् ईदृशं कर्तृत्वम्, न स्वरूप-प्रयुक्तम् इति मन्येतेत्य् अर्थः॥५।८-९॥
Link copiedब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
Link copiedलिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा॥१०॥
Link copiedब्रह्म-शब्देन प्रकृतिर् इहोच्यते, मम योनिर् महद् ब्रह्म [गीता १४।३] इति हि वक्ष्यते। इन्द्रियाणां प्रकृति-परिणाम-विशेष-रूपत्वेन इन्द्रियाकारेण अवस्थितायां प्रकृतौ पश्यन् सृण्वन् [गीता ५।८] इत्य्-आदिनोक्त-प्रकारेण कर्म ब्रह्मण्य् आधाय फल-सङ्गं त्यक्त्वा नैव किञ्चित् करोमि [गीता ५।८] इति यः कर्माणि करोति। स प्रकृति-संसृष्टतया वर्तमानोऽपि प्रकृत्य्-आत्माभिमान-रूपेण सम्बन्ध-हेतुना पापेन न लिप्यते। पद्म-पत्रम् इवाम्भसा, यथा पद्म-पत्रम् अम्भसा संस्पृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्य् अर्थः॥५।१०॥
Link copiedकायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि।
Link copiedयोगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये॥११॥
Link copiedकाय-मनो-बुद्धीन्द्रिय-साध्यं कर्म स्वर्गादि-फल-सङ्गं त्यक्त्वा योगिन आत्म-विशुद्धये कुर्वन्ति, आत्म-गत-प्राचीन-कर्म-बन्धन-विनाशाय कुर्वन्तीत्य् अर्थः॥५।११॥
Link copiedयुक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम्।
Link copiedअयुक्तः काम-कारेण फले सक्तो निबध्यते॥१२॥
Link copiedयुक्त आत्म-व्यतिरिक्त-फलेष्व् अचपल आत्मैक-प्रवणः कर्म-फलं त्यक्त्वा केवलात्म-शुद्धये कर्मानुष्ठाय नैष्ठिकीं शान्तिम् आप्नोति। स्थिराम् आत्मानुभव-रूपां निर्वृतिम् आप्नोति। अयुक्त आत्म-व्यतिरिक्त-फलेषु चपल आत्मावलोकन-विमुखः काम-कारेण फले सक्तः कर्माणि कुर्वन् नित्यं कर्मभिर् बध्यते नित्य-संसारी भवति। अतः फल-सङ्ग-रहित इन्द्रियाकारेण परिणतायां प्रकृतौ कर्माणि सन्न्यस्यात्मनो बन्ध-मोचनायैव कर्माणि कुर्वीतेत्य् उक्तं भवति॥५।१२॥
Link copiedअथ देहाकारेण परिणतायां प्रकृतौ कर्तृत्व-सन्न्यास उच्यते---
Link copiedसर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी।
Link copiedनव-द्वारे पुरे देही नैव कुर्वन् न कारयन्॥१३॥
Link copiedआत्मनः प्राचीन-कर्म-मूल-देह-सम्बन्ध-प्रयुक्तम् इदं कर्मणां कर्तृत्वं न स्वरूप-प्रयुक्तम् इति विवेक-विषयेण मनसा सर्वाणि कर्माणि नव-द्वारे पुरे सन्न्यस्य देही स्वयं वशी देहाधिष्ठान-प्रयत्नम् अकुर्वन् देहेनैव कारयन् सुखम् आस्ते॥५।१३॥
Link copiedसाक्षाद् आत्मनः स्वाभाविक-रूपम् आह---
Link copiedन कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।
Link copiedन कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते॥१४॥
Link copiedअस्य देव-तिर्यङ्-मनुष्य-स्थावरात्मना प्रकृति-संसर्गेण वर्तमानस्य लोकस्य देवाद्य्-असाधारणं कर्तृत्वं तत्-तद्-असाधारणानि कर्माणि तत् तत् कर्म-जन्य-देवादि-फल-संयोगं चायं प्रभुर् अकर्म-वश्यः स्वाभाविक-स्वरूपेणावस्थित आत्मा न सृजति, नोत्पादयति। कस् तर्हि। स्वभावस् तु प्रवर्तते, स्वभावः प्रकृति-वासना। अनादि-काल-प्रवृत्त-पूर्व-पूर्व-कर्म-जनित-देवाद्य्-आकार-प्रकृति-संसर्ग-कृत-तत्-तद्-आत्माभिमान-जनित-वासना-कृतम् ईदृशं कर्तृत्वादिकं सर्वम्, न स्वरूप-प्रयुक्तम् इत्य् अर्थः॥५।१४॥
Link copiedनादत्ते कस्य चित् पापं न चैव सुकृतं विभुः।
Link copiedअज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥१५॥
Link copiedकस्यचित् स्व-सम्बन्धितया अभिमतस्य पुत्रादेः पापं दुःखं नादत्ते, नापनुदति, कस्यचित् प्रतिकूलतयाभिमतस्य सुकृतं सुखं च नादत्ते नापनुदति। यतोऽयं विभुः, न क्वाचित्कः, न देवादि-देहाद्य्-असाधारण-देशः, अत एव न कस्यचित् सम्बन्धी, न कस्यचित् प्रतिकूलश् च। सर्वम् इदं वासना-कृतम्। एवं-स्वभावस्य कथम् इयं विपरीत-वासना उत्पद्यते। अज्ञानेनावृतं ज्ञानम्, ज्ञान-विरोधिना पूर्व-पूर्व-कर्मणा स्व-फलानुभव-योग्यत्वायास्य ज्ञानम् आवृतं सङ्कुचितम्। तेन ज्ञानावरण-रूपेण कर्मणा देवादि-देह-संयोगस् तत्-तद्-आत्माभिमान-रूप-मोहश् च जायते। ततश् च तथाविधात्माभिमान-वासना तद्-उचित-कर्म-वासना च। वासनातो विपरीतात्माभिमानः कर्मारम्भश् चोपपद्यते॥५।१५॥
Link copiedसर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि [गीता ४।३६] ज्ञानाग्निः सर्व-कर्माणि भस्म-सात् कुरुते तथा [गीता ४।३७] न हि ज्ञानेन सदृशं पवित्रम् [गीता ४।३८] इति पूर्वोक्तं स्व-काले सङ्गमयति---
Link copiedज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः।
Link copiedतेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम्॥१६॥
Link copiedएवं वर्तमानेषु सर्वात्मसु येषाम् आत्मनाम् उक्त-लक्षणेन आत्म-याथात्म्योपदेश-जनितेन आत्म-विषयेण अहरहर् अभ्यासाधेयातिशयेन निरतिशय-पवित्रेण ज्ञानेन तद्-अज्ञानावरणम् अनादि-काल-प्रवृत्तानन्त-कर्म-संशय-रूपाज्ञानं नाशितं तेषां तत् स्वाभाविकं परं ज्ञानम् अपरिमितम् असङ्कुचितम् आदित्यवत् सर्वं यथावस्थितं प्रकाशयति। तेषाम् इति विनष्ट-ज्ञानानां बहुत्वाभिधानाद् आत्म-स्वरूप-बहुत्वम्--- न त्व् एवाहं जातु नासं न त्वं नेमे [गीता २।१२] इति उपक्रमावगतम् अत्र स्पष्टतरम् उक्तम्।
Link copiedन चेदं बहुत्वम् उपाधिकृतं विनष्ट-ज्ञानानाम् उपाधि-गन्धाभावात्। तेषाम् आदित्यवज् ज्ञानम् इति व्यतिरेक-निर्देशात् ज्ञानस्य स्वरूपानुबन्धित्वम् उक्तम् आदित्य-दृष्टन्तेन च ज्ञातृ-ज्ञानयोः प्रभा-प्रभावतोर् इवावस्थानं च। तत एव संसार-दशायां ज्ञानस्य कर्मणा सङ्कोचः मोक्ष-दशायां विकासश् चोपपन्नः॥५।१६॥
Link copiedतद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः।
Link copiedगच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः॥१७॥
Link copiedतद्-बुद्धयस् तथा-विधात्म-दर्शनाध्यवसायाः, तद्-आत्मानस् तद्-विषय-मनसः, तन्-निष्ठास् तद्-अभ्यास-निरताः, तत्-परायणास् तद् एव परम् अयनं येषां ते। एवम् अभ्यस्यमानेन ज्ञानेन निर्धूत-प्राचीन-कल्मषास् तथा-विधम् आत्मानम् अपुनर्-आवृत्तिं गच्छन्ति। यद्-अवस्थाद् आत्मनः पुनर्-आवृत्तिः न विद्यते स आत्मा अपुनर्-आवृत्तिः, स्वेन रूपेणावस्थितः। तम् आत्मानं गच्छन्तीत्य् अर्थः॥५।१७॥
Link copiedविद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि।
Link copiedशुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः॥१८॥
Link copiedविद्या-विनय-सम्पन्ने ब्राह्मणो गो-हस्ति-श्वपचादिषु अत्यन्त-विषमाकारतया प्रतीयमानेषु चात्मसु पण्डिता आत्म-याथात्म्य-विदो ज्ञानैकाकारतया सर्वत्र सम-दर्शिनः। विषमाकारस् तु प्रकृतेर् नात्मनः। आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्तीत्य् अर्थः॥५।१८॥
Link copiedइहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः।
Link copiedनिर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥१९॥
Link copiedइहैव साधनानुष्ठान-दशायाम् एव तैः सर्गो जितः संसारो जितः। येषाम् उक्त-रीत्या सर्वेष्व् आत्मसु साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म प्रकृति-संसर्ग-दोष-वियुक्ततया समम् आत्म-वस्तु हि ब्रह्म। आत्म-साम्ये स्थिताश् चेद् ब्रह्मणि स्थिता एव ते। ब्रह्मणि स्थितिर् एव हि संसार-जयः। आत्मसु ज्ञानैकाकारतया साम्यम् एव अनुसन्दधाना मुक्ता एव इत्य् अर्थः॥५।१९॥
Link copiedयेन प्रकारेणावस्थितस्य कर्म-योगिनः सम-दर्शन-रूपो ज्ञान-विपाको भवति, तं प्रकारम् उपदिशति---
Link copiedन प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम्।
Link copiedस्थिर-बुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः॥२०॥
