Skip to content

Bhagavad Gita Bhashya · Section 10 of 19

atha navamo:'dhya:yah

Original Sanskrit · click to toggle

उपासक-भेद-निबन्धना विशेषाः प्रतिपादिताः। इदानीम् उपास्यस्य परम-पुरुषस्य माहात्म्यं। ज्ञानिनां च विशेषं विशोध्य भक्ति-रूपस्योपासनस्य स्वरूपम् उच्यते---

Link copied

इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे

Link copied

ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसेऽशुभात्

Link copied

इदं तु ते गुह्यतमं भक्ति-रूपम् उपासनाख्यं ज्ञानं। विज्ञान-सहितम् उपासन-गति-विशेष-ज्ञान-सहितम्। अनसूयवे ते प्रवक्ष्यामि। मद्-विषयं सकलेतर-विसजातीयम् अपरिमित-प्रकारं माहात्म्यं श्रुत्वा एवम् एव सम्भवतीति मन्वानाय ते प्रवक्ष्यामीत्य् अर्थः। यज् ज्ञानम् अनुष्ठान-पर्यन्तं ज्ञात्वा मत्-प्राप्ति-विरोधिनः सर्वस्माद् अशुभान् मोक्ष्यसे॥९।१॥

Link copied

राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम्

Link copied

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम्

Link copied

राज-विद्या विद्यानां राजा राज-गुह्यं गुह्यानां राजा। राज्ञां विद्येति वा राज-विद्या, राजानो हि विस्तीर्णागाध-मनसः, महा-मनसाम् इयं विद्या इत्य् अर्थः। महा-मनस एव गोपनीय-गोपन-कुशला इति तेषाम् एव गुह्यम् इदम्। उत्तमं पवित्रं मत्-प्राप्ति-विरोध्य्-अशेष-कल्मषापहं प्रत्यक्षावगमम्। अवगम्यत इत्य् अवगमो विषयः। प्रत्यक्ष-भूतोऽवगमो विषयो यस्य ज्ञानस्य तत् प्रत्यक्षावगमम्। भक्ति-रूपेणोपासनेन उपास्यमानोऽहं तदानीम् एव उपासितुः प्रत्यक्षताम् उपागतो भवामीत्य् अर्थः।

Link copied

अथापि धर्म्यं धर्माद् अनपेतं धर्मत्वं हि निःश्रेयस-साधनत्वम्। स्वरूपेण एवात्यर्थ-प्रियत्वेन तदानीम् एव मद्-दर्शनापादनतया च स्वयं निःश्रेयस-रूपम् अपि निरतिशय-निःश्रेयस-रूपात्यन्तिक-मत्-प्राप्ति--साधनम् इत्य् अर्थः। अत एव सुसुखं कर्तुं सुसुखोपादानम्, अत्यर्थप्रियत्वेन उपादेयम्। अव्ययम् अक्षयं मत्-प्राप्तिं साधयित्वापि स्वयं न क्षीयते। एवं-रूपम् उपासनं कुर्वतो मत्-प्रदाने कृतेऽपि न किञ्चित् कृतं मयास्येति मे प्रतिभातीत्य् अर्थः॥९।२॥

Link copied

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप

Link copied

अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि

Link copied

अस्योपासनाख्यस्य धर्मस्य निरतिशय-प्रिय-मद्-विषयतया स्वयं निरतिशय-प्रिय-रूपस्य परम-निःश्रेयस-स्वरूप-मत्-प्राप्ति-साधनस्याव्ययस्य उपादान-योग्य-दशां प्राप्याश्रद्दधाना विश्वास-पूर्वक-त्वारा-रहिताः पुरुषा माम् अप्राप्य मृत्यु-रूपे संसार-वर्त्मनि नितरां वर्तन्ते। अहो ! महद् इदम् आश्चर्यम् इत्य् अर्थः॥९।३॥

Link copied

शृणु तावत् प्राप्य-भूतस्य ममाचिन्त्य-महिमानम्---

Link copied

मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना

Link copied

मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः

Link copied

इदं चेतनाचेतनात्मकं कृत्स्नं जगद् अव्यक्त-मूर्तिनाप्रकाशित-स्वरूपेण मयान्तर्यामिणा ततम्। अस्य जगतो धारणार्थं नियमनार्थम् च शेषित्वेन व्याप्तम् इत्य् अर्थः। यथा अन्तर्यामि-ब्राह्मणे यः पृथिव्यां तिष्ठन् \॥। यं पृथिवी न वेद [बृ।आ।उ। ३।७।३] य आत्मनि तिष्ठन् \॥। यम् आत्मा न वेद [शत्ब्र् १४।६।५।५।३०] इति चेतनाचेतन-वस्तु-जातैर् अदृष्टेनान्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता।

Link copied

ततो मत्-स्थानि सर्व-भूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि, तत्रैव ब्राह्मणे यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति [बृ।आ।उ। ३।७।३], यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति [शत्ब्र् १४।६।६।५।३०] इति शरीरत्वेन नियाम्यत्व-प्रतिपादनात्। तदायत्ते स्थिति-नियमने प्रतिपादिते शेषित्वं च, न चाहं तेष्व् अवस्थितोऽहं तु न तदायत्त-स्थितिः। मत्-स्थितौ तैर् न कश्चिद् उपकार इत्य् अर्थः॥९।४॥

Link copied

न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम्

Link copied

भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः

Link copied

न च मत्-स्थानि भूतानि न घटदीनां जलादेर् इव मम धारकत्वम्। कथम्। मत्-सङ्कल्पेन। पश्य ममैश्वरं योगम्। अन्यत्र कुत्रचिद् असम्भवनीयं मद्-असाधारणम् आश्चर्यं योगं पश्य। कोऽसौ योगः। भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः। सर्वेषां भूतानां भर्ताहं न च तैः कश्चिद् अपि ममोपकारः। ममात्मैव भूत-भावनः। मम मनो-मयः सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च॥९।५॥

Link copied

सर्वस्यास्य स्व-सङ्कल्पायत्त-स्थिति-प्रवृत्तित्वे निदर्शनम् आह---

Link copied

यथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान्

Link copied

तथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय

Link copied

यथाकाशेऽनालम्बने महान् वायुः स्थितः सर्वत्र गच्छति। स तु वायुर् निरालम्बनो मद्-आयत्त-स्थितिर् इत्य् अवश्याभ्युपगमनीयो मयैव धृत इति विज्ञायते, तथैव सर्वाणि भूतानि तैर् अदृष्टो मयि स्थितानि मयैव धृतानीत्य् उपधारय।

