Skip to content

Bhagavad Gita Bhashya · Section 18 of 19

atha sraddha: thraya vibha:ga yo:gah sapthadaso:'dhya:yah

Original Sanskrit · click to toggle

देवासुर-विभागोक्ति-मुखेन प्राप्य-तत्त्व-ज्ञानं तत्-प्राप्त्य्-उपाय-ज्ञानं च वेदैक-मूलम् इत्य् उक्तम्। इदानीम् अशास्त्र-विहितस्यासुरत्वेनाफलत्वं, शास्त्र-विहितस्य च गुणतस् त्रैविध्यं शास्त्र-सिद्धस्य लक्षणं चोच्यते। तत्राशास्त्र-विहितस्य निष्फलत्वम् अजानन् अशास्त्र-विहिते श्रद्धा-संयुक्ते यागादौ सत्त्वादि-निमित्त-फल-भेद-बुभुत्सया अर्जुनः पृच्छति --

Link copied

ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः

Link copied

तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः

Link copied

शास्त्र-विधिम् उत्सृज्य श्रद्धयान्विता ये यजन्ते तेषां निष्ठा का। किं स्अत्त्वम्आहो स्वित् रजः। अथ तमः। निष्ठा स्थितिः। स्थीयतेऽस्मिन् इति स्थितिः। सत्त्वादिर् एव निष्ठेत्य् उच्यते, तेषां किं सत्त्वे स्थितिः। किं वा रजसि। किं वा तमसि। इत्य् अर्थः॥१७।१॥

Link copied

एवं पृष्टो भगवान् अशास्त्र-विहित-श्रद्धायास् तत्-पूर्वकस्य च यागादेर् निष्फलत्वं हृदि निधाय शास्त्रीयस्य एव यागादेर् गुणतस् त्रैविध्यं प्रतिपादयितुं शास्त्रीय-श्रद्धायास् त्रैविध्यं तावद् आह---

Link copied

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा

Link copied

सात्त्विकी राजसी चैव तामसी चेति तां शृणु

Link copied

सर्वेषां देहिनां श्रद्धा त्रिविधा भवतिसास्वभावजा स्वभावः स्वासाधारणो भावः प्राचीन-वासना-निमित्तस् तत्-तद्-रुचि-विशेषः, यत्र रुचिस् तत्र श्रद्धा जायते। श्रद्धा हि स्वाभिमतं साधयत्य् एतद् इति विश्वास-पूर्विका साधने त्वरा। वासना रुचिश् च श्रद्धा चात्म-धर्मा गुण-संसर्ग-जाः। तेषाम् आत्म-धर्माणां वासनादीना जनका देहेन्द्रियान्तः-करण-विषय-गता धर्माः कार्यैक-निरूपणीयाः सत्त्वादयो गुणाः, सत्त्वादि-गुण-युक्त-देहाद्य्-अनुभव-जा इत्य् अर्थः। ततश् चेयं श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा। ताम् इमां श्रद्धां शृणु। सा श्रद्धा यत्-स्वभावा तं स्वभावं सृण्व् इत्य् अर्थः॥१७।२॥

Link copied

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत

Link copied

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः

Link copied

सत्त्वम् अन्तः-करणम्, सर्वस्य पुरुषस्यान्तः-करणानुरूपा श्रद्धा भवति। अन्तः-करणं यादृश-गुण-युक्तम्, तद्-विषया श्रद्धा जायते इत्य् अर्थः। सत्त्व-शब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः। श्रद्धा-मयोऽयं पुरुषः, श्रद्धा-मयः श्रद्धा-परिणामः। यो यच्-छ्रद्धः। यः पुरुषो यादृश्या श्रद्धया युक्तः। स एव सः। स तादृश-श्रद्धा-परिणामः। पुण्य-कर्म-विषये श्रद्धा-युक्तश् चेत् पुण्य-कर्म-फल-संयुक्तो भवतीति श्रद्धा-प्रधानः फल-संयोग इत्य् उक्तं भवतीति॥१७।३॥