Link copiedयादृश-देह-स्थस्य यद्-अवस्थस्य प्राचीन-कर्म-वासनया यत् प्रियं यच् चाप्रियं तद् उभयं प्राप्य हर्षोद्वेगौ न कुर्यात्। कथम्। स्थिर-बुद्धिः स्थिरे आत्मनि बुद्धिर् यस्य स स्थिर-बुद्धिः। असंमूढः--- अस्थिरेण शरीरेण स्थिरम् आत्मानम् एकीकृत्य मोहः संमोहस् तद्-रहितः। तत् च कथम्। ब्रह्म-विद् ब्रह्मणि स्थितः। उपदेशेन ब्रह्म-वित् सन् तस्मिन् ब्रह्मण्य् अभ्यास-युक्तः। एतद् उक्तं भवति--- तत्त्व-विदाम् उपदेशेन आत्म-याथात्म्य-विद् भूत्वा तत्रैव यतमानो देहाभिमानं परित्यज्य स्थिर-रूपात्मावलोकन-प्रियानुभवे व्यवस्थितोऽस्थिरे प्राकृत-प्रियाप्रिये प्राप्य।हर्षोद्वेगौ न कुर्याद् इति॥५।२०॥
Link copiedबाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम्।
Link copiedस ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते॥२१॥
Link copiedएवम् उक्तेन प्रकारेण बाह्य-स्पर्शेष्व् आत्म-व्यतिरिक्त-विषयानुभावेष्व् असक्त-मना अन्तरात्मन्य् एव यः सुखं विन्दति लभते स प्रकृत्य्-अभ्यासं विहाय ब्रह्म-योग-युक्तात्मा ब्रह्माभ्यास-युक्त-मना ब्रह्मानुभव-रूपम् अक्षयं सुखं प्राप्नोति॥५।२१॥
Link copiedप्राकृतस्य भोगस्य सुत्यजताम् आह---
Link copiedये हि संस्पर्शजा भोगा दुःख-योनय एव ते।
Link copiedआद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः॥२२॥
Link copiedविषयेन्द्रिय-स्पर्शजा ये भोगाः, दुःख-योनयस् ते दुःखोदर्का आद्य्-अन्त-वन्तोऽल्प-काल-वर्तिनो हि उपलभ्यन्ते। न तेषु तद्-याथात्म्य-विद् रमते॥५।२२॥
Link copiedशक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात्।
Link copiedकाम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥२३॥
Link copiedशरीर-विमोक्षणात् प्राग् इहैव साधनानुष्ठान-दशायाम् एव आत्मानुभव-प्रीत्या काम-क्रोधोद्भवं वेगं सोढुं निरोद्धुं यः शक्नोति स युक्त आत्मानुभवायार्हः। शरीर-मोक्षणोत्तर-कालम् आत्मानुभव-सुखः सम्पत्स्यते॥५।२३॥
Link copiedयोऽन्तः-सुखोऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः।
Link copiedस योगी ब्रह्म-निर्वाणं ब्रह्म-भूतोऽधिगच्छति॥२४॥
Link copiedयो बाह्य-विषयानुभवं सर्वं विहाय अन्तः-सुख आत्मानुभवैक-सुखोऽन्तराराम आत्मैकाधीनः स्व-गुणैर् आत्मैव सुख-वर्धको यस्य स तथोक्तः, तथा अन्तर्-ज्योतिर् आत्मैक-ज्ञानो यो वर्तते, स ब्रह्म-भूतो योगी ब्रह्म-निर्वाणम् आत्मानुभव-सुखं प्राप्नोति॥५।२४॥
Link copiedलभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः।
Link copiedछिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः॥२५॥
Link copiedछिन-द्वैधाः--- शीतोष्णादि-द्वन्द्वैर् विमुक्ताः। यतात्मान--- आत्मन्य् एव नियमित-मनसः। सर्व-भूत-हिते रताः--- आत्मवत् सर्वेषां भूतानां हितेषु निरताः। ऋषयः--- द्रष्टर आत्मावलोकन-परा ये एवम्भूतास् ते क्षीणाशेषात्म-प्राप्ति-विरोधि-कल्मषा ब्रह्म-निर्वाणं लभन्ते॥५।२५॥
Link copiedउक्त-गुणानां ब्रह्मात्यन्त-सुलभम् इत्य् आह---
Link copiedकाम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम्।
Link copiedअभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम्॥२६॥
Link copiedकाम-क्रोध-वियुक्तानां यतीनां यतन-शीलानां यत-चेतसां नियमित-मनसां विजितात्मनां विजित-मनसां ब्रह्म-निर्वाणम् अभितो वर्तते। एवं-भूतानां हस्त-स्थं ब्रह्म-निर्वाणम् इत्य् अर्थः॥५।२६॥
Link copiedउक्तं कर्म-योगं स्व-लक्ष्य-भूत-योग-शिरस्कम् उपसंहरति---
Link copiedस्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः।
Link copiedप्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ॥२७॥
Link copiedयतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः।
Link copiedविगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः॥२८॥
Link copiedबाह्यान् विषय-स्पर्शान् बहिः कृत्वा बाह्येन्द्रिय-व्यापारं सर्वम् उपसंहृत्य योग-योग्यासने ऋजु-काय उपविश्य चक्षुर् भ्रुवोर् अन्तरे नासाग्रे विन्यस्य नासाभ्यन्तर-चारिणौ प्राणापानौ समौ कृत्वा उच्छवास-निःश्वासौ सम-गती कृत्वा आत्मावलोकनाद् अन्यत्र प्रवृत्त्य्-अनर्हेन्द्रिय-मनो-बुद्धिस् तत एव विगतेच्छा-भय-क्रोधो मोक्ष-परायणो मोक्षैक-प्रयोजनो मुनिर् आत्मावलोकन-शीलो यः सदा मुक्त एव। साध्य-दशायाम् इव साधन-दशायाम् अपि मुक्त एव स इत्य् अर्थः॥५।२७-२८॥
Link copiedउक्तस्य नित्य-नैमित्तिक-कर्मेति कर्तव्यताकस्य कर्म-योगस्य योग-शिरस्कस्य सुशकताम् आह---
Link copiedभोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम्।
Link copiedसुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति॥२९॥
Link copiedयज्ञ-तपसां भोक्तारं सर्व-लोक-महेश्वरं सर्व-भूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति कर्म-योग-करण एव सुखम् ऋच्छति। सर्व-लोक-महेश्वरं सर्वेषां लोकेश्वराणाम् अपीश्वरं तम् ईश्वराणां परमं महेश्वरम् [श्वे।उ। ६।७] इति हि श्रूयते। मां सर्व-लोक-महेश्वरं सर्व-सुहृदं ज्ञात्वा मद्-आराधन-रूपः कर्म-योग इति सुखेन तत्र प्रवर्तत इत्य् अर्थः। सुहृदाम् आराधनाय सर्वे प्रवर्तन्ते॥५।२९॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये पञ्चमोऽध्यायः॥५॥
Link copied**
Link copiedఅర్జున ఉవాచ
Link copiedసన్న్యాసం కర్మణాం కృష్ణ పునర్ యోగం చ శంససి।
Link copiedయచ్ ఛ్రేయ ఏతయోర్ ఏకం తన్ మే బ్రూహి సునిశ్చితమ్॥౧॥
Link copiedకర్మణాం సన్న్యాసం జ్ఞాన-యోగం పునః కర్మ-యోగం చ శంససి। ఏతద్ ఉక్తం భవతి ద్వితీయేఽధ్యాయే ముముక్షోః ప్రథమం కర్మ-యోగ ఏవ కార్యః, కర్మ-యోగేన మృదితాన్తః-కరణ-కషాయస్య జ్ఞాన-యోగేన ఆత్మ-దర్శనం కార్యమ్ ఇతి ప్రతిపాద్య, పునస్ తృతీయ-చతుర్థయోః జ్ఞాన-యోగాధికార-దశామ్ ఆపన్నస్యాపి కర్మ-నిష్ఠా ఏవ జ్యాయసీ। సా ఏవ జ్ఞాన-నిష్ఠా-నిరపేక్షా ఆత్మ-ప్రాప్త్య్-ఏక-సాధనమ్ ఇతి కర్మ-నిష్ఠాం ప్రశంససీతి। తత్రైతయోర్ జ్ఞాన-యోగ-కర్మ-యోగయోర్ ఆత్మ-ప్రాప్తి-సాధన-భావే యద్ ఏకం సౌకర్యాత్ శైఘ్ర్యాచ్ చ శ్రేయః శ్రేష్ఠమ్ ఇతి సునిశ్చితం తన్ మే బ్రూహి॥౫।౧॥
Link copiedశ్రీ-భగవాన్ ఉవాచ---
Link copiedసన్న్యాసః కర్మ-యోగశ్ చ నిఃశ్రేయస-కరావ్ ఉభౌ।
Link copiedతయోస్ తు కర్మ-సన్న్యాసాత్ కర్మ-యోగో విశిష్యతే॥౨॥
Link copiedసన్న్యాసః జ్ఞాన-యోగః, కర్మ-యోగశ్ చ జ్ఞాన-యోగ-శక్తస్యాప్య్ ఉభౌ నిరపేక్షౌ నిఃశ్రేయస-కరౌ। తయోస్ తు కర్మ-సన్న్యాసాద్ జ్ఞాన-యోగాత్ కర్మ-యోగ ఏవ విశిష్యతే॥౫।౨॥
Link copiedకుత ఇత్య్ అత ఆహ---
Link copiedజ్ఞేయః స నిత్య-సన్న్యాసీ యో న ద్వేష్టి న కాఙ్క్షతి।
Link copiedనిర్ద్వన్ద్వో హి మహా-బాహో సుఖం బన్ధాత్ ప్రముచ్యతే॥౩॥
Link copiedయః కర్మ-యోగీ తద్-అన్తర్-గతాత్మానుభవ-తృప్తస్ తద్-వ్యతిరిక్తం కిమ్ అపి న కాఙ్క్షతి, తత ఏవ కిమ్ అపి న ద్వేష్టి, తత ఏవ ద్వన్ద్వ-సహశ్ చ। స నిత్య-సన్న్యాసీ నిత్య-జ్ఞాన-నిష్ఠ ఇతి జ్ఞేయః। స హి సుకర-కర్మ-యోగ-నిష్ఠతయా సుఖం బన్ధాత్ ప్రముచ్యతే॥౫।౩॥
Link copiedజ్ఞాన-యోగ-కర్మ-యోగయోర్ ఆత్మ-ప్రాప్తి-సాధన-భావేఽన్యోన్య-నైరపేక్ష్యమ్ ఆహ---
Link copiedసాఙ్ఖ్య-యోగౌ పృథగ్ బాలాః ప్రవదన్తి న పణ్డితాః।
Link copiedఏకమ్ అప్య్ ఆస్థితః సమ్యగ్ ఉభయోర్ విన్దతే ఫలమ్॥౪॥
Link copiedజ్ఞాన-యోగ-కర్మ-యోగౌ ఫల-భేదాత్ పృథగ్-భూతౌ యే ప్రవదన్తి తే బాలా అనిష్పన్న-జ్ఞానాః, న పణ్డితాః, న తు కృత్స్న-విదః। కర్మ-యోగో జ్ఞాన-యోగమ్ ఏవ సాధయతి। జ్ఞాన-యోగస్ త్వ్ ఏక ఆత్మావలోకనం సాధయతీతి తయోః ఫల-భేదేన పృథక్త్వం వదన్తో న పణ్డితా ఇత్య్ అర్థః। ఉభయోర్ ఆత్మావలోకనైక-ఫలయోర్ ఏక-ఫలత్వేన ఏకమ్ అప్య్ ఆస్థితస్ తద్ ఏవ ఫలం లభతే॥౫।౪॥
Link copiedఏతద్ ఏవ వివృణోతి---
Link copiedయత్ సాఙ్ఖ్యైః ప్రాప్యతే స్థానం తద్ యోగైర్ అపి గమ్యతే।
Link copiedఏకం సాఙ్ఖ్యం చ యోగం చ యః పశ్యతి స పశ్యతి॥౫॥
