Bhagavad Gita Bhashya · Section 11 of 19
atha vibhu:thi yo:go: na:ma dasamo:'dhya:yah
Original Sanskrit · click to toggle
भक्ति-योगः स-परिकर उक्तः। इदानीं भक्त्य्-उत्पत्तये तद्-विवृद्धये च भगवतो निरङ्कुशैश्वर्यादि-कल्याण-गुण-गणानन्त्यं, कृत्स्नस्य जगतस् तच्-छरीरतया तद्-आत्मकत्वेन तत्-प्रवर्त्यत्वं च प्रपञ्च्यते --
Link copiedभूय एव महा-बाहो शृणु मे परमं वचः।
Link copiedयत् तेऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया॥१॥
Link copiedमम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्-भक्त्य्-उत्पत्ति-विवृद्धि-रूप-हित-कामनाय भूयो मन्-माहात्म्य-प्रपञ्च-विषयम् एव परमं वचो यद् वक्ष्यामि तद् अवहित-मनाः सृणु॥१०।१॥
Link copiedन मे विदुः सुर-गणाः प्रभवं न महर्षयः।
Link copiedअहम् आदिर् हि देवानां महर्षीणां च सर्वशः॥२॥
Link copiedसुर-गणा महर्षयश् चातीन्द्रियार्थ-दर्शिनोऽधिकतर-ज्ञाना अपि मे प्रभवं प्रभावं न विदुः, मम नाम-कर्म-स्वरूप-स्वभावादिकं न जानन्ति। यतस् तेषां देवानां महर्षीणां च सर्वशोऽहम् आदिः, तेषां स्वरूपस्य ज्ञान-शक्त्य्-आदेश् चाहम् एवादिः। तेषां देवत्व-देवऋषित्वादि-हेतु-भूत-पुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्, अतस् ते परिमित-ज्ञाना मत्-स्वरूपकादिकं यथावन् न जानन्ति॥१०।२॥
Link copiedतद् एतद् देवाद्य्-अचिन्त्य-स्वरूप-याथात्म्य-विषय-ज्ञानं भक्त्य्-उत्पत्ति-विरोधि-पाप-विमोचनोपायम् आह---
Link copiedयो माम् अजम् अनादिं च वेत्ति लोक-महेश्वरम्।
Link copiedअसंमूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते॥३॥
Link copiedन जायते इत्य् अजः। अनेन विकारि-द्रव्याद् अचेतनात् तत्-संसृष्टत् संसारि-चेतनाच् च विसजातीयत्वम् उक्तम्। संसारि-चेतनस्य हि कर्म-कृताचित्-संसर्गो जन्म। अनादिम् इत्य् अनेन पदेन आदिमतोऽजान् मुक्तात्मनो विसजातीयत्वम् उक्तम्। मुक्तात्मनो ह्य् अजत्वम् आदिमत्, तस्य हेय-सम्बन्धस्य पूर्व-वृत्तत्वात् तद्-अर्हता अस्ति, अतोऽनादिम् इत्य् अनेन तद्-अनर्हतया तत्-प्रत्यनीकतोच्यते। निरवद्यम् [श्वे।उ। ६।१९] इत्य्-आदि-श्रुत्या च।
Link copiedएवं हेय-सम्बन्ध-प्रत्यनीक-स्वरूपतया तद्-अनर्हं मां लोक-महेश्वरं लोकेश्वराणाम् अपीश्वरं मर्त्येष्व् असंमूढो यो वेत्ति। इतर-सजातीयतयैकीकृत्य मोहः संमोहस् तद्-रहितोऽसंमूढः स मद्-भक्त्य्-उत्पत्ति-विरोधिभिः सर्वैः पापैः प्रमुच्यते।
Link copiedएतद् उक्तं भवति--- लोके मनुष्याणां राजा इतर-मनुष्य-साजीतयः, केनचित् कर्मणा तद्-आधिपत्यं प्राप्तः। तथा देवानाम् अधिपतिर् अपि। तथा ब्रह्माण्डाधिपतिर् अपीतर-संसारि-सजातीयः। तस्यापि भावना-त्रयान्तर्गतत्वात्। यो ब्रह्माणं विदधाति [श्वे।उ। ६।१८] इति श्रुतेश् च। तथान्येऽपि ये केचनाणिमाद्य्-ऐश्वर्यं प्राप्ताः। अयं तु लोक-महेश्वरः--- कार्य-कारणावस्थाद् अचेतनाद् बद्धान् मुक्ताच् च चेतनाद् ईशितव्यात् सर्वस्मात् निखिल-हेय-प्रत्यनीकानवधिकातिशयासङ्ख्येय-कल्याणैक-तानतया नियमनैक-स्व-स्वभावतया च विसजातीय इति, इतर-सजातीयामोह-रहितो यो मां वेत्ति स सर्वैः पापैः प्रमुच्यते इति॥१०।३॥
Link copiedएवं स्व-स्वभावानुसन्धानेन भक्त्य्-उत्पत्ति-विरोधि-पाप-निरसनं विरोधि-निरसनाद् एवार्थतो भक्त्य्-उत्पत्तिं च प्रतिपाद्यं स्वैश्वर्य-स्व-कल्याण-गुण-गण-प्रपञ्चानुसन्धानेन भक्ति-वृद्धि-प्रकारम् आह---
Link copiedबुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः।
Link copiedसुखं दुःखं भवोऽभावो भयं चाभयम् एव च॥४॥
Link copiedअहिंसा समता तुष्टिस् तपो दानं यशोऽयशः।
Link copiedभवन्ति भावा भूतानां मत्त एव पृथग्-विधाः॥५॥
Link copiedबुद्धिर् मनसो निरूपण-सामर्थ्यम्, ज्ञानं चिद्-अचिद्-वस्तु-विशेष-विषयः निश्चयः। असंमोहः पूर्व-गृहीताद् रजतादेर् विसजातीये शुक्तिकादि-वस्तुनि सजातीयता-बुद्धि-निवृत्तिः। क्षमा मनो-विकार-हेतौ सत्य् अप्य् अविकृत-मनस्त्वम्। सत्यं यथा-दृष्ट-विषयं भूत-हित-रूपं वचनम्, तद्-अनुगुणा मनो-वृत्तिः इहाभिप्रेता, मनो-वृत्ति-प्रकरणात्। दमो बाह्य-करणानाम् अनर्थ-विषयेभ्यो नियमनम्। शमोऽन्तः-करणस्य तथा नियमनम्। सुखम् आत्मानुकूलानुभवः। दुःखं प्रतिकूलानुभवः। भवो भवनम्। अनुकूलानुभव-हेतुकं मनसो भवनम्। अभावः प्रतिकूलानुभव-हेतुको मनसोऽवसादः। भयम् आगामिनो दुःखस्य हेतु-दर्शनजं दुःखम्, तन्-निवृत्तिर् अभयम्। अहिंसा पर-दुःखाहेतुत्वम्। समता आत्मनि सुहृत्सु विपक्षेषु चार्थानर्थयोः सम-मतित्वम्। तुष्टिः सर्वेष्व् आत्मसु दृष्टोषु तोष-स्वभावत्वम्। तपः शास्त्रीयो भोग-सङ्कोच-रूपः कायक्लेशः। दानं स्वकीय-भोग्यानां परस्मै प्रतिपादनम्। यशो गुणवत्ता-प्रथा, अयशः नैर्गुण्य-प्रथा, कीर्त्य्-अकीर्त्य्-अनुगुण-मनो-वृत्ति-विशेषौ तथा उक्तौ, मनो-वृत्ति-प्रकरणात्। तपो-दाने च तथा। एवम् आद्याः सर्वेषां भूतानां भावाः प्रवृत्ति-निवृत्ति-हेतवो मनो-वृत्तयो मत्त एव मत्-सङ्कल्पायत्ता भवन्ति॥१०।४-५॥
Link copiedसर्वस्य भूत-जातस्य सृष्टि-स्थित्योः प्रवर्तयितारश् च मत्-सङ्कल्पायत्त-प्रवृत्तय इत्य् आह---
Link copiedमहर्षयः सप्त पूर्वे चत्वारो मनवस् तथा।
Link copiedमद्-भावा मानसा जाता येषां लोक इमाः प्रजाः॥६॥
Link copiedपूर्वे सप्त महर्षयोऽतीत-मन्वन्तरे ये भृग्व्-आदयः सप्त महर्षयो नित्य-सृष्टि-प्रवर्तनाय ब्रह्मणो मनसः सम्भवाः नित्य-स्थिति-प्रवर्तनाय ये च सावर्णिका नाम चत्वारो मनवः स्थिता, येषां सन्तान-मये लोके जाता इमाः सर्वाः प्रजाः, प्रतिक्षणम् आप्रलयाद् अपत्यानाम् उत्पादकाः पालकाश् च भवन्ति, ते भृग्व्-आदयो मनवश् च मद्-भावाः, मम यो भावः स एव येषां भावस् ते मद्-भावाः, मन्-मते स्थिताः मत्-सङ्कल्पानुवर्तिन इत्य् अर्थः॥१०।६॥
Link copiedएतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।
Link copiedसोऽविकम्पेन योगेन युज्यते नात्र संशयः॥७॥
Link copiedविभूतिर् ऐश्वर्यम्। एतां सर्वस्य मद्-आयत्तोत्पत्ति-स्थिति-प्रवृत्ति-रूपां विभूतिं मम हेय-प्रत्यनीक-कल्याण-गुण-रूपं योगं च यस् तत्त्वतो वेत्ति, सोऽविकम्पेनाप्रकम्पेन भक्ति-योगेन युज्यते, नात्र संशयः। मद्-विभूति-विषयं कल्याण-गुण-विषयं च ज्ञानं भक्ति-योग-वर्धनम् इति स्वयम् एव द्रक्ष्यसीत्य् अभिप्रायः॥१०।७॥
Link copiedविभूति-ज्ञान-विपाक-रूपां भक्ति-वृद्धिं दर्शयति---
Link copiedअहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
Link copiedइति मत्वा भजन्ते मां बुधा भाव-समन्विताः॥८॥
Link copiedअहं सर्वस्य विचित्र-चिद्-अचित्-प्रपञ्चस्य प्रभव उत्पत्ति-कारणम्। सर्वं मत्त एव प्रवर्तते। इतीदं मम स्वाभाविकं निरङ्कुशैश्वर्यं सौशील्य-सौन्दर्य-वात्सल्यादि-कल्याण-गुण-गण-योगं च मत्वा बुधा ज्ञानिनो भाव-समन्विताः मां सर्व-कल्याण-गुणान्वितं भजन्ते। भावो मनो-वृत्ति-विशेषः, मयि स्पृहयालवो मां भजन्त इत्य् अर्थः॥१०।८॥
Link copiedकथम्।
Link copiedमच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम्।
Link copiedकथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च॥९॥
Link copiedमच्-चित्ता मयि निविष्ट-मनसः, मद्-गत-प्राणाः मद्-गत-जीविताः मया विना आत्म-धारणम् अलभमाना इत्य् अर्थः। स्वैः स्वैर् अनुभूतान् मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तस् तुष्यन्ति च रमन्ति च। वक्तारस् तद्-वचनेनानन्य-प्रयोजनेन तुष्यन्ति, श्रोतारश् च तच्-छ्रवणेनानवधिकातिशय-प्रियेण रमन्ते॥१०।९॥
Link copiedतेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम्।
Link copiedददामि बुद्धि-योगं तं येन माम् उपयान्ति ते॥१०॥
Link copiedतेषां सतत-युक्तानां मयि सतत-योगम् आशंसमानानां मां भजमानानाम् अहं तम् एव बुद्धि-योगं विपाक-दशापन्नं प्रीति-पूर्वकं ददामि येन ते माम् उपयान्ति॥१०।१०॥
Link copiedकिं च---
Link copiedतेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः।
Link copiedनाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता॥११॥
Link copiedतेषाम् एवानुग्रहार्थम् अहम् आत्म-भाव-स्थस् तेषां मनो-वृत्तौ विषयतयावस्थितो मदीयान् कल्याण-गुण-गणांश् चाविष्कुर्वन् मद्-विषय-ज्ञानाख्येन भास्वता दीपेन ज्ञान-विरोधि-प्राचीन-कर्म-रूपाज्ञान-जं मद्-व्यतिरिक्त-पूर्वाभ्यस्त-विषय-प्रावण्य-रूपं तमो नाशयामि॥१०।११॥
Link copiedएवं सकलेतर-विसजातीयं भगवद्-असाधारणं सृण्वतां निरतिशयानन्द-जनकं कल्याण-गुण-गण-योगं तदैश्वर्य-विततिं च श्रुत्वा तद्-विस्तारं श्रोतु-कामोऽर्जुन उवाच---
Link copiedपरं ब्रह्म परं धाम पवित्रं परमं भवान्।
Link copiedपुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम्॥१२॥
Link copiedआहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा।
Link copiedअसितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥१३॥
Link copiedपरं ब्रह्म परं धाम परमं पवित्रम् इति यं श्रुतयो वदन्ति स हि भवान्। यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्मेति [तै।उ। ३।१], ब्रह्मविद् आप्नोति परम् [तै।उ। २।१], स यो ह वै तत्-परमं ब्रह्म वेद ब्रह्मैव भवति [मु।उ। ३।२।९] इति।
Link copiedतथा परं धाम। धाम-शब्दो ज्योतिर्-वचनः परं ज्योतिः--- अथ यद् अतः परो दिव्यो ज्योतिर् दीप्यते [छा।उ। ३।१३।७], परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छा।उ। ८।१२।२], तद् देवा ज्योतिषां ज्योतिः [बृ।आ।उ। ४।४।१६] इति।
Link copiedतथा च परमं पवित्रं परमं पावनं स्मर्तुर् अशेष-कल्मषाश्लेष-करं विनाश-करं च। यथा पुष्कर-पलाश आपो न श्लिष्यन्त एवम् एवं-विदि पापं कर्म न श्लिष्यते [छा।उ। ४।१४।३] तद् यथेषीकातूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते [छा।उ। ५।२४।३]।
Link copiedनारायणः परं ब्रह्म तत्त्वं नारायणः परः।
Link copiedनारायणः परं ज्योतिर् आत्मा नारायणः परः॥ [महानाउ ९।४] इति हि श्रुतयो वदन्ति।
Link copied
ऋषयश् च सर्वे परावरतत्त्वयाथात्म्यविदस् त्वाम् एव शाश्वतं दिव्यं पुरुषम् आदि-देवम् अजं विभुम् आहुः। तथैव देवर्षिः नारदोऽसितो देवलो व्यासश् च।
Link copiedएष नारायणः श्रीमान् क्षीरार्णव-निकेतनः।
Link copiedनाग-पर्यङ्कम् उत्सृज्य ह्य् आगतो मथुरां पुरीम्॥
Link copiedपुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः।
Link copiedसाक्षाद् देवः पुराणोऽसौ स हि धर्मः सनातनः॥
Link copiedये च वेद-विदो विप्रा चे चाध्यात्म-विदो जनाः।
Link copiedते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्॥
Link copiedपवित्राणां हि गोविन्दः पवित्रं परम् उच्यते।
Link copiedपुण्यानाम् अपि पुण्योऽसौ मङ्गलानां च मङ्गलम्॥
Link copiedत्रैलोक्ये पुण्डारीकाक्षो देव-देवः सनातनः।
Link copiedआस्ते हरिर् अचिन्तयात्मा तत्रैव मधुसूदनः॥ [म।भा। ३।८८।२४-२८]
Link copiedतथा यत्र नारायणो देवः परमात्मा सनातनः।
Link copiedतत्र कृत्स्नं जगत् पार्थ तीर्थान्यायतानि च॥
Link copiedतत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपो-वनम्।
Link copiedतत्र देवर्षयः सिद्धाः सर्वे चैव तपो-धनाः॥
Link copiedआदि-देवो महा-योगी यत्रास्ते मधुसूदनः।
Link copiedपुण्यानाम् अपि तत् पुण्यं माभूत् ते संशयोऽव वै॥ [म।भा। ३।९०।२८-३२]
Link copiedकृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः।
Link copiedकृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम्॥ [म।भा। २।३८।२३] इति।
Link copied
तथा स्वयम् एव ब्रवीषि च---
Link copiedभूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च।
Link copiedअहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा॥ [७।४] इत्य्-आदिना,
Link copied
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [१०।८] इत्य् अन्तेन॥१०।१२--- १०।१३॥
Link copiedसर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव।
Link copiedन हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः॥१४॥
Link copiedअतः सर्वम् एतद् यथावस्थित-वस्तु-कथनं मन्ये न प्रशंसाद्य्-अभिप्रायम्। यद् मां प्रत्य् अनन्य-साधारणम् अनवधिकातिशयं स्वाभाविकं तवाइश्वर्यं कल्याण-गुण-गणानन्त्यं च वदसि। अतो भगवन् निरतिशय-ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजसां निधे ते व्यक्तिं व्यजन-प्रकारं न हि परिमित-ज्ञाना देवा दानवाश् च विदुः॥१०।१४॥
Link copiedस्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम।
Link copiedभूत-भावन भूतेश देव-देव जगत्पते॥१५॥
