Bhagavad Gita Bhashya · Section 5 of 19
atha jna:na karma sannya:sa yo:go: na:ma chathurtho:'dhya:yah
Original Sanskrit · click to toggle
तृतीयेऽध्याये प्रकृति-संसृष्टस्य मुमुक्षोः सहसा ज्ञान-योगेऽनधिकारात् कर्म-योग एव कार्यः। ज्ञान-योगाधिकारिणोऽप्य् अकर्तृत्वानुसन्धान-पूर्वकं कर्म-योग एव श्रेयान् इति सहेतुकम् उक्तम्। इव्शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्म-योग एव कार्य इति चोक्तम्। चतुर्थेनेदानीम् अस्यैव कर्म-योगस्य निखिल-जगद्-उद्धरणाय मन्वन्तरादाव् एवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गत-ज्ञानतत्याऽस्यैव ज्ञान-योगाकारतां प्रदर्श्य, कर्म-योग-स्वरूपं तद्-भेदाः कर्म-योगे ज्ञानांशस्यैव प्राधान्यं चोच्यते। प्रसङ्गाच् च भगवद्-अवतार-याथात्म्यम् उच्यते---
Link copiedश्री-भगवान् उवाच
Link copiedइमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम्।
Link copiedविवस्वान् मनवे प्राह मनुर् इक्ष्वाकवेऽब्रवीत्॥१॥
Link copiedएवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः।
Link copiedस कालेनेह महता योगो नष्टः परन्तप॥२॥
Link copiedयोऽयं तवोदितो योगः स केवलं युद्ध-प्रोत्साहनायेदानीम् उदित इति न मन्तव्यम्। मन्वन्तरादाव् एव निखिल-जगद्-उद्धरणाय परम-पुरुषार्थ-लक्षण-मोक्ष-साधनतया इमं योगम् अहम् एव विवस्वते प्रोक्तवान्। विवस्वान् च मनवे मनुर् इक्ष्वाकव इत्य् एवं सम्प्रदाय-परम्परया प्राप्तम् इमं योगं पूर्वे राजर्षायो विदुः। स महता कालेन तत्-तच्-छ्रोतृ-बुद्धि-मान्द्याद् विनष्ट-प्रायोऽभूत्॥४।१-२॥
Link copiedस एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।
Link copiedभक्तोऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम्॥३॥
Link copiedस एवायम् अस्खलित-स्वरूपः पुरातनः योगः सख्येनातिमात्र-भक्त्या च माम् एव प्रपन्नाय ते मया प्रोक्तः। स-परिकरः स-विस्तरम् उक्त इत्य् अर्थः। मद्-अन्येन केनापि ज्ञातुं वक्तुं वा न शक्यम्, यत इदं वेदान्तोदितम् उत्तमं रहस्यं ज्ञानम्॥४।३॥
Link copiedअस्मिन् प्रसङ्गे भगवद्-अवतार-याथात्म्यं यथावद् ज्ञातुम् अर्जुन उवाच---
Link copiedअपरं भवतो जन्म परं जन्म विवस्वतः।
Link copiedकथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति॥४॥
Link copiedकाल-सङ्ख्यया अपरम् अस्मज्-जन्म-सम-कालं हि भवतो जन्म। विवस्वतश् च काल-सङ्ख्यया परम् अष्ट-विंशति-चतुर्युग-सङ्ख्या-सङ्ख्यातम्। त्वम् एव आदौ प्रोक्तवान् इति कथम् एतद् असम्भावनीयं विशेषेण यथार्थं जानीयाम्।
Link copiedननु जन्मान्तरेणापि वक्तुं शक्यम्। जन्मान्तर-कृतस्य महतां स्मृतिश् च युज्यत इति नात्र कश्चिद् विरोधः। न चासौ वक्तारम् एनं वसुदेव-तनयं सर्वेश्वरं न जानाति। यत एवं वक्ष्यति---
Link copiedपरं ब्रह्म परं धाम पवित्रं परमं भवान्।
Link copiedपुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम्॥
Link copiedआहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा।
Link copiedअसितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥ [गीता १०।१२-१३] इति।
Link copied
युधिष्ठिर-राजसूयादिषु भीष्मादिभ्यश् चासकृत् श्रुतम्---
Link copiedकृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्य् अयः।
Link copiedकृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम्॥ [म।भा। २।३८।२३]
Link copiedइत्य् एवम् आदिषु। कृष्णस्य हि कृते इति कृष्णस्य शेष-भूतम् इदं कृत्स्नं जगद् इत्य् अर्थः।
Link copiedअत्रोच्यते--- जानात्य् एवायं भगवन्तं वसुदेव-तनयं पार्थः। जानतोऽप्य् अजानत इव पृच्छतोऽयम् आशयः--- निखिल-हेय-प्रत्यनीक-कल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्य-सङ्कल्पस्य चावाप्त-समस्त-कामस्य कर्म-परवश-देव-मनुष्यादि-सजातीयं जन्म किम् इन्द्रजालादिवन् मिथ्या उत सत्यम्। सत्यत्वे च कथं जन्म-प्रकारः। किम्-आत्मकोऽयं देहः। कश् च जन्म-हेतुः। कदा च जन्म। किम्-अर्थं वा जन्म। इति परिहार-प्रकारेण प्रश्नार्थो विज्ञायते॥४।४॥
Link copiedपरिहरन् श्री-भगवान् उवाच---
Link copiedबहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
Link copiedतान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप॥५॥
Link copiedअनेन जन्मनः सत्यत्वम् उक्तं बहूनि मे व्यतीतानि जन्मानीति वचनात्, तव चेति दृष्टन्ततया उपादानाच् च॥४।५॥
Link copiedआत्मनोऽवतार-प्रकारं देह-याथात्म्यं जन्म-हेतुं चाह---
Link copiedअजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन्।
Link copiedप्रकृतिं स्वाम् अधिष्ठाय सम्भवाम्य् आत्म-मायया॥६॥
Link copiedअजत्वाव्ययत्व-सर्वेश्वरत्वादि-सर्वं पारमेश्वरं प्रकारम् अजहद् एव स्वां प्रकृतिम् अधिष्ठाय आत्म-मायया सम्भवामि। प्रकृतिः स्वभावः, स्वम् एव स्वभावम् अधिष्ठाय स्वेनैव रूपेण स्वेच्छया सम्भवामीत्य् अर्थः।
Link copiedस्वरूपं हि--- आदित्य-वर्णं तमसः परस्तात् [य।वे। ३१।१८], क्षयन्तम् अस्य रजसः पराके [सा।वे। १७।१।४।२], य एषोऽन्तरादित्ये हिरण्मयः पुरुषः [छा।उ। १।६।६], तस्मिन्न् अयं पुरुषो मनोमयोऽमृतो हिरण्मयः [तै।उ। १।६।१] सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि [य।वे। ३२।२], भा-रूपः सत्य-सङ्कल्प आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः [छा।उ। ३।१४।२], माहारजनं वासः [बृ।आ।उ। २।३।६] इत्य्-आदि-श्रुति-सिद्धम्।
Link copiedआत्म-मायया आत्मीयया मायया। माया वयुनं ज्ञानम् [निघण्टु २२] इति ज्ञान-पर्यायोऽत्र माया-शब्दः। तथा चाभियुक्त-प्रयोगः--- मायया सततं वेत्ति प्राणिनां च शुभाशुभम् इति। आत्मीयेन ज्ञानेन आत्म-सङ्कल्पेनेत्य् अर्थः।
Link copiedअतोऽपहत-पाप्मत्वादि-समस्त-कल्याण-गुणात्मकत्वं सर्वम् ऐश्वरं स्वभावम् अजहद् एव स्वम् एव रूपं देव-मनुष्यादि-सजातीय-स्थानं कुर्वन् आत्म-सङ्कल्पेन देवादि-रूपः सम्भवामि। तद् इदम् आह--- अजायमानो बहुधा विजायते [य।वे। ३१।१९] इति श्रुतिः। इतर-पुरुष-साधारणं जन्म अकुर्वन् देवादि-रूपेण स्व-सङ्कल्पेन उक्त-प्रक्रियया जायत इत्य् अर्थः। बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्य् अहं वेद सर्वाणि [गीता ४।५] तद् आत्मानं सृजाम्य् अहम् [गीता ४।७], जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः [गीता ४।९] इति पूर्वापराविरोधाच् च॥४।६॥
Link copiedजन्म-कालम् आह---
Link copiedयदा यदा हि धर्मस्य ग्लानिर् भवति भारत।
Link copiedअभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम्॥७॥
Link copiedन काल-नियमोऽस्मत्-सम्भवस्य। यदा यदा हि धर्मस्य वेदेनोदितस्य चातुर्वर्ण्य-चातुराश्रम्य-व्यवस्थयावस्थितस्य कर्तव्यस्य ग्लानिर् भवति, यदा यदा च तद्-विपर्ययस्याधर्मस्य अभ्युत्थानं, तदाहम् एव स्व-सङ्कल्पेनोक्त-प्रकारेणात्मानं सृजामि॥४।७॥
Link copiedजन्मनः प्रयोजनम् आह---
Link copiedपरित्राणाय साधूनां विनाशाय च दुष्कृताम्।
Link copiedधर्म-संस्थापनार्थाय सम्भवामि युगे युगे॥८॥
Link copiedसाधव उक्त-लक्षण-धर्म-शीला वैष्णवाग्रेसरा मत्-समाश्रयणे प्रवृत्ता मन्-नाम-कर्म-स्वरूपाणाम् अवाङ्-मनसागोचरतया मद्-दर्शनाद् ऋते स्वात्म-धारण-पोषणादि-सुखम् अलभमाना अणु-मात्र-कालम् अपि कल्प-सहस्रां मन्वानाः प्रशिथिल-सर्व-गात्रा भवेयुर् इति मत्-स्वरूप-चेष्टितावलोकनालापादि-दानेन तेषां परित्राणाय तद्-विपरीतानां विनाशाय च क्षीणस्य वैदिक-धर्मस्य मद्-आराधन-रूपस्य आराध्य-स्वरूप-प्रदर्शनेन तस्य स्थापनाय च देव-मनुष्यादि-रूपेण युगे युगे सम्भवामि। कृत-त्रेतादि-युग-विशेष-नियमोऽपि नास्तीत्य् अर्थः॥४।८॥
Link copiedजन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः।
Link copiedत्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन॥९॥
Link copiedएवं कर्म-मूल-भूत-हेय-त्रिगुण-प्रकृति-संसर्ग-रूप-जन्म-रहितस्य सर्वेश्वरत्व-सर्वज्ञत्व-सत्य-सङ्कल्पत्वादि-समस्त-कल्याण-गुणोपेतस्य साधु-परित्राण-मत्-समाश्रयणैक-प्रयोजनं दिव्यम् अप्राकृतं मद्-असाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति स वर्तमानं देहं परित्यज्य पुनर् जन्म नैति माम् एव प्राप्नोति। मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्रयण-विरोधि-पाप्मास्मिन्न् एव जन्मनि यथोदित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति॥४।९॥
Link copiedतद् आह---
Link copiedवीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः।
Link copiedबहवो ज्ञान-तपसा पूता मद्-भावम् आगताः॥१०॥
Link copiedमदीय-जन्म-कर्म-तत्त्व-ज्ञानाख्येन तपसा पूता बहव एवं संवृत्ताः। तथा च श्रुतिः--- तस्य धीराः परिजानन्ति योनिम् इति। धीरा धीमताम् अग्रेसरा एव तस्य जन्म-प्रकारं जानन्तीत्य् अर्थः॥४।१०॥
Link copiedन केवलं देव-मनुष्यादि-रूपेणावतीर्य मत्-समाश्रयणापेक्षाणां परित्राणं करोमि। अपि तु---
Link copiedये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम्।
Link copiedमम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥११॥
Link copiedये मत्-समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपं मां सङ्कल्प्य प्रपद्यन्ते समाश्रयन्ते तान् प्रति तथैव तन्-मनीषित-प्रकारेण भजामि मां दर्शयामि। किम् अत्र बहुना। सर्वे मनुष्या मद्-अनुवर्तनैक-मनोरथा मम वत्र्म मत्-स्वभावं सर्वं योगिनां वाङ्-मनसागोचरम् अपि स्वकीयैश् चक्षुरादि-करणैः सर्वशः स्वापेक्षितैः सर्व-प्रकारैर् अनुभूय अनुवर्तन्ते॥४।११॥
Link copiedइदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्म-योगस्य ज्ञानाकारता-प्रकारं वक्तुं तथा-विध-कर्म-योगाधिकारिणो दुर्लभत्वम् आह---
Link copiedकाङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।
Link copiedक्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा॥१२॥
Link copiedसर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणा इन्द्रादि-देवता यथा-शास्त्रं यजन्ते आराधयन्ति। न तु कश्चिद् अनभिसंहित-फल इन्द्रादि-देवतात्म-भूतं सर्व-यज्ञानां भोक्तारं मां यजते। कुत एतत्। यतः क्षिप्रम् अस्मिन् एव मानुषे लोके कर्मजा पुत्र-पश्व्-अन्नाद्या सिद्धिर् भवति। मनुष्य-लोक-शब्दः स्वर्गादि-लोक-प्रदर्शनार्थः।
Link copiedसर्व एव हि लौकिकाः पुरुषा आक्षीणानादि-काल-प्रवृत्तानन्त-पाप-सञ्चयतया अविवेकिनः क्षिप्र-फलाभिकाङ्क्षिणः पुत्र-पश्व्-अन्नादि-स्वर्गाद्य्-अर्थतया सर्वाणि कर्माणि, इन्द्रादि-देवताराधन-मात्राणि कुर्वते। न तु कश्चित् संसारोद्विग्न-हृदयो मुमुक्षुर् उक्त-लक्षणं कर्म-योगं मद्-आराधन-भूतम् आरभते इत्य् अर्थः॥४।१२॥
Link copiedयथोक्त-कर्म-योगारम्भ-विरोधि-पाप-क्षय-हेतुम् आह---
Link copiedचातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः।
Link copiedतस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम्॥१३॥
Link copiedचातुर्वर्ण्य-प्रमुखं ब्रह्मादि-स्तम्ब-पर्यन्तं कृत्स्नं जगत् सत्त्वादि-गुण-विभागेन तद्-अनुगुण-शमादि-कर्म-विभागेन च प्रविभक्तं मया सृष्टम्। सृष्टि-ग्रहणं प्रदर्शनार्थम्। मयैव रक्ष्यते, मयैव च उपसंह्रियते। तस्य विचित्र-सृष्ट्य्-आदेः कर्तारम् अप्य् अकर्तारं मां विद्धि॥४।१३॥
Link copiedकथम् इत्य् अत्र आह---
Link copiedन मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा।
Link copiedइति मां योऽभिजानाति कर्मभिर् न स बध्यते॥१४॥
Link copiedयत इमानि विचित्र-सृष्ट्य्-आदीनि न मां कर्माणि लिम्पन्ति न मां सम्बध्नन्ति। न मत्-प्रयुक्तानीमानि देव-मनुष्यादि-वैचित्र्याणि सृज्यानां पुण्य-पाप-रूप-कर्म-विशेष-प्रयुक्तानीत्य् अर्थः। अतः प्राप्ताप्राप्त-विवेकन विचित्र-सृष्टय्-आदेः नाहं कर्ता। यतश् च सृष्टः क्षेत्र-ज्ञाः सृष्टि-लब्ध-करण-कलेवराः सृष्टि-लब्धं भोग्य-जातं फल-सङ्गादि-हेतु-स्व-कर्मानुगुणं भुञ्जते, सृष्ट्य्-आदि-कर्म-फले च तेषाम् एव स्पृहेति न मे स्पृहा।
Link copiedतथा सूत्र-कारः--- वैषम्य-नैर्घृण्ये न सापेक्षत्वात् [वे।सू। २।१।३४] इति। तथाह भगवान् पराशरः---
Link copiedनिमित्त-मात्रम् एवायं सृज्यानां सर्ग-कर्माणि।
Link copiedप्रधान-कारणीभूता यतो वै सृज्य-शक्तयः॥
Link copiedनिमित्त-मात्रं मुक्त्वेदं नान्यत् किञ्चिद् अपेक्ष्यते।
Link copiedनीयते तपतां श्रेष्ठ स्व-शक्त्या वस्तु वस्तुताम्॥ [वि।पु। १।४।५१-५२] इति।
Link copied
सृज्यानां देवादीनां क्षेत्र-ज्ञानां सृष्टेः कारण-मात्रम् एवायं परम-पुरुषः, देवादि-वैचित्र्ये तु प्रधान-कारणं सृज्य-भूत-क्षेत्र-ज्ञानां प्राचीन-कर्म-शक्तय एव। अतो निमित्त-मात्रं मुक्त्वा सृष्टेः कर्तारं परम-पूरुषं मुक्त्वेदं क्षेत्र-ज्ञ-वस्तु देवादि-विचित्र-भावे न अन्यद् अपेक्षते। स्वगत-प्राचीन-कर्म-शक्त्या एव हि देवादि-वस्तु-भावं नीयत इत्य् अर्थः।
Link copiedएवम् उक्तेन प्रकारेण सृष्ट्य्-आदेः कर्तारम् अप्य् अकर्तारं सृष्ट्य्-आदि-कर्म-फल-सङ्ग-रहितं च यो माम् अभिजानाति स कर्म-योगारम्भ-विरोधिभिः फल-सङ्गादि-हेतुभिः प्राचीन-कर्मभिः न सम्बध्यते। मुच्यत इत्य् अर्थः॥४।१४॥
Link copiedएवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः।
Link copiedकुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्॥१५॥
Link copiedएवं मां ज्ञात्वा अपि विमुक्त-पापैः पूर्वैर् अपि मुमुक्षुभिर् उक्त-लक्षणं कर्म कृतम्। तस्मात् त्वम् उक्त-प्रकार-मद्-विषय-ज्ञान-विधूत-पापः पूर्वैर् विवस्वन्-मन्व्-आदिभिः कृतं पूर्वतरं पुरातनं तदानीम् एव मयोक्तं वक्ष्यमाणाकारं कर्मैव कुरु॥४।१५॥
Link copiedवक्ष्यमाणस्य कर्मणो दुर्ज्ञानताम् आह---
