Skip to content

Sri Bhashya · Section 3 of 5

dvithi:ya:dhya:ye:

Original Sanskrit · click to toggle

प्रथमः पादः

स्मृत्य्-अधिकरणम्॥१॥

Link copied

**१३९ स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेन् नान्य-स्मृत्य्-अनवकाश-दोष-प्रसङ्गात्॥२।१।१॥ **

Link copied

प्रथमेऽध्याये प्रत्यक्षादि-प्रमाण-गोचराद् अचेतनात् तत्-संसृष्टात् तद्-वियुक्ताच् च चेतनाद् अर्थान्तर-भूतं निरस्त-निखिलाविद्याद्य्-अपुरुषार्थ-गन्धम् अनन्त-ज्ञानानन्दैकतानम् अपरिमितोदार-गुण-सागरं निखिल-जगद्-एक-कारणं सर्वान्तरात्म-भूतं परं ब्रह्म वेदान्त-वेद्यम् इत्य् उक्तम्। अनन्तरम् अस्यार्थस्य सम्भावनीय-समस्त-प्रकार-दुर्धर्षणत्व-प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते॥ 

Link copied

प्रथमं तावत् कपिल-स्मृति-विरोधाद् वेदान्तानाम् अतत्-परत्वम् आशङ्क्य तन् निराक्रियते। कथं स्मृति-विरोधाच् छ्रुतेर् अन्य-परत्वम्। उक्तं हि--- विरोधे त्व् अनपेक्षं स्यात्, इति श्रुति-विरुद्धायाः स्मृतेर् अनादरणीयत्वम्। सत्यम्। औदुम्बरीं स्पृष्ट्वोद्गायेत्, इत्य् आदिषु स्वत एवार्थ-निश्चय-सम्भवात् तद्-विरुद्धा स्मृतिर् अनादरणीयैव। इह तु वेदान्त-वेद्य-तत्त्वस्य दुरवबोधत्वेन परमर्षिप्रणीत-स्मृति-विरोधे सत्य् अयम् अर्थ इति निश्चयायोगात् स्मृत्या श्रुतेर् अतत्-परत्वोपपादनम् अविरुद्धम्। 

Link copied

एतद् उक्तं भवति--- प्राचीन-भागोदित-निखिलाभ्युदय-साधन-भूताग्निहोत्र-दर्शपूर्णमास-ज्योतिष्टोमादि-कर्माणि यथावद् अभ्युपगच्छता श्रुति-स्मृतीतिहास-पुराणेषु, ऋषिं प्रसूतं कपिलम् इत्य् आदि वाक्यैर् आप्तत्वेन सङ्कीर्तितेन परमर्षिणा कपिलेन परम-निःश्रेयस-तत्-साधनावबोधित्वेनोपनिबद्ध-स्मृत्य्-उपबृंहणेन विना अल्प-श्रुतैर् मन्द-मतिभिर् वेदान्तार्थ-निश्चयायोगाद् यथाश्रुतार्थ-ग्रहणे चाप्त-प्रणीतायाः साङ्ख्य-स्मृतेः सकलाया एवानवकाश-प्रसङ्गाच् च स्मृति-प्रसिद्ध एवार्थो वेदान्त-वेद्य इति बलाद् अभ्युपगमनीयम् इति। न च वाच्यं मन्व्-आदि-स्मृतीनां ब्रह्मैक-कारणत्व-वादिनीनाम् एवं सत्य् अनवकाशत्व-दोष-प्रसङ्ग इति; धर्म-प्रतिपादन-पर-प्राचीन-भागोबृंहण एव सावकाशत्वात्। अस्यास् तु कृत्स्नायास् तत्त्व-प्रतिपादन-परत्वात् तथानभ्युपगमे निरवकाशत्वम् एव स्यात्। तद् इदम् आशङ्कते स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेद् इति॥ 

Link copied

तत्रोत्तरं--- नान्य-स्मृत्य्-अनवकाश-दोष-प्रसङ्गाद् इति। अन्या हि मन्व्-आदि-स्मृतयो ब्रह्मैक-कारणतां वदन्ति। यथाह मनुः--- आसीद् इदं तमो-भूतम् इत्य् आरभ्य, ततः स्वयम्भूर् भगवान् अव्यक्तो व्यञ्जयन्न् इदम्। महाभूतादि-वृत्तौजाः प्रादुर् आसीत् तमोऽनुदः॥ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यम् अप्रासृजत्, इति। भगवद्-गीतासु च--- अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा, अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति च। महाभारते--- कुतः सृष्टम् इदं सर्वं जगत् स्थावर-जङ्गमम्। प्रलये च कम् अभ्येति तन् मे ब्रूहि पितामह, इति पृष्ट आह--- नारायणो जगन्-मूर्तिर् अनन्तात्मा सनातनः, इति। तथा--- तस्माद् अव्यक्तम् उत्पन्नं त्रि-गुणं द्विजसत्तम, इति, अव्यक्तं पुरुषे ब्रह्मन् निष्क्रिये सम्प्रलीयते इति च। आह च भगवान् पराशरः--- विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम्। स्थिति-संयम् अकर्तासौ जगतोऽस्य जगच् च सः, इति। आह चापस्तम्बः--- पूः प्राणिनः सर्व एव गुहाशयस्य अहन्यमानस्य विकल्मषस्य, इत्य् आरभ्य, तस्मात् कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः, इति। यदि कपिल-स्मृत्या वेदान्त-वाक्यार्थ-व्यवस्था स्यात्, तदैतासां सर्वासां स्मृतीनाम् अनवकाशत्व-रूपो महान् दोषः प्रसज्येत। 