Link copiedहे पुरुषोत्तम आत्मना आत्मानं त्वं स्वयम् एव स्वेनैव ज्ञानेन वेत्थ। भूत-भावन सर्वेषां भूतानाम् उत्पादयितः। भूतेश सर्वेषां भूतानां नियन्तः। देव-देव दैवतानाम् अपि परम-दैवत, यथा मनुष्य-मृग-पक्षि-सरीसृपादीन् सौन्दर्य-सौशील्यादि-कल्याण-गुण-गणैः दैवतान्य् अतीत्य वर्तन्ते तथा तानि सर्वाणि दैवतान्य् अपि तैस् तैः गुणैर् अतीत्य वर्तमान, जगत्-पते जगत्-स्वामिन्॥१०।१५॥
Link copiedवक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः।
Link copiedयाभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि॥१६॥
Link copiedदिव्यास् त्वद्-असाधारण्यो विभूतयो यास् तास् त्वम् एवाशेषण वक्तुम् अर्हसि त्वम् एव व्यञ्जयेत्य् अर्थः। याभिर् अनन्ताभिर् विभूतिभिर् यैर् नियमन-विशेषैर् युक्त इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि॥१०।१६॥
Link copiedकिम्-अर्थं तत्-प्रकाशनम्। इत्य् अपेक्षायाम् आह---
Link copiedकथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन्।
Link copiedकेषु केषु च भावेषु चिन्त्योऽसि भगवन् मया॥१७॥
Link copiedअहं योगी भक्ति-योग-निष्ठः सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तश् चिन्तनीयं त्वां परिपूर्णैश्वर्यादि-कल्याण-गुण-गणं कथं विद्याम्। पूर्वोक्त-बुद्धि-ज्ञानादि-भाव-व्यतिरिक्तेष्व् अनुक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्योऽसि॥।१०।१७॥
Link copiedविस्तरेणात्मनो योगं विभूतिं च जनार्दन।
Link copiedभूयः कथय तृप्तिर् हि शृण्वतो नास्ति मेऽमृतम्॥१८॥
Link copiedअहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता १०।८] इति सङ्क्षेपेणोक्तं तव स्रष्टृत्वादि-योगं विभूतिं नियमनं च भूयो विस्तरेण कथय। त्वयोच्यमानं त्वन्-माहात्म्यामृतं सृण्वतो मे तृप्तिर् नास्ति हि। ममातृप्तिस् त्वयैव विदितेत्य् अभिप्रायः॥१०।१८॥
Link copiedश्री-भगवान् उवाच---
Link copiedहन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः।
Link copiedप्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे॥१९॥
Link copiedहे कुरु-श्रेष्ठ मदीयाः कल्याणीर् विभूतीः प्राधान्यतस् ते कथयिष्यामि। प्राधान्य-शब्देनोत्कर्षो विवक्षितः। पुरोधसां च मुख्यं माम् [१०।२४] इति हि वक्ष्यते। जगत्य् उत्कृष्टः काश्चन विभूतीर् वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासाम् आनन्त्यात्। विभूतित्वं नाम नियाम्यत्वम्, सर्वेषां भूतानां बुद्ध्य्-आदयः पृथग्-विधा भावा मत्त एव भवन्तीत्य् उक्त्वा एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः [१०।७] इति प्रतिपादनात्। तथा तत्र योग-शब्द-निर्दिष्टं स्रष्टृत्वादिकं विभूति-शब्द-निर्दिष्टं तत्-प्रवर्त्यत्वम् इति युक्तम्। पुनश् च---
Link copiedअहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
Link copiedइति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ [गीता १०।८] इत्य् उक्तम्॥१०।१९॥
Link copied
तत्र सर्व-भूतानां प्रवर्तन-रूपं नियमनम् आत्मतया अवस्थाय इतीमम् अर्थं योग-शब्द-निर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं चेति सुस्पष्टम् आह---
Link copiedअहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः।
Link copiedअहम् आदिश् च मध्यं च भूतानाम् अन्त एव च॥२०॥
Link copiedसर्वेषां भूतानाम् मम शरीर-भूतानाम् आशये हृदयेऽहम् आत्मतयावस्थितः। आत्मा हि नाम शरीरस्य सर्वात्मनाधारो नियन्ता शेषी च। तथा वक्ष्यते--- सर्वस्य चाहं हृदि सन्निविष्टे मत्तः स्मृतिर् ज्ञानम् अपोहनं च [१५।१५],
Link copiedईश्वरः सर्व-भूतानां हृद्देशोऽर्जुन तिष्ठति।
Link copiedभ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया॥ [१८।६१] इति।
Link copied
श्रूयते च--- यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुः। यस्य सर्वाणि भूतानि शरीरं। यः सर्वाणि भूतान्य् अन्तरो यमयति। एष त आत्मान्तर्याम्य् अमृतः [बृ।आ।उ। ३।७।१५] इति, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [शत्ब्र् १४।५।३०] इति च। एवं सर्व-भूतानाम् आत्मतयावस्थितोऽहं तेषाम् आदिर् मध्यं चान्तश् च। तेषाम् उत्पत्ति-स्थिति-प्रलय-हेतुर् इत्य् अर्थः॥१०।२०॥
Link copiedएवं भगवतः स्व-विभूति-भूतेषु सर्वेष्व् आत्मतयावस्थानं तत्-तच्-छब्द-सामानाधिकरण्य-निर्देश-हेतुं प्रतिपाद्य विभूति-विशेषाम् सामानाधिकरण्येन व्यपदिशति। भगवत्य् आत्मतयावस्थिते हि सर्वे शब्दास् तस्मिन्न् एव पर्यवस्यन्ति। यथा देवो मनुष्यः पक्षी वृक्ष इत्य् आदयः शब्दाः शरीराणि प्रतिपादयन्तस् तत् तद् आत्मनि पर्यवस्यान्ति। तथा भगवतस् तत्-तद्-आत्मतयावस्थानम् एव तत्-तच्-छब्द-सामानाधिकरण्य-निबन्धनम्, इति विभूत्य्-उपसंहारे वक्ष्यति--- न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् [गीता १०।३९] इति सर्वेषां स्वेनाविना-भाव-वचनात्। अविना-भावश् चनियाम्यतयेति मत्तः सर्वं प्रवर्तते [गीता १०।८] इत्य् उपक्रमोदितम्।
Link copiedआदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान्।
Link copiedमरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी॥२१॥
Link copiedद्वादश-सङ्ख्या-सङ्ख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टे विष्णुर् नामादित्यः सोऽहम्। ज्योतिषां जगति प्रकाशकानां योऽंशुमान् रविर् आदित्य-गणः सोऽहम्। मरुताम् उत्कृष्टे मरीचिर् यः सोऽहम् अस्मि। नक्षत्राणाम् अहं शशी। नेयं निर्धारणे षष्ठी। भूतानाम् अस्मि चेतनेतिवत् नक्षत्राणां पतिर् यश् चन्द्रः सोऽहम् अस्मि॥१०।२१॥
Link copiedवेदानां साम-वेदोऽस्मि देवानाम् अस्मि वासवः।
Link copiedइन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना॥२२॥
Link copiedवेदानाम् ऋग्-यजुः-सामाथर्वणां य उत्कृष्टः साम-वेदः सोऽहं देवानाम् इन्द्रोऽहम् अस्मि। एकादशानाम् इन्द्रियाणां यद् उत्कृष्टं मन इन्द्रियं तद् अहम् अस्मि। इयम् अपि न निर्धारणे--- भूतानां चेतनावतां या चेतना सा अहम् अस्मि॥१०।२२॥
Link copiedरुद्राणां शङ्करश् चास्मि वित्तेशो यक्ष-रक्षसाम्।
Link copiedवसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम्॥२३॥
Link copiedरुद्राणाम् एकादशानां शङ्करोऽहम् अस्मि। यक्ष-रक्षसां वैश्रवणोऽहम्, वसूनाम् अष्टनां पावकोऽहम्। शिखरिणां शिखर-शोभिनां पर्वतानां मध्ये मेरुर् अहम्॥१०।२३॥
Link copiedपुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्।
Link copiedसेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः॥२४॥
Link copiedपुरोधसाम् उत्कृष्टे बृहस्पतिर् यः सोऽहम् अस्मि। सेनातीनां सेनापतीनां स्कन्दोऽहम् अस्मि, सरसां सागरोऽहम् अस्मि॥१०।२४॥
Link copiedमहर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम्।
Link copiedयज्ञानां जप-यज्ञोऽस्मि स्थावराणां हिमालयः॥२५॥
Link copiedमहर्षीणां मरीच्य्-आदीनां भृगुर् अहम्। अर्थाभिधायिनः शब्दा गिरः, तासाम् एकम् अक्षरं प्रणवोऽहम् अस्मि। यज्ञानाम् उत्कृष्टो जप-यज्ञोऽस्मि, पर्वत-मात्राणां हिमवान् अहम्॥१०।२५॥
Link copiedअश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः।
Link copiedगन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥२६॥
Link copiedसर्व-वृक्षाणां मध्ये पूज्योऽश्वत्थ एवाहम्। देवर्षीणां मध्ये परम-वैष्णवो नारदोऽहम् अस्मि। गन्धर्वाणां देव-गायकानां मध्ये चित्ररथोऽस्मि। सिद्धानां योग-निष्ठानां परमोपास्यः कपिलोऽहम्॥१०।२६॥
Link copiedउच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम्।
Link copiedऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥२७॥
Link copiedसर्वेषाम् अश्वानां मध्येऽमृत-मथनोद्भवम् उच्चैःश्रवसं मां विद्धि। गजेन्द्राणां सर्वेषां मध्येऽमृत-मथनोद्भवम् ऐरावतं मां विद्धि। अमृतोद्भवम् इत्य् ऐरावतस्यापि विशेषणम्। नराणां मध्ये राजानं मां विद्धि॥१०।२७॥
Link copiedआयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक्।
Link copiedप्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः॥२८॥
Link copiedआयुधानां मध्ये वज्रं तद् अहम्। धेनूनां हविर् दुघानां मध्ये काम-धुक्, दिव्या सुरभिः। प्रजनः जनन-हेतुः कन्दर्पश् चाहम् अस्मि। सर्पाः एक-शिरसस् तेषां मध्ये वासुकिर् अस्मि॥१०।२८॥
Link copiedअनन्तश् चास्मि नागानां वरुणो यादसाम् अहम्।
Link copiedपितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम्॥२९॥
Link copiedनागा बहु-शिरसः, यादांसि जल-वासिनः, तेषां वरुणोऽहम्। अत्रापि न निर्धारणे षष्ठी, दण्डायतां वैवस्वतोऽहम्॥१०।२९॥
Link copiedप्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम्।
Link copiedमृगाणां च मृगेन्द्रोऽहं वैनतेयश् च पक्षिणाम्॥३०॥
Link copiedअनर्थ-प्रेप्सुतया गणयतां मध्ये कालः मृत्युर् अहम्॥१०।३०॥
Link copiedपवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम्।
Link copiedझषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी॥३१॥
Link copiedपवतां गमन-स्वभावानां पवनोऽहम्। शस्त्र-भृतां रामोऽहम्। शस्त्र-भृत्त्वम् अत्र विभूतिः, अर्थान्तराभावात्। आदित्यादयश् च क्षेत्र-ज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्म-भूता इति शस्त्र-भृत्त्व-स्थानीयाः॥१०।३१॥
Link copiedसर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन।
Link copiedअध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम्॥३२॥
Link copiedसृज्यन्त इति सर्गाः, तेषाम् आदिः कारणम्। सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारोऽहम् एवेत्य् अर्थः। तथान्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारोऽप्य् अहम् एव। तथा च मध्यं पालनं सर्वदा पाल्यमानानां पालयितारश् चाहम् एवेत्य् अर्थः। श्रेयः-साधन-भूतानां विद्यानां मध्ये परम-निःश्रेयस-साधन-भूता अध्यात्म-विद्याहम् अस्मि। जल्प-वितण्डादि कुर्वतां तत्त्व-निर्णयाय प्रवृत्तो वादो यः सोऽहम्॥१०।३२॥
Link copiedअक्षराणाम् अकारोऽस्मि द्वन्द्वः सामासिकस्य च।
Link copiedअहम् एवाक्षयः कालो धाताहं विश्वतो-मुखः॥३३॥
Link copiedअक्षराणां मध्ये अ-कारो वै सर्वा वाक् [ऐ।पू। ३।६] इति श्रुति-सिद्धः, सर्व-वर्णानां प्रकृतिर् अ-कारोऽहम्। सामासिकः समास-समूहः। तस्य मध्ये द्वन्द्व-समासोऽहम्। स ह्य् उभय-पदार्थ-प्रधानत्वेनोत्कृष्टः। कला-मुहूर्तादि-मयोऽक्षयः कालोऽहम् एव। सर्वस्य स्रष्ट हिरण्यगर्भश् चतुर्मुखोऽहम्॥१०।३३॥
Link copiedमृत्युः सर्व-हरश् चाहम् उद्भवश् च भविष्यताम्।
Link copiedकीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा॥३४॥
Link copiedसर्व-प्राण-हरो मृत्युश् चाहम्। उत्पत्स्यमानानाम् उद्भवाख्यं कर्म चाहम्, नारीणां श्रीर् अहं कीर्तिश् चाहं वाक् चाहं स्मृतिश् चाहं मेधा चाहं धृतिश् चाहं क्षमा चाहम्॥१०।३४॥
Link copiedबृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम्।
Link copiedमासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः॥३५॥
Link copiedसाम्नां बृहत्-सामाहम्। छन्दसां गायत्रीम् अहम्। ऋतूनां कुसुमाकरो वसन्तः॥१०।३५॥
Link copiedद्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम्।
Link copiedजयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववताम् अहम्॥३६॥
Link copiedछलं कुर्वतां छलास्पदेष्व् अक्षादि-लक्षणं द्यूतम् अहम्। जेतॄणां जयोऽस्मि। व्यवसायिनां व्यवसायोऽस्मि। सत्त्वतां सत्त्वं महा-मनस्त्वम्॥१०।३६॥
Link copiedवृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः।
Link copiedमुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः॥३७॥
Link copiedवसुदेव-सूनुत्वम् अत्र विभूतिः, अर्थान्तराभावाद् एव। पाण्डावानां धनञ्जयो ऽर्जुनो ऽहम्। मुनयो मननेनार्थ-याथात्म्य-दर्शिनः, तेषां व्यासोऽहम्। कवयो विपश्चितः॥१०।३७॥
Link copiedदण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम्।
Link copiedमौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम्॥३८॥
Link copiedनियमातिक्रमणे दण्डां कुर्वतां दण्डोऽहम्। विजिगीषूणां जयोपाय-भूता नीतिर् अस्मि। गुह्यानां सम्बन्धिषु गोपनेषु मौनम् अस्मि। ज्ञानवतां ज्ञानं चाहम्॥१०।३८॥
Link copiedयच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन।
Link copiedन तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्॥३९॥
