Bhagavad Gita Bhashya · Section 10 of 19
atha navamo:'dhya:yah
Original Sanskrit · click to toggle
उपासक-भेद-निबन्धना विशेषाः प्रतिपादिताः। इदानीम् उपास्यस्य परम-पुरुषस्य माहात्म्यं। ज्ञानिनां च विशेषं विशोध्य भक्ति-रूपस्योपासनस्य स्वरूपम् उच्यते---
Link copiedइदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे।
Link copiedज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसेऽशुभात्॥१॥
Link copiedइदं तु ते गुह्यतमं भक्ति-रूपम् उपासनाख्यं ज्ञानं। विज्ञान-सहितम् उपासन-गति-विशेष-ज्ञान-सहितम्। अनसूयवे ते प्रवक्ष्यामि। मद्-विषयं सकलेतर-विसजातीयम् अपरिमित-प्रकारं माहात्म्यं श्रुत्वा एवम् एव सम्भवतीति मन्वानाय ते प्रवक्ष्यामीत्य् अर्थः। यज् ज्ञानम् अनुष्ठान-पर्यन्तं ज्ञात्वा मत्-प्राप्ति-विरोधिनः सर्वस्माद् अशुभान् मोक्ष्यसे॥९।१॥
Link copiedराज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम्।
Link copiedप्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम्॥२॥
Link copiedराज-विद्या विद्यानां राजा राज-गुह्यं गुह्यानां राजा। राज्ञां विद्येति वा राज-विद्या, राजानो हि विस्तीर्णागाध-मनसः, महा-मनसाम् इयं विद्या इत्य् अर्थः। महा-मनस एव गोपनीय-गोपन-कुशला इति तेषाम् एव गुह्यम् इदम्। उत्तमं पवित्रं मत्-प्राप्ति-विरोध्य्-अशेष-कल्मषापहं प्रत्यक्षावगमम्। अवगम्यत इत्य् अवगमो विषयः। प्रत्यक्ष-भूतोऽवगमो विषयो यस्य ज्ञानस्य तत् प्रत्यक्षावगमम्। भक्ति-रूपेणोपासनेन उपास्यमानोऽहं तदानीम् एव उपासितुः प्रत्यक्षताम् उपागतो भवामीत्य् अर्थः।
Link copiedअथापि धर्म्यं धर्माद् अनपेतं धर्मत्वं हि निःश्रेयस-साधनत्वम्। स्वरूपेण एवात्यर्थ-प्रियत्वेन तदानीम् एव मद्-दर्शनापादनतया च स्वयं निःश्रेयस-रूपम् अपि निरतिशय-निःश्रेयस-रूपात्यन्तिक-मत्-प्राप्ति--साधनम् इत्य् अर्थः। अत एव सुसुखं कर्तुं सुसुखोपादानम्, अत्यर्थप्रियत्वेन उपादेयम्। अव्ययम् अक्षयं मत्-प्राप्तिं साधयित्वापि स्वयं न क्षीयते। एवं-रूपम् उपासनं कुर्वतो मत्-प्रदाने कृतेऽपि न किञ्चित् कृतं मयास्येति मे प्रतिभातीत्य् अर्थः॥९।२॥
Link copiedअश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप।
Link copiedअप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि॥३॥
Link copiedअस्योपासनाख्यस्य धर्मस्य निरतिशय-प्रिय-मद्-विषयतया स्वयं निरतिशय-प्रिय-रूपस्य परम-निःश्रेयस-स्वरूप-मत्-प्राप्ति-साधनस्याव्ययस्य उपादान-योग्य-दशां प्राप्याश्रद्दधाना विश्वास-पूर्वक-त्वारा-रहिताः पुरुषा माम् अप्राप्य मृत्यु-रूपे संसार-वर्त्मनि नितरां वर्तन्ते। अहो ! महद् इदम् आश्चर्यम् इत्य् अर्थः॥९।३॥
Link copiedशृणु तावत् प्राप्य-भूतस्य ममाचिन्त्य-महिमानम्---
Link copiedमया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना।
Link copiedमत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः॥४॥
Link copiedइदं चेतनाचेतनात्मकं कृत्स्नं जगद् अव्यक्त-मूर्तिनाप्रकाशित-स्वरूपेण मयान्तर्यामिणा ततम्। अस्य जगतो धारणार्थं नियमनार्थम् च शेषित्वेन व्याप्तम् इत्य् अर्थः। यथा अन्तर्यामि-ब्राह्मणे यः पृथिव्यां तिष्ठन् \॥। यं पृथिवी न वेद [बृ।आ।उ। ३।७।३] य आत्मनि तिष्ठन् \॥। यम् आत्मा न वेद [शत्ब्र् १४।६।५।५।३०] इति चेतनाचेतन-वस्तु-जातैर् अदृष्टेनान्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता।
Link copiedततो मत्-स्थानि सर्व-भूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि, तत्रैव ब्राह्मणे यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति [बृ।आ।उ। ३।७।३], यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति [शत्ब्र् १४।६।६।५।३०] इति शरीरत्वेन नियाम्यत्व-प्रतिपादनात्। तदायत्ते स्थिति-नियमने प्रतिपादिते शेषित्वं च, न चाहं तेष्व् अवस्थितोऽहं तु न तदायत्त-स्थितिः। मत्-स्थितौ तैर् न कश्चिद् उपकार इत्य् अर्थः॥९।४॥
Link copiedन च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम्।
Link copiedभूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः॥५॥
Link copiedन च मत्-स्थानि भूतानि न घटदीनां जलादेर् इव मम धारकत्वम्। कथम्। मत्-सङ्कल्पेन। पश्य ममैश्वरं योगम्। अन्यत्र कुत्रचिद् असम्भवनीयं मद्-असाधारणम् आश्चर्यं योगं पश्य। कोऽसौ योगः। भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः। सर्वेषां भूतानां भर्ताहं न च तैः कश्चिद् अपि ममोपकारः। ममात्मैव भूत-भावनः। मम मनो-मयः सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च॥९।५॥
Link copiedसर्वस्यास्य स्व-सङ्कल्पायत्त-स्थिति-प्रवृत्तित्वे निदर्शनम् आह---
Link copiedयथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान्।
Link copiedतथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय॥६॥
Link copiedयथाकाशेऽनालम्बने महान् वायुः स्थितः सर्वत्र गच्छति। स तु वायुर् निरालम्बनो मद्-आयत्त-स्थितिर् इत्य् अवश्याभ्युपगमनीयो मयैव धृत इति विज्ञायते, तथैव सर्वाणि भूतानि तैर् अदृष्टो मयि स्थितानि मयैव धृतानीत्य् उपधारय।
Link copiedयथाहुः वेद-विदः--- मेघोदयः सागर-सन्निवृत्तिर् इन्दोर् विभागः स्फुरितानि वायोः। विद्युद्-विभङ्गो गतिर् उष्ण-रश्मेर् विष्णोर् विचित्राः प्रभवन्ति मायाः॥ इति विष्णोर् अनन्य-साधारणानि महाश्चर्याणीत्य् अर्थः। श्रुतिर् अपि--- एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः [बृ।आ।उ। ३।८।९]
Link copiedभीषास्माद् वातः पवते भीषोदेति सूर्यः।
Link copiedभीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः [तै।उ। २।८।१]
Link copiedइत्य्-आदिका॥९।६॥
Link copiedसकलेतर-निरपेक्षस्य भगवतः सङ्कल्पात् सर्वेषां स्थितिः प्रवृत्तिश् चोक्तास् तथा तत्-सङ्कल्पाद् एव सर्वेषाम् उत्पत्ति-प्रलयव् अपि, इत्य् आह---
Link copiedसर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।
Link copiedकल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम्॥७॥
Link copiedस्थावर-जङ्गमात्मकानि सर्वाणि भूतानि मामिकां मच्-छरीर-भूतां प्रकृतिं तमः-शब्द-वाच्यां नाम-रूप-विभागानर्हां कल्प-क्षये चतुर्-मुखावसान-समये मत्-सङ्कल्पाद् यान्ति। तान्य् एव भूतानि कल्पादौ पुनर् विसृजाम्य् अहम्। यथाह मनुः--- आसीद् इदं तमो-भूतम् [मनु १।५] सोऽभिध्याय शरीरात् स्वात् [मनु १।८] इति श्रुतिर् अपि--- यस्याव्यक्तं शरीरम् [सु।उ। ७] इत्य्-आदिका, अव्यक्तम् अक्षरे लीयतेऽक्षरं तमसि लीयते, तमः परे देवे एकीभवति [सु।उ। २] तम आसीत् तमसा गूढम् अग्रे प्रकेतम् [ऋग्।वे। ८।७।१७।३] इति च॥९।७॥
Link copiedप्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः।
Link copiedभूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात्॥८॥
Link copiedस्वकीयां विचित्र-परिणामिनीं प्रकृतिम् अवष्टभ्याष्टधा परिणमय्य इमं चतुर्-विधं देव-तिर्यङ्-मनुष्य-स्थावरात्मकं भूत-ग्रामं मदीयाया मोहिन्याः गुण-मय्याः प्रकृतेः वशाद् अवशं पुनः पुनः काले काले विसृजामि॥९।८॥
Link copiedएवं तर्हि विषम-सृष्ट्य्-आदीनि कर्माणि नैर्घृण्याद्य्-आपादनेन भगवन्तं बध्नन्तीति। अत्राह---
Link copiedन च मां तानि कर्माणि निबध्नन्ति धनञ्जय।
Link copiedउदासीनवद् आसीनम् असक्तं तेषु कर्मसु॥९॥
Link copiedन च तानि विषम-सृष्ट्य्-आदीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यतः क्षेत्र-ज्ञानां पूर्व-कृत्यान्य् एव कर्माणि देवादि-विषम-भाव-हेतवः। अहं तु तत्र वैषम्येऽसक्तस् तत्र उदासीनवद् आसीनः। यथाह सूत्र-कारः--- वैषम्य-नैर्घृण्ये न सापेक्षत्वात् [वे।सू। २।१।३४] न कर्माविभागाद् इति चेन् नानादित्वात् [वे।सू। २।१।३५] इति॥९।९॥
Link copiedमयाध्यक्षेण प्रकृतिः सूयते स-चराचरम्।
Link copiedहेतुनानेन कौन्तेय जगद् विपरिवर्तते॥१०॥
Link copiedतस्मात् क्षेत्रज्ञ-कर्मानुगुणं मदीया प्रकृतिः सत्य-सङ्कल्पेन मयाध्यक्षेणेक्षिता स-चराचरं जगत् सूयते, अनेन क्षेत्रज्ञ-कर्मानुगुण-मद्-ईक्षणेन हेतुना जगद् विपरिवर्तते। इति मत्-स्वाम्यं सत्य-सङ्कल्पत्वं नैर्घृण्यादि-दोष-रहितत्वम् इत्य् एवम् आदिकं मम वसुदेव-सूनोर् ऐश्वरं योगं पश्य। यथा श्रुतिः---
Link copiedअस्मान् मायी सृजते विश्वम् एतत्
Link copiedतस्मिंश् चान्यो मायया सन्निरूद्धः।
Link copiedमायां तु प्रकृतिं विद्यान्
Link copiedमायिनं तु महेश्वरम्॥ [श्वे।उ। ४।९-१०] इति॥९।१०॥
Link copied
अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम्।
Link copiedपरं भावम् अजानन्तो मम भूत-महेश्वरम्॥११॥
Link copiedएवं मां भूत-महेश्वरं सर्वज्ञं सत्य-सङ्कल्पं निखिल-जगद्-एक-कारणं परम-कारुणिकतया सर्व-समाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्व-कृतैः पाप-कर्मभिर् मूढा अवजानन्ति--- प्राकृत-मनुष्य-समं मन्यन्ते। भूत-महेश्वरस्य ममापार-कारुण्यौदार्य-सौशील्य-वात्सल्यादि-निबन्धनं मनुष्यत्व-समाश्रयण-लक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्व-समाश्रयण-मात्रेण माम् इतर-सजातीयं मत्वा तिरस्कुर्वन्तीत्य् अर्थः॥९।११॥
Link copiedमोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः।
Link copiedराक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥१२॥
Link copiedमम मनुष्यत्वे परम-कारुण्यादि-परत्व-तिरोधान-करीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः, मोघाशाः मोघ-वाञ्छिता निष्फल-वाञ्छिताः, मोघ-कर्माणो मोघारम्भाः। मोघ-ज्ञानाः सर्वेषु मदीयेषु चराचरेष्व् अर्थेषु मयि च विपरीत-ज्ञानतया निष्फल-ज्ञानाः। विचेतसस् तथा सर्वत्र विगत-याथात्म्य-ज्ञानाः, मां सर्वेश्वरम् इतर-समं मत्वा मयि यत् कर्तुम् इच्छन्ति, यद् उद्दिश्य आरम्भान् कुर्वते, तत् सर्वं मोघं भवतीत्य् अर्थः॥९।१२॥
Link copiedमहात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः।
Link copiedभजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम्॥१३॥
Link copiedये तु स्व-कृतैः पुण्य-सचयैर् मां शरणम् उपगम्य विध्वस्त-समस्त-पाप-बन्धा दैवीं प्रकृतिम् आश्रिताः महात्मानस् ते, भूतादिम् अव्ययं वाङ्-मानसागोचर-नाम-कर्म-स्वरूपं परम-कारुणिकतया साधु-परित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा अनन्य-मनसः मां भजन्ते। मत्-प्रियत्वातिरेकेण मद्-भजनेन विना मनसश् चात्मनश् च बाह्य-करणानां च धारणम् अलभमानाः, मद्-भजनैक-प्रयोजना भजन्ते॥९।१३॥
Link copiedसततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः।
Link copiedनमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते॥१४॥
Link copiedअत्यर्थं मत्-प्रियत्वेन मत्-कीर्तन-यतन-नमस्कारैर् विना क्षणाणु-मात्रेऽप्य् आत्म-धारणम् अलभमाना मद्-गुणाविशेष-वाचीनि मन्-नामानि स्मृत्वा पुलकाञ्चित-सर्वाङ्गाः, हर्ष-गद्गद-कण्ठाः श्री-राम-नारायण-कृष्ण-वासुदेवेत्य् एवम् आदीनि सततं कीर्तयन्तस् तथैव यतन्तो मत्-कर्मस्व् अर्चनादिकेषु वन्दन-स्तवन-करणादिकेषु तद्-उपकारकेषु भवन-नन्दन-वन-करणादिकेषु च दृढ-सङ्कल्पा यतमानाः, भक्ति-भारावनमित-मनो-बुद्ध्य्-अभिमान-पद-द्वय-कर-द्वय-शिरोभिर् अष्टङ्गैर् अचिन्तित-पांसु-कर्दम-शर्करादिके धरा-तले दण्डावत् प्रणिपतन्तः, सततं मां नित्य-युक्ता नित्य-योगम् आकाङ्क्षमाणा आत्मवन्तो मद्-दास्य-व्यवसायिन उपासते॥९।१४॥
Link copiedज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते।
Link copiedएकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम्॥१५॥
Link copiedअन्येऽपि महात्मानः पूर्वोक्तैः कीर्तनादिभिर् ज्ञानाख्येन यज्ञेन च यजन्तो माम् उपासते, कथम्। बहुधा पृथक्त्वेन जगद्-आकारेण विश्वतो-मुखं विश्व-प्रकारम् अवस्थितं माम् एकत्वेनोपासते। एतद् उक्तं भवति--- भगवान् वासुदेव एव नाम-रूप-विभागानर्हातिसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः सन् सत्य-सङ्कल्पो विविध-विभक्त-नाम-रूप-स्थूल-चिद्-अचिद्-वस्तु-शरीरः स्याम् इति सङ्कल्प्य, स एक एव देव-तिर्यङ्-मनुष्य-स्थावराख्य-विचित्र-जगच्-छरीरोऽवतिष्ठते इत्य् अनुसन्दधानाश् च माम् उपासते इति॥९।१५॥
Link copiedतथा हि विश्व-शरीरोऽहम् एवावस्थितः, इत्य् आह---
Link copiedअहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम्।
Link copiedमन्त्रोऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम्॥१६॥
Link copiedअहं क्रतुर् अहं ज्योतिष्टोमादिक-क्रतुर् अहम् एव यज्ञो महा-यज्ञोऽहम् एव स्वधा पितृ-गण-पुष्टि-दायिनी औषधं हविश् चाहम् एव। अहम् एव च मन्त्रोऽहम् एवाज्यम्। प्रदर्शनार्थम् इदम्, सोमादिकं च हविर् अहम् एवेत्य् अर्थः। अहम् आहवनीयादिकोऽग्निर् होमश् चाहम् एव॥९।१६॥
Link copiedपिताहम् अस्य जगतो माता धाता पितामहः।
Link copiedवेद्यं पवित्रम् ओङ्कार ऋक् साम यजुर् एव च॥१७॥
Link copiedअस्य स्थावर-जङ्गमात्मकस्य जगतस् तत्र तत्र पितृत्वेन मातृत्वेन धातृत्वेन पितामहत्वेन च वर्तमानोऽहम् एव। अत्र धातृ-शब्दो मातृ-पितृ-व्यतिरिक्ते उत्पत्ति-प्रयोजके चेतन-विशेषे वर्ते। यत् किञ्चिद् वेद-वेद्यं पवित्रं पावनं तद् अहम् एव। वेदकश् च वेद-बीज-भूतः प्रणवोऽहम् एव। ऋक्-साम-यजुर्-आत्मको वेदश् चाहम् एव॥९।१७॥
Link copiedगतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्।
Link copiedप्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम्॥१८॥