Link copied

अयम् अर्थः--- यद्य् अपि वेदान्त-वाक्यानाम् अतिक्रान्त-प्रत्यक्षादि-सकलेतर-प्रमाण-सम्भावना-भूमि-भूतार्थ-प्रतिपादन-परत्वात् तद्-अर्थ-वैशद्यायाल्प-श्रुतानां प्रतिपतॄणां तद्-उपबृंहणम् अपेक्षितम्। तथापि तद्-अर्थानुसारिणीनाम् आप्ततम-प्रणीतानां बह्वीनां स्मृतीनां तद्-उपबृंहणाय प्रवृत्तानाम् अनवकाशत्वं मा प्रसाङ्क्षीद् इति श्रुति-विरुद्धार्था कपिल-स्मृतिर् उपेक्षणीया। उपबृंहणं च श्रुति-प्रतिपन्नार्थ-विशदीकरणम्; तच् च विरुद्धार्थया स्मृत्या न शक्यते कर्तुम्। न चैतासां स्मृतीनां प्राचीन-भागोदित-धर्मांश-विशदीकरणेन सावकाशत्वम्; परब्रह्म-भूत-परम-पुरुषाराधनत्वेन धर्मान् विदधतीनाम् एतासाम् आराध्य-भूत-परम-पुरुष-प्रतिपादनाभावे सति तद्-आराधन-भूत-धर्म-प्रतिपादनासम्भवात्। तथा हि परम-पुरुषाराधन-रूपता सर्वेषां कर्मणां स्मर्यते--- यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम्। स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः॥ ध्यायेन् नारायणं देवं स्नानादिषु च कर्मसु। ब्रह्म-लोकम् अवाप्नोति न चेहावर्तते पुनः॥ यैः स्व-कर्म-परैर् नाथ नरैर् आराधितो भवान्। ते तरन्त्य् अखिलाम् एतां मायाम् आत्म-विमुक्तये, इति। न चैहिकामुष्मिक-सांसारिक-फल-साधन-कर्म-प्रतिपादनेनैतासां सावकाशत्वम्। यतस् तेषाम् अपि कर्मणां परं पुरुषाराधनत्वम् एव स्वरूपम्; यथोक्तं--- येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः। तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम्। अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च। न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते, इति। 

Link copied

तथा--- यज्ञैस् त्वम् इज्यसे नित्यं सर्व-देव-मयाच्युत। हव्यकव्य-भुग् एकस् त्वं पितृ-देव-स्वरूप-धृक्, इति। यद् उक्तम् ऋषिं प्रसूतं कपिलम् इति कपिलस्याप्ततया सङ्कीर्तनात् तत्-स्मृत्य्-अनुसारेण वेदान्तार्थ व्यवस्थापनं न्याय्यम् इति; तद् असत्, बृहस्पतेः श्रुति-स्मृतिषु सर्वेषाम् अतिशयित-ज्ञानानां निदर्शनत्वेन सङ्कीर्तनात् तत्-प्रणीतेन लोकायतेन श्रुत्य्-अर्थ-व्यवस्थापन-प्रसक्तेर् इति॥१॥ 

Link copied

अथ स्यात्, कपिलस्य स्व-योग-महिम्ना वस्तु-याथात्म्योपलब्धेस् तत्-स्मृत्य्-अनुसारेण वेदान्तार्थो व्यवस्थापयितव्य इति; अत उत्तरं पठति---

Link copied

**१४० इतरेषां चानुपलब्धेः॥२।१।२॥ **

Link copied

च-शब्दस् तु-शब्दार्थश् चोदिताशङ्का-निवृत्त्य्-अर्थः। इतरेषां--- मन्व्-आदीनां बहूनां स्व-योग-महिम साक्षात्कृत-परावर-तत्त्व-याथात्म्यानां निखिल-जगद्-भेषज-भूत-स्व-वाक्यतया, यद् वै किं च मनुर् अवदत् तद् भेषजम् इति श्रुति-प्रसिद्धानां कपिल-दृष्ट-प्रकारेण तत्त्वानुपलब्धेः श्रुति-विरुद्धा कपिलोपलब्धिर् भ्रान्ति-मूलेति न तया यथोक्तो वेदान्तार्थश् चालयितुं शक्य इति सिद्धम्॥२॥ 

