Bhagavad Gita Bhashya · Section 9 of 19
atha:shtamo:'dhya:yah
Original Sanskrit · click to toggle
सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वं, निखिल-चेतनाचेतन-वस्तु-शेषित्वं, कारणत्वं, आधारत्वं, सर्व-शरीरतया सर्व-प्रकारत्वेन सर्व-शब्द-वाच्यत्वं, सर्व-नियन्तृत्वं, सर्वैश् च कल्याण-गुण-गणैर् एकाश्रयत्वं तस्यैव परतरत्वं च, सत्त्व-रजस्-तमो-मयैर् देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर् भावैर् अनादि-काल-प्रवृत्त-दुष्कृत-प्रवाह-हेतुकैस् तस्य तिरोधानम्। अत्युत्कृष्ट-सुकृत-हेतुक-भगवत्-प्रपत्त्या च तन्-निवर्तनं, सुकृत-तारतम्येन च प्रतिपत्ति-वैषेष्याद् ऐश्वर्याक्षर-याथात्म्य-भगवत्-प्राप्त्य्-अपेक्षयोपासक-भेदं, भगवन्तं प्रेप्सोर् नित्य-युक्ततयिक-भक्तितया चात्यर्थ-परम-पुरुष-प्रियत्वेन श्रैष्ठ्यं, दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेय-भेदांश् च प्रास्तौषीत्। इदानीम् अष्टमे प्रस्तुतान् ज्ञातव्योपादेय-भेदान् विविनक्ति---
Link copiedकिं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम।
Link copiedअधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते॥१॥
Link copiedअधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन।
Link copiedप्रयाण-काले च कथं ज्ञेयोऽसि नियतात्मभिः॥२॥
Link copiedजरा-मरण-मोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतयोक्तं तद् ब्रह्माध्यात्मं च कर्म च किम् इति वक्तव्यम्। ऐश्वर्यार्थिनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किं। त्रयाणां ज्ञातव्योऽधियज्ञ-शब्द-निर्दिष्टश् च कः। तस्य चाधियज्ञ-भावः कथं। प्रयाण-काले चैभिस् त्रिभिः नियतात्मभिः कथं ज्ञेयोऽसि॥।८।१--- ८।२॥
Link copiedश्री-भगवान् उवाच
Link copiedअक्षरं ब्रह्म परमं स्वभावोऽध्यात्मम् उच्यते।
Link copiedभूतभावोद्भव-करो विसर्गः कर्म-संज्ञितः॥३॥
Link copiedतद् ब्रह्म इति निर्दिष्टं परमम् अक्षरं न क्षरतीत्य् अक्षरं क्षेत्रज्ञं समष्टि-रूपम्। तथा च श्रुतिर् अव्यक्तम् अक्षरे लीयतेऽक्षरं तमसि लीयते [सु।उ। २] इत्य् आदिका। परमम् अक्षरं प्रकृति-विनिर्मुक्तात्म-स्वरूपम्। स्वभावोऽध्यात्मम् उच्यते स्वभावः प्रकृतिर् अनात्म-भूतम् आत्मनि सम्बद्ध्यमानं भूत-सूक्ष्म-तद्-वासनादिकं पञ्चाग्नि-विद्यायां ज्ञातव्यतया उदितम्। तद्-उभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर् ज्ञातव्यम्।
Link copiedभूत-भावो मनुष्यादि-भावः, तद्-उद्भव-करो यो विसर्गः पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति [छा।उ। ५।३।३] इति श्रुति-सिद्धो योषित्-सम्बन्ध-जः, स कर्म-संज्ञितः। तच् चाखिलं सानुबन्धम् उद्वेजनीयतया परिहरणीयतया च मुमुक्षुभिर् ज्ञातव्यम्। परिहरणीयता चानन्तरम् एव वक्ष्यते--- यद् इच्छन्तो ब्रह्मचर्यं चरन्ति [८।११] इति॥८।३॥
Link copiedअधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम्।
Link copiedअधियज्ञोऽहम् एवात्र देहे देह-भृतां वर॥४॥
Link copiedऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टम् अधिभूतं क्षरो भावो वियद्-आदि-भूतेषु वर्तमानस् तत्-परिणाम-विशेषः क्षरण-स्वभावो विलक्षणः शब्द-स्पर्शादिः साश्रयः, विलक्षणाः साश्रयाः शब्द-स्पर्श-रूप-रस-गन्धा ऐश्वर्यार्थिभिः प्राप्याः। तैर् अनुसन्धेयाः।
Link copiedपुरुषश् चाधिदैवतम् अधिदैवत-शब्द-निर्दिष्टः पुरुषः। अधिदैवतं दैवतोपरि वर्तमानम् इन्द्र-प्रजापति-प्रभृति-कृत्स्न-दैवतोपरि वर्तमानः। इन्द्र-प्रजापति-प्रभृतीनां भोग्य-जाताद् विलक्षण-शब्दादेर् भोक्ता पुरुषः। सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतया अनुसन्धेया।
Link copiedअधियज्ञोऽहम् एवाधियज्ञ-शब्द-निर्दिष्टोऽहम् एव। अधियज्ञो यज्ञैर् आराध्यतया वर्तमानः। अत्रेन्द्रादौ मम देह-भूते आत्मतयावस्थितोऽहम् एव यज्ञैर् आराध्य इति महा-यज्ञादि-नित्य-नैमित्तकानुष्ठान-वेलायां त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत्॥८।४॥
Link copiedइदम् अपि त्रयाणां साधारणम्---
Link copiedअन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम्।
Link copiedयः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः॥५॥
Link copiedअन्त-काले च माम् एव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति, स मद्-भावं याति। मम यो भावः स्वभावस् तं याति। तदानीं यथा माम् अनुसन्धत्ते तथा-विधाकारो भवतीत्य् अर्थः। यथा आदि-भरतादयस् तदानीं स्मर्यमाण-मृग-सजातीयाकाराः सम्भूताः॥८।५॥
Link copiedस्मर्तुः स्व-विषय-सजातीय-कारतापादनम् अन्त्य-प्रत्ययस्य स्वभाव इति सुस्पष्टम् आह---
Link copiedयं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम्।
Link copiedतं तम् एवैति कौन्तेय सदा तद्-भाव-भावितः॥६॥
Link copiedअन्तेऽन्त-काले यं यं वापि भावं स्मरन् कलेवरं त्यजति तं तं भावम् एव मरणान्तरम् एति। अन्त्य-प्रत्ययश् च पूर्व-भावित-विषय एव जायते॥८।६॥
Link copiedयस्मात् पूर्व-कालाभ्यस्त-विषये एवान्त्य-प्रत्ययो जायते---
Link copiedतस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च।
Link copiedमय्य् अर्पित-मनो-बुद्धिर् माम् एवैष्यस्य् असंशयः॥७॥
Link copiedतस्मात् सर्वेषु कालेष्व् आप्रयाणाद् अहर्-अहः माम् अनुस्मराहर्-अहर् अनुस्मृति-करं युद्धादिकं वर्णाश्रमानुबन्धि-श्रुति-स्मृति-चोदित-नित्य-नैमित्तिकं च कर्म कुरु। एतद्-उपायेन मय्य् अर्पित-मनो-बुद्धिर् अन्त-काले च माम् एव स्मरन् यथाभिलषित-प्रकारं मां प्राप्स्यसि नात्र संशयः॥८।७॥
Link copiedएवं सामान्येन सर्वत्र स्व-प्राप्यावाप्तिर् अन्त्य-प्रत्ययाधीना इत्य् उक्त्वा तद्-अर्थं त्रयाणाम् उपासन-प्रकार-भेदं वक्तुम् उपक्रमते। तत्रैश्वर्यार्थिनाम् उपासन-प्रकारं यथोपासनम् अन्त्य-प्रत्यय-प्रकारं चाह---
Link copiedअभ्यास-योग-युक्तेन चेतसा नान्य-गामिना।
Link copiedपरमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥८॥
Link copiedअहरहर् अभ्यास-योगाभ्यां युक्ततया नान्य-गामिना चेतसा अन्त-काले परमं पुरुषं दिव्यं मां वक्ष्यमाण-प्रकारं चिन्तयन् माम् एव यात्य् आदि-भरत-मृगत्व-प्राप्तिवद् ऐश्वर्य-विशिष्टतया मत्-समानाकारो भवति। अभ्यासो नित्य-नैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसा उपास्य-संशीलनम्, योगस् त्व् अहरहर् योग-कालेऽनुष्ठीयमानं यथोक्त-लक्षणम् उपासनम्॥८।८॥
Link copiedकविं पुराणम् अनुशासितारम्
Link copiedअणोर् अणीयांसम् अनुस्मरेद् यः।
Link copiedसर्वस्य धातारम् अचिन्त्य-रूपम्
Link copiedआदित्य-वर्णं तमसः परस्तात्॥९॥
Link copiedप्रयाण-काले मनसाचलेन
Link copiedभक्त्या युक्तो योग-बलेन चैव।
Link copiedभ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक्
Link copiedस तं परं पुरुषम् उपैति दिव्यम्॥१०॥
Link copiedकविं सर्वज्ञं पुराणं पुरातनम् अनुशासितारं विश्वस्य प्रशासितारम् अणोर् अणीयांसं जीवाद् अपि सूक्ष्मतरं सर्वस्य धातारं सर्वस्य स्रष्टरम् अचिन्त्य-रूपं सकलेतर-विसजातीय-स्वरूपम् आदित्य-वर्णं तमसः परस्तात् अप्राकृत-स्वासाधारण-दिव्य-रूपम्। तम् एवं-भूतम् अहरहर् अभ्यस्यमान-भक्ति-युक्त-योग-बलेन आरूढ-संस्कारतया अचलेन मनसा प्रयाण-काले भ्रुवोर् मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भ्रुवोर् मध्ये दिव्यं पुरुषं योऽनुस्मरेत् स तम् एव उपैति तद्-भावं याति, तत्-समानैश्वर्यो भवतीत्य् अर्थः॥८।९-१०॥
Link copiedअथ कैवल्यार्थिनां स्मरण-प्रकारम् आह---
Link copiedयद् अक्षरं वेद-विदो वदन्ति
Link copiedविशन्ति यद् यतयो वीत-रागाः।
Link copiedयद् इच्छन्तो ब्रह्मचर्यं चरन्ति
Link copiedतत् ते पदं सङ्ग्रहेण प्रवक्ष्ये॥११॥
Link copiedयद् अक्षरम् अस्थूलत्वादि-गुणकं वेद-विदो वदन्ति वीत-रागाश् च यतयो यद् अक्षरं विशन्ति यद् अक्षरं प्राप्तुम् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये। पद्यते गम्यतेऽनेन इति पदं तन् निखिल-वेदान्त-वेद्यं मत्-स्वरूपम् अक्षरं यथा उपास्यं तथा सङ्क्षेपेण प्रवक्ष्यामीत्य् अर्थः॥८।११॥
Link copiedसर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च।
Link copiedमूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग-धारणाम्॥१२॥
Link copiedसर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञान-द्वार-भूतानि संयम्य स्व-व्यापारेभ्यो विनिवर्त्य हृदय-कमल-निविष्टे मय्य् अक्षरे मनो निरुध्य योगाख्यां धारणां आस्थितो मय्य् एव निश्चलां स्थितिम् आस्थितः॥८।१२॥
Link copiedओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन्।
Link copiedयः प्रयाति त्यजन् देहं स याति परमां गतिम्॥१३॥
Link copiedओम् इत्य् एकाक्षरं ब्रह्म मद्-वाचकं व्याहरन् वाच्यं माम् अनुस्मरन् आत्मनः प्राणं मूर्ध्न्य् आधाय देहं त्यजन् यः प्रयाति स याति परमां गतिं प्रकृति-वियुक्तं मत्-समानाकारम् अपुनर्-आवृत्तिम् आत्मानं प्राप्नोतीत्य् अर्थः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥ अव्यक्तोऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम्। [८।२०,२१] इत्य् अनन्तरम् एव वक्ष्यते॥८।१२-१३॥
Link copiedएवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश् च स्व-प्राप्यानुगुणो भगवद्-उपासन-प्रकार उक्तः। अथ ज्ञानिनो भगवद्-उपासन-प्रकारं प्राप्ति-कारं चाह---