Link copiedसर्व-भूतानां सर्वावस्थावस्थितानां तत्-तद्-अवस्था-बीज-भूतं प्रतीयमानम् अप्रतीयमानं च यत् तद् अहम् एव। चराचर-सर्व-भूत-जातं मयात्मतयावस्थितेन विना यत् स्यान् न तद् अस्ति। अहम् आत्मा गुडाअकेश सर्व-भूताशाय-स्थितः [१०।२०] इति प्रक्रमात्। न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् इत्य् अत्राप्य् आत्मतयावस्थानम् एव विवक्षितम्।
Link copiedसर्व-वस्तु-जातं सर्वावस्थं मयात्म-भूतेन युक्तं स्याद् इत्य् अर्थः। अनेन सर्वस्यास्य सामानाधिकरण्य-निर्देश्यस्य आत्मतया अवस्थितिर् एव हेतुर् इति प्रकटयति॥१०।३९॥
Link copiedनान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप।
Link copiedएष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया॥४०॥
Link copiedमम दिव्यानां कल्याणीनां विभूतीनाम् अन्तो नास्ति। एष तु विभूतेर् विस्तरो मया कैश्चिद् उपाधिभिः सङ्क्षेपतः प्रोक्तः॥१०।४०॥
Link copiedयद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा।
Link copiedतत् तद् एवावगच्छ त्वं मम तेजोऽंश-सम्भवम्॥४१॥
Link copiedयद् यद् विभूतिमद् ईशितव्य-सम्पन्नं भूत-जातं श्रीमत् कान्तिमद् धन-धान्य-समृद्धं वा ऊद्र्जितं कल्याणारम्भेषूद्युक्तं तत् तन् मम तेजोऽंश-सम्भवम् इत्य् अवगच्छ॥१०।४१॥
Link copiedतेजः पराभिभवन-सामर्थ्यम्, ममाचिन्त्य-शक्तेर् नियमन-शक्त्यैक-देश-सम्भवम् इत्य् अर्थः।
Link copiedअथ वा बहुनैतेन किं ज्ञातेन तवार्जुन।
Link copiedविष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्॥४२॥
Link copiedबहुना ऐतेन उच्यमानेन ज्ञानेन किं प्रयोजनम्। इदं चिद्-अचिद्-आत्मकं कृत्स्नं जगत् कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूप-सद्-भावे स्थितौ प्रवृत्ति-भेदे च यथा मत्-सङ्कल्पं नातिवर्तेत तथा मम महिम्नोऽयुतायुतांशेन विष्टभ्याहम् अवस्थितः। यथोक्तं भगवता पराशरेण--- यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता [वि।पु। १।९।५३] इति॥१०।४२॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये दशमोऽध्यायः ॥१०॥
Link copied**
Link copiedభక్తి-యోగః స-పరికర ఉక్తః। ఇదానీం భక్త్య్-ఉత్పత్తయే తద్-వివృద్ధయే చ భగవతో నిరఙ్కుశైశ్వర్యాది-కల్యాణ-గుణ-గణానన్త్యం, కృత్స్నస్య జగతస్ తచ్-ఛరీరతయా తద్-ఆత్మకత్వేన తత్-ప్రవర్త్యత్వం చ ప్రపఞ్చ్యతే --
Link copiedభూయ ఏవ మహా-బాహో శృణు మే పరమం వచః।
Link copiedయత్ తేఽహం ప్రీయమాణాయ వక్ష్యామి హిత-కామ్యయా॥౧॥
Link copiedమమ మాహాత్మ్యం శ్రుత్వా ప్రీయమాణాయ తే మద్-భక్త్య్-ఉత్పత్తి-వివృద్ధి-రూప-హిత-కామనాయ భూయో మన్-మాహాత్మ్య-ప్రపఞ్చ-విషయమ్ ఏవ పరమం వచో యద్ వక్ష్యామి తద్ అవహిత-మనాః సృణు॥౧౦।౧॥
Link copiedన మే విదుః సుర-గణాః ప్రభవం న మహర్షయః।
Link copiedఅహమ్ ఆదిర్ హి దేవానాం మహర్షీణాం చ సర్వశః॥౨॥
Link copiedసుర-గణా మహర్షయశ్ చాతీన్ద్రియార్థ-దర్శినోఽధికతర-జ్ఞానా అపి మే ప్రభవం ప్రభావం న విదుః, మమ నామ-కర్మ-స్వరూప-స్వభావాదికం న జానన్తి। యతస్ తేషాం దేవానాం మహర్షీణాం చ సర్వశోఽహమ్ ఆదిః, తేషాం స్వరూపస్య జ్ఞాన-శక్త్య్-ఆదేశ్ చాహమ్ ఏవాదిః। తేషాం దేవత్వ-దేవఋషిత్వాది-హేతు-భూత-పుణ్యానుగుణం మయా దత్తం జ్ఞానం పరిమితమ్, అతస్ తే పరిమిత-జ్ఞానా మత్-స్వరూపకాదికం యథావన్ న జానన్తి॥౧౦।౨॥
Link copiedతద్ ఏతద్ దేవాద్య్-అచిన్త్య-స్వరూప-యాథాత్మ్య-విషయ-జ్ఞానం భక్త్య్-ఉత్పత్తి-విరోధి-పాప-విమోచనోపాయమ్ ఆహ---
Link copiedయో మామ్ అజమ్ అనాదిం చ వేత్తి లోక-మహేశ్వరమ్।
Link copiedఅసంమూఢః స మర్త్యేషు సర్వ-పాపైః ప్రముచ్యతే॥౩॥
Link copiedన జాయతే ఇత్య్ అజః। అనేన వికారి-ద్రవ్యాద్ అచేతనాత్ తత్-సంసృష్టత్ సంసారి-చేతనాచ్ చ విసజాతీయత్వమ్ ఉక్తమ్। సంసారి-చేతనస్య హి కర్మ-కృతాచిత్-సంసర్గో జన్మ। అనాదిమ్ ఇత్య్ అనేన పదేన ఆదిమతోఽజాన్ ముక్తాత్మనో విసజాతీయత్వమ్ ఉక్తమ్। ముక్తాత్మనో హ్య్ అజత్వమ్ ఆదిమత్, తస్య హేయ-సమ్బన్ధస్య పూర్వ-వృత్తత్వాత్ తద్-అర్హతా అస్తి, అతోఽనాదిమ్ ఇత్య్ అనేన తద్-అనర్హతయా తత్-ప్రత్యనీకతోచ్యతే। నిరవద్యమ్ [శ్వే।ఉ। ౬।౧౯] ఇత్య్-ఆది-శ్రుత్యా చ।
Link copiedఏవం హేయ-సమ్బన్ధ-ప్రత్యనీక-స్వరూపతయా తద్-అనర్హం మాం లోక-మహేశ్వరం లోకేశ్వరాణామ్ అపీశ్వరం మర్త్యేష్వ్ అసంమూఢో యో వేత్తి। ఇతర-సజాతీయతయైకీకృత్య మోహః సంమోహస్ తద్-రహితోఽసంమూఢః స మద్-భక్త్య్-ఉత్పత్తి-విరోధిభిః సర్వైః పాపైః ప్రముచ్యతే।
Link copiedఏతద్ ఉక్తం భవతి--- లోకే మనుష్యాణాం రాజా ఇతర-మనుష్య-సాజీతయః, కేనచిత్ కర్మణా తద్-ఆధిపత్యం ప్రాప్తః। తథా దేవానామ్ అధిపతిర్ అపి। తథా బ్రహ్మాణ్డాధిపతిర్ అపీతర-సంసారి-సజాతీయః। తస్యాపి భావనా-త్రయాన్తర్గతత్వాత్। యో బ్రహ్మాణం విదధాతి [శ్వే।ఉ। ౬।౧౮] ఇతి శ్రుతేశ్ చ। తథాన్యేఽపి యే కేచనాణిమాద్య్-ఐశ్వర్యం ప్రాప్తాః। అయం తు లోక-మహేశ్వరః--- కార్య-కారణావస్థాద్ అచేతనాద్ బద్ధాన్ ముక్తాచ్ చ చేతనాద్ ఈశితవ్యాత్ సర్వస్మాత్ నిఖిల-హేయ-ప్రత్యనీకానవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణైక-తానతయా నియమనైక-స్వ-స్వభావతయా చ విసజాతీయ ఇతి, ఇతర-సజాతీయామోహ-రహితో యో మాం వేత్తి స సర్వైః పాపైః ప్రముచ్యతే ఇతి॥౧౦।౩॥
Link copiedఏవం స్వ-స్వభావానుసన్ధానేన భక్త్య్-ఉత్పత్తి-విరోధి-పాప-నిరసనం విరోధి-నిరసనాద్ ఏవార్థతో భక్త్య్-ఉత్పత్తిం చ ప్రతిపాద్యం స్వైశ్వర్య-స్వ-కల్యాణ-గుణ-గణ-ప్రపఞ్చానుసన్ధానేన భక్తి-వృద్ధి-ప్రకారమ్ ఆహ---
Link copiedబుద్ధిర్ జ్ఞానమ్ అసంమోహః క్షమా సత్యం దమః శమః।
Link copiedసుఖం దుఃఖం భవోఽభావో భయం చాభయమ్ ఏవ చ॥౪॥
Link copiedఅహింసా సమతా తుష్టిస్ తపో దానం యశోఽయశః।
Link copiedభవన్తి భావా భూతానాం మత్త ఏవ పృథగ్-విధాః॥౫॥
Link copiedబుద్ధిర్ మనసో నిరూపణ-సామర్థ్యమ్, జ్ఞానం చిద్-అచిద్-వస్తు-విశేష-విషయః నిశ్చయః। అసంమోహః పూర్వ-గృహీతాద్ రజతాదేర్ విసజాతీయే శుక్తికాది-వస్తుని సజాతీయతా-బుద్ధి-నివృత్తిః। క్షమా మనో-వికార-హేతౌ సత్య్ అప్య్ అవికృత-మనస్త్వమ్। సత్యం యథా-దృష్ట-విషయం భూత-హిత-రూపం వచనమ్, తద్-అనుగుణా మనో-వృత్తిః ఇహాభిప్రేతా, మనో-వృత్తి-ప్రకరణాత్। దమో బాహ్య-కరణానామ్ అనర్థ-విషయేభ్యో నియమనమ్। శమోఽన్తః-కరణస్య తథా నియమనమ్। సుఖమ్ ఆత్మానుకూలానుభవః। దుఃఖం ప్రతికూలానుభవః। భవో భవనమ్। అనుకూలానుభవ-హేతుకం మనసో భవనమ్। అభావః ప్రతికూలానుభవ-హేతుకో మనసోఽవసాదః। భయమ్ ఆగామినో దుఃఖస్య హేతు-దర్శనజం దుఃఖమ్, తన్-నివృత్తిర్ అభయమ్। అహింసా పర-దుఃఖాహేతుత్వమ్। సమతా ఆత్మని సుహృత్సు విపక్షేషు చార్థానర్థయోః సమ-మతిత్వమ్। తుష్టిః సర్వేష్వ్ ఆత్మసు దృష్టోషు తోష-స్వభావత్వమ్। తపః శాస్త్రీయో భోగ-సఙ్కోచ-రూపః కాయక్లేశః। దానం స్వకీయ-భోగ్యానాం పరస్మై ప్రతిపాదనమ్। యశో గుణవత్తా-ప్రథా, అయశః నైర్గుణ్య-ప్రథా, కీర్త్య్-అకీర్త్య్-అనుగుణ-మనో-వృత్తి-విశేషౌ తథా ఉక్తౌ, మనో-వృత్తి-ప్రకరణాత్। తపో-దానే చ తథా। ఏవమ్ ఆద్యాః సర్వేషాం భూతానాం భావాః ప్రవృత్తి-నివృత్తి-హేతవో మనో-వృత్తయో మత్త ఏవ మత్-సఙ్కల్పాయత్తా భవన్తి॥౧౦।౪-౫॥
Link copiedసర్వస్య భూత-జాతస్య సృష్టి-స్థిత్యోః ప్రవర్తయితారశ్ చ మత్-సఙ్కల్పాయత్త-ప్రవృత్తయ ఇత్య్ ఆహ---
Link copiedమహర్షయః సప్త పూర్వే చత్వారో మనవస్ తథా।
Link copiedమద్-భావా మానసా జాతా యేషాం లోక ఇమాః ప్రజాః॥౬॥
Link copiedపూర్వే సప్త మహర్షయోఽతీత-మన్వన్తరే యే భృగ్వ్-ఆదయః సప్త మహర్షయో నిత్య-సృష్టి-ప్రవర్తనాయ బ్రహ్మణో మనసః సమ్భవాః నిత్య-స్థితి-ప్రవర్తనాయ యే చ సావర్ణికా నామ చత్వారో మనవః స్థితా, యేషాం సన్తాన-మయే లోకే జాతా ఇమాః సర్వాః ప్రజాః, ప్రతిక్షణమ్ ఆప్రలయాద్ అపత్యానామ్ ఉత్పాదకాః పాలకాశ్ చ భవన్తి, తే భృగ్వ్-ఆదయో మనవశ్ చ మద్-భావాః, మమ యో భావః స ఏవ యేషాం భావస్ తే మద్-భావాః, మన్-మతే స్థితాః మత్-సఙ్కల్పానువర్తిన ఇత్య్ అర్థః॥౧౦।౬॥
Link copiedఏతాం విభూతిం యోగం చ మమ యో వేత్తి తత్త్వతః।
Link copiedసోఽవికమ్పేన యోగేన యుజ్యతే నాత్ర సంశయః॥౭॥
Link copiedవిభూతిర్ ఐశ్వర్యమ్। ఏతాం సర్వస్య మద్-ఆయత్తోత్పత్తి-స్థితి-ప్రవృత్తి-రూపాం విభూతిం మమ హేయ-ప్రత్యనీక-కల్యాణ-గుణ-రూపం యోగం చ యస్ తత్త్వతో వేత్తి, సోఽవికమ్పేనాప్రకమ్పేన భక్తి-యోగేన యుజ్యతే, నాత్ర సంశయః। మద్-విభూతి-విషయం కల్యాణ-గుణ-విషయం చ జ్ఞానం భక్తి-యోగ-వర్ధనమ్ ఇతి స్వయమ్ ఏవ ద్రక్ష్యసీత్య్ అభిప్రాయః॥౧౦।౭॥
Link copiedవిభూతి-జ్ఞాన-విపాక-రూపాం భక్తి-వృద్ధిం దర్శయతి---
Link copiedఅహం సర్వస్య ప్రభవో మత్తః సర్వం ప్రవర్తతే।
Link copiedఇతి మత్వా భజన్తే మాం బుధా భావ-సమన్వితాః॥౮॥
Link copiedఅహం సర్వస్య విచిత్ర-చిద్-అచిత్-ప్రపఞ్చస్య ప్రభవ ఉత్పత్తి-కారణమ్। సర్వం మత్త ఏవ ప్రవర్తతే। ఇతీదం మమ స్వాభావికం నిరఙ్కుశైశ్వర్యం సౌశీల్య-సౌన్దర్య-వాత్సల్యాది-కల్యాణ-గుణ-గణ-యోగం చ మత్వా బుధా జ్ఞానినో భావ-సమన్వితాః మాం సర్వ-కల్యాణ-గుణాన్వితం భజన్తే। భావో మనో-వృత్తి-విశేషః, మయి స్పృహయాలవో మాం భజన్త ఇత్య్ అర్థః॥౧౦।౮॥
Link copiedకథమ్।
Link copiedమచ్-చిత్తా మద్-గత-ప్రాణా బోధయన్తః పరస్పరమ్।
Link copiedకథయన్తశ్ చ మాం నిత్యం తుష్యన్తి చ రమన్తి చ॥౯॥
Link copiedమచ్-చిత్తా మయి నివిష్ట-మనసః, మద్-గత-ప్రాణాః మద్-గత-జీవితాః మయా వినా ఆత్మ-ధారణమ్ అలభమానా ఇత్య్ అర్థః। స్వైః స్వైర్ అనుభూతాన్ మదీయాన్ గుణాన్ పరస్పరం బోధయన్తః, మదీయాని దివ్యాని రమణీయాని కర్మాణి చ కథయన్తస్ తుష్యన్తి చ రమన్తి చ। వక్తారస్ తద్-వచనేనానన్య-ప్రయోజనేన తుష్యన్తి, శ్రోతారశ్ చ తచ్-ఛ్రవణేనానవధికాతిశయ-ప్రియేణ రమన్తే॥౧౦।౯॥
Link copiedతేషాం సతత-యుక్తానాం భజతాం ప్రీతి-పూర్వకమ్।
Link copiedదదామి బుద్ధి-యోగం తం యేన మామ్ ఉపయాన్తి తే॥౧౦॥
Link copiedతేషాం సతత-యుక్తానాం మయి సతత-యోగమ్ ఆశంసమానానాం మాం భజమానానామ్ అహం తమ్ ఏవ బుద్ధి-యోగం విపాక-దశాపన్నం ప్రీతి-పూర్వకం దదామి యేన తే మామ్ ఉపయాన్తి॥౧౦।౧౦॥
Link copiedకిం చ---
Link copiedతేషామ్ ఏవానుకమ్పార్థమ్ అహమ్ అజ్ఞాన-జం తమః।
Link copiedనాశయామ్య్ ఆత్మ-భావ-స్థో జ్ఞాన-దీపేన భాస్వతా॥౧౧॥
Link copiedతేషామ్ ఏవానుగ్రహార్థమ్ అహమ్ ఆత్మ-భావ-స్థస్ తేషాం మనో-వృత్తౌ విషయతయావస్థితో మదీయాన్ కల్యాణ-గుణ-గణాంశ్ చావిష్కుర్వన్ మద్-విషయ-జ్ఞానాఖ్యేన భాస్వతా దీపేన జ్ఞాన-విరోధి-ప్రాచీన-కర్మ-రూపాజ్ఞాన-జం మద్-వ్యతిరిక్త-పూర్వాభ్యస్త-విషయ-ప్రావణ్య-రూపం తమో నాశయామి॥౧౦।౧౧॥
Link copiedఏవం సకలేతర-విసజాతీయం భగవద్-అసాధారణం సృణ్వతాం నిరతిశయానన్ద-జనకం కల్యాణ-గుణ-గణ-యోగం తదైశ్వర్య-వితతిం చ శ్రుత్వా తద్-విస్తారం శ్రోతు-కామోఽర్జున ఉవాచ---
Link copiedపరం బ్రహ్మ పరం ధామ పవిత్రం పరమం భవాన్।
Link copiedపురుషం శాశ్వతం దివ్యమ్ ఆది-దేవమ్ అజం విభుమ్॥౧౨॥
Link copiedఆహుస్ త్వామ్ ఋషయః సర్వే దేవర్షిర్ నారదస్ తథా।
Link copiedఅసితో దేవలో వ్యాసః స్వయం చైవ బ్రవీషి మే॥౧౩॥
Link copiedపరం బ్రహ్మ పరం ధామ పరమం పవిత్రమ్ ఇతి యం శ్రుతయో వదన్తి స హి భవాన్। యతో వా ఇమాని భూతాని జాయన్తే, యేన జాతాని జీవన్తి, యత్ ప్రయన్త్య్ అభిసంవిశన్తి, తద్ విజిజ్ఞాసస్వ తద్ బ్రహ్మేతి [తై।ఉ। ౩।౧], బ్రహ్మవిద్ ఆప్నోతి పరమ్ [తై।ఉ। ౨।౧], స యో హ వై తత్-పరమం బ్రహ్మ వేద బ్రహ్మైవ భవతి [ము।ఉ। ౩।౨।౯] ఇతి।
Link copiedతథా పరం ధామ। ధామ-శబ్దో జ్యోతిర్-వచనః పరం జ్యోతిః--- అథ యద్ అతః పరో దివ్యో జ్యోతిర్ దీప్యతే [ఛా।ఉ। ౩।౧౩।౭], పరం జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే [ఛా।ఉ। ౮।౧౨।౨], తద్ దేవా జ్యోతిషాం జ్యోతిః [బృ।ఆ।ఉ। ౪।౪।౧౬] ఇతి।
Link copiedతథా చ పరమం పవిత్రం పరమం పావనం స్మర్తుర్ అశేష-కల్మషాశ్లేష-కరం వినాశ-కరం చ। యథా పుష్కర-పలాశ ఆపో న శ్లిష్యన్త ఏవమ్ ఏవం-విది పాపం కర్మ న శ్లిష్యతే [ఛా।ఉ। ౪।౧౪।౩] తద్ యథేషీకాతూలమ్ అగ్నౌ ప్రోతం ప్రదూయేతైవం హాస్య సర్వే పాప్మానః ప్రదూయన్తే [ఛా।ఉ। ౫।౨౪।౩]।
Link copiedనారాయణః పరం బ్రహ్మ తత్త్వం నారాయణః పరః।
Link copiedనారాయణః పరం జ్యోతిర్ ఆత్మా నారాయణః పరః॥ [మహానాఉ ౯।౪] ఇతి హి శ్రుతయో వదన్తి।
Link copied
ఋషయశ్ చ సర్వే పరావరతత్త్వయాథాత్మ్యవిదస్ త్వామ్ ఏవ శాశ్వతం దివ్యం పురుషమ్ ఆది-దేవమ్ అజం విభుమ్ ఆహుః। తథైవ దేవర్షిః నారదోఽసితో దేవలో వ్యాసశ్ చ।
Link copiedఏష నారాయణః శ్రీమాన్ క్షీరార్ణవ-నికేతనః।
Link copiedనాగ-పర్యఙ్కమ్ ఉత్సృజ్య హ్య్ ఆగతో మథురాం పురీమ్॥
Link copiedపుణ్యా ద్వారవతీ తత్ర యత్రాస్తే మధుసూదనః।
Link copiedసాక్షాద్ దేవః పురాణోఽసౌ స హి ధర్మః సనాతనః॥
Link copiedయే చ వేద-విదో విప్రా చే చాధ్యాత్మ-విదో జనాః।
Link copiedతే వదన్తి మహాత్మానం కృష్ణం ధర్మం సనాతనమ్॥
Link copiedపవిత్రాణాం హి గోవిన్దః పవిత్రం పరమ్ ఉచ్యతే।
Link copiedపుణ్యానామ్ అపి పుణ్యోఽసౌ మఙ్గలానాం చ మఙ్గలమ్॥
Link copiedత్రైలోక్యే పుణ్డారీకాక్షో దేవ-దేవః సనాతనః।
