Skip to content

Bhagavad Gita Bhashya · Section 4 of 19

atha karma yo:go: na:ma thruthi:yo:'dhya:yah

Original Sanskrit · click to toggle

तद् एवं मुमुक्षुभिः परम-प्राप्यतया वेदान्तोदित-निरस्त-निखिलाविद्यादि-दोष-गन्धानवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-पर-ब्रह्म-पुरुषोत्तम-प्राप्त्य्-उपाय-भूत-वेदनोपासन-ध्यानादि-शब्द-वाच्य-तद्-ऐकान्तिकात्यन्तिक-भक्ति-योगं वक्तुं तद्-अङ्ग-भूतं य आत्मापहृत-पाप्मा [छा।उ। ८।७।१] इत्य् आदि-प्रजापति-वाक्योदितं प्राप्तुर् आत्मनो याथात्म्य-दर्शनं तन्-नित्यता-ज्ञान-पूर्वकासङ्ग-कर्म-निष्पाद्य-ज्ञान-योग-साध्यम् उक्तम्।

Link copied

प्रजापति-वाक्ये हि दहर-वाक्योदित-पर-विद्याशेषतया प्राप्तुर् आत्मनः स्वरूप-दर्शनं यस् तम् आत्मानम् अनुविद्य विजानाति [छा।उ। ८।१२।६] इत्य् उक्त्वा जागरित-स्वप्न-सुषुप्त्य्-अतीतं प्रत्यग्-आत्म-स्वरूपम् अशरीरं प्रतिपाद्य एवम् एवैष सम्प्रसादोऽस्याच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छा।उ। ८।१२।३] इति दहर-विद्या-फलेनोपसंहृतम्।

Link copied

अन्यत्रापि अध्यात्म-योगाधिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति [क।उ। १।२।१२] इत्य् एवम् आदिषु देवं मत्वेति विधीयमान-पर-विद्याङ्गतया अध्यात्म-योगाधिगमेन इति प्रत्यग्-आत्म-ज्ञानम् अपि विधाय न जायते म्रियते वा विपश्चित् [क।उ। १।२।१८] इत्य् आदिना प्रत्यग्-आत्म-स्वरूपं विशोध्य अणोर् अणीयान् इत्य् आरभ्य महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति [क।उ। १।२।२०-२१],

Link copied

नायम् आत्मा प्रवचनेन लभ्यो

Link copied

न मेधया न बहुना श्रुतेन।

Link copied

यम् एवैष वृणुते तेन लभ्यस्

Link copied

तस्यैष आत्मा विवृणुते तनूं स्वाम्॥ [क।उ। १।२।२३] इत्य्-आदिभिः।

Link copied

पर-स्वरूपं तद्-उपासनम् उपासनस्य च भक्ति-रूपतां प्रतिपाद्य---

Link copied

विज्ञान-सारथिर् यस् तु मनः-प्रग्रहवान् नरः।

Link copied

सोऽध्वनः परम् आप्नोति तद् विष्णोः परमं पदम्॥ [क।उ। १।३।९]

Link copied

इति पर-विद्या-फलेनोपसंहृतम्। अतः परम् अध्याय-चतुष्टयेनेदम् एव प्राप्तुः प्रत्य-आत्मनो दर्शनं स-साधनं प्रपञ्चयति---

Link copied

अर्जुन उवाच

Link copied

ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन

Link copied

तत् किं कर्मणि घोरे मां नियोजयसि केशव

Link copied

यदि कर्मणो बुद्धिर् एव ज्यायसी इति ते मता, किम् अर्थं तर्हि घोरे कर्मणि मां नियोजयसि? एतद् उक्तं भवति--- ज्ञान-निष्ठा एव आत्मावलोकन-साधनम्। कर्म-निष्ठा तु तस्याः निष्पादिका, आत्मावलोकन-साधन-भूता च ज्ञान-निष्ठा सकलेन्द्रिय-मनसां शब्दादि-विषय-व्यापारोपरति-निष्पाद्या इत्य् अभिहिता। इन्द्रिय-व्यापारोपरति-निष्पाद्यम् आत्मावलोकनं चेद् सिषाधयिषितम्, सकलकर्मनिवृत्तिपूर्वकज्ञान-निष्ठायाम् एव अहं नियोजयितव्यः। किम् अर्थं घोरे कर्मणि सर्वेन्द्रिय-व्यापार-रूपे आत्मावलोकन-विरोधिनि कर्मणि मां नियोजयसि इति॥३।१॥

Link copied

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे

Link copied

तद् एकं वद निश्चित्य येन श्रेयोऽहम् आप्नुयाम्

Link copied

अतो व्यामिश्र-वाक्येन मां मोहयसि इव इति मे प्रतिभाति। तथा हि आत्मावलोकन-साधन-भूतायाः सर्वेन्द्रिय-व्यापारोपरति-रूपाया ज्ञान-निष्ठायाः तद्-विपर्यय-रूपं कर्म साधनं तद् एव कुरु इति वाक्यं विरुद्धं व्यामिश्रम् एव। तस्माद् एकम् अमिश्र-रूपं वाक्यं वद। येन वाक्येन अहम् अनुष्ठेय-रूपं निश्चित्य आत्मनः श्रेयः प्राप्नुयाम्॥३।२॥

Link copied

श्री-भगवान् उवाच

Link copied

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ

Link copied

ज्ञान-योगेन साङ्ख्यानां कर्म-योगेन योगिनाम्

Link copied

पूर्वोक्तं च सम्यग् अवधृतं त्वया। पुरा ह्य् अस्मिन् लोके विचित्राधिकारि-सम्पूर्णे द्विविधा निष्ठा ज्ञान-कर्म-विषया यथाधिकारम् असङ्कीर्णा एव मया उक्ता। न हि सर्वो लौकिकः पुरुषः सञ्जात-मोक्षाभिलाषः तदानीम् एव ज्ञान-योगाधिकारे प्रभवति, अपि तु अनभिसंहित-फलेन केवल-परम-पुरुषाराधन-रूपेण अनुष्ठितेन कर्मणा विध्वस्त-मनो-मलोऽव्याकुलेन्द्रियो ज्ञान-निष्ठायाम् अधिकरोति---

Link copied

यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम्।

Link copied

स्व-कर्मणा तम् अभ्यच्र्य सिद्धिं विन्दति मानवः॥ [गीता १८।४६]

Link copied

इति परम-पुरुषाराधनैकवेषता कर्मणां वक्ष्यते। इहापि कर्मण्य् एवाधिकारस् ते [गीता २।४७] इत्य् आदिना अनभिसंहित-फलं कर्म अनुष्ठेयं विधाय तेन विषय-व्याकुलता-रूप-मोहाद् उत्तीर्णबुद्धेः प्रजहाति यदा कामान् [गीता २।५५] इत्य् आदिना ज्ञान-योग उदितः। अतः साङ्ख्यानाम् एव ज्ञान-योगेन स्थितिः उक्ता, योगिनां तु कर्म-योगेन। सङ्ख्या बुद्धिः, तद्-युक्ताः साङ्ख्याः। आत्मैक-विषयया बुद्ध्या युक्ताः साङ्ख्याः। अतद्-अर्हाः कर्म-योगाधिकारिणो योगिनः। विषय-व्याकुल-बुद्धि-युक्तानां कर्म-योगे अधिकारः, अव्याकुल-बुद्धीनां तु ज्ञान-योगे अधिकार उक्तः, सति न किञ्चिद् इह विरुद्धम्, नापि व्यामिश्रम् अभिहितम्॥३।३॥

Link copied

सर्वस्य लौकिकस्य पुरुषस्य मोक्षेच्छायां सञ्जातायां सहसा एव ज्ञान-योगो दुष्कर इत्य् आह---