Link copiedअनन्य-चेताः सततं यो मां स्मरति नित्यशः।
Link copiedतस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः॥१४॥
Link copiedनित्यशो माम् उद्योग-प्रभृति सततं सर्व-कालम् अनन्य-चेता यः स्मरत्य् अत्यर्थं मत्-प्रियत्वेन मत्-स्मृत्या विना आत्म-धारणम् अलभमानो निरतिशय-प्रियं मां यः स्मरति तस्य नित्य-युक्तस्य नित्य-योगं काङ्क्षमाणस्य योगिनोऽहं सुलभोऽहम् एव प्राप्यः। न मद्-भाव ऐश्वर्यादिकः सुप्रापश् च। तद्-वियोगम् असहमानोऽहम् एव तं वृणे। मत्-प्राप्त्य्-अनुगुणोपासन-विपाकं तद्-विरोधि-निरसनम् अत्यर्थं मत्-प्रियत्वादिकं चाहम् एव ददामीत्य् अर्थः। यम् एवैष वृणुते तेन लभ्यः [मु।उ। ३।२।३] इति हि श्रूयते। वक्ष्यते च---
Link copiedतेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम्।
Link copiedददामि बुद्धि-योगं तं येन माम् उपयान्ति ते॥
Link copiedतेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः।
Link copied
नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता॥ [१०।१०-११] इति॥८।१४॥
Link copiedअतः परम् अध्याय-शेषेण ज्ञानिनः कैवल्यार्थिनश् चापुनर्-आवृत्तिम् ऐश्वर्यार्थिनः पुनर्-आवृत्तिं चाह---
Link copiedमाम् उपेत्य पुनर्-जन्म दुःखालयम् अशाश्वतम्।
Link copiedनाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥१५॥
Link copiedमां प्राप्य पुनर् निखिल-दुःखालयम् अस्थिरं जन्म न प्राप्नुवन्ति यत एते महात्मानो महा-मनसो यथावस्थित-मत्-स्वरूप-ज्ञाना अत्यर्थ-मत्-प्रियत्वेन मया विना आत्म-धारणम् अलभमाना मय्य् आसक्त-मनसो मद्-आश्रया माम् उपास्य परम-संसिद्धि-रूपं मां प्राप्ताः॥८।१५॥
Link copiedऐश्वर्य-गतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनर्-आवृत्तव् अपुनर्-आवृत्तौ च हेतुम् अनन्तरम् आह---
Link copiedआ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनोऽर्जुन।
Link copiedमाम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते॥१६॥
Link copiedब्रह्म-लोक-पर्यन्ता ब्रह्माण्डोदर-वर्तिनः सर्वे लोका भोगैश्वर्यालयाः पुनर्-आवर्तिनो विनाशिनः। अत ऐश्वर्य-गतिं प्राप्तानां प्राप्य-स्थान-विनाशाद् विनाशित्वम् अवर्जनीयम्। मां सर्व-ज्ञं सत्य-सङ्कल्पं निखिल-जगद्-उत्पत्ति-स्थिति-लय-लीलं परम-कारुणिकं सदैक-रूपं प्राप्तानां विनाश-प्रसङ्गाभावात् तेषां पुनर्-जन्म न विद्यते॥८।१६॥
Link copiedब्रह्म-लोक-पर्यन्तानां लोकानां तद्-अन्तर्-वर्तिनां च परम-पुरुष-सङ्कल्प-कृताम् उत्पत्ति-विनाश-काल-व्यवस्थाम् आह---
Link copiedसहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः।
Link copiedरात्रिं युग-सहस्रान्तां तेऽहो-रात्र-विदो जनाः॥१७॥
Link copiedये मनुष्यादि-चतुर्-मखान्तानां मत्-सङ्कल्प-कृताहो-रात्र-व्यवस्था-विदो जनाः, ते ब्रह्मणश् चतुर्-मुखस्य यद् अहश् चतुर्-युग-सहस्रावसानं विदुः, रात्रिं च तथा-रूपाम्॥८।१७॥
Link copiedअव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे।
Link copiedरात्र्य्-आगमे प्रलीयन्ते तत्रैवाव्यक्त-संज्ञके॥१८॥
Link copiedतत्र ब्रह्मणः, अहर्-आगम-समये त्रैलोक्यान्तर्-वर्तिन्यो देहेन्द्रिय-भोग्य-भोग-स्थान-रूपा व्यक्तश् चतुर्-मुख-देहावस्थाद् अव्यक्तात् प्रभवन्ति। तत्रैवाव्यक्तावस्था-विशेषे चतुर्-मुख-देहे रात्र्य्-आगम-समये प्रलीयन्ते॥८।१८॥
Link copiedभूत-ग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।
Link copiedरात्र्य्-आगमेऽवशः पार्थ प्रभवत्य् अहर्-आगमे॥१९॥
Link copiedस एवायं कर्म-वश्यो भूत-ग्रामोऽहर्-आगमे भूत्वा भूत्वा रात्र्य्-आगमे प्रलीयते पुनर् अप्य् अहर्-आगमे प्रभवति। तथा वर्षा-शतावसान-रूप-युग-सहस्रान्ते ब्रह्म-लोक-पर्यन्ता लोका ब्रह्मा च, पृथिवी अप्सु प्रलीयते आपस् तेजसि लीयन्ते इत्य्-आदि-क्रमेणाव्यक्ताक्षर-तमः-पर्यन्तं मय्य् एव प्रलीयन्ते।
Link copiedएवं मद्-व्यतिरिक्तस्य कृत्स्नस्य काल-व्यवस्थया मत्त उत्पत्तेर् मयि प्रलयाच् च उत्पत्ति-विनाश-योगित्वम् अवर्जनीयम् इत्य् ऐश्वर्य-गतिं प्राप्तानां पुनर्-आवृत्तिर् अपरिहार्या। माम् उपेतानां तु न पुनर्-आवृत्ति-प्रसङ्गः॥८।१९॥
Link copiedअथ कैवल्य-प्राप्तानाम् अपि पुनर्-आवृत्तिर् न विद्यत इत्य् आह---
Link copiedपरस् तस्मात् तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः।
Link copiedयः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥२०॥
Link copiedअव्यक्तोऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम्।
Link copiedयं प्राप्य न निवर्तन्ते तद् धाम परमं मम॥२१॥
Link copiedतस्माद् अव्यक्ताद् अचेतन-प्रकृति-रूपात् पुरुषार्थतया पर उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद् विसजातीयोऽव्यक्तः केनचित् प्रमाणेन न व्यज्यत इत्य् अव्यक्तः स्व-संवेद्य-साधारणाकार इत्य् अर्थः। सनातन उत्पत्ति-विनाशानर्हतया नित्यः। यः सर्वेषु वियद्-आदिषु भूतेषु स-कारणेषु स-कार्येषु विनश्यत्सु तत्र तत्र स्थितोऽपि न विनश्यति सोऽव्यक्तोऽक्षर इत्य् उक्तः। ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते [गीता १२।३], कूटस्थोऽक्षर उच्यते [गीता १५।१६] इत्य्-आदिषु तं वेद-विदः परमां गतिम् आहुः। अयम् एव यः प्रयाति त्यजन् देहं स याति परमां गतिम् [गीता ८।५] इत्य् अत्र परम-गति-शब्द-निर्दिष्टोऽक्षरः प्रकृति-संसर्ग-वियुक्त-स्वरूपेणावस्थित आत्मा इत्य् अर्थः।
Link copied[यम् एवं-भूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते तन् मम परमं धाम परमं नियमन-स्थानम्। अचेतन-प्रकृतिर् एकं नियमन-स्थानम्, तत्-संसृष्ट-रूपा जीव-प्रकृतिर् द्वितीयं नियमन-स्थानम् अचित्-संसर्ग-वियुक्तं स्वरूपेणावस्थितं मुक्त-स्वरूपं परमं नियमन-स्थानम् इत्य् अर्थः।]
Link copiedतच् चापुनर्-आवृत्ति-रूपम्। अथवा प्रकाश-वाची धाम-शब्दः, प्रकाशश् चेह ज्ञानम् अभिप्रेतं प्रकृति-संसृष्टत् परिच्छिन्न-ज्ञान-रूपाद् आत्मनोऽपरिच्छिन्न-ज्ञान-रूपतया मुक्त-स्वरूपं परं धाम॥८।२०-२१]
Link copiedज्ञानिनः प्राप्यं तु तस्माद् अत्यन्त-विभक्तम् इत्य् आह---
Link copiedपुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया।
Link copiedयस्यान्तः-स्थानि भूतानि येन सर्वम् इदं ततम्॥२२॥
Link copiedमत्तः परतरं नान्यत् किञ्चिदस्ति धनजय।
Link copiedमयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव॥ [७।७]
Link copied
माम् एभ्यः परम् अव्ययम् [७।१३] इत्य् आदिना निर्दिष्टस्य यस्यान्तः-स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वम् इदं ततं स पर-पुरुषो अनन्य-चेताः सततम् [८।१४] इत्य् अनन्यया भक्त्या लभ्यः।
Link copiedयत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः।
Link copiedप्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥२३॥
Link copiedअग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम्।
Link copiedतत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः॥२४॥
Link copiedअथात्म-याथात्म्य-विदः परम-पुरुष-निष्ठस्य च साधारणीम् अर्चिर्-आदिकां गतिम् आह द्वयोर् अप्य् अर्चिर्-आदिका गतिः श्रुतौ श्रुता, सा चापुनर्-आवृत्ति-लक्षणा। तथा पञ्चाग्नि-विद्यायां तद् य इत्थं विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहः [छा।उ। ५।१०।१] इत्य् आदव् अर्चिर्-आदिकया गत्य्-आगतस्य पर-ब्रह्म-प्राप्तिर् अपुनर्-आवृत्तिश् चोक्ता स एनान् ब्रह्म गमयति \॥। एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते [छा।उ। ४।१५।५] इति।
Link copiedन च प्रजापति-वाक्यादौ श्रुति-पर-विद्याङ्ग-भूतात्म-प्राप्ति-विषयेयम्--- तद् य इत्थं विदुः इति गति-श्रुतिर्, ये चेमेऽरण्ये श्रद्धां तप इत्युपासते [छा।उ। ५।१०।१] इति पर-विद्यायाः पृथक्-श्रुति-वैयर्थ्यात्।
Link copiedपञ्चाग्नि-विद्यायां च इति तु पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति [छा।उ। ५।९।१] इति रमणीय-चरणाः कपूय-चरणाः [छा।उ। ५।१०।७] इति पुण्य-पाप-हेतुको मनुष्यादि-भावो अपाम् एव भूतान्तर-संसृष्टनाम् आत्मनस् तु यत्-परिष्वङ्ग-मात्रम् इति चिद्-अचितोर् विवेकम् अभिधाय तद् य इत्थं विदुः \॥। तेऽर्चिषम् अभिसम्भवन्ति [छा।उ। ५।१०।१], इमं मानवम् आवर्तं नावर्तन्ते [छा।उ। ४।१५।५] इति विविक्ते चिद्-अचिद्-वस्तुनि त्याज्यतया प्राप्यतया च तद् य इत्थं विदुस् तेऽर्चिरादिना गच्छन्ति न च पुनर् आवर्तन्ते इत्य् उक्तम् इति गम्यते।
Link copiedआत्म-याथात्म्य-विदः परम-पुरुष-निष्ठस्य च स एनान् ब्रह्म गमयति [छा।उ। ४।१५।५] इति ब्रह्म-प्राप्ति-वचनाद् अचिद्-वियुक्तम् आत्म-वस्तु ब्रह्मात्मकतया ब्रह्म-शेषतैक-रसम् इत्य् अनुसन्धेयम्। तत्-क्रतु-न्यायाच् च पर-शेषतैक-रसत्वं च य आत्मनि तिष्ठन् यस्यात्मा शरीरम् [शब्रा १४।६।५।५।३०] इत्य्-आदि-श्रुति-सिद्धम्।
Link copiedअत्र काल-शब्दो मार्गस्याहः-प्रभृति-संवत्सरान्त-कालाभिमानि-देवता-भूयस्तया मार्गोपलक्षणार्थः। यस्मिन् मार्गे प्रयाता योगिनोऽनावृत्तिम्। पुण्य-कर्माणश् चावृत्तिं यान्ति, तं मार्गं वक्ष्यामीत्य् अर्थः। अग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम्, इति संवत्सरादीनां प्रदर्शनम्॥८।२३-२४॥
Link copiedधूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम्।