Link copied

यथाहुः वेद-विदः--- मेघोदयः सागर-सन्निवृत्तिर् इन्दोर् विभागः स्फुरितानि वायोः। विद्युद्-विभङ्गो गतिर् उष्ण-रश्मेर् विष्णोर् विचित्राः प्रभवन्ति मायाः॥ इति विष्णोर् अनन्य-साधारणानि महाश्चर्याणीत्य् अर्थः। श्रुतिर् अपि--- एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः [बृ।आ।उ। ३।८।९]

Link copied

भीषास्माद् वातः पवते भीषोदेति सूर्यः।

Link copied

भीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः [तै।उ। २।८।१]

Link copied

इत्य्-आदिका॥९।६॥

Link copied

सकलेतर-निरपेक्षस्य भगवतः सङ्कल्पात् सर्वेषां स्थितिः प्रवृत्तिश् चोक्तास् तथा तत्-सङ्कल्पाद् एव सर्वेषाम् उत्पत्ति-प्रलयव् अपि, इत्य् आह---

Link copied

सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्

Link copied

कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम्

Link copied

स्थावर-जङ्गमात्मकानि सर्वाणि भूतानि मामिकां मच्-छरीर-भूतां प्रकृतिं तमः-शब्द-वाच्यां नाम-रूप-विभागानर्हां कल्प-क्षये चतुर्-मुखावसान-समये मत्-सङ्कल्पाद् यान्ति। तान्य् एव भूतानि कल्पादौ पुनर् विसृजाम्य् अहम्। यथाह मनुः--- आसीद् इदं तमो-भूतम् [मनु १।५] सोऽभिध्याय शरीरात् स्वात् [मनु १।८] इति श्रुतिर् अपि--- यस्याव्यक्तं शरीरम् [सु।उ। ७] इत्य्-आदिका, अव्यक्तम् अक्षरे लीयतेऽक्षरं तमसि लीयते, तमः परे देवे एकीभवति [सु।उ। २] तम आसीत् तमसा गूढम् अग्रे प्रकेतम् [ऋग्।वे। ८।७।१७।३] इति च॥९।७॥

Link copied

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः

Link copied

भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात्

Link copied

स्वकीयां विचित्र-परिणामिनीं प्रकृतिम् अवष्टभ्याष्टधा परिणमय्य इमं चतुर्-विधं देव-तिर्यङ्-मनुष्य-स्थावरात्मकं भूत-ग्रामं मदीयाया मोहिन्याः गुण-मय्याः प्रकृतेः वशाद् अवशं पुनः पुनः काले काले विसृजामि॥९।८॥

Link copied

एवं तर्हि विषम-सृष्ट्य्-आदीनि कर्माणि नैर्घृण्याद्य्-आपादनेन भगवन्तं बध्नन्तीति। अत्राह---

Link copied

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय

Link copied

उदासीनवद् आसीनम् असक्तं तेषु कर्मसु

Link copied

न च तानि विषम-सृष्ट्य्-आदीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यतः क्षेत्र-ज्ञानां पूर्व-कृत्यान्य् एव कर्माणि देवादि-विषम-भाव-हेतवः। अहं तु तत्र वैषम्येऽसक्तस् तत्र उदासीनवद् आसीनः। यथाह सूत्र-कारः--- वैषम्य-नैर्घृण्ये न सापेक्षत्वात् [वे।सू। २।१।३४] न कर्माविभागाद् इति चेन् नानादित्वात् [वे।सू। २।१।३५] इति॥९।९॥

Link copied

मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम्

Link copied

हेतुनानेन कौन्तेय जगद् विपरिवर्तते१०

Link copied

तस्मात् क्षेत्रज्ञ-कर्मानुगुणं मदीया प्रकृतिः सत्य-सङ्कल्पेन मयाध्यक्षेणेक्षिता स-चराचरं जगत् सूयते, अनेन क्षेत्रज्ञ-कर्मानुगुण-मद्-ईक्षणेन हेतुना जगद् विपरिवर्तते। इति मत्-स्वाम्यं सत्य-सङ्कल्पत्वं नैर्घृण्यादि-दोष-रहितत्वम् इत्य् एवम् आदिकं मम वसुदेव-सूनोर् ऐश्वरं योगं पश्य। यथा श्रुतिः---

Link copied

अस्मान् मायी सृजते विश्वम् एतत्

Link copied

तस्मिंश् चान्यो मायया सन्निरूद्धः।

Link copied

मायां तु प्रकृतिं विद्यान्

Link copied

मायिनं तु महेश्वरम्॥ [श्वे।उ। ४।९-१०] इति॥९।१०॥

Link copied

अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम्

Link copied

परं भावम् अजानन्तो मम भूत-महेश्वरम्११

Link copied

एवं मां भूत-महेश्वरं सर्वज्ञं सत्य-सङ्कल्पं निखिल-जगद्-एक-कारणं परम-कारुणिकतया सर्व-समाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्व-कृतैः पाप-कर्मभिर् मूढा अवजानन्ति--- प्राकृत-मनुष्य-समं मन्यन्ते। भूत-महेश्वरस्य ममापार-कारुण्यौदार्य-सौशील्य-वात्सल्यादि-निबन्धनं मनुष्यत्व-समाश्रयण-लक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्व-समाश्रयण-मात्रेण माम् इतर-सजातीयं मत्वा तिरस्कुर्वन्तीत्य् अर्थः॥९।११॥

Link copied

मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः

Link copied

राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः१२

Link copied

मम मनुष्यत्वे परम-कारुण्यादि-परत्व-तिरोधान-करीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः, मोघाशाः मोघ-वाञ्छिता निष्फल-वाञ्छिताः, मोघ-कर्माणो मोघारम्भाः। मोघ-ज्ञानाः सर्वेषु मदीयेषु चराचरेष्व् अर्थेषु मयि च विपरीत-ज्ञानतया निष्फल-ज्ञानाः। विचेतसस् तथा सर्वत्र विगत-याथात्म्य-ज्ञानाः, मां सर्वेश्वरम् इतर-समं मत्वा मयि यत् कर्तुम् इच्छन्ति, यद् उद्दिश्य आरम्भान् कुर्वते, तत् सर्वं मोघं भवतीत्य् अर्थः॥९।१२॥

Link copied

महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः

Link copied

भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम्१३

Link copied

ये तु स्व-कृतैः पुण्य-सचयैर् मां शरणम् उपगम्य विध्वस्त-समस्त-पाप-बन्धा दैवीं प्रकृतिम् आश्रिताः महात्मानस् ते, भूतादिम् अव्ययं वाङ्-मानसागोचर-नाम-कर्म-स्वरूपं परम-कारुणिकतया साधु-परित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा अनन्य-मनसः मां भजन्ते। मत्-प्रियत्वातिरेकेण मद्-भजनेन विना मनसश् चात्मनश् च बाह्य-करणानां च धारणम् अलभमानाः, मद्-भजनैक-प्रयोजना भजन्ते॥९।१३॥