Link copied

न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते

Link copied

न च सन्न्यसनाद् एव सिद्धिं समधिगच्छति

Link copied

न शास्त्रीयाणां कर्मणाम् अनारम्भाद् एव पुरुषः नैष्कर्म्यं ज्ञान-निष्ठाम् आप्नोति। सर्वेन्द्रिय-व्यापाराख्य-कर्मोपरति-पूर्विकां ज्ञान-निष्ठां न प्राप्नोति इत्य् अर्थः। न च आरब्धस्य शास्त्रीयस्य कर्मणस् त्यागात्। यतोऽनभिसंहित-फलस्य परम-पुरुषाराधन-विषयस्य कर्मणः सिद्धिः आत्म-निष्ठा स्यात्। आत्म-निष्ठा स्यात्। अतस् तेन विना तां न प्राप्नोति। अनभिसंहित-फलैः कर्मभिर् अनाराधित-गोविन्दैर् अविनष्टानादि-काल-प्रवृत्तानन्त-पाप-सञ्चयैर् अव्याकुलेन्द्रियता-पूर्विका आत्म-निष्ठा दुःसम्पाद्या॥३।४॥

Link copied

एतद् एव उपपादयति---

Link copied

न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत्

Link copied

कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः

Link copied

न ह्य् अस्मिन् लोके वर्तमानः पुरुषः कश्चित् कदाचित् अपि कर्म अकुर्वाणः तिष्ठति। न किञ्चित् करोमीति व्यवसितोऽपि सर्वः पुरुषः प्रकृति-समुद्भवैः सत्त्व-रजस्-तमोभिः प्राक्तन-कर्मानुगुणं प्रवृद्धैर् गुणैः स्वोचितं कर्म प्रत्य् अवशः कार्यते प्रवर्त्यते। अत उक्त-लक्षणेन कर्म-योगेन प्राचीनं पाप-सञ्चयं नाशयित्वा गुणांश् च सत्त्वादीन् वशे कृत्वा निर्मलान्तः-करणेन सम्पाद्यो ज्ञान-योगः॥३।५॥

Link copied

अन्यथा ज्ञान-योगाय प्रवृत्तोऽपि मिथ्याचारो भवति इति आह---

Link copied

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्

Link copied

इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते

Link copied

अविनष्ट-पापतया अजित-बाह्यान्तःकरण आत्म-ज्ञानाय प्रवृत्तो विषय-प्रवणतया आत्मनि विमुखीकृत-मनाः विषयान् एव स्मरन् य आस्ते। अन्यथा सङ्कल्प्य अन्यथा चरति इति स मिथ्याचारः उच्यते। आत्म-ज्ञानाय उद्युक्तो विपरीतो विनष्टो भवति इत्य् अर्थः॥३।६॥

Link copied

यस् त्व् इन्द्रियाणि मनसा नियम्यारभतेऽर्जुन

Link copied

कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते

Link copied

अतः पूर्वाभ्यस्त-विषय-सजातीये शास्त्रीये कर्मणि इन्द्रियाणि आत्मावलोकन-प्रवृत्तेन मनसा नियम्य तैः स्वतएव कर्म-प्रवणैः इन्द्रियैः असङ्ग-पूर्वकं यः कर्म-योगम् आरभते, सोऽसम्भाव्यमान-प्रमादत्वेन ज्ञान-निष्ठाद् अपि पुरुषाद् विशिष्यते॥३।७॥

Link copied

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः

Link copied

शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः

Link copied

नियतं व्याप्तं प्रकृति-संसृष्टेन हि व्याप्तं कर्म। प्रकृति-संसृष्टत्वम् अनादि-वासनया। नियतत्वेन सुशकत्वाद् असम्भावित-प्रमादत्वाच् च कर्मणः, कर्मैव कुरु। अकर्मणः ज्ञान-निष्ठाया अपि कर्मैव ज्यायः। नैष्कर्म्यं पुरुषोऽश्नुते [गीता ३।४] इति प्रक्रमात्। अकर्म-शब्देन ज्ञान-निष्ठैवोच्यते। ज्ञान-निष्ठाधिकारिणोऽप्य् अनभ्यस्त-पूर्वतया ह्य् अनियतत्वेन दुःशकत्वात् स-प्रमादत्वाच् च ज्ञान-निष्ठायाः कर्म-निष्ठैव ज्यायसी।

Link copied

कर्मणि क्रियमाणे चात्म-याथात्म्य-ज्ञानेन आत्मनोऽकर्तृत्वानुसन्धानम् अनन्तरम् एव वक्ष्यते। अत आत्म-ज्ञानस्यापि कर्म-योगान्तर्गतत्वात् सैव ज्यायन् इत्य् अर्थः। कर्मणो ज्ञान-निष्ठाया ज्यायस्त्व-वचनं ज्ञान-निष्ठायाम् अधिकारे सत्य् एवोपपद्यते।

Link copied

यदि सर्वं कर्म परित्यज्य केवलं ज्ञान-निष्ठायाम् अधिकरोषि, तर्ह्य् अकर्मणस् ते ज्ञान-निष्ठस्य ज्ञान-निष्ठोपकारिणी शरीर-यात्रापि न सेत्स्यति। यावत्-साधन-समाप्ति शरीर-धारणं चावश्यं कार्यम्। न्यायार्जित-धनेन महा-यज्ञादिकं कृत्वा तच्-छिष्टाशनेनैव शरीर-धारणं कार्यम्। आहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुवा स्मृतिः [छा।उ। ७।२६।२] इत्य् आदि-श्रुतेः। भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् [गीता ३।१३] इति च वक्ष्यते। अतो ज्ञान-निष्ठस्यापि कर्माकुर्वतो देह-यात्रा न सेत्स्यति। यतो ज्ञान-निष्ठस्यापि ध्रियमाण-शरीरस्य यावत्-साधन-समाप्ति महा-यज्ञादि-नित्य-नैमित्तिकं कर्म अवश्यं कार्यम्। यतश् च कर्म-योगेऽप्य् आत्मनोऽकर्तृत्व-भावनया आत्म-याथात्म्यानुसन्धानम् अन्तर्भूतम्। यतश् च प्रकृति-संसृष्टस्य कर्म-योगः सुशकोऽप्रमादश् च। अतो ज्ञान-निष्ठा-योग्यस्यापि ज्ञान-योगात् कर्म-योगो ज्यायान्। तस्मात् त्वं कर्म-योगम् एव कुर्व् इत्य् अभिप्रायः॥३।८॥

Link copied

एव तर्हि द्रव्यार्जनादेः कर्मणोऽहङ्कार-ममकारादि-सर्वेन्द्रिय-व्याकुलता-गर्भत्वेनास्य पुरुषस्य कर्म-वासनया बन्धनं भविष्यतीत्य् अत्राह---

Link copied

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म-बन्धनः

Link copied

तद् अर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर

Link copied

यज्ञादि-शास्त्रीय-कर्म-शेष-भूताद् द्रव्यार्जनादेः कर्मणोऽन्यत्रात्मीय-प्रयोजन-शेष-भूते कर्मणि क्रियमाणेऽयं लोकः कर्म-बन्धनो भवति। अतस् त्वं यज्ञाद्य्-अर्थं द्रव्यार्जनादिकं कर्म समाचर। तत्रात्म-प्रयोजन-साधनतया यः सङ्गस् तस्मात् सङ्गात् मुक्तः सन् समाचर। एवं मुक्त-सङ्गेन यज्ञाद्य्-अर्थतया कर्मणि क्रियमाणे यज्ञादिभिः कर्मभिर् आराधितः परम-पुरुषोऽस्य अनादि-काल-प्रवृत्त-कर्म-वासनां समुच्छिद्य अव्याकुलात्मावलोकनं ददातीत्य् अर्थः॥३।९॥

Link copied

यज्ञ-शिष्टेनैव सर्व-पुरुषार्थ-साधन-निष्ठानां शरीर-धारण-कर्तव्यताम् अयज्ञ-शिष्टेन शरीर-धारणं कुर्वतां दोषं चाह--- पतिं विश्वरस्य आत्मेश्वरम् [तै।ना। ११।३] इत्य् आदि श्रुतेः निरुपाधिकः प्रजापति-शब्दः सर्वेश्वरं विश्व-स्राष्टारं विश्वात्मानं परायणं नारायणम् आह। पुरा सर्ग-काले स भगवान् प्रजापतिः अनादि-काल-प्रवृत्ताचित्-संसर्ग-विवशा उपसंहृत-नाम-रूप-विभागाः स्वस्मिन् प्रलीनाः सकल-पुरुषार्थानर्हाश् चेतनेतर-कल्पाः प्रजाः समीक्ष्य परम-कारुणिकस् तद्-उज्जिजीवविषया स्वाराधन-भूत-यज्ञ-निर्वृत्तये यज्ञैः सह ताः सृष्ट्वैवम् उवाच---