Link copied

तद् एव विवृणोति---

Link copied

यजन्ते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः

Link copied

प्रेतान् भूत-गणांश् चान्ये यजन्ते तामसा जनाः

Link copied

सत्त्व-गुण-प्रचुराः सात्त्विक्या श्रद्धया युक्ता देवान् यजन्ते। दुःखासम्भिन्नोत्कृष्ट-सुख-हेतु-भूत-देव-याग-विषया श्रद्धा सात्त्विकी इत्य् उक्तं भवति। राजसा जना यक्ष-रक्षांसि यजन्ति। अन्ये तामसा जनाः प्रेतान् भूत-गणान् यजन्ते। दुःख-सम्भिन्नाल्प-सुख-जननी राजसी श्रद्धा, दुःख-प्रायात्यल्प-सुख-जननी तामसीत्य् अर्थः॥१७।४॥

Link copied

एवं शास्त्रीयेष्व् एव यागादिषु श्रद्धा-युक्तेषु गुणतः फल-विशेषः। अशास्त्रीयेषु दान-तपो-याग-प्रभृतिषु मद्-अनुशासन-विपरीतत्वेन न कश्चिद् अपि सुख-लवः। अपि त्व् अनर्थ एव इति हृदि निहितं व्यञ्जयन्न् आह---

Link copied

अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः

Link copied

दम्भाहङ्कार-संयुक्ताः काम-राग-बलान्विताः

Link copied

कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः

Link copied

मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान्

Link copied

अशास्त्र-विहितम् अति घोरम् अपि तपो ये जनास् तप्यन्ते प्रदर्शनार्थम् इदम् अशास्त्र-विहितं बह्व्-आयासं यागादिकं ये कुर्वते ते दम्भाहङ्कार-संयुक्ताः काम-राग-बलान्विताः शरीर-स्थं पृथिव्य्-आदि-भूत-समूहं कर्शयन्तो मद्-अंश-भूतं जीवं चान्तः-शरीर-स्थं कर्शयन्तो ये तप्यन्ते यागादिकं च कुर्वते, तान् आसुर-निश्चयान् विद्धि। असुराणां निश्चयः आसुरो निश्चयः, असुरा हि मद्-आज्ञा-विपरीत-कारिणः। मद्-आज्ञा-विपरीत-कारित्वात् तेषां सुख-लव-सम्बन्धो न विद्यते। अपि त्व् अनर्थ-व्राते पतन्तीति पूर्वम् एवोक्तम्। पतन्ति नरकेऽशुचौ [गीता १६।१६] इति॥१७।५-६॥

Link copied

अथ प्रकृतम् एव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति। तत्राप्य् आहार-मूलत्वात् सत्त्वादि-वृद्धेः, आहार-त्रैविध्यं प्रथमम् उच्यते। अन्न-मयं हि सोम्य मनः [छा।उ। ६।५।४] आहार-शुद्धौ सत्त्व-शुद्धिः [छा।उ। ७।२६।२] इति हि श्रूयते।

Link copied

आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः

Link copied

यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु

Link copied

आहारोऽपि सर्वस्य प्राणि-जातस्य सत्त्वादि-गुण-त्रयान्वयेन त्रिविधः प्रियो भवतितथा एव यज्ञोऽपि त्रिविधः, तथा तपो दानं च। तेषां भेदम् इमं सृणु। तेषाम् आहार-यज्ञ-तपो-दानानां सत्त्वादि-गुण-भेदेन इमम् उच्यमानं भेदं सृणु॥१७।७॥

Link copied

आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः

Link copied

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः

Link copied

सत्त्व-गुणोपेतस्य सत्त्व-मया आहाराः प्रिया भवन्ति। सत्त्व-मयाश् चाहारा आयुर्-विवर्धनाः पुनर् अपि सत्त्वस्य विवर्धनाः। सत्त्वम् अन्तः-करणम्, अन्तः-करण-कार्यं ज्ञानम् इह सत्त्व-शब्देन उच्यते। सत्त्वात् सञ्जायते ज्ञानम् [गीता १४।१७] इति सत्त्वस्य ज्ञान-विवृद्धि-हेतु-वचनात्। आहारोऽपि सत्त्व-मयो ज्ञान-विवृद्धि-हेतुः। तथा बलारोग्ययोर् अपि विवर्धनाः, सुख-प्रीत्योर् अपि विवर्धनाः। परिणाम-काले स्वयम् एव सुखस्य विवर्धनाः, तथा प्रीति-हेतु-भूत-कर्मारम्भ-द्वारेण प्रीति-वर्धनाः। रस्या मधुर-रसोपेताः, स्निग्धाः स्नेह-युक्ताः, स्थिराः स्थिर-परिणामाः, हृद्या रमणीय-वेषाः, एवं-विधाः सत्त्व-मया आहाराः, सात्त्विकस्य पुरुषस्य प्रियाः॥१७।८॥