Link copiedतत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते॥२५॥
Link copiedएतच् च धूमादि-मार्ग-स्थ-पितृ-लोकादेः प्रदर्शनम्। अत्र योगि-शब्द पुण्य-कर्म-सम्बन्धि-विषयः॥८।२५॥
Link copiedशुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते।
Link copiedएकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः॥२६॥
Link copiedशुक्ला गतिर् अर्चिर्-आदिका। कृष्णा च धूमादिका। शुक्लयानावृत्तिं यान्ति, कृष्णया तु पुनर् आवर्तन्ते। एते शुक्ल-कृष्णे गती ज्ञानिनां विविधानां पुण्य-कर्मणां च श्रुतौ शाश्वते मते। तद् य इत्थं विदुर् ये चेमेऽरण्ये श्रद्धां तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्ति [छा।उ। ५।१०।१], अथ य इमे ग्रामे इष्ट-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति [छा।उ। ५।१०।३] इति॥८।२६॥
Link copiedनैते सृती पार्थ जानन् योगी मुह्यति कश्चन।
Link copiedतस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन॥२७॥
Link copiedएतौ मार्गौ जानन् योगी प्रयाण-काले कश्चन न मुह्यति। अपि तु स्वेनैव देव-यानेन पथा याति। तस्माद् अहरहर् अर्चिर्-आदि-गति-चिन्तनाख्य-योग-युक्तो भव॥८।२७॥
Link copiedअथाध्याय-द्वयोदित-शास्त्रार्थ-वेदन-फलम् आह---
Link copiedवेदेषु यज्ञेषु तपःसु चैव
Link copiedदानेषु यत् पुण्य-फलं प्रदिष्टम्।
Link copiedअत्येति तत् सर्वम् इदं विदित्वा
Link copiedयोगी परं स्थानम् उपैति चाद्यम्॥२८॥
Link copiedऋग्-यजुः-सामाथर्व-रूप-वेदाभ्यास-यज्ञ-तपो-दान-प्रभृतिषु सर्वेषु पुण्येषु यत् फलं निर्दिष्टम् इदम् अध्याय-द्वयोदितं भगवन्-माहात्म्यं विदित्वा तत् सर्वम् अत्येति एतद्-वेदन-सुखातिरेकेण तत् सर्वं तृणवत् मन्यते। योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परम् आद्यं स्थानम् उपैति॥८।२८॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्येऽष्टमोऽध्यायः ॥८॥
Link copied**
Link copiedసప్తమే పరస్య బ్రహ్మణో వాసుదేవస్యోపాస్యత్వం, నిఖిల-చేతనాచేతన-వస్తు-శేషిత్వం, కారణత్వం, ఆధారత్వం, సర్వ-శరీరతయా సర్వ-ప్రకారత్వేన సర్వ-శబ్ద-వాచ్యత్వం, సర్వ-నియన్తృత్వం, సర్వైశ్ చ కల్యాణ-గుణ-గణైర్ ఏకాశ్రయత్వం తస్యైవ పరతరత్వం చ, సత్త్వ-రజస్-తమో-మయైర్ దేహేన్ద్రియత్వేన భోగ్యత్వేన చావస్థితైర్ భావైర్ అనాది-కాల-ప్రవృత్త-దుష్కృత-ప్రవాహ-హేతుకైస్ తస్య తిరోధానమ్। అత్యుత్కృష్ట-సుకృత-హేతుక-భగవత్-ప్రపత్త్యా చ తన్-నివర్తనం, సుకృత-తారతమ్యేన చ ప్రతిపత్తి-వైషేష్యాద్ ఐశ్వర్యాక్షర-యాథాత్మ్య-భగవత్-ప్రాప్త్య్-అపేక్షయోపాసక-భేదం, భగవన్తం ప్రేప్సోర్ నిత్య-యుక్తతయిక-భక్తితయా చాత్యర్థ-పరమ-పురుష-ప్రియత్వేన శ్రైష్ఠ్యం, దుర్లభత్వం చ ప్రతిపాద్య ఏషాం త్రయాణాం జ్ఞాతవ్యోపాదేయ-భేదాంశ్ చ ప్రాస్తౌషీత్। ఇదానీమ్ అష్టమే ప్రస్తుతాన్ జ్ఞాతవ్యోపాదేయ-భేదాన్ వివినక్తి---
Link copiedకిం తద్ బ్రహ్మ కిమ్ అధ్యాత్మం కిం కర్మ పురుషోత్తమ।
Link copiedఅధిభూతం చ కిం ప్రోక్తమ్ అధిదైవం కిమ్ ఉచ్యతే॥౧॥
Link copiedఅధియజ్ఞః కథం కోఽత్ర దేహేఽస్మిన్ మధుసూదన।
Link copiedప్రయాణ-కాలే చ కథం జ్ఞేయోఽసి నియతాత్మభిః॥౨॥
Link copiedజరా-మరణ-మోక్షాయ భగవన్తమ్ ఆశ్రిత్య యతమానానాం జ్ఞాతవ్యతయోక్తం తద్ బ్రహ్మాధ్యాత్మం చ కర్మ చ కిమ్ ఇతి వక్తవ్యమ్। ఐశ్వర్యార్థినాం జ్ఞాతవ్యమ్ అధిభూతమ్ అధిదైవం చ కిం। త్రయాణాం జ్ఞాతవ్యోఽధియజ్ఞ-శబ్ద-నిర్దిష్టశ్ చ కః। తస్య చాధియజ్ఞ-భావః కథం। ప్రయాణ-కాలే చైభిస్ త్రిభిః నియతాత్మభిః కథం జ్ఞేయోఽసి॥।౮।౧--- ౮।౨॥
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedఅక్షరం బ్రహ్మ పరమం స్వభావోఽధ్యాత్మమ్ ఉచ్యతే।
Link copiedభూతభావోద్భవ-కరో విసర్గః కర్మ-సంజ్ఞితః॥౩॥
Link copiedతద్ బ్రహ్మ ఇతి నిర్దిష్టం పరమమ్ అక్షరం న క్షరతీత్య్ అక్షరం క్షేత్రజ్ఞం సమష్టి-రూపమ్। తథా చ శ్రుతిర్ అవ్యక్తమ్ అక్షరే లీయతేఽక్షరం తమసి లీయతే [సు।ఉ। ౨] ఇత్య్ ఆదికా। పరమమ్ అక్షరం ప్రకృతి-వినిర్ముక్తాత్మ-స్వరూపమ్। స్వభావోఽధ్యాత్మమ్ ఉచ్యతే స్వభావః ప్రకృతిర్ అనాత్మ-భూతమ్ ఆత్మని సమ్బద్ధ్యమానం భూత-సూక్ష్మ-తద్-వాసనాదికం పఞ్చాగ్ని-విద్యాయాం జ్ఞాతవ్యతయా ఉదితమ్। తద్-ఉభయం ప్రాప్యతయా త్యాజ్యతయా చ ముముక్షుభిర్ జ్ఞాతవ్యమ్।
Link copiedభూత-భావో మనుష్యాది-భావః, తద్-ఉద్భవ-కరో యో విసర్గః పఞ్చమ్యామ్ ఆహుతావ్ ఆపః పురుష-వచసో భవన్తి [ఛా।ఉ। ౫।౩।౩] ఇతి శ్రుతి-సిద్ధో యోషిత్-సమ్బన్ధ-జః, స కర్మ-సంజ్ఞితః। తచ్ చాఖిలం సానుబన్ధమ్ ఉద్వేజనీయతయా పరిహరణీయతయా చ ముముక్షుభిర్ జ్ఞాతవ్యమ్। పరిహరణీయతా చానన్తరమ్ ఏవ వక్ష్యతే--- యద్ ఇచ్ఛన్తో బ్రహ్మచర్యం చరన్తి [౮।౧౧] ఇతి॥౮।౩॥
Link copiedఅధిభూతం క్షరో భావః పురుషశ్ చాధిదైవతమ్।
Link copiedఅధియజ్ఞోఽహమ్ ఏవాత్ర దేహే దేహ-భృతాం వర॥౪॥
Link copiedఐశ్వర్యార్థినాం జ్ఞాతవ్యతయా నిర్దిష్టమ్ అధిభూతం క్షరో భావో వియద్-ఆది-భూతేషు వర్తమానస్ తత్-పరిణామ-విశేషః క్షరణ-స్వభావో విలక్షణః శబ్ద-స్పర్శాదిః సాశ్రయః, విలక్షణాః సాశ్రయాః శబ్ద-స్పర్శ-రూప-రస-గన్ధా ఐశ్వర్యార్థిభిః ప్రాప్యాః। తైర్ అనుసన్ధేయాః।
Link copiedపురుషశ్ చాధిదైవతమ్ అధిదైవత-శబ్ద-నిర్దిష్టః పురుషః। అధిదైవతం దైవతోపరి వర్తమానమ్ ఇన్ద్ర-ప్రజాపతి-ప్రభృతి-కృత్స్న-దైవతోపరి వర్తమానః। ఇన్ద్ర-ప్రజాపతి-ప్రభృతీనాం భోగ్య-జాతాద్ విలక్షణ-శబ్దాదేర్ భోక్తా పురుషః। సా చ భోక్తృత్వావస్థా ఐశ్వర్యార్థిభిః ప్రాప్యతయా అనుసన్ధేయా।
Link copiedఅధియజ్ఞోఽహమ్ ఏవాధియజ్ఞ-శబ్ద-నిర్దిష్టోఽహమ్ ఏవ। అధియజ్ఞో యజ్ఞైర్ ఆరాధ్యతయా వర్తమానః। అత్రేన్ద్రాదౌ మమ దేహ-భూతే ఆత్మతయావస్థితోఽహమ్ ఏవ యజ్ఞైర్ ఆరాధ్య ఇతి మహా-యజ్ఞాది-నిత్య-నైమిత్తకానుష్ఠాన-వేలాయాం త్రయాణామ్ అధికారిణామ్ అనుసన్ధేయమ్ ఏతత్॥౮।౪॥
Link copiedఇదమ్ అపి త్రయాణాం సాధారణమ్---
Link copiedఅన్త-కాలే చ మామ్ ఏవ స్మరన్ ముక్త్వా కలేవరమ్।
Link copiedయః ప్రయాతి స మద్-భావం యాతి నాస్త్య్ అత్ర సంశయః॥౫॥
Link copiedఅన్త-కాలే చ మామ్ ఏవ స్మరన్ కలేవరం త్యక్త్వా యః ప్రయాతి, స మద్-భావం యాతి। మమ యో భావః స్వభావస్ తం యాతి। తదానీం యథా మామ్ అనుసన్ధత్తే తథా-విధాకారో భవతీత్య్ అర్థః। యథా ఆది-భరతాదయస్ తదానీం స్మర్యమాణ-మృగ-సజాతీయాకారాః సమ్భూతాః॥౮।౫॥
Link copiedస్మర్తుః స్వ-విషయ-సజాతీయ-కారతాపాదనమ్ అన్త్య-ప్రత్యయస్య స్వభావ ఇతి సుస్పష్టమ్ ఆహ---
Link copiedయం యం వాపి స్మరన్ భావం త్యజత్య్ అన్తే కలేవరమ్।
Link copiedతం తమ్ ఏవైతి కౌన్తేయ సదా తద్-భావ-భావితః॥౬॥
Link copiedఅన్తేఽన్త-కాలే యం యం వాపి భావం స్మరన్ కలేవరం త్యజతి తం తం భావమ్ ఏవ మరణాన్తరమ్ ఏతి। అన్త్య-ప్రత్యయశ్ చ పూర్వ-భావిత-విషయ ఏవ జాయతే॥౮।౬॥
Link copiedయస్మాత్ పూర్వ-కాలాభ్యస్త-విషయే ఏవాన్త్య-ప్రత్యయో జాయతే---
Link copiedతస్మాత్ సర్వేషు కాలేషు మామ్ అనుస్మర యుధ్య చ।
Link copiedమయ్య్ అర్పిత-మనో-బుద్ధిర్ మామ్ ఏవైష్యస్య్ అసంశయః॥౭॥
Link copiedతస్మాత్ సర్వేషు కాలేష్వ్ ఆప్రయాణాద్ అహర్-అహః మామ్ అనుస్మరాహర్-అహర్ అనుస్మృతి-కరం యుద్ధాదికం వర్ణాశ్రమానుబన్ధి-శ్రుతి-స్మృతి-చోదిత-నిత్య-నైమిత్తికం చ కర్మ కురు। ఏతద్-ఉపాయేన మయ్య్ అర్పిత-మనో-బుద్ధిర్ అన్త-కాలే చ మామ్ ఏవ స్మరన్ యథాభిలషిత-ప్రకారం మాం ప్రాప్స్యసి నాత్ర సంశయః॥౮।౭॥
Link copiedఏవం సామాన్యేన సర్వత్ర స్వ-ప్రాప్యావాప్తిర్ అన్త్య-ప్రత్యయాధీనా ఇత్య్ ఉక్త్వా తద్-అర్థం త్రయాణామ్ ఉపాసన-ప్రకార-భేదం వక్తుమ్ ఉపక్రమతే। తత్రైశ్వర్యార్థినామ్ ఉపాసన-ప్రకారం యథోపాసనమ్ అన్త్య-ప్రత్యయ-ప్రకారం చాహ---
Link copiedఅభ్యాస-యోగ-యుక్తేన చేతసా నాన్య-గామినా।
Link copiedపరమం పురుషం దివ్యం యాతి పార్థానుచిన్తయన్॥౮॥
Link copiedఅహరహర్ అభ్యాస-యోగాభ్యాం యుక్తతయా నాన్య-గామినా చేతసా అన్త-కాలే పరమం పురుషం దివ్యం మాం వక్ష్యమాణ-ప్రకారం చిన్తయన్ మామ్ ఏవ యాత్య్ ఆది-భరత-మృగత్వ-ప్రాప్తివద్ ఐశ్వర్య-విశిష్టతయా మత్-సమానాకారో భవతి। అభ్యాసో నిత్య-నైమిత్తికావిరుద్ధేషు సర్వేషు కాలేషు మనసా ఉపాస్య-సంశీలనమ్, యోగస్ త్వ్ అహరహర్ యోగ-కాలేఽనుష్ఠీయమానం యథోక్త-లక్షణమ్ ఉపాసనమ్॥౮।౮॥
Link copiedకవిం పురాణమ్ అనుశాసితారమ్
Link copiedఅణోర్ అణీయాంసమ్ అనుస్మరేద్ యః।
Link copiedసర్వస్య ధాతారమ్ అచిన్త్య-రూపమ్
Link copiedఆదిత్య-వర్ణం తమసః పరస్తాత్॥౯॥
Link copiedప్రయాణ-కాలే మనసాచలేన
Link copiedభక్త్యా యుక్తో యోగ-బలేన చైవ।
Link copiedభ్రువోర్ మధ్యే ప్రాణమ్ ఆవేశ్య సమ్యక్
Link copiedస తం పరం పురుషమ్ ఉపైతి దివ్యమ్॥౧౦॥
Link copiedకవిం సర్వజ్ఞం పురాణం పురాతనమ్ అనుశాసితారం విశ్వస్య ప్రశాసితారమ్ అణోర్ అణీయాంసం జీవాద్ అపి సూక్ష్మతరం సర్వస్య ధాతారం సర్వస్య స్రష్టరమ్ అచిన్త్య-రూపం సకలేతర-విసజాతీయ-స్వరూపమ్ ఆదిత్య-వర్ణం తమసః పరస్తాత్ అప్రాకృత-స్వాసాధారణ-దివ్య-రూపమ్। తమ్ ఏవం-భూతమ్ అహరహర్ అభ్యస్యమాన-భక్తి-యుక్త-యోగ-బలేన ఆరూఢ-సంస్కారతయా అచలేన మనసా ప్రయాణ-కాలే భ్రువోర్ మధ్యే ప్రాణమ్ ఆవేశ్య సంస్థాప్య తత్ర భ్రువోర్ మధ్యే దివ్యం పురుషం యోఽనుస్మరేత్ స తమ్ ఏవ ఉపైతి తద్-భావం యాతి, తత్-సమానైశ్వర్యో భవతీత్య్ అర్థః॥౮।౯-౧౦॥
Link copiedఅథ కైవల్యార్థినాం స్మరణ-ప్రకారమ్ ఆహ---
Link copiedయద్ అక్షరం వేద-విదో వదన్తి
Link copiedవిశన్తి యద్ యతయో వీత-రాగాః।
Link copiedయద్ ఇచ్ఛన్తో బ్రహ్మచర్యం చరన్తి
Link copiedతత్ తే పదం సఙ్గ్రహేణ ప్రవక్ష్యే॥౧౧॥