Link copied

सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः

Link copied

अनेन प्रसविष्यध्वम् एष वोऽस्त्व् इष्ट-काम-धुक्१०

Link copied

अनेन यज्ञेन प्रसविष्यध्वम् आत्मनो वृद्धिं कुरुध्वम्। एष वो यज्ञः परम-पुरुषार्थ-लक्षण-मोक्षाख्यस्य कामस्य तद्-अनुगुणानां च कामानां प्रपूरयिता भवतु॥३।१०॥

Link copied

कथम्।

Link copied

देवान् भावयतानेन ते देवा भावयन्तु वः

Link copied

परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ११

Link copied

अनेन देवताराधन-भूतेन देवान् मच्-छरीर-भूतान् मद्-आत्मकान् आराधयत। अहं हि सव-यज्ञानां भोक्ता च प्रभुर् एव च [गीता ९।२४] इति वक्ष्यते। यज्ञेनाराधितास् ते देवा मद्-आत्मकाः स्वाराधनापेक्षितान्न-पानादिकैर् युष्मान् पुष्णन्तु। एवं परस्परं भावयन्तः परं श्रेयो मोक्षाख्यम् अवाप्स्यथ॥३।११॥

Link copied

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः

Link copied

तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः१२

Link copied

यज्ञ-भाविता यज्ञेनाराधिता मद्-आत्मका देवा इष्टान् भोगान् वो दास्यन्ते परम-पुरुषार्थ-लक्षणं मोक्षं साधयतां ये इष्टा भोगास् तान् पूर्व-पूर्व-यज्ञ-भाविता देवा दास्यन्ते। उत्तरोत्तराराधनापेक्षितान् सर्वान् भोगान् वो दास्यन्तीत्य् अर्थः। स्वाराधनार्थतया तैर् दत्तान् भोगांस् तेभ्योऽप्रदाय यो भुङ्क्ते चोर एव सः। चौर्यं हि नाम अन्यदीये तत्-प्रयोजनायैव परिकॢप्ते वस्तुनि स्वकीयता-बुद्धिं कृत्वा तेन स्वात्म-पोषणम्। अतोऽस्य न परम-पुरुषार्थानर्हता-मात्रम्, अपि तु निरय-गामित्वं च भविष्यतीत्य् अभिप्रायः॥३।१२॥

Link copied

तद् एव विवृणोति---

Link copied

यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः

Link copied

भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात्१३

Link copied

इन्द्राद्य्-आत्मनावस्थित-परम-पुरुषाराधनार्थतयैव द्रव्याण्य् उपादाय विपच्य तैर् यथावस्थितं परम-पुरुषम् आराध्य तच्-छिष्टाशनेन ये शरीर-यात्रां कुर्वते, ते त्व् अनादि-कालोपार्जितैः किल्बिषैर् आत्म-याथात्म्यावलोकन-विरोधिभिः सर्वैर् विमुच्यन्ते। ये तु परम-पुरुषेण इन्द्राद्य्-आत्मना स्वाराधनाय दत्तानाम् आत्मार्थतयोपादाय विपच्याश्नन्ति ते पापात्मानोऽघम् एव भुञ्जते। अघ-परिणामित्वाद् अघम् इत्य् उच्यते। आत्मावलोकन-विमुखा नरकायैव पच्यन्ते॥३।१३॥

Link copied

पुनर् अपि लोक-दृष्ट्या शास्त्र-दृष्ट्या च सर्वस्य यज्ञ-मूलत्वं दर्शयित्वा यज्ञानुवर्तनस्य अवश्य-कार्यताम् अननुवर्तने दोषं चाह---

Link copied

अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-सम्भवः

Link copied

यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः१४

Link copied

अन्नात् सर्वाणि भूतानि भवन्ति पर्जन्याद् अन्न-सम्भवः इति सर्व-लोक-साक्षिकम्। यज्ञात् पर्जन्यो भवतीति च शास्त्रेणावगम्यते---

Link copied

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते।

Link copied

आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः॥ [मनु ३।७६] इत्य्-आदिना।

Link copied

यज्ञः च द्रव्यार्जनादि-कर्तृ-पुरुष-व्यापार-रूप-कर्म-समुद्भवः॥३।१४॥

Link copied

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम्

Link copied

तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्१५

Link copied

कर्म च ब्रह्मोद्भवम्। अत्र च ब्रह्म-शब्द-निर्दिष्टां प्रकृति-परिणाम-रूप-शरीरम्। तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते [मु।उ। १।१।९] इति ब्रह्म-शब्देन प्रकृतिर् निर्दिष्टा। इहापि मम योनिर् महद् ब्रह्म [गीता १४।३] इति वक्ष्यते। अतः कर्म ब्रह्मोद्भवम् इति प्रकृति-परिणाम-रूप-शरीरोद्भवं कर्म इत्य् उक्तं भवति। ब्रह्माक्षर-समुद्भवम् इत्य् अत्र अक्षर-शब्द-निर्दिष्टो जीवात्मा। अन्न-पानादिना तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवतीति कर्म-साधन-भूतं शरीरम् अक्षर-समुद्भवम्। तस्मात् सर्व-गतं ब्रह्म सर्वाधिकारि-गतं शरीरं नित्यं यज्ञे प्रतिष्ठितं यज्ञ-मूलम् इत्य् अर्थः॥३।१५॥

Link copied

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः

Link copied

अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति१६

Link copied

एवं परम-पुरुषेण प्रवर्तितम् इदं चक्रम् अन्नाद् भवन्ति भूतानि इत्य् अत्र भूत-शब्द-निर्दिष्टानि स-जीवानि शरीराणि। पर्जन्याद् अन्नम्, यज्ञात् पर्जन्यः। यज्ञश् च कर्तृ-व्यापारानुरूपात् कर्मणः। कर्म च स-जीवात् शरीरात्, स-जीवं शरीरं च पुनर् अन्नाद् इति अन्योन्य-कार्य-कारण-भावेन चक्रवत् परिवर्तमानम्। इह साधने वर्तमानो यः कर्म-योगाधिकारी ज्ञान-योगाधिकारी वा नानुवर्तयति न प्रवर्तयति, यज्ञ-शिष्टेन देह-धारणम् अकुर्वन् सोऽघायुर् भवति। अघारम्भायैव यस्यायुर् अघ-परिणतं वोभय-रूपं वा सोऽघायुः। अतएव इन्द्रियारामो भवति, नात्मारामः। इन्द्रियाण्य् एवास्योद्यानानि भवन्ति। अयज्ञ-शिष्ट-वर्धित-देह-मनस्त्वेन उद्रिक्त-रजस्-तमस्क आत्मावलोकन-विमुखतया विषय-भोगैक-रतिर् भवति, अतो ज्ञान-योगादौ यतमानोऽपि निष्फल-प्रयत्नतया मोघं पार्थ स जीवति॥३।१६॥

Link copied

असाधनायत्तात्म-दर्शनस्य मुक्तस्यैव महा-यज्ञादि-वर्णाश्रमोचित-कर्मानारम्भ इत्य् आह---

Link copied

यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः

Link copied

आत्मन्य् एव च सन्तुष्टस् तस्य कार्यं न विद्यते१७

Link copied

यस् तु ज्ञान-योग-कर्म-योग-साधन-निरपेक्षः स्वत एव आत्म-रतिर् आत्माभिमुख आत्मना एव तृप्तः, न अन्न-पानादिभिर् आत्म-व्यतिरिक्तैः, आत्मन्य् एव च सन्तुष्टाः। न उद्यान-स्राक्-चन्दन-गीत-वादित्र-नृत्यादौ, धारण-पोषण-भोग्यादिकं सर्वम् आत्मैव यस्य तस्य आत्म-दर्शनाय कर्तव्यं न विद्यते। स्वत एव सर्वदा दृष्टात्म-स्वरूपत्वात्॥३।१७॥