Link copiedఆస్తే హరిర్ అచిన్తయాత్మా తత్రైవ మధుసూదనః॥ [మ।భా। ౩।౮౮।౨౪-౨౮]
Link copiedతథా యత్ర నారాయణో దేవః పరమాత్మా సనాతనః।
Link copiedతత్ర కృత్స్నం జగత్ పార్థ తీర్థాన్యాయతాని చ॥
Link copiedతత్ పుణ్యం తత్ పరం బ్రహ్మ తత్ తీర్థం తత్ తపో-వనమ్।
Link copiedతత్ర దేవర్షయః సిద్ధాః సర్వే చైవ తపో-ధనాః॥
Link copiedఆది-దేవో మహా-యోగీ యత్రాస్తే మధుసూదనః।
Link copiedపుణ్యానామ్ అపి తత్ పుణ్యం మాభూత్ తే సంశయోఽవ వై॥ [మ।భా। ౩।౯౦।౨౮-౩౨]
Link copiedకృష్ణ ఏవ హి లోకానామ్ ఉత్పత్తిర్ అపి చాప్యయః।
Link copiedకృష్ణస్య హి కృతే భూతమ్ ఇదం విశ్వం చరాచరమ్॥ [మ।భా। ౨।౩౮।౨౩] ఇతి।
Link copied
తథా స్వయమ్ ఏవ బ్రవీషి చ---
Link copiedభూమిర్ ఆపోఽనలో వాయుః ఖం మనో బుద్ధిర్ ఏవ చ।
Link copiedఅహఙ్కార ఇతీయం మే భిన్నా ప్రకృతిర్ అష్టధా॥ [౭।౪] ఇత్య్-ఆదినా,
Link copied
అహం సర్వస్య ప్రభవో మత్తః సర్వం ప్రవర్తతే [౧౦।౮] ఇత్య్ అన్తేన॥౧౦।౧౨--- ౧౦।౧౩॥
Link copiedసర్వమ్ ఏతద్ ఋతం మన్యే యన్ మాం వదసి కేశవ।
Link copiedన హి తే భగవన్ వ్యక్తిం విదుర్ దేవా న దానవాః॥౧౪॥
Link copiedఅతః సర్వమ్ ఏతద్ యథావస్థిత-వస్తు-కథనం మన్యే న ప్రశంసాద్య్-అభిప్రాయమ్। యద్ మాం ప్రత్య్ అనన్య-సాధారణమ్ అనవధికాతిశయం స్వాభావికం తవాఇశ్వర్యం కల్యాణ-గుణ-గణానన్త్యం చ వదసి। అతో భగవన్ నిరతిశయ-జ్ఞాన-శక్తి-బలైశ్వర్య-వీర్య-తేజసాం నిధే తే వ్యక్తిం వ్యజన-ప్రకారం న హి పరిమిత-జ్ఞానా దేవా దానవాశ్ చ విదుః॥౧౦।౧౪॥
Link copiedస్వయమ్ ఏవాత్మనాత్మానం వేత్థ త్వం పురుషోత్తమ।
Link copiedభూత-భావన భూతేశ దేవ-దేవ జగత్పతే॥౧౫॥
Link copiedహే పురుషోత్తమ ఆత్మనా ఆత్మానం త్వం స్వయమ్ ఏవ స్వేనైవ జ్ఞానేన వేత్థ। భూత-భావన సర్వేషాం భూతానామ్ ఉత్పాదయితః। భూతేశ సర్వేషాం భూతానాం నియన్తః। దేవ-దేవ దైవతానామ్ అపి పరమ-దైవత, యథా మనుష్య-మృగ-పక్షి-సరీసృపాదీన్ సౌన్దర్య-సౌశీల్యాది-కల్యాణ-గుణ-గణైః దైవతాన్య్ అతీత్య వర్తన్తే తథా తాని సర్వాణి దైవతాన్య్ అపి తైస్ తైః గుణైర్ అతీత్య వర్తమాన, జగత్-పతే జగత్-స్వామిన్॥౧౦।౧౫॥
Link copiedవక్తుమ్ అర్హస్య్ అశేషేణ దివ్యా హ్య్ ఆత్మ-విభూతయః।
Link copiedయాభిర్ విభూతిభిర్ లోకాన్ ఇమాంస్ త్వం వ్యాప్య తిష్ఠసి॥౧౬॥
Link copiedదివ్యాస్ త్వద్-అసాధారణ్యో విభూతయో యాస్ తాస్ త్వమ్ ఏవాశేషణ వక్తుమ్ అర్హసి త్వమ్ ఏవ వ్యఞ్జయేత్య్ అర్థః। యాభిర్ అనన్తాభిర్ విభూతిభిర్ యైర్ నియమన-విశేషైర్ యుక్త ఇమాన్ లోకాన్ త్వం నియన్తృత్వేన వ్యాప్య తిష్ఠసి॥౧౦।౧౬॥
Link copiedకిమ్-అర్థం తత్-ప్రకాశనమ్। ఇత్య్ అపేక్షాయామ్ ఆహ---
Link copiedకథం విద్యామ్ అహం యోగింస్ త్వాం సదా పరిచిన్తయన్।
Link copiedకేషు కేషు చ భావేషు చిన్త్యోఽసి భగవన్ మయా॥౧౭॥
Link copiedఅహం యోగీ భక్తి-యోగ-నిష్ఠః సన్ భక్త్యా త్వాం సదా పరిచిన్తయన్ చిన్తయితుం ప్రవృత్తశ్ చిన్తనీయం త్వాం పరిపూర్ణైశ్వర్యాది-కల్యాణ-గుణ-గణం కథం విద్యామ్। పూర్వోక్త-బుద్ధి-జ్ఞానాది-భావ-వ్యతిరిక్తేష్వ్ అనుక్తేషు కేషు కేషు చ భావేషు మయా నియన్తృత్వేన చిన్త్యోఽసి॥।౧౦।౧౭॥
Link copiedవిస్తరేణాత్మనో యోగం విభూతిం చ జనార్దన।
Link copiedభూయః కథయ తృప్తిర్ హి శృణ్వతో నాస్తి మేఽమృతమ్॥౧౮॥
Link copiedఅహం సర్వస్య ప్రభవో మత్తః సర్వం ప్రవర్తతే [గీతా ౧౦।౮] ఇతి సఙ్క్షేపేణోక్తం తవ స్రష్టృత్వాది-యోగం విభూతిం నియమనం చ భూయో విస్తరేణ కథయ। త్వయోచ్యమానం త్వన్-మాహాత్మ్యామృతం సృణ్వతో మే తృప్తిర్ నాస్తి హి। మమాతృప్తిస్ త్వయైవ విదితేత్య్ అభిప్రాయః॥౧౦।౧౮॥
Link copiedశ్రీ-భగవాన్ ఉవాచ---
Link copiedహన్త తే కథయిష్యామి దివ్యా హ్య్ ఆత్మ-విభూతయః।
Link copiedప్రాధాన్యతః కురు-శ్రేష్ఠ నాస్త్య్ అన్తో విస్తరస్య మే॥౧౯॥
Link copiedహే కురు-శ్రేష్ఠ మదీయాః కల్యాణీర్ విభూతీః ప్రాధాన్యతస్ తే కథయిష్యామి। ప్రాధాన్య-శబ్దేనోత్కర్షో వివక్షితః। పురోధసాం చ ముఖ్యం మామ్ [౧౦।౨౪] ఇతి హి వక్ష్యతే। జగత్య్ ఉత్కృష్టః కాశ్చన విభూతీర్ వక్ష్యామి, విస్తరేణ వక్తుం శ్రోతుం చ న శక్యతే, తాసామ్ ఆనన్త్యాత్। విభూతిత్వం నామ నియామ్యత్వమ్, సర్వేషాం భూతానాం బుద్ధ్య్-ఆదయః పృథగ్-విధా భావా మత్త ఏవ భవన్తీత్య్ ఉక్త్వా ఏతాం విభూతిం యోగం చ మమ యో వేత్తి తత్త్వతః [౧౦।౭] ఇతి ప్రతిపాదనాత్। తథా తత్ర యోగ-శబ్ద-నిర్దిష్టం స్రష్టృత్వాదికం విభూతి-శబ్ద-నిర్దిష్టం తత్-ప్రవర్త్యత్వమ్ ఇతి యుక్తమ్। పునశ్ చ---
Link copiedఅహం సర్వస్య ప్రభవో మత్తః సర్వం ప్రవర్తతే।
Link copiedఇతి మత్వా భజన్తే మాం బుధా భావసమన్వితాః॥ [గీతా ౧౦।౮] ఇత్య్ ఉక్తమ్॥౧౦।౧౯॥
Link copied
తత్ర సర్వ-భూతానాం ప్రవర్తన-రూపం నియమనమ్ ఆత్మతయా అవస్థాయ ఇతీమమ్ అర్థం యోగ-శబ్ద-నిర్దిష్టం సర్వస్య స్రష్టృత్వం పాలయితృత్వం సంహర్తృత్వం చేతి సుస్పష్టమ్ ఆహ---
Link copiedఅహమ్ ఆత్మా గుడాకేశ సర్వ-భూతాశయ-స్థితః।
Link copiedఅహమ్ ఆదిశ్ చ మధ్యం చ భూతానామ్ అన్త ఏవ చ॥౨౦॥
Link copiedసర్వేషాం భూతానామ్ మమ శరీర-భూతానామ్ ఆశయే హృదయేఽహమ్ ఆత్మతయావస్థితః। ఆత్మా హి నామ శరీరస్య సర్వాత్మనాధారో నియన్తా శేషీ చ। తథా వక్ష్యతే--- సర్వస్య చాహం హృది సన్నివిష్టే మత్తః స్మృతిర్ జ్ఞానమ్ అపోహనం చ [౧౫।౧౫],
Link copiedఈశ్వరః సర్వ-భూతానాం హృద్దేశోఽర్జున తిష్ఠతి।
Link copiedభ్రామయన్ సర్వ-భూతాని యన్త్రారూఢాని మాయయా॥ [౧౮।౬౧] ఇతి।
Link copied
శ్రూయతే చ--- యః సర్వేషు భూతేషు తిష్ఠన్ సర్వేభ్యో భూతేభ్యోఽన్తరో యం సర్వాణి భూతాని న విదుః। యస్య సర్వాణి భూతాని శరీరం। యః సర్వాణి భూతాన్య్ అన్తరో యమయతి। ఏష త ఆత్మాన్తర్యామ్య్ అమృతః [బృ।ఆ।ఉ। ౩।౭।౧౫] ఇతి, య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద యస్యాత్మా శరీరం య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః [శత్బ్ర్ ౧౪।౫।౩౦] ఇతి చ। ఏవం సర్వ-భూతానామ్ ఆత్మతయావస్థితోఽహం తేషామ్ ఆదిర్ మధ్యం చాన్తశ్ చ। తేషామ్ ఉత్పత్తి-స్థితి-ప్రలయ-హేతుర్ ఇత్య్ అర్థః॥౧౦।౨౦॥
Link copiedఏవం భగవతః స్వ-విభూతి-భూతేషు సర్వేష్వ్ ఆత్మతయావస్థానం తత్-తచ్-ఛబ్ద-సామానాధికరణ్య-నిర్దేశ-హేతుం ప్రతిపాద్య విభూతి-విశేషామ్ సామానాధికరణ్యేన వ్యపదిశతి। భగవత్య్ ఆత్మతయావస్థితే హి సర్వే శబ్దాస్ తస్మిన్న్ ఏవ పర్యవస్యన్తి। యథా దేవో మనుష్యః పక్షీ వృక్ష ఇత్య్ ఆదయః శబ్దాః శరీరాణి ప్రతిపాదయన్తస్ తత్ తద్ ఆత్మని పర్యవస్యాన్తి। తథా భగవతస్ తత్-తద్-ఆత్మతయావస్థానమ్ ఏవ తత్-తచ్-ఛబ్ద-సామానాధికరణ్య-నిబన్ధనమ్, ఇతి విభూత్య్-ఉపసంహారే వక్ష్యతి--- న తద్ అస్తి వినా యత్ స్యాన్ మయా భూతం చరాచరమ్ [గీతా ౧౦।౩౯] ఇతి సర్వేషాం స్వేనావినా-భావ-వచనాత్। అవినా-భావశ్ చనియామ్యతయేతి మత్తః సర్వం ప్రవర్తతే [గీతా ౧౦।౮] ఇత్య్ ఉపక్రమోదితమ్।
Link copiedఆదిత్యానామ్ అహం విష్ణుర్ జ్యోతిషాం రవిర్ అంశుమాన్।
Link copiedమరీచిర్ మరుతామ్ అస్మి నక్షత్రాణామ్ అహం శశీ॥౨౧॥
Link copiedద్వాదశ-సఙ్ఖ్యా-సఙ్ఖ్యాతానామ్ ఆదిత్యానాం ద్వాదశో య ఉత్కృష్టే విష్ణుర్ నామాదిత్యః సోఽహమ్। జ్యోతిషాం జగతి ప్రకాశకానాం యోఽంశుమాన్ రవిర్ ఆదిత్య-గణః సోఽహమ్। మరుతామ్ ఉత్కృష్టే మరీచిర్ యః సోఽహమ్ అస్మి। నక్షత్రాణామ్ అహం శశీ। నేయం నిర్ధారణే షష్ఠీ। భూతానామ్ అస్మి చేతనేతివత్ నక్షత్రాణాం పతిర్ యశ్ చన్ద్రః సోఽహమ్ అస్మి॥౧౦।౨౧॥
Link copiedవేదానాం సామ-వేదోఽస్మి దేవానామ్ అస్మి వాసవః।
Link copiedఇన్ద్రియాణాం మనశ్ చాస్మి భూతానామ్ అస్మి చేతనా॥౨౨॥
Link copiedవేదానామ్ ఋగ్-యజుః-సామాథర్వణాం య ఉత్కృష్టః సామ-వేదః సోఽహం దేవానామ్ ఇన్ద్రోఽహమ్ అస్మి। ఏకాదశానామ్ ఇన్ద్రియాణాం యద్ ఉత్కృష్టం మన ఇన్ద్రియం తద్ అహమ్ అస్మి। ఇయమ్ అపి న నిర్ధారణే--- భూతానాం చేతనావతాం యా చేతనా సా అహమ్ అస్మి॥౧౦।౨౨॥
Link copiedరుద్రాణాం శఙ్కరశ్ చాస్మి విత్తేశో యక్ష-రక్షసామ్।
Link copiedవసూనాం పావకశ్చాస్మి మేరుః శిఖరిణామ్ అహమ్॥౨౩॥
Link copiedరుద్రాణామ్ ఏకాదశానాం శఙ్కరోఽహమ్ అస్మి। యక్ష-రక్షసాం వైశ్రవణోఽహమ్, వసూనామ్ అష్టనాం పావకోఽహమ్। శిఖరిణాం శిఖర-శోభినాం పర్వతానాం మధ్యే మేరుర్ అహమ్॥౧౦।౨౩॥
Link copiedపురోధసాం చ ముఖ్యం మాం విద్ధి పార్థ బృహస్పతిమ్।
Link copiedసేనానీనామ్ అహం స్కన్దః సరసామ్ అస్మి సాగరః॥౨౪॥
Link copiedపురోధసామ్ ఉత్కృష్టే బృహస్పతిర్ యః సోఽహమ్ అస్మి। సేనాతీనాం సేనాపతీనాం స్కన్దోఽహమ్ అస్మి, సరసాం సాగరోఽహమ్ అస్మి॥౧౦।౨౪॥
Link copiedమహర్షీణాం భృగుర్ అహం గిరామ్ అస్మ్య్ ఏకమ్ అక్షరమ్।
Link copiedయజ్ఞానాం జప-యజ్ఞోఽస్మి స్థావరాణాం హిమాలయః॥౨౫॥
Link copiedమహర్షీణాం మరీచ్య్-ఆదీనాం భృగుర్ అహమ్। అర్థాభిధాయినః శబ్దా గిరః, తాసామ్ ఏకమ్ అక్షరం ప్రణవోఽహమ్ అస్మి। యజ్ఞానామ్ ఉత్కృష్టో జప-యజ్ఞోఽస్మి, పర్వత-మాత్రాణాం హిమవాన్ అహమ్॥౧౦।౨౫॥
Link copiedఅశ్వత్థః సర్వ-వృక్షాణాం దేవర్షీణాం చ నారదః।
Link copiedగన్ధర్వాణాం చిత్రరథః సిద్ధానాం కపిలో మునిః॥౨౬॥
Link copiedసర్వ-వృక్షాణాం మధ్యే పూజ్యోఽశ్వత్థ ఏవాహమ్। దేవర్షీణాం మధ్యే పరమ-వైష్ణవో నారదోఽహమ్ అస్మి। గన్ధర్వాణాం దేవ-గాయకానాం మధ్యే చిత్రరథోఽస్మి। సిద్ధానాం యోగ-నిష్ఠానాం పరమోపాస్యః కపిలోఽహమ్॥౧౦।౨౬॥
Link copiedఉచ్చైఃశ్రవసమ్ అశ్వానాం విద్ధి మామ్ అమృతోద్భవమ్।
Link copiedఐరావతం గజేన్ద్రాణాం నరాణాం చ నరాధిపమ్॥౨౭॥
Link copiedసర్వేషామ్ అశ్వానాం మధ్యేఽమృత-మథనోద్భవమ్ ఉచ్చైఃశ్రవసం మాం విద్ధి। గజేన్ద్రాణాం సర్వేషాం మధ్యేఽమృత-మథనోద్భవమ్ ఐరావతం మాం విద్ధి। అమృతోద్భవమ్ ఇత్య్ ఐరావతస్యాపి విశేషణమ్। నరాణాం మధ్యే రాజానం మాం విద్ధి॥౧౦।౨౭॥
Link copiedఆయుధానామ్ అహం వజ్రం ధేనూనామ్ అస్మి కామ-ధుక్।
Link copiedప్రజనశ్ చాస్మి కన్దర్పః సర్పాణామ్ అస్మి వాసుకిః॥౨౮॥
Link copiedఆయుధానాం మధ్యే వజ్రం తద్ అహమ్। ధేనూనాం హవిర్ దుఘానాం మధ్యే కామ-ధుక్, దివ్యా సురభిః। ప్రజనః జనన-హేతుః కన్దర్పశ్ చాహమ్ అస్మి। సర్పాః ఏక-శిరసస్ తేషాం మధ్యే వాసుకిర్ అస్మి॥౧౦।౨౮॥
Link copiedఅనన్తశ్ చాస్మి నాగానాం వరుణో యాదసామ్ అహమ్।
Link copiedపితౄణామ్ అర్యమా చాస్మి యమః సంయమతామ్ అహమ్॥౨౯॥
Link copiedనాగా బహు-శిరసః, యాదాంసి జల-వాసినః, తేషాం వరుణోఽహమ్। అత్రాపి న నిర్ధారణే షష్ఠీ, దణ్డాయతాం వైవస్వతోఽహమ్॥౧౦।౨౯॥
Link copiedప్రహ్లాదశ్ చాస్మి దైత్యానాం కాలః కలయతామ్ అహమ్।
Link copiedమృగాణాం చ మృగేన్ద్రోఽహం వైనతేయశ్ చ పక్షిణామ్॥౩౦॥
Link copiedఅనర్థ-ప్రేప్సుతయా గణయతాం మధ్యే కాలః మృత్యుర్ అహమ్॥౧౦।౩౦॥
Link copiedపవనః పవతామ్ అస్మి రామః శస్త్ర-భృతామ్ అహమ్।
Link copiedఝషాణాం మకరశ్ చాస్మి స్రోతసామ్ అస్మి జాహ్నవీ॥౩౧॥
Link copiedపవతాం గమన-స్వభావానాం పవనోఽహమ్। శస్త్ర-భృతాం రామోఽహమ్। శస్త్ర-భృత్త్వమ్ అత్ర విభూతిః, అర్థాన్తరాభావాత్। ఆదిత్యాదయశ్ చ క్షేత్ర-జ్ఞా ఆత్మత్వేనావస్థితస్య భగవతః శరీరతయా ధర్మ-భూతా ఇతి శస్త్ర-భృత్త్వ-స్థానీయాః॥౧౦।౩౧॥
Link copiedసర్గాణామ్ ఆదిర్ అన్తశ్ చ మధ్యం చైవాహమ్ అర్జున।
Link copiedఅధ్యాత్మ-విద్యా విద్యానాం వాదః ప్రవదతామ్ అహమ్॥౩౨॥
Link copiedసృజ్యన్త ఇతి సర్గాః, తేషామ్ ఆదిః కారణమ్। సర్వదా సృజ్యమానానాం సర్వేషాం ప్రాణినాం తత్ర తత్ర స్రష్టారోఽహమ్ ఏవేత్య్ అర్థః। తథాన్తః సర్వదా సంహ్రియమాణానాం తత్ర తత్ర సంహర్తారోఽప్య్ అహమ్ ఏవ। తథా చ మధ్యం పాలనం సర్వదా పాల్యమానానాం పాలయితారశ్ చాహమ్ ఏవేత్య్ అర్థః। శ్రేయః-సాధన-భూతానాం విద్యానాం మధ్యే పరమ-నిఃశ్రేయస-సాధన-భూతా అధ్యాత్మ-విద్యాహమ్ అస్మి। జల్ప-వితణ్డాది కుర్వతాం తత్త్వ-నిర్ణయాయ ప్రవృత్తో వాదో యః సోఽహమ్॥౧౦।౩౨॥
Link copiedఅక్షరాణామ్ అకారోఽస్మి ద్వన్ద్వః సామాసికస్య చ।
Link copiedఅహమ్ ఏవాక్షయః కాలో ధాతాహం విశ్వతో-ముఖః॥౩౩॥
Link copiedఅక్షరాణాం మధ్యే అ-కారో వై సర్వా వాక్ [ఐ।పూ। ౩।౬] ఇతి శ్రుతి-సిద్ధః, సర్వ-వర్ణానాం ప్రకృతిర్ అ-కారోఽహమ్। సామాసికః సమాస-సమూహః। తస్య మధ్యే ద్వన్ద్వ-సమాసోఽహమ్। స హ్య్ ఉభయ-పదార్థ-ప్రధానత్వేనోత్కృష్టః। కలా-ముహూర్తాది-మయోఽక్షయః కాలోఽహమ్ ఏవ। సర్వస్య స్రష్ట హిరణ్యగర్భశ్ చతుర్ముఖోఽహమ్॥౧౦।౩౩॥
Link copiedమృత్యుః సర్వ-హరశ్ చాహమ్ ఉద్భవశ్ చ భవిష్యతామ్।
Link copiedకీర్తిః శ్రీర్ వాక్ చ నారీణాం స్మృతిర్ మేధా ధృతిః క్షమా॥౩౪॥
Link copiedసర్వ-ప్రాణ-హరో మృత్యుశ్ చాహమ్। ఉత్పత్స్యమానానామ్ ఉద్భవాఖ్యం కర్మ చాహమ్, నారీణాం శ్రీర్ అహం కీర్తిశ్ చాహం వాక్ చాహం స్మృతిశ్ చాహం మేధా చాహం ధృతిశ్ చాహం క్షమా చాహమ్॥౧౦।౩౪॥
Link copiedబృహత్-సామ తథా సామ్నాం గాయత్రీ ఛన్దసామ్ అహమ్।
Link copiedమాసానాం మార్గశీర్షోఽహమ్ ఋతూనాం కుసుమాకరః॥౩౫॥
Link copiedసామ్నాం బృహత్-సామాహమ్। ఛన్దసాం గాయత్రీమ్ అహమ్। ఋతూనాం కుసుమాకరో వసన్తః॥౧౦।౩౫॥
Link copiedద్యూతం ఛలయతామ్ అస్మి తేజస్ తేజస్వినామ్ అహమ్।
Link copiedజయోఽస్మి వ్యవసాయోఽస్మి సత్త్వం సత్త్వవతామ్ అహమ్॥౩౬॥
