Skip to content

Bhagavad Gita Bhashya · Section 11 of 19

atha vibhu:thi yo:go: na:ma dasamo:'dhya:yah

Original Sanskrit · click to toggle

भक्ति-योगः स-परिकर उक्तः। इदानीं भक्त्य्-उत्पत्तये तद्-विवृद्धये च भगवतो निरङ्कुशैश्वर्यादि-कल्याण-गुण-गणानन्त्यं, कृत्स्नस्य जगतस् तच्-छरीरतया तद्-आत्मकत्वेन तत्-प्रवर्त्यत्वं च प्रपञ्च्यते --

Link copied

भूय एव महा-बाहो शृणु मे परमं वचः

Link copied

यत् तेऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया

Link copied

मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्-भक्त्य्-उत्पत्ति-विवृद्धि-रूप-हित-कामनाय भूयो मन्-माहात्म्य-प्रपञ्च-विषयम् एव परमं वचो यद् वक्ष्यामि तद् अवहित-मनाः सृणु॥१०।१॥

Link copied

न मे विदुः सुर-गणाः प्रभवं न महर्षयः

Link copied

अहम् आदिर् हि देवानां महर्षीणां च सर्वशः

Link copied

सुर-गणा महर्षयश् चातीन्द्रियार्थ-दर्शिनोऽधिकतर-ज्ञाना अपि मे प्रभवं प्रभावं न विदुः, मम नाम-कर्म-स्वरूप-स्वभावादिकं न जानन्ति। यतस् तेषां देवानां महर्षीणां च सर्वशोऽहम् आदिः, तेषां स्वरूपस्य ज्ञान-शक्त्य्-आदेश् चाहम् एवादिः। तेषां देवत्व-देवऋषित्वादि-हेतु-भूत-पुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्, अतस् ते परिमित-ज्ञाना मत्-स्वरूपकादिकं यथावन् न जानन्ति॥१०।२॥

Link copied

तद् एतद् देवाद्य्-अचिन्त्य-स्वरूप-याथात्म्य-विषय-ज्ञानं भक्त्य्-उत्पत्ति-विरोधि-पाप-विमोचनोपायम् आह---

Link copied

यो माम् अजम् अनादिं च वेत्ति लोक-महेश्वरम्

Link copied

असंमूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते

Link copied

न जायते इत्य् अजः। अनेन विकारि-द्रव्याद् अचेतनात् तत्-संसृष्टत् संसारि-चेतनाच् च विसजातीयत्वम् उक्तम्। संसारि-चेतनस्य हि कर्म-कृताचित्-संसर्गो जन्म। अनादिम् इत्य् अनेन पदेन आदिमतोऽजान् मुक्तात्मनो विसजातीयत्वम् उक्तम्। मुक्तात्मनो ह्य् अजत्वम् आदिमत्, तस्य हेय-सम्बन्धस्य पूर्व-वृत्तत्वात् तद्-अर्हता अस्ति, अतोऽनादिम् इत्य् अनेन तद्-अनर्हतया तत्-प्रत्यनीकतोच्यते। निरवद्यम् [श्वे।उ। ६।१९] इत्य्-आदि-श्रुत्या च।

Link copied

एवं हेय-सम्बन्ध-प्रत्यनीक-स्वरूपतया तद्-अनर्हं मां लोक-महेश्वरं लोकेश्वराणाम् अपीश्वरं मर्त्येष्व् असंमूढो यो वेत्ति। इतर-सजातीयतयैकीकृत्य मोहः संमोहस् तद्-रहितोऽसंमूढः स मद्-भक्त्य्-उत्पत्ति-विरोधिभिः सर्वैः पापैः प्रमुच्यते।

Link copied

एतद् उक्तं भवति--- लोके मनुष्याणां राजा इतर-मनुष्य-साजीतयः, केनचित् कर्मणा तद्-आधिपत्यं प्राप्तः। तथा देवानाम् अधिपतिर् अपि। तथा ब्रह्माण्डाधिपतिर् अपीतर-संसारि-सजातीयः। तस्यापि भावना-त्रयान्तर्गतत्वात्। यो ब्रह्माणं विदधाति [श्वे।उ। ६।१८] इति श्रुतेश् च। तथान्येऽपि ये केचनाणिमाद्य्-ऐश्वर्यं प्राप्ताः। अयं तु लोक-महेश्वरः--- कार्य-कारणावस्थाद् अचेतनाद् बद्धान् मुक्ताच् च चेतनाद् ईशितव्यात् सर्वस्मात् निखिल-हेय-प्रत्यनीकानवधिकातिशयासङ्ख्येय-कल्याणैक-तानतया नियमनैक-स्व-स्वभावतया च विसजातीय इति, इतर-सजातीयामोह-रहितो यो मां वेत्ति स सर्वैः पापैः प्रमुच्यते इति॥१०।३॥

Link copied

एवं स्व-स्वभावानुसन्धानेन भक्त्य्-उत्पत्ति-विरोधि-पाप-निरसनं विरोधि-निरसनाद् एवार्थतो भक्त्य्-उत्पत्तिं च प्रतिपाद्यं स्वैश्वर्य-स्व-कल्याण-गुण-गण-प्रपञ्चानुसन्धानेन भक्ति-वृद्धि-प्रकारम् आह---