Link copiedయద్ అక్షరమ్ అస్థూలత్వాది-గుణకం వేద-విదో వదన్తి వీత-రాగాశ్ చ యతయో యద్ అక్షరం విశన్తి యద్ అక్షరం ప్రాప్తుమ్ ఇచ్ఛన్తో బ్రహ్మచర్యం చరన్తి తత్ తే పదం సఙ్గ్రహేణ ప్రవక్ష్యే। పద్యతే గమ్యతేఽనేన ఇతి పదం తన్ నిఖిల-వేదాన్త-వేద్యం మత్-స్వరూపమ్ అక్షరం యథా ఉపాస్యం తథా సఙ్క్షేపేణ ప్రవక్ష్యామీత్య్ అర్థః॥౮।౧౧॥
Link copiedసర్వ-ద్వారాణి సంయమ్య మనో హృది నిరుధ్య చ।
Link copiedమూర్ధ్న్య్ ఆధాయాత్మనః ప్రాణమ్ ఆస్థితో యోగ-ధారణామ్॥౧౨॥
Link copiedసర్వాణి శ్రోత్రాదీనీన్ద్రియాణి జ్ఞాన-ద్వార-భూతాని సంయమ్య స్వ-వ్యాపారేభ్యో వినివర్త్య హృదయ-కమల-నివిష్టే మయ్య్ అక్షరే మనో నిరుధ్య యోగాఖ్యాం ధారణాం ఆస్థితో మయ్య్ ఏవ నిశ్చలాం స్థితిమ్ ఆస్థితః॥౮।౧౨॥
Link copiedఓమ్ ఇత్య్ ఏకాక్షరం బ్రహ్మ వ్యాహరన్ మామ్ అనుస్మరన్।
Link copiedయః ప్రయాతి త్యజన్ దేహం స యాతి పరమాం గతిమ్॥౧౩॥
Link copiedఓమ్ ఇత్య్ ఏకాక్షరం బ్రహ్మ మద్-వాచకం వ్యాహరన్ వాచ్యం మామ్ అనుస్మరన్ ఆత్మనః ప్రాణం మూర్ధ్న్య్ ఆధాయ దేహం త్యజన్ యః ప్రయాతి స యాతి పరమాం గతిం ప్రకృతి-వియుక్తం మత్-సమానాకారమ్ అపునర్-ఆవృత్తిమ్ ఆత్మానం ప్రాప్నోతీత్య్ అర్థః యః స సర్వేషు భూతేషు నశ్యత్సు న వినశ్యతి॥ అవ్యక్తోఽక్షర ఇత్య్ ఉక్తస్ తమ్ ఆహుః పరమాం గతిమ్। [౮।౨౦,౨౧] ఇత్య్ అనన్తరమ్ ఏవ వక్ష్యతే॥౮।౧౨-౧౩॥
Link copiedఏవమ్ ఐశ్వర్యార్థినః కైవల్యార్థినశ్ చ స్వ-ప్రాప్యానుగుణో భగవద్-ఉపాసన-ప్రకార ఉక్తః। అథ జ్ఞానినో భగవద్-ఉపాసన-ప్రకారం ప్రాప్తి-కారం చాహ---
Link copiedఅనన్య-చేతాః సతతం యో మాం స్మరతి నిత్యశః।
Link copiedతస్యాహం సులభః పార్థ నిత్య-యుక్తస్య యోగినః॥౧౪॥
Link copiedనిత్యశో మామ్ ఉద్యోగ-ప్రభృతి సతతం సర్వ-కాలమ్ అనన్య-చేతా యః స్మరత్య్ అత్యర్థం మత్-ప్రియత్వేన మత్-స్మృత్యా వినా ఆత్మ-ధారణమ్ అలభమానో నిరతిశయ-ప్రియం మాం యః స్మరతి తస్య నిత్య-యుక్తస్య నిత్య-యోగం కాఙ్క్షమాణస్య యోగినోఽహం సులభోఽహమ్ ఏవ ప్రాప్యః। న మద్-భావ ఐశ్వర్యాదికః సుప్రాపశ్ చ। తద్-వియోగమ్ అసహమానోఽహమ్ ఏవ తం వృణే। మత్-ప్రాప్త్య్-అనుగుణోపాసన-విపాకం తద్-విరోధి-నిరసనమ్ అత్యర్థం మత్-ప్రియత్వాదికం చాహమ్ ఏవ దదామీత్య్ అర్థః। యమ్ ఏవైష వృణుతే తేన లభ్యః [ము।ఉ। ౩।౨।౩] ఇతి హి శ్రూయతే। వక్ష్యతే చ---
Link copiedతేషాం సతత-యుక్తానాం భజతాం ప్రీతి-పూర్వకమ్।
Link copiedదదామి బుద్ధి-యోగం తం యేన మామ్ ఉపయాన్తి తే॥
Link copiedతేషామ్ ఏవానుకమ్పార్థమ్ అహమ్ అజ్ఞాన-జం తమః।
Link copied
నాశయామ్య్ ఆత్మ-భావ-స్థో జ్ఞాన-దీపేన భాస్వతా॥ [౧౦।౧౦-౧౧] ఇతి॥౮।౧౪॥
Link copiedఅతః పరమ్ అధ్యాయ-శేషేణ జ్ఞానినః కైవల్యార్థినశ్ చాపునర్-ఆవృత్తిమ్ ఐశ్వర్యార్థినః పునర్-ఆవృత్తిం చాహ---
Link copiedమామ్ ఉపేత్య పునర్-జన్మ దుఃఖాలయమ్ అశాశ్వతమ్।
Link copiedనాప్నువన్తి మహాత్మానః సంసిద్ధిం పరమాం గతాః॥౧౫॥
Link copiedమాం ప్రాప్య పునర్ నిఖిల-దుఃఖాలయమ్ అస్థిరం జన్మ న ప్రాప్నువన్తి యత ఏతే మహాత్మానో మహా-మనసో యథావస్థిత-మత్-స్వరూప-జ్ఞానా అత్యర్థ-మత్-ప్రియత్వేన మయా వినా ఆత్మ-ధారణమ్ అలభమానా మయ్య్ ఆసక్త-మనసో మద్-ఆశ్రయా మామ్ ఉపాస్య పరమ-సంసిద్ధి-రూపం మాం ప్రాప్తాః॥౮।౧౫॥
Link copiedఐశ్వర్య-గతిం ప్రాప్తానాం భగవన్తం ప్రాప్తానాం చ పునర్-ఆవృత్తవ్ అపునర్-ఆవృత్తౌ చ హేతుమ్ అనన్తరమ్ ఆహ---
Link copiedఆ బ్రహ్మ-భువనాల్ లోకాః పునర్-ఆవర్తినోఽర్జున।
Link copiedమామ్ ఉపేత్య తు కౌన్తేయ పునర్-జన్మ న విద్యతే॥౧౬॥
Link copiedబ్రహ్మ-లోక-పర్యన్తా బ్రహ్మాణ్డోదర-వర్తినః సర్వే లోకా భోగైశ్వర్యాలయాః పునర్-ఆవర్తినో వినాశినః। అత ఐశ్వర్య-గతిం ప్రాప్తానాం ప్రాప్య-స్థాన-వినాశాద్ వినాశిత్వమ్ అవర్జనీయమ్। మాం సర్వ-జ్ఞం సత్య-సఙ్కల్పం నిఖిల-జగద్-ఉత్పత్తి-స్థితి-లయ-లీలం పరమ-కారుణికం సదైక-రూపం ప్రాప్తానాం వినాశ-ప్రసఙ్గాభావాత్ తేషాం పునర్-జన్మ న విద్యతే॥౮।౧౬॥
Link copiedబ్రహ్మ-లోక-పర్యన్తానాం లోకానాం తద్-అన్తర్-వర్తినాం చ పరమ-పురుష-సఙ్కల్ప-కృతామ్ ఉత్పత్తి-వినాశ-కాల-వ్యవస్థామ్ ఆహ---
Link copiedసహస్ర-యుగ-పర్యన్తమ్ అహర్ యద్ బ్రహ్మణో విదుః।
Link copiedరాత్రిం యుగ-సహస్రాన్తాం తేఽహో-రాత్ర-విదో జనాః॥౧౭॥
Link copiedయే మనుష్యాది-చతుర్-మఖాన్తానాం మత్-సఙ్కల్ప-కృతాహో-రాత్ర-వ్యవస్థా-విదో జనాః, తే బ్రహ్మణశ్ చతుర్-ముఖస్య యద్ అహశ్ చతుర్-యుగ-సహస్రావసానం విదుః, రాత్రిం చ తథా-రూపామ్॥౮।౧౭॥
Link copiedఅవ్యక్తాద్ వ్యక్తయః సర్వాః ప్రభవన్త్య్ అహర్-ఆగమే।
Link copiedరాత్ర్య్-ఆగమే ప్రలీయన్తే తత్రైవావ్యక్త-సంజ్ఞకే॥౧౮॥
Link copiedతత్ర బ్రహ్మణః, అహర్-ఆగమ-సమయే త్రైలోక్యాన్తర్-వర్తిన్యో దేహేన్ద్రియ-భోగ్య-భోగ-స్థాన-రూపా వ్యక్తశ్ చతుర్-ముఖ-దేహావస్థాద్ అవ్యక్తాత్ ప్రభవన్తి। తత్రైవావ్యక్తావస్థా-విశేషే చతుర్-ముఖ-దేహే రాత్ర్య్-ఆగమ-సమయే ప్రలీయన్తే॥౮।౧౮॥
Link copiedభూత-గ్రామః స ఏవాయం భూత్వా భూత్వా ప్రలీయతే।
Link copiedరాత్ర్య్-ఆగమేఽవశః పార్థ ప్రభవత్య్ అహర్-ఆగమే॥౧౯॥
Link copiedస ఏవాయం కర్మ-వశ్యో భూత-గ్రామోఽహర్-ఆగమే భూత్వా భూత్వా రాత్ర్య్-ఆగమే ప్రలీయతే పునర్ అప్య్ అహర్-ఆగమే ప్రభవతి। తథా వర్షా-శతావసాన-రూప-యుగ-సహస్రాన్తే బ్రహ్మ-లోక-పర్యన్తా లోకా బ్రహ్మా చ, పృథివీ అప్సు ప్రలీయతే ఆపస్ తేజసి లీయన్తే ఇత్య్-ఆది-క్రమేణావ్యక్తాక్షర-తమః-పర్యన్తం మయ్య్ ఏవ ప్రలీయన్తే।
Link copiedఏవం మద్-వ్యతిరిక్తస్య కృత్స్నస్య కాల-వ్యవస్థయా మత్త ఉత్పత్తేర్ మయి ప్రలయాచ్ చ ఉత్పత్తి-వినాశ-యోగిత్వమ్ అవర్జనీయమ్ ఇత్య్ ఐశ్వర్య-గతిం ప్రాప్తానాం పునర్-ఆవృత్తిర్ అపరిహార్యా। మామ్ ఉపేతానాం తు న పునర్-ఆవృత్తి-ప్రసఙ్గః॥౮।౧౯॥
Link copiedఅథ కైవల్య-ప్రాప్తానామ్ అపి పునర్-ఆవృత్తిర్ న విద్యత ఇత్య్ ఆహ---
Link copiedపరస్ తస్మాత్ తు భావోఽన్యోఽవ్యక్తోఽవ్యక్తాత్ సనాతనః।
Link copiedయః స సర్వేషు భూతేషు నశ్యత్సు న వినశ్యతి॥౨౦॥
Link copiedఅవ్యక్తోఽక్షర ఇత్య్ ఉక్తస్ తమ్ ఆహుః పరమాం గతిమ్।
Link copiedయం ప్రాప్య న నివర్తన్తే తద్ ధామ పరమం మమ॥౨౧॥
Link copiedతస్మాద్ అవ్యక్తాద్ అచేతన-ప్రకృతి-రూపాత్ పురుషార్థతయా పర ఉత్కృష్టో భావోఽన్యో జ్ఞానైకాకారతయా తస్మాద్ విసజాతీయోఽవ్యక్తః కేనచిత్ ప్రమాణేన న వ్యజ్యత ఇత్య్ అవ్యక్తః స్వ-సంవేద్య-సాధారణాకార ఇత్య్ అర్థః। సనాతన ఉత్పత్తి-వినాశానర్హతయా నిత్యః। యః సర్వేషు వియద్-ఆదిషు భూతేషు స-కారణేషు స-కార్యేషు వినశ్యత్సు తత్ర తత్ర స్థితోఽపి న వినశ్యతి సోఽవ్యక్తోఽక్షర ఇత్య్ ఉక్తః। యే త్వ్ అక్షరమ్ అనిర్దేశ్యమ్ అవ్యక్తం పర్యుపాసతే [గీతా ౧౨।౩], కూటస్థోఽక్షర ఉచ్యతే [గీతా ౧౫।౧౬] ఇత్య్-ఆదిషు తం వేద-విదః పరమాం గతిమ్ ఆహుః। అయమ్ ఏవ యః ప్రయాతి త్యజన్ దేహం స యాతి పరమాం గతిమ్ [గీతా ౮।౫] ఇత్య్ అత్ర పరమ-గతి-శబ్ద-నిర్దిష్టోఽక్షరః ప్రకృతి-సంసర్గ-వియుక్త-స్వరూపేణావస్థిత ఆత్మా ఇత్య్ అర్థః।
Link copied[యమ్ ఏవం-భూతం స్వరూపేణావస్థితం ప్రాప్య న నివర్తన్తే తన్ మమ పరమం ధామ పరమం నియమన-స్థానమ్। అచేతన-ప్రకృతిర్ ఏకం నియమన-స్థానమ్, తత్-సంసృష్ట-రూపా జీవ-ప్రకృతిర్ ద్వితీయం నియమన-స్థానమ్ అచిత్-సంసర్గ-వియుక్తం స్వరూపేణావస్థితం ముక్త-స్వరూపం పరమం నియమన-స్థానమ్ ఇత్య్ అర్థః।]
Link copiedతచ్ చాపునర్-ఆవృత్తి-రూపమ్। అథవా ప్రకాశ-వాచీ ధామ-శబ్దః, ప్రకాశశ్ చేహ జ్ఞానమ్ అభిప్రేతం ప్రకృతి-సంసృష్టత్ పరిచ్ఛిన్న-జ్ఞాన-రూపాద్ ఆత్మనోఽపరిచ్ఛిన్న-జ్ఞాన-రూపతయా ముక్త-స్వరూపం పరం ధామ॥౮।౨౦-౨౧]
Link copiedజ్ఞానినః ప్రాప్యం తు తస్మాద్ అత్యన్త-విభక్తమ్ ఇత్య్ ఆహ---
Link copiedపురుషః స పరః పార్థ భక్త్యా లభ్యస్ త్వ్ అనన్యయా।
Link copiedయస్యాన్తః-స్థాని భూతాని యేన సర్వమ్ ఇదం తతమ్॥౨౨॥
Link copiedమత్తః పరతరం నాన్యత్ కిఞ్చిదస్తి ధనజయ।
Link copiedమయి సర్వమ్ ఇదం ప్రోతం సూత్రే మణిగణా ఇవ॥ [౭।౭]
Link copied
మామ్ ఏభ్యః పరమ్ అవ్యయమ్ [౭।౧౩] ఇత్య్ ఆదినా నిర్దిష్టస్య యస్యాన్తః-స్థాని సర్వాణి భూతాని, యేన చ పరేణ పురుషేణ సర్వమ్ ఇదం తతం స పర-పురుషో అనన్య-చేతాః సతతమ్ [౮।౧౪] ఇత్య్ అనన్యయా భక్త్యా లభ్యః।
Link copiedయత్ర కాలే త్వ్ అనావృత్తిమ్ ఆవృత్తిం చైవ యోగినః।
Link copiedప్రయాతా యాన్తి తం కాలం వక్ష్యామి భరతర్షభ॥౨౩॥
Link copiedఅగ్నిర్ జ్యోతిర్ అహః శుక్లః షణ్-మాసా ఉత్తరాయణమ్।
Link copiedతత్ర ప్రయాతా గచ్ఛన్తి బ్రహ్మ బ్రహ్మ-విదో జనాః॥౨౪॥
Link copiedఅథాత్మ-యాథాత్మ్య-విదః పరమ-పురుష-నిష్ఠస్య చ సాధారణీమ్ అర్చిర్-ఆదికాం గతిమ్ ఆహ ద్వయోర్ అప్య్ అర్చిర్-ఆదికా గతిః శ్రుతౌ శ్రుతా, సా చాపునర్-ఆవృత్తి-లక్షణా। తథా పఞ్చాగ్ని-విద్యాయాం తద్ య ఇత్థం విదుర్ యే చేమేఽరణ్యే శ్రద్ధా తప ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్త్య్ అర్చిషోఽహః [ఛా।ఉ। ౫।౧౦।౧] ఇత్య్ ఆదవ్ అర్చిర్-ఆదికయా గత్య్-ఆగతస్య పర-బ్రహ్మ-ప్రాప్తిర్ అపునర్-ఆవృత్తిశ్ చోక్తా స ఏనాన్ బ్రహ్మ గమయతి \॥। ఏతేన ప్రతిపద్యమానా ఇమం మానవమ్ ఆవర్తం నావర్తన్తే [ఛా।ఉ। ౪।౧౫।౫] ఇతి।
Link copiedన చ ప్రజాపతి-వాక్యాదౌ శ్రుతి-పర-విద్యాఙ్గ-భూతాత్మ-ప్రాప్తి-విషయేయమ్--- తద్ య ఇత్థం విదుః ఇతి గతి-శ్రుతిర్, యే చేమేఽరణ్యే శ్రద్ధాం తప ఇత్యుపాసతే [ఛా।ఉ। ౫।౧౦।౧] ఇతి పర-విద్యాయాః పృథక్-శ్రుతి-వైయర్థ్యాత్।
Link copiedపఞ్చాగ్ని-విద్యాయాం చ ఇతి తు పఞ్చమ్యామ్ ఆహుతావ్ ఆపః పురుష-వచసో భవన్తి [ఛా।ఉ। ౫।౯।౧] ఇతి రమణీయ-చరణాః కపూయ-చరణాః [ఛా।ఉ। ౫।౧౦।౭] ఇతి పుణ్య-పాప-హేతుకో మనుష్యాది-భావో అపామ్ ఏవ భూతాన్తర-సంసృష్టనామ్ ఆత్మనస్ తు యత్-పరిష్వఙ్గ-మాత్రమ్ ఇతి చిద్-అచితోర్ వివేకమ్ అభిధాయ తద్ య ఇత్థం విదుః \॥। తేఽర్చిషమ్ అభిసమ్భవన్తి [ఛా।ఉ। ౫।౧౦।౧], ఇమం మానవమ్ ఆవర్తం నావర్తన్తే [ఛా।ఉ। ౪।౧౫।౫] ఇతి వివిక్తే చిద్-అచిద్-వస్తుని త్యాజ్యతయా ప్రాప్యతయా చ తద్ య ఇత్థం విదుస్ తేఽర్చిరాదినా గచ్ఛన్తి న చ పునర్ ఆవర్తన్తే ఇత్య్ ఉక్తమ్ ఇతి గమ్యతే।