Link copiedఛలం కుర్వతాం ఛలాస్పదేష్వ్ అక్షాది-లక్షణం ద్యూతమ్ అహమ్। జేతౄణాం జయోఽస్మి। వ్యవసాయినాం వ్యవసాయోఽస్మి। సత్త్వతాం సత్త్వం మహా-మనస్త్వమ్॥౧౦।౩౬॥
Link copiedవృష్ణీనాం వాసుదేవోఽస్మి పాణ్డవానాం ధనఞ్జయః।
Link copiedమునీనామ్ అప్య్ అహం వ్యాసః కవీనామ్ ఉశనా కవిః॥౩౭॥
Link copiedవసుదేవ-సూనుత్వమ్ అత్ర విభూతిః, అర్థాన్తరాభావాద్ ఏవ। పాణ్డావానాం ధనఞ్జయో ఽర్జునో ఽహమ్। మునయో మననేనార్థ-యాథాత్మ్య-దర్శినః, తేషాం వ్యాసోఽహమ్। కవయో విపశ్చితః॥౧౦।౩౭॥
Link copiedదణ్డో దమయతామ్ అస్మి నీతిర్ అస్మి జిగీషతామ్।
Link copiedమౌనం చైవాస్మి గుహ్యానాం జ్ఞానం జ్ఞానవతామ్ అహమ్॥౩౮॥
Link copiedనియమాతిక్రమణే దణ్డాం కుర్వతాం దణ్డోఽహమ్। విజిగీషూణాం జయోపాయ-భూతా నీతిర్ అస్మి। గుహ్యానాం సమ్బన్ధిషు గోపనేషు మౌనమ్ అస్మి। జ్ఞానవతాం జ్ఞానం చాహమ్॥౧౦।౩౮॥
Link copiedయచ్ చాపి సర్వ-భూతానాం బీజం తద్ అహమ్ అర్జున।
Link copiedన తద్ అస్తి వినా యత్ స్యాన్ మయా భూతం చరాచరమ్॥౩౯॥
Link copiedసర్వ-భూతానాం సర్వావస్థావస్థితానాం తత్-తద్-అవస్థా-బీజ-భూతం ప్రతీయమానమ్ అప్రతీయమానం చ యత్ తద్ అహమ్ ఏవ। చరాచర-సర్వ-భూత-జాతం మయాత్మతయావస్థితేన వినా యత్ స్యాన్ న తద్ అస్తి। అహమ్ ఆత్మా గుడాఅకేశ సర్వ-భూతాశాయ-స్థితః [౧౦।౨౦] ఇతి ప్రక్రమాత్। న తద్ అస్తి వినా యత్ స్యాన్ మయా భూతం చరాచరమ్ ఇత్య్ అత్రాప్య్ ఆత్మతయావస్థానమ్ ఏవ వివక్షితమ్।
Link copiedసర్వ-వస్తు-జాతం సర్వావస్థం మయాత్మ-భూతేన యుక్తం స్యాద్ ఇత్య్ అర్థః। అనేన సర్వస్యాస్య సామానాధికరణ్య-నిర్దేశ్యస్య ఆత్మతయా అవస్థితిర్ ఏవ హేతుర్ ఇతి ప్రకటయతి॥౧౦।౩౯॥
Link copiedనాన్తోఽస్తి మమ దివ్యానాం విభూతీనాం పరన్తప।
Link copiedఏష తూద్దేశతః ప్రోక్తో విభూతేర్ విస్తరో మయా॥౪౦॥
Link copiedమమ దివ్యానాం కల్యాణీనాం విభూతీనామ్ అన్తో నాస్తి। ఏష తు విభూతేర్ విస్తరో మయా కైశ్చిద్ ఉపాధిభిః సఙ్క్షేపతః ప్రోక్తః॥౧౦।౪౦॥
Link copiedయద్ యద్ విభూతిమత్ సత్త్వం శ్రీమద్ ఊర్జితమ్ ఏవ వా।
Link copiedతత్ తద్ ఏవావగచ్ఛ త్వం మమ తేజోఽంశ-సమ్భవమ్॥౪౧॥
Link copiedయద్ యద్ విభూతిమద్ ఈశితవ్య-సమ్పన్నం భూత-జాతం శ్రీమత్ కాన్తిమద్ ధన-ధాన్య-సమృద్ధం వా ఊద్ర్జితం కల్యాణారమ్భేషూద్యుక్తం తత్ తన్ మమ తేజోఽంశ-సమ్భవమ్ ఇత్య్ అవగచ్ఛ॥౧౦।౪౧॥
Link copiedతేజః పరాభిభవన-సామర్థ్యమ్, మమాచిన్త్య-శక్తేర్ నియమన-శక్త్యైక-దేశ-సమ్భవమ్ ఇత్య్ అర్థః।
Link copiedఅథ వా బహునైతేన కిం జ్ఞాతేన తవార్జున।
Link copiedవిష్టభ్యాహమ్ ఇదం కృత్స్నమ్ ఏకాంశేన స్థితో జగత్॥౪౨॥
Link copiedబహునా ఐతేన ఉచ్యమానేన జ్ఞానేన కిం ప్రయోజనమ్। ఇదం చిద్-అచిద్-ఆత్మకం కృత్స్నం జగత్ కార్యావస్థం కారణావస్థం స్థూలం సూక్ష్మం చ స్వరూప-సద్-భావే స్థితౌ ప్రవృత్తి-భేదే చ యథా మత్-సఙ్కల్పం నాతివర్తేత తథా మమ మహిమ్నోఽయుతాయుతాంశేన విష్టభ్యాహమ్ అవస్థితః। యథోక్తం భగవతా పరాశరేణ--- యస్యాయుతాయుతాంశాంశే విశ్వ-శక్తిర్ ఇయం స్థితా [వి।పు। ౧।౯।౫౩] ఇతి॥౧౦।౪౨॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే దశమోఽధ్యాయః ॥౧౦॥
Link copied**
Link copiedbhakthi yo:gah sa parikara ukthah| ida:ni:m bhakthy uthpaththaye: thad vivruddhaye: cha bhagavatho: nirankusaisvarya:di kalya:na guna gana:nanthyam, kruthsnasya jagathas thach chhari:rathaya: thad a:thmakathve:na thath pravarthyathvam cha prapanchyathe: --
Link copiedbhu:ya e:va maha: ba:ho: srunu me: paramam vachah|
Link copiedyath the:'ham pri:yama:na:ya vakshya:mi hitha ka:myaya:||1||
Link copiedmama ma:ha:thmyam sruthva: pri:yama:na:ya the: mad bhakthy uthpaththi vivruddhi ru:pa hitha ka:mana:ya bhu:yo: man ma:ha:thmya prapancha vishayam e:va paramam vacho: yad vakshya:mi thad avahitha mana:h srunu||10.1||
Link copiedna me: viduh sura gana:h prabhavam na maharshayah|
Link copiedaham a:dir hi de:va:na:m maharshi:na:m cha sarvasah||2||
Link copiedsura gana: maharshayas cha:thi:ndriya:rtha darsino:'dhikathara jna:na: api me: prabhavam prabha:vam na viduh, mama na:ma karma svaru:pa svabha:va:dikam na ja:nanthi| yathas the:sha:m de:va:na:m maharshi:na:m cha sarvaso:'ham a:dih, the:sha:m svaru:pasya jna:na sakthy a:de:s cha:ham e:va:dih| the:sha:m de:vathva de:varushithva:di he:thu bhu:tha punya:nugunam maya: daththam jna:nam parimitham, athas the: parimitha jna:na: math svaru:paka:dikam yatha:van na ja:nanthi||10.2||
Link copiedthad e:thad de:va:dy achinthya svaru:pa ya:tha:thmya vishaya jna:nam bhakthy uthpaththi viro:dhi pa:pa vimo:chano:pa:yam a:ha---
Link copiedyo: ma:m ajam ana:dim cha ve:ththi lo:ka mahe:svaram|
Link copiedasammu:dhah sa marthye:shu sarva pa:paih pramuchyathe:||3||
Link copiedna ja:yathe: ithy ajah| ane:na vika:ri dravya:d ache:thana:th thath samsrushtath samsa:ri che:thana:ch cha visaja:thi:yathvam uktham| samsa:ri che:thanasya hi karma krutha:chith samsargo: janma| ana:dim ithy ane:na pade:na a:dimatho:'ja:n muktha:thmano: visaja:thi:yathvam uktham| muktha:thmano: hy ajathvam a:dimath, thasya he:ya sambandhasya pu:rva vruththathva:th thad arhatha: asthi, atho:'na:dim ithy ane:na thad anarhathaya: thath prathyani:katho:chyathe:| niravadyam [sve:.u. 6.19] ithy a:di sruthya: cha|
Link copiede:vam he:ya sambandha prathyani:ka svaru:pathaya: thad anarham ma:m lo:ka mahe:svaram lo:ke:svara:na:m api:svaram marthye:shv asammu:dho: yo: ve:ththi| ithara saja:thi:yathayaiki:kruthya mo:hah sammo:has thad rahitho:'sammu:dhah sa mad bhakthy uthpaththi viro:dhibhih sarvaih pa:paih pramuchyathe:|
Link copiede:thad uktham bhavathi--- lo:ke: manushya:na:m ra:ja: ithara manushya sa:ji:thayah, ke:nachith karmana: thad a:dhipathyam pra:pthah| thatha: de:va:na:m adhipathir api| thatha: brahma:nda:dhipathir api:thara samsa:ri saja:thi:yah| thasya:pi bha:vana: thraya:nthargathathva:th| yo: brahma:nam vidadha:thi [sve:.u. 6.18] ithi sruthe:s cha| thatha:nye:'pi ye: ke:chana:nima:dy aisvaryam pra:ptha:h| ayam thu lo:ka mahe:svarah--- ka:rya ka:rana:vastha:d ache:thana:d baddha:n muktha:ch cha che:thana:d i:sithavya:th sarvasma:th nikhila he:ya prathyani:ka:navadhika:thisaya:sankhye:ya kalya:naika tha:nathaya: niyamanaika sva svabha:vathaya: cha visaja:thi:ya ithi, ithara saja:thi:ya:mo:ha rahitho: yo: ma:m ve:ththi sa sarvaih pa:paih pramuchyathe: ithi||10.3||
Link copiede:vam sva svabha:va:nusandha:ne:na bhakthy uthpaththi viro:dhi pa:pa nirasanam viro:dhi nirasana:d e:va:rthatho: bhakthy uthpaththim cha prathipa:dyam svaisvarya sva kalya:na guna gana prapancha:nusandha:ne:na bhakthi vruddhi praka:ram a:ha---
Link copiedbuddhir jna:nam asammo:hah kshama: sathyam damah samah|
Link copiedsukham duhkham bhavo:'bha:vo: bhayam cha:bhayam e:va cha||4||
Link copiedahimsa: samatha: thushtis thapo: da:nam yaso:'yasah|
Link copiedbhavanthi bha:va: bhu:tha:na:m maththa e:va pruthag vidha:h||5||
Link copiedbuddhir manaso: niru:pana sa:marthyam, jna:nam chid achid vasthu vise:sha vishayah nischayah| asammo:hah pu:rva gruhi:tha:d rajatha:de:r visaja:thi:ye: sukthika:di vasthuni saja:thi:yatha: buddhi nivruththih| kshama: mano: vika:ra he:thau sathy apy avikrutha manasthvam| sathyam yatha: drushta vishayam bhu:tha hitha ru:pam vachanam, thad anuguna: mano: vruththih iha:bhipre:tha:, mano: vruththi prakarana:th| damo: ba:hya karana:na:m anartha vishaye:bhyo: niyamanam| samo:'nthah karanasya thatha: niyamanam| sukham a:thma:nuku:la:nubhavah| duhkham prathiku:la:nubhavah| bhavo: bhavanam| anuku:la:nubhava he:thukam manaso: bhavanam| abha:vah prathiku:la:nubhava he:thuko: manaso:'vasa:dah| bhayam a:ga:mino: duhkhasya he:thu darsanajam duhkham, than nivruththir abhayam| ahimsa: para duhkha:he:thuthvam| samatha: a:thmani suhruthsu vipakshe:shu cha:rtha:narthayo:h sama mathithvam| thushtih sarve:shv a:thmasu drushto:shu tho:sha svabha:vathvam| thapah sa:sthri:yo: bho:ga sanko:cha ru:pah ka:yakle:sah| da:nam svaki:ya bho:gya:na:m parasmai prathipa:danam| yaso: gunavaththa: pratha:, ayasah nairgunya pratha:, ki:rthy aki:rthy anuguna mano: vruththi vise:shau thatha: ukthau, mano: vruththi prakarana:th| thapo: da:ne: cha thatha:| e:vam a:dya:h sarve:sha:m bhu:tha:na:m bha:va:h pravruththi nivruththi he:thavo: mano: vruththayo: maththa e:va math sankalpa:yaththa: bhavanthi||10.4-5||
Link copiedsarvasya bhu:tha ja:thasya srushti sthithyo:h pravarthayitha:ras cha math sankalpa:yaththa pravruththaya ithy a:ha---
Link copiedmaharshayah saptha pu:rve: chathva:ro: manavas thatha:|
Link copiedmad bha:va: ma:nasa: ja:tha: ye:sha:m lo:ka ima:h praja:h||6||
Link copiedpu:rve: saptha maharshayo:'thi:tha manvanthare: ye: bhrugv a:dayah saptha maharshayo: nithya srushti pravarthana:ya brahmano: manasah sambhava:h nithya sthithi pravarthana:ya ye: cha sa:varnika: na:ma chathva:ro: manavah sthitha:, ye:sha:m santha:na maye: lo:ke: ja:tha: ima:h sarva:h praja:h, prathikshanam a:pralaya:d apathya:na:m uthpa:daka:h pa:laka:s cha bhavanthi, the: bhrugv a:dayo: manavas cha mad bha:va:h, mama yo: bha:vah sa e:va ye:sha:m bha:vas the: mad bha:va:h, man mathe: sthitha:h math sankalpa:nuvarthina ithy arthah||10.6||
Link copiede:tha:m vibhu:thim yo:gam cha mama yo: ve:ththi thaththvathah|
Link copiedso:'vikampe:na yo:ge:na yujyathe: na:thra samsayah||7||
Link copiedvibhu:thir aisvaryam| e:tha:m sarvasya mad a:yaththo:thpaththi sthithi pravruththi ru:pa:m vibhu:thim mama he:ya prathyani:ka kalya:na guna ru:pam yo:gam cha yas thaththvatho: ve:ththi, so:'vikampe:na:prakampe:na bhakthi yo:ge:na yujyathe:, na:thra samsayah| mad vibhu:thi vishayam kalya:na guna vishayam cha jna:nam bhakthi yo:ga vardhanam ithi svayam e:va drakshyasi:thy abhipra:yah||10.7||
Link copiedvibhu:thi jna:na vipa:ka ru:pa:m bhakthi vruddhim darsayathi---
Link copiedaham sarvasya prabhavo: maththah sarvam pravarthathe:|
Link copiedithi mathva: bhajanthe: ma:m budha: bha:va samanvitha:h||8||
Link copiedaham sarvasya vichithra chid achith prapanchasya prabhava uthpaththi ka:ranam| sarvam maththa e:va pravarthathe:| ithi:dam mama sva:bha:vikam nirankusaisvaryam sausi:lya saundarya va:thsalya:di kalya:na guna gana yo:gam cha mathva: budha: jna:nino: bha:va samanvitha:h ma:m sarva kalya:na guna:nvitham bhajanthe:| bha:vo: mano: vruththi vise:shah, mayi spruhaya:lavo: ma:m bhajantha ithy arthah||10.8||
Link copiedkatham|
Link copiedmach chiththa: mad gatha pra:na: bo:dhayanthah parasparam|
Link copiedkathayanthas cha ma:m nithyam thushyanthi cha ramanthi cha||9||
Link copiedmach chiththa: mayi nivishta manasah, mad gatha pra:na:h mad gatha ji:vitha:h maya: vina: a:thma dha:ranam alabhama:na: ithy arthah| svaih svair anubhu:tha:n madi:ya:n guna:n parasparam bo:dhayanthah, madi:ya:ni divya:ni ramani:ya:ni karma:ni cha kathayanthas thushyanthi cha ramanthi cha| vaktha:ras thad vachane:na:nanya prayo:jane:na thushyanthi, sro:tha:ras cha thach chhravane:na:navadhika:thisaya priye:na ramanthe:||10.9||
Link copiedthe:sha:m sathatha yuktha:na:m bhajatha:m pri:thi pu:rvakam|
Link copieddada:mi buddhi yo:gam tham ye:na ma:m upaya:nthi the:||10||