Link copied

सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः

Link copied

नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते१४

Link copied

अत्यर्थं मत्-प्रियत्वेन मत्-कीर्तन-यतन-नमस्कारैर् विना क्षणाणु-मात्रेऽप्य् आत्म-धारणम् अलभमाना मद्-गुणाविशेष-वाचीनि मन्-नामानि स्मृत्वा पुलकाञ्चित-सर्वाङ्गाः, हर्ष-गद्गद-कण्ठाः श्री-राम-नारायण-कृष्ण-वासुदेवेत्य् एवम् आदीनि सततं कीर्तयन्तस् तथैव यतन्तो मत्-कर्मस्व् अर्चनादिकेषु वन्दन-स्तवन-करणादिकेषु तद्-उपकारकेषु भवन-नन्दन-वन-करणादिकेषु च दृढ-सङ्कल्पा यतमानाः, भक्ति-भारावनमित-मनो-बुद्ध्य्-अभिमान-पद-द्वय-कर-द्वय-शिरोभिर् अष्टङ्गैर् अचिन्तित-पांसु-कर्दम-शर्करादिके धरा-तले दण्डावत् प्रणिपतन्तः, सततं मां नित्य-युक्ता नित्य-योगम् आकाङ्क्षमाणा आत्मवन्तो मद्-दास्य-व्यवसायिन उपासते॥९।१४॥

Link copied

ज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते

Link copied

एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम्१५

Link copied

अन्येऽपि महात्मानः पूर्वोक्तैः कीर्तनादिभिर् ज्ञानाख्येन यज्ञेन च यजन्तो माम् उपासते, कथम्। बहुधा पृथक्त्वेन जगद्-आकारेण विश्वतो-मुखं विश्व-प्रकारम् अवस्थितं माम् एकत्वेनोपासते। एतद् उक्तं भवति--- भगवान् वासुदेव एव नाम-रूप-विभागानर्हातिसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः सन् सत्य-सङ्कल्पो विविध-विभक्त-नाम-रूप-स्थूल-चिद्-अचिद्-वस्तु-शरीरः स्याम् इति सङ्कल्प्य, स एक एव देव-तिर्यङ्-मनुष्य-स्थावराख्य-विचित्र-जगच्-छरीरोऽवतिष्ठते इत्य् अनुसन्दधानाश् च माम् उपासते इति॥९।१५॥

Link copied

तथा हि विश्व-शरीरोऽहम् एवावस्थितः, इत्य् आह---

Link copied

अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम्

Link copied

मन्त्रोऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम्१६

Link copied

अहं क्रतुर् अहं ज्योतिष्टोमादिक-क्रतुर् अहम् एव यज्ञो महा-यज्ञोऽहम् एव स्वधा पितृ-गण-पुष्टि-दायिनी औषधं हविश् चाहम् एव। अहम् एव च मन्त्रोऽहम् एवाज्यम्। प्रदर्शनार्थम् इदम्, सोमादिकं च हविर् अहम् एवेत्य् अर्थः। अहम् आहवनीयादिकोऽग्निर् होमश् चाहम् एव॥९।१६॥

Link copied

पिताहम् अस्य जगतो माता धाता पितामहः

Link copied

वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुर् एव च१७

Link copied

अस्य स्थावर-जङ्गमात्मकस्य जगतस् तत्र तत्र पितृत्वेन मातृत्वेन धातृत्वेन पितामहत्वेन च वर्तमानोऽहम् एव। अत्र धातृ-शब्दो मातृ-पितृ-व्यतिरिक्ते उत्पत्ति-प्रयोजके चेतन-विशेषे वर्ते। यत् किञ्चिद् वेद-वेद्यं पवित्रं पावनं तद् अहम् एव। वेदकश् च वेद-बीज-भूतः प्रणवोऽहम् एव। ऋक्-साम-यजुर्-आत्मको वेदश् चाहम् एव॥९।१७॥

Link copied

गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्

Link copied

प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम्१८

Link copied

गम्यत इति गतिः, तत्र तत्र प्राप्य-स्थानम् इत्य् अर्थः। भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्-द्रष्ट, निवासो वास-स्थानं च वेश्मादि, शरणम् इष्टस्य प्रापकतयानिष्टस्य निवारणतया समाश्रयणीयश् चेतनः शरणम्, स चाहम् एव सुहृत् हितैषी, प्रभव-प्रलय-स्थानं यस्य कस्यचिद् यत्र कुत्रचित् प्रभव-प्रलययोः यत् स्थानं तद् अहम् एव। निधानं निधीयत इति निधानम्। उत्पाद्यम् उपसंहार्यं चाहम् एव इत्य् अर्थः। अव्ययं बीजं तत्र तत्र व्यय-रहितं यत् कारणं तद् अहम् एव॥९।१८॥

Link copied

तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च

Link copied

अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन१९

Link copied

अग्न्यादित्य्-आदि-रूपेणाहम् एव तपामि, ग्रीष्मादाव् अहम् एव वर्षं निगृह्णामि तथा वर्षास्व् अपि चाहम् एव उत्सृजामि। अमृतं चैव मृत्युश् च येन जीवति लोको येन च म्रियते, तद् उभयम् अप्य् अहम् एव। किम् अत्र बहुनोक्तेन। सद् असच् चाप्य् अहम् एव। सद् यद् वर्तते, असद् यद् अतीतम् अनागतं च, सर्वावस्थावस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत्-तत्-प्रकारो ऽहम् एवावस्थित इत्य् अर्थः। एवं बहुधा पृथक्त्वेन विभक्त-नाम-रूपावस्थित-कृत्स्न-जगच्-छरीरतया तत्-प्रकारोऽहम् एवावस्थित इत्य् एकत्व-ज्ञानेनानुसन्दधानाश् च माम् उपासते त एव महात्मानः॥९।१९॥

Link copied

एवं महात्मनां ज्ञानिनां भगवद्-अनुभवैक-भोगानां वृत्तम् उक्त्वा तेषाम् एव विशेषं दर्शयितुम् अज्ञानां काम-कामानां वृत्तम् आह---