Link copiedఆత్మ-యాథాత్మ్య-విదః పరమ-పురుష-నిష్ఠస్య చ స ఏనాన్ బ్రహ్మ గమయతి [ఛా।ఉ। ౪।౧౫।౫] ఇతి బ్రహ్మ-ప్రాప్తి-వచనాద్ అచిద్-వియుక్తమ్ ఆత్మ-వస్తు బ్రహ్మాత్మకతయా బ్రహ్మ-శేషతైక-రసమ్ ఇత్య్ అనుసన్ధేయమ్। తత్-క్రతు-న్యాయాచ్ చ పర-శేషతైక-రసత్వం చ య ఆత్మని తిష్ఠన్ యస్యాత్మా శరీరమ్ [శబ్రా ౧౪।౬।౫।౫।౩౦] ఇత్య్-ఆది-శ్రుతి-సిద్ధమ్।
Link copiedఅత్ర కాల-శబ్దో మార్గస్యాహః-ప్రభృతి-సంవత్సరాన్త-కాలాభిమాని-దేవతా-భూయస్తయా మార్గోపలక్షణార్థః। యస్మిన్ మార్గే ప్రయాతా యోగినోఽనావృత్తిమ్। పుణ్య-కర్మాణశ్ చావృత్తిం యాన్తి, తం మార్గం వక్ష్యామీత్య్ అర్థః। అగ్నిర్ జ్యోతిర్ అహః శుక్లః షణ్-మాసా ఉత్తరాయణమ్, ఇతి సంవత్సరాదీనాం ప్రదర్శనమ్॥౮।౨౩-౨౪॥
Link copiedధూమో రాత్రిస్ తథా కృష్ణః షణ్మాసా దక్షిణాయనమ్।
Link copiedతత్ర చాన్ద్రమసం జ్యోతిర్ యోగీ ప్రాప్య నివర్తతే॥౨౫॥
Link copiedఏతచ్ చ ధూమాది-మార్గ-స్థ-పితృ-లోకాదేః ప్రదర్శనమ్। అత్ర యోగి-శబ్ద పుణ్య-కర్మ-సమ్బన్ధి-విషయః॥౮।౨౫॥
Link copiedశుక్ల-కృష్ణే గతీ హ్య్ ఏతే జగతః శాశ్వతే మతే।
Link copiedఏకయా యాత్య్ అనావృత్తిమ్ అన్యయావర్తతే పునః॥౨౬॥
Link copiedశుక్లా గతిర్ అర్చిర్-ఆదికా। కృష్ణా చ ధూమాదికా। శుక్లయానావృత్తిం యాన్తి, కృష్ణయా తు పునర్ ఆవర్తన్తే। ఏతే శుక్ల-కృష్ణే గతీ జ్ఞానినాం వివిధానాం పుణ్య-కర్మణాం చ శ్రుతౌ శాశ్వతే మతే। తద్ య ఇత్థం విదుర్ యే చేమేఽరణ్యే శ్రద్ధాం తప ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్తి [ఛా।ఉ। ౫।౧౦।౧], అథ య ఇమే గ్రామే ఇష్ట-పూర్తే దత్తమ్ ఇత్య్ ఉపాసతే తే ధూమమ్ అభిసమ్భవన్తి [ఛా।ఉ। ౫।౧౦।౩] ఇతి॥౮।౨౬॥
Link copiedనైతే సృతీ పార్థ జానన్ యోగీ ముహ్యతి కశ్చన।
Link copiedతస్మాత్ సర్వేషు కాలేషు యోగ-యుక్తో భవార్జున॥౨౭॥
Link copiedఏతౌ మార్గౌ జానన్ యోగీ ప్రయాణ-కాలే కశ్చన న ముహ్యతి। అపి తు స్వేనైవ దేవ-యానేన పథా యాతి। తస్మాద్ అహరహర్ అర్చిర్-ఆది-గతి-చిన్తనాఖ్య-యోగ-యుక్తో భవ॥౮।౨౭॥
Link copiedఅథాధ్యాయ-ద్వయోదిత-శాస్త్రార్థ-వేదన-ఫలమ్ ఆహ---
Link copiedవేదేషు యజ్ఞేషు తపఃసు చైవ
Link copiedదానేషు యత్ పుణ్య-ఫలం ప్రదిష్టమ్।
Link copiedఅత్యేతి తత్ సర్వమ్ ఇదం విదిత్వా
Link copiedయోగీ పరం స్థానమ్ ఉపైతి చాద్యమ్॥౨౮॥
Link copiedఋగ్-యజుః-సామాథర్వ-రూప-వేదాభ్యాస-యజ్ఞ-తపో-దాన-ప్రభృతిషు సర్వేషు పుణ్యేషు యత్ ఫలం నిర్దిష్టమ్ ఇదమ్ అధ్యాయ-ద్వయోదితం భగవన్-మాహాత్మ్యం విదిత్వా తత్ సర్వమ్ అత్యేతి ఏతద్-వేదన-సుఖాతిరేకేణ తత్ సర్వం తృణవత్ మన్యతే। యోగీ జ్ఞానీ చ భూత్వా జ్ఞానినః ప్రాప్యం పరమ్ ఆద్యం స్థానమ్ ఉపైతి॥౮।౨౮॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యేఽష్టమోఽధ్యాయః ॥౮॥
Link copied**
Link copiedsapthame: parasya brahmano: va:sude:vasyo:pa:syathvam, nikhila che:thana:che:thana vasthu se:shithvam, ka:ranathvam, a:dha:rathvam, sarva sari:rathaya: sarva praka:rathve:na sarva sabda va:chyathvam, sarva niyanthruthvam, sarvais cha kalya:na guna ganair e:ka:srayathvam thasyaiva paratharathvam cha, saththva rajas thamo: mayair de:he:ndriyathve:na bho:gyathve:na cha:vasthithair bha:vair ana:di ka:la pravruththa dushkrutha prava:ha he:thukais thasya thiro:dha:nam| athyuthkrushta sukrutha he:thuka bhagavath prapaththya: cha than nivarthanam, sukrutha tha:rathamye:na cha prathipaththi vaishe:shya:d aisvarya:kshara ya:tha:thmya bhagavath pra:pthy ape:kshayo:pa:saka bhe:dam, bhagavantham pre:pso:r nithya yukthathayika bhakthithaya: cha:thyartha parama purusha priyathve:na sraishthyam, durlabhathvam cha prathipa:dya e:sha:m thraya:na:m jna:thavyo:pa:de:ya bhe:da:ms cha pra:sthaushi:th| ida:ni:m ashtame: prasthutha:n jna:thavyo:pa:de:ya bhe:da:n vivinakthi---
Link copiedkim thad brahma kim adhya:thmam kim karma purusho:ththama|
Link copiedadhibhu:tham cha kim pro:ktham adhidaivam kim uchyathe:||1||
Link copiedadhiyajnah katham ko:'thra de:he:'smin madhusu:dana|
Link copiedpraya:na ka:le: cha katham jne:yo:'si niyatha:thmabhih||2||
Link copiedjara: marana mo:ksha:ya bhagavantham a:srithya yathama:na:na:m jna:thavyathayo:ktham thad brahma:dhya:thmam cha karma cha kim ithi vakthavyam| aisvarya:rthina:m jna:thavyam adhibhu:tham adhidaivam cha kim| thraya:na:m jna:thavyo:'dhiyajna sabda nirdishtas cha kah| thasya cha:dhiyajna bha:vah katham| praya:na ka:le: chaibhis thribhih niyatha:thmabhih katham jne:yo:'si|||8.1--- 8.2||
Link copiedsri: bhagava:n uva:cha
Link copiedaksharam brahma paramam svabha:vo:'dhya:thmam uchyathe:|
Link copiedbhu:thabha:vo:dbhava karo: visargah karma samjnithah||3||
Link copiedthad brahma ithi nirdishtam paramam aksharam na ksharathi:thy aksharam kshe:thrajnam samashti ru:pam| thatha: cha sruthir avyaktham akshare: li:yathe:'ksharam thamasi li:yathe: [su.u. 2] ithy a:dika:| paramam aksharam prakruthi vinirmuktha:thma svaru:pam| svabha:vo:'dhya:thmam uchyathe: svabha:vah prakruthir ana:thma bhu:tham a:thmani sambaddhyama:nam bhu:tha su:kshma thad va:sana:dikam pancha:gni vidya:ya:m jna:thavyathaya: uditham| thad ubhayam pra:pyathaya: thya:jyathaya: cha mumukshubhir jna:thavyam|
Link copiedbhu:tha bha:vo: manushya:di bha:vah, thad udbhava karo: yo: visargah panchamya:m a:hutha:v a:pah purusha vachaso: bhavanthi [chha:.u. 5.3.3] ithi sruthi siddho: yo:shith sambandha jah, sa karma samjnithah| thach cha:khilam sa:nubandham udve:jani:yathaya: pariharani:yathaya: cha mumukshubhir jna:thavyam| pariharani:yatha: cha:nantharam e:va vakshyathe:--- yad ichchhantho: brahmacharyam charanthi [8.11] ithi||8.3||
Link copiedadhibhu:tham ksharo: bha:vah purushas cha:dhidaivatham|
Link copiedadhiyajno:'ham e:va:thra de:he: de:ha bhrutha:m vara||4||
Link copiedaisvarya:rthina:m jna:thavyathaya: nirdishtam adhibhu:tham ksharo: bha:vo: viyad a:di bhu:the:shu varthama:nas thath parina:ma vise:shah ksharana svabha:vo: vilakshanah sabda sparsa:dih sa:srayah, vilakshana:h sa:sraya:h sabda sparsa ru:pa rasa gandha: aisvarya:rthibhih pra:pya:h| thair anusandhe:ya:h|
Link copiedpurushas cha:dhidaivatham adhidaivatha sabda nirdishtah purushah| adhidaivatham daivatho:pari varthama:nam indra praja:pathi prabhruthi kruthsna daivatho:pari varthama:nah| indra praja:pathi prabhruthi:na:m bho:gya ja:tha:d vilakshana sabda:de:r bho:ktha: purushah| sa: cha bho:kthruthva:vastha: aisvarya:rthibhih pra:pyathaya: anusandhe:ya:|
Link copiedadhiyajno:'ham e:va:dhiyajna sabda nirdishto:'ham e:va| adhiyajno: yajnair a:ra:dhyathaya: varthama:nah| athre:ndra:dau mama de:ha bhu:the: a:thmathaya:vasthitho:'ham e:va yajnair a:ra:dhya ithi maha: yajna:di nithya naimiththaka:nushtha:na ve:la:ya:m thraya:na:m adhika:rina:m anusandhe:yam e:thath||8.4||
Link copiedidam api thraya:na:m sa:dha:ranam---
Link copiedantha ka:le: cha ma:m e:va smaran mukthva: kale:varam|
Link copiedyah praya:thi sa mad bha:vam ya:thi na:sthy athra samsayah||5||
Link copiedantha ka:le: cha ma:m e:va smaran kale:varam thyakthva: yah praya:thi, sa mad bha:vam ya:thi| mama yo: bha:vah svabha:vas tham ya:thi| thada:ni:m yatha: ma:m anusandhaththe: thatha: vidha:ka:ro: bhavathi:thy arthah| yatha: a:di bharatha:dayas thada:ni:m smaryama:na mruga saja:thi:ya:ka:ra:h sambhu:tha:h||8.5||
Link copiedsmarthuh sva vishaya saja:thi:ya ka:ratha:pa:danam anthya prathyayasya svabha:va ithi suspashtam a:ha---
Link copiedyam yam va:pi smaran bha:vam thyajathy anthe: kale:varam|
Link copiedtham tham e:vaithi kaunthe:ya sada: thad bha:va bha:vithah||6||
Link copiedanthe:'ntha ka:le: yam yam va:pi bha:vam smaran kale:varam thyajathi tham tham bha:vam e:va marana:ntharam e:thi| anthya prathyayas cha pu:rva bha:vitha vishaya e:va ja:yathe:||8.6||
Link copiedyasma:th pu:rva ka:la:bhyastha vishaye: e:va:nthya prathyayo: ja:yathe:---
Link copiedthasma:th sarve:shu ka:le:shu ma:m anusmara yudhya cha|
Link copiedmayy arpitha mano: buddhir ma:m e:vaishyasy asamsayah||7||
Link copiedthasma:th sarve:shu ka:le:shv a:praya:na:d ahar ahah ma:m anusmara:har ahar anusmruthi karam yuddha:dikam varna:srama:nubandhi sruthi smruthi cho:ditha nithya naimiththikam cha karma kuru| e:thad upa:ye:na mayy arpitha mano: buddhir antha ka:le: cha ma:m e:va smaran yatha:bhilashitha praka:ram ma:m pra:psyasi na:thra samsayah||8.7||