Link copiedकिं कर्म किम् अकर्मेति कवयोऽप्य् अत्र मोहिताः।
Link copiedतत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसेऽशुभात्॥१६॥
Link copiedमुमुक्षुणानुष्ठेयं कर्म किं-स्वरूपम्। अकर्म च किम्। फलाभिसन्धि-रहितं भगवद्-आराधन-रूपं कर्म। अकर्म इति कर्तुर् आत्मनो याथात्म्य-ज्ञानम् उच्यते। अनुष्ठेयं कर्म तद्-अन्तर्गतं ज्ञानं च किं-स्वरूपम्। इत्य् उभयत्र कवयो विद्वांसोऽपि मोहिताः, यथार्थतया न जानन्ति। एवम् अन्तर्गत-ज्ञानं यत् कर्म तत् ते प्रवक्ष्यामि। यद् ज्ञात्वा अनुष्ठाय अशुभात् संसार-बन्धान् मोक्ष्यसे। कर्तव्य-कर्म-ज्ञानं हि अनुष्ठान-फलम्॥४।१६॥
Link copiedकुतोऽस्य दुर्ज्ञानता। इत्य् अत्र आह---
Link copiedकर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः।
Link copiedअकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः॥१७॥
Link copiedयस्मात् मोक्ष-साधन-भूते कर्मणः स्वरूपे बोद्धव्यम् अस्ति। विकर्मणि च नित्य-नैमित्तिक-काम्य-कर्म-रूपेण तत्-साधन-द्रव्यार्जनाद्य्-आकारेण च, विविधताम् आपन्नं कर्म विकर्म। अकर्मणि ज्ञाने च बोद्धव्यम् अस्ति। गहना दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः। विकर्मणि च बोद्धव्यम्--- नित्य-नैमित्तिक-काम्य-द्रव्यार्जनादौ कर्मणि फल-भेद-कृतं वैविध्यं परित्यज्य मोक्षैक-फलतया एक-शास्त्रार्थत्वानुसन्धानम्। तद् एतद् व्यवसायात्मिका बुद्धिर् एका [२।४१] इत्य् अत्रैवोक्तम् इति नेह प्रपञ्च्यते॥४।१७॥
Link copiedकर्माकर्मणोर् बोद्धव्यम् आह---
Link copiedकर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः।
Link copiedस बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत्॥१८॥
Link copiedअकर्म-शब्देनात्र कर्मेतरत् प्रस्तुतम् आत्म-ज्ञानम् उच्यते। कर्मणि क्रियमाणे एव आत्म-ज्ञानं यत् पश्येद् अकर्मणि चात्म-ज्ञाने वर्तमानैव यः कर्म पश्येत्। किम् उक्तं भवति। क्रियमाणम् एव कर्मात्म-याथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्, तच् च ज्ञानं कर्मणि अन्तर्गततया कर्माकारं यः पश्येद् इति उक्तं भवति। क्रियमाणे हि कर्मणि कर्तृ-भूतात्म-याथात्म्यानुसन्धानेन तद् उभयं सम्पन्नं भवति।
Link copiedएवम् आत्म-याथात्म्यानुसन्धान-गर्भं कर्म यः पश्येत् स बुद्धिमान् कृत्स्न-शास्त्रार्थ-वित्, मनुष्येषु स युक्तो मोक्षार्हः स एव कृत्स्न-कर्म-कृत् कृत्स्न-शास्त्रार्थ-कृत्॥४।१८॥
Link copiedप्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञानाकारता कथम् उपपद्यते। इत्य् अत्राह---
Link copiedयस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः।
Link copiedज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः॥१९॥
Link copiedयस्य मुमुक्षोः सर्वे द्रव्यार्जनादि-लौकिक-कर्म-पूर्वक-नित्य-नैमित्तिक-काम्य-रूप-कर्म-समारम्भाः काम-वर्जिताः फल-सङ्ग-रहिताः सङ्कल्प-वर्जिताश् च।
Link copiedप्रकृत्या तद्-गुणैश् चात्मानम् एकीकृत्य अनुसन्धानां सङ्कल्पः। प्रकृति-वियुक्तात्म-स्वरूपानुसन्धान-युक्ततया तद्-रहिताः। तम् एवं कर्म कुर्वाणं पण्डितं कर्मान्तर्गतात्म-याथात्म्य-ज्ञानाग्निना दग्ध-प्राचीन-कर्माणम् आहुस् तत्त्व-ज्ञाः॥४।१९॥
Link copiedअतः कर्मणो ज्ञानाकारत्वम् उपपद्यते। एतद् एव विवृणोति---
Link copiedत्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः।
Link copiedकर्मण्य् अभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः॥२०॥
Link copiedकर्म-फलासङ्गं त्यक्त्वा नित्य-तृप्तो नित्ये स्वात्मन्य् एव तृप्तो निराश्रयोऽस्थिर-प्रकृतौ आश्रय-बुद्धि-रहितो यः कर्माणि करोति, स कर्मण्य् आभिमुख्येन प्रवृत्तोऽपि नैव किञ्चित् कर्म करोति, कर्मापदेशेन ज्ञानाभ्यासम् एव करोतीत्य् अर्थः॥४।२०॥
Link copiedपुनर् अपि कर्मणा ज्ञानाकारता एव विशोध्यते---
Link copiedनिराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः।
Link copiedशारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम्॥२१॥
Link copiedनिराशीर् निर्गत-फलाभिसन्धिः, यत-चित्तात्मा यत-चित्तमनाः, त्यक्त-सर्व-परिग्रह आत्मैक-प्रयोजनतया प्रकृति-प्राकृत-वस्तुनि ममता-रहितो यावज्-जीवं केवलं शारीरम् एव कर्म कुर्वन् किल्बिषं संसारं नाप्नोति। ज्ञान-निष्ठा-व्यवधान-रहित-केवल-कर्म-योगेन एवं-रूपेणात्मानं पश्यतीत्य् अर्थः॥४।२१॥
Link copiedयदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः।
Link copiedसमः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते॥२२॥
Link copiedयदृच्छोपनत-शरीर-धारण-हेतु-वस्तु-सन्तुष्टः द्वन्द्वातीतो यावत्-साधन-समाप्त्य्-अवर्जनीय-शीतोष्णादि-सहः। विमत्सरोऽनिष्टोपनिपात-हेतु-भूत-स्वकर्म-निरूपेण परेषु विगत-मत्सरः समः सिद्धौ असिद्धौ च युद्धादि-कर्मसु जयादि-सिद्ध्य्-असिद्ध्योः सम-चित्तः कर्मैव कृत्वापि ज्ञान-निष्ठां विनापि न निबध्यते, न संसारं प्रतिपद्यते॥४।२२॥
Link copiedगत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः।
Link copiedयज्ञायाचरतः कर्म समग्रं प्रविलीयते॥२३॥
Link copiedआत्म-विषय-ज्ञानावस्थित-मनस्त्वेन विगत-तद्-इतर-सङ्गस्य तत एव निखिल-परिग्रह-विनिर्मुक्तस्योक्त-लक्षण-यज्ञादि-कर्म-निर्वृत्तये वर्तमानस्य पुरुषस्य बन्ध-हेतु-भूतं प्राचीनं कर्म समग्रं प्रविलीयते निःशेषं क्षीयते॥४।२३॥
Link copiedप्रकृति-वियुक्तात्म-स्वरूपानुसन्धान-युक्ततया कर्मणो ज्ञानाकारत्वम् उक्तम्। इदानीं सर्वस्य स-परिकरस्य कर्मणः पर-ब्रह्म-भूत-परम-पुरुषात्मकत्वानुसन्धाना-युक्ततया ज्ञानाकारत्वम् आह---
Link copiedब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम्।
Link copiedब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना॥२४॥
Link copiedहविर् विशेष्यते। अर्प्यतेऽनेनेत्य् अर्पणं स्रुग्-आदि। तद् ब्रह्म-कार्यत्वाद् ब्रह्म, ब्रह्म यस्य हविषोऽर्पणं तद् ब्रह्मार्पणम्। ब्रह्म हविः स्वयं च ब्रह्म-भूतं ब्रह्माग्नौ ब्रह्म-भूतेऽग्नौ ब्रह्मणा कर्त्रा हुतम्। इति सर्वं कर्म ब्रह्मात्मकत्वाद् ब्रह्म-मयम् इति यः समाधत्ते, स ब्रह्म-कर्म-समाधिः। तेन ब्रह्म-कर्म-समाधिना ब्रह्मैव गन्तव्यम्। ब्रह्मात्मकतया ब्रह्म-भूतम् आत्म-स्वरूपं गन्तव्यम्। मुमुक्षूणां क्रियमाणं कर्म पर-ब्रह्मात्मकम् एव इत्य् अनुसन्धान-युक्ततया ज्ञानाकारं साक्षाद् आत्मावलोकन-साधनम्, न ज्ञान-निष्ठा-व्यवधानेनेत्य् अर्थः॥४।२४॥
Link copiedएवं कर्मणो ज्ञानाकारतां प्रतिपाद्य कर्म-योग-भेदान् आह---
Link copiedदैवम् एवापरे यज्ञं योगिनः पर्युपासते।
Link copiedब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति॥२५॥
Link copiedदैवं दैवार्चन-रूपं यज्ञम् अपरे कर्म-योगिनः पर्युपासते सेवन्ते। तत्रैव निष्ठां कुर्वन्तीत्य् अर्थः। अपरे ब्रह्माग्नौ यज्ञं यज्ञेनैव उपजुह्वति। यज्ञं यज्ञ-रूपं ब्रह्मात्मकम् आज्यादि-द्रव्यं यज्ञेन यज्ञ-साधन-भूतेन स्रुग्-आदिना जुह्वति। अत्र यज्ञ-शब्दो हविः-स्रुग्-आदि-यज्ञ-साधने वर्तते। ब्रह्मार्पणं ब्रह्म हविः इति न्यायेन याग-होमयोर् निष्ठां कुर्वन्ति॥४।२५॥
Link copiedश्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति।
Link copiedशब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति॥२६॥
Link copiedअन्ये श्रोत्रादीनाम् इन्द्रियाणां संयमने प्रयन्ते। शब्दादीन् विषयान् अन्ये योगिन इन्द्रियाणां शब्दादि-विषय-प्रवणता-निवारणे प्रयतन्ते॥४।२६॥
Link copiedसर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे।
Link copiedआत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते॥२७॥
Link copiedअन्ये ज्ञान-दीपिते मनः-संयम-योगाग्नौ सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि च जुह्वति। मनस इन्द्रिय-प्राणानां कर्म-प्रवणता-निवारणे प्रयतन्त इत्य् अर्थः॥४।२७॥
Link copiedद्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे।
Link copiedस्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः॥२८॥
Link copiedकेचित् कर्म-योगिनो द्रव्य-यज्ञाः, न्यायतो द्रव्याण्य् आदाय देवार्चने प्रयतन्ते, केचिच् च दानेषु, केचिच् च यागेषु, केचिच् च होमेषु, एते सर्वे द्रव्य-यज्ञाः। केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायणोपवासादिषु निष्ठां कुर्वन्ति। योग-यज्ञाश् चापरे पुण्य-तीर्थ- पुण्य-स्थान-प्राप्तिषु निष्ठां कुर्वन्ति। इह योग-शब्दः कर्म-निष्ठा-भेद-प्रकरणात् तद्-विषयः। केचित् स्वाध्याय-पराः स्वाध्यायाभ्यास-पराः। केचित् तद्-अर्थ-ज्ञानाभ्यास-परा यतयो यतन-शीलाः। शंसित-व्रताः दृढ-सङ्कल्पाः॥४।२८॥
Link copiedअपाने जुह्वति प्राणं प्राणेऽपानं तथापरे।
Link copiedप्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः॥२९॥
Link copiedअपरे नियताहाराः प्राणान् प्राणेषु जुह्वति।
Link copiedसर्वेऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः॥३०॥
Link copiedअपरे कर्म-योगिनः प्राणायामेषु निष्ठां कुर्वन्ति। ते च त्रि-विधाः--- पूरक-रेचक-कुम्भक-भेदेन। अपाने जुह्वति प्राणम् इति पूरकः। प्राणेऽपानम् इति रेचकः। प्राणापान-गती रुद्ध्वा प्राणान् प्राणेषु जुह्वतीति कुम्भकः। प्राणायाम-परेषु त्रिष्व् अप्य् अनुषज्यते नियताहारा इति। द्रव्य-यज्ञ-प्रभृति-प्राणायाम-पर्यन्तेषु कर्म-योग-भेदेषु स्व-समीहितेषु प्रवृत्ता एते सर्वे सह-यज्ञैः प्रजाः सृष्ट्वा [३।१०] इति अभिहित-महा-यज्ञ-पूर्वक-नित्य-नैमित्तिक-कर्म-रूप-यज्ञ-विदः, तन्-निष्ठाः, तत एव क्षपित-कल्मषाः॥४।२९-।३०॥
Link copiedयज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम्।
Link copiedनायं लोकोऽस्त्य् अयज्ञस्य कुतोऽन्यः कुरुसत्तम॥३१॥
Link copiedयज्ञ-शिष्टामृतेन शरीर-धारणं कुर्वन्त एव कर्म-योगे व्यापृताः सनातनं च ब्रह्म यान्ति। अयज्ञस्य महा-यज्ञादि-पूर्वक-नित्य-नैमित्तिक-कर्म-रहितस्य नायं लोको न प्राकृत-लोकः प्राकृत-लोक-सम्बन्धि-धर्मार्थ-कामाख्यः पुरुषार्थो न सिध्यति। कुत
Link copiedइतोऽन्यो मोक्षाख्यः पुरुषार्थः। परम-पुरुषार्थतया मोक्षस्य प्रस्तुतत्वात् तद्-इतर-पुरुषार्थोऽयं लोक इति निर्दिश्यते स हि प्राकृतः॥४।३१॥
Link copiedएवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे।
Link copiedकर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे॥३२॥
Link copiedएवं हि बहु-प्रकाराः कर्म-योगा ब्रह्मणो मुखे वितताः। आत्म-याथात्म्यावाप्ति-साधनतया स्थिताः। तान् उक्त-लक्षणान् उक्त-भेदान् कर्म-योगान् सर्वान् कर्मजान् विद्धि। अहरहर् अनुष्ठीयमान-नित्य-नैमित्तिक-कर्मानुष्ठान-जान् विद्धि। एवं ज्ञात्वा यथोक्त-प्रकारेण अनुष्ठाय विमोक्ष्यसे॥४।३२॥
Link copiedअन्तर्गत-ज्ञानतया कर्मणो ज्ञानाकारत्वम् उक्तम्। तत्रान्तर्गत-ज्ञाने कर्मणि ज्ञानांशस्य एव प्राधान्यम् आह---
Link copiedश्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप।
Link copiedसर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते॥३३॥
Link copiedउभयाकारे कर्मणि द्रव्य-मयाद् अंशाद् ज्ञान-मयोऽंशः श्रेयान्। सर्वस्य कर्मणस् तद्-इतरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्तेः। तद् एवं सर्वैः साधनैः प्राप्य-भूतं ज्ञानं कर्मान्तर्गतत्वेन अभ्यस्यते। तद् एव हि अभ्यस्यमानं क्रमेण प्राप्य-दशां प्रतिपद्यते॥४।३३॥
Link copiedतद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया।
Link copiedउपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः॥३४॥
Link copiedतद् आत्म-विषयं ज्ञानम् अविनाशि तद् विद्धि [२।१७] इत्य् आरभ्य एषा तेऽभिहिता [२।३९] इत्य् अन्तेन मयोपदिष्टम् मद्-उक्त-कर्मणि वर्तमानस् त्वं विपाकानुगुणं काले काले प्रणिपात-परिप्रश्न-सेवादिभिर् विशदाकारं ज्ञानिभ्यो विद्धि। साक्षात्-कृतात्म-स्वरूपास् तु ज्ञानिनः प्रणिपातादिभिः सेविता ज्ञान-बुभुत्सया परितः पृच्छतस् तवाशयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति॥४।३४॥
Link copiedआत्म-याथात्म्य-विषय-साक्षात्कार-रूपस्य लक्षणम् आह---
Link copiedयज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव।
Link copiedयेन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि॥३५॥
Link copiedयज् ज्ञानं ज्ञात्वा पुनर् एवं देहाद्य्-आत्माभिमान-रूपं तत्-कृतं ममताद्य्-आस्पदं च मोहं न यास्यसि, येन देव-मनुष्याद्य्-आकारेणानुसंहितानि सर्वाणि भूतानि स्वात्मन्य् एव द्रक्ष्यसि। यतस् तवान्येषां च भूतानां प्रकृति-वियुक्तानां ज्ञानैकाकारतया साम्यम्। प्रकृति-संसर्ग-दोष-विनिर्मुक्तम् आत्म-स्वरूपं सर्वं समम् इति च वक्ष्यते निर्दोषं हि समं ब्रह्म [गीता ५।१९] इति।
Link copiedअथो मयि सर्वाणि भूतान्य् अशेषेण द्रक्ष्यसि, मत्-स्वरूप-साम्याच् च परिशुद्धस्य सर्वस्य आत्म-वस्तुनः। इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः [गीता १४।२] इति हि वक्ष्यते तथा विद्वान् पुण्य-पापे विधूय, निरञ्जनः परमं साम्यम् उपैति [मु।उ। ३।१।३] इत्य् एवम् आदिषु नाम-रूप-विनिर्मुक्तस्य आत्म-वस्तुनः परं स्वरूप-साम्यम् अवगम्यते। अतः प्रकृति-विनिर्मुक्तं सर्वम् आत्म-वस्तु परस्परं समं सर्वेश्वरेण च समम्॥४।३५॥
Link copiedअपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः।
Link copiedसर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि॥३६॥
Link copiedयद्यपि सर्वेभ्यः पाप-कृत्तमोऽसि सर्वं पूर्वार्जितं वृजिन-रूपं समुद्रम् आत्म-विषय-ज्ञान-रूप-प्लवेनैव सन्तरिष्यसि॥४।३६॥
Link copiedयथैधांसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन।