Link copied

कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः

Link copied

आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः

Link copied

कटु-रसाः अम्ल-रसाः लवणोत्कटोऽत्युष्णाः अतितीक्ष्णाः रूक्षाः विदाहिनश् च इति कट्व्-अम्बल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः। अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास् तीक्ष्णाः, शोष-कराः रूक्षाः, ताप-करा विदाहिनः, एवं-विधा आहारा राजसस्येष्टः। ते च रजो-मयत्वाद् दुःख-शोकामयत्वाद् दुःख-शोकामय-वर्धना रजो-वर्धनाश् च॥१७।९॥

Link copied

यात-यामं गत-रसं पूति पर्युषितं च यत्

Link copied

उच्छिष्टम् अपि चामेध्यं भोजनं तामस-प्रियम्१०

Link copied

यात-यामं चिर-कालावस्थितम्, गत-रसं त्यक्त-स्वाभाविक-रसम्, पूति दुर्गन्धोपेतम्, पर्युषितं कालातिपत्त्या रसान्तरापन्नम्, उच्छिष्टं गुर्व्-आदिभ्योऽन्येषां भुक्त-शिष्टम्, अमेध्यम् अयज्ञार्हम्, अयज्ञ-शिष्टम् इत्य् अर्थः। एवं-विधं तमो-मयं भोजनं तामस-प्रियं भवति। भुज्यते इत्य् आहार एव भोजनम्, पुनश् च तमसो वर्धनम्। अतो हितैषिभिः सत्त्व-वृद्धये सात्त्विकाहार एव सेव्यः॥१७।१०॥

Link copied

अफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते

Link copied

यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः११

Link copied

फलाकाङ्क्षा-रहितैः पुरुषैः विधि-दृष्टः शास्त्र-दृष्टो मन्त्र-द्रव्य-क्रियादिभिर् युक्तः। यष्टव्यम् एवेति भगवद्-आराधनत्वेन स्वयं-प्रयोजनतया यष्टव्यम् इति मनः समाधाय यो यज्ञ इज्यते स सात्त्विकः॥१७।११॥

Link copied

अभिसन्धाय तु फलं दम्भार्थम् अपि चैव यत्

Link copied

इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम्१२

Link copied

फलाभिसन्धि-युक्तैर् दम्भ-गर्भो यशः-फलश् च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि॥१७।१२॥

Link copied

विधि-हीनम् असृष्टान्नं मन्त्र-हीनम् अदक्षिणम्

Link copied

श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते१३

Link copied

विधि-हीनं ब्राह्मणोक्त-विधि-हीनं सदाचार-युक्तैर् विधि-विद्भिर् ब्राह्मणैर् यज्ञस्य इत्य् उक्ति-हीनम् इत्य् अर्थः। असृष्टान्नम् अचोदित-द्रव्यम्। मन्त्र-हीनम् अदक्षिणं श्रद्धा-विरहितंयज्ञं तामसं परिचक्षते॥१७।१३॥

Link copied

अथ तपसो गुणतस् त्रैविध्यं वक्तुं तस्य शरीर-वाङ्-मनोभिः निष्पाद्यतया तत्-स्वरूप-भेदं तावद् आह---

Link copied

देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम्

Link copied

ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते१४

Link copied

देव-द्विज-गुरु-प्राज्ञानां पूजनम्शौचं तीर्थ-स्नानादिकम्। आर्जवं यथा वाङ्-मनः-शारीर-वृत्तम्। ब्रह्मचर्यं योषित्सु भोग्यता-बुद्धि-युक्तेक्षणादि-रहितत्वम्। अहिंसा अप्राणि-पीडा। एतत् शारीरं तप उच्यते॥१७।१४॥

Link copied

अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत्

Link copied

स्वाध्यायाभ्यसनं चैव वाङ्-मयं तप उच्यते१५

Link copied

परेषाम् अनुद्वेग-करं सत्यं प्रिय-हितं च यद् वाक्यं स्वाध्यायाभ्यसनं चेत्य् एतद् वाङ्-मयं तप उच्यते॥१७।१५॥