Link copiedगम्यत इति गतिः, तत्र तत्र प्राप्य-स्थानम् इत्य् अर्थः। भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्-द्रष्ट, निवासो वास-स्थानं च वेश्मादि, शरणम् इष्टस्य प्रापकतयानिष्टस्य निवारणतया समाश्रयणीयश् चेतनः शरणम्, स चाहम् एव सुहृत् हितैषी, प्रभव-प्रलय-स्थानं यस्य कस्यचिद् यत्र कुत्रचित् प्रभव-प्रलययोः यत् स्थानं तद् अहम् एव। निधानं निधीयत इति निधानम्। उत्पाद्यम् उपसंहार्यं चाहम् एव इत्य् अर्थः। अव्ययं बीजं तत्र तत्र व्यय-रहितं यत् कारणं तद् अहम् एव॥९।१८॥
Link copiedतपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च।
Link copiedअमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन॥१९॥
Link copiedअग्न्यादित्य्-आदि-रूपेणाहम् एव तपामि, ग्रीष्मादाव् अहम् एव वर्षं निगृह्णामि तथा वर्षास्व् अपि चाहम् एव उत्सृजामि। अमृतं चैव मृत्युश् च येन जीवति लोको येन च म्रियते, तद् उभयम् अप्य् अहम् एव। किम् अत्र बहुनोक्तेन। सद् असच् चाप्य् अहम् एव। सद् यद् वर्तते, असद् यद् अतीतम् अनागतं च, सर्वावस्थावस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत्-तत्-प्रकारो ऽहम् एवावस्थित इत्य् अर्थः। एवं बहुधा पृथक्त्वेन विभक्त-नाम-रूपावस्थित-कृत्स्न-जगच्-छरीरतया तत्-प्रकारोऽहम् एवावस्थित इत्य् एकत्व-ज्ञानेनानुसन्दधानाश् च माम् उपासते त एव महात्मानः॥९।१९॥
Link copiedएवं महात्मनां ज्ञानिनां भगवद्-अनुभवैक-भोगानां वृत्तम् उक्त्वा तेषाम् एव विशेषं दर्शयितुम् अज्ञानां काम-कामानां वृत्तम् आह---
Link copiedत्रैविद्या मां सोमपाः पूत-पापा
Link copiedयज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते।
Link copiedते पुण्यम् आसाद्य सुरेन्द्र-लोकम्
Link copiedअश्नन्ति दिव्यान् दिवि देव-भोगान्॥२०॥
Link copiedऋग्-यजुः सामरूपास् तिस्रो विद्यास् त्रि-विद्यम्, केवलं त्रि-विद्य-निष्ठास् त्रैविद्याः। न तु त्रय्य्-अन्तं निष्ठाः, त्रय्य्-अन्त-निष्ठा हि महात्मानः पूर्वोक्त-प्रकारेणाखिल-वेद-वेद्यं माम् एव ज्ञात्वा अतिमात्र-मद्-भक्ति-कारित-कीर्तनादिभिर् ज्ञान-यज्ञेन च मद्-एक-प्राप्या माम् एवोपासते। त्रैविद्यास् तु वेद-प्रतिपाद्य-केवलेन्द्रादि-याग-शिष्ट-सोमान् पिबन्तः पूत-पापाः स्वर्गादि-प्राप्ति-विरोधि-पापात् पूतास् तैः केवलेन्द्रादि-दैवत्यतयानुसंहितैर् यज्ञैर् वस्तुतस् तद्-रूपं माम् इष्ट्वा तथावस्थितं माम् अजानन्तः स्वर्ग-गतिं प्रार्थयन्ते। ते पुण्यं दुःखासम्भिन्नं सुरेन्द्र-लोकं प्राप्य तत्र तत्र दिव्यान् देव-भोगान् अश्नन्ति॥९।२०॥
Link copiedते तं भुक्त्वा स्वर्ग-लोकं विशालं
Link copiedक्षीणे पुण्ये मर्त्य-लोकं विशन्ति।
Link copiedएवं त्रयी-धर्मम् अनुप्रपन्ना
Link copiedगतागतं काम-कामा लभन्ते॥२१॥
Link copiedते तं विशालं स्वर्ग-लोकं भुक्त्वा तद्-अनुभव-हेतु-भूते पुण्ये क्षीणे पुनर् अपि मर्त्य-लोकं विशन्ति। एवं त्रय्य्-अन्त-सिद्ध-ज्ञान-विधुराः काम्य-स्वर्गादि-कामाः केवलं त्रयी-धर्मम् अनुप्रपन्ना गतागतं लभन्ते। अल्पास्थिर-स्वर्गादीन् अनुभूय पुनः पुनः निवर्तन्त इत्य् अर्थः॥९।२१॥
Link copiedमहात्मानस् तु निरतिशय-प्रिय-रूपं मच्-चिन्तनं कृत्वा माम् अनवधिकातिशयानन्दं प्राप्य न पुनर् आवर्तन्त इति तेषां विशेषं दर्शयति---
Link copiedअनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते।
Link copiedतेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम्॥२२॥
Link copiedअनन्या अनन्य-प्रयोजना मच्-चिन्तनेन विनात्म-धारणा-लाभान् मच्-चिन्तनैक-प्रयोजना मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्व-कल्याण-गुणान्वितं सर्व-विभूति-युक्तं मां परित उपासतेऽन्यूनम् उपासते तेषां नित्याभियुक्तानां मयि नित्याभियोगं काङ्क्षमाणानाम् अहं मत्-प्राप्ति-लक्षणं योगम् अपुनर्-आवृत्ति-रूपं क्षेमं च वहामि॥९।२२॥
Link copiedयेऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः।
Link copiedतेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम्॥२३॥
Link copiedयेऽप्य् अन्य-देवता-भक्ता ये त्व् इन्द्रादि-देवता-भक्ताः केवल-त्रयी-निष्ठाः श्रद्धयान्विताः इन्द्रादीन् यजन्ते, तेऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्-छरीरतया मद्-आत्मत्वेन इन्द्रादि-शब्दानां च मद्-वाचित्वाद् वस्तुतो माम् एव यजन्तेऽपि त्व् अविधि-पूर्वकं यजन्ते। इन्द्रादीनां देवतानां कर्मस्व् आराध्यतया अन्वयं यथा वेदान्त-वाक्यानि चतुर्-होतारो यत्र सम्पदं गच्छन्ति देवैः [तै।आ। ४] इत्य् आदीनि विदधति, न तत्-पूर्वकं यजन्ते। वेदान्त-वाक्य-जातं हि परम-पुरुष-शरीरतयावस्थितानाम् इन्द्रादीनाम् आराध्यत्वं विदधद् आत्म-भूतस्य परम-पुरुषस्यैव साक्षाद् आराध्यत्वं विदधाति।
Link copiedचतुर्होतारोऽग्निहोत्र-दर्श-पौर्णमासादीनि कर्माणि कुर्वाणा यत्र परमात्मन्य् आत्मतया अवस्थिते सत्य् एव तच्-छरीर-भूतैर् इन्द्रादि-देवैः सम्पदं गच्छन्ति, इन्द्रादि-देवानाम् आराधनानि एतानि कर्माणि मद्-विषयाणीति मां सम्पदं गच्छन्तीत्य् अर्थः॥९।२३॥
Link copiedअतस् त्रैविद्या इन्द्रादि-शरीरस्य परम-पुरुषस्याराधनान्य् एतानि कर्माणि। आराध्यश् च स एवेति न जानन्ति। ते च परिमित-फल-भागिनश् च्यवन-स्वभावाश् च भवन्ति, तद् आह---
Link copiedअहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च।
Link copiedन तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते॥२४॥
Link copiedप्रभुर् एव च तत्र तत्र फल-प्रदाता चाहम् एवेत्य् अर्थः॥९।२४॥
Link copiedअहो महद् इदं वैचित्र्यं यद् एकस्मिन्न् एव कर्मणि वर्तमानाः सङ्कल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनश् च्यवन-स्वभावाश् च भवन्ति, केचनानवधिकातिशयानन्द-परम-पुरुष-प्राप्ति-रूप-फल-भागिनोऽपुनर्-आवर्तिनश् च भवन्ति, इत्य् आह---
Link copiedयान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः।
Link copiedभूतानि यान्ति भूतेज्या यान्ति मद्-याजिनोऽपि माम्॥२५॥
Link copiedव्रत-शब्दः सङ्कल्प-वाची, देव-व्रताः दर्श-पौर्णमासादिभिः कर्मभिर् इन्द्रादीन् यजामः, इतीन्द्रादि-यजन-सङ्कल्पाः। ये त इन्द्रादि-देवान् यान्ति। ये च पितृ-यज्ञादिभिः पितॄन् यजामः, इति पितृ-यजन-सङ्कल्पाः, ते पितॄन् यान्ति। ये च यक्ष-रक्षः पिशाचादीनि भूतानि यजामः, इति भूत-यजन-सङ्कल्पाः, ते भूतानि यान्ति। ये तु तैर् एव यज्ञैर् देव-पितृ-भूत-शरीरकं परमात्मानं भगवन्तं वासुदेवं यजाम इति मां यजन्ते ते मद्-याजिनो माम् एव यान्ति। देवादि-व्रता देवादीन् प्राप्य तैः सह परिमितं भोगं भुक्त्वा तेषां विनाश-काले तैः सह विनष्टा भवन्ति। मद्-याजिनस् तु माम् अनादि-निधनं सर्वज्ञं सत्य-सङ्कल्पम् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-महोदधिम् अनवधिकातिशयानन्दं प्राप्य न पुनर् निवर्तन्त इत्य् अर्थः॥९।२५॥
Link copiedमद्-याजिनाम् अयम् अपि विशेषोऽस्तीत्य् आह---
Link copiedपत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति।
Link copiedतद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः॥२६॥
Link copiedसर्व-सुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छत्य् अत्यर्थ-मत्-प्रियतया तत्-प्रदानेन विना आत्म-धारणम् अलभमानतया तद्-एक-प्रयोजनो यो मे पत्रादिकं ददाति तस्य प्रयतात्मनस् तत्-प्रदानैक-प्रयोजनत्व-रूप-शुद्धि-युक्त-मनसस् तत् तथा-विध-भक्त्य्-उपहृतम् अहं सर्वेश्वरो निखिल-जगद्-उदय-विभव-लय-लीलोऽवाप्त-समस्त-कामः सत्य-सङ्कल्पोऽनवधिकातिशयासङ्ख्ये-कल्याण-गुण-गणः स्वाभाविकानवधिकातिशयानन्द-स्वानुभवे वर्तमानोऽपि, मनोरथ-पथ-दूरवर्ति प्रियं प्राप्य इवाश्नामि। यथोक्तं मोक्ष-धर्मे---
Link copiedयाः क्रियाः सम्प्रयुक्ताः स्युर्
Link copiedएकान्त-गत-बुद्धिभिः।
Link copiedताः सर्वाः शिरसा देवः
Link copiedप्रतिगृह्णाति वै स्वयम्॥ [म।भा। १२।३४०।६४] इति॥९।२६॥
Link copied
यस्माज् ज्ञानिनां महात्मनां वाङ्-मनसागोचरोऽयं विशेषस् तस्मात् त्वं च ज्ञानी भूत्वा उक्त-लक्षण-भक्ति-भारावनतात्मात्मीयः कीर्तन-यतनार्चन-प्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्य-नैमित्तिकं कर्म चेत्थं कुर्व् इत्य् आह---
Link copiedयत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत्।
Link copiedयत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम्॥२७॥
Link copiedयद् देह-यात्रादि-शेष-भूतं लौकिकं कर्म करोषि, यच् च देह-धारणायाश्नासि, यच् च वैदिकं होम-दान-तपः-प्रभृति नित्य-नैमित्तिकं कर्म करोषि, तत् सर्वं मद्-अर्पणं कुरुष्व। अर्प्यत इत्य् अर्पणम्, सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम् आराध्यत्वं च यथा मयि सर्वं समर्पितं भवति तथा कुरु।
Link copiedएतद् उक्तं भवति--- याग-दानादिष्व् आराध्यतया प्रतीयमानानां देवादीनां कर्म-कर्तुर् भोक्तुस् तव च मदीयतया मत्-सङ्कल्पायत्त-स्वरूप-स्थिति-प्रवृत्तितया च मय्य् एव परम-शेषिणि परम-कर्तरि त्वां च कर्तारं भोक्तारम् आराधकम् आराध्यं च देवता-जातम् आराधनं च क्रिया-जातं सर्वं समर्पय। तव मन्-नियाम्यता-पूर्वक-मच्-छेषतैक-रसताम् आराध्यादेश् च एतत्-स्वभावक-गर्भताम् अत्यर्थ-प्रीति-युक्तोऽनुसन्धत्स्व इति॥९।२७॥
Link copiedशुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः।
Link copiedसन्न्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि॥२८॥
Link copiedएवं सन्न्यासाख्य-योग-युक्त-मना आत्मानं मच्-छेषता-मन्-नियाम्यतैक-रसं कर्म च सर्वं मद्-आराधनम् अनुसन्दधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभ-फलैर् अनन्तैः प्राचीन-कर्माख्यैर् बन्धनैर् मत्-प्राप्ति-विरोधिभिः सर्वैः मोक्ष्यसे, तैर् विमुक्तो माम् एवोपैष्यसि॥९।२८॥
Link copiedममेमं परमम् अतिलोकं स्वभावं सृणु---
Link copiedसमोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः।
Link copiedये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम्॥२९॥
Link copiedदेव-तिर्यङ्-मनुष्य-स्थावरात्मना स्थितेषु जातितश् चाकारतः स्वभावतो ज्ञानतश् चात्यन्तोत्कृष्टापकृष्ट-रूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वेन समोऽहम्। अयं जात्याकार-स्वभाव-ज्ञानादिभिर् निकृष्ट इति समाश्रयणे न मे द्वेष्योऽस्त्य् उद्वेजनीयतया न त्याज्योऽस्ति। तथा समाश्रितत्वातिरेकेण जात्य्-आदिभिर् अत्यन्तोत्कृष्टोऽयम् इति तद्-युक्ततया समाश्रयणे न कश्चित् प्रियोऽस्ति न सङ्ग्राह्योऽस्ति।
Link copiedअपि त्व् अत्यर्थ-मत्-प्रियत्वेन मद्-भजनेन विनात्म-धारणालाभान् मद्-भजनैक-प्रयोजना ये मां भजन्ते ते जात्य्-आदिभिर् उत्कृष्टा अपकृष्टा वा मत्-समान-गुणवद् यथा-सुखं मय्य् एव वर्तन्ते। अहम् अपि तेषु मद्-उत्कृष्टेष्व् इव वर्ते॥९।२९॥
Link copiedअपि चेत् सुदुराचारो भजते माम् अनन्य-भाक्।
Link copiedसाधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः॥३०॥
Link copiedतत्रापि तत्र तत्र जाति-विशेषे जातानां यः समाचार उपादेयः परिहरणीयश् च, तस्माद् अतिवृत्तोऽप्य् उक्त-प्रकारेण माम् अनन्य-भाग् भजनैक-प्रयोजनो भजते चेत् साधुर् एव स वैष्णवाग्रेसर एव मन्तव्यः, बहु-मन्तव्यः पूर्वोक्तैः सम इत्य् अर्थः। कुत एतत्। सम्यग् व्यवसितो हि सः, यतोऽस्य व्यवसायः सुसमीचीनः।
Link copiedभगवान् निखिल-जगद्-एक-कारण-भूतः पर-ब्रह्म नारायणश् चराचर-पतिर् अस्मत्-स्वामी मम गुरुर् मम सुहृन् मम परं भोग्यम् इति सर्वैर् दुष्प्रापोऽयं व्यवसायस् तेन कृतः, तत्-कार्यं चानन्य-प्रयोजनं निरन्तर-भजनं तस्यास्ति, अतः साधुर् एव बहु-मन्तव्यः।
Link copiedअस्मिन् व्यवसाये तत्-कार्ये चोक्त-प्रकार-भजने सम्पन्ने सति तस्य आचार-व्यतिक्रमः स्वल्प-वैकल्यम् इति न तावता अनादरणीयः, अपि तु बहु-मन्तव्य एवेत्य् अर्थः॥९।३०॥
Link copiedननु---
Link copiedनाविरतो दुश्चरितान् नाशान्तो नासमाहितः।
Link copiedनाशान्त-मानसो वापि प्रज्ञानेनैनम् आप्नुयात्॥ [क।उ। १।२।२४]
Link copied
इत्य्-आदि-श्रुतेः आचार-व्यतिक्रम उत्तरोत्तर-भजनोत्पत्ति-प्रवाहं निरुणाद्धीत्य् अत्राह---
Link copiedक्षिप्रं भवति धर्मात्मा शश्वच्-छान्तिं निगच्छति।
Link copiedकौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥३१॥
Link copiedमत्-प्रियत्व-कारितानन्य-प्रयोजन-मद्-भजनेन विधूत-पापतयैव स-मूलोन्मूलित-रजस्-तमो-गुणः क्षिप्रं धर्मात्मा भवति क्षिप्रम् एव विरोधि-रहित-स-परिकर-मद्-भजनैक-मना भवति। एवं-रूप-भजनम् एव हि धर्मस्यास्य परन्तप [९।३] इत्य् उपक्रमे धर्म-शब्दोदितः।
Link copiedशश्वच्-छान्तिं निगच्छति। शाश्वतीम् अपुनर्-आवर्तिनीं मत्-प्राप्ति-विरोध्य्-आचार-निवृत्तिं गच्छति। कौन्तेय ! त्वम् एवास्मिन् अर्थे प्रतिज्ञां कुरु मद्-भक्तौ उपक्रान्तो विरोध्य्-आचार-मिश्रोऽपि न नश्यत्य् अपि तु मद्-भक्ति-माहात्म्येन सर्वं विरोधि-जातं नाशयित्वा शाश्वतीं विरोधि-निवृत्तिम् अधिगम्य क्षिप्रं परिपूर्ण-भक्तिर् भवति॥९।३१॥
Link copiedमां हि पार्थ व्यपाश्रित्य येऽपि स्युः पाप-योनयः।
Link copiedस्त्रियो वैश्यास् तथा शूद्रास् तेऽपि यान्ति परां गतिम्॥३२॥
Link copiedस्त्रियो वैश्याः शूद्राश् च पाप-योनयोऽपि मां व्यपाश्रित्य परां गतिं यान्ति॥९।३२॥
Link copiedकिं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा।
Link copiedअनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम्॥३३॥