Link copied

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन

Link copied

न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः१८

Link copied

अतएव तस्यात्म-दर्शनाय कृतेन तत्-साधनेन नार्थः--- न किञ्चित् प्रयोजनम्, अकृतेन आत्म-दर्शन-साधनेन न कश्चिद् अनर्थः--- असाधनायत्तात्म-दर्शनत्वात्। स्वत एवात्म-व्यतिरिक्त-सकलाचिद्-वस्तु-विमुखस्यास्य सर्वेषु प्रकृति-परिणाम-विशेषेष्व् आकाशादिषु भूतेषु स-कार्येषु न कश्चित् प्रयोजनतया साधनतया वा व्यपाश्रयः, यतः तद्-विमुखीकरणाय साधनारम्भः। स हि मुक्तैव॥३।१८॥

Link copied

यस्माद् असाधनायत्तात्म-दर्शनस्यैव साधनाप्रवृत्तिः, यस्माच् च साधने प्रवृत्तस्यापि सुशकत्वाद् अप्रमादत्वात् तद्-अन्तर्गतात्मयाथात्म्यानुसन्धानत्वाद् च ज्ञान-योगिनोऽपि देह-यात्रायाः कर्मानुवृत्त्य्-अपेक्षत्वात् च कर्म-योगैव आत्म-दर्शन-निवृत्तौ श्रेयान्---

Link copied

तस्माद् असक्तः सततं कार्यं कर्म समाचर

Link copied

असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः१९

Link copied

तस्माद् असङ्गपूर्वकं कार्यम् इत्येव सततं यावदात्मप्राप्ति कर्मैव समाचर। असक्तः कार्यम् इति वक्ष्यमाणाकर्तृत्वानुसन्धानपूर्वकं च कर्म अनुचरन् पूरूषः कर्म-योगेनैव परम् आप्नोति आत्मानं प्राप्नोति इत्य् अर्थः॥३।१९॥

Link copied

कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः

Link copied

लोक-सङ्ग्रहम् एवापि सम्पश्यन् कर्तुम् अर्हसि२०

Link copied

यतो ज्ञान-योगाधिकारिणोऽपि कर्म-योगैव आत्मदर्श ने श्रेयान्, अत एव हि जनकादयो राजर्वायो ज्ञानिनाम् अग्रेसराः कर्म-योगेनैव संसिद्धिम् आस्थिताः, आत्मानं प्राप्तवन्तः।

Link copied

एवं प्रथमं मुमुक्षोः ज्ञान-योगानर्हतया कर्म-योगाधिकारिणः कर्म-योगैव कार्यः, इत्युक्त्वा ज्ञान-योगाधिकारिणोऽपि ज्ञान-योगात् कर्म-योगैव श्रेयान् इति सहेतुकम् उक्तम्। इदानीं शिष्टातया व्यपदेश्यस्य सर्वथा कर्म-योगैव कार्य इति उच्यते--- लोकसङ्ग्रहं पश्यन् अपि कर्मैव कर्तुम् अर्हसि॥३।२०॥

Link copied

यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः

Link copied

स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते२१

Link copied

श्रेष्ठः कृत्स्न-शास्त्र-ज्ञातृतया अनुष्ठातृतया च प्रथितो यद् यद् आचरति तत् तद् एव अकृत्स्नविद् जनोऽपि आचरति। अनुष्ठीयमानम् अपि कर्म श्रेष्ठो यत्-प्रमाणं यद्-अङ्ग-युक्तम् अनुतिष्ठति, तद्-अङ्ग-युक्तम् एव अकृत्स्न-विद् लोकोऽपि अनुतिष्ठति। अतो लोक-रक्षार्थं शिष्टातया प्रथितेन श्रेष्ठेन स्व-वर्णाश्रमोचितं कर्म सकलं सर्वदा अनुष्ठेयम्। अन्यथा लोक-नाश-जनितं पापं ज्ञान-योगाद् अप्य् एनं प्रच्यावयेत्॥३।२१॥

Link copied

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन

Link copied

नानवाप्तम् अवाप्तव्यं वर्तैव च कर्मणि२२

Link copied

न मे सर्वेश्वरस्य अवाप्त-समस्त-कामस्य सर्वज्ञस्य सत्य-सङ्कल्पस्य त्रिषु लोकेषु देव-मनुष्यादि-रूपेण स्वच्छन्दतो वर्तमानस्य किञ्चिद् अपि कर्तव्यम् अस्ति, यतोऽनवाप्तं कर्मणावाप्तव्यं न किञ्चिद् अप्य् अस्ति, अथापि लोक-रक्षायै कर्मण्य् एव वर्ते॥३।२२॥

Link copied

यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः

Link copied

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः२३

Link copied

अह सर्वेश्वरः सत्य-सङ्कल्पः स्व-सङ्कल्प-कृत-जगद्-उदय-विभवलय-लीलः स्वच्छन्दतो जगद्-उपकृतये मर्त्यो जातोऽपि मनुष्येषु शिष्टाजनाग्रेसर-वसुदेव-गृहेऽवतीर्णस् तत्-कुलोचिते कर्मण्य् अतन्द्रितः सर्वदा यदि न वर्तेयम्, मम शिष्टाजनाग्रेसर-वसुदेव-सूनोर् वर्त्म अकृत्स्न-विदः शिष्टाश् च सर्व-प्रकारेणायम् एव धर्म इत्य् अनुवर्तन्ते ते च स्व-कर्तव्याननु-ष्ठानेनाकरणे प्रत्यवायेन चात्मानम् अनुपलभ्य निरय-गामिनो भवेयुः॥३।२३॥

Link copied

उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम्

Link copied

सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः२४

Link copied

अहं कुलोचितं कर्म न चेत् कुर्याम् एवम् एव सर्वे शिष्टालोका मद्-आचारायत्त-धर्म-निश्चया अकरणाद् एव उत्सीदेयुः--- नष्टा भवेयुः, शास्त्रीयाचाराणाम् अपालनात् सर्वेषां शिष्टाकुलानां सङ्करस्य च कर्ता स्याम्, अतएव इमाः प्रजा उपहन्याम्। एवम् एव त्वम् अपि शिष्ट-जनाग्रेसर-पाण्डु-तनयो युधिष्ठिरानुजोऽर्जुनः सन् शिष्टतया यदि ज्ञान-निष्ठायाम् अधिकरोषि। ततस् त्वद्-आचारानुवर्तिनोऽकृत्स्न-विदः शिष्टाश् च मुमुक्षवः स्वाधिकारम् अजानन्तः कर्म-निष्ठायाम् अनधिकुर्वन्तो विनश्येयुः। अतो व्यपदेश्येन विदुषा कर्मैव कर्तव्यम्॥३।२४॥

Link copied

सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत

Link copied

कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-सङ्ग्रहम्२५

Link copied

अविद्वांस आत्मन्य् अकृत्स्न-विदः कर्मणि सक्ताः कर्मण्य् अवर्जनीय-सम्बन्धाः, आत्मन्य् अकृतस्न-वित्तया तद्-अभ्यास-रूप-ज्ञान-योगेऽनधिकृताः, कर्म-योगाधिकारणिः कर्म-योगम् एव यथात्म-दर्शनाय कुर्वते, तथात्मनि कृत्स्न-वित्तया कर्मण्य् असक्तो ज्ञान-योगाधिकार-योग्योऽपि व्यपदेश्यः शिष्टाः, लोक-रक्षणार्थं स्वाचारेण शिष्ट-लोकानां धर्म-निश्चयं चिकीर्षुः कर्म-योगम् एव कुर्यात्॥३।२५॥

Link copied

न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम्

Link copied

जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन्२६

Link copied

अज्ञानाम् आत्मन्य् अकृत्स्न-वित्तया ज्ञान-योगोपादानाशक्तानां मुमुक्षूणां कर्म-सङ्गिनाम् अनादि-कर्म-वासनया कर्मणि एव नियतत्वेन कर्म-योगाधिकारिणां कर्म-योगाद् अन्यथात्मावलोकनम् अस्तीति न बुद्धि-भेदं जनयेत्। किं तर्हि? आत्मनि कृत्स्न-वित्तया ज्ञान-योग-शक्तोऽपि पूर्वोक्त-रीत्या कर्म-योगैव ज्ञान-योग-निरपेक्ष आत्मावलोकन-साधनम् इति बुद्ध्या युक्तः कर्मैवाचरन् सर्व-कर्मसु अकृत्स्न-विदां प्रीतिं जनयेत्॥३।२६॥