Link copied

इति स्मृत्य्-अधिकरणम्॥१॥ 

Link copied

अथ योग-प्रत्युक्त्य्-अधिकरणम्॥२॥

Link copied

**१४१ एतेन योगः प्रत्युक्तः॥२।१।३॥ **

Link copied

एतेन--- कापिल-स्मृति-निराकरणेन, योग-स्मृतिर् अपि प्रत्युक्ता। का पुनर् अत्राधिकाशङ्का यन्-निराकरणाय न्यायातिदेशः। योग-स्मृताव् अपीश्वराभ्युपगमान् मोक्ष-साधनतया वेदान्त-विहित-योगस्य चाभिधानाद् वक्तुर् हिरण्यगर्भस्य सर्व-वेदान्त-प्रवर्तनाधिकृतत्वाच् च तत्-स्मृत्या वेदान्तोपबृंहणं न्याय्यम् इति। परिहारस् तु--- अब्रह्मात्मक-प्रधान-कारण-वादान् निमित्त-कारण-मात्रेश्वराभ्युपगमाद् ध्यानात्मकस्य योगस्य ध्येयैक-निरूपणीयस्य ध्येय-भूतयोर् आत्मेश्वरयोर् ब्रह्मात्मकत्व-जगद्-उपादानतादि-सर्व-कल्याण-गुणात्मकत्व-विरहेणावैदिकत्वाद् वक्तुर् हिरण्यगर्भस्यापि क्षेत्रज्ञ-भूतस्य कदाचिद् रजस्-तमोभिभव-सम्भवाच् च योग-स्मृतिर् अपि तत्-प्रणीत-रजस्-तमो-मूल-पुराणवद् भ्रान्ति-मूलेति न तया वेदान्तोपबृंहणं न्याय्यम् इति॥३॥ इति योग-प्रत्युक्त्य्-अधिकरणम्॥२॥

Link copied

अथ विलक्षणत्वाधिकरणम्॥३॥

Link copied

**१४२ न विलक्षणत्वाद् अस्य तथात्वं च शब्दात्॥२।१।४॥ **

Link copied

पुनर् अपि स्मृति-विरोध-वादी तर्कम् अवलम्बमानः प्रत्यवतिष्ठते--- यत् साङ्ख्य-स्मृति-निराकरणेन जगतो ब्रह्म-कार्यत्वम् उक्तं तन् नोपपद्यते; अस्य प्रत्यक्षादिभिर् अचेतनत्वेनाशुद्धत्वेनानीश्वरत्वेन दुःखात्मकत्वेन चोपलभ्यमानस्य चिद्-अचिद्-आत्मकस्य जगतः भवद् अभ्युपेतात् सर्वज्ञात् सर्वेश्वराद् धेय-प्रत्यनीकाद् आनन्दैकतानाद् ब्रह्मणो विलक्षणत्वात्। न केवलं प्रत्यक्षादिभिर् एव जगतो वैलक्षण्यम् उपलभ्यते; शब्दाच् च तथात्वं--- विलक्षणत्वम्, उपलभ्यते--- विज्ञानं चाविज्ञानं च, एवम् एवैता भूत-मात्राः प्रज्ञा-मात्रास्व् अर्पिताः प्रज्ञा-मात्राः प्राणेऽर्पिताः, समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः, अनीशश् चात्मा बध्यते भोक्तृ-भावात्, इत्य् आदिभिः कायस्य हि जगतोऽचेतनत्व-दुःखित्वादयो निर्दिश्यन्ते। यद् धि यत् कार्यम्, तत् तस्माद् अविलक्षणम्, यथा मृत्-सुवर्णादि-कार्यं घट-रुचकादि। अतो ब्रह्म-विलक्षणस्यास्य जगतस् तत्-कार्यत्वं न सम्भवतीति साङ्ख्य-स्मृत्य्-अनुरोधेन कार्य-सलक्षणं प्रधानम् एव कारणं भवितुम् अर्हति। अवश्यं च शास्त्रस्यानन्यापेक्षस्यातीन्द्रियार्थ-गोचरत्वेऽपि तर्कोऽनुसरणीयः; यतः सर्वेषां प्रमाणानां क्वचित् क्वचिद् विषये तर्कानुगृहीतानाम् एवार्थ-निश्चय-हेतुत्वम्। तर्को हि नाम--- अर्थ-स्वभाव-विषयेण वा सामग्री-विषयेण वा निरूपणेनार्थ-विशेषे प्रमाणं व्यवस्थापयत् तद् इतिकर्तव्यता-रूपम् ऊहा-पर-पर्यायं ज्ञानम्। तद्-अपेक्षा च सर्वेषां प्रमाणानां समाना। शास्त्रस्य तु विशेषेणाकाङ्क्षा-सन्निधि-योग्यता-ज्ञानाधीन-प्रमाण-भावस्य सर्वत्रैव तर्कानुग्राहापेक्षा। उक्तं च मनुना--- यस् तर्केणानुसन्धत्ते स धर्मं वेद नेतरः इति। तद् एव हि तर्कानुगृहीत-शास्त्रार्थ-प्रतिष्ठापनं श्रुत्या च, मन्तव्यः, इत्य् उच्यते। 