Link copiedकिं पुनः पुण्य-योनयो ब्राह्मणाः राजर्षयश् च मद्-भक्तिम् आश्रिताः। अतस् त्वं राजर्षिर् अस्थिरं ताप-त्रयाभिहततया असुखं चेमं लोकं प्राप्य वर्तमानो मां भजस्व।
Link copiedभक्ति-स्वरूपम् आह---
Link copiedमन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु।
Link copiedमाम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः॥३४॥
Link copiedमन्-मना भव मयि सर्वेश्वरे निखिल-हेय-प्रत्यनीक-कल्याणैक-ताने सर्वज्ञे सत्य-सङ्कल्पे निखिल-जगद्-एक-कारणे परस्मिन् ब्रह्मणि पुरुषोत्तमे पुण्डारीक-दलामलायतेक्षणे स्वच्छ-नील-जीमूत-सङ्काशे युगपद्-उदित-दिनकर-सहस्र-सदृश-तेजसि लावण्यामृत-महोदधाव् उदार-पीवर-चतुर्-बाहव् अत्युज्ज्वल-पीताम्बरे ऽमल-किरीट-मकर-कुण्डाल-हार-केयूर-कटकादि-भूषितेऽपार-कारुण्य-सौशील्य-सौन्दर्य-माधुर्य-गाम्भीर्यौदार्य-वात्सल्य-जलधव् अनालोचित-विशेषाशेष-लोक-शरण्ये सर्व-स्वामिनि तैल-धारावद् अविच्छेदेन निविष्ट-मना भव।
Link copiedतद् एव विशिनष्टि--- मद्-भक्तोऽत्यर्थ-मत्-प्रियत्वेन युक्तो मन्-मना भव इत्य् अर्थः। पुनर् अपि विशिनष्टि--- मद्-याजी अनवधिकातिशय-प्रिय-मद्-अनुभव-कारित-मद्-यजन-परो भव। यजनं नाम परिपूर्ण-शेष-वृत्तिः, औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-सकल-भोग-प्रदान-रूपो हि यागः। यथा मद्-अनुभव-जनित-निरवधिकातिशय-प्रीतिकारित-मद्-यजन-परो भवसि तथा मन्-मना भव इत्य् उक्तं भवति।
Link copiedपुनर् अपि तद् एव विशिनष्टि--- मां नमस्कुरु, अनवधिकातिशय-प्रिय-मद्-अनुभव-कारितात्यर्थ-प्रियाशेष-शेष-वृत्तव् अपर्यवस्यन् मय्य् अन्तर्-आत्मन्य् अतिमात्र-प्रह्वीभाव-व्यवसायं कुरु। मत्-परायणोऽहम् एव परम् अयनं यस्यासौ मत्-परायणः, मया विना आत्म-धारणा-सम्भावनया मद्-आश्रय इत्य् अर्थः। एवम् आत्मानं युक्त्वा मत्-परायणस् त्वम् एवम् अनवधिकातिशय-प्रीत्या मद्-अनुभव-समर्थं मनः प्राप्य माम् एवैष्यसि। आत्म-शब्दो ह्य् अत्र मनो-विषयः। एवं-रूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्-परायणो माम् एव प्राप्स्यसीत्य् अर्थः।
Link copiedतद् एवं लौकिकानि शरीर-धारणार्थानि वैदिकानि च नित्य-नैमित्तिकानि कर्माणि मत्-प्रीतये मच्-छेषतैक-रसो मयैव कारित इति कुर्वन् सततं मत्-कीर्तन-यजन-नमस्कारादिकान् प्रीत्या कुर्वाणो मन्-नियाम्यं निखिल-जगत् मच्-छेषतैक-रसम् इति चानुसन्दधानः, अत्यर्थ-प्रिय-मद्-गुण-गणं चानुसन्धायाहर्-अहर् उक्त-लक्षणम् इदम् उपासनम् उपादधानो माम् एव प्राप्स्यसि॥९।३४॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये नवमोऽध्यायः ॥९॥
Link copied**
Link copiedఉపాసక-భేద-నిబన్ధనా విశేషాః ప్రతిపాదితాః। ఇదానీమ్ ఉపాస్యస్య పరమ-పురుషస్య మాహాత్మ్యం। జ్ఞానినాం చ విశేషం విశోధ్య భక్తి-రూపస్యోపాసనస్య స్వరూపమ్ ఉచ్యతే---
Link copiedఇదం తు తే గుహ్యతమం ప్రవక్ష్యామ్య్ అనసూయవే।
Link copiedజ్ఞానం విజ్ఞాన-సహితం యజ్ జ్ఞాత్వా మోక్ష్యసేఽశుభాత్॥౧॥
Link copiedఇదం తు తే గుహ్యతమం భక్తి-రూపమ్ ఉపాసనాఖ్యం జ్ఞానం। విజ్ఞాన-సహితమ్ ఉపాసన-గతి-విశేష-జ్ఞాన-సహితమ్। అనసూయవే తే ప్రవక్ష్యామి। మద్-విషయం సకలేతర-విసజాతీయమ్ అపరిమిత-ప్రకారం మాహాత్మ్యం శ్రుత్వా ఏవమ్ ఏవ సమ్భవతీతి మన్వానాయ తే ప్రవక్ష్యామీత్య్ అర్థః। యజ్ జ్ఞానమ్ అనుష్ఠాన-పర్యన్తం జ్ఞాత్వా మత్-ప్రాప్తి-విరోధినః సర్వస్మాద్ అశుభాన్ మోక్ష్యసే॥౯।౧॥
Link copiedరాజ-విద్యా రాజ-గుహ్యం పవిత్రమ్ ఇదమ్ ఉత్తమమ్।
Link copiedప్రత్యక్షావగమం ధర్మ్యం సుసుఖం కర్తుమ్ అవ్యయమ్॥౨॥
Link copiedరాజ-విద్యా విద్యానాం రాజా రాజ-గుహ్యం గుహ్యానాం రాజా। రాజ్ఞాం విద్యేతి వా రాజ-విద్యా, రాజానో హి విస్తీర్ణాగాధ-మనసః, మహా-మనసామ్ ఇయం విద్యా ఇత్య్ అర్థః। మహా-మనస ఏవ గోపనీయ-గోపన-కుశలా ఇతి తేషామ్ ఏవ గుహ్యమ్ ఇదమ్। ఉత్తమం పవిత్రం మత్-ప్రాప్తి-విరోధ్య్-అశేష-కల్మషాపహం ప్రత్యక్షావగమమ్। అవగమ్యత ఇత్య్ అవగమో విషయః। ప్రత్యక్ష-భూతోఽవగమో విషయో యస్య జ్ఞానస్య తత్ ప్రత్యక్షావగమమ్। భక్తి-రూపేణోపాసనేన ఉపాస్యమానోఽహం తదానీమ్ ఏవ ఉపాసితుః ప్రత్యక్షతామ్ ఉపాగతో భవామీత్య్ అర్థః।
Link copiedఅథాపి ధర్మ్యం ధర్మాద్ అనపేతం ధర్మత్వం హి నిఃశ్రేయస-సాధనత్వమ్। స్వరూపేణ ఏవాత్యర్థ-ప్రియత్వేన తదానీమ్ ఏవ మద్-దర్శనాపాదనతయా చ స్వయం నిఃశ్రేయస-రూపమ్ అపి నిరతిశయ-నిఃశ్రేయస-రూపాత్యన్తిక-మత్-ప్రాప్తి--సాధనమ్ ఇత్య్ అర్థః। అత ఏవ సుసుఖం కర్తుం సుసుఖోపాదానమ్, అత్యర్థప్రియత్వేన ఉపాదేయమ్। అవ్యయమ్ అక్షయం మత్-ప్రాప్తిం సాధయిత్వాపి స్వయం న క్షీయతే। ఏవం-రూపమ్ ఉపాసనం కుర్వతో మత్-ప్రదానే కృతేఽపి న కిఞ్చిత్ కృతం మయాస్యేతి మే ప్రతిభాతీత్య్ అర్థః॥౯।౨॥
Link copiedఅశ్రద్దధానాః పురుషా ధర్మస్యాస్య పరన్తప।
Link copiedఅప్రాప్య మాం నివర్తన్తే మృత్యు-సంసార-వర్త్మని॥౩॥
Link copiedఅస్యోపాసనాఖ్యస్య ధర్మస్య నిరతిశయ-ప్రియ-మద్-విషయతయా స్వయం నిరతిశయ-ప్రియ-రూపస్య పరమ-నిఃశ్రేయస-స్వరూప-మత్-ప్రాప్తి-సాధనస్యావ్యయస్య ఉపాదాన-యోగ్య-దశాం ప్రాప్యాశ్రద్దధానా విశ్వాస-పూర్వక-త్వారా-రహితాః పురుషా మామ్ అప్రాప్య మృత్యు-రూపే సంసార-వర్త్మని నితరాం వర్తన్తే। అహో ! మహద్ ఇదమ్ ఆశ్చర్యమ్ ఇత్య్ అర్థః॥౯।౩॥
Link copiedశృణు తావత్ ప్రాప్య-భూతస్య మమాచిన్త్య-మహిమానమ్---
Link copiedమయా తతమ్ ఇదం సర్వం జగద్ అవ్యక్త-మూర్తినా।
Link copiedమత్-స్థాని సర్వ-భూతాని న చాహం తేష్వ్ అవస్థితః॥౪॥
Link copiedఇదం చేతనాచేతనాత్మకం కృత్స్నం జగద్ అవ్యక్త-మూర్తినాప్రకాశిత-స్వరూపేణ మయాన్తర్యామిణా తతమ్। అస్య జగతో ధారణార్థం నియమనార్థమ్ చ శేషిత్వేన వ్యాప్తమ్ ఇత్య్ అర్థః। యథా అన్తర్యామి-బ్రాహ్మణే యః పృథివ్యాం తిష్ఠన్ \॥। యం పృథివీ న వేద [బృ।ఆ।ఉ। ౩।౭।౩] య ఆత్మని తిష్ఠన్ \॥। యమ్ ఆత్మా న వేద [శత్బ్ర్ ౧౪।౬।౫।౫।౩౦] ఇతి చేతనాచేతన-వస్తు-జాతైర్ అదృష్టేనాన్తర్యామిణా తత్ర తత్ర వ్యాప్తిర్ ఉక్తా।
Link copiedతతో మత్-స్థాని సర్వ-భూతాని సర్వాణి భూతాని మయ్య్ అన్తర్యామిణి స్థితాని, తత్రైవ బ్రాహ్మణే యస్య పృథివీ శరీరం యః పృథివీమ్ అన్తరో యమయతి [బృ।ఆ।ఉ। ౩।౭।౩], యస్యాత్మా శరీరం య ఆత్మానమ్ అన్తరో యమయతి [శత్బ్ర్ ౧౪।౬।౬।౫।౩౦] ఇతి శరీరత్వేన నియామ్యత్వ-ప్రతిపాదనాత్। తదాయత్తే స్థితి-నియమనే ప్రతిపాదితే శేషిత్వం చ, న చాహం తేష్వ్ అవస్థితోఽహం తు న తదాయత్త-స్థితిః। మత్-స్థితౌ తైర్ న కశ్చిద్ ఉపకార ఇత్య్ అర్థః॥౯।౪॥
Link copiedన చ మత్-స్థాని భూతాని పశ్య మే యోగమ్ ఐశ్వరమ్।
Link copiedభూత-భృన్ న చ భూత-స్థో మమాత్మా భూత-భావనః॥౫॥
Link copiedన చ మత్-స్థాని భూతాని న ఘటదీనాం జలాదేర్ ఇవ మమ ధారకత్వమ్। కథమ్। మత్-సఙ్కల్పేన। పశ్య మమైశ్వరం యోగమ్। అన్యత్ర కుత్రచిద్ అసమ్భవనీయం మద్-అసాధారణమ్ ఆశ్చర్యం యోగం పశ్య। కోఽసౌ యోగః। భూత-భృన్ న చ భూత-స్థో మమాత్మా భూత-భావనః। సర్వేషాం భూతానాం భర్తాహం న చ తైః కశ్చిద్ అపి మమోపకారః। మమాత్మైవ భూత-భావనః। మమ మనో-మయః సఙ్కల్ప ఏవ భూతానాం భావయితా ధారయితా నియన్తా చ॥౯।౫॥
Link copiedసర్వస్యాస్య స్వ-సఙ్కల్పాయత్త-స్థితి-ప్రవృత్తిత్వే నిదర్శనమ్ ఆహ---
Link copiedయథాకాశ-స్థితో నిత్యం వాయుః సర్వత్ర-గో మహాన్।
Link copiedతథా సర్వాణి భూతాని మత్-స్థానీత్య్ ఉపధారయ॥౬॥
Link copiedయథాకాశేఽనాలమ్బనే మహాన్ వాయుః స్థితః సర్వత్ర గచ్ఛతి। స తు వాయుర్ నిరాలమ్బనో మద్-ఆయత్త-స్థితిర్ ఇత్య్ అవశ్యాభ్యుపగమనీయో మయైవ ధృత ఇతి విజ్ఞాయతే, తథైవ సర్వాణి భూతాని తైర్ అదృష్టో మయి స్థితాని మయైవ ధృతానీత్య్ ఉపధారయ।
Link copiedయథాహుః వేద-విదః--- మేఘోదయః సాగర-సన్నివృత్తిర్ ఇన్దోర్ విభాగః స్ఫురితాని వాయోః। విద్యుద్-విభఙ్గో గతిర్ ఉష్ణ-రశ్మేర్ విష్ణోర్ విచిత్రాః ప్రభవన్తి మాయాః॥ ఇతి విష్ణోర్ అనన్య-సాధారణాని మహాశ్చర్యాణీత్య్ అర్థః। శ్రుతిర్ అపి--- ఏతస్య వా అక్షరస్య ప్రశాసనే గార్గి సూర్యాచన్ద్రమసౌ విధృతౌ తిష్ఠతః [బృ।ఆ।ఉ। ౩।౮।౯]
Link copiedభీషాస్మాద్ వాతః పవతే భీషోదేతి సూర్యః।
Link copiedభీషాస్మాద్ అగ్నిశ్ చేన్ద్రశ్ చ మృత్యుర్ ధావతి పఞ్చమః [తై।ఉ। ౨।౮।౧]
Link copiedఇత్య్-ఆదికా॥౯।౬॥
Link copiedసకలేతర-నిరపేక్షస్య భగవతః సఙ్కల్పాత్ సర్వేషాం స్థితిః ప్రవృత్తిశ్ చోక్తాస్ తథా తత్-సఙ్కల్పాద్ ఏవ సర్వేషామ్ ఉత్పత్తి-ప్రలయవ్ అపి, ఇత్య్ ఆహ---
Link copiedసర్వ-భూతాని కౌన్తేయ ప్రకృతిం యాన్తి మామికామ్।
Link copiedకల్ప-క్షయే పునస్ తాని కల్పాదౌ విసృజామ్య్ అహమ్॥౭॥
Link copiedస్థావర-జఙ్గమాత్మకాని సర్వాణి భూతాని మామికాం మచ్-ఛరీర-భూతాం ప్రకృతిం తమః-శబ్ద-వాచ్యాం నామ-రూప-విభాగానర్హాం కల్ప-క్షయే చతుర్-ముఖావసాన-సమయే మత్-సఙ్కల్పాద్ యాన్తి। తాన్య్ ఏవ భూతాని కల్పాదౌ పునర్ విసృజామ్య్ అహమ్। యథాహ మనుః--- ఆసీద్ ఇదం తమో-భూతమ్ [మను ౧।౫] సోఽభిధ్యాయ శరీరాత్ స్వాత్ [మను ౧।౮] ఇతి శ్రుతిర్ అపి--- యస్యావ్యక్తం శరీరమ్ [సు।ఉ। ౭] ఇత్య్-ఆదికా, అవ్యక్తమ్ అక్షరే లీయతేఽక్షరం తమసి లీయతే, తమః పరే దేవే ఏకీభవతి [సు।ఉ। ౨] తమ ఆసీత్ తమసా గూఢమ్ అగ్రే ప్రకేతమ్ [ఋగ్।వే। ౮।౭।౧౭।౩] ఇతి చ॥౯।౭॥
Link copiedప్రకృతిం స్వామ్ అవష్టభ్య విసృజామి పునః పునః।
Link copiedభూత-గ్రామమ్ ఇమం కృత్స్నమ్ అవశం ప్రకృతేర్ వశాత్॥౮॥
Link copiedస్వకీయాం విచిత్ర-పరిణామినీం ప్రకృతిమ్ అవష్టభ్యాష్టధా పరిణమయ్య ఇమం చతుర్-విధం దేవ-తిర్యఙ్-మనుష్య-స్థావరాత్మకం భూత-గ్రామం మదీయాయా మోహిన్యాః గుణ-మయ్యాః ప్రకృతేః వశాద్ అవశం పునః పునః కాలే కాలే విసృజామి॥౯।౮॥
Link copiedఏవం తర్హి విషమ-సృష్ట్య్-ఆదీని కర్మాణి నైర్ఘృణ్యాద్య్-ఆపాదనేన భగవన్తం బధ్నన్తీతి। అత్రాహ---
Link copiedన చ మాం తాని కర్మాణి నిబధ్నన్తి ధనఞ్జయ।
Link copiedఉదాసీనవద్ ఆసీనమ్ అసక్తం తేషు కర్మసు॥౯॥
Link copiedన చ తాని విషమ-సృష్ట్య్-ఆదీని కర్మాణి మాం నిబధ్నన్తి మయి నైర్ఘృణ్యాదికం నాపాదయన్తి, యతః క్షేత్ర-జ్ఞానాం పూర్వ-కృత్యాన్య్ ఏవ కర్మాణి దేవాది-విషమ-భావ-హేతవః। అహం తు తత్ర వైషమ్యేఽసక్తస్ తత్ర ఉదాసీనవద్ ఆసీనః। యథాహ సూత్ర-కారః--- వైషమ్య-నైర్ఘృణ్యే న సాపేక్షత్వాత్ [వే।సూ। ౨।౧।౩౪] న కర్మావిభాగాద్ ఇతి చేన్ నానాదిత్వాత్ [వే।సూ। ౨।౧।౩౫] ఇతి॥౯।౯॥
Link copiedమయాధ్యక్షేణ ప్రకృతిః సూయతే స-చరాచరమ్।
Link copiedహేతునానేన కౌన్తేయ జగద్ విపరివర్తతే॥౧౦॥
Link copiedతస్మాత్ క్షేత్రజ్ఞ-కర్మానుగుణం మదీయా ప్రకృతిః సత్య-సఙ్కల్పేన మయాధ్యక్షేణేక్షితా స-చరాచరం జగత్ సూయతే, అనేన క్షేత్రజ్ఞ-కర్మానుగుణ-మద్-ఈక్షణేన హేతునా జగద్ విపరివర్తతే। ఇతి మత్-స్వామ్యం సత్య-సఙ్కల్పత్వం నైర్ఘృణ్యాది-దోష-రహితత్వమ్ ఇత్య్ ఏవమ్ ఆదికం మమ వసుదేవ-సూనోర్ ఐశ్వరం యోగం పశ్య। యథా శ్రుతిః---
Link copiedఅస్మాన్ మాయీ సృజతే విశ్వమ్ ఏతత్
Link copiedతస్మింశ్ చాన్యో మాయయా సన్నిరూద్ధః।
Link copiedమాయాం తు ప్రకృతిం విద్యాన్
Link copiedమాయినం తు మహేశ్వరమ్॥ [శ్వే।ఉ। ౪।౯-౧౦] ఇతి॥౯।౧౦॥
Link copied
అవజానన్తి మాం మూఢా మానుషీం తనుమ్ ఆశ్రితమ్।
Link copiedపరం భావమ్ అజానన్తో మమ భూత-మహేశ్వరమ్॥౧౧॥
Link copiedఏవం మాం భూత-మహేశ్వరం సర్వజ్ఞం సత్య-సఙ్కల్పం నిఖిల-జగద్-ఏక-కారణం పరమ-కారుణికతయా సర్వ-సమాశ్రయణీయత్వాయ మానుషీం తనుమ్ ఆశ్రితం స్వ-కృతైః పాప-కర్మభిర్ మూఢా అవజానన్తి--- ప్రాకృత-మనుష్య-సమం మన్యన్తే। భూత-మహేశ్వరస్య మమాపార-కారుణ్యౌదార్య-సౌశీల్య-వాత్సల్యాది-నిబన్ధనం మనుష్యత్వ-సమాశ్రయణ-లక్షణమ్ ఇమం పరం భావమ్ అజానన్తో మనుష్యత్వ-సమాశ్రయణ-మాత్రేణ మామ్ ఇతర-సజాతీయం మత్వా తిరస్కుర్వన్తీత్య్ అర్థః॥౯।౧౧॥
Link copiedమోఘాశా మోఘ-కర్మాణో మోఘ-జ్ఞానా విచేతసః।
Link copiedరాక్షసీమ్ ఆసురీం చైవ ప్రకృతిం మోహినీం శ్రితాః॥౧౨॥
Link copiedమమ మనుష్యత్వే పరమ-కారుణ్యాది-పరత్వ-తిరోధాన-కరీం రాక్షసీమ్ ఆసురీం చ మోహినీం ప్రకృతిమ్ ఆశ్రితాః, మోఘాశాః మోఘ-వాఞ్ఛితా నిష్ఫల-వాఞ్ఛితాః, మోఘ-కర్మాణో మోఘారమ్భాః। మోఘ-జ్ఞానాః సర్వేషు మదీయేషు చరాచరేష్వ్ అర్థేషు మయి చ విపరీత-జ్ఞానతయా నిష్ఫల-జ్ఞానాః। విచేతసస్ తథా సర్వత్ర విగత-యాథాత్మ్య-జ్ఞానాః, మాం సర్వేశ్వరమ్ ఇతర-సమం మత్వా మయి యత్ కర్తుమ్ ఇచ్ఛన్తి, యద్ ఉద్దిశ్య ఆరమ్భాన్ కుర్వతే, తత్ సర్వం మోఘం భవతీత్య్ అర్థః॥౯।౧౨॥
Link copiedమహాత్మానస్ తు మాం పార్థ దైవీం ప్రకృతిమ్ ఆశ్రితాః।
Link copiedభజన్త్య్ అనన్య-మనసో జ్ఞాత్వా భూతాదిమ్ అవ్యయమ్॥౧౩॥
Link copiedయే తు స్వ-కృతైః పుణ్య-సచయైర్ మాం శరణమ్ ఉపగమ్య విధ్వస్త-సమస్త-పాప-బన్ధా దైవీం ప్రకృతిమ్ ఆశ్రితాః మహాత్మానస్ తే, భూతాదిమ్ అవ్యయం వాఙ్-మానసాగోచర-నామ-కర్మ-స్వరూపం పరమ-కారుణికతయా సాధు-పరిత్రాణాయ మనుష్యత్వేనావతీర్ణం మాం జ్ఞాత్వా అనన్య-మనసః మాం భజన్తే। మత్-ప్రియత్వాతిరేకేణ మద్-భజనేన వినా మనసశ్ చాత్మనశ్ చ బాహ్య-కరణానాం చ ధారణమ్ అలభమానాః, మద్-భజనైక-ప్రయోజనా భజన్తే॥౯।౧౩॥
Link copiedసతతం కీర్తయన్తో మాం యతన్తశ్ చ దృఢ-వ్రతాః।
Link copiedనమస్యన్తశ్ చ మాం భక్త్యా నిత్య-యుక్తా ఉపాసతే॥౧౪॥
Link copiedఅత్యర్థం మత్-ప్రియత్వేన మత్-కీర్తన-యతన-నమస్కారైర్ వినా క్షణాణు-మాత్రేఽప్య్ ఆత్మ-ధారణమ్ అలభమానా మద్-గుణావిశేష-వాచీని మన్-నామాని స్మృత్వా పులకాఞ్చిత-సర్వాఙ్గాః, హర్ష-గద్గద-కణ్ఠాః శ్రీ-రామ-నారాయణ-కృష్ణ-వాసుదేవేత్య్ ఏవమ్ ఆదీని సతతం కీర్తయన్తస్ తథైవ యతన్తో మత్-కర్మస్వ్ అర్చనాదికేషు వన్దన-స్తవన-కరణాదికేషు తద్-ఉపకారకేషు భవన-నన్దన-వన-కరణాదికేషు చ దృఢ-సఙ్కల్పా యతమానాః, భక్తి-భారావనమిత-మనో-బుద్ధ్య్-అభిమాన-పద-ద్వయ-కర-ద్వయ-శిరోభిర్ అష్టఙ్గైర్ అచిన్తిత-పాంసు-కర్దమ-శర్కరాదికే ధరా-తలే దణ్డావత్ ప్రణిపతన్తః, సతతం మాం నిత్య-యుక్తా నిత్య-యోగమ్ ఆకాఙ్క్షమాణా ఆత్మవన్తో మద్-దాస్య-వ్యవసాయిన ఉపాసతే॥౯।౧౪॥
Link copiedజ్ఞాన-యజ్ఞేన చాప్య్ అన్యే యజన్తో మామ్ ఉపాసతే।
Link copiedఏకత్వేన పృథక్త్వేన బహుధా విశ్వతో-ముఖమ్॥౧౫॥