Link copied

मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः

Link copied

भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते१६

Link copied

मनः-प्रसादः मनसः क्रोधादि-रहितत्वम्। सौम्यत्वं मनसः परेषाम् अभ्युदय-प्रावण्यम्। मौनं मनसा वाक्-प्रवृत्ति-नियमनम्। आत्म-विनिग्रहः मनो-वृत्तेः ध्येय-विषयेऽवस्थापनम्। भाव-संशुद्धिर् आत्म-व्यतिरिक्त-विषय-चिन्ता-रहितत्वम्। एतत् मानसं तपः॥१७।१६॥

Link copied

श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः

Link copied

अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते१७

Link copied

अफलाकङ्क्षिभिः फलाकाङ्क्षा-रहितैः। युक्तैः परम-पुरुषाराधन-रूपम् इदम् इति चिन्ता-युक्तैर् नरैः परया श्रद्धया यत् त्रिविधं तपः काय-वाङ्-मनोभिस् तप्तं तत् सात्त्विकं परिचक्षते॥१७।१७॥

Link copied

सत्कार-मान-पूजार्थं तपो दम्भेन चैव यत्

Link copied

क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम्१८

Link copied

मनसादरः सत्कारः। वाचा प्रशंसा मानम्। शारीरो नमस्कारादिः पूजा। फलाभिसन्धि-पूर्वकं सत्काराद्य्-अर्थं च दम्भेन हेतुना यत् तपः क्रियते तद् इह राजसं प्रोक्तम्। स्वर्गादि-फलासाधनत्वेनास्थिरत्वाच् चलम् अध्रुवम्। चलत्वं पात-भयेन चलन-हेतुत्वम्। अध्रुवत्वं क्षयिष्णुत्वम्॥१७।१८॥

Link copied

मूढ-ग्राहेणात्मनो यत् पीडया क्रियते तपः

Link copied

परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम्१९

Link copied

मूढाः अविवेकिनः। मूढ-ग्राहेण मूढैः कृतेनाभिनिविशेन। आत्मनः शक्त्य्-आदिकम् अपरीक्ष्य आत्म-पीडाया यत् तपः क्रियते परस्योत्सादनार्थं च यत् तपः क्रियते, तत् तामसम् उदाहृतम्॥१७।१९॥

Link copied

दातव्यम् इति यद् दानं दीयतेऽनुपकारिणे

Link copied

देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम्२०

Link copied

फलाभिसन्धि-रहितं दातव्यम् इति देशे काले पात्रे चानुपकारिणे यद् दानं दीयते तद् दानं सात्त्विकं स्मृतम्॥१७।२०॥

Link copied

यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः

Link copied

दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम्२१

Link copied

प्रत्युपकार-कटक्ष-गर्भं फलम् उद्दिश्यपरिक्लिष्टम् अकल्याण-द्रव्यकं यद् दानं दीयते तद् राजसम् उदाहृतम्॥१७।२१॥

Link copied

अदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते

Link copied

असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम्२२

Link copied

अदेश-कालेऽपात्रेभ्यश् च यद् दानं दीयते, असत्कृतं पाद-प्रक्षालनादि-गौरव-रहितम्, अवज्ञातं सावज्ञम्, अनुपचार-युक्तं यद् दीयते तत् तामसम् उदाहृतम्॥१७।२२॥

Link copied

एवं वैदिकानां यज्ञ-तपो-दानानां सत्त्वादि-गुण-भेदेन भेद उक्तः। इदानीं तस्यैव वैदिकस्य यज्ञादेः प्रणव-संयोगेन तत्-सच्-छब्द-व्यपदेश्यतया च लक्षणम् उच्यते---

Link copied

ॐ तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः

Link copied

ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा२३

Link copied

ॐ तत् सत् इति त्रिविधोऽयं निर्देशः शब्दो ब्रह्मणः स्मृतः, ब्रह्मणोऽन्वयी भवति। ब्रह्म च वेदः। वेद-शब्देन वैदिकं कर्मोच्यते। वैदिकं यज्ञादिकम्। यज्ञादिकं कर्म ॐ तत् सद् इति शब्दान्वितं भवति। ओम् इति शब्दस्यान्वयो वैदिक-कर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया। तत् सद् इति शब्दयोर् अन्वयः पूज्यत्वाय वाचकतया। तेन त्रिविधेन शब्देनान्विता ब्राह्मणा वेदान्वयिनस् त्रैवर्णिका वेदाश् च यज्ञाश् च पुरा विहिताः। पुरा मयैव निर्मिता इत्य् अर्थः॥१७।२३॥