Link copied

बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः

Link copied

सुखं दुःखं भवोऽभावो भयं चाभयम् एव च

Link copied

अहिंसा समता तुष्टिस् तपो दानं यशोऽयशः

Link copied

भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः

Link copied

बुद्धिर् मनसो निरूपण-सामर्थ्यम्, ज्ञानं चिद्-अचिद्-वस्तु-विशेष-विषयः निश्चयः। असंमोहः पूर्व-गृहीताद् रजतादेर् विसजातीये शुक्तिकादि-वस्तुनि सजातीयता-बुद्धि-निवृत्तिः। क्षमा मनो-विकार-हेतौ सत्य् अप्य् अविकृत-मनस्त्वम्। सत्यं यथा-दृष्ट-विषयं भूत-हित-रूपं वचनम्, तद्-अनुगुणा मनो-वृत्तिः इहाभिप्रेता, मनो-वृत्ति-प्रकरणात्। दमो बाह्य-करणानाम् अनर्थ-विषयेभ्यो नियमनम्। शमोऽन्तः-करणस्य तथा नियमनम्। सुखम् आत्मानुकूलानुभवः। दुःखं प्रतिकूलानुभवः। भवो भवनम्। अनुकूलानुभव-हेतुकं मनसो भवनम्। अभावः प्रतिकूलानुभव-हेतुको मनसोऽवसादः। भयम् आगामिनो दुःखस्य हेतु-दर्शनजं दुःखम्, तन्-निवृत्तिर् अभयम्। अहिंसा पर-दुःखाहेतुत्वम्। समता आत्मनि सुहृत्सु विपक्षेषु चार्थानर्थयोः सम-मतित्वम्। तुष्टिः सर्वेष्व् आत्मसु दृष्टोषु तोष-स्वभावत्वम्। तपः शास्त्रीयो भोग-सङ्कोच-रूपः कायक्लेशः। दानं स्वकीय-भोग्यानां परस्मै प्रतिपादनम्। यशो गुणवत्ता-प्रथा, अयशः नैर्गुण्य-प्रथा, कीर्त्य्-अकीर्त्य्-अनुगुण-मनो-वृत्ति-विशेषौ तथा उक्तौ, मनो-वृत्ति-प्रकरणात्। तपो-दाने च तथा। एवम् आद्याः सर्वेषां भूतानां भावाः प्रवृत्ति-निवृत्ति-हेतवो मनो-वृत्तयो मत्त एव मत्-सङ्कल्पायत्ता भवन्ति॥१०।४-५॥

Link copied

सर्वस्य भूत-जातस्य सृष्टि-स्थित्योः प्रवर्तयितारश् च मत्-सङ्कल्पायत्त-प्रवृत्तय इत्य् आह---

Link copied

महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा

Link copied

मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः

Link copied

पूर्वे सप्त महर्षयोऽतीत-मन्वन्तरे ये भृग्व्-आदयः सप्त महर्षयो नित्य-सृष्टि-प्रवर्तनाय ब्रह्मणो मनसः सम्भवाः नित्य-स्थिति-प्रवर्तनाय ये च सावर्णिका नाम चत्वारो मनवः स्थिता, येषां सन्तान-मये लोके जाता इमाः सर्वाः प्रजाः, प्रतिक्षणम् आप्रलयाद् अपत्यानाम् उत्पादकाः पालकाश् च भवन्ति, ते भृग्व्-आदयो मनवश् च मद्-भावाः, मम यो भावः स एव येषां भावस् ते मद्-भावाः, मन्-मते स्थिताः मत्-सङ्कल्पानुवर्तिन इत्य् अर्थः॥१०।६॥

Link copied

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः

Link copied

सोऽविकम्पेन योगेन युज्यते नात्र संशयः

Link copied

विभूतिर् ऐश्वर्यम्। एतां सर्वस्य मद्-आयत्तोत्पत्ति-स्थिति-प्रवृत्ति-रूपां विभूतिं मम हेय-प्रत्यनीक-कल्याण-गुण-रूपं योगं च यस् तत्त्वतो वेत्ति, सोऽविकम्पेनाप्रकम्पेन भक्ति-योगेन युज्यते, नात्र संशयः। मद्-विभूति-विषयं कल्याण-गुण-विषयं च ज्ञानं भक्ति-योग-वर्धनम् इति स्वयम् एव द्रक्ष्यसीत्य् अभिप्रायः॥१०।७॥

Link copied

विभूति-ज्ञान-विपाक-रूपां भक्ति-वृद्धिं दर्शयति---

Link copied

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते

Link copied

इति मत्वा भजन्ते मां बुधा भाव-समन्विताः

Link copied

अहं सर्वस्य विचित्र-चिद्-अचित्-प्रपञ्चस्य प्रभव उत्पत्ति-कारणम्। सर्वं मत्त एव प्रवर्तते। इतीदं मम स्वाभाविकं निरङ्कुशैश्वर्यं सौशील्य-सौन्दर्य-वात्सल्यादि-कल्याण-गुण-गण-योगं च मत्वा बुधा ज्ञानिनो भाव-समन्विताः मां सर्व-कल्याण-गुणान्वितं भजन्ते। भावो मनो-वृत्ति-विशेषः, मयि स्पृहयालवो मां भजन्त इत्य् अर्थः॥१०।८॥

Link copied

कथम्।

Link copied

मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम्

Link copied

कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च

Link copied

मच्-चित्ता मयि निविष्ट-मनसः, मद्-गत-प्राणाः मद्-गत-जीविताः मया विना आत्म-धारणम् अलभमाना इत्य् अर्थः। स्वैः स्वैर् अनुभूतान् मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तस् तुष्यन्ति च रमन्ति च। वक्तारस् तद्-वचनेनानन्य-प्रयोजनेन तुष्यन्ति, श्रोतारश् च तच्-छ्रवणेनानवधिकातिशय-प्रियेण रमन्ते॥१०।९॥

Link copied

तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम्

Link copied

ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते१०

Link copied

तेषां सतत-युक्तानां मयि सतत-योगम् आशंसमानानां मां भजमानानाम् अहं तम् एव बुद्धि-योगं विपाक-दशापन्नं प्रीति-पूर्वकं ददामि येन ते माम् उपयान्ति॥१०।१०॥