Link copiedఅన్యేఽపి మహాత్మానః పూర్వోక్తైః కీర్తనాదిభిర్ జ్ఞానాఖ్యేన యజ్ఞేన చ యజన్తో మామ్ ఉపాసతే, కథమ్। బహుధా పృథక్త్వేన జగద్-ఆకారేణ విశ్వతో-ముఖం విశ్వ-ప్రకారమ్ అవస్థితం మామ్ ఏకత్వేనోపాసతే। ఏతద్ ఉక్తం భవతి--- భగవాన్ వాసుదేవ ఏవ నామ-రూప-విభాగానర్హాతిసూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరః సన్ సత్య-సఙ్కల్పో వివిధ-విభక్త-నామ-రూప-స్థూల-చిద్-అచిద్-వస్తు-శరీరః స్యామ్ ఇతి సఙ్కల్ప్య, స ఏక ఏవ దేవ-తిర్యఙ్-మనుష్య-స్థావరాఖ్య-విచిత్ర-జగచ్-ఛరీరోఽవతిష్ఠతే ఇత్య్ అనుసన్దధానాశ్ చ మామ్ ఉపాసతే ఇతి॥౯।౧౫॥
Link copiedతథా హి విశ్వ-శరీరోఽహమ్ ఏవావస్థితః, ఇత్య్ ఆహ---
Link copiedఅహం క్రతుర్ అహం యజ్ఞః స్వధాహమ్ అహమ్ ఔషధమ్।
Link copiedమన్త్రోఽహమ్ అహమ్ ఏవాజ్యమ్ అహమ్ అగ్నిర్ అహం హుతమ్॥౧౬॥
Link copiedఅహం క్రతుర్ అహం జ్యోతిష్టోమాదిక-క్రతుర్ అహమ్ ఏవ యజ్ఞో మహా-యజ్ఞోఽహమ్ ఏవ స్వధా పితృ-గణ-పుష్టి-దాయినీ ఔషధం హవిశ్ చాహమ్ ఏవ। అహమ్ ఏవ చ మన్త్రోఽహమ్ ఏవాజ్యమ్। ప్రదర్శనార్థమ్ ఇదమ్, సోమాదికం చ హవిర్ అహమ్ ఏవేత్య్ అర్థః। అహమ్ ఆహవనీయాదికోఽగ్నిర్ హోమశ్ చాహమ్ ఏవ॥౯।౧౬॥
Link copiedపితాహమ్ అస్య జగతో మాతా ధాతా పితామహః।
Link copiedవేద్యం పవిత్రమ్ ఓఙ్కార ఋక్ సామ యజుర్ ఏవ చ॥౧౭॥
Link copiedఅస్య స్థావర-జఙ్గమాత్మకస్య జగతస్ తత్ర తత్ర పితృత్వేన మాతృత్వేన ధాతృత్వేన పితామహత్వేన చ వర్తమానోఽహమ్ ఏవ। అత్ర ధాతృ-శబ్దో మాతృ-పితృ-వ్యతిరిక్తే ఉత్పత్తి-ప్రయోజకే చేతన-విశేషే వర్తే। యత్ కిఞ్చిద్ వేద-వేద్యం పవిత్రం పావనం తద్ అహమ్ ఏవ। వేదకశ్ చ వేద-బీజ-భూతః ప్రణవోఽహమ్ ఏవ। ఋక్-సామ-యజుర్-ఆత్మకో వేదశ్ చాహమ్ ఏవ॥౯।౧౭॥
Link copiedగతిర్ భర్తా ప్రభుః సాక్షీ నివాసః శరణం సుహృత్।
Link copiedప్రభవః ప్రలయః స్థానం నిధానం బీజమ్ అవ్యయమ్॥౧౮॥
Link copiedగమ్యత ఇతి గతిః, తత్ర తత్ర ప్రాప్య-స్థానమ్ ఇత్య్ అర్థః। భర్తా ధారయితా, ప్రభుః శాసితా, సాక్షీ సాక్షాద్-ద్రష్ట, నివాసో వాస-స్థానం చ వేశ్మాది, శరణమ్ ఇష్టస్య ప్రాపకతయానిష్టస్య నివారణతయా సమాశ్రయణీయశ్ చేతనః శరణమ్, స చాహమ్ ఏవ సుహృత్ హితైషీ, ప్రభవ-ప్రలయ-స్థానం యస్య కస్యచిద్ యత్ర కుత్రచిత్ ప్రభవ-ప్రలయయోః యత్ స్థానం తద్ అహమ్ ఏవ। నిధానం నిధీయత ఇతి నిధానమ్। ఉత్పాద్యమ్ ఉపసంహార్యం చాహమ్ ఏవ ఇత్య్ అర్థః। అవ్యయం బీజం తత్ర తత్ర వ్యయ-రహితం యత్ కారణం తద్ అహమ్ ఏవ॥౯।౧౮॥
Link copiedతపామ్య్ అహమ్ అహం వర్షం నిగృహ్ణామ్య్ ఉత్సృజామి చ।
Link copiedఅమృతం చైవ మృత్యుశ్ చ సద్ అసచ్ చాహమ్ అర్జున॥౧౯॥
Link copiedఅగ్న్యాదిత్య్-ఆది-రూపేణాహమ్ ఏవ తపామి, గ్రీష్మాదావ్ అహమ్ ఏవ వర్షం నిగృహ్ణామి తథా వర్షాస్వ్ అపి చాహమ్ ఏవ ఉత్సృజామి। అమృతం చైవ మృత్యుశ్ చ యేన జీవతి లోకో యేన చ మ్రియతే, తద్ ఉభయమ్ అప్య్ అహమ్ ఏవ। కిమ్ అత్ర బహునోక్తేన। సద్ అసచ్ చాప్య్ అహమ్ ఏవ। సద్ యద్ వర్తతే, అసద్ యద్ అతీతమ్ అనాగతం చ, సర్వావస్థావస్థిత-చిద్-అచిద్-వస్తు-శరీరతయా తత్-తత్-ప్రకారో ఽహమ్ ఏవావస్థిత ఇత్య్ అర్థః। ఏవం బహుధా పృథక్త్వేన విభక్త-నామ-రూపావస్థిత-కృత్స్న-జగచ్-ఛరీరతయా తత్-ప్రకారోఽహమ్ ఏవావస్థిత ఇత్య్ ఏకత్వ-జ్ఞానేనానుసన్దధానాశ్ చ మామ్ ఉపాసతే త ఏవ మహాత్మానః॥౯।౧౯॥
Link copiedఏవం మహాత్మనాం జ్ఞానినాం భగవద్-అనుభవైక-భోగానాం వృత్తమ్ ఉక్త్వా తేషామ్ ఏవ విశేషం దర్శయితుమ్ అజ్ఞానాం కామ-కామానాం వృత్తమ్ ఆహ---
Link copiedత్రైవిద్యా మాం సోమపాః పూత-పాపా
Link copiedయజ్ఞైర్ ఇష్ట్వా స్వర్-గతిం ప్రార్థయన్తే।
Link copiedతే పుణ్యమ్ ఆసాద్య సురేన్ద్ర-లోకమ్
Link copiedఅశ్నన్తి దివ్యాన్ దివి దేవ-భోగాన్॥౨౦॥
Link copiedఋగ్-యజుః సామరూపాస్ తిస్రో విద్యాస్ త్రి-విద్యమ్, కేవలం త్రి-విద్య-నిష్ఠాస్ త్రైవిద్యాః। న తు త్రయ్య్-అన్తం నిష్ఠాః, త్రయ్య్-అన్త-నిష్ఠా హి మహాత్మానః పూర్వోక్త-ప్రకారేణాఖిల-వేద-వేద్యం మామ్ ఏవ జ్ఞాత్వా అతిమాత్ర-మద్-భక్తి-కారిత-కీర్తనాదిభిర్ జ్ఞాన-యజ్ఞేన చ మద్-ఏక-ప్రాప్యా మామ్ ఏవోపాసతే। త్రైవిద్యాస్ తు వేద-ప్రతిపాద్య-కేవలేన్ద్రాది-యాగ-శిష్ట-సోమాన్ పిబన్తః పూత-పాపాః స్వర్గాది-ప్రాప్తి-విరోధి-పాపాత్ పూతాస్ తైః కేవలేన్ద్రాది-దైవత్యతయానుసంహితైర్ యజ్ఞైర్ వస్తుతస్ తద్-రూపం మామ్ ఇష్ట్వా తథావస్థితం మామ్ అజానన్తః స్వర్గ-గతిం ప్రార్థయన్తే। తే పుణ్యం దుఃఖాసమ్భిన్నం సురేన్ద్ర-లోకం ప్రాప్య తత్ర తత్ర దివ్యాన్ దేవ-భోగాన్ అశ్నన్తి॥౯।౨౦॥
Link copiedతే తం భుక్త్వా స్వర్గ-లోకం విశాలం
Link copiedక్షీణే పుణ్యే మర్త్య-లోకం విశన్తి।
Link copiedఏవం త్రయీ-ధర్మమ్ అనుప్రపన్నా
Link copiedగతాగతం కామ-కామా లభన్తే॥౨౧॥
Link copiedతే తం విశాలం స్వర్గ-లోకం భుక్త్వా తద్-అనుభవ-హేతు-భూతే పుణ్యే క్షీణే పునర్ అపి మర్త్య-లోకం విశన్తి। ఏవం త్రయ్య్-అన్త-సిద్ధ-జ్ఞాన-విధురాః కామ్య-స్వర్గాది-కామాః కేవలం త్రయీ-ధర్మమ్ అనుప్రపన్నా గతాగతం లభన్తే। అల్పాస్థిర-స్వర్గాదీన్ అనుభూయ పునః పునః నివర్తన్త ఇత్య్ అర్థః॥౯।౨౧॥
Link copiedమహాత్మానస్ తు నిరతిశయ-ప్రియ-రూపం మచ్-చిన్తనం కృత్వా మామ్ అనవధికాతిశయానన్దం ప్రాప్య న పునర్ ఆవర్తన్త ఇతి తేషాం విశేషం దర్శయతి---
Link copiedఅనన్యాశ్ చిన్తయన్తో మాం యే జనాః పర్యుపాసతే।
Link copiedతేషాం నిత్యాభియుక్తానాం యోగ-క్షేమం వహామ్య్ అహమ్॥౨౨॥
Link copiedఅనన్యా అనన్య-ప్రయోజనా మచ్-చిన్తనేన వినాత్మ-ధారణా-లాభాన్ మచ్-చిన్తనైక-ప్రయోజనా మాం చిన్తయన్తో యే మహాత్మానో జనాః పర్యుపాసతే సర్వ-కల్యాణ-గుణాన్వితం సర్వ-విభూతి-యుక్తం మాం పరిత ఉపాసతేఽన్యూనమ్ ఉపాసతే తేషాం నిత్యాభియుక్తానాం మయి నిత్యాభియోగం కాఙ్క్షమాణానామ్ అహం మత్-ప్రాప్తి-లక్షణం యోగమ్ అపునర్-ఆవృత్తి-రూపం క్షేమం చ వహామి॥౯।౨౨॥
Link copiedయేఽప్య్ అన్య-దేవతా-భక్తా యజన్తే శ్రద్ధయాన్వితాః।
Link copiedతేఽపి మామ్ ఏవ కౌన్తేయ యజన్త్య్ అవిధి-పూర్వకమ్॥౨౩॥
Link copiedయేఽప్య్ అన్య-దేవతా-భక్తా యే త్వ్ ఇన్ద్రాది-దేవతా-భక్తాః కేవల-త్రయీ-నిష్ఠాః శ్రద్ధయాన్వితాః ఇన్ద్రాదీన్ యజన్తే, తేఽపి పూర్వోక్తేన న్యాయేన సర్వస్య మచ్-ఛరీరతయా మద్-ఆత్మత్వేన ఇన్ద్రాది-శబ్దానాం చ మద్-వాచిత్వాద్ వస్తుతో మామ్ ఏవ యజన్తేఽపి త్వ్ అవిధి-పూర్వకం యజన్తే। ఇన్ద్రాదీనాం దేవతానాం కర్మస్వ్ ఆరాధ్యతయా అన్వయం యథా వేదాన్త-వాక్యాని చతుర్-హోతారో యత్ర సమ్పదం గచ్ఛన్తి దేవైః [తై।ఆ। ౪] ఇత్య్ ఆదీని విదధతి, న తత్-పూర్వకం యజన్తే। వేదాన్త-వాక్య-జాతం హి పరమ-పురుష-శరీరతయావస్థితానామ్ ఇన్ద్రాదీనామ్ ఆరాధ్యత్వం విదధద్ ఆత్మ-భూతస్య పరమ-పురుషస్యైవ సాక్షాద్ ఆరాధ్యత్వం విదధాతి।
Link copiedచతుర్హోతారోఽగ్నిహోత్ర-దర్శ-పౌర్ణమాసాదీని కర్మాణి కుర్వాణా యత్ర పరమాత్మన్య్ ఆత్మతయా అవస్థితే సత్య్ ఏవ తచ్-ఛరీర-భూతైర్ ఇన్ద్రాది-దేవైః సమ్పదం గచ్ఛన్తి, ఇన్ద్రాది-దేవానామ్ ఆరాధనాని ఏతాని కర్మాణి మద్-విషయాణీతి మాం సమ్పదం గచ్ఛన్తీత్య్ అర్థః॥౯।౨౩॥
Link copiedఅతస్ త్రైవిద్యా ఇన్ద్రాది-శరీరస్య పరమ-పురుషస్యారాధనాన్య్ ఏతాని కర్మాణి। ఆరాధ్యశ్ చ స ఏవేతి న జానన్తి। తే చ పరిమిత-ఫల-భాగినశ్ చ్యవన-స్వభావాశ్ చ భవన్తి, తద్ ఆహ---
Link copiedఅహం హి సర్వ-యజ్ఞానాం భోక్తా చ ప్రభుర్ ఏవ చ।
Link copiedన తు మామ్ అభిజానన్తి తత్త్వేనాతశ్ చ్యవన్తి తే॥౨౪॥
Link copiedప్రభుర్ ఏవ చ తత్ర తత్ర ఫల-ప్రదాతా చాహమ్ ఏవేత్య్ అర్థః॥౯।౨౪॥
Link copiedఅహో మహద్ ఇదం వైచిత్ర్యం యద్ ఏకస్మిన్న్ ఏవ కర్మణి వర్తమానాః సఙ్కల్ప-మాత్ర-భేదేన కేచిద్ అత్యల్ప-ఫల-భాగినశ్ చ్యవన-స్వభావాశ్ చ భవన్తి, కేచనానవధికాతిశయానన్ద-పరమ-పురుష-ప్రాప్తి-రూప-ఫల-భాగినోఽపునర్-ఆవర్తినశ్ చ భవన్తి, ఇత్య్ ఆహ---
Link copiedయాన్తి దేవ-వ్రతా దేవాన్ పితౄన్ యాన్తి పితృ-వ్రతాః।
Link copiedభూతాని యాన్తి భూతేజ్యా యాన్తి మద్-యాజినోఽపి మామ్॥౨౫॥
Link copiedవ్రత-శబ్దః సఙ్కల్ప-వాచీ, దేవ-వ్రతాః దర్శ-పౌర్ణమాసాదిభిః కర్మభిర్ ఇన్ద్రాదీన్ యజామః, ఇతీన్ద్రాది-యజన-సఙ్కల్పాః। యే త ఇన్ద్రాది-దేవాన్ యాన్తి। యే చ పితృ-యజ్ఞాదిభిః పితౄన్ యజామః, ఇతి పితృ-యజన-సఙ్కల్పాః, తే పితౄన్ యాన్తి। యే చ యక్ష-రక్షః పిశాచాదీని భూతాని యజామః, ఇతి భూత-యజన-సఙ్కల్పాః, తే భూతాని యాన్తి। యే తు తైర్ ఏవ యజ్ఞైర్ దేవ-పితృ-భూత-శరీరకం పరమాత్మానం భగవన్తం వాసుదేవం యజామ ఇతి మాం యజన్తే తే మద్-యాజినో మామ్ ఏవ యాన్తి। దేవాది-వ్రతా దేవాదీన్ ప్రాప్య తైః సహ పరిమితం భోగం భుక్త్వా తేషాం వినాశ-కాలే తైః సహ వినష్టా భవన్తి। మద్-యాజినస్ తు మామ్ అనాది-నిధనం సర్వజ్ఞం సత్య-సఙ్కల్పమ్ అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణ-మహోదధిమ్ అనవధికాతిశయానన్దం ప్రాప్య న పునర్ నివర్తన్త ఇత్య్ అర్థః॥౯।౨౫॥
Link copiedమద్-యాజినామ్ అయమ్ అపి విశేషోఽస్తీత్య్ ఆహ---
Link copiedపత్రం పుష్పం ఫలం తోయం యో మే భక్త్యా ప్రయచ్ఛతి।
Link copiedతద్ అహం భక్త్య్-ఉపహృతమ్ అశ్నామి ప్రయతాత్మనః॥౨౬॥
Link copiedసర్వ-సులభం పత్రం వా పుష్పం వా ఫలం వా తోయం వా యో భక్త్యా మే ప్రయచ్ఛత్య్ అత్యర్థ-మత్-ప్రియతయా తత్-ప్రదానేన వినా ఆత్మ-ధారణమ్ అలభమానతయా తద్-ఏక-ప్రయోజనో యో మే పత్రాదికం దదాతి తస్య ప్రయతాత్మనస్ తత్-ప్రదానైక-ప్రయోజనత్వ-రూప-శుద్ధి-యుక్త-మనసస్ తత్ తథా-విధ-భక్త్య్-ఉపహృతమ్ అహం సర్వేశ్వరో నిఖిల-జగద్-ఉదయ-విభవ-లయ-లీలోఽవాప్త-సమస్త-కామః సత్య-సఙ్కల్పోఽనవధికాతిశయాసఙ్ఖ్యే-కల్యాణ-గుణ-గణః స్వాభావికానవధికాతిశయానన్ద-స్వానుభవే వర్తమానోఽపి, మనోరథ-పథ-దూరవర్తి ప్రియం ప్రాప్య ఇవాశ్నామి। యథోక్తం మోక్ష-ధర్మే---
Link copiedయాః క్రియాః సమ్ప్రయుక్తాః స్యుర్
Link copiedఏకాన్త-గత-బుద్ధిభిః।
Link copiedతాః సర్వాః శిరసా దేవః
Link copiedప్రతిగృహ్ణాతి వై స్వయమ్॥ [మ।భా। ౧౨।౩౪౦।౬౪] ఇతి॥౯।౨౬॥
Link copied
యస్మాజ్ జ్ఞానినాం మహాత్మనాం వాఙ్-మనసాగోచరోఽయం విశేషస్ తస్మాత్ త్వం చ జ్ఞానీ భూత్వా ఉక్త-లక్షణ-భక్తి-భారావనతాత్మాత్మీయః కీర్తన-యతనార్చన-ప్రణామాదికం సతతం కుర్వాణో లౌకికం వైదికం చ నిత్య-నైమిత్తికం కర్మ చేత్థం కుర్వ్ ఇత్య్ ఆహ---
Link copiedయత్ కరోషి యద్ అశ్నాసి యజ్ జుహోషి దదాసి యత్।
Link copiedయత్ తపస్యసి కౌన్తేయ తత్ కురుష్వ మద్-అర్పణమ్॥౨౭॥
Link copiedయద్ దేహ-యాత్రాది-శేష-భూతం లౌకికం కర్మ కరోషి, యచ్ చ దేహ-ధారణాయాశ్నాసి, యచ్ చ వైదికం హోమ-దాన-తపః-ప్రభృతి నిత్య-నైమిత్తికం కర్మ కరోషి, తత్ సర్వం మద్-అర్పణం కురుష్వ। అర్ప్యత ఇత్య్ అర్పణమ్, సర్వస్య లౌకికస్య వైదికస్య చ కర్మణః కర్తృత్వం భోక్తృత్వమ్ ఆరాధ్యత్వం చ యథా మయి సర్వం సమర్పితం భవతి తథా కురు।
Link copiedఏతద్ ఉక్తం భవతి--- యాగ-దానాదిష్వ్ ఆరాధ్యతయా ప్రతీయమానానాం దేవాదీనాం కర్మ-కర్తుర్ భోక్తుస్ తవ చ మదీయతయా మత్-సఙ్కల్పాయత్త-స్వరూప-స్థితి-ప్రవృత్తితయా చ మయ్య్ ఏవ పరమ-శేషిణి పరమ-కర్తరి త్వాం చ కర్తారం భోక్తారమ్ ఆరాధకమ్ ఆరాధ్యం చ దేవతా-జాతమ్ ఆరాధనం చ క్రియా-జాతం సర్వం సమర్పయ। తవ మన్-నియామ్యతా-పూర్వక-మచ్-ఛేషతైక-రసతామ్ ఆరాధ్యాదేశ్ చ ఏతత్-స్వభావక-గర్భతామ్ అత్యర్థ-ప్రీతి-యుక్తోఽనుసన్ధత్స్వ ఇతి॥౯।౨౭॥
Link copiedశుభాశుభ-ఫలైర్ ఏవం మోక్ష్యసే కర్మ-బన్ధనైః।
Link copiedసన్న్యాస-యోగ-యుక్తాత్మా విముక్తో మామ్ ఉపైష్యసి॥౨౮॥
Link copiedఏవం సన్న్యాసాఖ్య-యోగ-యుక్త-మనా ఆత్మానం మచ్-ఛేషతా-మన్-నియామ్యతైక-రసం కర్మ చ సర్వం మద్-ఆరాధనమ్ అనుసన్దధానో లౌకికం వైదికం చ కర్మ కుర్వన్ శుభాశుభ-ఫలైర్ అనన్తైః ప్రాచీన-కర్మాఖ్యైర్ బన్ధనైర్ మత్-ప్రాప్తి-విరోధిభిః సర్వైః మోక్ష్యసే, తైర్ విముక్తో మామ్ ఏవోపైష్యసి॥౯।౨౮॥
Link copiedమమేమం పరమమ్ అతిలోకం స్వభావం సృణు---
Link copiedసమోఽహం సర్వ-భూతేషు న మే ద్వేష్యోఽస్తి న ప్రియః।
Link copiedయే భజన్తి తు మాం భక్త్యా మయి తే తేషు చాప్య్ అహమ్॥౨౯॥
Link copiedదేవ-తిర్యఙ్-మనుష్య-స్థావరాత్మనా స్థితేషు జాతితశ్ చాకారతః స్వభావతో జ్ఞానతశ్ చాత్యన్తోత్కృష్టాపకృష్ట-రూపేణ వర్తమానేషు సర్వేషు భూతేషు సమాశ్రయణీయత్వేన సమోఽహమ్। అయం జాత్యాకార-స్వభావ-జ్ఞానాదిభిర్ నికృష్ట ఇతి సమాశ్రయణే న మే ద్వేష్యోఽస్త్య్ ఉద్వేజనీయతయా న త్యాజ్యోఽస్తి। తథా సమాశ్రితత్వాతిరేకేణ జాత్య్-ఆదిభిర్ అత్యన్తోత్కృష్టోఽయమ్ ఇతి తద్-యుక్తతయా సమాశ్రయణే న కశ్చిత్ ప్రియోఽస్తి న సఙ్గ్రాహ్యోఽస్తి।
Link copiedఅపి త్వ్ అత్యర్థ-మత్-ప్రియత్వేన మద్-భజనేన వినాత్మ-ధారణాలాభాన్ మద్-భజనైక-ప్రయోజనా యే మాం భజన్తే తే జాత్య్-ఆదిభిర్ ఉత్కృష్టా అపకృష్టా వా మత్-సమాన-గుణవద్ యథా-సుఖం మయ్య్ ఏవ వర్తన్తే। అహమ్ అపి తేషు మద్-ఉత్కృష్టేష్వ్ ఇవ వర్తే॥౯।౨౯॥
Link copiedఅపి చేత్ సుదురాచారో భజతే మామ్ అనన్య-భాక్।
Link copiedసాధుర్ ఏవ స మన్తవ్యః సమ్యగ్ వ్యవసితో హి సః॥౩౦॥
Link copiedతత్రాపి తత్ర తత్ర జాతి-విశేషే జాతానాం యః సమాచార ఉపాదేయః పరిహరణీయశ్ చ, తస్మాద్ అతివృత్తోఽప్య్ ఉక్త-ప్రకారేణ మామ్ అనన్య-భాగ్ భజనైక-ప్రయోజనో భజతే చేత్ సాధుర్ ఏవ స వైష్ణవాగ్రేసర ఏవ మన్తవ్యః, బహు-మన్తవ్యః పూర్వోక్తైః సమ ఇత్య్ అర్థః। కుత ఏతత్। సమ్యగ్ వ్యవసితో హి సః, యతోఽస్య వ్యవసాయః సుసమీచీనః।
Link copiedభగవాన్ నిఖిల-జగద్-ఏక-కారణ-భూతః పర-బ్రహ్మ నారాయణశ్ చరాచర-పతిర్ అస్మత్-స్వామీ మమ గురుర్ మమ సుహృన్ మమ పరం భోగ్యమ్ ఇతి సర్వైర్ దుష్ప్రాపోఽయం వ్యవసాయస్ తేన కృతః, తత్-కార్యం చానన్య-ప్రయోజనం నిరన్తర-భజనం తస్యాస్తి, అతః సాధుర్ ఏవ బహు-మన్తవ్యః।
Link copiedఅస్మిన్ వ్యవసాయే తత్-కార్యే చోక్త-ప్రకార-భజనే సమ్పన్నే సతి తస్య ఆచార-వ్యతిక్రమః స్వల్ప-వైకల్యమ్ ఇతి న తావతా అనాదరణీయః, అపి తు బహు-మన్తవ్య ఏవేత్య్ అర్థః॥౯।౩౦॥
Link copiedనను---
Link copiedనావిరతో దుశ్చరితాన్ నాశాన్తో నాసమాహితః।
Link copiedనాశాన్త-మానసో వాపి ప్రజ్ఞానేనైనమ్ ఆప్నుయాత్॥ [క।ఉ। ౧।౨।౨౪]
Link copied