Link copied

त्रयाणाम् ॐ तत् सत् इति शब्दानाम् अन्वय-प्रकारो वर्ण्यते। प्रथमम् ओम् इति शब्दस्यान्वय-प्रकारम् आह---

Link copied

तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः

Link copied

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम्२४

Link copied

तस्माद् ब्रह्म-वादिनां वेद-वादिनां त्रैवर्णिकानां यज्ञ-दान-तपः-क्रिया विधानोक्ताः वेद-विधानोक्ताः आदौ ओम् इत्य् उदाहृत्य सततं सर्वदा प्रवर्तन्ते। वेदार्थश् च ओम् इत्य् उदाहृयारभ्यन्ते। एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणाम् ओम् इति शब्दान्वयो वर्णितः। ओम् इति शब्दान्वित-वेद-धारणात् तद्-अन्वित-यज्ञादि-कर्म-करणाच् च ब्राह्मण-शब्द-निर्दिष्टानां त्रैवर्णिकानाम् अप्य् ओम् इति शब्दान्वयो वर्णितः॥१७।२४॥

Link copied

अथैतेषां तद् इति शब्दान्वय-प्रकारम् आह---

Link copied

तद् इत्य् अनभिसन्धाय फलं यज्ञ-तपः-क्रियाः

Link copied

दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः२५

Link copied

फलम् अनभिसन्धाय वेदाध्ययन-यज्ञ-तपो-दान-क्रिया मोक्ष-काङ्क्षिभिस् त्रैवर्णिकैर् याः क्रियन्ते, ता ब्रह्म-प्राप्ति-साधनतया ब्रह्म-वाचिना तद् इति शब्द-निर्देश्याः। सवः कः किं यत् तत् पदम् अनुत्तमम् [म।भा। १३।१४९।९१; विष्णु-सहस्र-नाम ९३] इति तच्-छब्दो हि ब्रह्म-वाची प्रसिद्धः। एवं वेदाध्ययन-यज्ञादीनां मोक्ष-साधन-भूतानां तच्-छब्द-निर्देश्यतया तद् इति शब्दान्वय उक्तः। त्रैवर्णिकानाम् अपि तथा-विध-वेदाध्ययनाद्य्-अनुष्ठानाद् एव तच्-छब्दान्वय उपपन्नः॥१७।२५॥

Link copied

अथैषां सच्-छब्दान्वय-प्रकारं वक्तुं लोके सच्-छब्दस्य व्युत्पत्ति-प्रकारम् आह---

Link copied

सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते

Link copied

प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते२६

Link copied

सद्-भावे विद्यमानतायां साधु-भावे कल्याण-भावे सर्व-वस्तुषु सद् इत्य् एतत् पदं प्रयुज्यते लोक-वेदयोः। तथा केनचित् पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्-कर्मेदम् इति सच्-छब्दो युज्यते प्रयुज्यते इत्य् अर्थः॥१७।२६॥

Link copied

यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते

Link copied

कर्म चैव तद्-अर्थीयं सद् इत्य् एवाभिधीयते२७

Link copied

अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इत्य् उच्यतेकर्म च तद्-अर्थीयं त्रैवर्णिकार्थीयं यज्ञ-दानादिकं सद् इत्य् एवाभिधीयते। तस्माद् वेदा वैदिकानि कर्माणि ब्राह्मण-शब्द-निर्दिष्टास् त्रैवर्णिकाश् च ॐ तत् सद् इति शब्दान्वय-रूप-लक्षणेनावेदेभ्यश् चावैदिकेभ्यश् च व्यावृत्ता वेदितव्याः॥१७।२७॥

Link copied

अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत्

Link copied

असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह२८

Link copied

अश्रद्धया कृतं शास्त्रीयम् अपि होमादिकम् असद् इत्य् उच्यते। कुतः। न च तत् प्रेत्य नो इह, न मोक्षाय न सांसारिकाय च फलायेति॥१७।२८॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये सप्तदशोऽध्यायः॥१७॥

Link copied

English · simplified from Thibaut (1904)

Lecture 17 — The Threefold Division of Faith (in Sanskrit: sradhdha:-traya-vibha:ga-yoga)

A modern English rendering of A. Govindacharya's 1898 translation of Bhagavad Ramanuja's Gi:tha Bhashya.