Link copiedज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा॥३७॥
Link copiedसम्यक् प्रवृद्धोऽग्निर् इन्धन-समुच्चयम् इवात्म-याथात्म्य-ज्ञान-रूपोऽग्निर् जीवात्म-गतम् अनादि-काल-प्रवृत्तानन्त-कर्म-सञ्चयं भस्मीकरोति॥४।३७॥
Link copiedन हि ज्ञानेन सदृशं पवित्रम् इह विद्यते।
Link copiedतत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति॥३८॥
Link copiedयस्माद् आत्म-ज्ञानेन सदृशं पवित्रं शुद्धि-करम् इह जगति वस्त्व्-अन्तरं न विद्यते, तस्माद् आत्म-ज्ञानं सर्वं पापं नाशयतीत्य् अर्थः। तत् तथा-विधं ज्ञानं यथोपदेशम् अहरहर् अनुष्ठीयमानं ज्ञानाकार-कर्म-योगेन संसिद्धः कालेन स्वात्मनि स्वयम् एव लभते॥४।३८॥
Link copiedतद् एव स्पष्टम् आह---
Link copiedश्रद्धावांल् लभते ज्ञानं तत्-परः संयतेन्द्रियः।
Link copiedज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति॥३९॥
Link copiedएवम् उपदेशाज् ज्ञानं लब्ध्वा चोपदिष्ट-ज्ञान-वृद्धौ श्रद्धावान् तत्-परस् तत्रैव नियमित-मनास् तद्-इतर-विषयात् संयतेन्द्रियोऽचिरेण कालेनोक्त-लक्षण-विपाक-दशापन्नं ज्ञानं लभते। तथा-विधं ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति परं निर्वाणं प्राप्नोति॥४।३९॥
Link copiedअज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति।
Link copiedनायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥४०॥
Link copiedअज्ञ एवम् उपदेश-लब्ध-ज्ञान-रहित उपदिष्ट-ज्ञान-वृद्ध्य्-उपाये चाश्रद्दधानोऽत्वरमाण उपदिष्टे च ज्ञाने संशयात्मा संशयित-मना विनश्यति, नष्टो भवति। अस्मिन्न् उपदिष्टे आत्म-याथात्म्य-विषये ज्ञाने संशयात्मनोऽयम् अपि प्राकृत-लोको नास्ति, न च परः। धर्मार्थ-कामादि-पुरुषार्थाश् च न सिद्ध्यन्ति, कुतो मोक्ष इत्य् अर्थः।
Link copiedशास्त्रीय-कर्म-सिद्धि-रूपत्वात् सर्वेषां पुरुषार्थानां शास्त्रीय-कर्म-जन्य-सिराश् च देहातिरिक्तात्म-निश्चय-पूर्वकत्वात्। अतः सुख-लव-भागित्वम् आत्मनि संशयात्मनो न सम्भवति॥४।४०॥
Link copiedयोग-सन्न्यस्त-कर्माणं ज्ञान-सञ्छिन्न-संशयम्।
Link copiedआत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय॥४१॥
Link copiedयथोपदिष्ट-योगेन सन्न्यस्त-कर्माणं ज्ञानाकारतापन्न-कर्माणं यथोपदिष्टेन चात्म-ज्ञानेनात्मनि सञ्छिन्न-संशयम् आत्मवन्तं मनस्विनम् उपदिष्टार्थो दृढावस्थित-मनसं बन्ध-हेतु-भूत-प्राचीनानन्त-कर्माणि न निबध्नन्ति॥४।४१॥
Link copiedतस्माद् अज्ञान-सम्भूतं हृत्-स्थं ज्ञानासिनात्मनः।
Link copiedछित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत॥४२॥
Link copiedतस्माद् अनाद्य्-अज्ञान-सम्भूतं हृत्-स्थम् आत्म-विषयं संशयं मयोपदिष्टेनात्म-ज्ञानासिना छित्त्वा मयोपदिष्टं कर्म-योगम् आतिष्ठ तद्-अर्थम् उत्तिष्ठ भारतेति॥४।४२॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये चतुर्थोऽध्यायः ॥४॥
Link copiedతృతీయేఽధ్యాయే ప్రకృతి-సంసృష్టస్య ముముక్షోః సహసా జ్ఞాన-యోగేఽనధికారాత్ కర్మ-యోగ ఏవ కార్యః। జ్ఞాన-యోగాధికారిణోఽప్య్ అకర్తృత్వానుసన్ధాన-పూర్వకం కర్మ-యోగ ఏవ శ్రేయాన్ ఇతి సహేతుకమ్ ఉక్తమ్। ఇవ్శిష్టతయా వ్యపదేశ్యస్య తు విశేషతః కర్మ-యోగ ఏవ కార్య ఇతి చోక్తమ్। చతుర్థేనేదానీమ్ అస్యైవ కర్మ-యోగస్య నిఖిల-జగద్-ఉద్ధరణాయ మన్వన్తరాదావ్ ఏవోపదిష్టతయా కర్తవ్యతాం ద్రఢయిత్వా అన్తర్గత-జ్ఞానతత్యాఽస్యైవ జ్ఞాన-యోగాకారతాం ప్రదర్శ్య, కర్మ-యోగ-స్వరూపం తద్-భేదాః కర్మ-యోగే జ్ఞానాంశస్యైవ ప్రాధాన్యం చోచ్యతే। ప్రసఙ్గాచ్ చ భగవద్-అవతార-యాథాత్మ్యమ్ ఉచ్యతే---
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedఇమం వివస్వతే యోగం ప్రోక్తవాన్ అహమ్ అవ్యయమ్।
Link copiedవివస్వాన్ మనవే ప్రాహ మనుర్ ఇక్ష్వాకవేఽబ్రవీత్॥౧॥
Link copiedఏవం పరమ్పరా-ప్రాప్తమ్ ఇమం రాజర్షయో విదుః।
Link copiedస కాలేనేహ మహతా యోగో నష్టః పరన్తప॥౨॥
Link copiedయోఽయం తవోదితో యోగః స కేవలం యుద్ధ-ప్రోత్సాహనాయేదానీమ్ ఉదిత ఇతి న మన్తవ్యమ్। మన్వన్తరాదావ్ ఏవ నిఖిల-జగద్-ఉద్ధరణాయ పరమ-పురుషార్థ-లక్షణ-మోక్ష-సాధనతయా ఇమం యోగమ్ అహమ్ ఏవ వివస్వతే ప్రోక్తవాన్। వివస్వాన్ చ మనవే మనుర్ ఇక్ష్వాకవ ఇత్య్ ఏవం సమ్ప్రదాయ-పరమ్పరయా ప్రాప్తమ్ ఇమం యోగం పూర్వే రాజర్షాయో విదుః। స మహతా కాలేన తత్-తచ్-ఛ్రోతృ-బుద్ధి-మాన్ద్యాద్ వినష్ట-ప్రాయోఽభూత్॥౪।౧-౨॥
Link copiedస ఏవాయం మయా తేఽద్య యోగః ప్రోక్తః పురాతనః।
Link copiedభక్తోఽసి మే సఖా చేతి రహస్యం హ్య్ ఏతద్ ఉత్తమమ్॥౩॥
Link copiedస ఏవాయమ్ అస్ఖలిత-స్వరూపః పురాతనః యోగః సఖ్యేనాతిమాత్ర-భక్త్యా చ మామ్ ఏవ ప్రపన్నాయ తే మయా ప్రోక్తః। స-పరికరః స-విస్తరమ్ ఉక్త ఇత్య్ అర్థః। మద్-అన్యేన కేనాపి జ్ఞాతుం వక్తుం వా న శక్యమ్, యత ఇదం వేదాన్తోదితమ్ ఉత్తమం రహస్యం జ్ఞానమ్॥౪।౩॥
Link copiedఅస్మిన్ ప్రసఙ్గే భగవద్-అవతార-యాథాత్మ్యం యథావద్ జ్ఞాతుమ్ అర్జున ఉవాచ---
Link copiedఅపరం భవతో జన్మ పరం జన్మ వివస్వతః।
Link copiedకథమ్ ఏతద్ విజానీయాం త్వమ్ ఆదౌ ప్రోక్తవాన్ ఇతి॥౪॥
Link copiedకాల-సఙ్ఖ్యయా అపరమ్ అస్మజ్-జన్మ-సమ-కాలం హి భవతో జన్మ। వివస్వతశ్ చ కాల-సఙ్ఖ్యయా పరమ్ అష్ట-వింశతి-చతుర్యుగ-సఙ్ఖ్యా-సఙ్ఖ్యాతమ్। త్వమ్ ఏవ ఆదౌ ప్రోక్తవాన్ ఇతి కథమ్ ఏతద్ అసమ్భావనీయం విశేషేణ యథార్థం జానీయామ్।
Link copiedనను జన్మాన్తరేణాపి వక్తుం శక్యమ్। జన్మాన్తర-కృతస్య మహతాం స్మృతిశ్ చ యుజ్యత ఇతి నాత్ర కశ్చిద్ విరోధః। న చాసౌ వక్తారమ్ ఏనం వసుదేవ-తనయం సర్వేశ్వరం న జానాతి। యత ఏవం వక్ష్యతి---
Link copiedపరం బ్రహ్మ పరం ధామ పవిత్రం పరమం భవాన్।
Link copiedపురుషం శాశ్వతం దివ్యమ్ ఆది-దేవమ్ అజం విభుమ్॥
Link copiedఆహుస్ త్వామ్ ఋషయః సర్వే దేవర్షిర్ నారదస్ తథా।
Link copiedఅసితో దేవలో వ్యాసః స్వయం చైవ బ్రవీషి మే॥ [గీతా ౧౦।౧౨-౧౩] ఇతి।
Link copied
యుధిష్ఠిర-రాజసూయాదిషు భీష్మాదిభ్యశ్ చాసకృత్ శ్రుతమ్---
Link copiedకృష్ణ ఏవ హి లోకానామ్ ఉత్పత్తిర్ అపి చాప్య్ అయః।
Link copiedకృష్ణస్య హి కృతే భూతమ్ ఇదం విశ్వం చరాచరమ్॥ [మ।భా। ౨।౩౮।౨౩]
Link copiedఇత్య్ ఏవమ్ ఆదిషు। కృష్ణస్య హి కృతే ఇతి కృష్ణస్య శేష-భూతమ్ ఇదం కృత్స్నం జగద్ ఇత్య్ అర్థః।
Link copiedఅత్రోచ్యతే--- జానాత్య్ ఏవాయం భగవన్తం వసుదేవ-తనయం పార్థః। జానతోఽప్య్ అజానత ఇవ పృచ్ఛతోఽయమ్ ఆశయః--- నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైకతానస్య సర్వేశ్వరస్య సర్వజ్ఞస్య సత్య-సఙ్కల్పస్య చావాప్త-సమస్త-కామస్య కర్మ-పరవశ-దేవ-మనుష్యాది-సజాతీయం జన్మ కిమ్ ఇన్ద్రజాలాదివన్ మిథ్యా ఉత సత్యమ్। సత్యత్వే చ కథం జన్మ-ప్రకారః। కిమ్-ఆత్మకోఽయం దేహః। కశ్ చ జన్మ-హేతుః। కదా చ జన్మ। కిమ్-అర్థం వా జన్మ। ఇతి పరిహార-ప్రకారేణ ప్రశ్నార్థో విజ్ఞాయతే॥౪।౪॥
Link copiedపరిహరన్ శ్రీ-భగవాన్ ఉవాచ---
Link copiedబహూని మే వ్యతీతాని జన్మాని తవ చార్జున।
Link copiedతాన్య్ అహం వేద సర్వాణి న త్వం వేత్థ పరన్తప॥౫॥
Link copiedఅనేన జన్మనః సత్యత్వమ్ ఉక్తం బహూని మే వ్యతీతాని జన్మానీతి వచనాత్, తవ చేతి దృష్టన్తతయా ఉపాదానాచ్ చ॥౪।౫॥
Link copiedఆత్మనోఽవతార-ప్రకారం దేహ-యాథాత్మ్యం జన్మ-హేతుం చాహ---
Link copiedఅజోఽపి సన్న్ అవ్యయాత్మా భూతానామ్ ఈశ్వరోఽపి సన్।
Link copiedప్రకృతిం స్వామ్ అధిష్ఠాయ సమ్భవామ్య్ ఆత్మ-మాయయా॥౬॥
Link copiedఅజత్వావ్యయత్వ-సర్వేశ్వరత్వాది-సర్వం పారమేశ్వరం ప్రకారమ్ అజహద్ ఏవ స్వాం ప్రకృతిమ్ అధిష్ఠాయ ఆత్మ-మాయయా సమ్భవామి। ప్రకృతిః స్వభావః, స్వమ్ ఏవ స్వభావమ్ అధిష్ఠాయ స్వేనైవ రూపేణ స్వేచ్ఛయా సమ్భవామీత్య్ అర్థః।
Link copiedస్వరూపం హి--- ఆదిత్య-వర్ణం తమసః పరస్తాత్ [య।వే। ౩౧।౧౮], క్షయన్తమ్ అస్య రజసః పరాకే [సా।వే। ౧౭।౧।౪।౨], య ఏషోఽన్తరాదిత్యే హిరణ్మయః పురుషః [ఛా।ఉ। ౧।౬।౬], తస్మిన్న్ అయం పురుషో మనోమయోఽమృతో హిరణ్మయః [తై।ఉ। ౧।౬।౧] సర్వే నిమేషా జజ్ఞిరే విద్యుతః పురుషాదధి [య।వే। ౩౨।౨], భా-రూపః సత్య-సఙ్కల్ప ఆకాశాత్మా సర్వ-కర్మా సర్వ-కామః సర్వ-గన్ధః సర్వ-రసః [ఛా।ఉ। ౩।౧౪।౨], మాహారజనం వాసః [బృ।ఆ।ఉ। ౨।౩।౬] ఇత్య్-ఆది-శ్రుతి-సిద్ధమ్।
Link copiedఆత్మ-మాయయా ఆత్మీయయా మాయయా। మాయా వయునం జ్ఞానమ్ [నిఘణ్టు ౨౨] ఇతి జ్ఞాన-పర్యాయోఽత్ర మాయా-శబ్దః। తథా చాభియుక్త-ప్రయోగః--- మాయయా సతతం వేత్తి ప్రాణినాం చ శుభాశుభమ్ ఇతి। ఆత్మీయేన జ్ఞానేన ఆత్మ-సఙ్కల్పేనేత్య్ అర్థః।
Link copiedఅతోఽపహత-పాప్మత్వాది-సమస్త-కల్యాణ-గుణాత్మకత్వం సర్వమ్ ఐశ్వరం స్వభావమ్ అజహద్ ఏవ స్వమ్ ఏవ రూపం దేవ-మనుష్యాది-సజాతీయ-స్థానం కుర్వన్ ఆత్మ-సఙ్కల్పేన దేవాది-రూపః సమ్భవామి। తద్ ఇదమ్ ఆహ--- అజాయమానో బహుధా విజాయతే [య।వే। ౩౧।౧౯] ఇతి శ్రుతిః। ఇతర-పురుష-సాధారణం జన్మ అకుర్వన్ దేవాది-రూపేణ స్వ-సఙ్కల్పేన ఉక్త-ప్రక్రియయా జాయత ఇత్య్ అర్థః। బహూని మే వ్యతీతాని జన్మాని తవ చార్జున। తాన్య్ అహం వేద సర్వాణి [గీతా ౪।౫] తద్ ఆత్మానం సృజామ్య్ అహమ్ [గీతా ౪।౭], జన్మ కర్మ చ మే దివ్యమ్ ఏవం యో వేత్తి తత్త్వతః [గీతా ౪।౯] ఇతి పూర్వాపరావిరోధాచ్ చ॥౪।౬॥
Link copiedజన్మ-కాలమ్ ఆహ---
Link copiedయదా యదా హి ధర్మస్య గ్లానిర్ భవతి భారత।
Link copiedఅభ్యుత్థానమ్ అధర్మస్య తదాత్మానం సృజామ్య్ అహమ్॥౭॥
Link copiedన కాల-నియమోఽస్మత్-సమ్భవస్య। యదా యదా హి ధర్మస్య వేదేనోదితస్య చాతుర్వర్ణ్య-చాతురాశ్రమ్య-వ్యవస్థయావస్థితస్య కర్తవ్యస్య గ్లానిర్ భవతి, యదా యదా చ తద్-విపర్యయస్యాధర్మస్య అభ్యుత్థానం, తదాహమ్ ఏవ స్వ-సఙ్కల్పేనోక్త-ప్రకారేణాత్మానం సృజామి॥౪।౭॥
Link copiedజన్మనః ప్రయోజనమ్ ఆహ---
Link copiedపరిత్రాణాయ సాధూనాం వినాశాయ చ దుష్కృతామ్।
Link copiedధర్మ-సంస్థాపనార్థాయ సమ్భవామి యుగే యుగే॥౮॥
Link copiedసాధవ ఉక్త-లక్షణ-ధర్మ-శీలా వైష్ణవాగ్రేసరా మత్-సమాశ్రయణే ప్రవృత్తా మన్-నామ-కర్మ-స్వరూపాణామ్ అవాఙ్-మనసాగోచరతయా మద్-దర్శనాద్ ఋతే స్వాత్మ-ధారణ-పోషణాది-సుఖమ్ అలభమానా అణు-మాత్ర-కాలమ్ అపి కల్ప-సహస్రాం మన్వానాః ప్రశిథిల-సర్వ-గాత్రా భవేయుర్ ఇతి మత్-స్వరూప-చేష్టితావలోకనాలాపాది-దానేన తేషాం పరిత్రాణాయ తద్-విపరీతానాం వినాశాయ చ క్షీణస్య వైదిక-ధర్మస్య మద్-ఆరాధన-రూపస్య ఆరాధ్య-స్వరూప-ప్రదర్శనేన తస్య స్థాపనాయ చ దేవ-మనుష్యాది-రూపేణ యుగే యుగే సమ్భవామి। కృత-త్రేతాది-యుగ-విశేష-నియమోఽపి నాస్తీత్య్ అర్థః॥౪।౮॥
Link copiedజన్మ కర్మ చ మే దివ్యమ్ ఏవం యో వేత్తి తత్త్వతః।
Link copiedత్యక్త్వా దేహం పునర్ జన్మ నైతి మామ్ ఏతి సోఽర్జున॥౯॥
Link copiedఏవం కర్మ-మూల-భూత-హేయ-త్రిగుణ-ప్రకృతి-సంసర్గ-రూప-జన్మ-రహితస్య సర్వేశ్వరత్వ-సర్వజ్ఞత్వ-సత్య-సఙ్కల్పత్వాది-సమస్త-కల్యాణ-గుణోపేతస్య సాధు-పరిత్రాణ-మత్-సమాశ్రయణైక-ప్రయోజనం దివ్యమ్ అప్రాకృతం మద్-అసాధారణం మమ జన్మ చేష్టితం చ తత్త్వతో యో వేత్తి స వర్తమానం దేహం పరిత్యజ్య పునర్ జన్మ నైతి మామ్ ఏవ ప్రాప్నోతి। మదీయ-దివ్య-జన్మ-చేష్టిత-యాథాత్మ్య-విజ్ఞానేన విధ్వస్త-సమస్త-మత్-సమాశ్రయణ-విరోధి-పాప్మాస్మిన్న్ ఏవ జన్మని యథోదిత-ప్రకారేణ మామ్ ఆశ్రిత్య మద్-ఏక-ప్రియో మద్-ఏక-చిత్తో మామ్ ఏవ ప్రాప్నోతి॥౪।౯॥
Link copiedతద్ ఆహ---
Link copiedవీత-రాగ-భయ-క్రోధా మన్-మయా మామ్ ఉపాశ్రితాః।
Link copiedబహవో జ్ఞాన-తపసా పూతా మద్-భావమ్ ఆగతాః॥౧౦॥
Link copiedమదీయ-జన్మ-కర్మ-తత్త్వ-జ్ఞానాఖ్యేన తపసా పూతా బహవ ఏవం సంవృత్తాః। తథా చ శ్రుతిః--- తస్య ధీరాః పరిజానన్తి యోనిమ్ ఇతి। ధీరా ధీమతామ్ అగ్రేసరా ఏవ తస్య జన్మ-ప్రకారం జానన్తీత్య్ అర్థః॥౪।౧౦॥
Link copiedన కేవలం దేవ-మనుష్యాది-రూపేణావతీర్య మత్-సమాశ్రయణాపేక్షాణాం పరిత్రాణం కరోమి। అపి తు---
Link copiedయే యథా మాం ప్రపద్యన్తే తాంస్ తథైవ భజామ్య్ అహమ్।
Link copiedమమ వర్త్మానువర్తన్తే మనుష్యాః పార్థ సర్వశః॥౧౧॥
Link copiedయే మత్-సమాశ్రయణాపేక్షా యథా యేన ప్రకారేణ స్వాపేక్షానురూపం మాం సఙ్కల్ప్య ప్రపద్యన్తే సమాశ్రయన్తే తాన్ ప్రతి తథైవ తన్-మనీషిత-ప్రకారేణ భజామి మాం దర్శయామి। కిమ్ అత్ర బహునా। సర్వే మనుష్యా మద్-అనువర్తనైక-మనోరథా మమ వత్ర్మ మత్-స్వభావం సర్వం యోగినాం వాఙ్-మనసాగోచరమ్ అపి స్వకీయైశ్ చక్షురాది-కరణైః సర్వశః స్వాపేక్షితైః సర్వ-ప్రకారైర్ అనుభూయ అనువర్తన్తే॥౪।౧౧॥
Link copiedఇదానీం ప్రాసఙ్గికం పరిసమాప్య ప్రకృతస్య కర్మ-యోగస్య జ్ఞానాకారతా-ప్రకారం వక్తుం తథా-విధ-కర్మ-యోగాధికారిణో దుర్లభత్వమ్ ఆహ---
Link copiedకాఙ్క్షన్తః కర్మణాం సిద్ధిం యజన్త ఇహ దేవతాః।
Link copiedక్షిప్రం హి మానుషే లోకే సిద్ధిర్ భవతి కర్మజా॥౧౨॥
Link copiedసర్వ ఏవ పురుషాః కర్మణాం ఫలం కాఙ్క్షమాణా ఇన్ద్రాది-దేవతా యథా-శాస్త్రం యజన్తే ఆరాధయన్తి। న తు కశ్చిద్ అనభిసంహిత-ఫల ఇన్ద్రాది-దేవతాత్మ-భూతం సర్వ-యజ్ఞానాం భోక్తారం మాం యజతే। కుత ఏతత్। యతః క్షిప్రమ్ అస్మిన్ ఏవ మానుషే లోకే కర్మజా పుత్ర-పశ్వ్-అన్నాద్యా సిద్ధిర్ భవతి। మనుష్య-లోక-శబ్దః స్వర్గాది-లోక-ప్రదర్శనార్థః।
Link copiedసర్వ ఏవ హి లౌకికాః పురుషా ఆక్షీణానాది-కాల-ప్రవృత్తానన్త-పాప-సఞ్చయతయా అవివేకినః క్షిప్ర-ఫలాభికాఙ్క్షిణః పుత్ర-పశ్వ్-అన్నాది-స్వర్గాద్య్-అర్థతయా సర్వాణి కర్మాణి, ఇన్ద్రాది-దేవతారాధన-మాత్రాణి కుర్వతే। న తు కశ్చిత్ సంసారోద్విగ్న-హృదయో ముముక్షుర్ ఉక్త-లక్షణం కర్మ-యోగం మద్-ఆరాధన-భూతమ్ ఆరభతే ఇత్య్ అర్థః॥౪।౧౨॥
Link copiedయథోక్త-కర్మ-యోగారమ్భ-విరోధి-పాప-క్షయ-హేతుమ్ ఆహ---
Link copiedచాతుర్-వర్ణ్యం మయా సృష్టం గుణ-కర్మ-విభాగశః।
Link copiedతస్య కర్తారమ్ అపి మాం విద్ధ్య్ అకర్తారమ్ అవ్యయమ్॥౧౩॥
Link copiedచాతుర్వర్ణ్య-ప్రముఖం బ్రహ్మాది-స్తమ్బ-పర్యన్తం కృత్స్నం జగత్ సత్త్వాది-గుణ-విభాగేన తద్-అనుగుణ-శమాది-కర్మ-విభాగేన చ ప్రవిభక్తం మయా సృష్టమ్। సృష్టి-గ్రహణం ప్రదర్శనార్థమ్। మయైవ రక్ష్యతే, మయైవ చ ఉపసంహ్రియతే। తస్య విచిత్ర-సృష్ట్య్-ఆదేః కర్తారమ్ అప్య్ అకర్తారం మాం విద్ధి॥౪।౧౩॥
Link copiedకథమ్ ఇత్య్ అత్ర ఆహ---
Link copiedన మాం కర్మాణి లిమ్పన్తి న మే కర్మ-ఫలే స్పృహా।