ఇత్య్-ఆది-శ్రుతేః ఆచార-వ్యతిక్రమ ఉత్తరోత్తర-భజనోత్పత్తి-ప్రవాహం నిరుణాద్ధీత్య్ అత్రాహ---
Link copiedక్షిప్రం భవతి ధర్మాత్మా శశ్వచ్-ఛాన్తిం నిగచ్ఛతి।
Link copiedకౌన్తేయ ప్రతిజానీహి న మే భక్తః ప్రణశ్యతి॥౩౧॥
Link copiedమత్-ప్రియత్వ-కారితానన్య-ప్రయోజన-మద్-భజనేన విధూత-పాపతయైవ స-మూలోన్మూలిత-రజస్-తమో-గుణః క్షిప్రం ధర్మాత్మా భవతి క్షిప్రమ్ ఏవ విరోధి-రహిత-స-పరికర-మద్-భజనైక-మనా భవతి। ఏవం-రూప-భజనమ్ ఏవ హి ధర్మస్యాస్య పరన్తప [౯।౩] ఇత్య్ ఉపక్రమే ధర్మ-శబ్దోదితః।
Link copiedశశ్వచ్-ఛాన్తిం నిగచ్ఛతి। శాశ్వతీమ్ అపునర్-ఆవర్తినీం మత్-ప్రాప్తి-విరోధ్య్-ఆచార-నివృత్తిం గచ్ఛతి। కౌన్తేయ ! త్వమ్ ఏవాస్మిన్ అర్థే ప్రతిజ్ఞాం కురు మద్-భక్తౌ ఉపక్రాన్తో విరోధ్య్-ఆచార-మిశ్రోఽపి న నశ్యత్య్ అపి తు మద్-భక్తి-మాహాత్మ్యేన సర్వం విరోధి-జాతం నాశయిత్వా శాశ్వతీం విరోధి-నివృత్తిమ్ అధిగమ్య క్షిప్రం పరిపూర్ణ-భక్తిర్ భవతి॥౯।౩౧॥
Link copiedమాం హి పార్థ వ్యపాశ్రిత్య యేఽపి స్యుః పాప-యోనయః।
Link copiedస్త్రియో వైశ్యాస్ తథా శూద్రాస్ తేఽపి యాన్తి పరాం గతిమ్॥౩౨॥
Link copiedస్త్రియో వైశ్యాః శూద్రాశ్ చ పాప-యోనయోఽపి మాం వ్యపాశ్రిత్య పరాం గతిం యాన్తి॥౯।౩౨॥
Link copiedకిం పునర్ బ్రాహ్మణాః పుణ్యా భక్తా రాజర్షయస్ తథా।
Link copiedఅనిత్యమ్ అసుఖం లోకమ్ ఇమం ప్రాప్య భజస్వ మామ్॥౩౩॥
Link copiedకిం పునః పుణ్య-యోనయో బ్రాహ్మణాః రాజర్షయశ్ చ మద్-భక్తిమ్ ఆశ్రితాః। అతస్ త్వం రాజర్షిర్ అస్థిరం తాప-త్రయాభిహతతయా అసుఖం చేమం లోకం ప్రాప్య వర్తమానో మాం భజస్వ।
Link copiedభక్తి-స్వరూపమ్ ఆహ---
Link copiedమన్-మనా భవ మద్-భక్తో మద్-యాజీ మాం నమస్కురు।
Link copiedమామ్ ఏవైష్యసి యుక్త్వైవమ్ ఆత్మానం మత్-పరాయణః॥౩౪॥
Link copiedమన్-మనా భవ మయి సర్వేశ్వరే నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైక-తానే సర్వజ్ఞే సత్య-సఙ్కల్పే నిఖిల-జగద్-ఏక-కారణే పరస్మిన్ బ్రహ్మణి పురుషోత్తమే పుణ్డారీక-దలామలాయతేక్షణే స్వచ్ఛ-నీల-జీమూత-సఙ్కాశే యుగపద్-ఉదిత-దినకర-సహస్ర-సదృశ-తేజసి లావణ్యామృత-మహోదధావ్ ఉదార-పీవర-చతుర్-బాహవ్ అత్యుజ్జ్వల-పీతామ్బరే ఽమల-కిరీట-మకర-కుణ్డాల-హార-కేయూర-కటకాది-భూషితేఽపార-కారుణ్య-సౌశీల్య-సౌన్దర్య-మాధుర్య-గామ్భీర్యౌదార్య-వాత్సల్య-జలధవ్ అనాలోచిత-విశేషాశేష-లోక-శరణ్యే సర్వ-స్వామిని తైల-ధారావద్ అవిచ్ఛేదేన నివిష్ట-మనా భవ।
Link copiedతద్ ఏవ విశినష్టి--- మద్-భక్తోఽత్యర్థ-మత్-ప్రియత్వేన యుక్తో మన్-మనా భవ ఇత్య్ అర్థః। పునర్ అపి విశినష్టి--- మద్-యాజీ అనవధికాతిశయ-ప్రియ-మద్-అనుభవ-కారిత-మద్-యజన-పరో భవ। యజనం నామ పరిపూర్ణ-శేష-వృత్తిః, ఔపచారిక-సాంస్పర్శికాభ్యవహారికాది-సకల-భోగ-ప్రదాన-రూపో హి యాగః। యథా మద్-అనుభవ-జనిత-నిరవధికాతిశయ-ప్రీతికారిత-మద్-యజన-పరో భవసి తథా మన్-మనా భవ ఇత్య్ ఉక్తం భవతి।
Link copiedపునర్ అపి తద్ ఏవ విశినష్టి--- మాం నమస్కురు, అనవధికాతిశయ-ప్రియ-మద్-అనుభవ-కారితాత్యర్థ-ప్రియాశేష-శేష-వృత్తవ్ అపర్యవస్యన్ మయ్య్ అన్తర్-ఆత్మన్య్ అతిమాత్ర-ప్రహ్వీభావ-వ్యవసాయం కురు। మత్-పరాయణోఽహమ్ ఏవ పరమ్ అయనం యస్యాసౌ మత్-పరాయణః, మయా వినా ఆత్మ-ధారణా-సమ్భావనయా మద్-ఆశ్రయ ఇత్య్ అర్థః। ఏవమ్ ఆత్మానం యుక్త్వా మత్-పరాయణస్ త్వమ్ ఏవమ్ అనవధికాతిశయ-ప్రీత్యా మద్-అనుభవ-సమర్థం మనః ప్రాప్య మామ్ ఏవైష్యసి। ఆత్మ-శబ్దో హ్య్ అత్ర మనో-విషయః। ఏవం-రూపేణ మనసా మాం ధ్యాత్వా మామ్ అనుభూయ మామ్ ఇష్ట్వా మాం నమస్కృత్య మత్-పరాయణో మామ్ ఏవ ప్రాప్స్యసీత్య్ అర్థః।
Link copiedతద్ ఏవం లౌకికాని శరీర-ధారణార్థాని వైదికాని చ నిత్య-నైమిత్తికాని కర్మాణి మత్-ప్రీతయే మచ్-ఛేషతైక-రసో మయైవ కారిత ఇతి కుర్వన్ సతతం మత్-కీర్తన-యజన-నమస్కారాదికాన్ ప్రీత్యా కుర్వాణో మన్-నియామ్యం నిఖిల-జగత్ మచ్-ఛేషతైక-రసమ్ ఇతి చానుసన్దధానః, అత్యర్థ-ప్రియ-మద్-గుణ-గణం చానుసన్ధాయాహర్-అహర్ ఉక్త-లక్షణమ్ ఇదమ్ ఉపాసనమ్ ఉపాదధానో మామ్ ఏవ ప్రాప్స్యసి॥౯।౩౪॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే నవమోఽధ్యాయః ॥౯॥
Link copied**
Link copiedupa:saka bhe:da nibandhana: vise:sha:h prathipa:ditha:h| ida:ni:m upa:syasya parama purushasya ma:ha:thmyam| jna:nina:m cha vise:sham viso:dhya bhakthi ru:pasyo:pa:sanasya svaru:pam uchyathe:---
Link copiedidam thu the: guhyathamam pravakshya:my anasu:yave:|
Link copiedjna:nam vijna:na sahitham yaj jna:thva: mo:kshyase:'subha:th||1||
Link copiedidam thu the: guhyathamam bhakthi ru:pam upa:sana:khyam jna:nam| vijna:na sahitham upa:sana gathi vise:sha jna:na sahitham| anasu:yave: the: pravakshya:mi| mad vishayam sakale:thara visaja:thi:yam aparimitha praka:ram ma:ha:thmyam sruthva: e:vam e:va sambhavathi:thi manva:na:ya the: pravakshya:mi:thy arthah| yaj jna:nam anushtha:na paryantham jna:thva: math pra:pthi viro:dhinah sarvasma:d asubha:n mo:kshyase:||9.1||
Link copiedra:ja vidya: ra:ja guhyam pavithram idam uththamam|
Link copiedprathyaksha:vagamam dharmyam susukham karthum avyayam||2||
Link copiedra:ja vidya: vidya:na:m ra:ja: ra:ja guhyam guhya:na:m ra:ja:| ra:jna:m vidye:thi va: ra:ja vidya:, ra:ja:no: hi visthi:rna:ga:dha manasah, maha: manasa:m iyam vidya: ithy arthah| maha: manasa e:va go:pani:ya go:pana kusala: ithi the:sha:m e:va guhyam idam| uththamam pavithram math pra:pthi viro:dhy ase:sha kalmasha:paham prathyaksha:vagamam| avagamyatha ithy avagamo: vishayah| prathyaksha bhu:tho:'vagamo: vishayo: yasya jna:nasya thath prathyaksha:vagamam| bhakthi ru:pe:no:pa:sane:na upa:syama:no:'ham thada:ni:m e:va upa:sithuh prathyakshatha:m upa:gatho: bhava:mi:thy arthah|
Link copiedatha:pi dharmyam dharma:d anape:tham dharmathvam hi nihsre:yasa sa:dhanathvam| svaru:pe:na e:va:thyartha priyathve:na thada:ni:m e:va mad darsana:pa:danathaya: cha svayam nihsre:yasa ru:pam api nirathisaya nihsre:yasa ru:pa:thyanthika math pra:pthi--sa:dhanam ithy arthah| atha e:va susukham karthum susukho:pa:da:nam, athyarthapriyathve:na upa:de:yam| avyayam akshayam math pra:pthim sa:dhayithva:pi svayam na kshi:yathe:| e:vam ru:pam upa:sanam kurvatho: math prada:ne: kruthe:'pi na kinchith krutham maya:sye:thi me: prathibha:thi:thy arthah||9.2||
Link copiedasraddadha:na:h purusha: dharmasya:sya paranthapa|
Link copiedapra:pya ma:m nivarthanthe: mruthyu samsa:ra varthmani||3||
Link copiedasyo:pa:sana:khyasya dharmasya nirathisaya priya mad vishayathaya: svayam nirathisaya priya ru:pasya parama nihsre:yasa svaru:pa math pra:pthi sa:dhanasya:vyayasya upa:da:na yo:gya dasa:m pra:pya:sraddadha:na: visva:sa pu:rvaka thva:ra: rahitha:h purusha: ma:m apra:pya mruthyu ru:pe: samsa:ra varthmani nithara:m varthanthe:| aho: ! mahad idam a:scharyam ithy arthah||9.3||
Link copiedsrunu tha:vath pra:pya bhu:thasya mama:chinthya mahima:nam---
Link copiedmaya: thatham idam sarvam jagad avyaktha mu:rthina:|
Link copiedmath stha:ni sarva bhu:tha:ni na cha:ham the:shv avasthithah||4||
Link copiedidam che:thana:che:thana:thmakam kruthsnam jagad avyaktha mu:rthina:praka:sitha svaru:pe:na maya:ntharya:mina: thatham| asya jagatho: dha:rana:rtham niyamana:rtham cha se:shithve:na vya:ptham ithy arthah| yatha: antharya:mi bra:hmane: yah pruthivya:m thishthan ... yam pruthivi: na ve:da [bru.a:.u. 3.7.3] ya a:thmani thishthan ... yam a:thma: na ve:da [SathBr 14.6.5.5.30] ithi che:thana:che:thana vasthu ja:thair adrushte:na:ntharya:mina: thathra thathra vya:pthir uktha:|
Link copiedthatho: math stha:ni sarva bhu:tha:ni sarva:ni bhu:tha:ni mayy antharya:mini sthitha:ni, thathraiva bra:hmane: yasya pruthivi: sari:ram yah pruthivi:m antharo: yamayathi [bru.a:.u. 3.7.3], yasya:thma: sari:ram ya a:thma:nam antharo: yamayathi [SathBr 14.6.6.5.30] ithi sari:rathve:na niya:myathva prathipa:dana:th| thada:yaththe: sthithi niyamane: prathipa:dithe: se:shithvam cha, na cha:ham the:shv avasthitho:'ham thu na thada:yaththa sthithih| math sthithau thair na kaschid upaka:ra ithy arthah||9.4||
Link copiedna cha math stha:ni bhu:tha:ni pasya me: yo:gam aisvaram|
Link copiedbhu:tha bhrun na cha bhu:tha stho: mama:thma: bhu:tha bha:vanah||5||
Link copiedna cha math stha:ni bhu:tha:ni na ghatadi:na:m jala:de:r iva mama dha:rakathvam| katham| math sankalpe:na| pasya mamaisvaram yo:gam| anyathra kuthrachid asambhavani:yam mad asa:dha:ranam a:scharyam yo:gam pasya| ko:'sau yo:gah| bhu:tha bhrun na cha bhu:tha stho: mama:thma: bhu:tha bha:vanah| sarve:sha:m bhu:tha:na:m bhartha:ham na cha thaih kaschid api mamo:paka:rah| mama:thmaiva bhu:tha bha:vanah| mama mano: mayah sankalpa e:va bhu:tha:na:m bha:vayitha: dha:rayitha: niyantha: cha||9.5||
Link copiedsarvasya:sya sva sankalpa:yaththa sthithi pravruththithve: nidarsanam a:ha---
Link copiedyatha:ka:sa sthitho: nithyam va:yuh sarvathra go: maha:n|
Link copiedthatha: sarva:ni bhu:tha:ni math stha:ni:thy upadha:raya||6||
Link copiedyatha:ka:se:'na:lambane: maha:n va:yuh sthithah sarvathra gachchhathi| sa thu va:yur nira:lambano: mad a:yaththa sthithir ithy avasya:bhyupagamani:yo: mayaiva dhrutha ithi vijna:yathe:, thathaiva sarva:ni bhu:tha:ni thair adrushto: mayi sthitha:ni mayaiva dhrutha:ni:thy upadha:raya|
Link copiedyatha:huh ve:da vidah--- me:gho:dayah sa:gara sannivruththir indo:r vibha:gah sphuritha:ni va:yo:h| vidyud vibhango: gathir ushna rasme:r vishno:r vichithra:h prabhavanthi ma:ya:h|| ithi vishno:r ananya sa:dha:rana:ni maha:scharya:ni:thy arthah| sruthir api--- e:thasya va: aksharasya prasa:sane: ga:rgi su:rya:chandramasau vidhruthau thishthathah [bru.a:.u. 3.8.9]
Link copiedbhi:sha:sma:d va:thah pavathe: bhi:sho:de:thi su:ryah|
Link copiedbhi:sha:sma:d agnis che:ndras cha mruthyur dha:vathi panchamah [thai.u. 2.8.1]
Link copiedithy a:dika:||9.6||
Link copiedsakale:thara nirape:kshasya bhagavathah sankalpa:th sarve:sha:m sthithih pravruththis cho:ktha:s thatha: thath sankalpa:d e:va sarve:sha:m uthpaththi pralayav api, ithy a:ha---
Link copiedsarva bhu:tha:ni kaunthe:ya prakruthim ya:nthi ma:mika:m|
Link copiedkalpa kshaye: punas tha:ni kalpa:dau visruja:my aham||7||
Link copiedstha:vara jangama:thmaka:ni sarva:ni bhu:tha:ni ma:mika:m mach chhari:ra bhu:tha:m prakruthim thamah sabda va:chya:m na:ma ru:pa vibha:ga:narha:m kalpa kshaye: chathur mukha:vasa:na samaye: math sankalpa:d ya:nthi| tha:ny e:va bhu:tha:ni kalpa:dau punar visruja:my aham| yatha:ha manuh--- a:si:d idam thamo: bhu:tham [manu 1.5] so:'bhidhya:ya sari:ra:th sva:th [manu 1.8] ithi sruthir api--- yasya:vyaktham sari:ram [su.u. 7] ithy a:dika:, avyaktham akshare: li:yathe:'ksharam thamasi li:yathe:, thamah pare: de:ve: e:ki:bhavathi [su.u. 2] thama a:si:th thamasa: gu:dham agre: prake:tham [rug.ve:. 8.7.17.3] ithi cha||9.7||
Link copiedprakruthim sva:m avashtabhya visruja:mi punah punah|
Link copiedbhu:tha gra:mam imam kruthsnam avasam prakruthe:r vasa:th||8||
Link copiedsvaki:ya:m vichithra parina:mini:m prakruthim avashtabhya:shtadha: parinamayya imam chathur vidham de:va thiryan manushya stha:vara:thmakam bhu:tha gra:mam madi:ya:ya: mo:hinya:h guna mayya:h prakruthe:h vasa:d avasam punah punah ka:le: ka:le: visruja:mi||9.8||
Link copiede:vam tharhi vishama srushty a:di:ni karma:ni nairghrunya:dy a:pa:dane:na bhagavantham badhnanthi:thi| athra:ha---
Link copiedna cha ma:m tha:ni karma:ni nibadhnanthi dhananjaya|
Link copieduda:si:navad a:si:nam asaktham the:shu karmasu||9||
Link copiedna cha tha:ni vishama srushty a:di:ni karma:ni ma:m nibadhnanthi mayi nairghrunya:dikam na:pa:dayanthi, yathah kshe:thra jna:na:m pu:rva kruthya:ny e:va karma:ni de:va:di vishama bha:va he:thavah| aham thu thathra vaishamye:'sakthas thathra uda:si:navad a:si:nah| yatha:ha su:thra ka:rah--- vaishamya nairghrunye: na sa:pe:kshathva:th [ve:.su:. 2.1.34] na karma:vibha:ga:d ithi che:n na:na:dithva:th [ve:.su:. 2.1.35] ithi||9.9||
Link copiedmaya:dhyakshe:na prakruthih su:yathe: sa chara:charam|
Link copiedhe:thuna:ne:na kaunthe:ya jagad viparivarthathe:||10||