Link copiedసాఙ్ఖ్యైర్ జ్ఞాన-నిష్ఠైర్ యద్ ఆత్మావలోకన-రూప-ఫలం ప్రాప్యతే, తద్ ఏవ కర్మ-యోగ-నిష్ఠైర్ అపి ప్రాప్యతే। ఏవమ్ ఏక-ఫలత్వేన ఏవం వైకల్పికం సాఙ్ఖయం యోగం చ యః పశ్యతి, స పశ్యతి, స ఏవ పణ్డిత ఇత్య్ అర్థః॥౫।౫॥
Link copiedఇయాన్ విశేష ఇత్య్ ఆహ---
Link copiedసన్న్యాసస్ తు మహాబాహో దుఃఖమ్ ఆప్తుమ్ అయోగతః।
Link copiedయోగ-యుక్తో మునిర్ బ్రహ్మ నచిరేణాధిగచ్ఛతి॥౬॥
Link copiedసన్న్యాసో జ్ఞాన-యోగస్ త్వ్ అయోగతః కర్మ-యోగాద్ ఋతే ప్రాప్తుమ్ అశక్యః। యోగ-యుక్తః కర్మ-యోగ-యుక్తః స్వయమ్ ఏవ మునిర్ ఆత్మ-మనన-శీలః సుఖేన కర్మ-యోగం సాధయిత్వా న చిరేణ ఏవ అల్ప-కాలేనైవ బ్రహ్మాధిగచ్ఛతి, ఆత్మానం ప్రాప్నోతి। జ్ఞాన-యోగ-యుక్తస్ తు మహతా దుఃఖేన జ్ఞాన-యోగం సాధయతి। దుఃఖ-సాధ్యత్వాద్ దుఃఖ-ప్రాప్యత్వాద్ ఆత్మానం చిరేణ ప్రాప్నోతీత్య్ అర్థః॥౫।౬॥
Link copiedయోగ-యుక్తో విశుద్ధాత్మా విజితాత్మా జితేన్ద్రియః।
Link copiedసర్వ-భూతాత్మ-భూతాత్మా కుర్వన్న్ అపి న లిప్యతే॥౭॥
Link copiedకర్మ-యోగ-యుక్తస్ తు శాస్త్రీయే పరమ-పురుషారాధన-రూపే విశుద్ధే కర్మణి వర్తమానః, తేన విశుద్ధ-మనాః। విజితాత్మా స్వాభ్యస్తే కర్మణి వ్యాపృత-మనస్త్వేన సుఖేన విజిత-మనాః। తత ఏవం జితేన్ద్రియః। కర్తుర్ ఆత్మనో యాథాత్మ్యానుసన్ధాన-నిష్ఠతయా సర్వ-భూతాత్మ-భూతాత్మా। సర్వేషాం దేవాది-భూతానామ్ ఆత్మ-భూత ఆత్మా యస్యాసౌ సర్వ-భూతాత్మ-భూతాత్మా। ఆత్మ-యాథాత్మ్యమ్ అనుసన్దధానస్య హి దేవాదీనాం స్వస్య చ ఏకాకార ఆత్మా। దేవాది-భేదానాం ప్రకృతి-పరిణామ-విశేష-రూపతయాత్మాకారత్వాసమ్భవాత్। ప్రకృతి-వియుక్తః సర్వత్ర దేవాది-దేహేషు జ్ఞానైకాకారతయా సమానాకార ఇతి నిర్దోషం హి సమం బ్రహ్మ [గీతా ౫।౧౯] ఇతి అనన్తరమ్ ఏవ వక్ష్యతే। స ఏవమ్భూతః కర్మ కుర్వన్న్ అప్య్ అనాత్మన్య్ ఆత్మాభిమానేన న లిప్యతే న సమ్బధ్యతే। అతోఽచిరేణ ఆత్మానమ్ ఆప్నోతీత్య్ అర్థః॥౫।౭॥
Link copiedయతః సౌకర్యాత్ శైఘ్ర్యాచ్ చ కర్మ-యోగ ఏవ శ్రేయాన్, అతస్ తద్-అపేక్షితం సృణు---
Link copiedనైవ కిం చిత్ కరోమీతి యుక్తో మన్యేత తత్త్వ-విత్।
Link copiedపశ్యఞ్ శృణ్వన్ స్పృశఞ్ జిఘ్రన్న్ అశ్నన్ గచ్ఛన్ స్వపఞ్ శ్వసన్॥౮॥
Link copiedప్రలపన్ విసృజన్ గృహ్ణన్న్ ఉన్మిషన్ నిమిషన్న్ అపి।
Link copiedఇన్ద్రియాణీన్ద్రియార్థేషు వర్తన్త ఇతి ధారయన్॥౯॥
Link copiedఏవమ్ ఆత్మ-తత్త్వ-విత్ శ్రోత్రాదీని జ్ఞానేన్ద్రియాణి వాగ్-ఆదీని కర్మేన్ద్రియాణి। ప్రాణాశ్ చ స్వస్య విషయేషు వర్తన్త ఇతి ధారయన్ అనుసన్దధానో నాహం కిఞ్చిత్ కరోమీతి మన్యేత। జ్ఞానైక-స్వభావస్య మమ కర్మ-మూలేన్ద్రియ-ప్రాణ-సమ్బన్ధ-కృతమ్ ఈదృశం కర్తృత్వమ్, న స్వరూప-ప్రయుక్తమ్ ఇతి మన్యేతేత్య్ అర్థః॥౫।౮-౯॥
Link copiedబ్రహ్మణ్య్ ఆధాయ కర్మాణి సఙ్గం త్యక్త్వా కరోతి యః।
Link copiedలిప్యతే న స పాపేన పద్మ-పత్రమ్ ఇవామ్భసా॥౧౦॥
Link copiedబ్రహ్మ-శబ్దేన ప్రకృతిర్ ఇహోచ్యతే, మమ యోనిర్ మహద్ బ్రహ్మ [గీతా ౧౪।౩] ఇతి హి వక్ష్యతే। ఇన్ద్రియాణాం ప్రకృతి-పరిణామ-విశేష-రూపత్వేన ఇన్ద్రియాకారేణ అవస్థితాయాం ప్రకృతౌ పశ్యన్ సృణ్వన్ [గీతా ౫।౮] ఇత్య్-ఆదినోక్త-ప్రకారేణ కర్మ బ్రహ్మణ్య్ ఆధాయ ఫల-సఙ్గం త్యక్త్వా నైవ కిఞ్చిత్ కరోమి [గీతా ౫।౮] ఇతి యః కర్మాణి కరోతి। స ప్రకృతి-సంసృష్టతయా వర్తమానోఽపి ప్రకృత్య్-ఆత్మాభిమాన-రూపేణ సమ్బన్ధ-హేతునా పాపేన న లిప్యతే। పద్మ-పత్రమ్ ఇవామ్భసా, యథా పద్మ-పత్రమ్ అమ్భసా సంస్పృష్టమ్ అపి న లిప్యతే, తథా న లిప్యత ఇత్య్ అర్థః॥౫।౧౦॥
Link copiedకాయేన మనసా బుద్ధ్యా కేవలైర్ ఇన్ద్రియైర్ అపి।
Link copiedయోగినః కర్మ కుర్వన్తి సఙ్గం త్యక్త్వాత్మ-శుద్ధయే॥౧౧॥
Link copiedకాయ-మనో-బుద్ధీన్ద్రియ-సాధ్యం కర్మ స్వర్గాది-ఫల-సఙ్గం త్యక్త్వా యోగిన ఆత్మ-విశుద్ధయే కుర్వన్తి, ఆత్మ-గత-ప్రాచీన-కర్మ-బన్ధన-వినాశాయ కుర్వన్తీత్య్ అర్థః॥౫।౧౧॥
Link copiedయుక్తః కర్మ-ఫలం త్యక్త్వా శాన్తిమ్ ఆప్నోతి నైష్ఠికీమ్।
Link copiedఅయుక్తః కామ-కారేణ ఫలే సక్తో నిబధ్యతే॥౧౨॥
Link copiedయుక్త ఆత్మ-వ్యతిరిక్త-ఫలేష్వ్ అచపల ఆత్మైక-ప్రవణః కర్మ-ఫలం త్యక్త్వా కేవలాత్మ-శుద్ధయే కర్మానుష్ఠాయ నైష్ఠికీం శాన్తిమ్ ఆప్నోతి। స్థిరామ్ ఆత్మానుభవ-రూపాం నిర్వృతిమ్ ఆప్నోతి। అయుక్త ఆత్మ-వ్యతిరిక్త-ఫలేషు చపల ఆత్మావలోకన-విముఖః కామ-కారేణ ఫలే సక్తః కర్మాణి కుర్వన్ నిత్యం కర్మభిర్ బధ్యతే నిత్య-సంసారీ భవతి। అతః ఫల-సఙ్గ-రహిత ఇన్ద్రియాకారేణ పరిణతాయాం ప్రకృతౌ కర్మాణి సన్న్యస్యాత్మనో బన్ధ-మోచనాయైవ కర్మాణి కుర్వీతేత్య్ ఉక్తం భవతి॥౫।౧౨॥
Link copiedఅథ దేహాకారేణ పరిణతాయాం ప్రకృతౌ కర్తృత్వ-సన్న్యాస ఉచ్యతే---
Link copiedసర్వ-కర్మాణి మనసా సన్న్యస్యాస్తే సుఖం వశీ।
Link copiedనవ-ద్వారే పురే దేహీ నైవ కుర్వన్ న కారయన్॥౧౩॥
Link copiedఆత్మనః ప్రాచీన-కర్మ-మూల-దేహ-సమ్బన్ధ-ప్రయుక్తమ్ ఇదం కర్మణాం కర్తృత్వం న స్వరూప-ప్రయుక్తమ్ ఇతి వివేక-విషయేణ మనసా సర్వాణి కర్మాణి నవ-ద్వారే పురే సన్న్యస్య దేహీ స్వయం వశీ దేహాధిష్ఠాన-ప్రయత్నమ్ అకుర్వన్ దేహేనైవ కారయన్ సుఖమ్ ఆస్తే॥౫।౧౩॥
Link copiedసాక్షాద్ ఆత్మనః స్వాభావిక-రూపమ్ ఆహ---
Link copiedన కర్తృత్వం న కర్మాణి లోకస్య సృజతి ప్రభుః।
Link copiedన కర్మ-ఫల-సంయోగం స్వభావస్ తు ప్రవర్తతే॥౧౪॥
Link copiedఅస్య దేవ-తిర్యఙ్-మనుష్య-స్థావరాత్మనా ప్రకృతి-సంసర్గేణ వర్తమానస్య లోకస్య దేవాద్య్-అసాధారణం కర్తృత్వం తత్-తద్-అసాధారణాని కర్మాణి తత్ తత్ కర్మ-జన్య-దేవాది-ఫల-సంయోగం చాయం ప్రభుర్ అకర్మ-వశ్యః స్వాభావిక-స్వరూపేణావస్థిత ఆత్మా న సృజతి, నోత్పాదయతి। కస్ తర్హి। స్వభావస్ తు ప్రవర్తతే, స్వభావః ప్రకృతి-వాసనా। అనాది-కాల-ప్రవృత్త-పూర్వ-పూర్వ-కర్మ-జనిత-దేవాద్య్-ఆకార-ప్రకృతి-సంసర్గ-కృత-తత్-తద్-ఆత్మాభిమాన-జనిత-వాసనా-కృతమ్ ఈదృశం కర్తృత్వాదికం సర్వమ్, న స్వరూప-ప్రయుక్తమ్ ఇత్య్ అర్థః॥౫।౧౪॥
Link copiedనాదత్తే కస్య చిత్ పాపం న చైవ సుకృతం విభుః।
Link copiedఅజ్ఞానేనావృతం జ్ఞానం తేన ముహ్యన్తి జన్తవః॥౧౫॥
Link copiedకస్యచిత్ స్వ-సమ్బన్ధితయా అభిమతస్య పుత్రాదేః పాపం దుఃఖం నాదత్తే, నాపనుదతి, కస్యచిత్ ప్రతికూలతయాభిమతస్య సుకృతం సుఖం చ నాదత్తే నాపనుదతి। యతోఽయం విభుః, న క్వాచిత్కః, న దేవాది-దేహాద్య్-అసాధారణ-దేశః, అత ఏవ న కస్యచిత్ సమ్బన్ధీ, న కస్యచిత్ ప్రతికూలశ్ చ। సర్వమ్ ఇదం వాసనా-కృతమ్। ఏవం-స్వభావస్య కథమ్ ఇయం విపరీత-వాసనా ఉత్పద్యతే। అజ్ఞానేనావృతం జ్ఞానమ్, జ్ఞాన-విరోధినా పూర్వ-పూర్వ-కర్మణా స్వ-ఫలానుభవ-యోగ్యత్వాయాస్య జ్ఞానమ్ ఆవృతం సఙ్కుచితమ్। తేన జ్ఞానావరణ-రూపేణ కర్మణా దేవాది-దేహ-సంయోగస్ తత్-తద్-ఆత్మాభిమాన-రూప-మోహశ్ చ జాయతే। తతశ్ చ తథావిధాత్మాభిమాన-వాసనా తద్-ఉచిత-కర్మ-వాసనా చ। వాసనాతో విపరీతాత్మాభిమానః కర్మారమ్భశ్ చోపపద్యతే॥౫।౧౫॥
Link copiedసర్వం జ్ఞాన-ప్లవేనైవ వృజినం సన్తరిష్యసి [గీతా ౪।౩౬] జ్ఞానాగ్నిః సర్వ-కర్మాణి భస్మ-సాత్ కురుతే తథా [గీతా ౪।౩౭] న హి జ్ఞానేన సదృశం పవిత్రమ్ [గీతా ౪।౩౮] ఇతి పూర్వోక్తం స్వ-కాలే సఙ్గమయతి---
Link copiedజ్ఞానేన తు తద్ అజ్ఞానం యేషాం నాశితమ్ ఆత్మనః।
Link copiedతేషామ్ ఆదిత్యవజ్ జ్ఞానం ప్రకాశయతి తత్పరమ్॥౧౬॥
Link copiedఏవం వర్తమానేషు సర్వాత్మసు యేషామ్ ఆత్మనామ్ ఉక్త-లక్షణేన ఆత్మ-యాథాత్మ్యోపదేశ-జనితేన ఆత్మ-విషయేణ అహరహర్ అభ్యాసాధేయాతిశయేన నిరతిశయ-పవిత్రేణ జ్ఞానేన తద్-అజ్ఞానావరణమ్ అనాది-కాల-ప్రవృత్తానన్త-కర్మ-సంశయ-రూపాజ్ఞానం నాశితం తేషాం తత్ స్వాభావికం పరం జ్ఞానమ్ అపరిమితమ్ అసఙ్కుచితమ్ ఆదిత్యవత్ సర్వం యథావస్థితం ప్రకాశయతి। తేషామ్ ఇతి వినష్ట-జ్ఞానానాం బహుత్వాభిధానాద్ ఆత్మ-స్వరూప-బహుత్వమ్--- న త్వ్ ఏవాహం జాతు నాసం న త్వం నేమే [గీతా ౨।౧౨] ఇతి ఉపక్రమావగతమ్ అత్ర స్పష్టతరమ్ ఉక్తమ్।
Link copiedన చేదం బహుత్వమ్ ఉపాధికృతం వినష్ట-జ్ఞానానామ్ ఉపాధి-గన్ధాభావాత్। తేషామ్ ఆదిత్యవజ్ జ్ఞానమ్ ఇతి వ్యతిరేక-నిర్దేశాత్ జ్ఞానస్య స్వరూపానుబన్ధిత్వమ్ ఉక్తమ్ ఆదిత్య-దృష్టన్తేన చ జ్ఞాతృ-జ్ఞానయోః ప్రభా-ప్రభావతోర్ ఇవావస్థానం చ। తత ఏవ సంసార-దశాయాం జ్ఞానస్య కర్మణా సఙ్కోచః మోక్ష-దశాయాం వికాసశ్ చోపపన్నః॥౫।౧౬॥