Link copiedఇతి మాం యోఽభిజానాతి కర్మభిర్ న స బధ్యతే॥౧౪॥
Link copiedయత ఇమాని విచిత్ర-సృష్ట్య్-ఆదీని న మాం కర్మాణి లిమ్పన్తి న మాం సమ్బధ్నన్తి। న మత్-ప్రయుక్తానీమాని దేవ-మనుష్యాది-వైచిత్ర్యాణి సృజ్యానాం పుణ్య-పాప-రూప-కర్మ-విశేష-ప్రయుక్తానీత్య్ అర్థః। అతః ప్రాప్తాప్రాప్త-వివేకన విచిత్ర-సృష్టయ్-ఆదేః నాహం కర్తా। యతశ్ చ సృష్టః క్షేత్ర-జ్ఞాః సృష్టి-లబ్ధ-కరణ-కలేవరాః సృష్టి-లబ్ధం భోగ్య-జాతం ఫల-సఙ్గాది-హేతు-స్వ-కర్మానుగుణం భుఞ్జతే, సృష్ట్య్-ఆది-కర్మ-ఫలే చ తేషామ్ ఏవ స్పృహేతి న మే స్పృహా।
Link copiedతథా సూత్ర-కారః--- వైషమ్య-నైర్ఘృణ్యే న సాపేక్షత్వాత్ [వే।సూ। ౨।౧।౩౪] ఇతి। తథాహ భగవాన్ పరాశరః---
Link copiedనిమిత్త-మాత్రమ్ ఏవాయం సృజ్యానాం సర్గ-కర్మాణి।
Link copiedప్రధాన-కారణీభూతా యతో వై సృజ్య-శక్తయః॥
Link copiedనిమిత్త-మాత్రం ముక్త్వేదం నాన్యత్ కిఞ్చిద్ అపేక్ష్యతే।
Link copiedనీయతే తపతాం శ్రేష్ఠ స్వ-శక్త్యా వస్తు వస్తుతామ్॥ [వి।పు। ౧।౪।౫౧-౫౨] ఇతి।
Link copied
సృజ్యానాం దేవాదీనాం క్షేత్ర-జ్ఞానాం సృష్టేః కారణ-మాత్రమ్ ఏవాయం పరమ-పురుషః, దేవాది-వైచిత్ర్యే తు ప్రధాన-కారణం సృజ్య-భూత-క్షేత్ర-జ్ఞానాం ప్రాచీన-కర్మ-శక్తయ ఏవ। అతో నిమిత్త-మాత్రం ముక్త్వా సృష్టేః కర్తారం పరమ-పూరుషం ముక్త్వేదం క్షేత్ర-జ్ఞ-వస్తు దేవాది-విచిత్ర-భావే న అన్యద్ అపేక్షతే। స్వగత-ప్రాచీన-కర్మ-శక్త్యా ఏవ హి దేవాది-వస్తు-భావం నీయత ఇత్య్ అర్థః।
Link copiedఏవమ్ ఉక్తేన ప్రకారేణ సృష్ట్య్-ఆదేః కర్తారమ్ అప్య్ అకర్తారం సృష్ట్య్-ఆది-కర్మ-ఫల-సఙ్గ-రహితం చ యో మామ్ అభిజానాతి స కర్మ-యోగారమ్భ-విరోధిభిః ఫల-సఙ్గాది-హేతుభిః ప్రాచీన-కర్మభిః న సమ్బధ్యతే। ముచ్యత ఇత్య్ అర్థః॥౪।౧౪॥
Link copiedఏవం జ్ఞాత్వా కృతం కర్మ పూర్వైర్ అపి ముముక్షుభిః।
Link copiedకురు కర్మైవ తస్మాత్ త్వం పూర్వైః పూర్వతరం కృతమ్॥౧౫॥
Link copiedఏవం మాం జ్ఞాత్వా అపి విముక్త-పాపైః పూర్వైర్ అపి ముముక్షుభిర్ ఉక్త-లక్షణం కర్మ కృతమ్। తస్మాత్ త్వమ్ ఉక్త-ప్రకార-మద్-విషయ-జ్ఞాన-విధూత-పాపః పూర్వైర్ వివస్వన్-మన్వ్-ఆదిభిః కృతం పూర్వతరం పురాతనం తదానీమ్ ఏవ మయోక్తం వక్ష్యమాణాకారం కర్మైవ కురు॥౪।౧౫॥
Link copiedవక్ష్యమాణస్య కర్మణో దుర్జ్ఞానతామ్ ఆహ---
Link copiedకిం కర్మ కిమ్ అకర్మేతి కవయోఽప్య్ అత్ర మోహితాః।
Link copiedతత్ తే కర్మ ప్రవక్ష్యామి యజ్ జ్ఞాత్వా మోక్ష్యసేఽశుభాత్॥౧౬॥
Link copiedముముక్షుణానుష్ఠేయం కర్మ కిం-స్వరూపమ్। అకర్మ చ కిమ్। ఫలాభిసన్ధి-రహితం భగవద్-ఆరాధన-రూపం కర్మ। అకర్మ ఇతి కర్తుర్ ఆత్మనో యాథాత్మ్య-జ్ఞానమ్ ఉచ్యతే। అనుష్ఠేయం కర్మ తద్-అన్తర్గతం జ్ఞానం చ కిం-స్వరూపమ్। ఇత్య్ ఉభయత్ర కవయో విద్వాంసోఽపి మోహితాః, యథార్థతయా న జానన్తి। ఏవమ్ అన్తర్గత-జ్ఞానం యత్ కర్మ తత్ తే ప్రవక్ష్యామి। యద్ జ్ఞాత్వా అనుష్ఠాయ అశుభాత్ సంసార-బన్ధాన్ మోక్ష్యసే। కర్తవ్య-కర్మ-జ్ఞానం హి అనుష్ఠాన-ఫలమ్॥౪।౧౬॥
Link copiedకుతోఽస్య దుర్జ్ఞానతా। ఇత్య్ అత్ర ఆహ---
Link copiedకర్మణో హ్య్ అపి బోద్ధవ్యం బోద్ధవ్యం చ వికర్మణః।
Link copiedఅకర్మణశ్ చ బోద్ధవ్యం గహనా కర్మణో గతిః॥౧౭॥
Link copiedయస్మాత్ మోక్ష-సాధన-భూతే కర్మణః స్వరూపే బోద్ధవ్యమ్ అస్తి। వికర్మణి చ నిత్య-నైమిత్తిక-కామ్య-కర్మ-రూపేణ తత్-సాధన-ద్రవ్యార్జనాద్య్-ఆకారేణ చ, వివిధతామ్ ఆపన్నం కర్మ వికర్మ। అకర్మణి జ్ఞానే చ బోద్ధవ్యమ్ అస్తి। గహనా దుర్విజ్ఞానా ముముక్షోః కర్మణో గతిః। వికర్మణి చ బోద్ధవ్యమ్--- నిత్య-నైమిత్తిక-కామ్య-ద్రవ్యార్జనాదౌ కర్మణి ఫల-భేద-కృతం వైవిధ్యం పరిత్యజ్య మోక్షైక-ఫలతయా ఏక-శాస్త్రార్థత్వానుసన్ధానమ్। తద్ ఏతద్ వ్యవసాయాత్మికా బుద్ధిర్ ఏకా [౨।౪౧] ఇత్య్ అత్రైవోక్తమ్ ఇతి నేహ ప్రపఞ్చ్యతే॥౪।౧౭॥
Link copiedకర్మాకర్మణోర్ బోద్ధవ్యమ్ ఆహ---
Link copiedకర్మణ్య్ అకర్మ యః పశ్యేద్ అకర్మణి చ కర్మ యః।
Link copiedస బుద్ధిమాన్ మనుష్యేషు స యుక్తః కృత్స్న-కర్మ-కృత్॥౧౮॥
Link copiedఅకర్మ-శబ్దేనాత్ర కర్మేతరత్ ప్రస్తుతమ్ ఆత్మ-జ్ఞానమ్ ఉచ్యతే। కర్మణి క్రియమాణే ఏవ ఆత్మ-జ్ఞానం యత్ పశ్యేద్ అకర్మణి చాత్మ-జ్ఞానే వర్తమానైవ యః కర్మ పశ్యేత్। కిమ్ ఉక్తం భవతి। క్రియమాణమ్ ఏవ కర్మాత్మ-యాథాత్మ్యానుసన్ధానేన జ్ఞానాకారం యః పశ్యేత్, తచ్ చ జ్ఞానం కర్మణి అన్తర్గతతయా కర్మాకారం యః పశ్యేద్ ఇతి ఉక్తం భవతి। క్రియమాణే హి కర్మణి కర్తృ-భూతాత్మ-యాథాత్మ్యానుసన్ధానేన తద్ ఉభయం సమ్పన్నం భవతి।
Link copiedఏవమ్ ఆత్మ-యాథాత్మ్యానుసన్ధాన-గర్భం కర్మ యః పశ్యేత్ స బుద్ధిమాన్ కృత్స్న-శాస్త్రార్థ-విత్, మనుష్యేషు స యుక్తో మోక్షార్హః స ఏవ కృత్స్న-కర్మ-కృత్ కృత్స్న-శాస్త్రార్థ-కృత్॥౪।౧౮॥
Link copiedప్రత్యక్షేణ క్రియమాణస్య కర్మణో జ్ఞానాకారతా కథమ్ ఉపపద్యతే। ఇత్య్ అత్రాహ---
Link copiedయస్య సర్వే సమారమ్భాః కామ-సఙ్కల్ప-వర్జితాః।
Link copiedజ్ఞానాగ్ని-దగ్ధ-కర్మాణం తమ్ ఆహుః పణ్డితం బుధాః॥౧౯॥
Link copiedయస్య ముముక్షోః సర్వే ద్రవ్యార్జనాది-లౌకిక-కర్మ-పూర్వక-నిత్య-నైమిత్తిక-కామ్య-రూప-కర్మ-సమారమ్భాః కామ-వర్జితాః ఫల-సఙ్గ-రహితాః సఙ్కల్ప-వర్జితాశ్ చ।
Link copiedప్రకృత్యా తద్-గుణైశ్ చాత్మానమ్ ఏకీకృత్య అనుసన్ధానాం సఙ్కల్పః। ప్రకృతి-వియుక్తాత్మ-స్వరూపానుసన్ధాన-యుక్తతయా తద్-రహితాః। తమ్ ఏవం కర్మ కుర్వాణం పణ్డితం కర్మాన్తర్గతాత్మ-యాథాత్మ్య-జ్ఞానాగ్నినా దగ్ధ-ప్రాచీన-కర్మాణమ్ ఆహుస్ తత్త్వ-జ్ఞాః॥౪।౧౯॥
Link copiedఅతః కర్మణో జ్ఞానాకారత్వమ్ ఉపపద్యతే। ఏతద్ ఏవ వివృణోతి---
Link copiedత్యక్త్వా కర్మ-ఫలాసఙ్గం నిత్య-తృప్తో నిరాశ్రయః।
Link copiedకర్మణ్య్ అభిప్రవృత్తోఽపి నైవ కిఞ్చిత్ కరోతి సః॥౨౦॥
Link copiedకర్మ-ఫలాసఙ్గం త్యక్త్వా నిత్య-తృప్తో నిత్యే స్వాత్మన్య్ ఏవ తృప్తో నిరాశ్రయోఽస్థిర-ప్రకృతౌ ఆశ్రయ-బుద్ధి-రహితో యః కర్మాణి కరోతి, స కర్మణ్య్ ఆభిముఖ్యేన ప్రవృత్తోఽపి నైవ కిఞ్చిత్ కర్మ కరోతి, కర్మాపదేశేన జ్ఞానాభ్యాసమ్ ఏవ కరోతీత్య్ అర్థః॥౪।౨౦॥
Link copiedపునర్ అపి కర్మణా జ్ఞానాకారతా ఏవ విశోధ్యతే---
Link copiedనిరాశీర్ యత-చిత్తాత్మా త్యక్త-సర్వ-పరిగ్రహః।
Link copiedశారీరం కేవలం కర్మ కుర్వన్ నాప్నోతి కిల్బిషమ్॥౨౧॥
Link copiedనిరాశీర్ నిర్గత-ఫలాభిసన్ధిః, యత-చిత్తాత్మా యత-చిత్తమనాః, త్యక్త-సర్వ-పరిగ్రహ ఆత్మైక-ప్రయోజనతయా ప్రకృతి-ప్రాకృత-వస్తుని మమతా-రహితో యావజ్-జీవం కేవలం శారీరమ్ ఏవ కర్మ కుర్వన్ కిల్బిషం సంసారం నాప్నోతి। జ్ఞాన-నిష్ఠా-వ్యవధాన-రహిత-కేవల-కర్మ-యోగేన ఏవం-రూపేణాత్మానం పశ్యతీత్య్ అర్థః॥౪।౨౧॥
Link copiedయదృచ్ఛా-లాభ-సన్తుష్టో ద్వన్ద్వాతీతో విమత్సరః।
Link copiedసమః సిద్ధావ్ అసిద్ధౌ చ కృత్వాపి న నిబధ్యతే॥౨౨॥
Link copiedయదృచ్ఛోపనత-శరీర-ధారణ-హేతు-వస్తు-సన్తుష్టః ద్వన్ద్వాతీతో యావత్-సాధన-సమాప్త్య్-అవర్జనీయ-శీతోష్ణాది-సహః। విమత్సరోఽనిష్టోపనిపాత-హేతు-భూత-స్వకర్మ-నిరూపేణ పరేషు విగత-మత్సరః సమః సిద్ధౌ అసిద్ధౌ చ యుద్ధాది-కర్మసు జయాది-సిద్ధ్య్-అసిద్ధ్యోః సమ-చిత్తః కర్మైవ కృత్వాపి జ్ఞాన-నిష్ఠాం వినాపి న నిబధ్యతే, న సంసారం ప్రతిపద్యతే॥౪।౨౨॥
Link copiedగత-సఙ్గస్య ముక్తస్య జ్ఞానావస్థిత-చేతసః।
Link copiedయజ్ఞాయాచరతః కర్మ సమగ్రం ప్రవిలీయతే॥౨౩॥
Link copiedఆత్మ-విషయ-జ్ఞానావస్థిత-మనస్త్వేన విగత-తద్-ఇతర-సఙ్గస్య తత ఏవ నిఖిల-పరిగ్రహ-వినిర్ముక్తస్యోక్త-లక్షణ-యజ్ఞాది-కర్మ-నిర్వృత్తయే వర్తమానస్య పురుషస్య బన్ధ-హేతు-భూతం ప్రాచీనం కర్మ సమగ్రం ప్రవిలీయతే నిఃశేషం క్షీయతే॥౪।౨౩॥
Link copiedప్రకృతి-వియుక్తాత్మ-స్వరూపానుసన్ధాన-యుక్తతయా కర్మణో జ్ఞానాకారత్వమ్ ఉక్తమ్। ఇదానీం సర్వస్య స-పరికరస్య కర్మణః పర-బ్రహ్మ-భూత-పరమ-పురుషాత్మకత్వానుసన్ధానా-యుక్తతయా జ్ఞానాకారత్వమ్ ఆహ---
Link copiedబ్రహ్మార్పణం బ్రహ్మ హవిర్ బ్రహ్మాగ్నౌ బ్రహ్మణా హుతమ్।
Link copiedబ్రహ్మైవ తేన గన్తవ్యం బ్రహ్మ-కర్మ-సమాధినా॥౨౪॥
Link copiedహవిర్ విశేష్యతే। అర్ప్యతేఽనేనేత్య్ అర్పణం స్రుగ్-ఆది। తద్ బ్రహ్మ-కార్యత్వాద్ బ్రహ్మ, బ్రహ్మ యస్య హవిషోఽర్పణం తద్ బ్రహ్మార్పణమ్। బ్రహ్మ హవిః స్వయం చ బ్రహ్మ-భూతం బ్రహ్మాగ్నౌ బ్రహ్మ-భూతేఽగ్నౌ బ్రహ్మణా కర్త్రా హుతమ్। ఇతి సర్వం కర్మ బ్రహ్మాత్మకత్వాద్ బ్రహ్మ-మయమ్ ఇతి యః సమాధత్తే, స బ్రహ్మ-కర్మ-సమాధిః। తేన బ్రహ్మ-కర్మ-సమాధినా బ్రహ్మైవ గన్తవ్యమ్। బ్రహ్మాత్మకతయా బ్రహ్మ-భూతమ్ ఆత్మ-స్వరూపం గన్తవ్యమ్। ముముక్షూణాం క్రియమాణం కర్మ పర-బ్రహ్మాత్మకమ్ ఏవ ఇత్య్ అనుసన్ధాన-యుక్తతయా జ్ఞానాకారం సాక్షాద్ ఆత్మావలోకన-సాధనమ్, న జ్ఞాన-నిష్ఠా-వ్యవధానేనేత్య్ అర్థః॥౪।౨౪॥
Link copiedఏవం కర్మణో జ్ఞానాకారతాం ప్రతిపాద్య కర్మ-యోగ-భేదాన్ ఆహ---
Link copiedదైవమ్ ఏవాపరే యజ్ఞం యోగినః పర్యుపాసతే।
Link copiedబ్రహ్మాగ్నావ్ అపరే యజ్ఞం యజ్ఞేనైవోపజుహ్వతి॥౨౫॥
Link copiedదైవం దైవార్చన-రూపం యజ్ఞమ్ అపరే కర్మ-యోగినః పర్యుపాసతే సేవన్తే। తత్రైవ నిష్ఠాం కుర్వన్తీత్య్ అర్థః। అపరే బ్రహ్మాగ్నౌ యజ్ఞం యజ్ఞేనైవ ఉపజుహ్వతి। యజ్ఞం యజ్ఞ-రూపం బ్రహ్మాత్మకమ్ ఆజ్యాది-ద్రవ్యం యజ్ఞేన యజ్ఞ-సాధన-భూతేన స్రుగ్-ఆదినా జుహ్వతి। అత్ర యజ్ఞ-శబ్దో హవిః-స్రుగ్-ఆది-యజ్ఞ-సాధనే వర్తతే। బ్రహ్మార్పణం బ్రహ్మ హవిః ఇతి న్యాయేన యాగ-హోమయోర్ నిష్ఠాం కుర్వన్తి॥౪।౨౫॥
Link copiedశ్రోత్రాదీనీన్ద్రియాణ్య్ అన్యే సంయమాగ్నిషు జుహ్వతి।
Link copiedశబ్దాదీన్ విషయాన్ అన్య ఇన్ద్రియాగ్నిషు జుహ్వతి॥౨౬॥
Link copiedఅన్యే శ్రోత్రాదీనామ్ ఇన్ద్రియాణాం సంయమనే ప్రయన్తే। శబ్దాదీన్ విషయాన్ అన్యే యోగిన ఇన్ద్రియాణాం శబ్దాది-విషయ-ప్రవణతా-నివారణే ప్రయతన్తే॥౪।౨౬॥
Link copiedసర్వాణీన్ద్రియ-కర్మాణి ప్రాణ-కర్మాణి చాపరే।
Link copiedఆత్మ-సంయమ-యోగాగ్నౌ జుహ్వతి జ్ఞాన-దీపితే॥౨౭॥
Link copiedఅన్యే జ్ఞాన-దీపితే మనః-సంయమ-యోగాగ్నౌ సర్వాణీన్ద్రియ-కర్మాణి ప్రాణ-కర్మాణి చ జుహ్వతి। మనస ఇన్ద్రియ-ప్రాణానాం కర్మ-ప్రవణతా-నివారణే ప్రయతన్త ఇత్య్ అర్థః॥౪।౨౭॥
Link copiedద్రవ్య-యజ్ఞాస్ తపో-యజ్ఞా యోగ-యజ్ఞాస్ తథాపరే।
Link copiedస్వాధ్యాయ-జ్ఞాన-యజ్ఞాశ్ చ యతయః సంశిత-వ్రతాః॥౨౮॥
Link copiedకేచిత్ కర్మ-యోగినో ద్రవ్య-యజ్ఞాః, న్యాయతో ద్రవ్యాణ్య్ ఆదాయ దేవార్చనే ప్రయతన్తే, కేచిచ్ చ దానేషు, కేచిచ్ చ యాగేషు, కేచిచ్ చ హోమేషు, ఏతే సర్వే ద్రవ్య-యజ్ఞాః। కేచిత్ తపో-యజ్ఞాః కృచ్ఛ్ర-చాన్ద్రాయణోపవాసాదిషు నిష్ఠాం కుర్వన్తి। యోగ-యజ్ఞాశ్ చాపరే పుణ్య-తీర్థ- పుణ్య-స్థాన-ప్రాప్తిషు నిష్ఠాం కుర్వన్తి। ఇహ యోగ-శబ్దః కర్మ-నిష్ఠా-భేద-ప్రకరణాత్ తద్-విషయః। కేచిత్ స్వాధ్యాయ-పరాః స్వాధ్యాయాభ్యాస-పరాః। కేచిత్ తద్-అర్థ-జ్ఞానాభ్యాస-పరా యతయో యతన-శీలాః। శంసిత-వ్రతాః దృఢ-సఙ్కల్పాః॥౪।౨౮॥
Link copiedఅపానే జుహ్వతి ప్రాణం ప్రాణేఽపానం తథాపరే।
Link copiedప్రాణాపాన-గతీ రుద్ధ్వా ప్రాణాయామ-పరాయణాః॥౨౯॥
Link copiedఅపరే నియతాహారాః ప్రాణాన్ ప్రాణేషు జుహ్వతి।
Link copiedసర్వేఽప్య్ ఏతే యజ్ఞ-విదో యజ్ఞ-క్షపిత-కల్మషాః॥౩౦॥
Link copiedఅపరే కర్మ-యోగినః ప్రాణాయామేషు నిష్ఠాం కుర్వన్తి। తే చ త్రి-విధాః--- పూరక-రేచక-కుమ్భక-భేదేన। అపానే జుహ్వతి ప్రాణమ్ ఇతి పూరకః। ప్రాణేఽపానమ్ ఇతి రేచకః। ప్రాణాపాన-గతీ రుద్ధ్వా ప్రాణాన్ ప్రాణేషు జుహ్వతీతి కుమ్భకః। ప్రాణాయామ-పరేషు త్రిష్వ్ అప్య్ అనుషజ్యతే నియతాహారా ఇతి। ద్రవ్య-యజ్ఞ-ప్రభృతి-ప్రాణాయామ-పర్యన్తేషు కర్మ-యోగ-భేదేషు స్వ-సమీహితేషు ప్రవృత్తా ఏతే సర్వే సహ-యజ్ఞైః ప్రజాః సృష్ట్వా [౩।౧౦] ఇతి అభిహిత-మహా-యజ్ఞ-పూర్వక-నిత్య-నైమిత్తిక-కర్మ-రూప-యజ్ఞ-విదః, తన్-నిష్ఠాః, తత ఏవ క్షపిత-కల్మషాః॥౪।౨౯-।౩౦॥
Link copiedయజ్ఞ-శిష్టామృత-భుజో యాన్తి బ్రహ్మ సనాతనమ్।
Link copiedనాయం లోకోఽస్త్య్ అయజ్ఞస్య కుతోఽన్యః కురుసత్తమ॥౩౧॥
Link copiedయజ్ఞ-శిష్టామృతేన శరీర-ధారణం కుర్వన్త ఏవ కర్మ-యోగే వ్యాపృతాః సనాతనం చ బ్రహ్మ యాన్తి। అయజ్ఞస్య మహా-యజ్ఞాది-పూర్వక-నిత్య-నైమిత్తిక-కర్మ-రహితస్య నాయం లోకో న ప్రాకృత-లోకః ప్రాకృత-లోక-సమ్బన్ధి-ధర్మార్థ-కామాఖ్యః పురుషార్థో న సిధ్యతి। కుత
Link copiedఇతోఽన్యో మోక్షాఖ్యః పురుషార్థః। పరమ-పురుషార్థతయా మోక్షస్య ప్రస్తుతత్వాత్ తద్-ఇతర-పురుషార్థోఽయం లోక ఇతి నిర్దిశ్యతే స హి ప్రాకృతః॥౪।౩౧॥
Link copiedఏవం బహు-విధా యజ్ఞా వితతా బ్రహ్మణో ముఖే।
Link copiedకర్మజాన్ విద్ధి తాన్ సర్వాన్ ఏవం జ్ఞాత్వా విమోక్ష్యసే॥౩౨॥
Link copiedఏవం హి బహు-ప్రకారాః కర్మ-యోగా బ్రహ్మణో ముఖే వితతాః। ఆత్మ-యాథాత్మ్యావాప్తి-సాధనతయా స్థితాః। తాన్ ఉక్త-లక్షణాన్ ఉక్త-భేదాన్ కర్మ-యోగాన్ సర్వాన్ కర్మజాన్ విద్ధి। అహరహర్ అనుష్ఠీయమాన-నిత్య-నైమిత్తిక-కర్మానుష్ఠాన-జాన్ విద్ధి। ఏవం జ్ఞాత్వా యథోక్త-ప్రకారేణ అనుష్ఠాయ విమోక్ష్యసే॥౪।౩౨॥
Link copiedఅన్తర్గత-జ్ఞానతయా కర్మణో జ్ఞానాకారత్వమ్ ఉక్తమ్। తత్రాన్తర్గత-జ్ఞానే కర్మణి జ్ఞానాంశస్య ఏవ ప్రాధాన్యమ్ ఆహ---
Link copiedశ్రేయాన్ ద్రవ్య-మయాద్ యజ్ఞాజ్ జ్ఞాన-యజ్ఞః పరన్తప।
Link copiedసర్వం కర్మాఖిలం పార్థ జ్ఞానే పరిసమాప్యతే॥౩౩॥
Link copiedఉభయాకారే కర్మణి ద్రవ్య-మయాద్ అంశాద్ జ్ఞాన-మయోఽంశః శ్రేయాన్। సర్వస్య కర్మణస్ తద్-ఇతరస్య చాఖిలస్యోపాదేయస్య జ్ఞానే పరిసమాప్తేః। తద్ ఏవం సర్వైః సాధనైః ప్రాప్య-భూతం జ్ఞానం కర్మాన్తర్గతత్వేన అభ్యస్యతే। తద్ ఏవ హి అభ్యస్యమానం క్రమేణ ప్రాప్య-దశాం ప్రతిపద్యతే॥౪।౩౩॥
Link copiedతద్ విద్ధి ప్రణిపాతేన పరిప్రశ్నేన సేవయా।
Link copiedఉపదేక్ష్యన్తి తే జ్ఞానం జ్ఞానినస్ తత్త్వ-దర్శినః॥౩౪॥
Link copiedతద్ ఆత్మ-విషయం జ్ఞానమ్ అవినాశి తద్ విద్ధి [౨।౧౭] ఇత్య్ ఆరభ్య ఏషా తేఽభిహితా [౨।౩౯] ఇత్య్ అన్తేన మయోపదిష్టమ్ మద్-ఉక్త-కర్మణి వర్తమానస్ త్వం విపాకానుగుణం కాలే కాలే ప్రణిపాత-పరిప్రశ్న-సేవాదిభిర్ విశదాకారం జ్ఞానిభ్యో విద్ధి। సాక్షాత్-కృతాత్మ-స్వరూపాస్ తు జ్ఞానినః ప్రణిపాతాదిభిః సేవితా జ్ఞాన-బుభుత్సయా పరితః పృచ్ఛతస్ తవాశయమ్ ఆలక్ష్య జ్ఞానమ్ ఉపదేక్ష్యన్తి॥౪।౩౪॥
Link copiedఆత్మ-యాథాత్మ్య-విషయ-సాక్షాత్కార-రూపస్య లక్షణమ్ ఆహ---