Link copied

किं च---

Link copied

तेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः

Link copied

नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता११

Link copied

तेषाम् एवानुग्रहार्थम् अहम् आत्म-भाव-स्थस् तेषां मनो-वृत्तौ विषयतयावस्थितो मदीयान् कल्याण-गुण-गणांश् चाविष्कुर्वन् मद्-विषय-ज्ञानाख्येन भास्वता दीपेन ज्ञान-विरोधि-प्राचीन-कर्म-रूपाज्ञान-जं मद्-व्यतिरिक्त-पूर्वाभ्यस्त-विषय-प्रावण्य-रूपं तमो नाशयामि॥१०।११॥

Link copied

एवं सकलेतर-विसजातीयं भगवद्-असाधारणं सृण्वतां निरतिशयानन्द-जनकं कल्याण-गुण-गण-योगं तदैश्वर्य-विततिं च श्रुत्वा तद्-विस्तारं श्रोतु-कामोऽर्जुन उवाच---

Link copied

परं ब्रह्म परं धाम पवित्रं परमं भवान्

Link copied

पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम्१२

Link copied

आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा

Link copied

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे१३

Link copied

परं ब्रह्म परं धाम परमं पवित्रम् इति यं श्रुतयो वदन्ति स हि भवान्। यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्मेति [तै।उ। ३।१], ब्रह्मविद् आप्नोति परम् [तै।उ। २।१], स यो ह वै तत्-परमं ब्रह्म वेद ब्रह्मैव भवति [मु।उ। ३।२।९] इति।

Link copied

तथा परं धाम। धाम-शब्दो ज्योतिर्-वचनः परं ज्योतिः--- अथ यद् अतः परो दिव्यो ज्योतिर् दीप्यते [छा।उ। ३।१३।७], परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छा।उ। ८।१२।२], तद् देवा ज्योतिषां ज्योतिः [बृ।आ।उ। ४।४।१६] इति।

Link copied

तथा च परमं पवित्रं परमं पावनं स्मर्तुर् अशेष-कल्मषाश्लेष-करं विनाश-करं च। यथा पुष्कर-पलाश आपो न श्लिष्यन्त एवम् एवं-विदि पापं कर्म न श्लिष्यते [छा।उ। ४।१४।३] तद् यथेषीकातूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते [छा।उ। ५।२४।३]।

Link copied

नारायणः परं ब्रह्म तत्त्वं नारायणः परः।

Link copied

नारायणः परं ज्योतिर् आत्मा नारायणः परः॥ [महानाउ ९।४] इति हि श्रुतयो वदन्ति।

Link copied

ऋषयश् च सर्वे परावरतत्त्वयाथात्म्यविदस् त्वाम् एव शाश्वतं दिव्यं पुरुषम् आदि-देवम् अजं विभुम् आहुः। तथैव देवर्षिः नारदोऽसितो देवलो व्यासश् च।

Link copied

एष नारायणः श्रीमान् क्षीरार्णव-निकेतनः।

Link copied

नाग-पर्यङ्कम् उत्सृज्य ह्य् आगतो मथुरां पुरीम्॥

Link copied

पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः।

Link copied

साक्षाद् देवः पुराणोऽसौ स हि धर्मः सनातनः॥

Link copied

ये च वेद-विदो विप्रा चे चाध्यात्म-विदो जनाः।

Link copied

ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्॥

Link copied

पवित्राणां हि गोविन्दः पवित्रं परम् उच्यते।

Link copied

पुण्यानाम् अपि पुण्योऽसौ मङ्गलानां च मङ्गलम्॥

Link copied

त्रैलोक्ये पुण्डारीकाक्षो देव-देवः सनातनः।

Link copied

आस्ते हरिर् अचिन्तयात्मा तत्रैव मधुसूदनः॥ [म।भा। ३।८८।२४-२८]

Link copied

तथा यत्र नारायणो देवः परमात्मा सनातनः।

Link copied

तत्र कृत्स्नं जगत् पार्थ तीर्थान्यायतानि च॥

Link copied

तत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपो-वनम्।

Link copied

तत्र देवर्षयः सिद्धाः सर्वे चैव तपो-धनाः॥

Link copied

आदि-देवो महा-योगी यत्रास्ते मधुसूदनः।

Link copied

पुण्यानाम् अपि तत् पुण्यं माभूत् ते संशयोऽव वै॥ [म।भा। ३।९०।२८-३२]

Link copied

कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः।

Link copied

कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम्॥ [म।भा। २।३८।२३] इति।

Link copied

तथा स्वयम् एव ब्रवीषि च---

Link copied

भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च।

Link copied

अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा॥ [७।४] इत्य्-आदिना,

Link copied

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [१०।८] इत्य् अन्तेन॥१०।१२--- १०।१३॥

Link copied

सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव

Link copied

न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः१४

Link copied

अतः सर्वम् एतद् यथावस्थित-वस्तु-कथनं मन्ये न प्रशंसाद्य्-अभिप्रायम्। यद् मां प्रत्य् अनन्य-साधारणम् अनवधिकातिशयं स्वाभाविकं तवाइश्वर्यं कल्याण-गुण-गणानन्त्यं च वदसि। अतो भगवन् निरतिशय-ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजसां निधे ते व्यक्तिं व्यजन-प्रकारं न हि परिमित-ज्ञाना देवा दानवाश् च विदुः॥१०।१४॥

Link copied

स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम

Link copied

भूत-भावन भूतेश देव-देव जगत्पते१५

Link copied

हे पुरुषोत्तम आत्मना आत्मानं त्वं स्वयम् एव स्वेनैव ज्ञानेन वेत्थ। भूत-भावन सर्वेषां भूतानाम् उत्पादयितः। भूतेश सर्वेषां भूतानां नियन्तः। देव-देव दैवतानाम् अपि परम-दैवत, यथा मनुष्य-मृग-पक्षि-सरीसृपादीन् सौन्दर्य-सौशील्यादि-कल्याण-गुण-गणैः दैवतान्य् अतीत्य वर्तन्ते तथा तानि सर्वाणि दैवतान्य् अपि तैस् तैः गुणैर् अतीत्य वर्तमान, जगत्-पते जगत्-स्वामिन्॥१०।१५॥