Link copied

अथ कर्म-योगम् अनुतिष्ठतो विदुषोऽविदुषश् च विशेषं प्रदर्शयन् कर्म-योगापेक्षितम् आत्मनोऽकर्तृत्वानुसन्धान-प्रकारम् उपदिशति---

Link copied

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः

Link copied

अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते२७

Link copied

प्रकृतेः गुणैः सत्त्वादिभिः स्वानुरूपं क्रियमाणानि कर्माणि प्रत्य् अहङ्कार-विमूढात्मा अहं कर्तेति मन्यते। अहङ्कारेण विमूढ आत्मा यस्यासाव् अहङ्कार-विमूढात्मा। अहङ्कारो नाम अनहम्-अर्थे प्रकृताव् अहम् इति अभिमानः। तेन अज्ञातात्म-स्वरूपो गुण-कर्मस्व् अहं कर्तेति मन्यते इत्य् अर्थः॥३।२७॥

Link copied

तत्त्ववित् तु महाबाहो गुण-कर्म-विभागयोः

Link copied

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते२८

Link copied

गुण-कर्म-विभागयोः सत्त्वादि-गुण-विभागे तत्-तत्-कर्म-विभागे च तत्त्ववित्, गुणाः सत्त्वादयः स्व-गुणेषु स्वेषु कार्येषु वर्तन्ते इति मत्वा गुण-कर्मस्व् अहं कर्तेति न सज्जते॥३।२८॥

Link copied

प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु

Link copied

तान् अकृत्स्न-विदो मन्दान् कृत्स्नविन् न विचालयेत्२९

Link copied

अकृत्स्न-विदस् तु आत्म-दर्शनाय प्रवृत्ताः प्रकृति-संसृष्टतया प्रकृतेः गुणैर् यथावस्थितात्मनि संमूढा गुण-कर्मसु क्रियास्व् एव सज्जन्ते, न तद्-विविक्तात्म-स्वरूपे। अतस् ते ज्ञान-योगाय न प्रभवन्तीति कर्म-योग एव तेषाम् अधिकारः। एवम्भूतान् तान् मन्दान् अकृत्स्न-विदः कृत्स्न-वित् स्वयं ज्ञान-योगावस्थानेन न विचालयेत्। ते किल मन्दाः श्रेष्ठ-जनाचारानुवर्तिनः कर्म-योगाद् उत्थितम् एनं दृष्ट्वा कर्म-योगात् प्रचलित-मनसो भवेयुः। अतः श्रेष्ठः स्वयम् अपि कर्म-योगे तिष्ठन् आत्म-याथात्म्य-ज्ञानेन आत्मनोऽकर्तृत्वम् अनसन्दधानः। कर्म-योग एवात्मावलोकने निरपेक्ष-साधनम् इति दर्शयित्वा तान् अकृत्स्न-विदो मन्दान् जोषयेद् इत्य् अर्थः।

Link copied

ज्ञान-योगाधिकारिणोऽपि ज्ञान-योगाद् अस्यैव कर्म-योगस्य ज्यायस्त्वं पूर्वम् एवोक्तम्। अतो व्यपदेश्यो लोक-सङ्ग्रहाय कर्मैव कुर्यात्। प्रकृति-विविक्तात्म-स्वभाव-निरूपणेन गुणेषु कर्तृत्वम् आरोप्य कर्मानुष्ठान-प्रकार उक्तः। गुणेषु कर्तृत्वानुसन्धानं चेदम् एवात्मनो न स्वरूप-प्रयुक्तम् इदं कर्तृत्वम्, अपि तु गुण-सम्बन्ध-कृतम् इति प्राप्ताप्राप्त-विवेकेन गुण-कृतम् इत्य् अनुसन्धानम्॥३।२९॥

Link copied

इदानीम् आत्मनां परम-पुरुष-शरीरतया तन्-नियाम्यत्व-स्वरूप-निरूपणेन भगवति पुरुषोत्तमे सर्वात्म-भूते गुण-कृतं च कर्तृत्वम् आरोप्य कर्म-कर्तव्यतयोच्यते---

Link copied

मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्म-चेतसा

Link copied

निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः३०

Link copied

मयि सर्वेश्वरे सर्व-भूतान्तरात्म-भूते सर्वाणि कर्माणि अध्यात्म-चेतसा सन्न्यस्य निराशीर् निर्ममश् च विगत-ज्वरो युद्धादिकं सर्वं चोदितं कर्म कुरुष्व। आत्मनि यच् चेतस् तद् अध्यात्म-चेतः, आत्म-स्वरूप-विषयेण श्रुति-शत-सिद्धेन ज्ञानेनेत्य् अर्थः।

Link copied

अन्तः प्रविष्टाः शास्ता जनानां सर्वात्मा \॥। अन्तः प्रविष्टां कर्तारमेतम् [तै।आ। ३।११] य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद। यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [बृ। ५।७ मा।दि।] इत्य् एवम् आद्याः श्रुतयः परम-पुरुष-प्रवर्त्यं तच्-छरीर-भूतम् एनम् आत्मानं परम-पुरुषं च प्रवर्तयितारम् आचक्षते। स्मृतयश् च--- प्रशासितारं सर्वेषाम् [मनु १२।१२२] इत्य् आद्याः। सर्वस्य चाहं हृदि सन्निविष्टाः [गीता १५।१५],

Link copied

ईश्वरः सर्वभूतानां हृद्देशोऽर्जुन तिष्ठति।

Link copied

भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया॥ [गीता १८।६१] इति वक्ष्यते।

Link copied

अतो मच्-छरीरतया मत्-प्रवर्त्यात्म-स्वरूपानुसन्धानेन सर्वाणि कर्माणि मयैव क्रियमाणानीति मयि परम-पुरुषे सन्न्यस्य तानि च केवलं मद्-आराधनानीति कृत्वा तत्-फले निराशीस् तत एव तत्र कर्मणि ममता-रहितो भूत्वा विगत-ज्वरो युद्धादिकं कुरुष्व।

Link copied

स्वकीयेनात्मना कर्त्रा स्वकीयैश् चोपकरणैः स्वाराधनैक-प्रयोजनाय परम-पुरुषः सर्वेश्वरः सर्व-शेषी स्वयम् एव स्व-कर्माणि कारयति। इत्य् अनुसन्धाय कर्मसु ममता-रहितः प्राचीनेनानादि-काल-प्रवृत्तानन्त-पाप-सचयेन कथम् अहं भविष्यामि इत्य् एवं भूतान्तर्-ज्वर-विनिर्मुक्तः परम-पुरुष एव कर्मभिर् आराधितो बन्धान् मोचयिष्यतीति स्मरन् सुखेन कर्म-योगम् एव कुरुष्वेत्य् अर्थः।

Link copied

तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् [श्वे।उ। ३।७], पतिं विश्वस्य [म।ना।उ। ३।१], पतिं पतीनाम् [श्वे।उ। ६।७], इत्य् आदि-श्रुति-सिद्धं हि सर्वेश्वरत्वं सर्व-शेषित्वं च। ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वम्॥३।३०॥

Link copied

अयम् एव साक्षाद्-उपनिषत्-सार-भूतोऽर्थ इत्य् आह---

Link copied

ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः

Link copied

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः३१

Link copied

ये मानवा आत्म-निष्ठ-शास्त्राधिकारिणोऽयम् एव शास्त्रार्थ इत्य् एतन् मे मतं निश्चित्य तथानुतिष्ठन्ति। ये चाननुतिष्टान्तोऽप्य् अस्मिन् शास्त्रार्थे श्रद्दधाना भवन्ति, ये च अश्रद्दधाना अपि एवं शास्त्रार्थे न सम्भवतीति नाभ्यसूयन्ति। अस्मिन् महा-गुणे शास्त्रार्थे दोष-दर्शिनो न भवन्तीत्य् अर्थः। ते सर्वे बन्ध-हेतुभिर् अनादि-काल-प्रारब्धैः कर्मभिर् मुच्यन्ते। तेऽपि कर्मभिर् इति अपि-शब्दाद् एषां पृथक्-करणम्। इदानीम् अननुतिष्ठन्तोऽपि अस्मिन् शास्त्रार्थे श्रद्दधाना अनभ्यसूयवश् च श्रद्धया चानसूयया च क्षीण-पापा अचिरेणेमम् एव शास्त्रार्थम् अनुष्ठाय मुच्यन्त इत्य् अर्थः॥३।३१॥