Link copiedయజ్ జ్ఞాత్వా న పునర్ మోహమ్ ఏవం యాస్యసి పాణ్డవ।
Link copiedయేన భూతాన్య్ అశేషేణ ద్రక్ష్యస్య్ ఆత్మన్య్ అథో మయి॥౩౫॥
Link copiedయజ్ జ్ఞానం జ్ఞాత్వా పునర్ ఏవం దేహాద్య్-ఆత్మాభిమాన-రూపం తత్-కృతం మమతాద్య్-ఆస్పదం చ మోహం న యాస్యసి, యేన దేవ-మనుష్యాద్య్-ఆకారేణానుసంహితాని సర్వాణి భూతాని స్వాత్మన్య్ ఏవ ద్రక్ష్యసి। యతస్ తవాన్యేషాం చ భూతానాం ప్రకృతి-వియుక్తానాం జ్ఞానైకాకారతయా సామ్యమ్। ప్రకృతి-సంసర్గ-దోష-వినిర్ముక్తమ్ ఆత్మ-స్వరూపం సర్వం సమమ్ ఇతి చ వక్ష్యతే నిర్దోషం హి సమం బ్రహ్మ [గీతా ౫।౧౯] ఇతి।
Link copiedఅథో మయి సర్వాణి భూతాన్య్ అశేషేణ ద్రక్ష్యసి, మత్-స్వరూప-సామ్యాచ్ చ పరిశుద్ధస్య సర్వస్య ఆత్మ-వస్తునః। ఇదం జ్ఞానమ్ ఉపాశ్రిత్య మమ సాధర్మ్యమ్ ఆగతాః [గీతా ౧౪।౨] ఇతి హి వక్ష్యతే తథా విద్వాన్ పుణ్య-పాపే విధూయ, నిరఞ్జనః పరమం సామ్యమ్ ఉపైతి [ము।ఉ। ౩।౧।౩] ఇత్య్ ఏవమ్ ఆదిషు నామ-రూప-వినిర్ముక్తస్య ఆత్మ-వస్తునః పరం స్వరూప-సామ్యమ్ అవగమ్యతే। అతః ప్రకృతి-వినిర్ముక్తం సర్వమ్ ఆత్మ-వస్తు పరస్పరం సమం సర్వేశ్వరేణ చ సమమ్॥౪।౩౫॥
Link copiedఅపి చేద్ అసి పాపేభ్యః సర్వేభ్యః పాప-కృత్తమః।
Link copiedసర్వం జ్ఞాన-ప్లవేనైవ వృజినం సన్తరిష్యసి॥౩౬॥
Link copiedయద్యపి సర్వేభ్యః పాప-కృత్తమోఽసి సర్వం పూర్వార్జితం వృజిన-రూపం సముద్రమ్ ఆత్మ-విషయ-జ్ఞాన-రూప-ప్లవేనైవ సన్తరిష్యసి॥౪।౩౬॥
Link copiedయథైధాంసి సమిద్ధోఽగ్నిర్ భస్మసాత్ కురుతేఽర్జున।
Link copiedజ్ఞానాగ్నిః సర్వ-కర్మాణి భస్మసాత్ కురుతే తథా॥౩౭॥
Link copiedసమ్యక్ ప్రవృద్ధోఽగ్నిర్ ఇన్ధన-సముచ్చయమ్ ఇవాత్మ-యాథాత్మ్య-జ్ఞాన-రూపోఽగ్నిర్ జీవాత్మ-గతమ్ అనాది-కాల-ప్రవృత్తానన్త-కర్మ-సఞ్చయం భస్మీకరోతి॥౪।౩౭॥
Link copiedన హి జ్ఞానేన సదృశం పవిత్రమ్ ఇహ విద్యతే।
Link copiedతత్ స్వయం యోగ-సంసిద్ధః కాలేనాత్మని విన్దతి॥౩౮॥
Link copiedయస్మాద్ ఆత్మ-జ్ఞానేన సదృశం పవిత్రం శుద్ధి-కరమ్ ఇహ జగతి వస్త్వ్-అన్తరం న విద్యతే, తస్మాద్ ఆత్మ-జ్ఞానం సర్వం పాపం నాశయతీత్య్ అర్థః। తత్ తథా-విధం జ్ఞానం యథోపదేశమ్ అహరహర్ అనుష్ఠీయమానం జ్ఞానాకార-కర్మ-యోగేన సంసిద్ధః కాలేన స్వాత్మని స్వయమ్ ఏవ లభతే॥౪।౩౮॥
Link copiedతద్ ఏవ స్పష్టమ్ ఆహ---
Link copiedశ్రద్ధావాంల్ లభతే జ్ఞానం తత్-పరః సంయతేన్ద్రియః।
Link copiedజ్ఞానం లబ్ధ్వా పరాం శాన్తిమ్ అచిరేణాధిగచ్ఛతి॥౩౯॥
Link copiedఏవమ్ ఉపదేశాజ్ జ్ఞానం లబ్ధ్వా చోపదిష్ట-జ్ఞాన-వృద్ధౌ శ్రద్ధావాన్ తత్-పరస్ తత్రైవ నియమిత-మనాస్ తద్-ఇతర-విషయాత్ సంయతేన్ద్రియోఽచిరేణ కాలేనోక్త-లక్షణ-విపాక-దశాపన్నం జ్ఞానం లభతే। తథా-విధం జ్ఞానం లబ్ధ్వా పరాం శాన్తిమ్ అచిరేణ అధిగచ్ఛతి పరం నిర్వాణం ప్రాప్నోతి॥౪।౩౯॥
Link copiedఅజ్ఞశ్ చాశ్రద్దధానశ్ చ సంశయాత్మా వినశ్యతి।
Link copiedనాయం లోకోఽస్తి న పరో న సుఖం సంశయాత్మనః॥౪౦॥
Link copiedఅజ్ఞ ఏవమ్ ఉపదేశ-లబ్ధ-జ్ఞాన-రహిత ఉపదిష్ట-జ్ఞాన-వృద్ధ్య్-ఉపాయే చాశ్రద్దధానోఽత్వరమాణ ఉపదిష్టే చ జ్ఞానే సంశయాత్మా సంశయిత-మనా వినశ్యతి, నష్టో భవతి। అస్మిన్న్ ఉపదిష్టే ఆత్మ-యాథాత్మ్య-విషయే జ్ఞానే సంశయాత్మనోఽయమ్ అపి ప్రాకృత-లోకో నాస్తి, న చ పరః। ధర్మార్థ-కామాది-పురుషార్థాశ్ చ న సిద్ధ్యన్తి, కుతో మోక్ష ఇత్య్ అర్థః।
Link copiedశాస్త్రీయ-కర్మ-సిద్ధి-రూపత్వాత్ సర్వేషాం పురుషార్థానాం శాస్త్రీయ-కర్మ-జన్య-సిరాశ్ చ దేహాతిరిక్తాత్మ-నిశ్చయ-పూర్వకత్వాత్। అతః సుఖ-లవ-భాగిత్వమ్ ఆత్మని సంశయాత్మనో న సమ్భవతి॥౪।౪౦॥
Link copiedయోగ-సన్న్యస్త-కర్మాణం జ్ఞాన-సఞ్ఛిన్న-సంశయమ్।
Link copiedఆత్మవన్తం న కర్మాణి నిబధ్నన్తి ధనఞ్జయ॥౪౧॥
Link copiedయథోపదిష్ట-యోగేన సన్న్యస్త-కర్మాణం జ్ఞానాకారతాపన్న-కర్మాణం యథోపదిష్టేన చాత్మ-జ్ఞానేనాత్మని సఞ్ఛిన్న-సంశయమ్ ఆత్మవన్తం మనస్వినమ్ ఉపదిష్టార్థో దృఢావస్థిత-మనసం బన్ధ-హేతు-భూత-ప్రాచీనానన్త-కర్మాణి న నిబధ్నన్తి॥౪।౪౧॥
Link copiedతస్మాద్ అజ్ఞాన-సమ్భూతం హృత్-స్థం జ్ఞానాసినాత్మనః।
Link copiedఛిత్త్వైనం సంశయం యోగమ్ ఆతిష్ఠోత్తిష్ఠ భారత॥౪౨॥
Link copiedతస్మాద్ అనాద్య్-అజ్ఞాన-సమ్భూతం హృత్-స్థమ్ ఆత్మ-విషయం సంశయం మయోపదిష్టేనాత్మ-జ్ఞానాసినా ఛిత్త్వా మయోపదిష్టం కర్మ-యోగమ్ ఆతిష్ఠ తద్-అర్థమ్ ఉత్తిష్ఠ భారతేతి॥౪।౪౨॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే చతుర్థోఽధ్యాయః ॥౪॥
Link copiedthruthi:ye:'dhya:ye: prakruthi samsrushtasya mumuksho:h sahasa: jna:na yo:ge:'nadhika:ra:th karma yo:ga e:va ka:ryah| jna:na yo:ga:dhika:rino:'py akarthruthva:nusandha:na pu:rvakam karma yo:ga e:va sre:ya:n ithi sahe:thukam uktham| ivsishtathaya: vyapade:syasya thu vise:shathah karma yo:ga e:va ka:rya ithi cho:ktham| chathurthe:ne:da:ni:m asyaiva karma yo:gasya nikhila jagad uddharana:ya manvanthara:da:v e:vo:padishtathaya: karthavyatha:m dradhayithva: anthargatha jna:nathathya:'syaiva jna:na yo:ga:ka:ratha:m pradarsya, karma yo:ga svaru:pam thad bhe:da:h karma yo:ge: jna:na:msasyaiva pra:dha:nyam cho:chyathe:| prasanga:ch cha bhagavad avatha:ra ya:tha:thmyam uchyathe:---
Link copiedsri: bhagava:n uva:cha
Link copiedimam vivasvathe: yo:gam pro:kthava:n aham avyayam|
Link copiedvivasva:n manave: pra:ha manur ikshva:kave:'bravi:th||1||
Link copiede:vam parampara: pra:ptham imam ra:jarshayo: viduh|
Link copiedsa ka:le:ne:ha mahatha: yo:go: nashtah paranthapa||2||
Link copiedyo:'yam thavo:ditho: yo:gah sa ke:valam yuddha pro:thsa:hana:ye:da:ni:m uditha ithi na manthavyam| manvanthara:da:v e:va nikhila jagad uddharana:ya parama purusha:rtha lakshana mo:ksha sa:dhanathaya: imam yo:gam aham e:va vivasvathe: pro:kthava:n| vivasva:n cha manave: manur ikshva:kava ithy e:vam samprada:ya paramparaya: pra:ptham imam yo:gam pu:rve: ra:jarsha:yo: viduh| sa mahatha: ka:le:na thath thach chhro:thru buddhi ma:ndya:d vinashta pra:yo:'bhu:th||4.1-2||
Link copiedsa e:va:yam maya: the:'dya yo:gah pro:kthah pura:thanah|
Link copiedbhaktho:'si me: sakha: che:thi rahasyam hy e:thad uththamam||3||
Link copiedsa e:va:yam askhalitha svaru:pah pura:thanah yo:gah sakhye:na:thima:thra bhakthya: cha ma:m e:va prapanna:ya the: maya: pro:kthah| sa parikarah sa vistharam uktha ithy arthah| mad anye:na ke:na:pi jna:thum vakthum va: na sakyam, yatha idam ve:da:ntho:ditham uththamam rahasyam jna:nam||4.3||
Link copiedasmin prasange: bhagavad avatha:ra ya:tha:thmyam yatha:vad jna:thum arjuna uva:cha---
Link copiedaparam bhavatho: janma param janma vivasvathah|
Link copiedkatham e:thad vija:ni:ya:m thvam a:dau pro:kthava:n ithi||4||
Link copiedka:la sankhyaya: aparam asmaj janma sama ka:lam hi bhavatho: janma| vivasvathas cha ka:la sankhyaya: param ashta vimsathi chathuryuga sankhya: sankhya:tham| thvam e:va a:dau pro:kthava:n ithi katham e:thad asambha:vani:yam vise:she:na yatha:rtham ja:ni:ya:m|
Link copiednanu janma:nthare:na:pi vakthum sakyam| janma:nthara kruthasya mahatha:m smruthis cha yujyatha ithi na:thra kaschid viro:dhah| na cha:sau vaktha:ram e:nam vasude:va thanayam sarve:svaram na ja:na:thi| yatha e:vam vakshyathi---
Link copiedparam brahma param dha:ma pavithram paramam bhava:n|
Link copiedpurusham sa:svatham divyam a:di de:vam ajam vibhum||
Link copieda:hus thva:m rushayah sarve: de:varshir na:radas thatha:|
Link copiedasitho: de:valo: vya:sah svayam chaiva bravi:shi me:|| [gi:tha: 10.12-13] ithi|
Link copied
yudhishthira ra:jasu:ya:dishu bhi:shma:dibhyas cha:sakruth srutham---
Link copiedkrushna e:va hi lo:ka:na:m uthpaththir api cha:py ayah|
Link copiedkrushnasya hi kruthe: bhu:tham idam visvam chara:charam|| [ma.bha:. 2.38.23]
Link copiedithy e:vam a:dishu| krushnasya hi kruthe: ithi krushnasya se:sha bhu:tham idam kruthsnam jagad ithy arthah|
Link copiedathro:chyathe:--- ja:na:thy e:va:yam bhagavantham vasude:va thanayam pa:rthah| ja:natho:'py aja:natha iva pruchchhatho:'yam a:sayah--- nikhila he:ya prathyani:ka kalya:naikatha:nasya sarve:svarasya sarvajnasya sathya sankalpasya cha:va:ptha samastha ka:masya karma paravasa de:va manushya:di saja:thi:yam janma kim indraja:la:divan mithya: utha sathyam| sathyathve: cha katham janma praka:rah| kim a:thmako:'yam de:hah| kas cha janma he:thuh| kada: cha janma| kim artham va: janma| ithi pariha:ra praka:re:na prasna:rtho: vijna:yathe:||4.4||
Link copiedpariharan sri: bhagava:n uva:cha---
Link copiedbahu:ni me: vyathi:tha:ni janma:ni thava cha:rjuna|
Link copiedtha:ny aham ve:da sarva:ni na thvam ve:ththa paranthapa||5||
Link copiedane:na janmanah sathyathvam uktham bahu:ni me: vyathi:tha:ni janma:ni:thi vachana:th, thava che:thi drushtanthathaya: upa:da:na:ch cha||4.5||
Link copieda:thmano:'vatha:ra praka:ram de:ha ya:tha:thmyam janma he:thum cha:ha---
Link copiedajo:'pi sann avyaya:thma: bhu:tha:na:m i:svaro:'pi san|
Link copiedprakruthim sva:m adhishtha:ya sambhava:my a:thma ma:yaya:||6||
Link copiedajathva:vyayathva sarve:svarathva:di sarvam pa:rame:svaram praka:ram ajahad e:va sva:m prakruthim adhishtha:ya a:thma ma:yaya: sambhava:mi| prakruthih svabha:vah, svam e:va svabha:vam adhishtha:ya sve:naiva ru:pe:na sve:chchhaya: sambhava:mi:thy arthah|
Link copiedsvaru:pam hi--- a:dithya varnam thamasah parastha:th [ya.ve:. 31.18], kshayantham asya rajasah para:ke: [sa:.ve:. 17.1.4.2], ya e:sho:'nthara:dithye: hiranmayah purushah [chha:.u. 1.6.6], thasminn ayam purusho: mano:mayo:'mrutho: hiranmayah [thai.u. 1.6.1] sarve: nime:sha: jajnire: vidyuthah purusha:dadhi [ya.ve:. 32.2], bha: ru:pah sathya sankalpa a:ka:sa:thma: sarva karma: sarva ka:mah sarva gandhah sarva rasah [chha:.u. 3.14.2], ma:ha:rajanam va:sah [bru.a:.u. 2.3.6] ithy a:di sruthi siddham|
Link copieda:thma ma:yaya: a:thmi:yaya: ma:yaya:| ma:ya: vayunam jna:nam [nighantu 22] ithi jna:na parya:yo:'thra ma:ya: sabdah| thatha: cha:bhiyuktha prayo:gah--- ma:yaya: sathatham ve:ththi pra:nina:m cha subha:subham ithi| a:thmi:ye:na jna:ne:na a:thma sankalpe:ne:thy arthah|
Link copiedatho:'pahatha pa:pmathva:di samastha kalya:na guna:thmakathvam sarvam aisvaram svabha:vam ajahad e:va svam e:va ru:pam de:va manushya:di saja:thi:ya stha:nam kurvan a:thma sankalpe:na de:va:di ru:pah sambhava:mi| thad idam a:ha--- aja:yama:no: bahudha: vija:yathe: [ya.ve:. 31.19] ithi sruthih| ithara purusha sa:dha:ranam janma akurvan de:va:di ru:pe:na sva sankalpe:na uktha prakriyaya: ja:yatha ithy arthah| bahu:ni me: vyathi:tha:ni janma:ni thava cha:rjuna| tha:ny aham ve:da sarva:ni [gi:tha: 4.5] thad a:thma:nam sruja:my aham [gi:tha: 4.7], janma karma cha me: divyam e:vam yo: ve:ththi thaththvathah [gi:tha: 4.9] ithi pu:rva:para:viro:dha:ch cha||4.6||
Link copiedjanma ka:lam a:ha---
Link copiedyada: yada: hi dharmasya gla:nir bhavathi bha:ratha|
Link copiedabhyuththa:nam adharmasya thada:thma:nam sruja:my aham||7||
Link copiedna ka:la niyamo:'smath sambhavasya| yada: yada: hi dharmasya ve:de:no:dithasya cha:thurvarnya cha:thura:sramya vyavasthaya:vasthithasya karthavyasya gla:nir bhavathi, yada: yada: cha thad viparyayasya:dharmasya abhyuththa:nam, thada:ham e:va sva sankalpe:no:ktha praka:re:na:thma:nam sruja:mi||4.7||
Link copiedjanmanah prayo:janam a:ha---
Link copiedparithra:na:ya sa:dhu:na:m vina:sa:ya cha dushkrutha:m|
Link copieddharma samstha:pana:rtha:ya sambhava:mi yuge: yuge:||8||
Link copiedsa:dhava uktha lakshana dharma si:la: vaishnava:gre:sara: math sama:srayane: pravruththa: man na:ma karma svaru:pa:na:m ava:n manasa:go:charathaya: mad darsana:d ruthe: sva:thma dha:rana po:shana:di sukham alabhama:na: anu ma:thra ka:lam api kalpa sahasra:m manva:na:h prasithila sarva ga:thra: bhave:yur ithi math svaru:pa che:shtitha:valo:kana:la:pa:di da:ne:na the:sha:m parithra:na:ya thad vipari:tha:na:m vina:sa:ya cha kshi:nasya vaidika dharmasya mad a:ra:dhana ru:pasya a:ra:dhya svaru:pa pradarsane:na thasya stha:pana:ya cha de:va manushya:di ru:pe:na yuge: yuge: sambhava:mi| krutha thre:tha:di yuga vise:sha niyamo:'pi na:sthi:thy arthah||4.8||
Link copiedjanma karma cha me: divyam e:vam yo: ve:ththi thaththvathah|
Link copiedthyakthva: de:ham punar janma naithi ma:m e:thi so:'rjuna||9||