Link copiedతద్-బుద్ధయస్ తద్-ఆత్మానస్ తన్-నిష్ఠాస్ తత్-పరాయణాః।
Link copiedగచ్ఛన్త్య్ అపునర్-ఆవృత్తిం జ్ఞాన-నిర్ధూత-కల్మషాః॥౧౭॥
Link copiedతద్-బుద్ధయస్ తథా-విధాత్మ-దర్శనాధ్యవసాయాః, తద్-ఆత్మానస్ తద్-విషయ-మనసః, తన్-నిష్ఠాస్ తద్-అభ్యాస-నిరతాః, తత్-పరాయణాస్ తద్ ఏవ పరమ్ అయనం యేషాం తే। ఏవమ్ అభ్యస్యమానేన జ్ఞానేన నిర్ధూత-ప్రాచీన-కల్మషాస్ తథా-విధమ్ ఆత్మానమ్ అపునర్-ఆవృత్తిం గచ్ఛన్తి। యద్-అవస్థాద్ ఆత్మనః పునర్-ఆవృత్తిః న విద్యతే స ఆత్మా అపునర్-ఆవృత్తిః, స్వేన రూపేణావస్థితః। తమ్ ఆత్మానం గచ్ఛన్తీత్య్ అర్థః॥౫।౧౭॥
Link copiedవిద్యా-వినయ-సమ్పన్నే బ్రాహ్మణే గవి హస్తిని।
Link copiedశుని చైవ శ్వపాకే చ పణ్డితాః సమ-దర్శినః॥౧౮॥
Link copiedవిద్యా-వినయ-సమ్పన్నే బ్రాహ్మణో గో-హస్తి-శ్వపచాదిషు అత్యన్త-విషమాకారతయా ప్రతీయమానేషు చాత్మసు పణ్డితా ఆత్మ-యాథాత్మ్య-విదో జ్ఞానైకాకారతయా సర్వత్ర సమ-దర్శినః। విషమాకారస్ తు ప్రకృతేర్ నాత్మనః। ఆత్మా తు సర్వత్ర జ్ఞానైకాకారతయా సమ ఇతి పశ్యన్తీత్య్ అర్థః॥౫।౧౮॥
Link copiedఇహైవ తైర్ జితః సర్గో యేషాం సామ్యే స్థితం మనః।
Link copiedనిర్దోషం హి సమం బ్రహ్మ తస్మాద్ బ్రహ్మణి తే స్థితాః॥౧౯॥
Link copiedఇహైవ సాధనానుష్ఠాన-దశాయామ్ ఏవ తైః సర్గో జితః సంసారో జితః। యేషామ్ ఉక్త-రీత్యా సర్వేష్వ్ ఆత్మసు సామ్యే స్థితం మనః। నిర్దోషం హి సమం బ్రహ్మ ప్రకృతి-సంసర్గ-దోష-వియుక్తతయా సమమ్ ఆత్మ-వస్తు హి బ్రహ్మ। ఆత్మ-సామ్యే స్థితాశ్ చేద్ బ్రహ్మణి స్థితా ఏవ తే। బ్రహ్మణి స్థితిర్ ఏవ హి సంసార-జయః। ఆత్మసు జ్ఞానైకాకారతయా సామ్యమ్ ఏవ అనుసన్దధానా ముక్తా ఏవ ఇత్య్ అర్థః॥౫।౧౯॥
Link copiedయేన ప్రకారేణావస్థితస్య కర్మ-యోగినః సమ-దర్శన-రూపో జ్ఞాన-విపాకో భవతి, తం ప్రకారమ్ ఉపదిశతి---
Link copiedన ప్రహృష్యేత్ ప్రియం ప్రాప్య నోద్విజేత్ ప్రాప్య చాప్రియమ్।
Link copiedస్థిర-బుద్ధిర్ అసంమూఢో బ్రహ్మవిద్ బ్రహ్మణి స్థితః॥౨౦॥
Link copiedయాదృశ-దేహ-స్థస్య యద్-అవస్థస్య ప్రాచీన-కర్మ-వాసనయా యత్ ప్రియం యచ్ చాప్రియం తద్ ఉభయం ప్రాప్య హర్షోద్వేగౌ న కుర్యాత్। కథమ్। స్థిర-బుద్ధిః స్థిరే ఆత్మని బుద్ధిర్ యస్య స స్థిర-బుద్ధిః। అసంమూఢః--- అస్థిరేణ శరీరేణ స్థిరమ్ ఆత్మానమ్ ఏకీకృత్య మోహః సంమోహస్ తద్-రహితః। తత్ చ కథమ్। బ్రహ్మ-విద్ బ్రహ్మణి స్థితః। ఉపదేశేన బ్రహ్మ-విత్ సన్ తస్మిన్ బ్రహ్మణ్య్ అభ్యాస-యుక్తః। ఏతద్ ఉక్తం భవతి--- తత్త్వ-విదామ్ ఉపదేశేన ఆత్మ-యాథాత్మ్య-విద్ భూత్వా తత్రైవ యతమానో దేహాభిమానం పరిత్యజ్య స్థిర-రూపాత్మావలోకన-ప్రియానుభవే వ్యవస్థితోఽస్థిరే ప్రాకృత-ప్రియాప్రియే ప్రాప్య।హర్షోద్వేగౌ న కుర్యాద్ ఇతి॥౫।౨౦॥
Link copiedబాహ్య-స్పర్శేష్వ్ అసక్తాత్మా విన్దత్య్ ఆత్మని యత్ సుఖమ్।
Link copiedస బ్రహ్మ-యోగ-యుక్తాత్మా సుఖమ్ అక్షయమ్ అశ్నుతే॥౨౧॥
Link copiedఏవమ్ ఉక్తేన ప్రకారేణ బాహ్య-స్పర్శేష్వ్ ఆత్మ-వ్యతిరిక్త-విషయానుభావేష్వ్ అసక్త-మనా అన్తరాత్మన్య్ ఏవ యః సుఖం విన్దతి లభతే స ప్రకృత్య్-అభ్యాసం విహాయ బ్రహ్మ-యోగ-యుక్తాత్మా బ్రహ్మాభ్యాస-యుక్త-మనా బ్రహ్మానుభవ-రూపమ్ అక్షయం సుఖం ప్రాప్నోతి॥౫।౨౧॥
Link copiedప్రాకృతస్య భోగస్య సుత్యజతామ్ ఆహ---
Link copiedయే హి సంస్పర్శజా భోగా దుఃఖ-యోనయ ఏవ తే।
Link copiedఆద్య్-అన్త-వన్తః కౌన్తేయ న తేషు రమతే బుధః॥౨౨॥
Link copiedవిషయేన్ద్రియ-స్పర్శజా యే భోగాః, దుఃఖ-యోనయస్ తే దుఃఖోదర్కా ఆద్య్-అన్త-వన్తోఽల్ప-కాల-వర్తినో హి ఉపలభ్యన్తే। న తేషు తద్-యాథాత్మ్య-విద్ రమతే॥౫।౨౨॥
Link copiedశక్నోతీహైవ యః సోఢుం ప్రాక్ శరీర-విమోక్షణాత్।
Link copiedకామ-క్రోధోద్భవం వేగం స యుక్తః స సుఖీ నరః॥౨౩॥
Link copiedశరీర-విమోక్షణాత్ ప్రాగ్ ఇహైవ సాధనానుష్ఠాన-దశాయామ్ ఏవ ఆత్మానుభవ-ప్రీత్యా కామ-క్రోధోద్భవం వేగం సోఢుం నిరోద్ధుం యః శక్నోతి స యుక్త ఆత్మానుభవాయార్హః। శరీర-మోక్షణోత్తర-కాలమ్ ఆత్మానుభవ-సుఖః సమ్పత్స్యతే॥౫।౨౩॥
Link copiedయోఽన్తః-సుఖోఽన్తరారామస్ తథాన్తర్-జ్యోతిర్ ఏవ యః।
Link copiedస యోగీ బ్రహ్మ-నిర్వాణం బ్రహ్మ-భూతోఽధిగచ్ఛతి॥౨౪॥
Link copiedయో బాహ్య-విషయానుభవం సర్వం విహాయ అన్తః-సుఖ ఆత్మానుభవైక-సుఖోఽన్తరారామ ఆత్మైకాధీనః స్వ-గుణైర్ ఆత్మైవ సుఖ-వర్ధకో యస్య స తథోక్తః, తథా అన్తర్-జ్యోతిర్ ఆత్మైక-జ్ఞానో యో వర్తతే, స బ్రహ్మ-భూతో యోగీ బ్రహ్మ-నిర్వాణమ్ ఆత్మానుభవ-సుఖం ప్రాప్నోతి॥౫।౨౪॥
Link copiedలభన్తే బ్రహ్మ-నిర్వాణమ్ ఋషయః క్షీణ-కల్మషాః।
Link copiedఛిన్న-ద్వైధా యతాత్మానః సర్వ-భూత-హితే రతాః॥౨౫॥
Link copiedఛిన-ద్వైధాః--- శీతోష్ణాది-ద్వన్ద్వైర్ విముక్తాః। యతాత్మాన--- ఆత్మన్య్ ఏవ నియమిత-మనసః। సర్వ-భూత-హితే రతాః--- ఆత్మవత్ సర్వేషాం భూతానాం హితేషు నిరతాః। ఋషయః--- ద్రష్టర ఆత్మావలోకన-పరా యే ఏవమ్భూతాస్ తే క్షీణాశేషాత్మ-ప్రాప్తి-విరోధి-కల్మషా బ్రహ్మ-నిర్వాణం లభన్తే॥౫।౨౫॥
Link copiedఉక్త-గుణానాం బ్రహ్మాత్యన్త-సులభమ్ ఇత్య్ ఆహ---
Link copiedకామ-క్రోధ-వియుక్తానాం యతీనాం యత-చేతసామ్।
Link copiedఅభితో బ్రహ్మ-నిర్వాణం వర్తతే విదితాత్మనామ్॥౨౬॥
Link copiedకామ-క్రోధ-వియుక్తానాం యతీనాం యతన-శీలానాం యత-చేతసాం నియమిత-మనసాం విజితాత్మనాం విజిత-మనసాం బ్రహ్మ-నిర్వాణమ్ అభితో వర్తతే। ఏవం-భూతానాం హస్త-స్థం బ్రహ్మ-నిర్వాణమ్ ఇత్య్ అర్థః॥౫।౨౬॥
Link copiedఉక్తం కర్మ-యోగం స్వ-లక్ష్య-భూత-యోగ-శిరస్కమ్ ఉపసంహరతి---
Link copiedస్పర్శాన్ కృత్వా బహిర్ బాహ్యాంశ్ చక్షుశ్ చైవాన్తరే భ్రువోః।
Link copiedప్రాణాపానౌ సమౌ కృత్వా నాసాభ్యన్తర-చారిణౌ॥౨౭॥
Link copiedయతేన్ద్రియ-మనో-బుద్ధిర్ మునిర్ మోక్ష-పరాయణః।
Link copiedవిగతేచ్ఛా-భయ-క్రోధో యః సదా ముక్త ఏవ సః॥౨౮॥
Link copiedబాహ్యాన్ విషయ-స్పర్శాన్ బహిః కృత్వా బాహ్యేన్ద్రియ-వ్యాపారం సర్వమ్ ఉపసంహృత్య యోగ-యోగ్యాసనే ఋజు-కాయ ఉపవిశ్య చక్షుర్ భ్రువోర్ అన్తరే నాసాగ్రే విన్యస్య నాసాభ్యన్తర-చారిణౌ ప్రాణాపానౌ సమౌ కృత్వా ఉచ్ఛవాస-నిఃశ్వాసౌ సమ-గతీ కృత్వా ఆత్మావలోకనాద్ అన్యత్ర ప్రవృత్త్య్-అనర్హేన్ద్రియ-మనో-బుద్ధిస్ తత ఏవ విగతేచ్ఛా-భయ-క్రోధో మోక్ష-పరాయణో మోక్షైక-ప్రయోజనో మునిర్ ఆత్మావలోకన-శీలో యః సదా ముక్త ఏవ। సాధ్య-దశాయామ్ ఇవ సాధన-దశాయామ్ అపి ముక్త ఏవ స ఇత్య్ అర్థః॥౫।౨౭-౨౮॥
Link copiedఉక్తస్య నిత్య-నైమిత్తిక-కర్మేతి కర్తవ్యతాకస్య కర్మ-యోగస్య యోగ-శిరస్కస్య సుశకతామ్ ఆహ---
Link copiedభోక్తారం యజ్ఞ-తపసాం సర్వ-లోక-మహేశ్వరమ్।
Link copiedసుహృదం సర్వ-భూతానాం జ్ఞాత్వా మాం శాన్తిమ్ ఋచ్ఛతి॥౨౯॥
Link copiedయజ్ఞ-తపసాం భోక్తారం సర్వ-లోక-మహేశ్వరం సర్వ-భూతానాం సుహృదం మాం జ్ఞాత్వా శాన్తిమ్ ఋచ్ఛతి కర్మ-యోగ-కరణ ఏవ సుఖమ్ ఋచ్ఛతి। సర్వ-లోక-మహేశ్వరం సర్వేషాం లోకేశ్వరాణామ్ అపీశ్వరం తమ్ ఈశ్వరాణాం పరమం మహేశ్వరమ్ [శ్వే।ఉ। ౬।౭] ఇతి హి శ్రూయతే। మాం సర్వ-లోక-మహేశ్వరం సర్వ-సుహృదం జ్ఞాత్వా మద్-ఆరాధన-రూపః కర్మ-యోగ ఇతి సుఖేన తత్ర ప్రవర్తత ఇత్య్ అర్థః। సుహృదామ్ ఆరాధనాయ సర్వే ప్రవర్తన్తే॥౫।౨౯॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే పఞ్చమోఽధ్యాయః॥౫॥
Link copied**
Link copiedarjuna uva:cha
Link copiedsannya:sam karmana:m krushna punar yo:gam cha samsasi|
Link copiedyach chhre:ya e:thayo:r e:kam than me: bru:hi sunischitham||1||
Link copiedkarmana:m sannya:sam jna:na yo:gam punah karma yo:gam cha samsasi| e:thad uktham bhavathi dvithi:ye:'dhya:ye: mumuksho:h prathamam karma yo:ga e:va ka:ryah, karma yo:ge:na mruditha:nthah karana kasha:yasya jna:na yo:ge:na a:thma darsanam ka:ryam ithi prathipa:dya, punas thruthi:ya chathurthayo:h jna:na yo:ga:dhika:ra dasa:m a:pannasya:pi karma nishtha: e:va jya:yasi:| sa: e:va jna:na nishtha: nirape:ksha: a:thma pra:pthy e:ka sa:dhanam ithi karma nishtha:m prasamsasi:thi| thathraithayo:r jna:na yo:ga karma yo:gayo:r a:thma pra:pthi sa:dhana bha:ve: yad e:kam saukarya:th saighrya:ch cha sre:yah sre:shtham ithi sunischitham than me: bru:hi||5.1||