Link copied

त्रैविद्या मां सोमपाः पूत-पापा

Link copied

यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते

Link copied

ते पुण्यम् आसाद्य सुरेन्द्र-लोकम्

Link copied

अश्नन्ति दिव्यान् दिवि देव-भोगान्२०

Link copied

ऋग्-यजुः सामरूपास् तिस्रो विद्यास् त्रि-विद्यम्, केवलं त्रि-विद्य-निष्ठास् त्रैविद्याः। न तु त्रय्य्-अन्तं निष्ठाः, त्रय्य्-अन्त-निष्ठा हि महात्मानः पूर्वोक्त-प्रकारेणाखिल-वेद-वेद्यं माम् एव ज्ञात्वा अतिमात्र-मद्-भक्ति-कारित-कीर्तनादिभिर् ज्ञान-यज्ञेन च मद्-एक-प्राप्या माम् एवोपासते। त्रैविद्यास् तु वेद-प्रतिपाद्य-केवलेन्द्रादि-याग-शिष्ट-सोमान् पिबन्तः पूत-पापाः स्वर्गादि-प्राप्ति-विरोधि-पापात् पूतास् तैः केवलेन्द्रादि-दैवत्यतयानुसंहितैर् यज्ञैर् वस्तुतस् तद्-रूपं माम् इष्ट्वा तथावस्थितं माम् अजानन्तः स्वर्ग-गतिं प्रार्थयन्ते। ते पुण्यं दुःखासम्भिन्नं सुरेन्द्र-लोकं प्राप्य तत्र तत्र दिव्यान् देव-भोगान् अश्नन्ति॥९।२०॥

Link copied

ते तं भुक्त्वा स्वर्ग-लोकं विशालं

Link copied

क्षीणे पुण्ये मर्त्य-लोकं विशन्ति

Link copied

एवं त्रयी-धर्मम् अनुप्रपन्ना

Link copied

गतागतं काम-कामा लभन्ते२१

Link copied

ते तं विशालं स्वर्ग-लोकं भुक्त्वा तद्-अनुभव-हेतु-भूते पुण्ये क्षीणे पुनर् अपि मर्त्य-लोकं विशन्ति। एवं त्रय्य्-अन्त-सिद्ध-ज्ञान-विधुराः काम्य-स्वर्गादि-कामाः केवलं त्रयी-धर्मम् अनुप्रपन्ना गतागतं लभन्ते। अल्पास्थिर-स्वर्गादीन् अनुभूय पुनः पुनः निवर्तन्त इत्य् अर्थः॥९।२१॥

Link copied

महात्मानस् तु निरतिशय-प्रिय-रूपं मच्-चिन्तनं कृत्वा माम् अनवधिकातिशयानन्दं प्राप्य न पुनर् आवर्तन्त इति तेषां विशेषं दर्शयति---

Link copied

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते

Link copied

तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम्२२

Link copied

अनन्या अनन्य-प्रयोजना मच्-चिन्तनेन विनात्म-धारणा-लाभान् मच्-चिन्तनैक-प्रयोजना मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्व-कल्याण-गुणान्वितं सर्व-विभूति-युक्तं मां परित उपासतेऽन्यूनम् उपासते तेषां नित्याभियुक्तानां मयि नित्याभियोगं काङ्क्षमाणानाम् अहं मत्-प्राप्ति-लक्षणं योगम् अपुनर्-आवृत्ति-रूपं क्षेमं च वहामि॥९।२२॥

Link copied

येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः

Link copied

तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम्२३

Link copied

येऽप्य् अन्य-देवता-भक्ता ये त्व् इन्द्रादि-देवता-भक्ताः केवल-त्रयी-निष्ठाः श्रद्धयान्विताः इन्द्रादीन् यजन्ते, तेऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्-छरीरतया मद्-आत्मत्वेन इन्द्रादि-शब्दानां च मद्-वाचित्वाद् वस्तुतो माम् एव यजन्तेऽपि त्व् अविधि-पूर्वकं यजन्ते। इन्द्रादीनां देवतानां कर्मस्व् आराध्यतया अन्वयं यथा वेदान्त-वाक्यानि चतुर्-होतारो यत्र सम्पदं गच्छन्ति देवैः [तै।आ। ४] इत्य् आदीनि विदधति, न तत्-पूर्वकं यजन्ते। वेदान्त-वाक्य-जातं हि परम-पुरुष-शरीरतयावस्थितानाम् इन्द्रादीनाम् आराध्यत्वं विदधद् आत्म-भूतस्य परम-पुरुषस्यैव साक्षाद् आराध्यत्वं विदधाति।

Link copied

चतुर्होतारोऽग्निहोत्र-दर्श-पौर्णमासादीनि कर्माणि कुर्वाणा यत्र परमात्मन्य् आत्मतया अवस्थिते सत्य् एव तच्-छरीर-भूतैर् इन्द्रादि-देवैः सम्पदं गच्छन्ति, इन्द्रादि-देवानाम् आराधनानि एतानि कर्माणि मद्-विषयाणीति मां सम्पदं गच्छन्तीत्य् अर्थः॥९।२३॥

Link copied

अतस् त्रैविद्या इन्द्रादि-शरीरस्य परम-पुरुषस्याराधनान्य् एतानि कर्माणि। आराध्यश् च स एवेति न जानन्ति। ते च परिमित-फल-भागिनश् च्यवन-स्वभावाश् च भवन्ति, तद् आह---

Link copied

अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च

Link copied

न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते२४

Link copied

प्रभुर् एव च तत्र तत्र फल-प्रदाता चाहम् एवेत्य् अर्थः॥९।२४॥

Link copied

अहो महद् इदं वैचित्र्यं यद् एकस्मिन्न् एव कर्मणि वर्तमानाः सङ्कल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनश् च्यवन-स्वभावाश् च भवन्ति, केचनानवधिकातिशयानन्द-परम-पुरुष-प्राप्ति-रूप-फल-भागिनोऽपुनर्-आवर्तिनश् च भवन्ति, इत्य् आह---

Link copied

यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः

Link copied

भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनोऽपि माम्२५

Link copied

व्रत-शब्दः सङ्कल्प-वाची, देव-व्रताः दर्श-पौर्णमासादिभिः कर्मभिर् इन्द्रादीन् यजामः, इतीन्द्रादि-यजन-सङ्कल्पाः। ये त इन्द्रादि-देवान् यान्ति। ये च पितृ-यज्ञादिभिः पितॄन् यजामः, इति पितृ-यजन-सङ्कल्पाः, ते पितॄन् यान्ति। ये च यक्ष-रक्षः पिशाचादीनि भूतानि यजामः, इति भूत-यजन-सङ्कल्पाः, ते भूतानि यान्ति। ये तु तैर् एव यज्ञैर् देव-पितृ-भूत-शरीरकं परमात्मानं भगवन्तं वासुदेवं यजाम इति मां यजन्ते ते मद्-याजिनो माम् एव यान्ति। देवादि-व्रता देवादीन् प्राप्य तैः सह परिमितं भोगं भुक्त्वा तेषां विनाश-काले तैः सह विनष्टा भवन्ति। मद्-याजिनस् तु माम् अनादि-निधनं सर्वज्ञं सत्य-सङ्कल्पम् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-महोदधिम् अनवधिकातिशयानन्दं प्राप्य न पुनर् निवर्तन्त इत्य् अर्थः॥९।२५॥