Link copiede:vam sa:ma:nye:na sarvathra sva pra:pya:va:pthir anthya prathyaya:dhi:na: ithy ukthva: thad artham thraya:na:m upa:sana praka:ra bhe:dam vakthum upakramathe:| thathraisvarya:rthina:m upa:sana praka:ram yatho:pa:sanam anthya prathyaya praka:ram cha:ha---
Link copiedabhya:sa yo:ga yukthe:na che:thasa: na:nya ga:mina:|
Link copiedparamam purusham divyam ya:thi pa:rtha:nuchinthayan||8||
Link copiedaharahar abhya:sa yo:ga:bhya:m yukthathaya: na:nya ga:mina: che:thasa: antha ka:le: paramam purusham divyam ma:m vakshyama:na praka:ram chinthayan ma:m e:va ya:thy a:di bharatha mrugathva pra:pthivad aisvarya visishtathaya: math sama:na:ka:ro: bhavathi| abhya:so: nithya naimiththika:viruddhe:shu sarve:shu ka:le:shu manasa: upa:sya samsi:lanam, yo:gas thv aharahar yo:ga ka:le:'nushthi:yama:nam yatho:ktha lakshanam upa:sanam||8.8||
Link copiedkavim pura:nam anusa:sitha:ram
Link copiedano:r ani:ya:msam anusmare:d yah|
Link copiedsarvasya dha:tha:ram achinthya ru:pam
Link copieda:dithya varnam thamasah parastha:th||9||
Link copiedpraya:na ka:le: manasa:chale:na
Link copiedbhakthya: yuktho: yo:ga bale:na chaiva|
Link copiedbhruvo:r madhye: pra:nam a:ve:sya samyak
Link copiedsa tham param purusham upaithi divyam||10||
Link copiedkavim sarvajnam pura:nam pura:thanam anusa:sitha:ram visvasya prasa:sitha:ram ano:r ani:ya:msam ji:va:d api su:kshmatharam sarvasya dha:tha:ram sarvasya srashtaram achinthya ru:pam sakale:thara visaja:thi:ya svaru:pam a:dithya varnam thamasah parastha:th apra:krutha sva:sa:dha:rana divya ru:pam| tham e:vam bhu:tham aharahar abhyasyama:na bhakthi yuktha yo:ga bale:na a:ru:dha samska:rathaya: achale:na manasa: praya:na ka:le: bhruvo:r madhye: pra:nam a:ve:sya samstha:pya thathra bhruvo:r madhye: divyam purusham yo:'nusmare:th sa tham e:va upaithi thad bha:vam ya:thi, thath sama:naisvaryo: bhavathi:thy arthah||8.9-10||
Link copiedatha kaivalya:rthina:m smarana praka:ram a:ha---
Link copiedyad aksharam ve:da vido: vadanthi
Link copiedvisanthi yad yathayo: vi:tha ra:ga:h|
Link copiedyad ichchhantho: brahmacharyam charanthi
Link copiedthath the: padam sangrahe:na pravakshye:||11||
Link copiedyad aksharam asthu:lathva:di gunakam ve:da vido: vadanthi vi:tha ra:ga:s cha yathayo: yad aksharam visanthi yad aksharam pra:pthum ichchhantho: brahmacharyam charanthi thath the: padam sangrahe:na pravakshye:| padyathe: gamyathe:'ne:na ithi padam than nikhila ve:da:ntha ve:dyam math svaru:pam aksharam yatha: upa:syam thatha: sankshe:pe:na pravakshya:mi:thy arthah||8.11||
Link copiedsarva dva:ra:ni samyamya mano: hrudi nirudhya cha|
Link copiedmu:rdhny a:dha:ya:thmanah pra:nam a:sthitho: yo:ga dha:rana:m||12||
Link copiedsarva:ni sro:thra:di:ni:ndriya:ni jna:na dva:ra bhu:tha:ni samyamya sva vya:pa:re:bhyo: vinivarthya hrudaya kamala nivishte: mayy akshare: mano: nirudhya yo:ga:khya:m dha:rana:m a:sthitho: mayy e:va nischala:m sthithim a:sthithah||8.12||
Link copiedo:m ithy e:ka:ksharam brahma vya:haran ma:m anusmaran|
Link copiedyah praya:thi thyajan de:ham sa ya:thi parama:m gathim||13||
Link copiedo:m ithy e:ka:ksharam brahma mad va:chakam vya:haran va:chyam ma:m anusmaran a:thmanah pra:nam mu:rdhny a:dha:ya de:ham thyajan yah praya:thi sa ya:thi parama:m gathim prakruthi viyuktham math sama:na:ka:ram apunar a:vruththim a:thma:nam pra:pno:thi:thy arthah yah sa sarve:shu bhu:the:shu nasyathsu na vinasyathi|| avyaktho:'kshara ithy ukthas tham a:huh parama:m gathim| [8.20,21] ithy anantharam e:va vakshyathe:||8.12-13||
Link copiede:vam aisvarya:rthinah kaivalya:rthinas cha sva pra:pya:nuguno: bhagavad upa:sana praka:ra ukthah| atha jna:nino: bhagavad upa:sana praka:ram pra:pthi ka:ram cha:ha---
Link copiedananya che:tha:h sathatham yo: ma:m smarathi nithyasah|
Link copiedthasya:ham sulabhah pa:rtha nithya yukthasya yo:ginah||14||
Link copiednithyaso: ma:m udyo:ga prabhruthi sathatham sarva ka:lam ananya che:tha: yah smarathy athyartham math priyathve:na math smruthya: vina: a:thma dha:ranam alabhama:no: nirathisaya priyam ma:m yah smarathi thasya nithya yukthasya nithya yo:gam ka:nkshama:nasya yo:gino:'ham sulabho:'ham e:va pra:pyah| na mad bha:va aisvarya:dikah supra:pas cha| thad viyo:gam asahama:no:'ham e:va tham vrune:| math pra:pthy anuguno:pa:sana vipa:kam thad viro:dhi nirasanam athyartham math priyathva:dikam cha:ham e:va dada:mi:thy arthah| yam e:vaisha vrunuthe: the:na labhyah [mu.u. 3.2.3] ithi hi sru:yathe:| vakshyathe: cha---
Link copiedthe:sha:m sathatha yuktha:na:m bhajatha:m pri:thi pu:rvakam|
Link copieddada:mi buddhi yo:gam tham ye:na ma:m upaya:nthi the:||
Link copiedthe:sha:m e:va:nukampa:rtham aham ajna:na jam thamah|
Link copied
na:saya:my a:thma bha:va stho: jna:na di:pe:na bha:svatha:|| [10.10-11] ithi||8.14||
Link copiedathah param adhya:ya se:she:na jna:ninah kaivalya:rthinas cha:punar a:vruththim aisvarya:rthinah punar a:vruththim cha:ha---
Link copiedma:m upe:thya punar janma duhkha:layam asa:svatham|
Link copiedna:pnuvanthi maha:thma:nah samsiddhim parama:m gatha:h||15||
Link copiedma:m pra:pya punar nikhila duhkha:layam asthiram janma na pra:pnuvanthi yatha e:the: maha:thma:no: maha: manaso: yatha:vasthitha math svaru:pa jna:na: athyartha math priyathve:na maya: vina: a:thma dha:ranam alabhama:na: mayy a:saktha manaso: mad a:sraya: ma:m upa:sya parama samsiddhi ru:pam ma:m pra:ptha:h||8.15||
Link copiedaisvarya gathim pra:ptha:na:m bhagavantham pra:ptha:na:m cha punar a:vruththav apunar a:vruththau cha he:thum anantharam a:ha---
Link copieda: brahma bhuvana:l lo:ka:h punar a:varthino:'rjuna|
Link copiedma:m upe:thya thu kaunthe:ya punar janma na vidyathe:||16||
Link copiedbrahma lo:ka paryantha: brahma:ndo:dara varthinah sarve: lo:ka: bho:gaisvarya:laya:h punar a:varthino: vina:sinah| atha aisvarya gathim pra:ptha:na:m pra:pya stha:na vina:sa:d vina:sithvam avarjani:yam| ma:m sarva jnam sathya sankalpam nikhila jagad uthpaththi sthithi laya li:lam parama ka:runikam sadaika ru:pam pra:ptha:na:m vina:sa prasanga:bha:va:th the:sha:m punar janma na vidyathe:||8.16||
Link copiedbrahma lo:ka paryantha:na:m lo:ka:na:m thad anthar varthina:m cha parama purusha sankalpa krutha:m uthpaththi vina:sa ka:la vyavastha:m a:ha---
Link copiedsahasra yuga paryantham ahar yad brahmano: viduh|
Link copiedra:thrim yuga sahasra:ntha:m the:'ho: ra:thra vido: jana:h||17||
Link copiedye: manushya:di chathur makha:ntha:na:m math sankalpa krutha:ho: ra:thra vyavastha: vido: jana:h, the: brahmanas chathur mukhasya yad ahas chathur yuga sahasra:vasa:nam viduh, ra:thrim cha thatha: ru:pa:m||8.17||
Link copiedavyaktha:d vyakthayah sarva:h prabhavanthy ahar a:game:|
Link copiedra:thry a:game: prali:yanthe: thathraiva:vyaktha samjnake:||18||
Link copiedthathra brahmanah, ahar a:gama samaye: thrailo:kya:nthar varthinyo: de:he:ndriya bho:gya bho:ga stha:na ru:pa: vyakthas chathur mukha de:ha:vastha:d avyaktha:th prabhavanthi| thathraiva:vyaktha:vastha: vise:she: chathur mukha de:he: ra:thry a:gama samaye: prali:yanthe:||8.18||
Link copiedbhu:tha gra:mah sa e:va:yam bhu:thva: bhu:thva: prali:yathe:|
Link copiedra:thry a:game:'vasah pa:rtha prabhavathy ahar a:game:||19||
Link copiedsa e:va:yam karma vasyo: bhu:tha gra:mo:'har a:game: bhu:thva: bhu:thva: ra:thry a:game: prali:yathe: punar apy ahar a:game: prabhavathi| thatha: varsha: satha:vasa:na ru:pa yuga sahasra:nthe: brahma lo:ka paryantha: lo:ka: brahma: cha, pruthivi: apsu prali:yathe: a:pas the:jasi li:yanthe: ithy a:di krame:na:vyaktha:kshara thamah paryantham mayy e:va prali:yanthe:|
Link copiede:vam mad vyathirikthasya kruthsnasya ka:la vyavasthaya: maththa uthpaththe:r mayi pralaya:ch cha uthpaththi vina:sa yo:githvam avarjani:yam ithy aisvarya gathim pra:ptha:na:m punar a:vruththir apariha:rya:| ma:m upe:tha:na:m thu na punar a:vruththi prasangah||8.19||