Link copiedsri: bhagava:n uva:cha---
Link copiedsannya:sah karma yo:gas cha nihsre:yasa kara:v ubhau|
Link copiedthayo:s thu karma sannya:sa:th karma yo:go: visishyathe:||2||
Link copiedsannya:sah jna:na yo:gah, karma yo:gas cha jna:na yo:ga sakthasya:py ubhau nirape:kshau nihsre:yasa karau| thayo:s thu karma sannya:sa:d jna:na yo:ga:th karma yo:ga e:va visishyathe:||5.2||
Link copiedkutha ithy atha a:ha---
Link copiedjne:yah sa nithya sannya:si: yo: na dve:shti na ka:nkshathi|
Link copiednirdvandvo: hi maha: ba:ho: sukham bandha:th pramuchyathe:||3||
Link copiedyah karma yo:gi: thad anthar gatha:thma:nubhava thrupthas thad vyathiriktham kim api na ka:nkshathi, thatha e:va kim api na dve:shti, thatha e:va dvandva sahas cha| sa nithya sannya:si: nithya jna:na nishtha ithi jne:yah| sa hi sukara karma yo:ga nishthathaya: sukham bandha:th pramuchyathe:||5.3||
Link copiedjna:na yo:ga karma yo:gayo:r a:thma pra:pthi sa:dhana bha:ve:'nyo:nya nairape:kshyam a:ha---
Link copiedsa:nkhya yo:gau pruthag ba:la:h pravadanthi na panditha:h|
Link copiede:kam apy a:sthithah samyag ubhayo:r vindathe: phalam||4||
Link copiedjna:na yo:ga karma yo:gau phala bhe:da:th pruthag bhu:thau ye: pravadanthi the: ba:la: anishpanna jna:na:h, na panditha:h, na thu kruthsna vidah| karma yo:go: jna:na yo:gam e:va sa:dhayathi| jna:na yo:gas thv e:ka a:thma:valo:kanam sa:dhayathi:thi thayo:h phala bhe:de:na pruthakthvam vadantho: na panditha: ithy arthah| ubhayo:r a:thma:valo:kanaika phalayo:r e:ka phalathve:na e:kam apy a:sthithas thad e:va phalam labhathe:||5.4||
Link copiede:thad e:va vivruno:thi---
Link copiedyath sa:nkhyaih pra:pyathe: stha:nam thad yo:gair api gamyathe:|
Link copiede:kam sa:nkhyam cha yo:gam cha yah pasyathi sa pasyathi||5||
Link copiedsa:nkhyair jna:na nishthair yad a:thma:valo:kana ru:pa phalam pra:pyathe:, thad e:va karma yo:ga nishthair api pra:pyathe:| e:vam e:ka phalathve:na e:vam vaikalpikam sa:nkhayam yo:gam cha yah pasyathi, sa pasyathi, sa e:va panditha ithy arthah||5.5||
Link copiediya:n vise:sha ithy a:ha---
Link copiedsannya:sas thu maha:ba:ho: duhkham a:pthum ayo:gathah|
Link copiedyo:ga yuktho: munir brahma nachire:na:dhigachchhathi||6||
Link copiedsannya:so: jna:na yo:gas thv ayo:gathah karma yo:ga:d ruthe: pra:pthum asakyah| yo:ga yukthah karma yo:ga yukthah svayam e:va munir a:thma manana si:lah sukhe:na karma yo:gam sa:dhayithva: na chire:na e:va alpa ka:le:naiva brahma:dhigachchhathi, a:thma:nam pra:pno:thi| jna:na yo:ga yukthas thu mahatha: duhkhe:na jna:na yo:gam sa:dhayathi| duhkha sa:dhyathva:d duhkha pra:pyathva:d a:thma:nam chire:na pra:pno:thi:thy arthah||5.6||
Link copiedyo:ga yuktho: visuddha:thma: vijitha:thma: jithe:ndriyah|
Link copiedsarva bhu:tha:thma bhu:tha:thma: kurvann api na lipyathe:||7||
Link copiedkarma yo:ga yukthas thu sa:sthri:ye: parama purusha:ra:dhana ru:pe: visuddhe: karmani varthama:nah, the:na visuddha mana:h| vijitha:thma: sva:bhyasthe: karmani vya:prutha manasthve:na sukhe:na vijitha mana:h| thatha e:vam jithe:ndriyah| karthur a:thmano: ya:tha:thmya:nusandha:na nishthathaya: sarva bhu:tha:thma bhu:tha:thma:| sarve:sha:m de:va:di bhu:tha:na:m a:thma bhu:tha a:thma: yasya:sau sarva bhu:tha:thma bhu:tha:thma:| a:thma ya:tha:thmyam anusandadha:nasya hi de:va:di:na:m svasya cha e:ka:ka:ra a:thma:| de:va:di bhe:da:na:m prakruthi parina:ma vise:sha ru:pathaya:thma:ka:rathva:sambhava:th| prakruthi viyukthah sarvathra de:va:di de:he:shu jna:naika:ka:rathaya: sama:na:ka:ra ithi nirdo:sham hi samam brahma [gi:tha: 5.19] ithi anantharam e:va vakshyathe:| sa e:vambhu:thah karma kurvann apy ana:thmany a:thma:bhima:ne:na na lipyathe: na sambadhyathe:| atho:'chire:na a:thma:nam a:pno:thi:thy arthah||5.7||
Link copiedyathah saukarya:th saighrya:ch cha karma yo:ga e:va sre:ya:n, athas thad ape:kshitham srunu---
Link copiednaiva kim chith karo:mi:thi yuktho: manye:tha thaththva vith|
Link copiedpasyan srunvan sprusan jighrann asnan gachchhan svapan svasan||8||
Link copiedpralapan visrujan gruhnann unmishan nimishann api|
Link copiedindriya:ni:ndriya:rthe:shu varthantha ithi dha:rayan||9||
Link copiede:vam a:thma thaththva vith sro:thra:di:ni jna:ne:ndriya:ni va:g a:di:ni karme:ndriya:ni| pra:na:s cha svasya vishaye:shu varthantha ithi dha:rayan anusandadha:no: na:ham kinchith karo:mi:thi manye:tha| jna:naika svabha:vasya mama karma mu:le:ndriya pra:na sambandha krutham i:drusam karthruthvam, na svaru:pa prayuktham ithi manye:the:thy arthah||5.8-9||
Link copiedbrahmany a:dha:ya karma:ni sangam thyakthva: karo:thi yah|
Link copiedlipyathe: na sa pa:pe:na padma pathram iva:mbhasa:||10||
Link copiedbrahma sabde:na prakruthir iho:chyathe:, mama yo:nir mahad brahma [gi:tha: 14.3] ithi hi vakshyathe:| indriya:na:m prakruthi parina:ma vise:sha ru:pathve:na indriya:ka:re:na avasthitha:ya:m prakruthau pasyan srunvan [gi:tha: 5.8] ithy a:dino:ktha praka:re:na karma brahmany a:dha:ya phala sangam thyakthva: naiva kinchith karo:mi [gi:tha: 5.8] ithi yah karma:ni karo:thi| sa prakruthi samsrushtathaya: varthama:no:'pi prakruthy a:thma:bhima:na ru:pe:na sambandha he:thuna: pa:pe:na na lipyathe:| padma pathram iva:mbhasa:, yatha: padma pathram ambhasa: samsprushtam api na lipyathe:, thatha: na lipyatha ithy arthah||5.10||
Link copiedka:ye:na manasa: buddhya: ke:valair indriyair api|
Link copiedyo:ginah karma kurvanthi sangam thyakthva:thma suddhaye:||11||
Link copiedka:ya mano: buddhi:ndriya sa:dhyam karma svarga:di phala sangam thyakthva: yo:gina a:thma visuddhaye: kurvanthi, a:thma gatha pra:chi:na karma bandhana vina:sa:ya kurvanthi:thy arthah||5.11||
Link copiedyukthah karma phalam thyakthva: sa:nthim a:pno:thi naishthiki:m|
Link copiedayukthah ka:ma ka:re:na phale: saktho: nibadhyathe:||12||
Link copiedyuktha a:thma vyathiriktha phale:shv achapala a:thmaika pravanah karma phalam thyakthva: ke:vala:thma suddhaye: karma:nushtha:ya naishthiki:m sa:nthim a:pno:thi| sthira:m a:thma:nubhava ru:pa:m nirvruthim a:pno:thi| ayuktha a:thma vyathiriktha phale:shu chapala a:thma:valo:kana vimukhah ka:ma ka:re:na phale: sakthah karma:ni kurvan nithyam karmabhir badhyathe: nithya samsa:ri: bhavathi| athah phala sanga rahitha indriya:ka:re:na parinatha:ya:m prakruthau karma:ni sannyasya:thmano: bandha mo:chana:yaiva karma:ni kurvi:the:thy uktham bhavathi||5.12||