Link copiede:vam karma mu:la bhu:tha he:ya thriguna prakruthi samsarga ru:pa janma rahithasya sarve:svarathva sarvajnathva sathya sankalpathva:di samastha kalya:na guno:pe:thasya sa:dhu parithra:na math sama:srayanaika prayo:janam divyam apra:krutham mad asa:dha:ranam mama janma che:shtitham cha thaththvatho: yo: ve:ththi sa varthama:nam de:ham parithyajya punar janma naithi ma:m e:va pra:pno:thi| madi:ya divya janma che:shtitha ya:tha:thmya vijna:ne:na vidhvastha samastha math sama:srayana viro:dhi pa:pma:sminn e:va janmani yatho:ditha praka:re:na ma:m a:srithya mad e:ka priyo: mad e:ka chiththo: ma:m e:va pra:pno:thi||4.9||
Link copiedthad a:ha---
Link copiedvi:tha ra:ga bhaya kro:dha: man maya: ma:m upa:sritha:h|
Link copiedbahavo: jna:na thapasa: pu:tha: mad bha:vam a:gatha:h||10||
Link copiedmadi:ya janma karma thaththva jna:na:khye:na thapasa: pu:tha: bahava e:vam samvruththa:h| thatha: cha sruthih--- thasya dhi:ra:h parija:nanthi yo:nim ithi| dhi:ra: dhi:matha:m agre:sara: e:va thasya janma praka:ram ja:nanthi:thy arthah||4.10||
Link copiedna ke:valam de:va manushya:di ru:pe:na:vathi:rya math sama:srayana:pe:ksha:na:m parithra:nam karo:mi| api thu---
Link copiedye: yatha: ma:m prapadyanthe: tha:ms thathaiva bhaja:my aham|
Link copiedmama varthma:nuvarthanthe: manushya:h pa:rtha sarvasah||11||
Link copiedye: math sama:srayana:pe:ksha: yatha: ye:na praka:re:na sva:pe:ksha:nuru:pam ma:m sankalpya prapadyanthe: sama:srayanthe: tha:n prathi thathaiva than mani:shitha praka:re:na bhaja:mi ma:m darsaya:mi| kim athra bahuna:| sarve: manushya: mad anuvarthanaika mano:ratha: mama vathrma math svabha:vam sarvam yo:gina:m va:n manasa:go:charam api svaki:yais chakshura:di karanaih sarvasah sva:pe:kshithaih sarva praka:rair anubhu:ya anuvarthanthe:||4.11||
Link copiedida:ni:m pra:sangikam parisama:pya prakruthasya karma yo:gasya jna:na:ka:ratha: praka:ram vakthum thatha: vidha karma yo:ga:dhika:rino: durlabhathvam a:ha---
Link copiedka:nkshanthah karmana:m siddhim yajantha iha de:vatha:h|
Link copiedkshipram hi ma:nushe: lo:ke: siddhir bhavathi karmaja:||12||
Link copiedsarva e:va purusha:h karmana:m phalam ka:nkshama:na: indra:di de:vatha: yatha: sa:sthram yajanthe: a:ra:dhayanthi| na thu kaschid anabhisamhitha phala indra:di de:vatha:thma bhu:tham sarva yajna:na:m bho:ktha:ram ma:m yajathe:| kutha e:thath| yathah kshipram asmin e:va ma:nushe: lo:ke: karmaja: puthra pasv anna:dya: siddhir bhavathi| manushya lo:ka sabdah svarga:di lo:ka pradarsana:rthah|
Link copiedsarva e:va hi laukika:h purusha: a:kshi:na:na:di ka:la pravruththa:nantha pa:pa sanchayathaya: avive:kinah kshipra phala:bhika:nkshinah puthra pasv anna:di svarga:dy arthathaya: sarva:ni karma:ni, indra:di de:vatha:ra:dhana ma:thra:ni kurvathe:| na thu kaschith samsa:ro:dvigna hrudayo: mumukshur uktha lakshanam karma yo:gam mad a:ra:dhana bhu:tham a:rabhathe: ithy arthah||4.12||
Link copiedyatho:ktha karma yo:ga:rambha viro:dhi pa:pa kshaya he:thum a:ha---
Link copiedcha:thur varnyam maya: srushtam guna karma vibha:gasah|
Link copiedthasya kartha:ram api ma:m viddhy akartha:ram avyayam||13||
Link copiedcha:thurvarnya pramukham brahma:di sthamba paryantham kruthsnam jagath saththva:di guna vibha:ge:na thad anuguna sama:di karma vibha:ge:na cha pravibhaktham maya: srushtam| srushti grahanam pradarsana:rtham| mayaiva rakshyathe:, mayaiva cha upasamhriyathe:| thasya vichithra srushty a:de:h kartha:ram apy akartha:ram ma:m viddhi||4.13||
Link copiedkatham ithy athra a:ha---
Link copiedna ma:m karma:ni limpanthi na me: karma phale: spruha:|
Link copiedithi ma:m yo:'bhija:na:thi karmabhir na sa badhyathe:||14||
Link copiedyatha ima:ni vichithra srushty a:di:ni na ma:m karma:ni limpanthi na ma:m sambadhnanthi| na math prayuktha:ni:ma:ni de:va manushya:di vaichithrya:ni srujya:na:m punya pa:pa ru:pa karma vise:sha prayuktha:ni:thy arthah| athah pra:ptha:pra:ptha vive:kana vichithra srushtay a:de:h na:ham kartha:| yathas cha srushtah kshe:thra jna:h srushti labdha karana kale:vara:h srushti labdham bho:gya ja:tham phala sanga:di he:thu sva karma:nugunam bhunjathe:, srushty a:di karma phale: cha the:sha:m e:va spruhe:thi na me: spruha:|
Link copiedthatha: su:thra ka:rah--- vaishamya nairghrunye: na sa:pe:kshathva:th [ve:.su:. 2.1.34] ithi| thatha:ha bhagava:n para:sarah---
Link copiednimiththa ma:thram e:va:yam srujya:na:m sarga karma:ni|
Link copiedpradha:na ka:rani:bhu:tha: yatho: vai srujya sakthayah||
Link copiednimiththa ma:thram mukthve:dam na:nyath kinchid ape:kshyathe:|
Link copiedni:yathe: thapatha:m sre:shtha sva sakthya: vasthu vasthutha:m|| [vi.pu. 1.4.51-52] ithi|
Link copied
srujya:na:m de:va:di:na:m kshe:thra jna:na:m srushte:h ka:rana ma:thram e:va:yam parama purushah, de:va:di vaichithrye: thu pradha:na ka:ranam srujya bhu:tha kshe:thra jna:na:m pra:chi:na karma sakthaya e:va| atho: nimiththa ma:thram mukthva: srushte:h kartha:ram parama pu:rusham mukthve:dam kshe:thra jna vasthu de:va:di vichithra bha:ve: na anyad ape:kshathe:| svagatha pra:chi:na karma sakthya: e:va hi de:va:di vasthu bha:vam ni:yatha ithy arthah|
Link copiede:vam ukthe:na praka:re:na srushty a:de:h kartha:ram apy akartha:ram srushty a:di karma phala sanga rahitham cha yo: ma:m abhija:na:thi sa karma yo:ga:rambha viro:dhibhih phala sanga:di he:thubhih pra:chi:na karmabhih na sambadhyathe:| muchyatha ithy arthah||4.14||
Link copiede:vam jna:thva: krutham karma pu:rvair api mumukshubhih|
Link copiedkuru karmaiva thasma:th thvam pu:rvaih pu:rvatharam krutham||15||
Link copiede:vam ma:m jna:thva: api vimuktha pa:paih pu:rvair api mumukshubhir uktha lakshanam karma krutham| thasma:th thvam uktha praka:ra mad vishaya jna:na vidhu:tha pa:pah pu:rvair vivasvan manv a:dibhih krutham pu:rvatharam pura:thanam thada:ni:m e:va mayo:ktham vakshyama:na:ka:ram karmaiva kuru||4.15||
Link copiedvakshyama:nasya karmano: durjna:natha:m a:ha---
Link copiedkim karma kim akarme:thi kavayo:'py athra mo:hitha:h|
Link copiedthath the: karma pravakshya:mi yaj jna:thva: mo:kshyase:'subha:th||16||
Link copiedmumukshuna:nushthe:yam karma kim svaru:pam| akarma cha kim| phala:bhisandhi rahitham bhagavad a:ra:dhana ru:pam karma| akarma ithi karthur a:thmano: ya:tha:thmya jna:nam uchyathe:| anushthe:yam karma thad anthargatham jna:nam cha kim svaru:pam| ithy ubhayathra kavayo: vidva:mso:'pi mo:hitha:h, yatha:rthathaya: na ja:nanthi| e:vam anthargatha jna:nam yath karma thath the: pravakshya:mi| yad jna:thva: anushtha:ya asubha:th samsa:ra bandha:n mo:kshyase:| karthavya karma jna:nam hi anushtha:na phalam||4.16||
Link copiedkutho:'sya durjna:natha:| ithy athra a:ha---
Link copiedkarmano: hy api bo:ddhavyam bo:ddhavyam cha vikarmanah|
Link copiedakarmanas cha bo:ddhavyam gahana: karmano: gathih||17||
Link copiedyasma:th mo:ksha sa:dhana bhu:the: karmanah svaru:pe: bo:ddhavyam asthi| vikarmani cha nithya naimiththika ka:mya karma ru:pe:na thath sa:dhana dravya:rjana:dy a:ka:re:na cha, vividhatha:m a:pannam karma vikarma| akarmani jna:ne: cha bo:ddhavyam asthi| gahana: durvijna:na: mumuksho:h karmano: gathih| vikarmani cha bo:ddhavyam--- nithya naimiththika ka:mya dravya:rjana:dau karmani phala bhe:da krutham vaividhyam parithyajya mo:kshaika phalathaya: e:ka sa:sthra:rthathva:nusandha:nam| thad e:thad vyavasa:ya:thmika: buddhir e:ka: [2.41] ithy athraivo:ktham ithi ne:ha prapanchyathe:||4.17||
Link copiedkarma:karmano:r bo:ddhavyam a:ha---
Link copiedkarmany akarma yah pasye:d akarmani cha karma yah|
Link copiedsa buddhima:n manushye:shu sa yukthah kruthsna karma kruth||18||
Link copiedakarma sabde:na:thra karme:tharath prasthutham a:thma jna:nam uchyathe:| karmani kriyama:ne: e:va a:thma jna:nam yath pasye:d akarmani cha:thma jna:ne: varthama:naiva yah karma pasye:th| kim uktham bhavathi| kriyama:nam e:va karma:thma ya:tha:thmya:nusandha:ne:na jna:na:ka:ram yah pasye:th, thach cha jna:nam karmani anthargathathaya: karma:ka:ram yah pasye:d ithi uktham bhavathi| kriyama:ne: hi karmani karthru bhu:tha:thma ya:tha:thmya:nusandha:ne:na thad ubhayam sampannam bhavathi|
Link copiede:vam a:thma ya:tha:thmya:nusandha:na garbham karma yah pasye:th sa buddhima:n kruthsna sa:sthra:rtha vith, manushye:shu sa yuktho: mo:ksha:rhah sa e:va kruthsna karma kruth kruthsna sa:sthra:rtha kruth||4.18||
Link copiedprathyakshe:na kriyama:nasya karmano: jna:na:ka:ratha: katham upapadyathe:| ithy athra:ha---
Link copiedyasya sarve: sama:rambha:h ka:ma sankalpa varjitha:h|
Link copiedjna:na:gni dagdha karma:nam tham a:huh panditham budha:h||19||
Link copiedyasya mumuksho:h sarve: dravya:rjana:di laukika karma pu:rvaka nithya naimiththika ka:mya ru:pa karma sama:rambha:h ka:ma varjitha:h phala sanga rahitha:h sankalpa varjitha:s cha|
Link copiedprakruthya: thad gunais cha:thma:nam e:ki:kruthya anusandha:na:m sankalpah| prakruthi viyuktha:thma svaru:pa:nusandha:na yukthathaya: thad rahitha:h| tham e:vam karma kurva:nam panditham karma:nthargatha:thma ya:tha:thmya jna:na:gnina: dagdha pra:chi:na karma:nam a:hus thaththva jna:h||4.19||
Link copiedathah karmano: jna:na:ka:rathvam upapadyathe:| e:thad e:va vivruno:thi---
Link copiedthyakthva: karma phala:sangam nithya thruptho: nira:srayah|
Link copiedkarmany abhipravruththo:'pi naiva kinchith karo:thi sah||20||
Link copiedkarma phala:sangam thyakthva: nithya thruptho: nithye: sva:thmany e:va thruptho: nira:srayo:'sthira prakruthau a:sraya buddhi rahitho: yah karma:ni karo:thi, sa karmany a:bhimukhye:na pravruththo:'pi naiva kinchith karma karo:thi, karma:pade:se:na jna:na:bhya:sam e:va karo:thi:thy arthah||4.20||
Link copiedpunar api karmana: jna:na:ka:ratha: e:va viso:dhyathe:---
Link copiednira:si:r yatha chiththa:thma: thyaktha sarva parigrahah|
Link copiedsa:ri:ram ke:valam karma kurvan na:pno:thi kilbisham||21||
Link copiednira:si:r nirgatha phala:bhisandhih, yatha chiththa:thma: yatha chiththamana:h, thyaktha sarva parigraha a:thmaika prayo:janathaya: prakruthi pra:krutha vasthuni mamatha: rahitho: ya:vaj ji:vam ke:valam sa:ri:ram e:va karma kurvan kilbisham samsa:ram na:pno:thi| jna:na nishtha: vyavadha:na rahitha ke:vala karma yo:ge:na e:vam ru:pe:na:thma:nam pasyathi:thy arthah||4.21||
Link copiedyadruchchha: la:bha santhushto: dvandva:thi:tho: vimathsarah|
Link copiedsamah siddha:v asiddhau cha kruthva:pi na nibadhyathe:||22||
Link copiedyadruchchho:panatha sari:ra dha:rana he:thu vasthu santhushtah dvandva:thi:tho: ya:vath sa:dhana sama:pthy avarjani:ya si:tho:shna:di sahah| vimathsaro:'nishto:panipa:tha he:thu bhu:tha svakarma niru:pe:na pare:shu vigatha mathsarah samah siddhau asiddhau cha yuddha:di karmasu jaya:di siddhy asiddhyo:h sama chiththah karmaiva kruthva:pi jna:na nishtha:m vina:pi na nibadhyathe:, na samsa:ram prathipadyathe:||4.22||
Link copiedgatha sangasya mukthasya jna:na:vasthitha che:thasah|
Link copiedyajna:ya:charathah karma samagram pravili:yathe:||23||
Link copieda:thma vishaya jna:na:vasthitha manasthve:na vigatha thad ithara sangasya thatha e:va nikhila parigraha vinirmukthasyo:ktha lakshana yajna:di karma nirvruththaye: varthama:nasya purushasya bandha he:thu bhu:tham pra:chi:nam karma samagram pravili:yathe: nihse:sham kshi:yathe:||4.23||
Link copiedprakruthi viyuktha:thma svaru:pa:nusandha:na yukthathaya: karmano: jna:na:ka:rathvam uktham| ida:ni:m sarvasya sa parikarasya karmanah para brahma bhu:tha parama purusha:thmakathva:nusandha:na: yukthathaya: jna:na:ka:rathvam a:ha---
Link copiedbrahma:rpanam brahma havir brahma:gnau brahmana: hutham|
Link copiedbrahmaiva the:na ganthavyam brahma karma sama:dhina:||24||