Link copied

अथोच्येत--- श्रुत्या जगतो ब्रह्मैक-कारणत्वे निश्चिते सति तत्-कार्यस्यापि जगतश् चैतन्यानुवृत्तिर् अभ्युपगम्यते। यथा चेतनस्य सुषुप्ति-मूर्छादिषु चैतन्यानुपलम्भः; तथा घटादिष्व् अपि सद् एव चैतन्यम् अनुद्भूतम्; अत एव चेतनाचेतन-विभागः, इति। नैतद् उपपद्यते, यतो नित्यानुपलब्धिर् असद्-भावम् एव साधयति। अत एव चैतन्य-शक्ति-योगोऽपि तेषु निरस्तः। यस्य हि क्वचित् कदाचिद् अपि यत्-कार्यानुपलब्धिः, तस्य तत्-कार्य-शक्तिं ब्रुवाणो वन्ध्या-सुत-समितिषु तज्-जननीनां प्रजनन-शक्तिं ब्रूताम्। किं च वेदान्तैर् जगतो ब्रह्मोपादानता-प्रतिपादन-निश्चये सति घटादीनां चैतन्य-शक्तेश् चैतन्यस्य वानुद्भूतस्य सद्-भाव-निश्चयः, तन्-निश्चये सति वेदान्तैर् जगतो ब्रह्मोपादानता-प्रतिपादन-निश्चय इतीतरेतराश्रयत्वम्। 

Link copied

विलक्षणयोर् हि कार्य-कारण-भावः प्रतिपादयितुम् एव न शक्यते। किं पुनः प्रकृति-विकारयोः सा लक्षण्यम् अभिप्रेतम्, यद्-अभावाज् जगतो ब्रह्मोपादानता-प्रतिपादनासम्भवं ब्रूषे। न तावत् सर्व-धर्म-सारूप्यम्, कार्य-कारण-भावानुपपत्तेः। न हि मृत्-पिण्ड-कार्येषु घट-शरावादिषु पिण्डत्वाद्य्-अनुवृत्तिर् दृश्यते। अथ येन केनचिद् धर्मेण सारूप्यम्, तज् जगद्-ब्रह्मणोरपि सत्तादि-लक्षणं सम्भवति। तद् उच्यते--- येन स्वभावेन कारण-भूतं वस्तु वस्त्व्-अन्तराद् व्यावृत्तम्, तस्य स्वभावस्य तत्-कार्येऽप्य् अनुवृत्तिः कार्यस्य कारण-सालक्षण्यम्। येन ह्य् आकारेण मृद्-आदिभ्यो हिरण्यं व्यावर्तते, तद्-आकारानुवृत्तिस् तत्-कार्येषु कुण्डलादिषु दृश्यते। ब्रह्म च हेय-प्रत्यनीक-ज्ञानानन्दैश्वर्य-स्वभावम्, जगच् च तत्-प्रत्यनीक-स्वभावम् इति न तद्-उपादानम्। ननु च वैलक्षण्येऽपि कार्य-कारण-भावो दृश्यते, यथा चेतनात् पुरुषाद् अचेतनानि केश-नख-दन्त-लोमानि जायन्ते; यथा चाचेतनाद् गोमयाच् चेतनो वृश्चिको जायते; चेतनाच् चोर्ण-नाभेर् अचेतनस् तन्तुः। नैतद् एवम्, यतस् तत्राप्य् अचेतनांश एव कार्य-कारणभावः॥४॥ 

Link copied

अथ स्यात्--- अचेतनत्वेनाभिमतानाम् अपि चैतन्य-योगः श्रुतिषु श्राव्यते--- तं पृथिव्य् अब्रवीत्, आपो वा अकामयन्त, ते हेमे प्राणा अहं श्रेयसे विवदमाना ब्रह्माणं जग्मुः, इति। नदी-समुद्र-पर्वतादीनाम् अपि चेतनत्वं पौराणिका आतिष्ठन्ते। अतो न वैलक्षण्यम् इति। अत उत्तरं पठति---

Link copied

**१४३ अभिमानि-व्यपदेशस् तु विशेषानुगतिभ्याम्॥२।१।५॥ **

Link copied

तु-शब्दश् चोदिताशङ्का-निवृत्त्य्-अर्थः पृथिव्य्-आद्यभिमानिन्यो देवताः, तं पृथिव्य् अब्रवीद् इत्य् अदिशु पृथिव्य्-आदि-शब्दैर् व्यपदिश्यन्ते। कुतः। विशेषानुगतिभ्याम्। विशेषः--- विशेषणम्, देवता-शब्देन विशेष्य प्रिथिव्य्-आदयोऽभिधीयन्ते; हन्ताहम् इमास् तिस्रो देवताः, इति तेजो-ऽब्-अन्नानि देवता-शब्देन विशेष्यन्ते; सर्वा ह वै देवता अहं श्रेयसे विवदमानाः, ते देवाः प्राणे निःश्रेयसं विदित्वा, इति च। अनुगतिः--- अनुप्रवेशः; अग्निर् वाग् भूत्वा मुखं प्राविशत, आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत्, वायुः प्रणो भूत्व नासिके प्राविशत्, इत्य् आदिना वाग्-आद्य्-अभिमानित्वेनाग्न्य्-आदीनाम् अनुप्रवेशः श्रूयते। अतो जगतोऽचेतनत्वेन विलक्षणत्वाद् ब्रह्म-कार्यत्वानुपपत्तेस् तर्कानुगृहीत-स्मृत्य्-अनुरोधेन जगतः प्रधानोपादानत्वं वेदान्तैः प्रतिपाद्यते॥५॥ 