Link copied

वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः

Link copied

याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि१६

Link copied

दिव्यास् त्वद्-असाधारण्यो विभूतयो यास् तास् त्वम् एवाशेषण वक्तुम् अर्हसि त्वम् एव व्यञ्जयेत्य् अर्थः। याभिर् अनन्ताभिर् विभूतिभिर् यैर् नियमन-विशेषैर् युक्त इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि॥१०।१६॥

Link copied

किम्-अर्थं तत्-प्रकाशनम्। इत्य् अपेक्षायाम् आह---

Link copied

कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन्

Link copied

केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया१७

Link copied

अहं योगी भक्ति-योग-निष्ठः सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तश् चिन्तनीयं त्वां परिपूर्णैश्वर्यादि-कल्याण-गुण-गणं कथं विद्याम्। पूर्वोक्त-बुद्धि-ज्ञानादि-भाव-व्यतिरिक्तेष्व् अनुक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्योऽसि॥।१०।१७॥

Link copied

विस्तरेणात्मनो योगं विभूतिं च जनार्दन

Link copied

भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मेऽमृतम्१८

Link copied

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता १०।८] इति सङ्क्षेपेणोक्तं तव स्रष्टृत्वादि-योगं विभूतिं नियमनं च भूयो विस्तरेण कथय। त्वयोच्यमानं त्वन्-माहात्म्यामृतं सृण्वतो मे तृप्तिर् नास्ति हि। ममातृप्तिस् त्वयैव विदितेत्य् अभिप्रायः॥१०।१८॥

Link copied

श्री-भगवान् उवाच---

Link copied

हन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः

Link copied

प्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे१९

Link copied

हे कुरु-श्रेष्ठ मदीयाः कल्याणीर् विभूतीः प्राधान्यतस् ते कथयिष्यामि। प्राधान्य-शब्देनोत्कर्षो विवक्षितः। पुरोधसां च मुख्यं माम् [१०।२४] इति हि वक्ष्यते। जगत्य् उत्कृष्टः काश्चन विभूतीर् वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासाम् आनन्त्यात्। विभूतित्वं नाम नियाम्यत्वम्, सर्वेषां भूतानां बुद्ध्य्-आदयः पृथग्-विधा भावा मत्त एव भवन्तीत्य् उक्त्वा एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः [१०।७] इति प्रतिपादनात्। तथा तत्र योग-शब्द-निर्दिष्टं स्रष्टृत्वादिकं विभूति-शब्द-निर्दिष्टं तत्-प्रवर्त्यत्वम् इति युक्तम्। पुनश् च---

Link copied

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।

Link copied

इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ [गीता १०।८] इत्य् उक्तम्॥१०।१९॥

Link copied

तत्र सर्व-भूतानां प्रवर्तन-रूपं नियमनम् आत्मतया अवस्थाय इतीमम् अर्थं योग-शब्द-निर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं चेति सुस्पष्टम् आह---

Link copied

अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः

Link copied

अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च२०

Link copied

सर्वेषां भूतानाम् मम शरीर-भूतानाम् आशये हृदयेऽहम् आत्मतयावस्थितः। आत्मा हि नाम शरीरस्य सर्वात्मनाधारो नियन्ता शेषी च। तथा वक्ष्यते--- सर्वस्य चाहं हृदि सन्निविष्टे मत्तः स्मृतिर् ज्ञानम् अपोहनं च [१५।१५],

Link copied

ईश्वरः सर्व-भूतानां हृद्देशोऽर्जुन तिष्ठति।

Link copied

भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया॥ [१८।६१] इति।

Link copied

श्रूयते च--- यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुः। यस्य सर्वाणि भूतानि शरीरं। यः सर्वाणि भूतान्य् अन्तरो यमयति। एष त आत्मान्तर्याम्य् अमृतः [बृ।आ।उ। ३।७।१५] इति, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [शत्ब्र् १४।५।३०] इति च। एवं सर्व-भूतानाम् आत्मतयावस्थितोऽहं तेषाम् आदिर् मध्यं चान्तश् च। तेषाम् उत्पत्ति-स्थिति-प्रलय-हेतुर् इत्य् अर्थः॥१०।२०॥

Link copied

एवं भगवतः स्व-विभूति-भूतेषु सर्वेष्व् आत्मतयावस्थानं तत्-तच्-छब्द-सामानाधिकरण्य-निर्देश-हेतुं प्रतिपाद्य विभूति-विशेषाम् सामानाधिकरण्येन व्यपदिशति। भगवत्य् आत्मतयावस्थिते हि सर्वे शब्दास् तस्मिन्न् एव पर्यवस्यन्ति। यथा देवो मनुष्यः पक्षी वृक्ष इत्य् आदयः शब्दाः शरीराणि प्रतिपादयन्तस् तत् तद् आत्मनि पर्यवस्यान्ति। तथा भगवतस् तत्-तद्-आत्मतयावस्थानम् एव तत्-तच्-छब्द-सामानाधिकरण्य-निबन्धनम्, इति विभूत्य्-उपसंहारे वक्ष्यति--- न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् [गीता १०।३९] इति सर्वेषां स्वेनाविना-भाव-वचनात्। अविना-भावश् चनियाम्यतयेति मत्तः सर्वं प्रवर्तते [गीता १०।८] इत्य् उपक्रमोदितम्।