Link copiedatha de:ha:ka:re:na parinatha:ya:m prakruthau karthruthva sannya:sa uchyathe:---
Link copiedsarva karma:ni manasa: sannyasya:sthe: sukham vasi:|
Link copiednava dva:re: pure: de:hi: naiva kurvan na ka:rayan||13||
Link copieda:thmanah pra:chi:na karma mu:la de:ha sambandha prayuktham idam karmana:m karthruthvam na svaru:pa prayuktham ithi vive:ka vishaye:na manasa: sarva:ni karma:ni nava dva:re: pure: sannyasya de:hi: svayam vasi: de:ha:dhishtha:na prayathnam akurvan de:he:naiva ka:rayan sukham a:sthe:||5.13||
Link copiedsa:ksha:d a:thmanah sva:bha:vika ru:pam a:ha---
Link copiedna karthruthvam na karma:ni lo:kasya srujathi prabhuh|
Link copiedna karma phala samyo:gam svabha:vas thu pravarthathe:||14||
Link copiedasya de:va thiryan manushya stha:vara:thmana: prakruthi samsarge:na varthama:nasya lo:kasya de:va:dy asa:dha:ranam karthruthvam thath thad asa:dha:rana:ni karma:ni thath thath karma janya de:va:di phala samyo:gam cha:yam prabhur akarma vasyah sva:bha:vika svaru:pe:na:vasthitha a:thma: na srujathi, no:thpa:dayathi| kas tharhi| svabha:vas thu pravarthathe:, svabha:vah prakruthi va:sana:| ana:di ka:la pravruththa pu:rva pu:rva karma janitha de:va:dy a:ka:ra prakruthi samsarga krutha thath thad a:thma:bhima:na janitha va:sana: krutham i:drusam karthruthva:dikam sarvam, na svaru:pa prayuktham ithy arthah||5.14||
Link copiedna:daththe: kasya chith pa:pam na chaiva sukrutham vibhuh|
Link copiedajna:ne:na:vrutham jna:nam the:na muhyanthi janthavah||15||
Link copiedkasyachith sva sambandhithaya: abhimathasya puthra:de:h pa:pam duhkham na:daththe:, na:panudathi, kasyachith prathiku:lathaya:bhimathasya sukrutham sukham cha na:daththe: na:panudathi| yatho:'yam vibhuh, na kva:chithkah, na de:va:di de:ha:dy asa:dha:rana de:sah, atha e:va na kasyachith sambandhi:, na kasyachith prathiku:las cha| sarvam idam va:sana: krutham| e:vam svabha:vasya katham iyam vipari:tha va:sana: uthpadyathe:| ajna:ne:na:vrutham jna:nam, jna:na viro:dhina: pu:rva pu:rva karmana: sva phala:nubhava yo:gyathva:ya:sya jna:nam a:vrutham sankuchitham| the:na jna:na:varana ru:pe:na karmana: de:va:di de:ha samyo:gas thath thad a:thma:bhima:na ru:pa mo:has cha ja:yathe:| thathas cha thatha:vidha:thma:bhima:na va:sana: thad uchitha karma va:sana: cha| va:sana:tho: vipari:tha:thma:bhima:nah karma:rambhas cho:papadyathe:||5.15||
Link copiedsarvam jna:na plave:naiva vrujinam santharishyasi [gi:tha: 4.36] jna:na:gnih sarva karma:ni bhasma sa:th kuruthe: thatha: [gi:tha: 4.37] na hi jna:ne:na sadrusam pavithram [gi:tha: 4.38] ithi pu:rvo:ktham sva ka:le: sangamayathi---
Link copiedjna:ne:na thu thad ajna:nam ye:sha:m na:sitham a:thmanah|
Link copiedthe:sha:m a:dithyavaj jna:nam praka:sayathi thathparam||16||
Link copiede:vam varthama:ne:shu sarva:thmasu ye:sha:m a:thmana:m uktha lakshane:na a:thma ya:tha:thmyo:pade:sa janithe:na a:thma vishaye:na aharahar abhya:sa:dhe:ya:thisaye:na nirathisaya pavithre:na jna:ne:na thad ajna:na:varanam ana:di ka:la pravruththa:nantha karma samsaya ru:pa:jna:nam na:sitham the:sha:m thath sva:bha:vikam param jna:nam aparimitham asankuchitham a:dithyavath sarvam yatha:vasthitham praka:sayathi| the:sha:m ithi vinashta jna:na:na:m bahuthva:bhidha:na:d a:thma svaru:pa bahuthvam--- na thv e:va:ham ja:thu na:sam na thvam ne:me: [gi:tha: 2.12] ithi upakrama:vagatham athra spashtatharam uktham|
Link copiedna che:dam bahuthvam upa:dhikrutham vinashta jna:na:na:m upa:dhi gandha:bha:va:th| the:sha:m a:dithyavaj jna:nam ithi vyathire:ka nirde:sa:th jna:nasya svaru:pa:nubandhithvam uktham a:dithya drushtanthe:na cha jna:thru jna:nayo:h prabha: prabha:vatho:r iva:vastha:nam cha| thatha e:va samsa:ra dasa:ya:m jna:nasya karmana: sanko:chah mo:ksha dasa:ya:m vika:sas cho:papannah||5.16||
Link copiedthad buddhayas thad a:thma:nas than nishtha:s thath para:yana:h|
Link copiedgachchhanthy apunar a:vruththim jna:na nirdhu:tha kalmasha:h||17||
Link copiedthad buddhayas thatha: vidha:thma darsana:dhyavasa:ya:h, thad a:thma:nas thad vishaya manasah, than nishtha:s thad abhya:sa niratha:h, thath para:yana:s thad e:va param ayanam ye:sha:m the:| e:vam abhyasyama:ne:na jna:ne:na nirdhu:tha pra:chi:na kalmasha:s thatha: vidham a:thma:nam apunar a:vruththim gachchhanthi| yad avastha:d a:thmanah punar a:vruththih na vidyathe: sa a:thma: apunar a:vruththih, sve:na ru:pe:na:vasthithah| tham a:thma:nam gachchhanthi:thy arthah||5.17||
Link copiedvidya: vinaya sampanne: bra:hmane: gavi hasthini|
Link copiedsuni chaiva svapa:ke: cha panditha:h sama darsinah||18||
Link copiedvidya: vinaya sampanne: bra:hmano: go: hasthi svapacha:dishu athyantha vishama:ka:rathaya: prathi:yama:ne:shu cha:thmasu panditha: a:thma ya:tha:thmya vido: jna:naika:ka:rathaya: sarvathra sama darsinah| vishama:ka:ras thu prakruthe:r na:thmanah| a:thma: thu sarvathra jna:naika:ka:rathaya: sama ithi pasyanthi:thy arthah||5.18||
Link copiedihaiva thair jithah sargo: ye:sha:m sa:mye: sthitham manah|
Link copiednirdo:sham hi samam brahma thasma:d brahmani the: sthitha:h||19||
Link copiedihaiva sa:dhana:nushtha:na dasa:ya:m e:va thaih sargo: jithah samsa:ro: jithah| ye:sha:m uktha ri:thya: sarve:shv a:thmasu sa:mye: sthitham manah| nirdo:sham hi samam brahma prakruthi samsarga do:sha viyukthathaya: samam a:thma vasthu hi brahma| a:thma sa:mye: sthitha:s che:d brahmani sthitha: e:va the:| brahmani sthithir e:va hi samsa:ra jayah| a:thmasu jna:naika:ka:rathaya: sa:myam e:va anusandadha:na: muktha: e:va ithy arthah||5.19||
Link copiedye:na praka:re:na:vasthithasya karma yo:ginah sama darsana ru:po: jna:na vipa:ko: bhavathi, tham praka:ram upadisathi---
Link copiedna prahrushye:th priyam pra:pya no:dvije:th pra:pya cha:priyam|
Link copiedsthira buddhir asammu:dho: brahmavid brahmani sthithah||20||
Link copiedya:drusa de:ha sthasya yad avasthasya pra:chi:na karma va:sanaya: yath priyam yach cha:priyam thad ubhayam pra:pya harsho:dve:gau na kurya:th| katham| sthira buddhih sthire: a:thmani buddhir yasya sa sthira buddhih| asammu:dhah--- asthire:na sari:re:na sthiram a:thma:nam e:ki:kruthya mo:hah sammo:has thad rahithah| thath cha katham| brahma vid brahmani sthithah| upade:se:na brahma vith san thasmin brahmany abhya:sa yukthah| e:thad uktham bhavathi--- thaththva vida:m upade:se:na a:thma ya:tha:thmya vid bhu:thva: thathraiva yathama:no: de:ha:bhima:nam parithyajya sthira ru:pa:thma:valo:kana priya:nubhave: vyavasthitho:'sthire: pra:krutha priya:priye: pra:pya.harsho:dve:gau na kurya:d ithi||5.20||