Link copied

मद्-याजिनाम् अयम् अपि विशेषोऽस्तीत्य् आह---

Link copied

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति

Link copied

तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः२६

Link copied

सर्व-सुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छत्य् अत्यर्थ-मत्-प्रियतया तत्-प्रदानेन विना आत्म-धारणम् अलभमानतया तद्-एक-प्रयोजनो यो मे पत्रादिकं ददाति तस्य प्रयतात्मनस् तत्-प्रदानैक-प्रयोजनत्व-रूप-शुद्धि-युक्त-मनसस् तत् तथा-विध-भक्त्य्-उपहृतम् अहं सर्वेश्वरो निखिल-जगद्-उदय-विभव-लय-लीलोऽवाप्त-समस्त-कामः सत्य-सङ्कल्पोऽनवधिकातिशयासङ्ख्ये-कल्याण-गुण-गणः स्वाभाविकानवधिकातिशयानन्द-स्वानुभवे वर्तमानोऽपि, मनोरथ-पथ-दूरवर्ति प्रियं प्राप्य इवाश्नामि। यथोक्तं मोक्ष-धर्मे---

Link copied

याः क्रियाः सम्प्रयुक्ताः स्युर्

Link copied

एकान्त-गत-बुद्धिभिः।

Link copied

ताः सर्वाः शिरसा देवः

Link copied

प्रतिगृह्णाति वै स्वयम्॥ [म।भा। १२।३४०।६४] इति॥९।२६॥

Link copied

यस्माज् ज्ञानिनां महात्मनां वाङ्-मनसागोचरोऽयं विशेषस् तस्मात् त्वं च ज्ञानी भूत्वा उक्त-लक्षण-भक्ति-भारावनतात्मात्मीयः कीर्तन-यतनार्चन-प्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्य-नैमित्तिकं कर्म चेत्थं कुर्व् इत्य् आह---

Link copied

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत्

Link copied

यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम्२७

Link copied

यद् देह-यात्रादि-शेष-भूतं लौकिकं कर्म करोषि, यच् च देह-धारणायाश्नासि, यच् च वैदिकं होम-दान-तपः-प्रभृति नित्य-नैमित्तिकं कर्म करोषि, तत् सर्वं मद्-अर्पणं कुरुष्व। अर्प्यत इत्य् अर्पणम्, सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम् आराध्यत्वं च यथा मयि सर्वं समर्पितं भवति तथा कुरु।

Link copied

एतद् उक्तं भवति--- याग-दानादिष्व् आराध्यतया प्रतीयमानानां देवादीनां कर्म-कर्तुर् भोक्तुस् तव च मदीयतया मत्-सङ्कल्पायत्त-स्वरूप-स्थिति-प्रवृत्तितया च मय्य् एव परम-शेषिणि परम-कर्तरि त्वां च कर्तारं भोक्तारम् आराधकम् आराध्यं च देवता-जातम् आराधनं च क्रिया-जातं सर्वं समर्पय। तव मन्-नियाम्यता-पूर्वक-मच्-छेषतैक-रसताम् आराध्यादेश् च एतत्-स्वभावक-गर्भताम् अत्यर्थ-प्रीति-युक्तोऽनुसन्धत्स्व इति॥९।२७॥

Link copied

शुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः

Link copied

सन्न्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि२८

Link copied

एवं सन्न्यासाख्य-योग-युक्त-मना आत्मानं मच्-छेषता-मन्-नियाम्यतैक-रसं कर्म च सर्वं मद्-आराधनम् अनुसन्दधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभ-फलैर् अनन्तैः प्राचीन-कर्माख्यैर् बन्धनैर् मत्-प्राप्ति-विरोधिभिः सर्वैः मोक्ष्यसे, तैर् विमुक्तो माम् एवोपैष्यसि॥९।२८॥

Link copied

ममेमं परमम् अतिलोकं स्वभावं सृणु---

Link copied

समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः

Link copied

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम्२९

Link copied

देव-तिर्यङ्-मनुष्य-स्थावरात्मना स्थितेषु जातितश् चाकारतः स्वभावतो ज्ञानतश् चात्यन्तोत्कृष्टापकृष्ट-रूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वेन समोऽहम्। अयं जात्याकार-स्वभाव-ज्ञानादिभिर् निकृष्ट इति समाश्रयणे न मे द्वेष्योऽस्त्य् उद्वेजनीयतया न त्याज्योऽस्ति। तथा समाश्रितत्वातिरेकेण जात्य्-आदिभिर् अत्यन्तोत्कृष्टोऽयम् इति तद्-युक्ततया समाश्रयणे न कश्चित् प्रियोऽस्ति न सङ्ग्राह्योऽस्ति।

Link copied

अपि त्व् अत्यर्थ-मत्-प्रियत्वेन मद्-भजनेन विनात्म-धारणालाभान् मद्-भजनैक-प्रयोजना ये मां भजन्ते ते जात्य्-आदिभिर् उत्कृष्टा अपकृष्टा वा मत्-समान-गुणवद् यथा-सुखं मय्य् एव वर्तन्ते। अहम् अपि तेषु मद्-उत्कृष्टेष्व् इव वर्ते॥९।२९॥

Link copied

अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक्

Link copied

साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः३०

Link copied

तत्रापि तत्र तत्र जाति-विशेषे जातानां यः समाचार उपादेयः परिहरणीयश् च, तस्माद् अतिवृत्तोऽप्य् उक्त-प्रकारेण माम् अनन्य-भाग् भजनैक-प्रयोजनो भजते चेत् साधुर् एव स वैष्णवाग्रेसर एव मन्तव्यः, बहु-मन्तव्यः पूर्वोक्तैः सम इत्य् अर्थः। कुत एतत्। सम्यग् व्यवसितो हि सः, यतोऽस्य व्यवसायः सुसमीचीनः।

Link copied

भगवान् निखिल-जगद्-एक-कारण-भूतः पर-ब्रह्म नारायणश् चराचर-पतिर् अस्मत्-स्वामी मम गुरुर् मम सुहृन् मम परं भोग्यम् इति सर्वैर् दुष्प्रापोऽयं व्यवसायस् तेन कृतः, तत्-कार्यं चानन्य-प्रयोजनं निरन्तर-भजनं तस्यास्ति, अतः साधुर् एव बहु-मन्तव्यः।

Link copied

अस्मिन् व्यवसाये तत्-कार्ये चोक्त-प्रकार-भजने सम्पन्ने सति तस्य आचार-व्यतिक्रमः स्वल्प-वैकल्यम् इति न तावता अनादरणीयः, अपि तु बहु-मन्तव्य एवेत्य् अर्थः॥९।३०॥