Link copied

आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान्

Link copied

मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी२१

Link copied

द्वादश-सङ्ख्या-सङ्ख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टे विष्णुर् नामादित्यः सोऽहम्। ज्योतिषां जगति प्रकाशकानां योऽंशुमान् रविर् आदित्य-गणः सोऽहम्। मरुताम् उत्कृष्टे मरीचिर् यः सोऽहम् अस्मि। नक्षत्राणाम् अहं शशी। नेयं निर्धारणे षष्ठी। भूतानाम् अस्मि चेतनेतिवत् नक्षत्राणां पतिर् यश् चन्द्रः सोऽहम् अस्मि॥१०।२१॥

Link copied

वेदानां साम-वेदोऽस्मि देवानाम् अस्मि वासवः

Link copied

इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना२२

Link copied

वेदानाम् ऋग्-यजुः-सामाथर्वणां य उत्कृष्टः साम-वेदः सोऽहं देवानाम् इन्द्रोऽहम् अस्मि। एकादशानाम् इन्द्रियाणां यद् उत्कृष्टं मन इन्द्रियं तद् अहम् अस्मि। इयम् अपि न निर्धारणे--- भूतानां चेतनावतां या चेतना सा अहम् अस्मि॥१०।२२॥

Link copied

रुद्राणां शङ्करश् चास्मि वित्तेशो यक्ष-रक्षसाम्

Link copied

वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम्२३

Link copied

रुद्राणाम् एकादशानां शङ्करोऽहम् अस्मि। यक्ष-रक्षसां वैश्रवणोऽहम्, वसूनाम् अष्टनां पावकोऽहम्। शिखरिणां शिखर-शोभिनां पर्वतानां मध्ये मेरुर् अहम्॥१०।२३॥

Link copied

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्

Link copied

सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः२४

Link copied

पुरोधसाम् उत्कृष्टे बृहस्पतिर् यः सोऽहम् अस्मि। सेनातीनां सेनापतीनां स्कन्दोऽहम् अस्मि, सरसां सागरोऽहम् अस्मि॥१०।२४॥

Link copied

महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम्

Link copied

यज्ञानां जप-यज्ञोऽस्मि स्थावराणां हिमालयः२५

Link copied

महर्षीणां मरीच्य्-आदीनां भृगुर् अहम्। अर्थाभिधायिनः शब्दा गिरः, तासाम् एकम् अक्षरं प्रणवोऽहम् अस्मि। यज्ञानाम् उत्कृष्टो जप-यज्ञोऽस्मि, पर्वत-मात्राणां हिमवान् अहम्॥१०।२५॥

Link copied

अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः

Link copied

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः२६

Link copied

सर्व-वृक्षाणां मध्ये पूज्योऽश्वत्थ एवाहम्। देवर्षीणां मध्ये परम-वैष्णवो नारदोऽहम् अस्मि। गन्धर्वाणां देव-गायकानां मध्ये चित्ररथोऽस्मि। सिद्धानां योग-निष्ठानां परमोपास्यः कपिलोऽहम्॥१०।२६॥

Link copied

उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम्

Link copied

ऐरावतं गजेन्द्राणां नराणां च नराधिपम्२७

Link copied

सर्वेषाम् अश्वानां मध्येऽमृत-मथनोद्भवम् उच्चैःश्रवसं मां विद्धि। गजेन्द्राणां सर्वेषां मध्येऽमृत-मथनोद्भवम् ऐरावतं मां विद्धि। अमृतोद्भवम् इत्य् ऐरावतस्यापि विशेषणम्। नराणां मध्ये राजानं मां विद्धि॥१०।२७॥

Link copied

आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक्

Link copied

प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः२८

Link copied

आयुधानां मध्ये वज्रं तद् अहम्। धेनूनां हविर् दुघानां मध्ये काम-धुक्, दिव्या सुरभिः। प्रजनः जनन-हेतुः कन्दर्पश् चाहम् अस्मि। सर्पाः एक-शिरसस् तेषां मध्ये वासुकिर् अस्मि॥१०।२८॥

Link copied

अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम्

Link copied

पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम्२९

Link copied

नागा बहु-शिरसः, यादांसि जल-वासिनः, तेषां वरुणोऽहम्। अत्रापि न निर्धारणे षष्ठी, दण्डायतां वैवस्वतोऽहम्॥१०।२९॥

Link copied

प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम्

Link copied

मृगाणां च मृगेन्द्रोऽहं वैनतेयश् च पक्षिणाम्३०

Link copied

अनर्थ-प्रेप्सुतया गणयतां मध्ये कालः मृत्युर् अहम्॥१०।३०॥

Link copied

पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम्

Link copied

झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी३१

Link copied

पवतां गमन-स्वभावानां पवनोऽहम्। शस्त्र-भृतां रामोऽहम्। शस्त्र-भृत्त्वम् अत्र विभूतिः, अर्थान्तराभावात्। आदित्यादयश् च क्षेत्र-ज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्म-भूता इति शस्त्र-भृत्त्व-स्थानीयाः॥१०।३१॥

Link copied

सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन

Link copied

अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम्३२

Link copied

सृज्यन्त इति सर्गाः, तेषाम् आदिः कारणम्। सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारोऽहम् एवेत्य् अर्थः। तथान्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारोऽप्य् अहम् एव। तथा च मध्यं पालनं सर्वदा पाल्यमानानां पालयितारश् चाहम् एवेत्य् अर्थः। श्रेयः-साधन-भूतानां विद्यानां मध्ये परम-निःश्रेयस-साधन-भूता अध्यात्म-विद्याहम् अस्मि। जल्प-वितण्डादि कुर्वतां तत्त्व-निर्णयाय प्रवृत्तो वादो यः सोऽहम्॥१०।३२॥