Link copied

Introduction

By the treatment of the two classes of Divine and Non-divine natures, it was shown that knowledge concerning the goal of man and the means of reaching it rests solely on the Vedas (XVI.24). Now it will be shown: (1) that works performed in contravention of sa:sthra — being of a Non-divine nature — prove abortive; (2) that works performed in accordance with sa:sthra are, by reason of their motive, divisible into three kinds; and (3) what works are known to be in agreement with sa:sthra.

Link copied

Arjuna, forgetting the futility of works done against sa:sthra, asks how such works (ya:gas and the like), if performed in faith, differ in their fruits by the three qualities (gunas) — sattva and the rest.

Link copied

Verses 1–6 (The Threefold Faith and Acts Contrary to Sa:sthra)

Verse 17.1. "How is that sacrifice characterized, O Krishna, which is done by men in faith (sradhdha:), but incompatible with sa:sthra's canons?"

Link copied

What spiritual status consists in one renouncing sa:sthra's biddings but yet performing a sacrifice in full faith? Is it characterized as falling under sattva, rajas, or tamas?

Link copied

Thus questioned, bhagava:n, reserving the subject of the futility of anti-sa:sthra sacrifices, first expounds the threefold nature of even sa:sthra-conforming works.

Link copied

Verse 17.2. "Threefold is the faith of the embodied, according as it is begotten of sattva, rajas, or tamas. Hear it."

Link copied

Three-fold is the faith of all mankind; it conforms with the several dispositions of men. Tendencies carried forward from past incarnations beget corresponding tastes. For whatever the taste, faith is born. Faith is indicated by enthusiasm for a work lovingly undertaken with the belief in its success. Tendency, taste, and faith are powers of the soul, but are evoked when the soul contacts the gunas. The causes which provoke these soul-affections are the sattva, rajas, and tamas qualities in the body, senses, and mind. From the bodily experience comes threefold faith.

Link copied

Verse 17.3. "The faith of every one, O Bha:ratha, accords with his mind; one is saturated with faith; of what one is, he is that."

Link copied

Sattvam here = anthah-karana (the inner sense, the mind). As is the mind, so is the faith. Sraddha:maya: the man is the embodiment of faith itself. If a person is filled with faith for a meritorious work, he becomes entitled to meritorious fruit; faith of any kind leads to a fruit corresponding to that faith.

Link copied

Verse 17.4. "Those of sattva worship the devas; those of rajas, the yakshas and ra:kshasas; those of tamas worship the pretas and hosts of bhu:thas."

Link copied

Those in whom sattva reigns become united to sattva-faith and worship the devas. That faith is sa:ththvika which concerns itself with supreme bliss-fraught deva-sacrifices — bliss unmixed with pain. Those of rajas worship yakshas and ra:kshasas. Those of tamas worship pretas and hosts of bhu:thas. Rajas-faith gives birth to happiness mixed with pain; tamas-faith to little or no happiness, tantamount to pain.

Link copied

Thus fruits differ according to the qualities even in sa:sthra-sanctioned sacrifices. Now the Lord declares what he reserved before — that no happiness attends the performance of anti-sa:sthra penances and sacrifices, for they are opposed to His mandates.

Link copied

Verse 17.5. "Those men who practise severe austerities unprescribed by sa:sthra — wedded to pretence and selfness, to lust, longing, and ability;"

Link copied

Verse 17.6. "Those fools molest the group of elements imbedded in the body, and Me too planted therein. Know them to be of demon-nature."

Link copied

Tapas here implies sacrifices (ya:gas) and other works. Me too planted: Me, the soul, who is of My nature and dwells in the body. Men who perform anti-sa:sthra sacrifices and penances at great loss of energy — wedded to pretence, selfness, lust — and who torture the elements lodged in the body as well as the ji:va:thman in it, are to be considered asuras (demons) — Non-divine beings who act contrary to My commands. They do not derive even the smallest particle of happiness.

Link copied

Verses 7–10 (The Three Kinds of Food)

Resuming the subject of sa:sthra-bid yajnas and their natures varying with the gunas, it is said that the sattva and other qualities are themselves the effect of food eaten. The threefold nature of food is first described — the sruthi itself proclaiming: "O son, the mind is made up of food" (Cha:ndo:gya VI.5.4); "Food being pure, mind becomes pure" (Cha:ndo:gya VII.26.2).

Link copied

Verse 17.7. "To all beings, food also is threefold, and liked accordingly. So are sacrifice, austerity, and charity. Listen to their distinction."