Link copiedthasma:th kshe:thrajna karma:nugunam madi:ya: prakruthih sathya sankalpe:na maya:dhyakshe:ne:kshitha: sa chara:charam jagath su:yathe:, ane:na kshe:thrajna karma:nuguna mad i:kshane:na he:thuna: jagad viparivarthathe:| ithi math sva:myam sathya sankalpathvam nairghrunya:di do:sha rahithathvam ithy e:vam a:dikam mama vasude:va su:no:r aisvaram yo:gam pasya| yatha: sruthih---
Link copiedasma:n ma:yi: srujathe: visvam e:thath
Link copiedthasmims cha:nyo: ma:yaya: sanniru:ddhah|
Link copiedma:ya:m thu prakruthim vidya:n
Link copiedma:yinam thu mahe:svaram|| [sve:.u. 4.9-10] ithi||9.10||
Link copied
avaja:nanthi ma:m mu:dha: ma:nushi:m thanum a:sritham|
Link copiedparam bha:vam aja:nantho: mama bhu:tha mahe:svaram||11||
Link copiede:vam ma:m bhu:tha mahe:svaram sarvajnam sathya sankalpam nikhila jagad e:ka ka:ranam parama ka:runikathaya: sarva sama:srayani:yathva:ya ma:nushi:m thanum a:sritham sva kruthaih pa:pa karmabhir mu:dha: avaja:nanthi--- pra:krutha manushya samam manyanthe:| bhu:tha mahe:svarasya mama:pa:ra ka:runyauda:rya sausi:lya va:thsalya:di nibandhanam manushyathva sama:srayana lakshanam imam param bha:vam aja:nantho: manushyathva sama:srayana ma:thre:na ma:m ithara saja:thi:yam mathva: thiraskurvanthi:thy arthah||9.11||
Link copiedmo:gha:sa: mo:gha karma:no: mo:gha jna:na: viche:thasah|
Link copiedra:kshasi:m a:suri:m chaiva prakruthim mo:hini:m sritha:h||12||
Link copiedmama manushyathve: parama ka:runya:di parathva thiro:dha:na kari:m ra:kshasi:m a:suri:m cha mo:hini:m prakruthim a:sritha:h, mo:gha:sa:h mo:gha va:nchhitha: nishphala va:nchhitha:h, mo:gha karma:no: mo:gha:rambha:h| mo:gha jna:na:h sarve:shu madi:ye:shu chara:chare:shv arthe:shu mayi cha vipari:tha jna:nathaya: nishphala jna:na:h| viche:thasas thatha: sarvathra vigatha ya:tha:thmya jna:na:h, ma:m sarve:svaram ithara samam mathva: mayi yath karthum ichchhanthi, yad uddisya a:rambha:n kurvathe:, thath sarvam mo:gham bhavathi:thy arthah||9.12||
Link copiedmaha:thma:nas thu ma:m pa:rtha daivi:m prakruthim a:sritha:h|
Link copiedbhajanthy ananya manaso: jna:thva: bhu:tha:dim avyayam||13||
Link copiedye: thu sva kruthaih punya sachayair ma:m saranam upagamya vidhvastha samastha pa:pa bandha: daivi:m prakruthim a:sritha:h maha:thma:nas the:, bhu:tha:dim avyayam va:n ma:nasa:go:chara na:ma karma svaru:pam parama ka:runikathaya: sa:dhu parithra:na:ya manushyathve:na:vathi:rnam ma:m jna:thva: ananya manasah ma:m bhajanthe:| math priyathva:thire:ke:na mad bhajane:na vina: manasas cha:thmanas cha ba:hya karana:na:m cha dha:ranam alabhama:na:h, mad bhajanaika prayo:jana: bhajanthe:||9.13||
Link copiedsathatham ki:rthayantho: ma:m yathanthas cha drudha vratha:h|
Link copiednamasyanthas cha ma:m bhakthya: nithya yuktha: upa:sathe:||14||
Link copiedathyartham math priyathve:na math ki:rthana yathana namaska:rair vina: kshana:nu ma:thre:'py a:thma dha:ranam alabhama:na: mad guna:vise:sha va:chi:ni man na:ma:ni smruthva: pulaka:nchitha sarva:nga:h, harsha gadgada kantha:h sri: ra:ma na:ra:yana krushna va:sude:ve:thy e:vam a:di:ni sathatham ki:rthayanthas thathaiva yathantho: math karmasv archana:dike:shu vandana sthavana karana:dike:shu thad upaka:rake:shu bhavana nandana vana karana:dike:shu cha drudha sankalpa: yathama:na:h, bhakthi bha:ra:vanamitha mano: buddhy abhima:na pada dvaya kara dvaya siro:bhir ashtangair achinthitha pa:msu kardama sarkara:dike: dhara: thale: danda:vath pranipathanthah, sathatham ma:m nithya yuktha: nithya yo:gam a:ka:nkshama:na: a:thmavantho: mad da:sya vyavasa:yina upa:sathe:||9.14||
Link copiedjna:na yajne:na cha:py anye: yajantho: ma:m upa:sathe:|
Link copiede:kathve:na pruthakthve:na bahudha: visvatho: mukham||15||
Link copiedanye:'pi maha:thma:nah pu:rvo:kthaih ki:rthana:dibhir jna:na:khye:na yajne:na cha yajantho: ma:m upa:sathe:, katham| bahudha: pruthakthve:na jagad a:ka:re:na visvatho: mukham visva praka:ram avasthitham ma:m e:kathve:no:pa:sathe:| e:thad uktham bhavathi--- bhagava:n va:sude:va e:va na:ma ru:pa vibha:ga:narha:thisu:kshma chid achid vasthu sari:rah san sathya sankalpo: vividha vibhaktha na:ma ru:pa sthu:la chid achid vasthu sari:rah sya:m ithi sankalpya, sa e:ka e:va de:va thiryan manushya stha:vara:khya vichithra jagach chhari:ro:'vathishthathe: ithy anusandadha:na:s cha ma:m upa:sathe: ithi||9.15||
Link copiedthatha: hi visva sari:ro:'ham e:va:vasthithah, ithy a:ha---
Link copiedaham krathur aham yajnah svadha:ham aham aushadham|
Link copiedmanthro:'ham aham e:va:jyam aham agnir aham hutham||16||
Link copiedaham krathur aham jyo:thishto:ma:dika krathur aham e:va yajno: maha: yajno:'ham e:va svadha: pithru gana pushti da:yini: aushadham havis cha:ham e:va| aham e:va cha manthro:'ham e:va:jyam| pradarsana:rtham idam, so:ma:dikam cha havir aham e:ve:thy arthah| aham a:havani:ya:diko:'gnir ho:mas cha:ham e:va||9.16||
Link copiedpitha:ham asya jagatho: ma:tha: dha:tha: pitha:mahah|
Link copiedve:dyam pavithram o:nka:ra ruk sa:ma yajur e:va cha||17||
Link copiedasya stha:vara jangama:thmakasya jagathas thathra thathra pithruthve:na ma:thruthve:na dha:thruthve:na pitha:mahathve:na cha varthama:no:'ham e:va| athra dha:thru sabdo: ma:thru pithru vyathirikthe: uthpaththi prayo:jake: che:thana vise:she: varthe:| yath kinchid ve:da ve:dyam pavithram pa:vanam thad aham e:va| ve:dakas cha ve:da bi:ja bhu:thah pranavo:'ham e:va| ruk sa:ma yajur a:thmako: ve:das cha:ham e:va||9.17||
Link copiedgathir bhartha: prabhuh sa:kshi: niva:sah saranam suhruth|
Link copiedprabhavah pralayah stha:nam nidha:nam bi:jam avyayam||18||
Link copiedgamyatha ithi gathih, thathra thathra pra:pya stha:nam ithy arthah| bhartha: dha:rayitha:, prabhuh sa:sitha:, sa:kshi: sa:ksha:d drashta, niva:so: va:sa stha:nam cha ve:sma:di, saranam ishtasya pra:pakathaya:nishtasya niva:ranathaya: sama:srayani:yas che:thanah saranam, sa cha:ham e:va suhruth hithaishi:, prabhava pralaya stha:nam yasya kasyachid yathra kuthrachith prabhava pralayayo:h yath stha:nam thad aham e:va| nidha:nam nidhi:yatha ithi nidha:nam| uthpa:dyam upasamha:ryam cha:ham e:va ithy arthah| avyayam bi:jam thathra thathra vyaya rahitham yath ka:ranam thad aham e:va||9.18||
Link copiedthapa:my aham aham varsham nigruhna:my uthsruja:mi cha|
Link copiedamrutham chaiva mruthyus cha sad asach cha:ham arjuna||19||
Link copiedagnya:dithy a:di ru:pe:na:ham e:va thapa:mi, gri:shma:da:v aham e:va varsham nigruhna:mi thatha: varsha:sv api cha:ham e:va uthsruja:mi| amrutham chaiva mruthyus cha ye:na ji:vathi lo:ko: ye:na cha mriyathe:, thad ubhayam apy aham e:va| kim athra bahuno:kthe:na| sad asach cha:py aham e:va| sad yad varthathe:, asad yad athi:tham ana:gatham cha, sarva:vastha:vasthitha chid achid vasthu sari:rathaya: thath thath praka:ro: 'ham e:va:vasthitha ithy arthah| e:vam bahudha: pruthakthve:na vibhaktha na:ma ru:pa:vasthitha kruthsna jagach chhari:rathaya: thath praka:ro:'ham e:va:vasthitha ithy e:kathva jna:ne:na:nusandadha:na:s cha ma:m upa:sathe: tha e:va maha:thma:nah||9.19||
Link copiede:vam maha:thmana:m jna:nina:m bhagavad anubhavaika bho:ga:na:m vruththam ukthva: the:sha:m e:va vise:sham darsayithum ajna:na:m ka:ma ka:ma:na:m vruththam a:ha---
Link copiedthraividya: ma:m so:mapa:h pu:tha pa:pa:
Link copiedyajnair ishtva: svar gathim pra:rthayanthe:|
Link copiedthe: punyam a:sa:dya sure:ndra lo:kam
Link copiedasnanthi divya:n divi de:va bho:ga:n||20||
Link copiedrug yajuh sa:maru:pa:s thisro: vidya:s thri vidyam, ke:valam thri vidya nishtha:s thraividya:h| na thu thrayy antham nishtha:h, thrayy antha nishtha: hi maha:thma:nah pu:rvo:ktha praka:re:na:khila ve:da ve:dyam ma:m e:va jna:thva: athima:thra mad bhakthi ka:ritha ki:rthana:dibhir jna:na yajne:na cha mad e:ka pra:pya: ma:m e:vo:pa:sathe:| thraividya:s thu ve:da prathipa:dya ke:vale:ndra:di ya:ga sishta so:ma:n pibanthah pu:tha pa:pa:h svarga:di pra:pthi viro:dhi pa:pa:th pu:tha:s thaih ke:vale:ndra:di daivathyathaya:nusamhithair yajnair vasthuthas thad ru:pam ma:m ishtva: thatha:vasthitham ma:m aja:nanthah svarga gathim pra:rthayanthe:| the: punyam duhkha:sambhinnam sure:ndra lo:kam pra:pya thathra thathra divya:n de:va bho:ga:n asnanthi||9.20||
Link copiedthe: tham bhukthva: svarga lo:kam visa:lam
Link copiedkshi:ne: punye: marthya lo:kam visanthi|
Link copiede:vam thrayi: dharmam anuprapanna:
Link copiedgatha:gatham ka:ma ka:ma: labhanthe:||21||
Link copiedthe: tham visa:lam svarga lo:kam bhukthva: thad anubhava he:thu bhu:the: punye: kshi:ne: punar api marthya lo:kam visanthi| e:vam thrayy antha siddha jna:na vidhura:h ka:mya svarga:di ka:ma:h ke:valam thrayi: dharmam anuprapanna: gatha:gatham labhanthe:| alpa:sthira svarga:di:n anubhu:ya punah punah nivarthantha ithy arthah||9.21||
Link copiedmaha:thma:nas thu nirathisaya priya ru:pam mach chinthanam kruthva: ma:m anavadhika:thisaya:nandam pra:pya na punar a:varthantha ithi the:sha:m vise:sham darsayathi---
Link copiedananya:s chinthayantho: ma:m ye: jana:h paryupa:sathe:|
Link copiedthe:sha:m nithya:bhiyuktha:na:m yo:ga kshe:mam vaha:my aham||22||
Link copiedananya: ananya prayo:jana: mach chinthane:na vina:thma dha:rana: la:bha:n mach chinthanaika prayo:jana: ma:m chinthayantho: ye: maha:thma:no: jana:h paryupa:sathe: sarva kalya:na guna:nvitham sarva vibhu:thi yuktham ma:m paritha upa:sathe:'nyu:nam upa:sathe: the:sha:m nithya:bhiyuktha:na:m mayi nithya:bhiyo:gam ka:nkshama:na:na:m aham math pra:pthi lakshanam yo:gam apunar a:vruththi ru:pam kshe:mam cha vaha:mi||9.22||
Link copiedye:'py anya de:vatha: bhaktha: yajanthe: sraddhaya:nvitha:h|
Link copiedthe:'pi ma:m e:va kaunthe:ya yajanthy avidhi pu:rvakam||23||
Link copiedye:'py anya de:vatha: bhaktha: ye: thv indra:di de:vatha: bhaktha:h ke:vala thrayi: nishtha:h sraddhaya:nvitha:h indra:di:n yajanthe:, the:'pi pu:rvo:kthe:na nya:ye:na sarvasya mach chhari:rathaya: mad a:thmathve:na indra:di sabda:na:m cha mad va:chithva:d vasthutho: ma:m e:va yajanthe:'pi thv avidhi pu:rvakam yajanthe:| indra:di:na:m de:vatha:na:m karmasv a:ra:dhyathaya: anvayam yatha: ve:da:ntha va:kya:ni chathur ho:tha:ro: yathra sampadam gachchhanthi de:vaih [thai.a:. 4] ithy a:di:ni vidadhathi, na thath pu:rvakam yajanthe:| ve:da:ntha va:kya ja:tham hi parama purusha sari:rathaya:vasthitha:na:m indra:di:na:m a:ra:dhyathvam vidadhad a:thma bhu:thasya parama purushasyaiva sa:ksha:d a:ra:dhyathvam vidadha:thi|
Link copiedchathurho:tha:ro:'gniho:thra darsa paurnama:sa:di:ni karma:ni kurva:na: yathra parama:thmany a:thmathaya: avasthithe: sathy e:va thach chhari:ra bhu:thair indra:di de:vaih sampadam gachchhanthi, indra:di de:va:na:m a:ra:dhana:ni e:tha:ni karma:ni mad vishaya:ni:thi ma:m sampadam gachchhanthi:thy arthah||9.23||
Link copiedathas thraividya: indra:di sari:rasya parama purushasya:ra:dhana:ny e:tha:ni karma:ni| a:ra:dhyas cha sa e:ve:thi na ja:nanthi| the: cha parimitha phala bha:ginas chyavana svabha:va:s cha bhavanthi, thad a:ha---
Link copiedaham hi sarva yajna:na:m bho:ktha: cha prabhur e:va cha|
Link copiedna thu ma:m abhija:nanthi thaththve:na:thas chyavanthi the:||24||
Link copiedprabhur e:va cha thathra thathra phala prada:tha: cha:ham e:ve:thy arthah||9.24||