Link copied

इति प्राप्तेऽभिधीयते---

Link copied

**१४४ दृश्यते तु॥२।१।६॥ **

Link copied

तु-शब्दात् पक्षो विपरिवर्तते; यद् उक्तं जगतो ब्रह्म-विलक्षणत्वेन ब्रह्मोपादानत्वं न सम्भवतीति; तद् अयुक्तम्, विलक्षणयोर् अपि कार्य-कारण-भाव-दर्शनात्। दृश्यते हि माक्षिकादेर् विलक्षणस्य क्रिम्य्-आदेस् तस्माद् उत्पत्तिः। ननूक्तम् अचेतनांश एव कार्य-कारण-भावात् तत्र सालक्षण्यम्। सत्यम् उक्तम्; न तावता कार्य-कारणयोर् भवद्-अभिमत-सालक्षण्य-सिद्धिः। यथा कथञ्चित् सालक्षण्ये सर्वस्य सर्व-सालक्षण्येन सर्वस्मात् सर्वोत्पत्ति-प्रसङ्ग-भयाद् वस्तुनो वस्त्व्-अन्तराद् व्यावृत्ति-हेतु-भूतस्याकारस्यानुवृत्तिस् सालक्षण्यं भवताभ्युपेतम्। स तु नियमो माक्षिकादिभ्यः क्रिम्य्-आद्य्-उत्पत्तौ न दृश्यत इति ब्रह्म-विलक्षणस्यापि जगतो ब्रह्म-कार्यत्वं नानुपपन्नम्। न हि मृद्-धिरण्य-घट-मकुटादिष्व् इव वस्त्व्-अन्तर-व्यावृत्ति-हेतु-भूतासाधारणाकारानुवृत्तिर् माक्षिक-गोमय-क्रिमि-वृश्चिकादिषु दृश्यते॥६॥ 

Link copied

१४५ असद् इति चेन् न, प्रतिषेध-मात्रत्वात्॥२।१।७॥

Link copied

यदि कार्य-भूताज् जगतः कारण-भूतं ब्रह्म विलक्षणम्, तर्हि कार्य-कारणयोर् द्रव्यान्तरत्वेन कारणे परस्मिन् ब्रह्मणि कार्यं जगन् न विद्यत इत्य् असत एव जगत उत्पत्तिः प्रसज्यत इति चेत्; नैतद् एवम्, कार्य-कारणयोः सालक्षण्य-नियम-प्रतिषेध-मात्रम् एव हि पूर्व-सूत्रेऽभिप्रेतम्, न तु कारणात् कार्यस्य द्रव्यान्तरत्वम्। कारण-भूतं ब्रह्मैव स्वस्माद् विलक्षण-जगद्-आकारेण परिणमत इत्य् एतत् तु न परित्यक्तम्। क्रिमि-माक्षिकयोर् अपि हि सति च वैलक्षण्ये कुण्डल-हिरण्ययोर् इव द्रव्यैक्यम् अस्त्य् एव॥७॥ 

Link copied

अत्र चोदयति---

Link copied

**१४६ अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम्॥२।१।८॥ **

Link copied

अपीताव् इत्य् अपीति-पूर्वक-सृष्ट्य्-आदेः प्रदर्शनार्थम्, सद् एव सोम्येदम् अग्र आसीत्, आत्मा वा इदम् एक एवाग्र आसीत्, इत्य् आदिष्व् अप्य् अयावस्थोपदेश-पूर्वकत्व-दर्शनात् सृष्टय्-आदेः। यदि कार्य-कारणयोर् द्रव्यैक्यम् अभ्युपेतम्, तदा कार्यस्य जगतो ब्रह्मण्य् अप्यय-सृष्ट्य्-आदिषु सत्सु ब्रह्मण एव तत्-तद्-अवस्थान्वय इति कार्य-गताः सर्व एवापुरुषार्थाः ब्रह्मणि प्रसज्येरन्, सुवर्ण इव कुण्डल-गता विशेषाः। ततश् च वेदान्त-वाक्यं सर्वम् असमञ्जसं स्यात्, यः सर्व-ज्ञः सर्व-वित्, अपहत-पाप्मा विजरो विमृत्युः, न तस्य कार्यं करणं च विद्यते न तत्-समश् चाभ्यधिकश् च दृश्यते, तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति, अनीशश् चात्मा बध्यते भोक्तृ-भावात्, अनीशया शोचति मुह्यमानः, इत्य् एकस्मिन्न् एव वस्तुन्य् एषां परस्पर-विरुद्धानां प्रसक्तेः। 