Link copiedba:hya sparse:shv asaktha:thma: vindathy a:thmani yath sukham|
Link copiedsa brahma yo:ga yuktha:thma: sukham akshayam asnuthe:||21||
Link copiede:vam ukthe:na praka:re:na ba:hya sparse:shv a:thma vyathiriktha vishaya:nubha:ve:shv asaktha mana: anthara:thmany e:va yah sukham vindathi labhathe: sa prakruthy abhya:sam viha:ya brahma yo:ga yuktha:thma: brahma:bhya:sa yuktha mana: brahma:nubhava ru:pam akshayam sukham pra:pno:thi||5.21||
Link copiedpra:kruthasya bho:gasya suthyajatha:m a:ha---
Link copiedye: hi samsparsaja: bho:ga: duhkha yo:naya e:va the:|
Link copieda:dy antha vanthah kaunthe:ya na the:shu ramathe: budhah||22||
Link copiedvishaye:ndriya sparsaja: ye: bho:ga:h, duhkha yo:nayas the: duhkho:darka: a:dy antha vantho:'lpa ka:la varthino: hi upalabhyanthe:| na the:shu thad ya:tha:thmya vid ramathe:||5.22||
Link copiedsakno:thi:haiva yah so:dhum pra:k sari:ra vimo:kshana:th|
Link copiedka:ma kro:dho:dbhavam ve:gam sa yukthah sa sukhi: narah||23||
Link copiedsari:ra vimo:kshana:th pra:g ihaiva sa:dhana:nushtha:na dasa:ya:m e:va a:thma:nubhava pri:thya: ka:ma kro:dho:dbhavam ve:gam so:dhum niro:ddhum yah sakno:thi sa yuktha a:thma:nubhava:ya:rhah| sari:ra mo:kshano:ththara ka:lam a:thma:nubhava sukhah sampathsyathe:||5.23||
Link copiedyo:'nthah sukho:'nthara:ra:mas thatha:nthar jyo:thir e:va yah|
Link copiedsa yo:gi: brahma nirva:nam brahma bhu:tho:'dhigachchhathi||24||
Link copiedyo: ba:hya vishaya:nubhavam sarvam viha:ya anthah sukha a:thma:nubhavaika sukho:'nthara:ra:ma a:thmaika:dhi:nah sva gunair a:thmaiva sukha vardhako: yasya sa thatho:kthah, thatha: anthar jyo:thir a:thmaika jna:no: yo: varthathe:, sa brahma bhu:tho: yo:gi: brahma nirva:nam a:thma:nubhava sukham pra:pno:thi||5.24||
Link copiedlabhanthe: brahma nirva:nam rushayah kshi:na kalmasha:h|
Link copiedchhinna dvaidha: yatha:thma:nah sarva bhu:tha hithe: ratha:h||25||
Link copiedchhina dvaidha:h--- si:tho:shna:di dvandvair vimuktha:h| yatha:thma:na--- a:thmany e:va niyamitha manasah| sarva bhu:tha hithe: ratha:h--- a:thmavath sarve:sha:m bhu:tha:na:m hithe:shu niratha:h| rushayah--- drashtara a:thma:valo:kana para: ye: e:vambhu:tha:s the: kshi:na:se:sha:thma pra:pthi viro:dhi kalmasha: brahma nirva:nam labhanthe:||5.25||
Link copieduktha guna:na:m brahma:thyantha sulabham ithy a:ha---
Link copiedka:ma kro:dha viyuktha:na:m yathi:na:m yatha che:thasa:m|
Link copiedabhitho: brahma nirva:nam varthathe: viditha:thmana:m||26||
Link copiedka:ma kro:dha viyuktha:na:m yathi:na:m yathana si:la:na:m yatha che:thasa:m niyamitha manasa:m vijitha:thmana:m vijitha manasa:m brahma nirva:nam abhitho: varthathe:| e:vam bhu:tha:na:m hastha stham brahma nirva:nam ithy arthah||5.26||
Link copieduktham karma yo:gam sva lakshya bhu:tha yo:ga siraskam upasamharathi---
Link copiedsparsa:n kruthva: bahir ba:hya:ms chakshus chaiva:nthare: bhruvo:h|
Link copiedpra:na:pa:nau samau kruthva: na:sa:bhyanthara cha:rinau||27||
Link copiedyathe:ndriya mano: buddhir munir mo:ksha para:yanah|
Link copiedvigathe:chchha: bhaya kro:dho: yah sada: muktha e:va sah||28||
Link copiedba:hya:n vishaya sparsa:n bahih kruthva: ba:hye:ndriya vya:pa:ram sarvam upasamhruthya yo:ga yo:gya:sane: ruju ka:ya upavisya chakshur bhruvo:r anthare: na:sa:gre: vinyasya na:sa:bhyanthara cha:rinau pra:na:pa:nau samau kruthva: uchchhava:sa nihsva:sau sama gathi: kruthva: a:thma:valo:kana:d anyathra pravruththy anarhe:ndriya mano: buddhis thatha e:va vigathe:chchha: bhaya kro:dho: mo:ksha para:yano: mo:kshaika prayo:jano: munir a:thma:valo:kana si:lo: yah sada: muktha e:va| sa:dhya dasa:ya:m iva sa:dhana dasa:ya:m api muktha e:va sa ithy arthah||5.27-28||
Link copiedukthasya nithya naimiththika karme:thi karthavyatha:kasya karma yo:gasya yo:ga siraskasya susakatha:m a:ha---
Link copiedbho:ktha:ram yajna thapasa:m sarva lo:ka mahe:svaram|
Link copiedsuhrudam sarva bhu:tha:na:m jna:thva: ma:m sa:nthim ruchchhathi||29||
Link copiedyajna thapasa:m bho:ktha:ram sarva lo:ka mahe:svaram sarva bhu:tha:na:m suhrudam ma:m jna:thva: sa:nthim ruchchhathi karma yo:ga karana e:va sukham ruchchhathi| sarva lo:ka mahe:svaram sarve:sha:m lo:ke:svara:na:m api:svaram tham i:svara:na:m paramam mahe:svaram [sve:.u. 6.7] ithi hi sru:yathe:| ma:m sarva lo:ka mahe:svaram sarva suhrudam jna:thva: mad a:ra:dhana ru:pah karma yo:ga ithi sukhe:na thathra pravarthatha ithy arthah| suhruda:m a:ra:dhana:ya sarve: pravarthanthe:||5.29||
Link copiedithi sri:mad ra:ma:nuja:cha:rya virachithe: gi:tha: bha:shye: panchamo:'dhya:yah||5||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 5 — The Yo:ga of Renouncing Action (in Sanskrit: Karma-sannya:sa-yoga)
The Fifth Lecture returns to Sri: Arjuna's puzzlement about the relation of jna:na-yoga and karma-yoga, this time comparing them for expediency. Sri: Krishna's verdict, which Ramanuja underscores throughout, is that karma-yoga is the better of the two — not merely because it is easier and safer, but because it includes within itself the wisdom of the jna:na-path, leading more directly to a:thman-realisation and brahma-bliss. Yamunacharya summarises: "To show that mode of works that brings soon the fruit, Book Five begins, and then dwells on the Brahma-ken."
Link copiedVerses 1–6 (The two paths compared)
Verse 5.1. Sri: Arjuna asks: "On renunciation of work, Krishna, and again on doing of works (yoga), Thou dost descant. Which of the two is better? Tell me conclusively."
Link copiedSri: Arjuna is puzzled. In Lecture Two the Lord taught that karma-yoga purifies the heart, after which one embarks on jna:na-yoga. But in Lectures Three and Four He maintained that karma-yoga is preferable even for the jna:na-qualified and sufficient by itself as a means to a:thman-realisation. Which is the superior, readier, easier means?
Link copiedVerse 5.2. Sri: Bhagavan replies: "Renunciation (sannya:sa) and karma-yoga both conduct to bliss. But of these two, karma-yoga is declared better than renunciation of works."
Link copiedSannya:sa here is cessation from work, jna:na-yoga. Both paths, independently, achieve liberation. But karma-yoga is superior.
Link copiedVerse 5.3. "He is to be known as the perpetual sannya:si: who neither hates nor craves. Above the pairs, O Mighty-armed, he easily escapes bondage."