Link copiedaho: mahad idam vaichithryam yad e:kasminn e:va karmani varthama:na:h sankalpa ma:thra bhe:de:na ke:chid athyalpa phala bha:ginas chyavana svabha:va:s cha bhavanthi, ke:chana:navadhika:thisaya:nanda parama purusha pra:pthi ru:pa phala bha:gino:'punar a:varthinas cha bhavanthi, ithy a:ha---
Link copiedya:nthi de:va vratha: de:va:n pithru:n ya:nthi pithru vratha:h|
Link copiedbhu:tha:ni ya:nthi bhu:the:jya: ya:nthi mad ya:jino:'pi ma:m||25||
Link copiedvratha sabdah sankalpa va:chi:, de:va vratha:h darsa paurnama:sa:dibhih karmabhir indra:di:n yaja:mah, ithi:ndra:di yajana sankalpa:h| ye: tha indra:di de:va:n ya:nthi| ye: cha pithru yajna:dibhih pithru:n yaja:mah, ithi pithru yajana sankalpa:h, the: pithru:n ya:nthi| ye: cha yaksha rakshah pisa:cha:di:ni bhu:tha:ni yaja:mah, ithi bhu:tha yajana sankalpa:h, the: bhu:tha:ni ya:nthi| ye: thu thair e:va yajnair de:va pithru bhu:tha sari:rakam parama:thma:nam bhagavantham va:sude:vam yaja:ma ithi ma:m yajanthe: the: mad ya:jino: ma:m e:va ya:nthi| de:va:di vratha: de:va:di:n pra:pya thaih saha parimitham bho:gam bhukthva: the:sha:m vina:sa ka:le: thaih saha vinashta: bhavanthi| mad ya:jinas thu ma:m ana:di nidhanam sarvajnam sathya sankalpam anavadhika:thisaya:sankhye:ya kalya:na guna gana maho:dadhim anavadhika:thisaya:nandam pra:pya na punar nivarthantha ithy arthah||9.25||
Link copiedmad ya:jina:m ayam api vise:sho:'sthi:thy a:ha---
Link copiedpathram pushpam phalam tho:yam yo: me: bhakthya: prayachchhathi|
Link copiedthad aham bhakthy upahrutham asna:mi prayatha:thmanah||26||
Link copiedsarva sulabham pathram va: pushpam va: phalam va: tho:yam va: yo: bhakthya: me: prayachchhathy athyartha math priyathaya: thath prada:ne:na vina: a:thma dha:ranam alabhama:nathaya: thad e:ka prayo:jano: yo: me: pathra:dikam dada:thi thasya prayatha:thmanas thath prada:naika prayo:janathva ru:pa suddhi yuktha manasas thath thatha: vidha bhakthy upahrutham aham sarve:svaro: nikhila jagad udaya vibhava laya li:lo:'va:ptha samastha ka:mah sathya sankalpo:'navadhika:thisaya:sankhye: kalya:na guna ganah sva:bha:vika:navadhika:thisaya:nanda sva:nubhave: varthama:no:'pi, mano:ratha patha du:ravarthi priyam pra:pya iva:sna:mi| yatho:ktham mo:ksha dharme:---
Link copiedya:h kriya:h samprayuktha:h syur
Link copiede:ka:ntha gatha buddhibhih|
Link copiedtha:h sarva:h sirasa: de:vah
Link copiedprathigruhna:thi vai svayam|| [ma.bha:. 12.340.64] ithi||9.26||
Link copied
yasma:j jna:nina:m maha:thmana:m va:n manasa:go:charo:'yam vise:shas thasma:th thvam cha jna:ni: bhu:thva: uktha lakshana bhakthi bha:ra:vanatha:thma:thmi:yah ki:rthana yathana:rchana prana:ma:dikam sathatham kurva:no: laukikam vaidikam cha nithya naimiththikam karma che:ththam kurv ithy a:ha---
Link copiedyath karo:shi yad asna:si yaj juho:shi dada:si yath|
Link copiedyath thapasyasi kaunthe:ya thath kurushva mad arpanam||27||
Link copiedyad de:ha ya:thra:di se:sha bhu:tham laukikam karma karo:shi, yach cha de:ha dha:rana:ya:sna:si, yach cha vaidikam ho:ma da:na thapah prabhruthi nithya naimiththikam karma karo:shi, thath sarvam mad arpanam kurushva| arpyatha ithy arpanam, sarvasya laukikasya vaidikasya cha karmanah karthruthvam bho:kthruthvam a:ra:dhyathvam cha yatha: mayi sarvam samarpitham bhavathi thatha: kuru|
Link copiede:thad uktham bhavathi--- ya:ga da:na:dishv a:ra:dhyathaya: prathi:yama:na:na:m de:va:di:na:m karma karthur bho:kthus thava cha madi:yathaya: math sankalpa:yaththa svaru:pa sthithi pravruththithaya: cha mayy e:va parama se:shini parama karthari thva:m cha kartha:ram bho:ktha:ram a:ra:dhakam a:ra:dhyam cha de:vatha: ja:tham a:ra:dhanam cha kriya: ja:tham sarvam samarpaya| thava man niya:myatha: pu:rvaka mach chhe:shathaika rasatha:m a:ra:dhya:de:s cha e:thath svabha:vaka garbhatha:m athyartha pri:thi yuktho:'nusandhathsva ithi||9.27||
Link copiedsubha:subha phalair e:vam mo:kshyase: karma bandhanaih|
Link copiedsannya:sa yo:ga yuktha:thma: vimuktho: ma:m upaishyasi||28||
Link copiede:vam sannya:sa:khya yo:ga yuktha mana: a:thma:nam mach chhe:shatha: man niya:myathaika rasam karma cha sarvam mad a:ra:dhanam anusandadha:no: laukikam vaidikam cha karma kurvan subha:subha phalair ananthaih pra:chi:na karma:khyair bandhanair math pra:pthi viro:dhibhih sarvaih mo:kshyase:, thair vimuktho: ma:m e:vo:paishyasi||9.28||
Link copiedmame:mam paramam athilo:kam svabha:vam srunu---
Link copiedsamo:'ham sarva bhu:the:shu na me: dve:shyo:'sthi na priyah|
Link copiedye: bhajanthi thu ma:m bhakthya: mayi the: the:shu cha:py aham||29||
Link copiedde:va thiryan manushya stha:vara:thmana: sthithe:shu ja:thithas cha:ka:rathah svabha:vatho: jna:nathas cha:thyantho:thkrushta:pakrushta ru:pe:na varthama:ne:shu sarve:shu bhu:the:shu sama:srayani:yathve:na samo:'ham| ayam ja:thya:ka:ra svabha:va jna:na:dibhir nikrushta ithi sama:srayane: na me: dve:shyo:'sthy udve:jani:yathaya: na thya:jyo:'sthi| thatha: sama:srithathva:thire:ke:na ja:thy a:dibhir athyantho:thkrushto:'yam ithi thad yukthathaya: sama:srayane: na kaschith priyo:'sthi na sangra:hyo:'sthi|
Link copiedapi thv athyartha math priyathve:na mad bhajane:na vina:thma dha:rana:la:bha:n mad bhajanaika prayo:jana: ye: ma:m bhajanthe: the: ja:thy a:dibhir uthkrushta: apakrushta: va: math sama:na gunavad yatha: sukham mayy e:va varthanthe:| aham api the:shu mad uthkrushte:shv iva varthe:||9.29||
Link copiedapi che:th sudura:cha:ro: bhajathe: ma:m ananya bha:k|
Link copiedsa:dhur e:va sa manthavyah samyag vyavasitho: hi sah||30||
Link copiedthathra:pi thathra thathra ja:thi vise:she: ja:tha:na:m yah sama:cha:ra upa:de:yah pariharani:yas cha, thasma:d athivruththo:'py uktha praka:re:na ma:m ananya bha:g bhajanaika prayo:jano: bhajathe: che:th sa:dhur e:va sa vaishnava:gre:sara e:va manthavyah, bahu manthavyah pu:rvo:kthaih sama ithy arthah| kutha e:thath| samyag vyavasitho: hi sah, yatho:'sya vyavasa:yah susami:chi:nah|
Link copiedbhagava:n nikhila jagad e:ka ka:rana bhu:thah para brahma na:ra:yanas chara:chara pathir asmath sva:mi: mama gurur mama suhrun mama param bho:gyam ithi sarvair dushpra:po:'yam vyavasa:yas the:na kruthah, thath ka:ryam cha:nanya prayo:janam niranthara bhajanam thasya:sthi, athah sa:dhur e:va bahu manthavyah|
Link copiedasmin vyavasa:ye: thath ka:rye: cho:ktha praka:ra bhajane: sampanne: sathi thasya a:cha:ra vyathikramah svalpa vaikalyam ithi na tha:vatha: ana:darani:yah, api thu bahu manthavya e:ve:thy arthah||9.30||
Link copiednanu---
Link copiedna:viratho: duscharitha:n na:sa:ntho: na:sama:hithah|
Link copiedna:sa:ntha ma:naso: va:pi prajna:ne:nainam a:pnuya:th|| [ka.u. 1.2.24]
Link copied
ithy a:di sruthe:h a:cha:ra vyathikrama uththaro:ththara bhajano:thpaththi prava:ham niruna:ddhi:thy athra:ha---
Link copiedkshipram bhavathi dharma:thma: sasvach chha:nthim nigachchhathi|
Link copiedkaunthe:ya prathija:ni:hi na me: bhakthah pranasyathi||31||
Link copiedmath priyathva ka:ritha:nanya prayo:jana mad bhajane:na vidhu:tha pa:pathayaiva sa mu:lo:nmu:litha rajas thamo: gunah kshipram dharma:thma: bhavathi kshipram e:va viro:dhi rahitha sa parikara mad bhajanaika mana: bhavathi| e:vam ru:pa bhajanam e:va hi dharmasya:sya paranthapa [9.3] ithy upakrame: dharma sabdo:dithah|
Link copiedsasvach chha:nthim nigachchhathi| sa:svathi:m apunar a:varthini:m math pra:pthi viro:dhy a:cha:ra nivruththim gachchhathi| kaunthe:ya ! thvam e:va:smin arthe: prathijna:m kuru mad bhakthau upakra:ntho: viro:dhy a:cha:ra misro:'pi na nasyathy api thu mad bhakthi ma:ha:thmye:na sarvam viro:dhi ja:tham na:sayithva: sa:svathi:m viro:dhi nivruththim adhigamya kshipram paripu:rna bhakthir bhavathi||9.31||
Link copiedma:m hi pa:rtha vyapa:srithya ye:'pi syuh pa:pa yo:nayah|
Link copiedsthriyo: vaisya:s thatha: su:dra:s the:'pi ya:nthi para:m gathim||32||
Link copiedsthriyo: vaisya:h su:dra:s cha pa:pa yo:nayo:'pi ma:m vyapa:srithya para:m gathim ya:nthi||9.32||
Link copiedkim punar bra:hmana:h punya: bhaktha: ra:jarshayas thatha:|
Link copiedanithyam asukham lo:kam imam pra:pya bhajasva ma:m||33||
Link copiedkim punah punya yo:nayo: bra:hmana:h ra:jarshayas cha mad bhakthim a:sritha:h| athas thvam ra:jarshir asthiram tha:pa thraya:bhihathathaya: asukham che:mam lo:kam pra:pya varthama:no: ma:m bhajasva|
Link copiedbhakthi svaru:pam a:ha---
Link copiedman mana: bhava mad bhaktho: mad ya:ji: ma:m namaskuru|
Link copiedma:m e:vaishyasi yukthvaivam a:thma:nam math para:yanah||34||
Link copiedman mana: bhava mayi sarve:svare: nikhila he:ya prathyani:ka kalya:naika tha:ne: sarvajne: sathya sankalpe: nikhila jagad e:ka ka:rane: parasmin brahmani purusho:ththame: punda:ri:ka dala:mala:yathe:kshane: svachchha ni:la ji:mu:tha sanka:se: yugapad uditha dinakara sahasra sadrusa the:jasi la:vanya:mrutha maho:dadha:v uda:ra pi:vara chathur ba:hav athyujjvala pi:tha:mbare: 'mala kiri:ta makara kunda:la ha:ra ke:yu:ra kataka:di bhu:shithe:'pa:ra ka:runya sausi:lya saundarya ma:dhurya ga:mbhi:ryauda:rya va:thsalya jaladhav ana:lo:chitha vise:sha:se:sha lo:ka saranye: sarva sva:mini thaila dha:ra:vad avichchhe:de:na nivishta mana: bhava|
Link copiedthad e:va visinashti--- mad bhaktho:'thyartha math priyathve:na yuktho: man mana: bhava ithy arthah| punar api visinashti--- mad ya:ji: anavadhika:thisaya priya mad anubhava ka:ritha mad yajana paro: bhava| yajanam na:ma paripu:rna se:sha vruththih, aupacha:rika sa:msparsika:bhyavaha:rika:di sakala bho:ga prada:na ru:po: hi ya:gah| yatha: mad anubhava janitha niravadhika:thisaya pri:thika:ritha mad yajana paro: bhavasi thatha: man mana: bhava ithy uktham bhavathi|
Link copiedpunar api thad e:va visinashti--- ma:m namaskuru, anavadhika:thisaya priya mad anubhava ka:ritha:thyartha priya:se:sha se:sha vruththav aparyavasyan mayy anthar a:thmany athima:thra prahvi:bha:va vyavasa:yam kuru| math para:yano:'ham e:va param ayanam yasya:sau math para:yanah, maya: vina: a:thma dha:rana: sambha:vanaya: mad a:sraya ithy arthah| e:vam a:thma:nam yukthva: math para:yanas thvam e:vam anavadhika:thisaya pri:thya: mad anubhava samartham manah pra:pya ma:m e:vaishyasi| a:thma sabdo: hy athra mano: vishayah| e:vam ru:pe:na manasa: ma:m dhya:thva: ma:m anubhu:ya ma:m ishtva: ma:m namaskruthya math para:yano: ma:m e:va pra:psyasi:thy arthah|
Link copiedthad e:vam laukika:ni sari:ra dha:rana:rtha:ni vaidika:ni cha nithya naimiththika:ni karma:ni math pri:thaye: mach chhe:shathaika raso: mayaiva ka:ritha ithi kurvan sathatham math ki:rthana yajana namaska:ra:dika:n pri:thya: kurva:no: man niya:myam nikhila jagath mach chhe:shathaika rasam ithi cha:nusandadha:nah, athyartha priya mad guna ganam cha:nusandha:ya:har ahar uktha lakshanam idam upa:sanam upa:dadha:no: ma:m e:va pra:psyasi||9.34||
Link copiedithi sri:mad ra:ma:nuja:cha:rya virachithe: gi:tha: bha:shye: navamo:'dhya:yah ||9||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 9 — The Book of Kingly Wisdom and Kingly Mystery (in Sanskrit: Ra:ja-Vidhya:-Ra:ja-Guhya-Yo:ga)
Having discussed the kinds of devotees, Sri: Krishna now speaks of the glorious greatness of Parama-Purusha, the importance of the God-saints (jna:ni:s), and the nature of devotion (bhakti) itself. This chapter contains some of the most moving declarations of the Lord's accessibility and of the supreme worth of exclusive loving devotion.