Link copied

अथोच्येत--- चिद्-अचिद्-वस्तु-शरीरकस्य परस्यैव ब्रह्मणः कार्य-कारण-भावाच् छरीर-भूत-चिद्-अचिद्-वस्तु-गतत्वाच् च दोषाणाम्, न शरीरिणि ब्रह्मणि कार्यावस्थे कारणावस्थे च प्रसङ्ग इति। तद् अयुक्तम्, जगद्-ब्रह्मणोः शरीर-शरीरि-भावस्यैवासम्भवात्; सम्भवे च ब्रह्मणि शरीर-सम्बन्ध-निबन्धन-दोषाणाम् अनिवार्यत्वात्। न हि चिद्-अचिद्-वस्तुनोर् ब्रह्मणः शरीरत्वं सम्भवति। शरीरं हि नाम कर्म-फल-रूप-सुख-दुःख-भोग-साधन-भूतेन्द्रियाश्रयः पञ्च-वृत्ति-प्राणाधीन-धारणः पृथ्व्य्-आदि-भूत-सङ्घात-विशेषः; तथाविधस्यैव लोक-वेदयोः शरीरत्व-प्रसिद्धेः। परमात्मनश् च--- अपहत-पाप्मा विजरः, अनश्नन्न् अन्यो अभिचाकशीति, अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स श्रृणोत्य् अकर्णः, अप्राणो ह्य् अमनाः, इत्य् आदिभिः कर्म-तत्-फल-भोगयोर् अभावाद् इन्द्रियाधीन-भोगत्वाभावात् प्राणवत्त्वाभावाच् च न तं प्रति चेतनाचेतनयोः शरीरत्वम्। न चाचेतन-व्यष्टि-रूप-तृण-काष्ठादीनां समष्टि-रूपस्य भूत-सूक्ष्मस्य चेन्द्रियाश्रयत्वादि सम्भवति। भूत-सूक्ष्मस्य पृथिव्य्-आदि-सङ्घातत्वं च न विद्यते। चेतनस्य तु ज्ञानैकाकारस्य सर्वम् एतन् न सम्भवतीति नतरां शरीरत्व-सम्भवः। न च भोगायतनत्वं शरीरत्वम् इति शरीरत्व-सम्भवः; भोगायतनेषु वेश्मादिषु शरीरत्वाप्रसिद्धेः। यत्र वर्तमानस्यैव सुख-दुःखोपभोगः, तद् एव भोगायतनम् इति चेन् न; पर-काय-प्रवेश-जन्म-सुख-दुःखोपभोगायतनस्य पर-कायस्य प्रविष्ट-शरीरत्वाप्रसिद्धेः। ईश्वरस्य तु स्वतः सिद्ध-नित्य-निरतिशयानन्दस्य भोगं प्रति चिद्-अचितोर् आयतनत्व-नियमो न सम्भवति। 

Link copied

एतेन भोग-साधन-मात्रस्य शरीरत्वं प्रत्युक्तम्। अथ मतम्, यद् इच्छाधीन-स्वरूप-स्थिति-प्रवृत्ति यत् तत् तस्य शरीरम् इति, सर्वस्येश्वरेच्छाधीन-स्वरूप-स्थिति-प्रवृत्तित्वेनेश्वर-शरीरत्वं सम्भवतीति; तद् अपि न साधीयः, शरीरतया प्रसिद्धेषु तत्-तच्-चेतनेच्छायत्त-स्वरूपत्वाभावात्, रुग्ण-शरीरस्य तद्-इच्छाधीन-प्रवृत्तित्वाभावात्, मृत-शरीरस्य तद्-आयत्त-स्थितित्वाभावाच् च, साल-भञ्जिकादिषु चेतनेच्छाधीन-स्वरूप-स्थिति-प्रवृत्तिषु तच्-छरीरत्वाप्रसिद्धेश् च। चेतनस्य नित्यस्येश्वरेच्छायत्त-स्वरूपत्वाभावाच् च, न तच्-छरीरत्व-सम्भवः। न च यद् यद् एक-नियाम्यम्, यद् एक-धार्यम्, यस्यैव शेष-भूतम्, तत् तस्य शरीरम् इति वाच्यम्; क्रियादिषु व्यभिचारात्। अशरीरं शरीरेषु, अपाणि-पादो जवनो ग्रहीता, इत्य् आदिभिश् चेश्वरस्य शरीराभावः प्रतिपाद्यते। अतो जगद्-ब्रह्मणोः शरीर-शरीरिभावस्यासम्भवात् तत्-सम्भवे च ब्रह्मणि दोष-प्रसङ्गाद् ब्रह्म-कारण-वादे वेदान्त-वाक्यानाम् असामञ्जस्यम् इति॥८॥ 