Link copied

भगवद्-अभिमतम् औपनिषदम् अर्थम् अननुतिष्ठताम् अश्रद्दधानानाम् अभ्यसूयतां च दोषम् आह---

Link copied

ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्

Link copied

सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः३२

Link copied

ये तु एतत् सर्वम् आत्मवस्तु मच्छरीरतया मदाधारं मच्छेषभूतं मदेकप्रवत्त्र्यम् इति मे मतं न अनुतिष्ठन्ति नैवम् अनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये च अभ्यसूयन्तो वर्तन्ते, तान् सर्वेषु ज्ञानेषु विशेषेण मूढान् ततएव नष्टाअन् अचेतसो विद्धि। चेतःकार्यं हि वस्तुयाथात्म्यनिश्चयः, तदभावाद् अचेतसः विपरीतज्ञानाः सर्वत्र विमूढाश् च॥३।३२॥

Link copied

एवं प्रकृति-संसर्गिणस् तद्-गुणोद्रेक-कृतं तच् च कर्तृत्वं परम-पुरुषायत्तम् इति अनुसन्धाय कर्म-योग-योग्येन ज्ञान-योग-योग्येन च कर्म-योगस्य सुशकत्वाद् अप्रमादत्वाद् अन्तर्गतात्म-ज्ञानतया निरपेक्षत्वाद् इतरस्य दुःशकत्वात् सप्रमादत्वात् शरीर-धारणाद्य्-अर्थतया कर्मापेक्षत्वात् कर्म-योग एव कर्तव्यः। व्यपदेश्यस्य तु विशेषतः स एव कर्तव्य इति चोक्तम्। अतः परम् अध्याय-शेषेण ज्ञान-योगस्य दुःशकतया स-प्रमादतोच्यते---

Link copied

सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि

Link copied

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति३३

Link copied

प्रकृति-विविक्तम् ईदृशम् आत्म-स्वरूपम्, तद् एव सर्वदानुसन्धेयम्, इति च शास्त्राणि प्रतिपादयन्तीति ज्ञानवान् अपि स्वस्याः प्रकृतेः प्राचीन-वासनायाः सदृशं प्राकृत-विषयेष्व् एव चेष्टाते। कुतः। प्रकृतिं यान्ति भूतानि अचित्-संसृष्टा जन्तवोऽनादि-काल-प्रवृत्त-वासनाम् एव यान्ति, तानि वासनानुयायीनि भूतानि शास्त्र-कृतो निग्रहः किं करिष्यति॥।३।३३॥

Link copied

प्रकृत्य्-अनुयायित्व-प्रकारम् आह---

Link copied

इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ

Link copied

तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ३४

Link copied

श्रोत्रदि-ज्ञानेन्द्रियस्यार्थे शब्दादौ वाग्-आदि-कर्मेन्द्रियस्य चार्थे वचनादौ प्राचीन-वासना-जनित-तत्-तद्-अनुबुभूषा-रूपो रागोऽवर्जनीयो व्यवस्थितः। तद्-अनुभवे प्रतिहते चावर्जनीयो द्वेषो व्यवस्थितः। ताव् एवं ज्ञान-योगाय यतमानं नियमित-सर्वेन्द्रियं स्व-वशे कृत्वा प्रसह्य स्व-कार्येषु संयोजयतः। ततश् चायम् आत्म-स्वरूपानुभव-विमुखो विनष्टो भवति। तयोर् न वशम् आगच्छेत्। ज्ञान-योगारम्भेण राग-द्वेष-वशम् आगम्य न विनश्येत्। तौ हि रग-द्वेषौ ह्य् अस्य दुर्जयौ शत्रू आत्म-ज्ञानाभ्यासं वारयतः॥३।३४॥

Link copied

श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात्

Link copied

स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः३५

Link copied

अतः सुशकतया स्वधर्म-भूतः कर्म-योगो विगुणोऽप्य् अप्रमाद-गर्भः प्रकृति-संसृष्टस्य दुःशकतया पर-धर्म-भूताज् ज्ञान-योगात् सगुणाद् अपि किञ्चित् कालम् अनुष्ठितात् स-प्रमादात् श्रेयान्। स्वेनैवोपादातुं योग्यतया स्वधर्म-भूते कर्म-योगे वर्तमानस्य एकस्मिन् जन्मनि अप्राप्त-फलतया निधनम् अपि श्रेयः। अनन्तराय-हततया अनन्तर-जन्मन्य् अप्य् अव्याकुल-कर्म-योगारम्भ-सम्भवात्। प्रकृति-संसृष्टस्य स्वेनैव उपादातुम् अशक्यतया पर-धर्म-भूतो ज्ञान-योगः प्रमाद-गर्भतया भयावहः॥३।३५॥

Link copied

अर्जुन उवाच

Link copied

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः

Link copied

अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः३६

Link copied

अथायं ज्ञान-योगाय प्रवृत्तः पूरुषः स्वयं विषयान् अनुभवितुम् अनिच्छन्न् अपि केन प्रयुक्तो विषयानुभव-रूपं पापं बलान् नियोजित इव चरति॥३।३६॥

Link copied

श्री-भगवान् उवाच

Link copied

काम एष क्रोध एष रजो-गुण-समुद्भवः

Link copied

महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम्३७

Link copied

अस्योद्भवाभिभव-रूपेण वर्तमान-गुण-मय-प्रकृति-संसृष्टस्य प्रारब्ध-ज्ञान-योगस्य रजो-गुण-समुद्भवः प्राचीन-वासना-जनितः शब्दादि-विषयोऽयं कामो महाशनः शत्रुः। सर्व-विषयेष्व् एनम् आकर्षति। एष एव प्रतिहत-गतिः प्रतिहनन-हेतु-भूत-चेतनान् प्रति क्रोध-रूपेण परिणतो महा-पाप्मा पर-हिंसादिषु प्रवर्तयति। एनं रजो-गुण-समुद्भवं सहजं ज्ञान-योग-विरोधिनं वैरिणं विद्धि॥३।३७॥

Link copied

धूमेनाव्रियते वह्निर् यथादर्शो मलेन च

Link copied

यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम्३८

Link copied

यथा धूमेन वह्निर् आव्रियते, यथा चादर्शो मलेन, यथा चोल्बेनावृतो गर्भस् तथा तेन कामेनेदं जन्तु-जातम् आवृतम्॥३।३८॥

Link copied

आवरण-प्रकारम् आह---

Link copied

आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा

Link copied

काम-रूपेण कौन्तेय दुष्पूरेणानलेन च३९

Link copied

अस्य जन्तोर् ज्ञानिनो ज्ञान-स्वभावस्यात्म-विषयं ज्ञानम् एतेन काम-कारेण विषय-व्यामोह-जननेन नित्य-वैरिणावृतं दुष्पूरेण पूर्त्य्-अनर्ह-विषयेणानलेन च पर्याप्ति-रहितेन॥३।३९॥

Link copied

कैर् उपकरणैर् अयं काम आत्मानम् अधितिष्ठतीत्य् अत्राह---

Link copied

इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते

Link copied

एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम्४०

Link copied

अधितिष्ठत्य् एभिर् अयं काम आत्मानम् इतीन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम्। एतैर् इन्द्रिय-मनो-बुद्धिभिः कामाधिष्ठान-भूतैर् विषय-प्रवणैर् देहिनं प्रकृति-संसृष्टां ज्ञानम् आवृत्य विमोहयति। विविधं मोहयत्य् आत्म-ज्ञान-विमुखं