Link copied

ननु---

Link copied

नाविरतो दुश्चरितान् नाशान्तो नासमाहितः।

Link copied

नाशान्त-मानसो वापि प्रज्ञानेनैनम् आप्नुयात्॥ [क।उ। १।२।२४]

Link copied

इत्य्-आदि-श्रुतेः आचार-व्यतिक्रम उत्तरोत्तर-भजनोत्पत्ति-प्रवाहं निरुणाद्धीत्य् अत्राह---

Link copied

क्षिप्रं भवति धर्मात्मा शश्वच्-छान्तिं निगच्छति

Link copied

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति३१

Link copied

मत्-प्रियत्व-कारितानन्य-प्रयोजन-मद्-भजनेन विधूत-पापतयैव स-मूलोन्मूलित-रजस्-तमो-गुणः क्षिप्रं धर्मात्मा भवति क्षिप्रम् एव विरोधि-रहित-स-परिकर-मद्-भजनैक-मना भवति। एवं-रूप-भजनम् एव हि धर्मस्यास्य परन्तप [९।३] इत्य् उपक्रमे धर्म-शब्दोदितः।

Link copied

शश्वच्-छान्तिं निगच्छति। शाश्वतीम् अपुनर्-आवर्तिनीं मत्-प्राप्ति-विरोध्य्-आचार-निवृत्तिं गच्छति। कौन्तेय ! त्वम् एवास्मिन् अर्थे प्रतिज्ञां कुरु मद्-भक्तौ उपक्रान्तो विरोध्य्-आचार-मिश्रोऽपि न नश्यत्य् अपि तु मद्-भक्ति-माहात्म्येन सर्वं विरोधि-जातं नाशयित्वा शाश्वतीं विरोधि-निवृत्तिम् अधिगम्य क्षिप्रं परिपूर्ण-भक्तिर् भवति॥९।३१॥

Link copied

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पाप-योनयः

Link copied

स्त्रियो वैश्यास् तथा शूद्रास् तेऽपि यान्ति परां गतिम्३२

Link copied

स्त्रियो वैश्याः शूद्राश् च पाप-योनयोऽपि मां व्यपाश्रित्य परां गतिं यान्ति॥९।३२॥

Link copied

किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा

Link copied

अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम्३३

Link copied

किं पुनः पुण्य-योनयो ब्राह्मणाः राजर्षयश् च मद्-भक्तिम् आश्रिताः। अतस् त्वं राजर्षिर् अस्थिरं ताप-त्रयाभिहततया असुखं चेमं लोकं प्राप्य वर्तमानो मां भजस्व।

Link copied

भक्ति-स्वरूपम् आह---

Link copied

मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु

Link copied

माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः३४

Link copied

मन्-मना भव मयि सर्वेश्वरे निखिल-हेय-प्रत्यनीक-कल्याणैक-ताने सर्वज्ञे सत्य-सङ्कल्पे निखिल-जगद्-एक-कारणे परस्मिन् ब्रह्मणि पुरुषोत्तमे पुण्डारीक-दलामलायतेक्षणे स्वच्छ-नील-जीमूत-सङ्काशे युगपद्-उदित-दिनकर-सहस्र-सदृश-तेजसि लावण्यामृत-महोदधाव् उदार-पीवर-चतुर्-बाहव् अत्युज्ज्वल-पीताम्बरे ऽमल-किरीट-मकर-कुण्डाल-हार-केयूर-कटकादि-भूषितेऽपार-कारुण्य-सौशील्य-सौन्दर्य-माधुर्य-गाम्भीर्यौदार्य-वात्सल्य-जलधव् अनालोचित-विशेषाशेष-लोक-शरण्ये सर्व-स्वामिनि तैल-धारावद् अविच्छेदेन निविष्ट-मना भव।

Link copied

तद् एव विशिनष्टि--- मद्-भक्तोऽत्यर्थ-मत्-प्रियत्वेन युक्तो मन्-मना भव इत्य् अर्थः। पुनर् अपि विशिनष्टि--- मद्-याजी अनवधिकातिशय-प्रिय-मद्-अनुभव-कारित-मद्-यजन-परो भव। यजनं नाम परिपूर्ण-शेष-वृत्तिः, औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-सकल-भोग-प्रदान-रूपो हि यागः। यथा मद्-अनुभव-जनित-निरवधिकातिशय-प्रीतिकारित-मद्-यजन-परो भवसि तथा मन्-मना भव इत्य् उक्तं भवति।

Link copied

पुनर् अपि तद् एव विशिनष्टि--- मां नमस्कुरु, अनवधिकातिशय-प्रिय-मद्-अनुभव-कारितात्यर्थ-प्रियाशेष-शेष-वृत्तव् अपर्यवस्यन् मय्य् अन्तर्-आत्मन्य् अतिमात्र-प्रह्वीभाव-व्यवसायं कुरु। मत्-परायणोऽहम् एव परम् अयनं यस्यासौ मत्-परायणः, मया विना आत्म-धारणा-सम्भावनया मद्-आश्रय इत्य् अर्थः। एवम् आत्मानं युक्त्वा मत्-परायणस् त्वम् एवम् अनवधिकातिशय-प्रीत्या मद्-अनुभव-समर्थं मनः प्राप्य माम् एवैष्यसि। आत्म-शब्दो ह्य् अत्र मनो-विषयः। एवं-रूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्-परायणो माम् एव प्राप्स्यसीत्य् अर्थः।

Link copied

तद् एवं लौकिकानि शरीर-धारणार्थानि वैदिकानि च नित्य-नैमित्तिकानि कर्माणि मत्-प्रीतये मच्-छेषतैक-रसो मयैव कारित इति कुर्वन् सततं मत्-कीर्तन-यजन-नमस्कारादिकान् प्रीत्या कुर्वाणो मन्-नियाम्यं निखिल-जगत् मच्-छेषतैक-रसम् इति चानुसन्दधानः, अत्यर्थ-प्रिय-मद्-गुण-गणं चानुसन्धायाहर्-अहर् उक्त-लक्षणम् इदम् उपासनम् उपादधानो माम् एव प्राप्स्यसि॥९।३४॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये नवमोऽध्यायः ॥९॥

Link copied

**

Link copied

English · simplified from Thibaut (1904)

Lecture 9 — The Book of Kingly Wisdom and Kingly Mystery (in Sanskrit: Ra:ja-Vidhya:-Ra:ja-Guhya-Yo:ga)

Having discussed the kinds of devotees, Sri: Krishna now speaks of the glorious greatness of Parama-Purusha, the importance of the God-saints (jna:ni:s), and the nature of devotion (bhakti) itself. This chapter contains some of the most moving declarations of the Lord's accessibility and of the supreme worth of exclusive loving devotion.