Link copiedatha kaivalya pra:ptha:na:m api punar a:vruththir na vidyatha ithy a:ha---
Link copiedparas thasma:th thu bha:vo:'nyo:'vyaktho:'vyaktha:th sana:thanah|
Link copiedyah sa sarve:shu bhu:the:shu nasyathsu na vinasyathi||20||
Link copiedavyaktho:'kshara ithy ukthas tham a:huh parama:m gathim|
Link copiedyam pra:pya na nivarthanthe: thad dha:ma paramam mama||21||
Link copiedthasma:d avyaktha:d ache:thana prakruthi ru:pa:th purusha:rthathaya: para uthkrushto: bha:vo:'nyo: jna:naika:ka:rathaya: thasma:d visaja:thi:yo:'vyakthah ke:nachith prama:ne:na na vyajyatha ithy avyakthah sva samve:dya sa:dha:rana:ka:ra ithy arthah| sana:thana uthpaththi vina:sa:narhathaya: nithyah| yah sarve:shu viyad a:dishu bhu:the:shu sa ka:rane:shu sa ka:rye:shu vinasyathsu thathra thathra sthitho:'pi na vinasyathi so:'vyaktho:'kshara ithy ukthah| ye: thv aksharam anirde:syam avyaktham paryupa:sathe: [gi:tha: 12.3], ku:tastho:'kshara uchyathe: [gi:tha: 15.16] ithy a:dishu tham ve:da vidah parama:m gathim a:huh| ayam e:va yah praya:thi thyajan de:ham sa ya:thi parama:m gathim [gi:tha: 8.5] ithy athra parama gathi sabda nirdishto:'ksharah prakruthi samsarga viyuktha svaru:pe:na:vasthitha a:thma: ithy arthah|
Link copied[yam e:vam bhu:tham svaru:pe:na:vasthitham pra:pya na nivarthanthe: than mama paramam dha:ma paramam niyamana stha:nam| ache:thana prakruthir e:kam niyamana stha:nam, thath samsrushta ru:pa: ji:va prakruthir dvithi:yam niyamana stha:nam achith samsarga viyuktham svaru:pe:na:vasthitham muktha svaru:pam paramam niyamana stha:nam ithy arthah|]
Link copiedthach cha:punar a:vruththi ru:pam| athava: praka:sa va:chi: dha:ma sabdah, praka:sas che:ha jna:nam abhipre:tham prakruthi samsrushtath parichchhinna jna:na ru:pa:d a:thmano:'parichchhinna jna:na ru:pathaya: muktha svaru:pam param dha:ma||8.20-21]
Link copiedjna:ninah pra:pyam thu thasma:d athyantha vibhaktham ithy a:ha---
Link copiedpurushah sa parah pa:rtha bhakthya: labhyas thv ananyaya:|
Link copiedyasya:nthah stha:ni bhu:tha:ni ye:na sarvam idam thatham||22||
Link copiedmaththah paratharam na:nyath kinchidasthi dhanajaya|
Link copiedmayi sarvam idam pro:tham su:thre: manigana: iva|| [7.7]
Link copied
ma:m e:bhyah param avyayam [7.13] ithy a:dina: nirdishtasya yasya:nthah stha:ni sarva:ni bhu:tha:ni, ye:na cha pare:na purushe:na sarvam idam thatham sa para purusho: ananya che:tha:h sathatham [8.14] ithy ananyaya: bhakthya: labhyah|
Link copiedyathra ka:le: thv ana:vruththim a:vruththim chaiva yo:ginah|
Link copiedpraya:tha: ya:nthi tham ka:lam vakshya:mi bharatharshabha||23||
Link copiedagnir jyo:thir ahah suklah shan ma:sa: uththara:yanam|
Link copiedthathra praya:tha: gachchhanthi brahma brahma vido: jana:h||24||
Link copiedatha:thma ya:tha:thmya vidah parama purusha nishthasya cha sa:dha:rani:m archir a:dika:m gathim a:ha dvayo:r apy archir a:dika: gathih sruthau srutha:, sa: cha:punar a:vruththi lakshana:| thatha: pancha:gni vidya:ya:m thad ya iththam vidur ye: che:me:'ranye: sraddha: thapa ithy upa:sathe: the:'rchisham abhisambhavanthy archisho:'hah [chha:.u. 5.10.1] ithy a:dav archir a:dikaya: gathy a:gathasya para brahma pra:pthir apunar a:vruththis cho:ktha: sa e:na:n brahma gamayathi ... e:the:na prathipadyama:na: imam ma:navam a:vartham na:varthanthe: [chha:.u. 4.15.5] ithi|
Link copiedna cha praja:pathi va:kya:dau sruthi para vidya:nga bhu:tha:thma pra:pthi vishaye:yam--- thad ya iththam viduh ithi gathi sruthir, ye: che:me:'ranye: sraddha:m thapa ithyupa:sathe: [chha:.u. 5.10.1] ithi para vidya:ya:h pruthak sruthi vaiyarthya:th|
Link copiedpancha:gni vidya:ya:m cha ithi thu panchamya:m a:hutha:v a:pah purusha vachaso: bhavanthi [chha:.u. 5.9.1] ithi ramani:ya charana:h kapu:ya charana:h [chha:.u. 5.10.7] ithi punya pa:pa he:thuko: manushya:di bha:vo: apa:m e:va bhu:tha:nthara samsrushtana:m a:thmanas thu yath parishvanga ma:thram ithi chid achitho:r vive:kam abhidha:ya thad ya iththam viduh ... the:'rchisham abhisambhavanthi [chha:.u. 5.10.1], imam ma:navam a:vartham na:varthanthe: [chha:.u. 4.15.5] ithi vivikthe: chid achid vasthuni thya:jyathaya: pra:pyathaya: cha thad ya iththam vidus the:'rchira:dina: gachchhanthi na cha punar a:varthanthe: ithy uktham ithi gamyathe:|
Link copieda:thma ya:tha:thmya vidah parama purusha nishthasya cha sa e:na:n brahma gamayathi [chha:.u. 4.15.5] ithi brahma pra:pthi vachana:d achid viyuktham a:thma vasthu brahma:thmakathaya: brahma se:shathaika rasam ithy anusandhe:yam| thath krathu nya:ya:ch cha para se:shathaika rasathvam cha ya a:thmani thishthan yasya:thma: sari:ram [SaBra: 14.6.5.5.30] ithy a:di sruthi siddham|
Link copiedathra ka:la sabdo: ma:rgasya:hah prabhruthi samvathsara:ntha ka:la:bhima:ni de:vatha: bhu:yasthaya: ma:rgo:palakshana:rthah| yasmin ma:rge: praya:tha: yo:gino:'na:vruththim| punya karma:nas cha:vruththim ya:nthi, tham ma:rgam vakshya:mi:thy arthah| agnir jyo:thir ahah suklah shan ma:sa: uththara:yanam, ithi samvathsara:di:na:m pradarsanam||8.23-24||
Link copieddhu:mo: ra:thris thatha: krushnah shanma:sa: dakshina:yanam|
Link copiedthathra cha:ndramasam jyo:thir yo:gi: pra:pya nivarthathe:||25||
Link copiede:thach cha dhu:ma:di ma:rga stha pithru lo:ka:de:h pradarsanam| athra yo:gi sabda punya karma sambandhi vishayah||8.25||
Link copiedsukla krushne: gathi: hy e:the: jagathah sa:svathe: mathe:|
Link copiede:kaya: ya:thy ana:vruththim anyaya:varthathe: punah||26||
Link copiedsukla: gathir archir a:dika:| krushna: cha dhu:ma:dika:| suklaya:na:vruththim ya:nthi, krushnaya: thu punar a:varthanthe:| e:the: sukla krushne: gathi: jna:nina:m vividha:na:m punya karmana:m cha sruthau sa:svathe: mathe:| thad ya iththam vidur ye: che:me:'ranye: sraddha:m thapa ithy upa:sathe: the:'rchisham abhisambhavanthi [chha:.u. 5.10.1], atha ya ime: gra:me: ishta pu:rthe: daththam ithy upa:sathe: the: dhu:mam abhisambhavanthi [chha:.u. 5.10.3] ithi||8.26||
Link copiednaithe: sruthi: pa:rtha ja:nan yo:gi: muhyathi kaschana|
Link copiedthasma:th sarve:shu ka:le:shu yo:ga yuktho: bhava:rjuna||27||
Link copiede:thau ma:rgau ja:nan yo:gi: praya:na ka:le: kaschana na muhyathi| api thu sve:naiva de:va ya:ne:na patha: ya:thi| thasma:d aharahar archir a:di gathi chinthana:khya yo:ga yuktho: bhava||8.27||
Link copiedatha:dhya:ya dvayo:ditha sa:sthra:rtha ve:dana phalam a:ha---
Link copiedve:de:shu yajne:shu thapahsu chaiva
Link copiedda:ne:shu yath punya phalam pradishtam|
Link copiedathye:thi thath sarvam idam vidithva:
Link copiedyo:gi: param stha:nam upaithi cha:dyam||28||
Link copiedrug yajuh sa:ma:tharva ru:pa ve:da:bhya:sa yajna thapo: da:na prabhruthishu sarve:shu punye:shu yath phalam nirdishtam idam adhya:ya dvayo:ditham bhagavan ma:ha:thmyam vidithva: thath sarvam athye:thi e:thad ve:dana sukha:thire:ke:na thath sarvam thrunavath manyathe:| yo:gi: jna:ni: cha bhu:thva: jna:ninah pra:pyam param a:dyam stha:nam upaithi||8.28||
Link copiedithi sri:mad ra:ma:nuja:cha:rya virachithe: gi:tha: bha:shye:'shtamo:'dhya:yah ||8||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 8 — The Way to the Imperishable Parabrahma (in Sanskrit: Akshara-Parabrahma-Yo:ga)
Lecture VII established the nature of Parabrahma, Va:sude:va, as the Spiritual Sovereign (seshi:) of all entities, the Cause, the Support, the Governor, and the supremely exalted Being. It showed how matter's veil is removed by taking faithful refuge in Him, and it described three classes of devotees: the wealth-seeker (aisvarya:rthi:), the soul-seeker (jijna:su), and the God-seeker (jna:ni:). This chapter now explains what each of these three must know, how each must meditate at the hour of death, and the two cosmic paths — bright and dark — that souls travel after leaving the body.