Link copied

अत्रोत्तरम्---

Link copied

**१४७ न तु दृष्टान्त-भावात्॥२।१।९॥ **

Link copied

नैवम् असामञ्जस्यम्, एकस्यैवावस्था-द्वयान्वयेऽपि गुण-दोष-व्यवस्थितेर् दृष्टान्तस्य विद्यमानत्वात्। तु-शब्दोऽत्र हेय-सम्बन्ध-गन्धस्यासम्भावनीयतां द्योतयति। एतद् उक्तं भवति--- चिद्-अचिद्-वस्तु-शरीरतया तदात्म-भूतस्य परस्य ब्रह्मणः सङ्कोच-विकासात्मक-कार्य-कारण-भावावस्था-द्वयान्वयेऽपि न कश्चिद् विरोधः; यतः सङ्कोच-विकासौ परब्रह्म-शरीर-भूत-चिद्-अचिद्-वस्तु-गतौ; शरीर-गतास् तु दोषा नात्मनि प्रसज्यन्ते; आत्म-गताश् च गुणा न शरीरे; यथा देव-मनुष्यादीनां सशरीराणां क्षेत्रज्ञानां शरीर-गता बालत्व-युवत्व-स्थविरत्वादयो नात्मनि सम्बध्यन्ते; आत्म-गताश् च ज्ञान-सुखादयो न शरीरे। अथ च देवो जातो, मनुष्यो जातः, तथा स एव बालो युवा स्थविरश् च इति व्यपदेशश् च मुख्यः। भूत-सूक्ष्म-शरीरस्यैव क्षेत्रज्ञस्य देव-मनुष्यादि-भाव इति, तद्-अन्तर-प्रतिपत्तौ, इति वक्ष्यत इति। 

Link copied

यत् पुनर् उक्तं चिद्-अचिद्-आत्मकस्य जगतः स्थूलस्य सूक्ष्मस्य च परमात्मानं प्रति शरीर-भावो नोपपद्यत इति तद् अनाकलित-सम्यङ्-न्यायानुगृहीत-वेदान्त-वाक्य-गणस्य स्वम् अतिपरिकल्पित-कुतर्क-विजृम्भितम्। सर्व एव हि वेदान्ताः स्थूलस्य सूक्ष्मस्य चेतनस्याचेतनस्य समस्तस्य च परमात्मानं प्रति शरीरत्वं श्रावयन्ति। वाजसनेयके तावत् काण्व-शाखायां माध्यन्दिन-शाखायां चान्तर्यामि-ब्राह्मणे--- यः पृथिव्यां तिष्ठन्\॥।यस्य पृथिवी शरीरम् इत्य् आरभ्य, पृथिव्य्-आदि-समस्तम् अचिद्-वस्तु, यो विज्ञाने तिष्ठन्\॥॥यस्य विज्ञानं शरीरम्, य आत्मनि तिष्ठन्\॥।यस्यात्मा शरीरम् इति चेतनं च पृथक् पृथङ् निर्दिश्य तस्य तस्य परमात्म-शरीरत्वम् अभिधीयते। सुबालोपनिषदि च--- यः पृथिवीम्न् अन्तरे सञ्चरन् यस्य पृथिवी शरीरम् इत्य् आरभ्य, तद्वद् एव चिद्-अचितोः सर्वावस्थयोः परमात्म-शरीरत्वम् अभिधाय, एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः, इति तस्य सर्व-भूतानि प्रत्यात्मत्वम् अभिधीयते। स्मरन्ति च--- जगत् सर्वं शरीरं ते, यद् अम्बु वैष्णवः कायः, तत् सर्वं वै हरेस् तनुः, तानि सर्वाणि तद्-वपुः, सोऽभिध्याय शरीरात् स्वात्, इत्य् आदि। भूत-सूक्ष्मात् स्वाच् छरीराद् इत्य् अर्थः। 

Link copied

लोके च शरीर-शब्दो घटादि-शब्दवद् एकाकार-द्रव्य-नियत-वृत्तिम् अनासादितः क्रिमि-कीट-पतङ्ग-सर्प-नर-पशु-प्रभृतिष्व् अत्यन्त-विलक्षणाकारेषु द्रव्येष्व् अगौणः प्रयुज्यमानो दृश्यते। तेन तस्य प्रवृत्ति-निमित्त-व्यवस्थापनं सर्व-प्रयोगानुगुण्येनैव कार्यम्। त्वद्-उक्तं च कर्म-फल-भोग-हेतुर्म् इत्य् आदिकं प्रवृत्ति-निमित्त-लक्षणं न सर्व-प्रयोगानुगुणम्, यथोक्तेष्व् ईश्वर-शरीरतयाभिहितेषु पृथिव्य्-आदिष्व् अव्याप्तेः। किं च--- ईश्वरस्येच्छा-विग्रहेषु, मुक्तानां च, स एकधा भवतीत्य् आदि वाक्यावगतेषु विग्रहेषु तल्-लक्षणम् अव्याप्तम्, कर्म-फल-भोग-निमित्तत्वाभावात् तेषाम्। परम-पुरुषेच्छा-विग्रहाश् च न पृथिव्य्-आदि-भूत-सङ्घात-विशेषाः, न भूत-सङ्घ-संस्थानो देहोऽस्य परमात्मनः, इति स्मृतेः। अतो भूत-सङ्घात-रूपत्वं च शरीरस्याव्याप्तम्। पञ्च-वृत्ति-प्राणाधीन-धारणत्वं च स्थावर-शरीरेष्व् अव्याप्तम्। स्थावरेषु हि प्राण-सद्-भावेऽपि तस्य पञ्चधा अवस्थाय शरीरस्य धारकत्वेनावस्थानं नास्ति। अहल्यादीनां कर्म-निमित्त-शिला-काष्ठादि-शरीरेष्व् इन्द्रियाश्रयत्वं सुख-दुःख-हेतुत्वं चाव्याप्तम्। 