Link copiedVerses 1–3 (The sovereign knowledge)
Verse 9.1. — "To you, the undistrusting, I shall declare this most mysterious jna:na coupled with vijna:na, knowing which you shall be freed from all impurity."
Link copiedArjuna is called "undistrusting" because he is of such a godly disposition that, hearing of the Lord's limitless, matchless glory, he trusts it fully. Knowing this and practicing it, he will be relieved of all that obstructs his attaining the Lord.
Link copiedVerse 9.2. — "This is the sovereign knowledge, the sovereign mystery — sanctifying, supreme, directly realizable, righteous, most pleasant to practice, and imperishable."
Link copiedRa:ja-vidhya: — kingly knowledge — is knowledge fit for those of lofty hearts who know what to hold sacred. Ra:ja-guhya — kingly mystery. Pavitram — that which cleanses all taints. Prathyaksha:vagamam — directly perceivable, for when one worships the Lord in bhakti, He immediately reveals Himself. Dharmyam — inseparable from virtue. Su-sukham — most pleasant to practice. Avyayam — imperishable, for God-love does not cease upon attaining Him but flows on unabatingly. The Lord considers that even when He gives Himself entirely to such a devotee, He has done little to repay the devotee's love.
Link copiedVerse 9.3. — "People who disregard this dharma, O Parantapa, fail to attain Me and revolve back through the mortal course of samsa:ra."
Link copiedThose who stand on the brink of this devotion but are lacking in fervor fall short and are swept along the current of lethal samsa:ra.
Link copiedVerses 4–10 (The Lord as the inner Ruler of all)
Verse 9.4. — "By Me, in My subtle form, all this cosmos is pervaded. All beings rest in Me, but I do not rest in them."
Link copiedIn His unmanifest, inner-ruling form, He pervades all sentient and insentient creatures, as the Sovereign Lord sustaining and ordering the universe.
Link copiedVerse 9.5. — "Behold My divine power — beings are not upheld by Me, yet I am the Upholder of all. By My will alone I sustain them."
Link copiedHe is not supported by them as a vessel holds water; He sustains all by His will. His is the unique power that has no parallel elsewhere.
Link copiedVerse 9.6. — "Know that as the mighty air, suspended in space and moving everywhere, rests in the propless vault of space, so all beings rest in Me."
Link copiedAll things are in Him, Himself unseen. The Vedas proclaim that it is by His command alone that the sun and moon, fire and wind, are held in their courses.
Link copiedVerse 9.7. — "All beings, O Kaunteya, enter My Nature at the end of a kalpa; at the beginning of a kalpa, I emit them again."
Link copiedAt the great dissolution, all movable and immovable beings enter His Nature — the undifferentiated matter-stuff called tamas, His body in its indistinct state. At the dawn of the next kalpa, He sends them forth again.
Link copiedVerse 9.8. — "Resorting to My own Nature, I send forth, again and again, this entire host of beings, helpless in the power of Nature."
Link copiedHe has recourse to His own marvelous Nature and causes it to differentiate eightfold, bringing forth the four-fold creation of devas, humans, animals, and plants, all lying dormant within the folds of His guna-laden Nature.
Link copiedVerse 9.9. — "These acts, O Dhananjaya, do not bind Me. I sit indifferent, unattached to those acts."
Link copiedThe inequalities of creation do not implicate Him, for the differences among beings are caused by their own past deeds, which He merely takes into account. He Himself stands as a passive neutral.
Link copiedVerse 9.10. — "Under My supervision, Nature begets all moving and non-moving things. For this reason, O Kaunteya, the universe turns."
Link copiedDetermined by souls' merits and demerits, Nature brings forth all under His superintendence. The Vedas call Him the Mayi: — the Wielder of Nature as His instrument.
Link copiedVerses 11–15 (The ignorant and the great-souled)
Verse 9.11. — "The witless, ignoring My transcendent nature as Sovereign of all beings, fancy Me a mere mortal when I take human form."
Link copiedIgnorant dunces, on account of their sins, mistake the Lord — the Great Lord of creatures, the Omniscient, assuming human form out of compassion to be accessible to all — for an ordinary mortal.
Link copiedVerse 9.12. — "Wedded to a deceitful, fiendish, demonic nature, they are of vain hopes, vain acts, vain knowledge, and perverted minds."
Link copiedTheir fiendish nature shuts out from view the Lord's superior attributes hidden under His human exterior. Their longings, efforts, and knowledge all go in vain.
Link copiedVerse 9.13. — "But the great-souled, O Partha, wedded to the divine nature, know Me as the Origin of things and the Inexhaustible, and worship Me with minds undivided."
Link copiedThose whose merits have led them to refuge in Him — whose bonds of sin are broken, who share the divine nature — are maha:thma:s. They worship Him with a mind so transported with love that, without such devotion, life itself would be unbearable.
Link copiedVerse 9.14. — "Ever chanting hymns of Me, in firm resolve engaged in My service, bowing before Me in rapt love, they — the hopers of eternal union — meditate on Me."
Link copiedOverwhelmed with love, they find existence impossible for even an instant without singing His names, performing holy exercises, or prostrating. They repeat the names Na:ra:yana, Krishna, Va:sude:va, their frames quivering, hairs bristling, voices tremulous. They stretch themselves on the ground like fragile reeds, regardless of dust and pebbles, all eight members falling in prostration. They ever pray to be eternally united with Him, realizing their true nature of holy servitude (da:sya).
Link copiedVerse 9.15. — "Others worship Me by the Sacrifice of Knowledge — meditating on Me as the Unity, the Distinctivity, the Diversity, the Infinity."
Link copiedThe Blessed Lord Va:sude:va alone is the Unity that, by His unopposable will, manifests as the marvelous variety of devas, humans, animals, and plants — all constituting His body.
Link copiedVerses 16–19 (The Lord as the all of sacrifice and cosmos)
Verse 9.16. — "I am the kratu, I am the yajna, I am the svadha:, I am the aushadha, I am the mantra, I Myself the butter, I the fire, I the offering."
Link copiedOf Veda-rituals, daily obligations, the food offered to ancestors, the grain and herbs, the sacred chants, the clarified butter, the fire, the act of sacrifice — He is all.
Link copiedVerse 9.17. — "Of this universe I am the Father, the Mother, the Patriarch, the Grandsire, the Knowable, the Holy, the syllable Om, and the Riik, Sa:ma, and Yajus."
Link copiedVerse 9.18. — "I am the Way, the Prop, the Master, the Witness, the Abode, the Refuge, the Friend; the Seat of evolution and dissolution, the Deposit, and the Imperishable Seed."
Link copiedVerse 9.19. — "I give heat; I send and hold back rain; I am Immortality as well as Death; sat and asat am I, O Arjuna."
Link copiedHe exists in every mode in which the sum of intelligent and non-intelligent things — composing His body — exists. The great-souled contemplate Him as the Unity corporeally manifesting in every shape of the cosmos.
Link copiedVerses 20–25 (The lower worship and its limited fruit)
Verse 9.20. — "The followers of the three Vedas, Soma-drinkers, sin-purified, pray for svarga by sacrifices; reaching Indra's joyous world, they taste in heaven the delights of the devas."
Link copiedVerse 9.21. — "Having enjoyed that spacious svarga, their merit spent, they return to the mortal world. Thus the pursuers of desires addicted to the three Vedas obtain only the transitory."
Link copiedThe followers of the three Vedas pray for heaven; the followers of the Ve:da:nthas — the maha:thma:s — know the Lord Himself, worshipping Him as their sole Acme of ambition. The others fall when their merit runs out.
Link copiedVerse 9.22. — "Those who, excluding all else, ever meditate on Me — for them, ever longing for eternal union, I Myself secure that union and preserve it."
Link copiedSuch maha:thma:s whose center of hope is exclusively the Lord — contemplating Him in His fullness — He Himself secures the yoga (union) from which there is no returning, and perpetuates it as kshema (preservation).
Link copiedVerse 9.23. — "Even those who worship other gods in faith and love actually worship Me, O Kaunteya — but in an improper manner."
Link copiedAll the lesser gods constitute His body, of which He is the Soul. Worship addressed to them is in reality addressed to Him. But the ignorant worshippers, not knowing this, earn only limited and fleeting fruit.
Link copiedVerse 9.24. — "For I am the Enjoyer and sole Lord of all sacrifices. But they know Me not rightly, and therefore fall."
Link copiedBy the same acts, some earn trivial fruit and fall again; others gain the unlimited, transcendent fruit — the Lord Himself — and never lose Him.
Link copiedVerse 9.25. — "Worshippers of the devas go to the devas; worshippers of the Pithris to the Pithris; worshippers of the bhu:thas to the bhu:thas; and My worshippers come to Me."
Link copiedEach is rewarded according to his intention.
Link copiedVerses 26–28 (The Lord's welcome of the humblest offering)
Verse 9.26. — "Whoever offers Me in love a leaf, a flower, a fruit, or water — that, so lovingly offered in pure-heartedness, I accept."
Link copiedLove is loving Him so ardently that the devotee cannot bear his own existence without offering something for His acceptance, and feels that the very act of offering is itself the fulfilment of his aim. Though the Lord naturally enjoys supreme felicity, He delights in such an offering as though it were a rare treasure beyond distant expectation. The Moksha-dharma says: "Whatever acts are consecrated to God with single-pointed devotion, God Himself accepts them all upon His head."
Link copiedVerse 9.27. — "Whatever you do, eat, oblate, give, or perform as austerity, O Kaunteya, do that as an offering to Me."
Link copiedWhatever secular occupation sustains life, whatever food you eat, whatever daily and occasional duties you fulfill — sacrifice, charity, austerity — deliver all to Him. Let the doer, the enjoyer, and the worshipped be all offered up in Him.
Link copiedVerse 9.28. — "Thus shall you be freed from the bonds of karma with its good and evil fruits. Mind united in the yoga of renunciation, liberated, you shall come to Me."
Link copiedSannya:sa-yoga is the complete surrender of all. Pondering on the soul as solely subject to the Lord, and calculating every act as His worship, you will be freed from the measureless accumulation of past deeds barring your way.
Link copiedVerses 29–34 (The Lord's impartial love and the supremacy of devotion)
Verse 9.29. — "I am the same to all beings; to Me there is no foe nor friend. But those who worship Me with love are in Me, and I in them."
Link copiedRegardless of caste, color, nature, or understanding, the Lord is equal. No superiority grants automatic acceptance; no inferiority warrants rejection. The sole claim is refuge in Him. Whoever, of whatever description, worships Him as the sole Object of love — his very being would be imperiled without it — dwells in Him in a blessedness comparable to the Lord's own, and the Lord dwells in him as if he were the Lord's better.
Link copiedVerse 9.30. — "Even a man of flagrantly wicked conduct, if he worships Me with exclusive devotion, is to be esteemed righteous, for he has steered aright."
Link copiedEven if he transgresses the rules of his caste, he is a sa:dhu, a staunch Vaishnava. His firm belief — which all cannot attain — is that the Lord alone is the Cause of the cosmos, his Sovereign, his Teacher, his Friend, his supreme Joy. Slight derelictions cannot eclipse the single-minded worship.
Link copiedVerse 9.31. — "Swiftly he becomes a holy soul, and flies to eternal peace. Proclaim, O Kaunteya, that My bhakta never perishes."
Link copiedThrough love of the Lord, he is soon shorn of sin; the rajas and tamas are rooted out; he quickly becomes a dharma:thma:. He goes to the eternal state from which there is no return. Arjuna is asked to give assurance to the world of this unshakable rule: the bhakta does not perish.
Link copiedVerse 9.32. — "Even those born of sin — women, vaisyas, su:dras — by trusting in Me go to the supreme state."
Link copiedVerse 9.33. — "How much more, then, the righteous bra:hmanas and king-saints? Having entered this transient, joyless world, worship Me."
Link copiedVerse 9.34. — "Fix your mind on Me; be My devotee; worship Me; bow to Me. Thus disciplining yourself, wholly given to Me, you shall come to Me."
Link copiedMan-mana:h — heart set on Me: let your heart flow ceaselessly, like a stream of poured oil, toward the Lord — the Lord of all, the Omniscient, the Parabrahma, the Purushoththama — of lotus-like eyes, uniform blue-cloud hue, brilliance of a thousand suns, nectar-ocean of loveliness, four-armed, orange-robed, ornate with diadem, ear-rings, garlands, and bracelets; Ocean of Mercy, Compassion, Beauty, Sweetness, Dignity, Bounty, Affection; Asylum of all the worlds.
Link copiedMad-bhakta — let your heart be permeated with absorbing love. Mad-ya:ji: — let the delight of enjoying Him in love flower into worship: the externals (camphor, fans), the tactile (sandal, garlands), and the offerings of food. Ma:m namaskuru — bow in homage and humility to Him, your Inner Soul. Mat-para:yanah — rely on Him solely, without whom you could not exist.
Link copiedThus, with mind one-pointed, enjoying Him, serving Him, prostrating to Him, you shall attain Him. Perform secular and scriptural duties as if all were done to please Him. Sing His praises, serve Him, bow to Him. Contemplate the universe as under His rule, as essentially His appendage. Reflect on the multitude of His lovable attributes. Thus daily engaged, you shall reach Him.
Link copiedThus closes the ninth discourse, named Ra:ja-Vidhya:-Ra:ja-Guhya-Yo:ga — the Book of Kingly Wisdom and Kingly Mystery.
Link copied