Link copiedhavir vise:shyathe:| arpyathe:'ne:ne:thy arpanam srug a:di| thad brahma ka:ryathva:d brahma, brahma yasya havisho:'rpanam thad brahma:rpanam| brahma havih svayam cha brahma bhu:tham brahma:gnau brahma bhu:the:'gnau brahmana: karthra: hutham| ithi sarvam karma brahma:thmakathva:d brahma mayam ithi yah sama:dhaththe:, sa brahma karma sama:dhih| the:na brahma karma sama:dhina: brahmaiva ganthavyam| brahma:thmakathaya: brahma bhu:tham a:thma svaru:pam ganthavyam| mumukshu:na:m kriyama:nam karma para brahma:thmakam e:va ithy anusandha:na yukthathaya: jna:na:ka:ram sa:ksha:d a:thma:valo:kana sa:dhanam, na jna:na nishtha: vyavadha:ne:ne:thy arthah||4.24||
Link copiede:vam karmano: jna:na:ka:ratha:m prathipa:dya karma yo:ga bhe:da:n a:ha---
Link copieddaivam e:va:pare: yajnam yo:ginah paryupa:sathe:|
Link copiedbrahma:gna:v apare: yajnam yajne:naivo:pajuhvathi||25||
Link copieddaivam daiva:rchana ru:pam yajnam apare: karma yo:ginah paryupa:sathe: se:vanthe:| thathraiva nishtha:m kurvanthi:thy arthah| apare: brahma:gnau yajnam yajne:naiva upajuhvathi| yajnam yajna ru:pam brahma:thmakam a:jya:di dravyam yajne:na yajna sa:dhana bhu:the:na srug a:dina: juhvathi| athra yajna sabdo: havih srug a:di yajna sa:dhane: varthathe:| brahma:rpanam brahma havih ithi nya:ye:na ya:ga ho:mayo:r nishtha:m kurvanthi||4.25||
Link copiedsro:thra:di:ni:ndriya:ny anye: samyama:gnishu juhvathi|
Link copiedsabda:di:n vishaya:n anya indriya:gnishu juhvathi||26||
Link copiedanye: sro:thra:di:na:m indriya:na:m samyamane: prayanthe:| sabda:di:n vishaya:n anye: yo:gina indriya:na:m sabda:di vishaya pravanatha: niva:rane: prayathanthe:||4.26||
Link copiedsarva:ni:ndriya karma:ni pra:na karma:ni cha:pare:|
Link copieda:thma samyama yo:ga:gnau juhvathi jna:na di:pithe:||27||
Link copiedanye: jna:na di:pithe: manah samyama yo:ga:gnau sarva:ni:ndriya karma:ni pra:na karma:ni cha juhvathi| manasa indriya pra:na:na:m karma pravanatha: niva:rane: prayathantha ithy arthah||4.27||
Link copieddravya yajna:s thapo: yajna: yo:ga yajna:s thatha:pare:|
Link copiedsva:dhya:ya jna:na yajna:s cha yathayah samsitha vratha:h||28||
Link copiedke:chith karma yo:gino: dravya yajna:h, nya:yatho: dravya:ny a:da:ya de:va:rchane: prayathanthe:, ke:chich cha da:ne:shu, ke:chich cha ya:ge:shu, ke:chich cha ho:me:shu, e:the: sarve: dravya yajna:h| ke:chith thapo: yajna:h kruchchhra cha:ndra:yano:pava:sa:dishu nishtha:m kurvanthi| yo:ga yajna:s cha:pare: punya thi:rtha- punya stha:na pra:pthishu nishtha:m kurvanthi| iha yo:ga sabdah karma nishtha: bhe:da prakarana:th thad vishayah| ke:chith sva:dhya:ya para:h sva:dhya:ya:bhya:sa para:h| ke:chith thad artha jna:na:bhya:sa para: yathayo: yathana si:la:h| samsitha vratha:h drudha sankalpa:h||4.28||
Link copiedapa:ne: juhvathi pra:nam pra:ne:'pa:nam thatha:pare:|
Link copiedpra:na:pa:na gathi: ruddhva: pra:na:ya:ma para:yana:h||29||
Link copiedapare: niyatha:ha:ra:h pra:na:n pra:ne:shu juhvathi|
Link copiedsarve:'py e:the: yajna vido: yajna kshapitha kalmasha:h||30||
Link copiedapare: karma yo:ginah pra:na:ya:me:shu nishtha:m kurvanthi| the: cha thri vidha:h--- pu:raka re:chaka kumbhaka bhe:de:na| apa:ne: juhvathi pra:nam ithi pu:rakah| pra:ne:'pa:nam ithi re:chakah| pra:na:pa:na gathi: ruddhva: pra:na:n pra:ne:shu juhvathi:thi kumbhakah| pra:na:ya:ma pare:shu thrishv apy anushajyathe: niyatha:ha:ra: ithi| dravya yajna prabhruthi pra:na:ya:ma paryanthe:shu karma yo:ga bhe:de:shu sva sami:hithe:shu pravruththa: e:the: sarve: saha yajnaih praja:h srushtva: [3.10] ithi abhihitha maha: yajna pu:rvaka nithya naimiththika karma ru:pa yajna vidah, than nishtha:h, thatha e:va kshapitha kalmasha:h||4.29-.30||
Link copiedyajna sishta:mrutha bhujo: ya:nthi brahma sana:thanam|
Link copiedna:yam lo:ko:'sthy ayajnasya kutho:'nyah kurusaththama||31||
Link copiedyajna sishta:mruthe:na sari:ra dha:ranam kurvantha e:va karma yo:ge: vya:prutha:h sana:thanam cha brahma ya:nthi| ayajnasya maha: yajna:di pu:rvaka nithya naimiththika karma rahithasya na:yam lo:ko: na pra:krutha lo:kah pra:krutha lo:ka sambandhi dharma:rtha ka:ma:khyah purusha:rtho: na sidhyathi| kutha
Link copieditho:'nyo: mo:ksha:khyah purusha:rthah| parama purusha:rthathaya: mo:kshasya prasthuthathva:th thad ithara purusha:rtho:'yam lo:ka ithi nirdisyathe: sa hi pra:kruthah||4.31||
Link copiede:vam bahu vidha: yajna: vithatha: brahmano: mukhe:|
Link copiedkarmaja:n viddhi tha:n sarva:n e:vam jna:thva: vimo:kshyase:||32||
Link copiede:vam hi bahu praka:ra:h karma yo:ga: brahmano: mukhe: vithatha:h| a:thma ya:tha:thmya:va:pthi sa:dhanathaya: sthitha:h| tha:n uktha lakshana:n uktha bhe:da:n karma yo:ga:n sarva:n karmaja:n viddhi| aharahar anushthi:yama:na nithya naimiththika karma:nushtha:na ja:n viddhi| e:vam jna:thva: yatho:ktha praka:re:na anushtha:ya vimo:kshyase:||4.32||
Link copiedanthargatha jna:nathaya: karmano: jna:na:ka:rathvam uktham| thathra:nthargatha jna:ne: karmani jna:na:msasya e:va pra:dha:nyam a:ha---
Link copiedsre:ya:n dravya maya:d yajna:j jna:na yajnah paranthapa|
Link copiedsarvam karma:khilam pa:rtha jna:ne: parisama:pyathe:||33||
Link copiedubhaya:ka:re: karmani dravya maya:d amsa:d jna:na mayo:'msah sre:ya:n| sarvasya karmanas thad itharasya cha:khilasyo:pa:de:yasya jna:ne: parisama:pthe:h| thad e:vam sarvaih sa:dhanaih pra:pya bhu:tham jna:nam karma:nthargathathve:na abhyasyathe:| thad e:va hi abhyasyama:nam krame:na pra:pya dasa:m prathipadyathe:||4.33||
Link copiedthad viddhi pranipa:the:na pariprasne:na se:vaya:|
Link copiedupade:kshyanthi the: jna:nam jna:ninas thaththva darsinah||34||
Link copiedthad a:thma vishayam jna:nam avina:si thad viddhi [2.17] ithy a:rabhya e:sha: the:'bhihitha: [2.39] ithy anthe:na mayo:padishtam mad uktha karmani varthama:nas thvam vipa:ka:nugunam ka:le: ka:le: pranipa:tha pariprasna se:va:dibhir visada:ka:ram jna:nibhyo: viddhi| sa:ksha:th krutha:thma svaru:pa:s thu jna:ninah pranipa:tha:dibhih se:vitha: jna:na bubhuthsaya: parithah pruchchhathas thava:sayam a:lakshya jna:nam upade:kshyanthi||4.34||
Link copieda:thma ya:tha:thmya vishaya sa:ksha:thka:ra ru:pasya lakshanam a:ha---
Link copiedyaj jna:thva: na punar mo:ham e:vam ya:syasi pa:ndava|
Link copiedye:na bhu:tha:ny ase:she:na drakshyasy a:thmany atho: mayi||35||
Link copiedyaj jna:nam jna:thva: punar e:vam de:ha:dy a:thma:bhima:na ru:pam thath krutham mamatha:dy a:spadam cha mo:ham na ya:syasi, ye:na de:va manushya:dy a:ka:re:na:nusamhitha:ni sarva:ni bhu:tha:ni sva:thmany e:va drakshyasi| yathas thava:nye:sha:m cha bhu:tha:na:m prakruthi viyuktha:na:m jna:naika:ka:rathaya: sa:myam| prakruthi samsarga do:sha vinirmuktham a:thma svaru:pam sarvam samam ithi cha vakshyathe: nirdo:sham hi samam brahma [gi:tha: 5.19] ithi|
Link copiedatho: mayi sarva:ni bhu:tha:ny ase:she:na drakshyasi, math svaru:pa sa:mya:ch cha parisuddhasya sarvasya a:thma vasthunah| idam jna:nam upa:srithya mama sa:dharmyam a:gatha:h [gi:tha: 14.2] ithi hi vakshyathe: thatha: vidva:n punya pa:pe: vidhu:ya, niranjanah paramam sa:myam upaithi [mu.u. 3.1.3] ithy e:vam a:dishu na:ma ru:pa vinirmukthasya a:thma vasthunah param svaru:pa sa:myam avagamyathe:| athah prakruthi vinirmuktham sarvam a:thma vasthu parasparam samam sarve:svare:na cha samam||4.35||
Link copiedapi che:d asi pa:pe:bhyah sarve:bhyah pa:pa kruththamah|
Link copiedsarvam jna:na plave:naiva vrujinam santharishyasi||36||
Link copiedyadyapi sarve:bhyah pa:pa kruththamo:'si sarvam pu:rva:rjitham vrujina ru:pam samudram a:thma vishaya jna:na ru:pa plave:naiva santharishyasi||4.36||
Link copiedyathaidha:msi samiddho:'gnir bhasmasa:th kuruthe:'rjuna|
Link copiedjna:na:gnih sarva karma:ni bhasmasa:th kuruthe: thatha:||37||
Link copiedsamyak pravruddho:'gnir indhana samuchchayam iva:thma ya:tha:thmya jna:na ru:po:'gnir ji:va:thma gatham ana:di ka:la pravruththa:nantha karma sanchayam bhasmi:karo:thi||4.37||
Link copiedna hi jna:ne:na sadrusam pavithram iha vidyathe:|
Link copiedthath svayam yo:ga samsiddhah ka:le:na:thmani vindathi||38||
Link copiedyasma:d a:thma jna:ne:na sadrusam pavithram suddhi karam iha jagathi vasthv antharam na vidyathe:, thasma:d a:thma jna:nam sarvam pa:pam na:sayathi:thy arthah| thath thatha: vidham jna:nam yatho:pade:sam aharahar anushthi:yama:nam jna:na:ka:ra karma yo:ge:na samsiddhah ka:le:na sva:thmani svayam e:va labhathe:||4.38||
Link copiedthad e:va spashtam a:ha---
Link copiedsraddha:va:ml labhathe: jna:nam thath parah samyathe:ndriyah|
Link copiedjna:nam labdhva: para:m sa:nthim achire:na:dhigachchhathi||39||
Link copiede:vam upade:sa:j jna:nam labdhva: cho:padishta jna:na vruddhau sraddha:va:n thath paras thathraiva niyamitha mana:s thad ithara vishaya:th samyathe:ndriyo:'chire:na ka:le:no:ktha lakshana vipa:ka dasa:pannam jna:nam labhathe:| thatha: vidham jna:nam labdhva: para:m sa:nthim achire:na adhigachchhathi param nirva:nam pra:pno:thi||4.39||
Link copiedajnas cha:sraddadha:nas cha samsaya:thma: vinasyathi|
Link copiedna:yam lo:ko:'sthi na paro: na sukham samsaya:thmanah||40||
Link copiedajna e:vam upade:sa labdha jna:na rahitha upadishta jna:na vruddhy upa:ye: cha:sraddadha:no:'thvarama:na upadishte: cha jna:ne: samsaya:thma: samsayitha mana: vinasyathi, nashto: bhavathi| asminn upadishte: a:thma ya:tha:thmya vishaye: jna:ne: samsaya:thmano:'yam api pra:krutha lo:ko: na:sthi, na cha parah| dharma:rtha ka:ma:di purusha:rtha:s cha na siddhyanthi, kutho: mo:ksha ithy arthah|
Link copiedsa:sthri:ya karma siddhi ru:pathva:th sarve:sha:m purusha:rtha:na:m sa:sthri:ya karma janya sira:s cha de:ha:thiriktha:thma nischaya pu:rvakathva:th| athah sukha lava bha:githvam a:thmani samsaya:thmano: na sambhavathi||4.40||
Link copiedyo:ga sannyastha karma:nam jna:na sanchhinna samsayam|
Link copieda:thmavantham na karma:ni nibadhnanthi dhananjaya||41||
Link copiedyatho:padishta yo:ge:na sannyastha karma:nam jna:na:ka:ratha:panna karma:nam yatho:padishte:na cha:thma jna:ne:na:thmani sanchhinna samsayam a:thmavantham manasvinam upadishta:rtho: drudha:vasthitha manasam bandha he:thu bhu:tha pra:chi:na:nantha karma:ni na nibadhnanthi||4.41||
Link copiedthasma:d ajna:na sambhu:tham hruth stham jna:na:sina:thmanah|
Link copiedchhiththvainam samsayam yo:gam a:thishtho:ththishtha bha:ratha||42||
Link copiedthasma:d ana:dy ajna:na sambhu:tham hruth stham a:thma vishayam samsayam mayo:padishte:na:thma jna:na:sina: chhiththva: mayo:padishtam karma yo:gam a:thishtha thad artham uththishtha bha:rathe:thi||4.42||
Link copiedithi sri:mad ra:ma:nuja:cha:rya virachithe: gi:tha: bha:shye: chathurtho:'dhya:yah ||4||
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 4 — The Path of Knowledge Through Action (in Sanskrit: Jna:na-karma-sannya:sa-yoga)
The Fourth Lecture deepens the teaching of the Third. Having established that karma-yoga is the necessary path for the aspirant, Sri: Krishna now reveals that this yoga is not new: He Himself taught it at the dawn of creation to Vivasvan, Manu, and Ikshvaku. This opens the treasured digression on avatha:ras — the divine descents — and closes with the declaration that all sacrifice culminates in jna:na, the wisdom that burns away all the accumulated karma of ages. Yamunacharya summarises: the Self's own nature, how work and knowledge become one, how works vary, and how great is knowledge — these Lecture Four enounces.