Link copiedThe karma-yogi: who has experienced a:thman-bliss in the practice of karma-yoga no longer desires anything else than a:thman. He has no occasion for hatred; he endures the pairs of opposites easily; such a person is to be known as the constant sannya:si: — the constant practiser of jna:na.
Link copiedVerse 5.4–5. "'Sankhya and yoga are different,' say children, not the wise. Whoso is well established in one reaps the fruits of both. The place gained by the Sankhyas is gained also by the yogis. He sees who sees that Sankhya and yoga are one."
Link copiedThose who say that karma-yoga can only lead to jna:na-yoga, and that jna:na-yoga alone leads to a:thman-vision — as though they had different fruits — are spiritually immature. The aim of both paths is one: a:thman-vision. Both paths achieve it so long as one is firmly adopted.
Link copiedVerse 5.6. "But sannya:sa without karma-yoga is difficult to achieve, O Mighty-armed. The karma-yoga-united muni soon attains Brahman."
Link copiedJna:na-yoga without the aid of karma-yoga is difficult; karma-yoga, for him who constantly ruminates on the a:thman (muni), is swift and safe. Jna:na-yoga takes long, on account of its difficulty, to attain a:thman.
Link copiedVerses 7–12 (The karma-yogi: as non-actor)
Verse 5.7. "The karma-yoga-united, pure-minded, who has controlled mind and senses, who looks on the a:thmans of all beings as his own a:thman, is not tainted though he works."
Link copiedPurity of mind, control of senses, and the vision of equality of all a:thmans — these are the marks. For the meditator on a:thman, bodies vary but the indwelling a:thmans are alike, one and all, in their essential nature as conscious entities, when viewed apart from the non-conscious bodies that veil them. Gi:tha declares this later: "Faultless is Brahman, and equal" (V.19).
Link copiedVerse 5.8–9. "Knowing that the senses abide in their appropriate objects, the truth-seer, the yuktah, shall reflect: 'Naught do I do,' though he be seeing or hearing, touching or smelling, eating or walking, sleeping or breathing, talking, answering the calls of nature, or grasping, opening the eyes or closing them."
Link copiedThe a:thman-knower reflects: the senses of perception, the senses of action, and the pra:nas function within their corresponding objects, but I do not virtually do any of those actions. The conscious entity is the a:thman; doership comes to it from its union with the senses and pra:nas forced by past deeds; it is not an essential attribute of a:thman-nature.
Link copiedVerse 5.10. "Whoso performs acts, ascribing them to matter (brahma), and abandoning all attachment, is not touched by sin, like the lotus-leaf unwetted by water."
Link copiedRamanuja interprets brahma here as prakrithi (matter), citing "My womb is the great brahma" (XIV.3). Thinking that all activities belong to matter and matter's modifications into organised forms of senses, the yogi imputes work to matter and, renouncing attachment, thinks "naught do I do." So he remains untouched by the sin arising from the misconception of taking matter for a:thman.
Link copiedVerse 5.11. "Unattached — for the sake of self-purification — the yogis act, by body, by manas, by buddhi, even by the mere senses."
Link copiedSelf-purification (a:thma-sudhdhi) is the breaking of the bonds of past deeds binding a:thman. Work is done to gain this release, not to secure any fruit such as Svarga.
Link copiedVerse 5.12. "The yuktah, forsaking actions' fruit, attains everlasting rest. The ayuktah, prompted by lust, clings to fruit thereof, and remains bound."
Link copiedVerses 13–16 (The nine-gated city; Nature's agency; ignorance veils wisdom)
Verse 5.13. "Neither doing anything nor causing any act, the embodied mentally consigns all acts to the nine-gated city (body), and sits there the happy victor."
Link copiedDistinguishing that all authorship of work rests in the body — with which a:thman is conjoined as a result of past deeds — and that authorship is not essential to a:thman, the embodied a:thman assigns all acts to the body. Himself independent (vasi:), he remains happy, not doing aught as a consequence of his residence in the body.
Link copiedVerse 5.14. "Neither actorship nor act does the Lord of the body create for the world; nor even the bond between act and its fruit. It is Nature (svabha:va) that prevails."
Link copiedThe prabhu is a:thman, ruler of the body. By essence he is above karma's influences. He does not originate, in the four-fold world of deva, animal, human, and immovable beings, either the authorships, the actions, or the act-fruit links. What does all this? It is Nature — the material va:sana:, the reminiscence or instinct. Authorship springs from union with matter fashioned by the chain of deeds from immemorial time.
Link copiedVerse 5.15. "The Lord (vibhu) takes not away one's sin or merit. It is by ignorance that wisdom is wrapped; creatures are thereby deluded."
Link copiedA:thman cannot snatch away misery from a beloved son, nor steal merit from one who is hated. Such notions — friends, foes — are caused by va:sana:. And va:sana: comes from ajna:na, which veils wisdom. By retrospective karma, intelligence is contracted; bodies as deva and the rest are forged; from love for bodies arises infatuation; infatuation persisting becomes the va:sana: that seeds further material existence.
Link copiedVerse 5.16. "But for the a:thmans whose ignorance is destroyed by knowledge, their extraordinary intelligence illumines all like the Sun."
Link copiedFor those whose endless accumulated karma is dispersed by the a:thman-related knowledge derived from teachings, that which increases by daily culture, the innate transcendental consciousness — hitherto cooped and confined — becomes all-shining. Like the Sun, limitless and expanded, it reveals all things in their exact nature.
Link copiedRamanuja pauses here on a crucial point. The verse uses the:sha:m ("for them") and a:thma:na:m ("of many a:thmans"). This declares most clearly the plurality of a:thmans, already enunciated in II.12. This plurality is not attributable to upa:dhi (limiting condition), for no trace of upa:dhi can exist in the case of those whose ignorance is dispelled. Further, the phrase "their knowledge" — genitive possessor with attributive possessed — shows that jna:na is an attribute possessed by a possessor; the possessors are the a:thmans, and the possessed is intelligence. Intelligence has an attributive existence in relation to its substantial possessor. In samsa:ra, intelligence is contracted by karma; in moksha, it is unlimitedly diffused.
Link copiedVerses 17–21 (The four marks of the wise, and equal vision)
Verse 5.17. "Meditating on That (a:thman), engrossed in That, pursuing That, aiming That, they go, wisdom-effaced of taint, to the non-reverting That."
Link copiedRamanuja glosses the four compounds:
Link copied- tad-budhdhayah — having all the understanding employed on That, meaning meditating for a:thman-vision;
- tad-a:thma:nah — having all the mind centred on That, making a:thman the sole subject of loving reflection (mind involves emotion; here is engrossment);
- tan-nishtha:h — earnestly practising all that takes them to the end;
- tat-para:yana:h — whose sole noble aim is a:thman alone.
They reach a:thman, whence once awake there is no falling back.
Link copiedVerse 5.18. "The wise regard equally the bra:hmana of learning and conduct, the cow, the elephant, the dog, and even the outcaste."
Link copiedEqual-regarding consists in seeing all a:thmans abiding in these varied bodies as equal by their essential jna:na — the common property. Variety is due to prakrithi, not to a:thman. Bodies differ; the a:thmans within are one like another by their inherent consciousness.
Link copiedVerse 5.19. "By them whose mind is fixed in equality, samsa:ra is overcome even here. Verily Brahman (a:thman) is stainless and equal. Hence are they fixed in Brahman."
Link copiedA:thman is indeed equal-natured when divested of matter's stain. To be fixed in a:thman-equality is to be fixed in Brahman itself. Fixture in Brahman is victory over samsa:ra. Those who can reflect on the equality of all a:thmans are indeed muktas, liberated beings.
Link copiedVerse 5.20. "He shall not exult, attaining the agreeable; nor grieve, encountering the disagreeable. The steady-willed, undeluded, Brahma-knower remains in Brahman itself."
Link copiedFrom the teaching of truth-seers one learns the exact nature of a:thman (brahma-vit); one then practises it, planting the will in the stable a:thman, free from the delusion that confuses stable a:thman with unstable body; one abjures the a:thman-love placed in the body; one employs oneself in blissful contemplation of eternal a:thman-intercourse; and then the pairs cannot shake one.
Link copiedVerse 5.21. "With mind unattached to external contacts, whoso feels delight in a:thman itself, joins himself in mind to brahma-yoga, and tastes eternal bliss."
Link copiedVerses 22–26 (The extinction of passion; brahma-nirva:na)
Verse 5.22. "As contact-derived delights are wombs of grief, with beginnings and endings, no sage, Kaunteya, delights in them."
Link copiedSense-contacts produce pain; their joys are transient; the sage who knows this does not delight in them.
Link copiedVerse 5.23. "He is yukta and happy, who, even here, before deliverance from body, is able to resist the violence born of lust and anger."
Link copiedEven during the practice of yoga while yet in body, the one who, from the grateful experiences of a:thman he has already had, is able to oppose the on-rush of desire and passion — he is fit for yoga, and finds his bliss in a:thman after departing from the body.
Link copiedVerse 5.24. "Who finds joy within, enjoyment within, light within — the Brahma-like yogi attains brahma-nirva:na."
Link copiedAnthah-sukha is one who feels desire for the happy a:thman-experience. Antar-a:ra:ma is one whose a:thman is his pleasure-garden. When his sole illumination is the wisdom concerning a:thman, he is Brahma-like and attains brahma-bliss — bliss from a:thman-enjoyment.
Link copiedVerse 5.25. "Those seers who have cut the pairs asunder, who have set their minds on a:thman, who delight in the well-being of all beings — assoiled of taints — obtain brahma-nirva:na."
Link copiedThe rishis are the intent seers of a:thman, those who ever wish for all other creatures the happiness they would have for themselves.
Link copiedVerse 5.26. "Brahma-nirva:na is everywhere for those weaned from lust and wrath, who are perseverers (yathayah), who have restrained and mastered the mind."
Link copiedVerses 27–29 (Meditation and the Lord as Friend)
Verse 5.27–28. "Shutting out all outward contacts, fixing the eyes between the brows, equalising the nasal currents pra:na and apa:na; governing the senses, manas, and buddhi; exempt from desire, dread, and anger — the muni, the sole moksha-desirer, is verily ever the liberated."
Link copiedThis meditation practice is briefly sketched here and amplified in Lecture Six. In an erect posture, shutting out sense-contacts, fixing the gaze on the tip of the nose between the brows, equalising the breaths, the yogi renders the senses, manas, and buddhi incapable of moving out to any subject save a:thman. Such a one is considered liberated even during the journey itself on the path of spirituality.
Link copiedVerse 5.29. "Knowing Me to be the Acceptor of yajnas and tapases, the Great Lord of the Cosmos, the Friend of all beings, one goes to Peace."
Link copiedThis crowning verse teaches the easiest mode of karma-yoga. If the whole sum of prescribed duties is performed as acts of worship to the Lord, that way of doing karma-yoga is the easiest. As worshipful service to Him it becomes easy; and who would not gladly render such service when it is to the Universal Friend?
Link copiedThus closes Lecture Five, Karma-sannya:sa-yoga, the Yo:ga of Renouncing Works (in mind), with the commentary of Bhagavad Ramanuja, in the colloquy between Sri: Krishna and Sri: Arjuna, in the Science of Yo:ga, in the Divine Knowledge of the Upanishads — the Bhagavad Gi:tha.
Link copied