Link copied

Verse 17.8. "Dear to sa:ththvika men is food promoting life, mind, strength, health, comfort, and relish — tasteful, oleaginous, substantial, and cordial."

Link copied

To those of sattva-quality, pure sattva-food is dear. It prolongs life, promotes the mind (its manifestation of intelligence), strength, and health; it gives comfort during assimilation and produces a relish for congenial works. Rasya:h (tasteful): savoury, sweet. Snigdha:h (oleaginous): mixed with clarified butter. Sthira:h (substantial): well assimilable. Hrudya:h (cordial): agreeable.

Link copied

Verse 17.9. "Dear to ra:jasa men is food — bitter, sour, saltish, over-hot, pungent, dry, and burning — productive of pain, grief, and illness."

Link copied

Such foods are liked by ra:jasa-full men. They promote pain, grief, ailments, and increase rajas.

Link copied

Verse 17.10. "Dear to tha:masa men is food which is stale, changed, stinking, putrid — refuse and foul."

Link copied

Ya:thaya:mam (stale): very old. Gata-rasam (changed): lost its natural taste. Pu:thi (stinking). Paryushitham (putrid): corrupted by long standing. Ucchishtam (refuse): leavings of others, except of gurus and holy persons. Amedhyam (foul): not consecrated at a yajna. Tamas-food breeds still more tamas. Hence those who care for themselves should serve themselves with sa:ththvika food.

Link copied

Verses 11–13 (The Three Kinds of Sacrifice)

Verse 17.11. "That law-sanctioned sacrifice is sa:ththvika which is done regardless of fruit, with the resolve 'this ought to be done.'"

Link copied

Vidhi-dhrishta (law-sanctioned). Yashtavyam: to be done as a duty — an end in itself, being worship to bhagava:n — completely in its three features of mantra, money, and labour.

Link copied

Verse 17.12. "But that yajna, know, O Bha:ratha-chief, is ra:jasa, which is performed with an aim for fruit and for display."

Link copied

Verse 17.13. "That yajna they say is tha:masa which is void of authority, devoid of earned food, devoid of mantra and money-gifts, and devoid of faith."

Link copied

Vidhi-hi:na (void of authority): lacking the verbal sanction of wise bra:hmanas. Asrishta:nnam: food not lawfully earned (or prohibited). Dravya: things required for a sacrifice. And unaccompanied by mantras, money-gifts, or faith.

Link copied

Verses 14–16 (The Three Kinds of Austerity)

Verse 17.14. "That is called bodily austerity which consists in the worship of the devas, the twice-born, the teachers, and wise men; in cleanliness, rectitude, chastity, and harmlessness."

Link copied

Reverence to the gods, bra:hmanas, gurus, and wise men. Saucam: cleanliness by ablutions in holy waters. A:rjavam: conduct in keeping with intent. Brahmacarya: chastity, absence of lustful looking at women. Ahimsa:: harmlessness.

Link copied

Verse 17.15. "That is called oral austerity which consists in inoffensive truthful speech, sweet and soft, and the reading of sacred writings."

Link copied

Priya (sweet) and hita (soft or comforting) language; recitations of Scripture (sva:dhya:ya).

Link copied

Verse 17.16. "That is called mental austerity which consists in good temper, benevolence, quietude, self-control, and purity of purpose."

Link copied

Manah-prasa:da (good temper): mind free of anger. Saumyatvam (benevolence): mind filled with love for others' happiness. Maunam (quietude): restraining speech by will. A:thma-vinigraha (self-control): keeping the mind engaged in holy objects of contemplation. Bha:va-samsudhdhi (purity of purpose): absence of thoughts wandering from the a:thman.

Link copied

Verse 17.17. "The threefold austerity done by men in fervid faith, exempt from hope of fruit, and devoutly, is called sa:ththvika."

Link copied

Not longing for fruit; devout (imbued with the thought that all is worship rendered to paramapurusha); united to ardent faith — austerity of the three kinds (bodily, oral, mental) is sa:ththvika.

Link copied

Verse 17.18. "That is called ra:jasa austerity which is practised for regard, praise, and worship, and for display — unstable and unenduring."

Link copied

Practised for sathka:ra (regard), ma:na (praise), pu:ja: (worship from others), and for parade. Since it results in transitory fruit like svarga, it is calam (unstable) — fraught with fear of falling — and adhruvam (not lasting).

Link copied

Verse 17.19. "That is declared tha:masa austerity which by the witless resolved is done to torture self or hurt others."