Link copiedthe:sha:m sathatha yuktha:na:m mayi sathatha yo:gam a:samsama:na:na:m ma:m bhajama:na:na:m aham tham e:va buddhi yo:gam vipa:ka dasa:pannam pri:thi pu:rvakam dada:mi ye:na the: ma:m upaya:nthi||10.10||
Link copiedkim cha---
Link copiedthe:sha:m e:va:nukampa:rtham aham ajna:na jam thamah|
Link copiedna:saya:my a:thma bha:va stho: jna:na di:pe:na bha:svatha:||11||
Link copiedthe:sha:m e:va:nugraha:rtham aham a:thma bha:va sthas the:sha:m mano: vruththau vishayathaya:vasthitho: madi:ya:n kalya:na guna gana:ms cha:vishkurvan mad vishaya jna:na:khye:na bha:svatha: di:pe:na jna:na viro:dhi pra:chi:na karma ru:pa:jna:na jam mad vyathiriktha pu:rva:bhyastha vishaya pra:vanya ru:pam thamo: na:saya:mi||10.11||
Link copiede:vam sakale:thara visaja:thi:yam bhagavad asa:dha:ranam srunvatha:m nirathisaya:nanda janakam kalya:na guna gana yo:gam thadaisvarya vithathim cha sruthva: thad vistha:ram sro:thu ka:mo:'rjuna uva:cha---
Link copiedparam brahma param dha:ma pavithram paramam bhava:n|
Link copiedpurusham sa:svatham divyam a:di de:vam ajam vibhum||12||
Link copieda:hus thva:m rushayah sarve: de:varshir na:radas thatha:|
Link copiedasitho: de:valo: vya:sah svayam chaiva bravi:shi me:||13||
Link copiedparam brahma param dha:ma paramam pavithram ithi yam sruthayo: vadanthi sa hi bhava:n| yatho: va: ima:ni bhu:tha:ni ja:yanthe:, ye:na ja:tha:ni ji:vanthi, yath prayanthy abhisamvisanthi, thad vijijna:sasva thad brahme:thi [thai.u. 3.1], brahmavid a:pno:thi param [thai.u. 2.1], sa yo: ha vai thath paramam brahma ve:da brahmaiva bhavathi [mu.u. 3.2.9] ithi|
Link copiedthatha: param dha:ma| dha:ma sabdo: jyo:thir vachanah param jyo:thih--- atha yad athah paro: divyo: jyo:thir di:pyathe: [chha:.u. 3.13.7], param jyo:thir upasampadya sve:na ru:pe:na:bhinishpadyathe: [chha:.u. 8.12.2], thad de:va: jyo:thisha:m jyo:thih [bru.a:.u. 4.4.16] ithi|
Link copiedthatha: cha paramam pavithram paramam pa:vanam smarthur ase:sha kalmasha:sle:sha karam vina:sa karam cha| yatha: pushkara pala:sa a:po: na slishyantha e:vam e:vam vidi pa:pam karma na slishyathe: [chha:.u. 4.14.3] thad yathe:shi:ka:thu:lam agnau pro:tham pradu:ye:thaivam ha:sya sarve: pa:pma:nah pradu:yanthe: [chha:.u. 5.24.3]|
Link copiedna:ra:yanah param brahma thaththvam na:ra:yanah parah|
Link copiedna:ra:yanah param jyo:thir a:thma: na:ra:yanah parah|| [Maha:Na:U 9.4] ithi hi sruthayo: vadanthi|
Link copied
rushayas cha sarve: para:varathaththvaya:tha:thmyavidas thva:m e:va sa:svatham divyam purusham a:di de:vam ajam vibhum a:huh| thathaiva de:varshih na:rado:'sitho: de:valo: vya:sas cha|
Link copiede:sha na:ra:yanah sri:ma:n kshi:ra:rnava nike:thanah|
Link copiedna:ga paryankam uthsrujya hy a:gatho: mathura:m puri:m||
Link copiedpunya: dva:ravathi: thathra yathra:sthe: madhusu:danah|
Link copiedsa:ksha:d de:vah pura:no:'sau sa hi dharmah sana:thanah||
Link copiedye: cha ve:da vido: vipra: che: cha:dhya:thma vido: jana:h|
Link copiedthe: vadanthi maha:thma:nam krushnam dharmam sana:thanam||
Link copiedpavithra:na:m hi go:vindah pavithram param uchyathe:|
Link copiedpunya:na:m api punyo:'sau mangala:na:m cha mangalam||
Link copiedthrailo:kye: punda:ri:ka:ksho: de:va de:vah sana:thanah|
Link copieda:sthe: harir achinthaya:thma: thathraiva madhusu:danah|| [ma.bha:. 3.88.24-28]
Link copiedthatha: yathra na:ra:yano: de:vah parama:thma: sana:thanah|
Link copiedthathra kruthsnam jagath pa:rtha thi:rtha:nya:yatha:ni cha||
Link copiedthath punyam thath param brahma thath thi:rtham thath thapo: vanam|
Link copiedthathra de:varshayah siddha:h sarve: chaiva thapo: dhana:h||
Link copieda:di de:vo: maha: yo:gi: yathra:sthe: madhusu:danah|
Link copiedpunya:na:m api thath punyam ma:bhu:th the: samsayo:'va vai|| [ma.bha:. 3.90.28-32]
Link copiedkrushna e:va hi lo:ka:na:m uthpaththir api cha:pyayah|
Link copiedkrushnasya hi kruthe: bhu:tham idam visvam chara:charam|| [ma.bha:. 2.38.23] ithi|
Link copied
thatha: svayam e:va bravi:shi cha---
Link copiedbhu:mir a:po:'nalo: va:yuh kham mano: buddhir e:va cha|
Link copiedahanka:ra ithi:yam me: bhinna: prakruthir ashtadha:|| [7.4] ithy a:dina:,
Link copied
aham sarvasya prabhavo: maththah sarvam pravarthathe: [10.8] ithy anthe:na||10.12--- 10.13||
Link copiedsarvam e:thad rutham manye: yan ma:m vadasi ke:sava|
Link copiedna hi the: bhagavan vyakthim vidur de:va: na da:nava:h||14||
Link copiedathah sarvam e:thad yatha:vasthitha vasthu kathanam manye: na prasamsa:dy abhipra:yam| yad ma:m prathy ananya sa:dha:ranam anavadhika:thisayam sva:bha:vikam thava:isvaryam kalya:na guna gana:nanthyam cha vadasi| atho: bhagavan nirathisaya jna:na sakthi balaisvarya vi:rya the:jasa:m nidhe: the: vyakthim vyajana praka:ram na hi parimitha jna:na: de:va: da:nava:s cha viduh||10.14||
Link copiedsvayam e:va:thmana:thma:nam ve:ththa thvam purusho:ththama|
Link copiedbhu:tha bha:vana bhu:the:sa de:va de:va jagathpathe:||15||
Link copiedhe: purusho:ththama a:thmana: a:thma:nam thvam svayam e:va sve:naiva jna:ne:na ve:ththa| bhu:tha bha:vana sarve:sha:m bhu:tha:na:m uthpa:dayithah| bhu:the:sa sarve:sha:m bhu:tha:na:m niyanthah| de:va de:va daivatha:na:m api parama daivatha, yatha: manushya mruga pakshi sari:srupa:di:n saundarya sausi:lya:di kalya:na guna ganaih daivatha:ny athi:thya varthanthe: thatha: tha:ni sarva:ni daivatha:ny api thais thaih gunair athi:thya varthama:na, jagath pathe: jagath sva:min||10.15||
Link copiedvakthum arhasy ase:she:na divya: hy a:thma vibhu:thayah|
Link copiedya:bhir vibhu:thibhir lo:ka:n ima:ms thvam vya:pya thishthasi||16||
Link copieddivya:s thvad asa:dha:ranyo: vibhu:thayo: ya:s tha:s thvam e:va:se:shana vakthum arhasi thvam e:va vyanjaye:thy arthah| ya:bhir anantha:bhir vibhu:thibhir yair niyamana vise:shair yuktha ima:n lo:ka:n thvam niyanthruthve:na vya:pya thishthasi||10.16||
Link copiedkim artham thath praka:sanam| ithy ape:ksha:ya:m a:ha---
Link copiedkatham vidya:m aham yo:gims thva:m sada: parichinthayan|
Link copiedke:shu ke:shu cha bha:ve:shu chinthyo:'si bhagavan maya:||17||
Link copiedaham yo:gi: bhakthi yo:ga nishthah san bhakthya: thva:m sada: parichinthayan chinthayithum pravruththas chinthani:yam thva:m paripu:rnaisvarya:di kalya:na guna ganam katham vidya:m| pu:rvo:ktha buddhi jna:na:di bha:va vyathirikthe:shv anukthe:shu ke:shu ke:shu cha bha:ve:shu maya: niyanthruthve:na chinthyo:'si|||10.17||
Link copiedvisthare:na:thmano: yo:gam vibhu:thim cha jana:rdana|
Link copiedbhu:yah kathaya thrupthir hi srunvatho: na:sthi me:'mrutham||18||
Link copiedaham sarvasya prabhavo: maththah sarvam pravarthathe: [gi:tha: 10.8] ithi sankshe:pe:no:ktham thava srashtruthva:di yo:gam vibhu:thim niyamanam cha bhu:yo: visthare:na kathaya| thvayo:chyama:nam thvan ma:ha:thmya:mrutham srunvatho: me: thrupthir na:sthi hi| mama:thrupthis thvayaiva vidithe:thy abhipra:yah||10.18||
Link copiedsri: bhagava:n uva:cha---
Link copiedhantha the: kathayishya:mi divya: hy a:thma vibhu:thayah|
Link copiedpra:dha:nyathah kuru sre:shtha na:sthy antho: vistharasya me:||19||
Link copiedhe: kuru sre:shtha madi:ya:h kalya:ni:r vibhu:thi:h pra:dha:nyathas the: kathayishya:mi| pra:dha:nya sabde:no:thkarsho: vivakshithah| puro:dhasa:m cha mukhyam ma:m [10.24] ithi hi vakshyathe:| jagathy uthkrushtah ka:schana vibhu:thi:r vakshya:mi, visthare:na vakthum sro:thum cha na sakyathe:, tha:sa:m a:nanthya:th| vibhu:thithvam na:ma niya:myathvam, sarve:sha:m bhu:tha:na:m buddhy a:dayah pruthag vidha: bha:va: maththa e:va bhavanthi:thy ukthva: e:tha:m vibhu:thim yo:gam cha mama yo: ve:ththi thaththvathah [10.7] ithi prathipa:dana:th| thatha: thathra yo:ga sabda nirdishtam srashtruthva:dikam vibhu:thi sabda nirdishtam thath pravarthyathvam ithi yuktham| punas cha---
Link copiedaham sarvasya prabhavo: maththah sarvam pravarthathe:|
Link copiedithi mathva: bhajanthe: ma:m budha: bha:vasamanvitha:h|| [gi:tha: 10.8] ithy uktham||10.19||
Link copied
thathra sarva bhu:tha:na:m pravarthana ru:pam niyamanam a:thmathaya: avastha:ya ithi:mam artham yo:ga sabda nirdishtam sarvasya srashtruthvam pa:layithruthvam samharthruthvam che:thi suspashtam a:ha---
Link copiedaham a:thma: guda:ke:sa sarva bhu:tha:saya sthithah|
Link copiedaham a:dis cha madhyam cha bhu:tha:na:m antha e:va cha||20||
Link copiedsarve:sha:m bhu:tha:na:m mama sari:ra bhu:tha:na:m a:saye: hrudaye:'ham a:thmathaya:vasthithah| a:thma: hi na:ma sari:rasya sarva:thmana:dha:ro: niyantha: se:shi: cha| thatha: vakshyathe:--- sarvasya cha:ham hrudi sannivishte: maththah smruthir jna:nam apo:hanam cha [15.15],
Link copiedi:svarah sarva bhu:tha:na:m hrudde:so:'rjuna thishthathi|
Link copiedbhra:mayan sarva bhu:tha:ni yanthra:ru:dha:ni ma:yaya:|| [18.61] ithi|
Link copied
sru:yathe: cha--- yah sarve:shu bhu:the:shu thishthan sarve:bhyo: bhu:the:bhyo:'ntharo: yam sarva:ni bhu:tha:ni na viduh| yasya sarva:ni bhu:tha:ni sari:ram| yah sarva:ni bhu:tha:ny antharo: yamayathi| e:sha tha a:thma:ntharya:my amruthah [bru.a:.u. 3.7.15] ithi, ya a:thmani thishthann a:thmano:'ntharo: yam a:thma: na ve:da yasya:thma: sari:ram ya a:thma:nam antharo: yamayathi sa tha a:thma:ntharya:my amruthah [SathBr 14.5.30] ithi cha| e:vam sarva bhu:tha:na:m a:thmathaya:vasthitho:'ham the:sha:m a:dir madhyam cha:nthas cha| the:sha:m uthpaththi sthithi pralaya he:thur ithy arthah||10.20||
Link copiede:vam bhagavathah sva vibhu:thi bhu:the:shu sarve:shv a:thmathaya:vastha:nam thath thach chhabda sa:ma:na:dhikaranya nirde:sa he:thum prathipa:dya vibhu:thi vise:sha:m sa:ma:na:dhikaranye:na vyapadisathi| bhagavathy a:thmathaya:vasthithe: hi sarve: sabda:s thasminn e:va paryavasyanthi| yatha: de:vo: manushyah pakshi: vruksha ithy a:dayah sabda:h sari:ra:ni prathipa:dayanthas thath thad a:thmani paryavasya:nthi| thatha: bhagavathas thath thad a:thmathaya:vastha:nam e:va thath thach chhabda sa:ma:na:dhikaranya nibandhanam, ithi vibhu:thy upasamha:re: vakshyathi--- na thad asthi vina: yath sya:n maya: bhu:tham chara:charam [gi:tha: 10.39] ithi sarve:sha:m sve:na:vina: bha:va vachana:th| avina: bha:vas chaniya:myathaye:thi maththah sarvam pravarthathe: [gi:tha: 10.8] ithy upakramo:ditham|
Link copieda:dithya:na:m aham vishnur jyo:thisha:m ravir amsuma:n|
Link copiedmari:chir marutha:m asmi nakshathra:na:m aham sasi:||21||