Link copied

Verses 1–3 (The sovereign knowledge)

Verse 9.1. — "To you, the undistrusting, I shall declare this most mysterious jna:na coupled with vijna:na, knowing which you shall be freed from all impurity."

Link copied

Arjuna is called "undistrusting" because he is of such a godly disposition that, hearing of the Lord's limitless, matchless glory, he trusts it fully. Knowing this and practicing it, he will be relieved of all that obstructs his attaining the Lord.

Link copied

Verse 9.2. — "This is the sovereign knowledge, the sovereign mystery — sanctifying, supreme, directly realizable, righteous, most pleasant to practice, and imperishable."

Link copied

Ra:ja-vidhya: — kingly knowledge — is knowledge fit for those of lofty hearts who know what to hold sacred. Ra:ja-guhya — kingly mystery. Pavitram — that which cleanses all taints. Prathyaksha:vagamam — directly perceivable, for when one worships the Lord in bhakti, He immediately reveals Himself. Dharmyam — inseparable from virtue. Su-sukham — most pleasant to practice. Avyayam — imperishable, for God-love does not cease upon attaining Him but flows on unabatingly. The Lord considers that even when He gives Himself entirely to such a devotee, He has done little to repay the devotee's love.

Link copied

Verse 9.3. — "People who disregard this dharma, O Parantapa, fail to attain Me and revolve back through the mortal course of samsa:ra."

Link copied

Those who stand on the brink of this devotion but are lacking in fervor fall short and are swept along the current of lethal samsa:ra.

Link copied

Verses 4–10 (The Lord as the inner Ruler of all)

Verse 9.4. — "By Me, in My subtle form, all this cosmos is pervaded. All beings rest in Me, but I do not rest in them."

Link copied

In His unmanifest, inner-ruling form, He pervades all sentient and insentient creatures, as the Sovereign Lord sustaining and ordering the universe.

Link copied

Verse 9.5. — "Behold My divine power — beings are not upheld by Me, yet I am the Upholder of all. By My will alone I sustain them."

Link copied

He is not supported by them as a vessel holds water; He sustains all by His will. His is the unique power that has no parallel elsewhere.

Link copied

Verse 9.6. — "Know that as the mighty air, suspended in space and moving everywhere, rests in the propless vault of space, so all beings rest in Me."

Link copied

All things are in Him, Himself unseen. The Vedas proclaim that it is by His command alone that the sun and moon, fire and wind, are held in their courses.

Link copied

Verse 9.7. — "All beings, O Kaunteya, enter My Nature at the end of a kalpa; at the beginning of a kalpa, I emit them again."

Link copied

At the great dissolution, all movable and immovable beings enter His Nature — the undifferentiated matter-stuff called tamas, His body in its indistinct state. At the dawn of the next kalpa, He sends them forth again.

Link copied

Verse 9.8. — "Resorting to My own Nature, I send forth, again and again, this entire host of beings, helpless in the power of Nature."

Link copied

He has recourse to His own marvelous Nature and causes it to differentiate eightfold, bringing forth the four-fold creation of devas, humans, animals, and plants, all lying dormant within the folds of His guna-laden Nature.

Link copied

Verse 9.9. — "These acts, O Dhananjaya, do not bind Me. I sit indifferent, unattached to those acts."

Link copied

The inequalities of creation do not implicate Him, for the differences among beings are caused by their own past deeds, which He merely takes into account. He Himself stands as a passive neutral.

Link copied

Verse 9.10. — "Under My supervision, Nature begets all moving and non-moving things. For this reason, O Kaunteya, the universe turns."

Link copied

Determined by souls' merits and demerits, Nature brings forth all under His superintendence. The Vedas call Him the Mayi: — the Wielder of Nature as His instrument.

Link copied

Verses 11–15 (The ignorant and the great-souled)

Verse 9.11. — "The witless, ignoring My transcendent nature as Sovereign of all beings, fancy Me a mere mortal when I take human form."

Link copied

Ignorant dunces, on account of their sins, mistake the Lord — the Great Lord of creatures, the Omniscient, assuming human form out of compassion to be accessible to all — for an ordinary mortal.

Link copied

Verse 9.12. — "Wedded to a deceitful, fiendish, demonic nature, they are of vain hopes, vain acts, vain knowledge, and perverted minds."

Link copied

Their fiendish nature shuts out from view the Lord's superior attributes hidden under His human exterior. Their longings, efforts, and knowledge all go in vain.

Link copied

Verse 9.13. — "But the great-souled, O Partha, wedded to the divine nature, know Me as the Origin of things and the Inexhaustible, and worship Me with minds undivided."

Link copied

Those whose merits have led them to refuge in Him — whose bonds of sin are broken, who share the divine nature — are maha:thma:s. They worship Him with a mind so transported with love that, without such devotion, life itself would be unbearable.

Link copied

Verse 9.14. — "Ever chanting hymns of Me, in firm resolve engaged in My service, bowing before Me in rapt love, they — the hopers of eternal union — meditate on Me."

Link copied

Overwhelmed with love, they find existence impossible for even an instant without singing His names, performing holy exercises, or prostrating. They repeat the names Na:ra:yana, Krishna, Va:sude:va, their frames quivering, hairs bristling, voices tremulous. They stretch themselves on the ground like fragile reeds, regardless of dust and pebbles, all eight members falling in prostration. They ever pray to be eternally united with Him, realizing their true nature of holy servitude (da:sya).

Link copied

Verse 9.15. — "Others worship Me by the Sacrifice of Knowledge — meditating on Me as the Unity, the Distinctivity, the Diversity, the Infinity."

Link copied

The Blessed Lord Va:sude:va alone is the Unity that, by His unopposable will, manifests as the marvelous variety of devas, humans, animals, and plants — all constituting His body.

Link copied

Verses 16–19 (The Lord as the all of sacrifice and cosmos)

Verse 9.16. — "I am the kratu, I am the yajna, I am the svadha:, I am the aushadha, I am the mantra, I Myself the butter, I the fire, I the offering."

Link copied

Of Veda-rituals, daily obligations, the food offered to ancestors, the grain and herbs, the sacred chants, the clarified butter, the fire, the act of sacrifice — He is all.

Link copied

Verse 9.17. — "Of this universe I am the Father, the Mother, the Patriarch, the Grandsire, the Knowable, the Holy, the syllable Om, and the Riik, Sa:ma, and Yajus."

Link copied

Verse 9.18. — "I am the Way, the Prop, the Master, the Witness, the Abode, the Refuge, the Friend; the Seat of evolution and dissolution, the Deposit, and the Imperishable Seed."

Link copied

Verse 9.19. — "I give heat; I send and hold back rain; I am Immortality as well as Death; sat and asat am I, O Arjuna."

Link copied

He exists in every mode in which the sum of intelligent and non-intelligent things — composing His body — exists. The great-souled contemplate Him as the Unity corporeally manifesting in every shape of the cosmos.