Link copied

अक्षराणाम् अकारोऽस्मि द्वन्द्वः सामासिकस्य च

Link copied

अहम् एवाक्षयः कालो धाताहं विश्वतो-मुखः३३

Link copied

अक्षराणां मध्ये अ-कारो वै सर्वा वाक् [ऐ।पू। ३।६] इति श्रुति-सिद्धः, सर्व-वर्णानां प्रकृतिर् अ-कारोऽहम्। सामासिकः समास-समूहः। तस्य मध्ये द्वन्द्व-समासोऽहम्। स ह्य् उभय-पदार्थ-प्रधानत्वेनोत्कृष्टः। कला-मुहूर्तादि-मयोऽक्षयः कालोऽहम् एव। सर्वस्य स्रष्ट हिरण्यगर्भश् चतुर्मुखोऽहम्॥१०।३३॥

Link copied

मृत्युः सर्व-हरश् चाहम् उद्भवश् च भविष्यताम्

Link copied

कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा३४

Link copied

सर्व-प्राण-हरो मृत्युश् चाहम्। उत्पत्स्यमानानाम् उद्भवाख्यं कर्म चाहम्, नारीणां श्रीर् अहं कीर्तिश् चाहं वाक् चाहं स्मृतिश् चाहं मेधा चाहं धृतिश् चाहं क्षमा चाहम्॥१०।३४॥

Link copied

बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम्

Link copied

मासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः३५

Link copied

साम्नां बृहत्-सामाहम्। छन्दसां गायत्रीम् अहम्। ऋतूनां कुसुमाकरो वसन्तः॥१०।३५॥

Link copied

द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम्

Link copied

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववताम् अहम्३६

Link copied

छलं कुर्वतां छलास्पदेष्व् अक्षादि-लक्षणं द्यूतम् अहम्। जेतॄणां जयोऽस्मि। व्यवसायिनां व्यवसायोऽस्मि। सत्त्वतां सत्त्वं महा-मनस्त्वम्॥१०।३६॥

Link copied

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः

Link copied

मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः३७

Link copied

वसुदेव-सूनुत्वम् अत्र विभूतिः, अर्थान्तराभावाद् एव। पाण्डावानां धनञ्जयो ऽर्जुनो ऽहम्। मुनयो मननेनार्थ-याथात्म्य-दर्शिनः, तेषां व्यासोऽहम्। कवयो विपश्चितः॥१०।३७॥

Link copied

दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम्

Link copied

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम्३८

Link copied

नियमातिक्रमणे दण्डां कुर्वतां दण्डोऽहम्। विजिगीषूणां जयोपाय-भूता नीतिर् अस्मि। गुह्यानां सम्बन्धिषु गोपनेषु मौनम् अस्मि। ज्ञानवतां ज्ञानं चाहम्॥१०।३८॥

Link copied

यच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन

Link copied

न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्३९

Link copied

सर्व-भूतानां सर्वावस्थावस्थितानां तत्-तद्-अवस्था-बीज-भूतं प्रतीयमानम् अप्रतीयमानं च यत् तद् अहम् एव। चराचर-सर्व-भूत-जातं मयात्मतयावस्थितेन विना यत् स्यान् न तद् अस्ति। अहम् आत्मा गुडाअकेश सर्व-भूताशाय-स्थितः [१०।२०] इति प्रक्रमात्। न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् इत्य् अत्राप्य् आत्मतयावस्थानम् एव विवक्षितम्।

Link copied

सर्व-वस्तु-जातं सर्वावस्थं मयात्म-भूतेन युक्तं स्याद् इत्य् अर्थः। अनेन सर्वस्यास्य सामानाधिकरण्य-निर्देश्यस्य आत्मतया अवस्थितिर् एव हेतुर् इति प्रकटयति॥१०।३९॥

Link copied

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप

Link copied

एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया४०

Link copied

मम दिव्यानां कल्याणीनां विभूतीनाम् अन्तो नास्ति। एष तु विभूतेर् विस्तरो मया कैश्चिद् उपाधिभिः सङ्क्षेपतः प्रोक्तः॥१०।४०॥

Link copied

यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा

Link copied

तत् तद् एवावगच्छ त्वं मम तेजोऽंश-सम्भवम्४१

Link copied

यद् यद् विभूतिमद् ईशितव्य-सम्पन्नं भूत-जातं श्रीमत् कान्तिमद् धन-धान्य-समृद्धं वा ऊद्र्जितं कल्याणारम्भेषूद्युक्तं तत् तन् मम तेजोऽंश-सम्भवम् इत्य् अवगच्छ॥१०।४१॥

Link copied

तेजः पराभिभवन-सामर्थ्यम्, ममाचिन्त्य-शक्तेर् नियमन-शक्त्यैक-देश-सम्भवम् इत्य् अर्थः।

Link copied

अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन

Link copied

विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्४२

Link copied

बहुना ऐतेन उच्यमानेन ज्ञानेन किं प्रयोजनम्। इदं चिद्-अचिद्-आत्मकं कृत्स्नं जगत् कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूप-सद्-भावे स्थितौ प्रवृत्ति-भेदे च यथा मत्-सङ्कल्पं नातिवर्तेत तथा मम महिम्नोऽयुतायुतांशेन विष्टभ्याहम् अवस्थितः। यथोक्तं भगवता पराशरेण--- यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता [वि।पु। १।९।५३] इति॥१०।४२॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये दशमोऽध्यायः ॥१०॥

Link copied

**

Link copied

English · simplified from Thibaut (1904)

Lecture 10 — The Book of Divine Glories (in Sanskrit: Vibhu:thi-Vistha:ra-Yo:ga)

Having described bhakti and its requirements in Lecture IX, this chapter expounds the infinity of the Lord's glories (vibhu:thi) — His inviolable Sovereignty and His ensouling of the cosmos — so that love for Him may be kindled and fanned. To know Him through His glories is to be drawn toward Him in devotion.

Link copied

Verses 1–3 (The majesty beyond the gods)

Verse 10.1. — "Hear, O mighty-armed, My sublime speech, which I shall again declare for your good, My beloved."