Link copieddva:dasa sankhya: sankhya:tha:na:m a:dithya:na:m dva:daso: ya uthkrushte: vishnur na:ma:dithyah so:'ham| jyo:thisha:m jagathi praka:saka:na:m yo:'msuma:n ravir a:dithya ganah so:'ham| marutha:m uthkrushte: mari:chir yah so:'ham asmi| nakshathra:na:m aham sasi:| ne:yam nirdha:rane: shashthi:| bhu:tha:na:m asmi che:thane:thivath nakshathra:na:m pathir yas chandrah so:'ham asmi||10.21||
Link copiedve:da:na:m sa:ma ve:do:'smi de:va:na:m asmi va:savah|
Link copiedindriya:na:m manas cha:smi bhu:tha:na:m asmi che:thana:||22||
Link copiedve:da:na:m rug yajuh sa:ma:tharvana:m ya uthkrushtah sa:ma ve:dah so:'ham de:va:na:m indro:'ham asmi| e:ka:dasa:na:m indriya:na:m yad uthkrushtam mana indriyam thad aham asmi| iyam api na nirdha:rane:--- bhu:tha:na:m che:thana:vatha:m ya: che:thana: sa: aham asmi||10.22||
Link copiedrudra:na:m sankaras cha:smi viththe:so: yaksha rakshasa:m|
Link copiedvasu:na:m pa:vakascha:smi me:ruh sikharina:m aham||23||
Link copiedrudra:na:m e:ka:dasa:na:m sankaro:'ham asmi| yaksha rakshasa:m vaisravano:'ham, vasu:na:m ashtana:m pa:vako:'ham| sikharina:m sikhara so:bhina:m parvatha:na:m madhye: me:rur aham||10.23||
Link copiedpuro:dhasa:m cha mukhyam ma:m viddhi pa:rtha bruhaspathim|
Link copiedse:na:ni:na:m aham skandah sarasa:m asmi sa:garah||24||
Link copiedpuro:dhasa:m uthkrushte: bruhaspathir yah so:'ham asmi| se:na:thi:na:m se:na:pathi:na:m skando:'ham asmi, sarasa:m sa:garo:'ham asmi||10.24||
Link copiedmaharshi:na:m bhrugur aham gira:m asmy e:kam aksharam|
Link copiedyajna:na:m japa yajno:'smi stha:vara:na:m hima:layah||25||
Link copiedmaharshi:na:m mari:chy a:di:na:m bhrugur aham| artha:bhidha:yinah sabda: girah, tha:sa:m e:kam aksharam pranavo:'ham asmi| yajna:na:m uthkrushto: japa yajno:'smi, parvatha ma:thra:na:m himava:n aham||10.25||
Link copiedasvaththah sarva vruksha:na:m de:varshi:na:m cha na:radah|
Link copiedgandharva:na:m chithrarathah siddha:na:m kapilo: munih||26||
Link copiedsarva vruksha:na:m madhye: pu:jyo:'svaththa e:va:ham| de:varshi:na:m madhye: parama vaishnavo: na:rado:'ham asmi| gandharva:na:m de:va ga:yaka:na:m madhye: chithraratho:'smi| siddha:na:m yo:ga nishtha:na:m paramo:pa:syah kapilo:'ham||10.26||
Link copieduchchaihsravasam asva:na:m viddhi ma:m amrutho:dbhavam|
Link copiedaira:vatham gaje:ndra:na:m nara:na:m cha nara:dhipam||27||
Link copiedsarve:sha:m asva:na:m madhye:'mrutha mathano:dbhavam uchchaihsravasam ma:m viddhi| gaje:ndra:na:m sarve:sha:m madhye:'mrutha mathano:dbhavam aira:vatham ma:m viddhi| amrutho:dbhavam ithy aira:vathasya:pi vise:shanam| nara:na:m madhye: ra:ja:nam ma:m viddhi||10.27||
Link copieda:yudha:na:m aham vajram dhe:nu:na:m asmi ka:ma dhuk|
Link copiedprajanas cha:smi kandarpah sarpa:na:m asmi va:sukih||28||
Link copieda:yudha:na:m madhye: vajram thad aham| dhe:nu:na:m havir dugha:na:m madhye: ka:ma dhuk, divya: surabhih| prajanah janana he:thuh kandarpas cha:ham asmi| sarpa:h e:ka sirasas the:sha:m madhye: va:sukir asmi||10.28||
Link copiedananthas cha:smi na:ga:na:m varuno: ya:dasa:m aham|
Link copiedpithru:na:m aryama: cha:smi yamah samyamatha:m aham||29||
Link copiedna:ga: bahu sirasah, ya:da:msi jala va:sinah, the:sha:m varuno:'ham| athra:pi na nirdha:rane: shashthi:, danda:yatha:m vaivasvatho:'ham||10.29||
Link copiedprahla:das cha:smi daithya:na:m ka:lah kalayatha:m aham|
Link copiedmruga:na:m cha mruge:ndro:'ham vainathe:yas cha pakshina:m||30||
Link copiedanartha pre:psuthaya: ganayatha:m madhye: ka:lah mruthyur aham||10.30||
Link copiedpavanah pavatha:m asmi ra:mah sasthra bhrutha:m aham|
Link copiedjhasha:na:m makaras cha:smi sro:thasa:m asmi ja:hnavi:||31||
Link copiedpavatha:m gamana svabha:va:na:m pavano:'ham| sasthra bhrutha:m ra:mo:'ham| sasthra bhruththvam athra vibhu:thih, artha:nthara:bha:va:th| a:dithya:dayas cha kshe:thra jna: a:thmathve:na:vasthithasya bhagavathah sari:rathaya: dharma bhu:tha: ithi sasthra bhruththva stha:ni:ya:h||10.31||
Link copiedsarga:na:m a:dir anthas cha madhyam chaiva:ham arjuna|
Link copiedadhya:thma vidya: vidya:na:m va:dah pravadatha:m aham||32||
Link copiedsrujyantha ithi sarga:h, the:sha:m a:dih ka:ranam| sarvada: srujyama:na:na:m sarve:sha:m pra:nina:m thathra thathra srashta:ro:'ham e:ve:thy arthah| thatha:nthah sarvada: samhriyama:na:na:m thathra thathra samhartha:ro:'py aham e:va| thatha: cha madhyam pa:lanam sarvada: pa:lyama:na:na:m pa:layitha:ras cha:ham e:ve:thy arthah| sre:yah sa:dhana bhu:tha:na:m vidya:na:m madhye: parama nihsre:yasa sa:dhana bhu:tha: adhya:thma vidya:ham asmi| jalpa vithanda:di kurvatha:m thaththva nirnaya:ya pravruththo: va:do: yah so:'ham||10.32||
Link copiedakshara:na:m aka:ro:'smi dvandvah sa:ma:sikasya cha|
Link copiedaham e:va:kshayah ka:lo: dha:tha:ham visvatho: mukhah||33||
Link copiedakshara:na:m madhye: a ka:ro: vai sarva: va:k [Ai.Pu:. 3.6] ithi sruthi siddhah, sarva varna:na:m prakruthir a ka:ro:'ham| sa:ma:sikah sama:sa samu:hah| thasya madhye: dvandva sama:so:'ham| sa hy ubhaya pada:rtha pradha:nathve:no:thkrushtah| kala: muhu:rtha:di mayo:'kshayah ka:lo:'ham e:va| sarvasya srashta hiranyagarbhas chathurmukho:'ham||10.33||
Link copiedmruthyuh sarva haras cha:ham udbhavas cha bhavishyatha:m|
Link copiedki:rthih sri:r va:k cha na:ri:na:m smruthir me:dha: dhruthih kshama:||34||
Link copiedsarva pra:na haro: mruthyus cha:ham| uthpathsyama:na:na:m udbhava:khyam karma cha:ham, na:ri:na:m sri:r aham ki:rthis cha:ham va:k cha:ham smruthis cha:ham me:dha: cha:ham dhruthis cha:ham kshama: cha:ham||10.34||
Link copiedbruhath sa:ma thatha: sa:mna:m ga:yathri: chhandasa:m aham|
Link copiedma:sa:na:m ma:rgasi:rsho:'ham ruthu:na:m kusuma:karah||35||
Link copiedsa:mna:m bruhath sa:ma:ham| chhandasa:m ga:yathri:m aham| ruthu:na:m kusuma:karo: vasanthah||10.35||
Link copieddyu:tham chhalayatha:m asmi the:jas the:jasvina:m aham|
Link copiedjayo:'smi vyavasa:yo:'smi saththvam saththvavatha:m aham||36||
Link copiedchhalam kurvatha:m chhala:spade:shv aksha:di lakshanam dyu:tham aham| je:thru:na:m jayo:'smi| vyavasa:yina:m vyavasa:yo:'smi| saththvatha:m saththvam maha: manasthvam||10.36||
Link copiedvrushni:na:m va:sude:vo:'smi pa:ndava:na:m dhananjayah|
Link copiedmuni:na:m apy aham vya:sah kavi:na:m usana: kavih||37||
Link copiedvasude:va su:nuthvam athra vibhu:thih, artha:nthara:bha:va:d e:va| pa:nda:va:na:m dhananjayo: 'rjuno: 'ham| munayo: manane:na:rtha ya:tha:thmya darsinah, the:sha:m vya:so:'ham| kavayo: vipaschithah||10.37||
Link copieddando: damayatha:m asmi ni:thir asmi jigi:shatha:m|
Link copiedmaunam chaiva:smi guhya:na:m jna:nam jna:navatha:m aham||38||
Link copiedniyama:thikramane: danda:m kurvatha:m dando:'ham| vijigi:shu:na:m jayo:pa:ya bhu:tha: ni:thir asmi| guhya:na:m sambandhishu go:pane:shu maunam asmi| jna:navatha:m jna:nam cha:ham||10.38||
Link copiedyach cha:pi sarva bhu:tha:na:m bi:jam thad aham arjuna|
Link copiedna thad asthi vina: yath sya:n maya: bhu:tham chara:charam||39||
Link copiedsarva bhu:tha:na:m sarva:vastha:vasthitha:na:m thath thad avastha: bi:ja bhu:tham prathi:yama:nam aprathi:yama:nam cha yath thad aham e:va| chara:chara sarva bhu:tha ja:tham maya:thmathaya:vasthithe:na vina: yath sya:n na thad asthi| aham a:thma: guda:ake:sa sarva bhu:tha:sa:ya sthithah [10.20] ithi prakrama:th| na thad asthi vina: yath sya:n maya: bhu:tham chara:charam ithy athra:py a:thmathaya:vastha:nam e:va vivakshitham|
Link copiedsarva vasthu ja:tham sarva:vastham maya:thma bhu:the:na yuktham sya:d ithy arthah| ane:na sarvasya:sya sa:ma:na:dhikaranya nirde:syasya a:thmathaya: avasthithir e:va he:thur ithi prakatayathi||10.39||
Link copiedna:ntho:'sthi mama divya:na:m vibhu:thi:na:m paranthapa|
Link copiede:sha thu:dde:sathah pro:ktho: vibhu:the:r vistharo: maya:||40||
Link copiedmama divya:na:m kalya:ni:na:m vibhu:thi:na:m antho: na:sthi| e:sha thu vibhu:the:r vistharo: maya: kaischid upa:dhibhih sankshe:pathah pro:kthah||10.40||
Link copiedyad yad vibhu:thimath saththvam sri:mad u:rjitham e:va va:|
Link copiedthath thad e:va:vagachchha thvam mama the:jo:'msa sambhavam||41||
Link copiedyad yad vibhu:thimad i:sithavya sampannam bhu:tha ja:tham sri:math ka:nthimad dhana dha:nya samruddham va: u:drjitham kalya:na:rambhe:shu:dyuktham thath than mama the:jo:'msa sambhavam ithy avagachchha||10.41||
Link copiedthe:jah para:bhibhavana sa:marthyam, mama:chinthya sakthe:r niyamana sakthyaika de:sa sambhavam ithy arthah|
Link copiedatha va: bahunaithe:na kim jna:the:na thava:rjuna|
Link copiedvishtabhya:ham idam kruthsnam e:ka:mse:na sthitho: jagath||42||
Link copiedbahuna: aithe:na uchyama:ne:na jna:ne:na kim prayo:janam| idam chid achid a:thmakam kruthsnam jagath ka:rya:vastham ka:rana:vastham sthu:lam su:kshmam cha svaru:pa sad bha:ve: sthithau pravruththi bhe:de: cha yatha: math sankalpam na:thivarthe:tha thatha: mama mahimno:'yutha:yutha:mse:na vishtabhya:ham avasthithah| yatho:ktham bhagavatha: para:sare:na--- yasya:yutha:yutha:msa:mse: visva sakthir iyam sthitha: [vi.pu. 1.9.53] ithi||10.42||
Link copiedithi sri:mad ra:ma:nuja:cha:rya virachithe: gi:tha: bha:shye: dasamo:'dhya:yah ||10||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 10 — The Book of Divine Glories (in Sanskrit: Vibhu:thi-Vistha:ra-Yo:ga)
Having described bhakti and its requirements in Lecture IX, this chapter expounds the infinity of the Lord's glories (vibhu:thi) — His inviolable Sovereignty and His ensouling of the cosmos — so that love for Him may be kindled and fanned. To know Him through His glories is to be drawn toward Him in devotion.
Link copiedVerses 1–3 (The majesty beyond the gods)
Verse 10.1. — "Hear, O mighty-armed, My sublime speech, which I shall again declare for your good, My beloved."
Link copiedArjuna is beloved because he delights in hearing the Lord's greatness. To awaken and fan the flame of loving devotion in him, the Lord once more declares His amplified glory.
Link copiedVerse 10.2. — "Neither the hosts of Suras nor the Maharshis know My greatness, for I am, in every way, prior to devas and maharshis."
Link copiedEven the Suras and Maharshis — capable of super-sensuous perception — do not know the divine nature of His titles, deeds, essence, and attributes. Their intelligence is merely the measure of their merit which He Himself awards; limited as they are, they cannot gauge Him.
Link copiedVerse 10.3. — "He who knows Me as the Birthless, the Beginningless, the Great Lord of the cosmos, — he among mortals is free from delusion and delivered from all sin."