Link copied

विषयानुभव-परं करोतीत्य् अर्थः॥४।४०॥

Link copied

तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ

Link copied

पाप्मानं प्रजहि ह्य् एनं ज्ञान-विज्ञान-नाशनम्४१

Link copied

यस्मात् सर्वेन्द्रिय-व्यापारोपरति-रूपे ज्ञान-योगे प्रवृत्तस्यायं काम-रूपः शत्रुर् विषयाभिमुख्य-करणेनात्मनि वैमुख्यं करोति। तस्मात् प्रकृति-संसृष्टतयेन्द्रिय-व्यापार-प्रवणस् त्वम् आदौ मोक्षोपायारम्भ-समय एवेन्द्रिय-व्यापार-रूपे कर्म-योगे इन्द्रियाणि नियम्यैनं ज्ञान-विज्ञान-नाशनम् आत्म-स्वरूप-विषयस्य ज्ञानस्य तद्-विवेक-विषयस्य च नाशनं पाप्मानं काम-रूपं वैरिणं प्रजहि नाशय॥३।४१॥

Link copied

ज्ञान-विरोधिषु प्रधानम् आह---

Link copied

इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः

Link copied

मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः४२

Link copied

ज्ञान-विरोधे प्रधानानीन्द्रियाण्य् आहुः। यत इन्द्रियेषु विषय-व्यापृतेष्व् आत्मनि ज्ञानं न प्रवर्तते, इन्द्रियेभ्यः परं मनः, इन्द्रियेषूपरतेष्व् अपि मनसि विषय-प्रवणे आत्म-ज्ञानं न सम्भवति। मनसस् तु परा बुद्धिः। मनसि विषयान्तर-विमुखेऽपि विपरीताध्यवसाय-प्रवृत्तायां बुद्धौ नात्म-ज्ञानं प्रवर्तते। सर्वेषु बुद्धि-पर्यन्तेषु उपरतेष्व् अपीच्छा-पर्यायः कामो रजः-समुद्भवो वर्तते चेत्, सैव एतानीन्द्रियादीन्य् अपि स्व-विषयेषु वर्तयित्वात्म-ज्ञानं निरुणद्धि। तद् इदम् उच्यते यो बुद्धेः परतस् तु स इति बुद्धेर् अपि यः परः स काम इत्य् अर्थः॥३।४२॥

Link copied

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना

Link copied

जहि शत्रुं महाबाहो कामरूपं दुरासदम्४३

Link copied

एवं बुद्धेर् अपि परं कामं ज्ञान-विरोधिनं वैरिणं बुद्ध्वात्मानं मन आत्मना बुद्ध्या कर्म-योगेऽवस्थाप्यैनं काम-रूपं दुरासदं शत्रुं जहि नाशयेति॥३।४३॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये तृतीयोऽध्यायः॥३॥

Link copied

**

Link copied

English · simplified from Thibaut (1904)

Lecture 3 — The Path of Works (in Sanskrit: Karma-yoga)

The Third Lecture addresses Sri: Arjuna's confusion about the relation of knowledge (jna:na) and action (karma). Sri: Krishna explains that the matter-bound aspirant is not yet competent for pure jna:na-yoga, and that karma-yoga — action offered without attachment and as worship of the Supreme — is both the easier path and, for those of distinction, an imperious duty. The lecture closes with a searching analysis of the real inner enemy: ka:ma, desire, and its seat in the senses, mind, and intellect. Yamunacharya summarises: Unselfish works, to save the worlds, ascribed to the three gunas or to the Sovereign Lord-God — this is the teaching of Lecture Three.

Link copied

Proem — The purpose of the Gi:tha

Ramanuja opens the lecture with a sweeping statement of the Gi:tha's purpose. Its aim is to expound that one-pointed and perfect bhakti — loving devotion — to Parabrahma and Purushottama, the Lord proclaimed in the Vedantas as the goal of the moksha-aspirant. This Lord is without the defiling taints of avidhya: (nescience) and possesses boundless glorious attributes. Bhakthi — the Means leading to Divinity — is variously known as vedana, upa:sana, dhya:na. To achieve bhakti, the realisation of one's own a:thman's nature is a necessary preliminary step.

Link copied

In the great Para-vidhya: (the divine art of reaching the Divine), particularly in the Dahara-vidhya: revealed in the utterances of Prajapati in the Chhandogya Upanishad ("That a:thman, who is devoid of sin..."), a:thman-realisation is the first ancillary to God-realisation. The next four lectures (Third to Sixth) therefore deal with the aspirant pratyag-a:thman's cognition and the means of attaining it.

Link copied

Verses 1–9 (Works are not optional; karma-yoga is the first step)

Verse 3.1–2. Sri: Arjuna asks: "If Thy view is that knowledge is superior to work, why then dost Thou urge me to these terrible deeds? Thou seemest to confuse my understanding with ambiguous speech. Tell me decisively one thing by which I may attain supreme blessedness."

Link copied

The puzzle: if jna:na-yoga requires withdrawal of the senses and mind from their objects, how can the Lord command action — which requires their full engagement?

Link copied

Verse 3.3. The Lord replies: "Two kinds of paths for this world were proclaimed by Me already, O Sinless one — jna:na-yoga for the Sankhyas, karma-yoga for the yogis."

Link copied

Not every soul is born ready for the path of knowledge. One must first perform works without desire for reward, as acts of divine worship. So done, the heart's impurities are extirpated, the senses cease to be turbulent, and one becomes able to enter the path of knowledge. Sa:nkhyas are those whose wisdom concerning the a:thman is already possessed; yogis are those fit to follow karma-yoga.

Link copied

Verse 3.4–5. "None attains the actionless state (naishkarmya) by mere cessation from action; not by renunciation alone does one attain perfection. None can remain even for a moment without acting. By the matter-born gunas, one is forced against his will to work."

Link copied

Action alone, interpreted as worshipping the Supreme Spirit (Paramapurusha), performed with no expectation of reward, brings perfection. Without this, jna:na-fitness is not attainable. No denizen of this world remains even for a moment quiet; the gunassattva, rajas, tamas — compel action.

Link copied

Verse 3.6–7. "He who, inhibiting the functions of the senses, yet in mind broods over sense-objects — he is a pretender. But he who, curbing the senses by the mind, disinterestedly practises karma-yoga with his organs of action, is great."

Link copied

Without purification through karma-yoga, the attempt at jna:na-yoga becomes pretence. The person who tries to meditate while inwardly craving the objects of sense is the hypocrite the verse condemns.

Link copied

Verse 3.8. "Action is inherent (niyatam). Do it. Action is verily superior to non-action. Without action, thou shalt not be able even to sustain bodily existence."

Link copied

Action is inherent because it is a product of a:thman's conjunction with matter; it comes easily and without the risks of the jna:na-path. Even the jna:na-yogi must work to support the body in which the yoga is practised. Hence work is superior.

Link copied

Verse 3.9. "Outside yajna-intended work, the world becomes work-bound. Work, Kaunteya, for that purpose — free from attachment."

Link copied

All labour spent in the service of yajna becomes consecrated — worship done to please Paramapurusha. He then effaces the deeds of the immemorial past that bind the soul, and points out the way to a:thman-cognition.

Link copied

Verses 10–16 (The wheel of sacrifice)

Verse 3.10–11. "In the beginning, Prajapati created beings along with yajnas, saying: 'By this, multiply; let it be the giver of all desires. By yajna serve the devas; let the devas serve you. Mutually reciprocating, you shall attain the highest good.'"

Link copied

Ramanuja notes: Prajapati here is no other than Na:ra:yana, Lord of all. Out of infinite mercy, looking on souls entangled in matter from time immemorial, He projected them into manifestation with the institution of yajna so that they might worship Him thereby and attain moksha. The devas serve the Lord; by worshipping them through yajna, the worshipper attains their favours — food, water, prosperity — and ultimately moksha. The Lord Himself is the soul of all devas; so all worship ultimately reaches Him.

Link copied

Verse 3.12–13. "The devas, propitiated by yajna, will grant you wished-for enjoyments. He is verily a thief who eats without offering to them. The partakers of yajna-consecrated food are delivered from all evils; but those who cook for self-enjoyment — sinners — eat sin."

Link copied

Verse 3.14–16. "From food come all beings; by rain is produced food; yajna causes rain; karma (action) is the result of which yajna is the fruit. Know that action springs from the body (brahma); from akshara (the a:thman) comes the body. Thus is the wheel made to revolve. Whoso here does not follow it lives a life of sin — a reveller in the senses' garden, a vain life, O Partha."