Link copiedVerses 1–3 (The ancient, transmitted yoga)
Verse 4.1–3. Sri: Bhagavan said: "I taught this eternal yoga to Vivasvan (the Sun); Vivasvan declared it to Manu; Manu imparted it to Ikshvaku. So handed down successively, the royal sages knew it. But by long lapse of time, Parantapa, the yoga declined. This self-same ancient yoga is now propounded by Me to thee — mysterious and best — because thou art My devotee, My friend."
Link copiedRamanuja stresses: the yoga is real, designed for the salvation of the whole universe, imparted now to Sri: Arjuna because he bears the Lord friendship and has in loving devotion sought Him as his sole Asylum. None save the Lord Himself is able to understand or preach this yoga, for it is the sublime wisdom, the mystery of the Vedantas.
Link copiedVerses 4–9 (The nature of Avataras)
Verse 4.4. Sri: Arjuna asks: "Thy birth is recent; Vivasvan's is prior. How, then, wert Thou the first Teacher?"
Link copiedRamanuja explains that Sri: Arjuna already knows well — from passages like "Thou art the Supreme Brahman, the sublime glory" (X.12) — that the son of Vasudeva is none other than the Lord. His question is put deliberately, for the world's sake, to draw out from the Lord an authoritative exposition of the meaning of the avatha:ras: whether they are like the karma-determined births of ordinary beings; whether they are real or illusory (like indraja:la or magic); when and where and why they occur; and what kind of body is assumed.
Link copiedVerse 4.5. The Lord replies: "Many births have passed for Me, for thee also, Arjuna. I remember them all, but thou dost not, Parantapa."
Link copiedThis affirms the reality of the Incarnations. The analogy of Sri: Arjuna's own birth is no illusion; so too the Lord's past Incarnations are real, not magical appearances.
Link copiedVerse 4.6. "Though birthless, of nature imperishable, and Lord of all beings, yet do I establish Myself in My own prakrithi (nature) and come to be born, by My own ma:ya: (will)."
Link copiedRamanuja is emphatic: never divesting Himself of His essential attributes — of suzerainty, of being birthless, of being exhaustless, of being Lord of all — the Lord enters birth of His own free choice, planting Himself in His own native nature. His form in incarnation is of the kind described in Sruti passages: "Him who is of sun-colour, beyond tamas" (Svetasvatara III.8); "The Spirit in the interior of the sun, of golden hue" (Chhandogya I.6.6); "He of resplendent form, the firm-resolved, subtle-souled like space" (Chhandogya III.14.2). The word ma:ya: here does not mean illusion; it means His will, knowledge, intelligence — as the Nighantu declares, "ma:ya: vayunam jna:nam." So the Lord, by His own free will, is born as if He were of the creatures' nature, without for a moment laying aside His essential (godly) attributes.
Link copiedVerse 4.7–8. "Whensoever and wheresoever virtue wanes and vice waxes, then do I create Myself. For protecting the virtuous and destroying the wicked, and for firmly reinstating dharma, am I born from age to age."
Link copiedThe sa:dhus here are the good and virtuous Vaishnavas who seek Him as their shelter — who feel that without seeing Him they cannot live, for whom a moment's separation from Him is as a kalpa. For their protection, lest they pine away, He grants them the privilege of seeing Him, holding converse with Him, beholding His doings. Dharma is in truth His own modes of worship; and His avatha:ras are the objects of that worship.
Link copiedVerse 4.9. "Whoso understands in their true nature My divine incarnations and doings — he, Arjuna, does not come to rebirth after quitting the body but goes to Me."
Link copiedWhoever comprehends the divine, immaterial, unique nature of these descents and their acts — as different from the compulsory births of those born through the union of pure a:thman with impure threefold prakrithi — becomes rid of all sin that stands as a barrier against reaching the Lord.
Link copiedVerses 10–12 (The devotees and the seekers of lesser fruit)
Verse 4.10. "Weaned from desire, dread, and passion; full of Me, entirely reliant on Me; many are those who, purified by wisdom-meditation (jna:na-tapas), have come to My state (madbha:vam)."
Link copiedRamanuja marks this verse as a clear declaration of the plurality of souls — many souls have come to the Lord's state, not been absorbed or annihilated.
Link copiedVerse 4.11. "In the way they resort to Me (prapadyante), in that way do I serve to them. All men go after Me in every way, Partha."
Link copiedThe Lord adapts Himself to every mode of approach. By whatever conception they choose to seek Him, He manifests Himself to them in that mode. Bhaja:mi — "I serve" — here means "I appear to them." Though His nature transcends thought and speech even for yogis, to all who are of His ways He suits Himself so that they may enjoy Him through every sense-faculty and in all diverse ways.
Link copiedVerse 4.12. "Those who wish for the fulfilment of works worship the lesser de:vatha:s here. In mortal realms, work-born fruit is speedily realised."
Link copiedMost men, longing for immediate fruit, readily turn to Indra and lesser gods. Rare is the soul who, dreading samsa:ra, aspires for moksha and engages in karma-yoga as worship rendered to the Lord.
Link copiedVerses 13–15 (Creation, the fourfold order, and the ancient practice)
Verse 4.13. "The fourfold varna was created by Me according to guna (disposition) and karma (occupation). Though I am its Creator, know Me to be the imperishable non-creator."
Link copiedThe whole universe is divided by Him into four according to the gunas — tamas prevailing in the su:dra, rajas in the kshathriya, sattva in the bra:hmana, a blend at each station — and according to corresponding occupations.
Link copiedVerse 4.13½. "Works soil Me not. I have no interest in works' fruit."
Link copiedThe created diversity of deva, man, and so on is fashioned by the beings' own karma, by their own merit and demerit. The Lord is only the instrumental cause; He is "no author" in the sense that He is not responsible for the conditions that creatures bring upon themselves. Vyasa's Brahma Sutra confirms: "(The Lord) cannot be reproached with inequality and cruelty, for karma is regarded by Him." Bhagavan Parasara teaches the same in the Vishnu Purana: the Lord is but the directing cause; the creating forces have their roots in pradha:na — the karma-potencies of beings themselves.
Link copiedVerse 4.14–15. "He who truly knows Me thus is not bound by works. So understanding, did the moksha-seeking ancients work. Do thou also, like the ancients, in the ancient way."
Link copiedVerses 16–24 (The riddle of action and inaction; work as wisdom)
Verse 4.16–17. "What is action? what is inaction? In this, even the wise get confounded. That action I will explain, knowing which thou shalt be freed from evil. Action (karma) has to be understood; vikarma (variety of actions) has to be understood; and akarma (inaction, which here means knowledge itself) has to be understood. Intricate is the way of karma."
Link copiedRamanuja explains: the moksha-aspirer must understand three things — the action that is the means to liberation; the variety of actions, daily (nitya) and occasional (naimittika), each with its particular fruit, which must nevertheless be performed with the one uniform aim of moksha; and akarma, which here signifies jna:na — wisdom concerning the a:thman.
Link copiedVerse 4.18. "He who sees akarma (wisdom) in karma (action), and who also sees karma in akarma — he is wise among men; he is yukthah; he has done all work."
Link copiedTwo realisations: (1) the wise man, while actually performing work, sees the wisdom-aspect involved in it; (2) the wise man, while stationed in a:thman-wisdom, sees even wisdom itself as a kind of act. Both positions together mean: by doing work outwardly and contemplating a:thman-nature inwardly, both the objective and subjective poles are held. Such a man is conversant with the ultimate import of all the Sastras.
Link copiedVerse 4.19. "He whose all-acts are devoid of desire (ka:ma) and delusion (sankalpa) — the wise say he is the enlightened one, whose works are burnt up in the fire of wisdom."
Link copiedSankalpa here is the fanciful identification of the a:thman with prakrithi and its gunas. The moksha-aspirant performs all his works free from both desire for fruit and this false identification.
Link copiedVerse 4.20–22. "Dissociated from works' fruit, ever self-contented, self-reliant, though he acts he does nothing. Bereft of expectancy, restraining the mind's anxiety, forsaking all possessions, whoso performs work as a mere bodily function incurs no evil. Content with whatever chance brings, above the pairs, free from malice, equal in success or failure — though he acts, he is not bound."
Link copiedVerse 4.23. "For him who has ceased from attachment, who has renounced all, whose mind is wisdom-absorbed, who works for yajna — all karma entirely ceases."
Link copiedVerse 4.24. "Brahma:rpanam brahma havih brahma:gnau brahmana: hutam / brahmaiva tena ganthavyam brahma-karma-sama:dhina:" — "By the Brahma-apparatus, the Brahma-oblation is, by Brahma, offered in Brahma-fire. He who so contemplates karma to be Brahma-full goes to Brahma itself."
Link copiedThis is the highest contemplation of Spiritual Philosophy. Ramanuja calls it brahma-karma-sama:dhi — seeing that in every act the Soul of the act is the Paramount Spirit, and seeing God everywhere, in all acts by oneself and in all acts external. This is the spiritual height, he notes, that only saints like Prahlada and Nammalvar have scaled. Work in this view becomes itself wisdom, itself the means to a:thman-vision, without a separate jna:na-course.
Link copiedVerses 25–32 (The varieties of yajna)
Having shown the wisdom-aspect of work, Sri: Krishna now enumerates the varieties of karma-yoga:
Link copiedVerse 4.25. "Some yogis devoutly practise the daiva-yajna alone" — sacrifices to the Divinity itself.
Link copiedVerse 4.26. "Others pour yajna into Brahma-fire with yajna" — performing the prescribed ya:gas and homas in the ideal framework of "by the Brahma-apparatus, the Brahma-oblation."
Link copiedVerse 4.26½. "Others sacrifice the senses — hearing and the rest — into the samyama-fires" — striving to control the senses.
Link copiedVerse 4.27. "Others sacrifice the objects of the senses — sound and the rest — into the sense-fires" — endeavouring to quiet the appetites.
Link copiedVerse 4.28. "Others sacrifice all sense-activities and pra:na-activities in the wisdom-fanned a:thma-samyama-yoga-fire" — directing their effort to disciplining the mind to retire from sense-and-life activities.
Link copiedVerse 4.29. "Some do wealth-sacrifices; some tapas-sacrifices; some yoga-sacrifices (pilgrimages to holy places); some sva:dhya:ya-sacrifices (study of Vedas); some of fixed resolve, jna:na-sacrifices (inquiry into the import of the Vedas)."
Link copiedVerse 4.30–31. "Others, practisers of pra:na:ya:ma, with restricted food, sacrifice pra:na in apa:na, apa:na in pra:na, and, restraining both currents, pra:na in pra:na." The three phases — pu:raka (inhalation), recaka (exhalation), and kumbhaka (retention) — are here named.
Link copiedVerse 4.32. "All these are yajna-knowers, their sins effaced by the yajna. The eaters of the nectar-like remnants of yajna-food reach the eternal Brahman. To the non-sacrificer, this world is not; whence the other world, Kuru-best?"
Link copiedAll the aspirations of man — dharma, artha, ka:ma — rest on these rites. While even these are unattainable without yajna, how shall the highest aspiration, moksha, be gained by one who neglects them?
Link copiedVerses 33–42 (The culmination in jna:na)
Verse 4.33. "Such are the varieties of yajna, all means leading to Brahman. Know them all as springing from action. Knowing thus, thou shalt be emancipated."
Link copiedVerse 4.34. "The wisdom-element, Parantapa, is superior in yajnas requiring much material. All complete action, Partha, ends in wisdom."
Link copiedAction has two aspects — the unintelligent act itself, with its materials and instruments, and the wisdom that directs it. The wisdom-aspect is superior. All work is ultimately performed so that wisdom may be cultivated; wisdom is the end to which every means points.
Link copiedVerse 4.35. "By prostrations, by fair questionings, and by service, know this. The truth-seeing saints shall instruct thee in wisdom."
Link copiedRamanuja reads this verse as direct guidance on how to acquire spiritual knowledge while yet engaged in prescribed work. The wise — the tattva-dharsins to whom a:thman is a demonstrated verity — pleased by the aspirant's reverent demeanour and service, will divine his heart and impart the wisdom.
Link copiedVerse 4.36. "Knowing which, thou wilt not again be deluded — that wisdom by which thou wilt see the sum of all beings in thyself, then in Me."
Link copiedThe wisdom by which one recognises that all a:thmans, when viewed apart from their material environments, are one in their essential nature of being conscious entities. "Embracing this knowledge, they have attained to My equality" (XIV.2). Sruti confirms: "Then the enlightened man, casting off merit and demerit, becomes cleansed and attains the highest equality" (Mundaka III.1.3). Stripped of name and form, the a:thman-essence is equal in all beings and equal with the nature of Para.
Link copiedVerse 4.37. "Wert thou the worst of sinners, thou shouldst yet with this wisdom-bark swim across all evil."
Link copiedVerse 4.38. "As kindled fire, Arjuna, consumes a heap of sticks, so the fire of wisdom reduces all action to ashes."
Link copiedVerse 4.39. "No purifier like wisdom exists here. He who is karma-yoga-perfect realises it in himself in time."
Link copiedVerse 4.40. "Whoso is full of faith, intent thereon, of subdued senses, attains wisdom. Wisdom attained, he soon attains Supreme Peace."
Link copiedVerse 4.41. "The ignorant, the non-earnest, the sceptic-minded perishes. To the sceptic-minded, this world is not, nor the other, nor happiness."
Link copiedIgnorance, faithlessness, and doubt are three distinct obstacles. Whoever doubts the very existence of the a:thman cannot share in the smallest fraction of spiritual bliss.
Link copiedVerse 4.42. "No deeds bind him, Dhananjaya, whose works are yoga-dedicated, whose doubts are wisdom-cut, whose mind is firmly fixed. With the sword of wisdom, then, Bharata, cleaving all this ignorance-born doubt settling in thy heart, arise, and practise karma-yoga."
Link copiedThus closes Lecture Four, the Path of Knowledge (jna:na-karma-sannya:sa-yoga), with the commentary of Bhagavad Ramanuja, in the colloquy between Sri: Krishna and Sri: Arjuna, in the Science of Yo:ga, in the Divine Knowledge of the Upanishads — the Bhagavad Gi:tha.
Link copied