Link copiedVerses 1–4 (Arjuna's questions; the Lord defines the terms)
Verse 8.1. — "O Purushoththama, what is Tad-Brahma? What is Adhya:thma? What is Karma? What is Adhibhu:tha and what is Adhidaiva?"
Link copiedVerse 8.2. — "Who is Adhiyajna in this body, Madhusu:dana, and how? And how are You known by the self-controlled at the time of departure?"
Link copiedArjuna asks what each of the three classes of aspirants must know to reach its ideal, and how, at the moment of death, the Lord is to be remembered.
Link copiedVerse 8.3. — "The supreme imperishable (akshara) is Brahma; nature (svabha:va) is called Adhya:thma; the act of emission by which beings are brought forth is called Karma."
Link copiedTad-Brahma here is the superior, indestructible soul-nature, paramam aksharam — the soul realized in its essence, disengaged from prakrithi. Adhya:thma is nature — the subtle elemental stuff with its deceptive tendencies that clings to the soul. Karma is the emissive act which results in bodies — the generative act. The soul-seeker must know akshara as what is to be sought, adhya:thma as what is to be rejected, and karma as what produces the bondage he dreads.
Link copiedVerse 8.4. — "Adhibhu:tha is the perishable nature; Adhidaiva is the Spirit (purusha) who enjoys; Adhiyajna in this body is Myself, O Best of beings."
Link copiedAdhibhu:tha is the subtle, perishable principles of sound, touch, color, taste, and smell, with their organs — that which the wealth-seeker contemplates for the refined enjoyments he desires. Adhidaiva is the Spirit that stands above the devas like Indra and Praja:pathi, enjoying delights far surpassing theirs. Adhiyajna is the Lord Himself, present in all the gods as their Indwelling Self, the true Receiver of every sacrifice — whom all three classes of devotees worship in all their acts of devotion.
Link copiedVerses 5–7 (The last thought determines the next state)
Verse 8.5. — "Whoever, at the hour of death, meditating on Me alone, casts off his body, reaches My state. No doubt of this."
Link copiedWhatever image is vivid in the imagination at the moment of death, that the soul becomes — as in the case of the great king Bharata, who by thinking of a deer at his death, was born as a deer, yet with the memory of his former life.
Link copiedVerse 8.6. — "With whatever thought, O Kaunteya, one leaves the body at the hour of death, that he becomes — the result of his constant brooding upon it."
Link copiedThe last thought is naturally of that which one has habitually dwelt on through life.
Link copiedVerse 8.7. — "Therefore at all times remember Me, and fight. With mind and intellect given to Me, you shall doubtless come to Me alone."
Link copiedBecause the last flash of consciousness will be what one has made habitual, Arjuna must meditate on the Lord unceasingly, even while performing the duties of his varna and a:srama. This is the most expedient method to secure the final remembrance.
Link copiedVerses 8–10 (Meditation of the wealth-seeker)
Verse 8.8. — "With mind unwandering, O Partha, and trained by practice, one reaches, by fervid recollection, the Divine Supreme Spirit (Paramapurusha)."
Link copiedDaily practice fixes the mind on the Lord and does not let it stray. With such a mind, at the moment of death, one thinks of the Paramapurusha-Divine and so becomes possessed of glory comparable to His.
Link copiedVerse 8.9. — "Whoever thinks on Him — the Omniscient, the Ancient, the Ruler, subtler than the subtle, Creator of all, of form inconceivable, of the color of the sun, beyond the darkness —"
Link copiedVerse 8.10. — "— with mind unwavering at the hour of death, united with bhakti, fortified by yoga, with pra:na drawn up between the brows, attains that Spirit, Divine."
Link copiedKavi — the Omniscient; Pura:na — the Primeval; Anusa:sitha: — the Law-giver; anor-ani:ya:msam — subtler than the subtlest soul; Creator of all; of transcendent form, sun-colored, beyond the dark of matter. Whoever, having strengthened his mind by daily loving meditation, draws the pra:na to the point between the brows at death and fixes thought on that Divine Spirit, attains to a state equal to divinity.
Link copiedVerses 11–13 (The meditation of the soul-seeker)
Verse 8.11. — "That Path which the Veda-knowers call the Imperishable (akshara), which desire-weaned ascetics (yatis) enter, for which seekers keep the vow of brahmacarya, I shall briefly declare to you."
Link copiedThat Path is the Path of akshara, the imperishable soul-nature.
Link copiedVerses 8.12–13. — "Stopping up all the gates of the senses, locking the mind in the heart, drawing the pra:na into the head, established in yoga-dha:rana:, and reciting the single syllable Om — the Brahma — whoever, intent on Me, casts off the body, reaches the supreme state."
Link copiedStopping the gates means withdrawing the senses from their objects. Locking the mind in the heart means directing loving thoughts towards the Lord, the Akshara, enthroned in the lotus of the heart. Om is the sign; the Lord is the Indicated. One who holds the pra:na in the head and departs thus attains the exalted state — the soul in its pure, matter-free essence, a state comparable to the Lord's own, from which there is no return.
Link copiedVerses 14–15 (The meditation of the God-seeker)
Verse 8.14. — "To that yogi:, O Partha, ever ambitious of eternal union, who with undivided mind constantly ponders on Me alone, I am easily attainable."
Link copiedHe ponders on the Lord because the Lord has become the Object of his impassioned love — so much so that the Lord's absence from thought jeopardizes his life. To such a jna:ni:, the Lord is easily accessible: not merely his state but the Lord Himself. For the Lord cannot bear the separation of His lovers from Him. He Himself elects the devotee, carries his meditation to fruition, wards off obstacles, and kindles the love that sustains it.
Link copiedVerse 8.15. — "Reaching Me, the noble souls who have attained the highest perfection do not return to rebirth — the transient home of sorrow."
Link copiedThose who reach Him do not return to that impermanent condition. They are maha:thma:s, enlightened to the true knowledge of His nature, bearing such fervid love that separation from Him is unbearable.
Link copiedVerses 16–22 (The returning cosmos and the Supreme Person who does not return)
Verse 8.16. — "All worlds, from the realm of Brahma: down, are subject to return, O Arjuna. But reaching Me, O Kaunteya, there is no more rebirth."
Link copiedAll worlds up to Brahma:'s own are appointed mansions for the enjoyment of material happiness, and all are perishable. But those who reach the Lord — Omniscient, True-willed, Most Merciful, Enduring — have no destruction and no re-incarnation.
Link copiedVerse 8.17. — "Those who know that Brahma:'s Day spans a thousand yugas and His Night a thousand yugas — they know Day and Night."
Link copiedVerse 8.18. — "At the coming of Day, all things manifest burst forth from the unmanifest; at the coming of Night, they disappear into the same unmanifest state."
Link copiedVerse 8.19. — "The same bonded multitude of beings, born again and again, vanishes helplessly with Night and reappears with Day."
Link copiedThese cycles — creation and dissolution — proceed from the Lord's will. At the close of a Day of Brahma:, all things resolve into the unmanifest; at the dawn of a new Day, the same beings emerge again, bound by karma.
Link copiedVerse 8.20. — "But higher than that unmanifest is another Unmanifest, eternal, which does not perish when all things perish."
Link copiedThis is the other, superior Unmanifest — the soul (a:thman), a principle self-conscious, characterized by intelligence, unique in nature, not subject to composition or dissolution.
Link copiedVerse 8.21. — "Called the Unmanifest, the Imperishable — they call this the supreme goal; reaching it, they do not return. That is My supreme abode (paramam dha:ma)."
Link copiedThis is a:thman in its pure, matter-free state — the Lord's superior realm over which He rules. Dha:ma may also mean luminosity: the state of soul with its consciousness no longer cramped by matter, shining in its freedom.
Link copiedVerse 8.22. — "Supreme is that Spirit, O Partha, attainable only by unswerving bhakti — in whom all beings dwell, by whom all this is pervaded."
Link copiedThis is the Purusha in whom all things reside, described earlier: "Nothing whatever higher than I exists," and "Like a row of gems strung on a string, all this is threaded by Me." He is accessible to exclusive devotion.
Link copiedVerses 23–28 (The two paths — arciradi and dhu:madhi)
Verse 8.23. — "At what time the yo:gi:s depart, returning or not returning, that I will tell you, O Bha:ratha-chief."
Link copiedVerse 8.24. — "Fire, light, day-time, the bright fortnight, the six months of the northern (solstitial) course — going forth thus, the Brahma-knowers go to Brahma."
Link copiedThis is the Bright Path, arciradi or deva-ya:na, presided over by the deities of these time-divisions. By this path one goes and does not return.
Link copiedVerse 8.25. — "Smoke, night, the dark fortnight, the six months of the southern course — by this the yogi: attains lunar light and returns."
Link copiedThis is the Dark Path, dhu:madhi or pithri-ya:na, the road through the realm of the Manes, by which merit-earners return.
Link copiedVerse 8.26. — "These two paths of the world — the Bright and the Dark — are eternally ordained. By the one is the non-returning state; by the other, return again."
Link copiedThe White Path is for both kinds of jna:ni:s (the soul-seeker and the God-seeker); the Black is for the merit-worker who earns material rewards.
Link copiedVerse 8.27. — "Knowing these paths, O Partha, no yogi: is deluded. Therefore at all times be united in yoga, O Arjuna."
Link copiedKnowing the paths, the yogi: is not confused at the hour of departure; he travels his rightful deva-ya:na.
Link copiedVerse 8.28. — "Whatever fruit is declared for Vedas, sacrifices, austerities, and gifts — the yogi: transcends them all by knowing this, and reaches the supreme primal abode."
Link copiedHe who knows the greatness of the Lord declared in these two chapters transcends every lesser reward; the bliss of such knowledge makes all such rewards seem trivial as a blade of grass. Becoming yogi:, jna:ni:, God-lover, he reaches the Supreme Abode — the home of all the saints.
Link copiedThus closes the eighth discourse, named Akshara-Parabrahma-Yo:ga — the Way to the Imperishable Parabrahma.
Link copied