Link copied

Verses 20–25 (The lower worship and its limited fruit)

Verse 9.20. — "The followers of the three Vedas, Soma-drinkers, sin-purified, pray for svarga by sacrifices; reaching Indra's joyous world, they taste in heaven the delights of the devas."

Link copied

Verse 9.21. — "Having enjoyed that spacious svarga, their merit spent, they return to the mortal world. Thus the pursuers of desires addicted to the three Vedas obtain only the transitory."

Link copied

The followers of the three Vedas pray for heaven; the followers of the Ve:da:nthas — the maha:thma:s — know the Lord Himself, worshipping Him as their sole Acme of ambition. The others fall when their merit runs out.

Link copied

Verse 9.22. — "Those who, excluding all else, ever meditate on Me — for them, ever longing for eternal union, I Myself secure that union and preserve it."

Link copied

Such maha:thma:s whose center of hope is exclusively the Lord — contemplating Him in His fullness — He Himself secures the yoga (union) from which there is no returning, and perpetuates it as kshema (preservation).

Link copied

Verse 9.23. — "Even those who worship other gods in faith and love actually worship Me, O Kaunteya — but in an improper manner."

Link copied

All the lesser gods constitute His body, of which He is the Soul. Worship addressed to them is in reality addressed to Him. But the ignorant worshippers, not knowing this, earn only limited and fleeting fruit.

Link copied

Verse 9.24. — "For I am the Enjoyer and sole Lord of all sacrifices. But they know Me not rightly, and therefore fall."

Link copied

By the same acts, some earn trivial fruit and fall again; others gain the unlimited, transcendent fruit — the Lord Himself — and never lose Him.

Link copied

Verse 9.25. — "Worshippers of the devas go to the devas; worshippers of the Pithris to the Pithris; worshippers of the bhu:thas to the bhu:thas; and My worshippers come to Me."

Link copied

Each is rewarded according to his intention.

Link copied

Verses 26–28 (The Lord's welcome of the humblest offering)

Verse 9.26. — "Whoever offers Me in love a leaf, a flower, a fruit, or water — that, so lovingly offered in pure-heartedness, I accept."

Link copied

Love is loving Him so ardently that the devotee cannot bear his own existence without offering something for His acceptance, and feels that the very act of offering is itself the fulfilment of his aim. Though the Lord naturally enjoys supreme felicity, He delights in such an offering as though it were a rare treasure beyond distant expectation. The Moksha-dharma says: "Whatever acts are consecrated to God with single-pointed devotion, God Himself accepts them all upon His head."

Link copied

Verse 9.27. — "Whatever you do, eat, oblate, give, or perform as austerity, O Kaunteya, do that as an offering to Me."

Link copied

Whatever secular occupation sustains life, whatever food you eat, whatever daily and occasional duties you fulfill — sacrifice, charity, austerity — deliver all to Him. Let the doer, the enjoyer, and the worshipped be all offered up in Him.

Link copied

Verse 9.28. — "Thus shall you be freed from the bonds of karma with its good and evil fruits. Mind united in the yoga of renunciation, liberated, you shall come to Me."

Link copied

Sannya:sa-yoga is the complete surrender of all. Pondering on the soul as solely subject to the Lord, and calculating every act as His worship, you will be freed from the measureless accumulation of past deeds barring your way.

Link copied

Verses 29–34 (The Lord's impartial love and the supremacy of devotion)

Verse 9.29. — "I am the same to all beings; to Me there is no foe nor friend. But those who worship Me with love are in Me, and I in them."

Link copied

Regardless of caste, color, nature, or understanding, the Lord is equal. No superiority grants automatic acceptance; no inferiority warrants rejection. The sole claim is refuge in Him. Whoever, of whatever description, worships Him as the sole Object of love — his very being would be imperiled without it — dwells in Him in a blessedness comparable to the Lord's own, and the Lord dwells in him as if he were the Lord's better.

Link copied

Verse 9.30. — "Even a man of flagrantly wicked conduct, if he worships Me with exclusive devotion, is to be esteemed righteous, for he has steered aright."

Link copied

Even if he transgresses the rules of his caste, he is a sa:dhu, a staunch Vaishnava. His firm belief — which all cannot attain — is that the Lord alone is the Cause of the cosmos, his Sovereign, his Teacher, his Friend, his supreme Joy. Slight derelictions cannot eclipse the single-minded worship.

Link copied

Verse 9.31. — "Swiftly he becomes a holy soul, and flies to eternal peace. Proclaim, O Kaunteya, that My bhakta never perishes."

Link copied

Through love of the Lord, he is soon shorn of sin; the rajas and tamas are rooted out; he quickly becomes a dharma:thma:. He goes to the eternal state from which there is no return. Arjuna is asked to give assurance to the world of this unshakable rule: the bhakta does not perish.

Link copied

Verse 9.32. — "Even those born of sin — women, vaisyas, su:dras — by trusting in Me go to the supreme state."

Link copied

Verse 9.33. — "How much more, then, the righteous bra:hmanas and king-saints? Having entered this transient, joyless world, worship Me."

Link copied

Verse 9.34. — "Fix your mind on Me; be My devotee; worship Me; bow to Me. Thus disciplining yourself, wholly given to Me, you shall come to Me."

Link copied

Man-mana:h — heart set on Me: let your heart flow ceaselessly, like a stream of poured oil, toward the Lord — the Lord of all, the Omniscient, the Parabrahma, the Purushoththama — of lotus-like eyes, uniform blue-cloud hue, brilliance of a thousand suns, nectar-ocean of loveliness, four-armed, orange-robed, ornate with diadem, ear-rings, garlands, and bracelets; Ocean of Mercy, Compassion, Beauty, Sweetness, Dignity, Bounty, Affection; Asylum of all the worlds.

Link copied

Mad-bhakta — let your heart be permeated with absorbing love. Mad-ya:ji: — let the delight of enjoying Him in love flower into worship: the externals (camphor, fans), the tactile (sandal, garlands), and the offerings of food. Ma:m namaskuru — bow in homage and humility to Him, your Inner Soul. Mat-para:yanah — rely on Him solely, without whom you could not exist.

Link copied

Thus, with mind one-pointed, enjoying Him, serving Him, prostrating to Him, you shall attain Him. Perform secular and scriptural duties as if all were done to please Him. Sing His praises, serve Him, bow to Him. Contemplate the universe as under His rule, as essentially His appendage. Reflect on the multitude of His lovable attributes. Thus daily engaged, you shall reach Him.

Link copied

Thus closes the ninth discourse, named Ra:ja-Vidhya:-Ra:ja-Guhya-Yo:ga — the Book of Kingly Wisdom and Kingly Mystery.

Link copied
Join our community