Link copied

Arjuna is beloved because he delights in hearing the Lord's greatness. To awaken and fan the flame of loving devotion in him, the Lord once more declares His amplified glory.

Link copied

Verse 10.2. — "Neither the hosts of Suras nor the Maharshis know My greatness, for I am, in every way, prior to devas and maharshis."

Link copied

Even the Suras and Maharshis — capable of super-sensuous perception — do not know the divine nature of His titles, deeds, essence, and attributes. Their intelligence is merely the measure of their merit which He Himself awards; limited as they are, they cannot gauge Him.

Link copied

Verse 10.3. — "He who knows Me as the Birthless, the Beginningless, the Great Lord of the cosmos, — he among mortals is free from delusion and delivered from all sin."

Link copied

Ajah — Birthless — distinguishes the Lord from both changeful matter and bound souls. Ana:di — Beginningless — distinguishes Him from liberated souls, who, though birthless, had a beginning to their liberated state. He alone occupies a position antithetical to evil, never associated with it. The loka-mahesvara is the Over-lord of all subordinate lords. The devotee who does not imagine the Lord to be like other beings is delivered from all sins that obstruct God-love.

Link copied

Verses 4–6 (Mental dispositions and the creators all derive from the Lord)

Verses 10.4–5. — "Decision, Knowledge, Disillusion, Forgiveness, Truthfulness, Self-government, Self-restraint; Happiness and Affliction; Geniality and Non-geniality, Dread and Non-dread; Harmlessness, Equanimity, Amiability, Austerity, Beneficence, Fame and Notoriety — all these diverse states of beings arise from Me alone."

Link copied

Buddhi (judgment), jna:na (correct knowledge), asammoha (right conception), kshama: (forgiveness), satya (truthfulness), dama (control of outer senses), sama (restraint of the mind), sukha (joy), dhuhkha (suffering), bhava and abhava (elation and depression), bhaya and abhaya (fear and fearlessness), ahimsa:, samatha:, thushti, tapas, dha:na, yasas, ayasas — all these humors and temperaments arise from His willing.

Link copied

Verse 10.6. — "The Seven Maharshis, the Four ancient Manus, partaking of My nature, were mind-born; from them came all this progeny of the world."

Link copied

The Seven — Bhrigu and the rest — and the Four Manus, born from Brahma:'s mind, create and sustain their offspring every moment until the eve of cosmic dissolution. They are after the Lord's own mind.

Link copied

Verses 7–11 (The fruit of knowing His vibhu:thi and yoga)

Verse 10.7. — "Whoever truly knows this vibhu:thi (glory) and yoga (assemblage of divine attributes) of Mine is linked to Me in unwavering bhakti-yoga. No doubt of this."

Link copied

Vibhu:thi is His universal sovereignty as seen in creation, sustenance, and dissolution, all depending on Him. Yo:ga is the consensus of all His glorious attributes, free from every flaw.

Link copied

Verse 10.8. — "I am the Origin of all; from Me operates everything. So the wise comprehend Me, and with thoughts imbued with devotion worship Me."

Link copied

Verse 10.9. — "Their thoughts riveted on Me, their lives nestled in Me, they ever enlighten one another about Me and converse of Me; thus they are content and exultant."

Link copied

They fix their thoughts on the Lord and their very breath depends on Him. They reciprocate experiences of His attributes; recount His divine deeds; delight in each other's company. Their conversation itself is a completeness; hearing of Him causes rapturous joy.

Link copied

Verse 10.10. — "To them, ever intent, worshipping in love, I give that illumined understanding (buddhi-yoga) by which they may come to Me."

Link copied

Verse 10.11. — "Out of pure compassion for them, O Partha, I enter the course of their thoughts and destroy ignorance-born darkness with the radiant light of wisdom."

Link copied

He is present in their mind-functions as their chief Object, making manifest His blessed attributes. His shining in their thoughts dispels the darkness of past karma.

Link copied

Verses 11½–18 (Arjuna's adoration and request for fuller glory)

Verse 10.11½. — "You are the Supreme-Great (Param-Brahma), the Supernal Light (Param-Dha:ma), the Superbly Holy (Paramam-Pavitram)."

Link copied

The Upanishadhs proclaim Him as Para-brahma — the source of all beings; as Param-dha:ma — the Supernal Light shining above all; as Paramam-Pavitram — who purifies the devotee of all sins past and future. Na:ra:yana is Parabrahma, the Highest Truth, the Supreme Light, the Paramount Self.

Link copied

Verse 10.12. — "Spirit eternal, Divine, First Lord, Birthless, All-pervading —"

Link copied

Verse 10.13. — "— so do all the Rishis declare You, and Dhevarshi Na:rada, Asita, Devala, Vya:sa. Yourself have declared it to me."

Link copied

Verse 10.14. — "All that You tell me I take to be true, O Kesava; for neither devas nor da:navas, Lord, understand Your manifestations."

Link copied

Verse 10.15. — "O Purushoththama! Source of beings! Lord of beings! God of gods! King of the universe! — You alone know Yourself by Yourself."

Link copied

Even as devas excel men in virtue, beauty, and habit, so You excel the devas.

Link copied

Verse 10.16. — "You alone can tell Your glories — glories by which You abide, pervading all these worlds."

Link copied

Verse 10.17. — "How shall I, a yogi:, know You by constant meditation? In what forms, O Lord, are You to be meditated on?"

Link copied

Verse 10.18. — "In detail, Jana:rdana, recount once more Your yoga and Your vibhu:thi. To me, listening to the nectar of Your words, there is no satiety."

Link copied

Verse 19 (The Lord's response: a sketch of the endless)

Verse 10.19. — "So be it, chief of the Kurus; I shall unfold to you My glories in their salient points. There is no end to My infinity."

Link copied

A few prominent glories alone will be named, for they are inexhaustible.