Link copiedAjah — Birthless — distinguishes the Lord from both changeful matter and bound souls. Ana:di — Beginningless — distinguishes Him from liberated souls, who, though birthless, had a beginning to their liberated state. He alone occupies a position antithetical to evil, never associated with it. The loka-mahesvara is the Over-lord of all subordinate lords. The devotee who does not imagine the Lord to be like other beings is delivered from all sins that obstruct God-love.
Link copiedVerses 4–6 (Mental dispositions and the creators all derive from the Lord)
Verses 10.4–5. — "Decision, Knowledge, Disillusion, Forgiveness, Truthfulness, Self-government, Self-restraint; Happiness and Affliction; Geniality and Non-geniality, Dread and Non-dread; Harmlessness, Equanimity, Amiability, Austerity, Beneficence, Fame and Notoriety — all these diverse states of beings arise from Me alone."
Link copiedBuddhi (judgment), jna:na (correct knowledge), asammoha (right conception), kshama: (forgiveness), satya (truthfulness), dama (control of outer senses), sama (restraint of the mind), sukha (joy), dhuhkha (suffering), bhava and abhava (elation and depression), bhaya and abhaya (fear and fearlessness), ahimsa:, samatha:, thushti, tapas, dha:na, yasas, ayasas — all these humors and temperaments arise from His willing.
Link copiedVerse 10.6. — "The Seven Maharshis, the Four ancient Manus, partaking of My nature, were mind-born; from them came all this progeny of the world."
Link copiedThe Seven — Bhrigu and the rest — and the Four Manus, born from Brahma:'s mind, create and sustain their offspring every moment until the eve of cosmic dissolution. They are after the Lord's own mind.
Link copiedVerses 7–11 (The fruit of knowing His vibhu:thi and yoga)
Verse 10.7. — "Whoever truly knows this vibhu:thi (glory) and yoga (assemblage of divine attributes) of Mine is linked to Me in unwavering bhakti-yoga. No doubt of this."
Link copiedVibhu:thi is His universal sovereignty as seen in creation, sustenance, and dissolution, all depending on Him. Yo:ga is the consensus of all His glorious attributes, free from every flaw.
Link copiedVerse 10.8. — "I am the Origin of all; from Me operates everything. So the wise comprehend Me, and with thoughts imbued with devotion worship Me."
Link copiedVerse 10.9. — "Their thoughts riveted on Me, their lives nestled in Me, they ever enlighten one another about Me and converse of Me; thus they are content and exultant."
Link copiedThey fix their thoughts on the Lord and their very breath depends on Him. They reciprocate experiences of His attributes; recount His divine deeds; delight in each other's company. Their conversation itself is a completeness; hearing of Him causes rapturous joy.
Link copiedVerse 10.10. — "To them, ever intent, worshipping in love, I give that illumined understanding (buddhi-yoga) by which they may come to Me."
Link copiedVerse 10.11. — "Out of pure compassion for them, O Partha, I enter the course of their thoughts and destroy ignorance-born darkness with the radiant light of wisdom."
Link copiedHe is present in their mind-functions as their chief Object, making manifest His blessed attributes. His shining in their thoughts dispels the darkness of past karma.
Link copiedVerses 11½–18 (Arjuna's adoration and request for fuller glory)
Verse 10.11½. — "You are the Supreme-Great (Param-Brahma), the Supernal Light (Param-Dha:ma), the Superbly Holy (Paramam-Pavitram)."
Link copiedThe Upanishadhs proclaim Him as Para-brahma — the source of all beings; as Param-dha:ma — the Supernal Light shining above all; as Paramam-Pavitram — who purifies the devotee of all sins past and future. Na:ra:yana is Parabrahma, the Highest Truth, the Supreme Light, the Paramount Self.
Link copiedVerse 10.12. — "Spirit eternal, Divine, First Lord, Birthless, All-pervading —"
Link copiedVerse 10.13. — "— so do all the Rishis declare You, and Dhevarshi Na:rada, Asita, Devala, Vya:sa. Yourself have declared it to me."
Link copiedVerse 10.14. — "All that You tell me I take to be true, O Kesava; for neither devas nor da:navas, Lord, understand Your manifestations."
Link copiedVerse 10.15. — "O Purushoththama! Source of beings! Lord of beings! God of gods! King of the universe! — You alone know Yourself by Yourself."
Link copiedEven as devas excel men in virtue, beauty, and habit, so You excel the devas.
Link copiedVerse 10.16. — "You alone can tell Your glories — glories by which You abide, pervading all these worlds."
Link copiedVerse 10.17. — "How shall I, a yogi:, know You by constant meditation? In what forms, O Lord, are You to be meditated on?"
Link copiedVerse 10.18. — "In detail, Jana:rdana, recount once more Your yoga and Your vibhu:thi. To me, listening to the nectar of Your words, there is no satiety."
Link copiedVerse 19 (The Lord's response: a sketch of the endless)
Verse 10.19. — "So be it, chief of the Kurus; I shall unfold to you My glories in their salient points. There is no end to My infinity."
Link copiedA few prominent glories alone will be named, for they are inexhaustible.
Link copiedVerses 20–42 (The catalogue of divine glories)
Verse 10.20. — "I am the Soul, O Guda:ke:sa, seated in the hearts of all beings. I am the Beginning, the Middle, and the End of all creatures."
Link copiedHe is seated as the Self (a:thman) in the hearts of all — which are His body. To be the Soul is to be, in every way, the Support, the Ruler, the Master. The Upanishadhs chant: "He who is seated in all beings, innermost to all, whom beings know not, of whom beings are the body — He is your a:thman, the Inner Ruler (antharya:min), Immortal." He is the cause of the evolution, persistence, and dissolution of all.
Link copiedVerse 10.21. — "Of the A:dithyas I am Vishnu; of luminaries, the radiant Sun; of the Maruts, I am Mari:chi; of the stars, I am the Moon."
Link copiedVerse 10.22. — "Of the Vedas, I am the Sa:ma-Veda; of the devas, Indra; of the senses, the mind (manas); of beings, I am intelligence."
Link copiedVerse 10.23. — "Of the Rudras, I am Sankara; of the Yakshas and Ra:kshasas, I am Viththesa (Kubera); of the Vasus, I am Pa:vaka (Fire); of the mountains, I am Meru."
Link copiedVerse 10.24. — "Of household priests, know Me to be the chief, Brihaspathi; of commanders, I am Skanda; of reservoirs of water, I am the Ocean."
Link copiedVerse 10.25. — "Of Maharshis, I am Bhrigu; of speech, the monosyllable Om; of sacrifices, I am the sacrifice of japa; of the stationary, the Hima:laya."
Link copiedVerse 10.26. — "Of trees, I am the Asvaththa; of Dhevarshis, Na:rada; of Gandharvas, Citraratha; of the accomplished (siddhas), the sage Kapila."
Link copiedVerse 10.27. — "Of horses, know Me as Ucchaihsravas, born from the nectar-churning; of royal elephants, Aira:vatha; and of men, the king."
Link copiedVerse 10.28. — "Of weapons, I am the Vajra; of cows, Ka:madhuk; the procreator Kandarpa, I am; of serpents, Va:suki."
Link copiedVerse 10.29. — "Of Na:gas, I am Ananta; of aquatic beings, Varuna; of Pithris, Aryama:; of judges, Yama."
Link copiedVerse 10.30. — "Of the Daityas, I am Prahla:da; of reckoners, I am Time; of animals, the lion; of birds, Vainateya (Garuda)."
Link copiedVerse 10.31. — "Of fluids (purifiers), I am Pavana (the wind); of wielders of weapons, I am Ra:ma; of fish, the dolphin; of rivers, the Ja:hnavi: (Ganga:)."
Link copiedUnlike indirect manifestations, Ra:ma here is a direct incarnation. Ra:ma Himself is the Lord; the manifested aspect indicated is the wielding of weapons.
Link copiedVerse 10.32. — "I am the Beginning, the End, and the Middle of creation, O Arjuna. Of sciences, I am the Science of the Self; of debaters, the right argument (va:da)."
Link copiedVa:da is right argument aimed at truth, distinguished from mere wrangling (jalpa) or carping (vithanda:).
Link copiedVerse 10.33. — "Of letters, I am A; of compounds, the dvandva. I am the perishless Time. I am the all-faced Dha:thrii."
Link copiedA is the root of all speech, as the Vedas declare. Dvandva is the compound in which both terms have equal grammatical value. Dha:thrii is Hiranyagarbha, the four-faced Creator.
Link copiedVerse 10.34. — "I am all-seizing Death and the Origin of things to come; of feminine virtues, I am Fame, Prosperity, Speech, Memory, Intellect, Courage, and Forbearance."
Link copiedVerse 10.35. — "Of Sa:ma-chants, I am the Brihath-Sa:ma; of metres, Ga:yathri:; of months, Ma:rgasi:rsha; of seasons, the flowery season (Spring)."
Link copiedVerse 10.36. — "Of deceivers, I am the gambling; of the splendid, the splendor; I am victory; I am effort; I am the goodness of the good."
Link copiedVerse 10.37. — "Of the Vrishnis, I am Va:sude:va; of the Pa:ndavas, Dhananjaya (Arjuna); of sages, I am Vya:sa; of seers, Usanas."
Link copiedThe being the son of Vasudeva is the manifested expression; Va:sude:va Himself is the Lord direct.
Link copiedVerse 10.38. — "Of punishers, I am the Rod; of aspirants for success, I am polity; of secrets, I am silence; of the wise, I am wisdom."
Link copiedVerse 10.39. — "What is the seed of all things, O Arjuna, that I am. Nothing movable or immovable can exist without Me."
Link copiedWhat the seed — or soul — is in all things in any condition, manifest or unmanifest, He is that. Nothing exists as separate from Him ensouling it.
Link copiedVerse 10.40. — "There is no end, O Parantapa, to My divine glories. What I have given is a mere summary."
Link copiedVerse 10.41. — "Whatever is glorious, prosperous, or powerful — know that as sprung from a mere fraction of My glory."
Link copiedWhatever manifests majesty, prosperity, or eclat — know it as a fragment of His directive Power from out of His inconceivable Power.
Link copiedVerse 10.42. — "But what use is this vast detail to you, O Arjuna? Abiding in it, I uphold this entire cosmos with but a fraction of Myself."
Link copiedWhether in subtle unmanifest state or gross manifest, whether in essence or perpetuity, whether in its ramifications — this universe, compound of cit and acit, is planned never to overstep His will. It is upheld by but the ten-thousandth of a ten-thousandth part of His transcendent power. As Bhagava:n Para:sara declared, this cosmic force is but the ten-thousandth of a ten-thousandth.
Link copiedThus closes the tenth discourse, named Vibhu:thi-Vistha:ra-Yo:ga — the Book of Divine Glories.
Link copied