Link copied

Whatever austerity is done by foolish resolve, regardless of one's capacity, and to torture oneself or others, is tha:masa.

Link copied

Verses 20–22 (The Three Kinds of Gift)

Verse 17.20. "That is considered sa:ththvika gift which is given with the thought 'it ought to be given,' to one unable to return it, in proper place, time, and to a worthy recipient."

Link copied

Given as a duty, not in expectation of reward; to one who cannot return it; in due place, time, and to a proper recipient.

Link copied

Verse 17.21. "That is considered ra:jasa gift given with hope of return, or for fruit, or unwillingly."

Link copied

Or with inferior or damaged articles while retaining good ones — from which unwillingness is evident.

Link copied

Verse 17.22. "That is considered tha:masa gift given in wrong place, wrong time, to wrong recipients — without honour and without ceremony."

Link copied

In unholy places, wrong times (such as the dead of night), to unworthy persons; without respect such as washing the feet of the worthy; unceremoniously, with disdain.

Link copied

Verses 23–28 (OM, TAT, SAT)

So far the distinctions of Vedic yajna, tapas, and dha:na by gunas have been shown. Now how these same Vedic works become characterized when united with the pranava (OM) and qualified by the symbols TAT and SAT:

Link copied

Verse 17.23. "Brahman's denomination is declared as triple: OM, TAT, and SAT. With these, of old, were bra:hmanas, Vedas, and yajnas created."

Link copied

The triple formula OM TAT SAT is used with reference to brahman. Brahman here means Veda. Veda means Veda-ordained work; Veda-ordained work means yajna and the rest. OM is used as a necessary part of Vedic ritualistic equipment; TAT and SAT are terms of worship symbolically related to the cult. Bra:hmanas are those who have connection with these symbols — representing the three varnas (Bra:hmana, Kshathriya, Vaisya) eligible for Vedic observances. They and the Vedas and the yajnas were, of old, created by Myself.

Link copied

Verse 17.24. "With brahma-va:dins, therefore, all Veda-enjoined acts — sacrifice, gift, and austerity — always begin with the repetition of OM."

Link copied

Brahma-va:din = veda-va:din: one who follows the Vedas — or the three varnas. Vedas begin with OM; sacrifices etc. begin with OM.

Link copied

Verse 17.25. "With TAT are done the acts of yajna, tapas, and dha:na by moksha-aspirants wishing not for fruit."

Link copied

Whatever acts are done by moksha-aspiring persons of the three varnas — Veda-learning, yajna, tapas, dha:na — they are designated by TAT, since they are means to attain brahman. TAT signifies brahman (as per "Sa, Vah, Kah, Kim, yat, Tat denote the Most Supreme" — Vishnu-sahasrana:ma).

Link copied

Now the etymology of SAT, in common usage, is examined.

Link copied

Verse 17.26. "In the sense of existence and goodness, the word SAT is used. SAT is likewise used, O Pa:rtha, in relation to auspicious events."

Link copied

Sad-bha:ve:: in the sense of existence. Sa:dhu-bha:ve:: in the sense of goodness. Used similarly for any auspicious undertaking, calling it sat-karma.

Link copied

Verse 17.27. "To be implanted in yajna, tapas, and dha:na is called SAT; and all acts on that account are designated by SAT itself."

Link copied

Hence the settlement of the three Vedic varnas in yajna, tapas, and dha:na is called SAT (good), since it is auspicious. These acts, performed for the sake of the three varnas, are themselves called SAT.

Link copied

Thus the relation of the symbols OM, TAT, SAT to (1) Vedas, (2) Vedic works, and (3) the three varnas implied by the word bra:hmana is shown — denoting how these differ from what is non-Vedic.

Link copied

Verse 17.28. "What is given without faith, what tapas is done, and what yajna is done without faith — is called A-SAT, O Pa:rtha, and is neither for here nor for hereafter."

Link copied

Even if according to sa:sthra-ordinance, but without faith, homa and the rest done is called A-SAT — neither for any fruit in this world nor for any fruit in the shape of moksha.

Link copied

Om tat sat.

Link copied

Thus closes the seventeenth discourse, named Sradhdha:-Traya-Vibha:ga-Yo:ga, or the Book of the Threefold Division of Faith, with Sri: Ramanuja's commentary thereon, between Sri: Krishna and Sri: Arjuna, in the science of yoga, in the theosophy of the Upanishadhs.

Link copied
Join our community