Link copied

Verses 20–42 (The catalogue of divine glories)

Verse 10.20. — "I am the Soul, O Guda:ke:sa, seated in the hearts of all beings. I am the Beginning, the Middle, and the End of all creatures."

Link copied

He is seated as the Self (a:thman) in the hearts of all — which are His body. To be the Soul is to be, in every way, the Support, the Ruler, the Master. The Upanishadhs chant: "He who is seated in all beings, innermost to all, whom beings know not, of whom beings are the body — He is your a:thman, the Inner Ruler (antharya:min), Immortal." He is the cause of the evolution, persistence, and dissolution of all.

Link copied

Verse 10.21. — "Of the A:dithyas I am Vishnu; of luminaries, the radiant Sun; of the Maruts, I am Mari:chi; of the stars, I am the Moon."

Link copied

Verse 10.22. — "Of the Vedas, I am the Sa:ma-Veda; of the devas, Indra; of the senses, the mind (manas); of beings, I am intelligence."

Link copied

Verse 10.23. — "Of the Rudras, I am Sankara; of the Yakshas and Ra:kshasas, I am Viththesa (Kubera); of the Vasus, I am Pa:vaka (Fire); of the mountains, I am Meru."

Link copied

Verse 10.24. — "Of household priests, know Me to be the chief, Brihaspathi; of commanders, I am Skanda; of reservoirs of water, I am the Ocean."

Link copied

Verse 10.25. — "Of Maharshis, I am Bhrigu; of speech, the monosyllable Om; of sacrifices, I am the sacrifice of japa; of the stationary, the Hima:laya."

Link copied

Verse 10.26. — "Of trees, I am the Asvaththa; of Dhevarshis, Na:rada; of Gandharvas, Citraratha; of the accomplished (siddhas), the sage Kapila."

Link copied

Verse 10.27. — "Of horses, know Me as Ucchaihsravas, born from the nectar-churning; of royal elephants, Aira:vatha; and of men, the king."

Link copied

Verse 10.28. — "Of weapons, I am the Vajra; of cows, Ka:madhuk; the procreator Kandarpa, I am; of serpents, Va:suki."

Link copied

Verse 10.29. — "Of Na:gas, I am Ananta; of aquatic beings, Varuna; of Pithris, Aryama:; of judges, Yama."

Link copied

Verse 10.30. — "Of the Daityas, I am Prahla:da; of reckoners, I am Time; of animals, the lion; of birds, Vainateya (Garuda)."

Link copied

Verse 10.31. — "Of fluids (purifiers), I am Pavana (the wind); of wielders of weapons, I am Ra:ma; of fish, the dolphin; of rivers, the Ja:hnavi: (Ganga:)."

Link copied

Unlike indirect manifestations, Ra:ma here is a direct incarnation. Ra:ma Himself is the Lord; the manifested aspect indicated is the wielding of weapons.

Link copied

Verse 10.32. — "I am the Beginning, the End, and the Middle of creation, O Arjuna. Of sciences, I am the Science of the Self; of debaters, the right argument (va:da)."

Link copied

Va:da is right argument aimed at truth, distinguished from mere wrangling (jalpa) or carping (vithanda:).

Link copied

Verse 10.33. — "Of letters, I am A; of compounds, the dvandva. I am the perishless Time. I am the all-faced Dha:thrii."

Link copied

A is the root of all speech, as the Vedas declare. Dvandva is the compound in which both terms have equal grammatical value. Dha:thrii is Hiranyagarbha, the four-faced Creator.

Link copied

Verse 10.34. — "I am all-seizing Death and the Origin of things to come; of feminine virtues, I am Fame, Prosperity, Speech, Memory, Intellect, Courage, and Forbearance."

Link copied

Verse 10.35. — "Of Sa:ma-chants, I am the Brihath-Sa:ma; of metres, Ga:yathri:; of months, Ma:rgasi:rsha; of seasons, the flowery season (Spring)."

Link copied

Verse 10.36. — "Of deceivers, I am the gambling; of the splendid, the splendor; I am victory; I am effort; I am the goodness of the good."

Link copied

Verse 10.37. — "Of the Vrishnis, I am Va:sude:va; of the Pa:ndavas, Dhananjaya (Arjuna); of sages, I am Vya:sa; of seers, Usanas."

Link copied

The being the son of Vasudeva is the manifested expression; Va:sude:va Himself is the Lord direct.

Link copied

Verse 10.38. — "Of punishers, I am the Rod; of aspirants for success, I am polity; of secrets, I am silence; of the wise, I am wisdom."

Link copied

Verse 10.39. — "What is the seed of all things, O Arjuna, that I am. Nothing movable or immovable can exist without Me."

Link copied

What the seed — or soul — is in all things in any condition, manifest or unmanifest, He is that. Nothing exists as separate from Him ensouling it.

Link copied

Verse 10.40. — "There is no end, O Parantapa, to My divine glories. What I have given is a mere summary."

Link copied

Verse 10.41. — "Whatever is glorious, prosperous, or powerful — know that as sprung from a mere fraction of My glory."

Link copied

Whatever manifests majesty, prosperity, or eclat — know it as a fragment of His directive Power from out of His inconceivable Power.

Link copied

Verse 10.42. — "But what use is this vast detail to you, O Arjuna? Abiding in it, I uphold this entire cosmos with but a fraction of Myself."

Link copied

Whether in subtle unmanifest state or gross manifest, whether in essence or perpetuity, whether in its ramifications — this universe, compound of cit and acit, is planned never to overstep His will. It is upheld by but the ten-thousandth of a ten-thousandth part of His transcendent power. As Bhagava:n Para:sara declared, this cosmic force is but the ten-thousandth of a ten-thousandth.

Link copied

Thus closes the tenth discourse, named Vibhu:thi-Vistha:ra-Yo:ga — the Book of Divine Glories.

Link copied
Join our community