Link copied

Ramanuja carefully interprets brahma here as the body — a compound of matter — and akshara as the individual ji:va:thman who informs the body. Food, body, karma, yajna, rain, food — this is the wheel set in motion by the Supreme Spirit. Whoever does not follow it, whether karma-yogi: or jna:na-yogi:, nourishes himself on unconsecrated food, and his body and mind become inflamed with rajas and tamas, hostile to a:thman-illumination.

Link copied

Verses 17–19 (The liberated exception)

Verse 3.17–19. "But he has nothing to do whose delight is in the a:thman, whose satisfaction is in the a:thman, whose contentment is in the a:thman. For him, neither work nor no-work serves any purpose; he depends on nothing in creation. Therefore, unconcerned, work as if it were a duty. The person so unconcerned reaches the Transcendent."

Link copied

The liberated man (mukta) whose a:thman-cognition is already fait accompli has no need of any means. But for all others, the injunction stands: always work, disinterestedly, as a duty, until a:thman is realised.

Link copied

Verse 3.20. "By action alone did Janaka and others reach supreme perfection."

Link copied

Even the great royal sages (maha:-rishis) who were leaders of the jna:ni:s reached a:thman-realisation by the path of works alone.

Link copied

Verses 21–29 (The example of the wise; authorship of works; the gunas)

Verse 3.21–22. "Whatever the wise man does, others do likewise; whatever law he sets, the world follows." For the man of distinction, karma-yoga becomes an inevitable duty — to show the world the example.

Link copied

Verse 3.23–25. "In all the three worlds, Partha, there is nothing binding for Me to do, nothing unattained or to gain. Yet I am in work. If I did not act, out of indolence even for a moment, all mankind would copy My ways. I would cause disorder (sankara) and work the downfall of all creatures."

Link copied

Ramanuja's meditation here is rich: the Lord — of infallible will, in whose command lies the whole phenomenal cosmos — takes birth as if it were a common event, in the pedigree of Vasudeva, and conducts Himself in all seriousness in the ways and manners adapted to that lineage. If He did not observe the customs of the country or respect the Sastra, the very peoples whose salvation He came to secure would be put out of the way of realising the a:thman. So too Sri: Arjuna, descended of Pandu, brother of Yudhishthira — if he should prematurely retire to jna:na-yoga (for which he is not yet qualified), all the moksha-aspirants would follow him and meet ruin.

Link copied

Verse 3.26. "Let the wise man act like the unwise work-attached, in the interests of the world, encouraging them."

Link copied

The wise one, though himself fit for jna:na-yoga, should take the lead in the karma-path so that those behind him may be inspired to love good works and, eventually, become competent for higher steps.

Link copied

Verse 3.27–29. "All kinds of activities are born of the gunas of matter. The deluded, egoistic (ahanka:ra) one thinks, 'I am the doer.' But the truth-knower (tattva-vit) of gunas and their work — knowing that gunas rest in gunas — gives up attachment. Deluded by the gunas, men find employment in the workings of the gunas. The all-informed wise man shall not disturb the ill-informed ignorant."

Link copied

The fundamental distinction: the deluded mistakes the doings of the body and gunas for a:thman's own. The truth-knower sees in all manifestation of gunas the gunas themselves working. Yet the wise man, knowing the ignorant cannot yet tread jna:na-yoga, does not confuse them by preaching other methods; he himself stays in karma-yoga as beneficent example.

Link copied

Verses 30–35 (Surrender of all works to the Lord)

Verse 3.30. "With mind a:thman-absorbed, rest all works in Me. Rid of desire and 'my-ness,' and of mental fever, fight."

Link copied

Ramanuja makes this the climactic verse of the lecture. The a:thman is the body of the Supreme, deriving all its impulses from Him. Srutis declare it: "Penetrating the interior, the Ruler of all creatures, the All-Soul" (Taittiriya Aranyaka); "He who dwells in the a:thman, interior to the a:thman, to whom the a:thman is body, who rules in the interior of the a:thman — He is thy Indwelling Governor, and Immortality" (Brihadaranyaka V.7). Gi:tha itself: "In the heart of all, I am enthroned; from Me are memory and reason" (XV.15); "I:svara, Arjuna, dwells in the heart-region of all creatures, whirling them by His ma:ya: as if mounted on a machine" (XVIII.61).

Link copied

Therefore: "My soul is the Supreme Spirit; He is the Author. The Lord of all causes acts to be done by me, who am His body and His instrument. I can entertain no notion of 'my-ness' or ownership of acts." Thus the mental fever — the trouble of wondering how one will escape from the enormous mass of past sins — is cured. Work becomes worship of the Supreme, and He delivers from bondage.

Link copied

Verse 3.31. "Whoso men will follow this eternal behest of Mine, filled with faith or at least void of ill-will, shall be released from all deeds."

Link copied

Three classes are released: those who actually put the doctrine into practice; those who believe though unable to practise; and those who, though not earnest, do not blaspheme. Even the negative attitude of absence of ill-will is enough, says Ramanuja, to gradually lead to actual practice and then moksha.

Link copied

Verse 3.32. "But those who blaspheme and carry not out this My edict — know them to be blind to all knowledge; bereft of understanding, they are lost."

Link copied

Verses 33–43 (The inner enemy: ka:ma)

Verse 3.33–35. "Even the jna:ni: follows the bent of his nature; all creatures follow nature; what can restriction avail? Loves and hates are rooted in the objects of every sense. None shall get under their power; they are verily his enemies. Though wanting in merit, one's own dharma is better than another's well performed. In one's own dharma, death is noble; another's is fraught with danger."

Link copied

Sri: Arjuna asks: "What is it that prompts a man to wallow in sin, as if forced against his will?"

Link copied

Verse 3.37. The Lord answers: "Ka:ma it is, krodha it is, begotten of rajo-guna. This foe here, know, is all-consuming, all-polluting."

Link copied

Ka:ma — desire, appetite, longing for sense-objects — is sharpened by past habits and the rise and fall of the gunas. When hampered in its course, it turns into wrath (krodha), hurled against whoever blocks gratification.

Link copied

Verse 3.38–39. "Like fire enveloped by smoke, the mirror by stain, the embryo by the amnion, so is this world wrapped in desire. The understanding of even the wise, Kaunteya, is enwrapped by this eternal foe in the guise of lust — insatiable (dushpu:ra) and inexhaustible (anala) as fire."

Link copied

Verse 3.40–42. "The senses, manas, and buddhi are its seats. By beclouding the understanding, it bewitches the embodied soul. By first constraining the senses, therefore, Bharatarshabha, vanquish this sinner, the destroyer of jna:na and vijna:na. The senses are said to be superior to the body; manas to the senses; buddhi to manas; but that (sa = ka:ma) is even more powerful than buddhi."

Link copied

Ramanuja distinguishes here: jna:na is knowledge relating to a:thman-nature; vijna:na is the deeper, discriminative knowledge of the same. Ka:ma destroys both. The inner enemy is more subtle than the senses, more subtle than manas, more subtle even than buddhi — it is the deeply rooted craving in the heart that asserts mastery even when all other instruments are quiet. Ramanuja notes pointedly that here the pronoun sa refers to ka:ma — not, as some commentators read, to a:thman or Brahman.

Link copied

Verse 3.43. "O strong-armed one, thus knowing that which surpasses buddhi, steadying manas with thy buddhi, destroy the irrepressible lust-shaped foe."

Link copied

Summary

The Third Lecture establishes that karma-yoga — action offered to the Lord without attachment to fruit — is the necessary path for the matter-bound aspirant, and remains preferable even for the jna:na-qualified, both because it is easier and safer, and because those of distinction must show the way. The lecture identifies ka:ma as the root enemy and points toward its conquest by firm will and by turning the mind to the Lord as the Holy Subject for contemplation.

Link copied

Thus closes Lecture Three, Karma-yoga, or the Path of Works, with the commentary of Bhagavad Ramanuja, in the colloquy between Sri: Krishna and Sri: Arjuna, in the Science of Yo:ga, in the Divine Knowledge of the Upanishads — the Bhagavad Gi:tha.

Link copied
Join our community