Link copied

अतो यस्य चेतनस्य यद् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यम्, तच्-छेषतैक-स्वरूपं च तत् तस्य शरीरम् इति शरीर-लक्षणम् आस्थेयम्। रुग्ण-शरीरादिषु नियमनाद्य्-अदर्शनं विद्यमानाया एव नियमन-शक्तेः प्रतिबन्ध-कृतम्, अग्न्य्-आदेः शक्ति-प्रतिबन्धाद् औष्ण्याद्य्-अदर्शनवत्। मृत-शरीरं च चेतन-वियोग-समय एव विशरितुम् आरब्धम्; क्षणान्तरे च विशीर्यते। पूर्वं शरीरतया परिकॢप्त-सङ्घातैकदेशत्वेन च तत्र शरीरत्व-व्यवहारः। अतः सर्वं परम-पुरुषेण सर्वात्मना स्वार्थे नियाम्यं धार्य तच्-छेषतैक-स्वरूपम् इति सर्वं चेतनाचेतनं तस्य शरीरम्। अशरीरं शरीरेषु, इत्य् आदि च कर्म-निमित्त-शरीर-प्रतिषेध-परम्, यथोक्त-सर्व-शरीरत्व-श्रवणात्। उपरितनाधिकरणेषु चैतद् उपपादयिष्यते। अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम्, न तु दृष्टान्त-भावात्, इति सूत्र-द्वयेन, इतर-व्यपदेशात्, इत्य् अधिकरण-सिद्धोऽर्थः स्मारितः॥९॥ 

Link copied

**१४८ स्व-पक्ष-दोषाच् च॥२।१।१०॥ **

Link copied

न केवलं ब्रह्म-कारण-वादस्य निर्दोषतयैतत्-समाश्रयणम्; प्रधान-कारण-वादस्य दुष्टत्वाच् च तत् परित्यज्यैतद् एव समाश्रयणीयम्। प्रधान-कारण-वादे हि जगत्-प्रवृत्तिर् नोपपद्यते। तत्र हि निर्विकारस्य चिन्-मात्रैकरसस्य पुरुषस्य प्रकृति-सन्निधानेन प्रकृति-धर्माध्यास-निबन्धना जगत्-प्रवृत्तिः। निर्विकारस्य चिन्-मात्र-रूपस्य प्रकृति-धर्माध्यास-हेतु-भूतं प्रकृति-सन्निधानं किं-रूपम् इति विवेचनीयम्। किं प्रकृतेः सद्-भाव एव, उत तद्-गतः कश्चिद् विकारः। अथ पुरुष-गत एव कश्चिद् विकारः। न तावत् पुरुष-गतः, अनभ्युपगमात्। नापि प्रकृतेर् विकारः, तस्याध्यास-कार्यतयाभ्युपेतस्याध्यास-हेतुत्वासम्भवात्; सद्-भाव-मात्रस्य सन्निधानत्वे मुक्तस्याप्य् अध्यास-प्रसङ्ग इति त्वत्-पक्षे जगत्-प्रवृत्तिर् नोपपद्यते। अयम् अर्थः साङ्ख्य-पक्ष-प्रतिक्षेपस-मये, अभ्युपगमेऽप्य् अर्थाभावात्, इत्य् आदिना प्रपञ्चयिष्यते॥१०॥ 

Link copied

**१४९ तर्काप्रतिष्ठानाद् अपि॥२।१।११॥ **

Link copied

तर्कस्याप्रतिष्ठितत्वाद् अपि श्रुति-मूलो ब्रह्म-कारण-वाद एव समाश्रयणीयः; न प्रधान-कारण-वादः। शाक्योलूक्याक्षपाद-क्षपण-कपिल-पतञ्जलि-तर्काणाम् अन्योन्य-व्याघातात् तर्कस्याप्रतिष्ठितत्वं गम्यते॥११॥

Link copied

**१५० अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्ष-प्रसङ्गः॥२।१।१२॥ **

Link copied

इदानीं विद्यमानानां शाक्यादीनां तर्कान् उद्दूष्यान्यथा प्रधान-कारण-वाद-मति-क्रान्त-तद्-उपदर्शित-दूषणत्वेनानुमास्यामह इति चेद् एवम् अपि पुरुष-बुद्धि-मूल-तर्कैकावलम्बनस्य तथैव देशान्तर-कालान्तरेषु त्वद्-अधिक-कुतर्क-कुशल-पुरुषोत्प्रेक्षित-तर्क-दूष्यत्व-सम्भावनया तर्काप्रतिष्ठान-दोषाद् अनिर्मोक्षो दुर्वारः। अतोऽतीन्द्रियेऽर्थे शास्त्रम् एव प्रमाणम्; तद्-उपबृंहणायैव तर्क उपादेयः; तथा चाह--- आर्षं धर्मोपदेशं च वेद-शास्त्राविरोधिना। यस् तर्केणानुसन्धत्ते स धर्मं वद नेतरः, इति। वेदाख्य-शास्त्राविरोधिनेत्य् अर्थः। अतो वेद-विरोधित्वेन वेदार्थ-विशदीकरण-रूप-वेदोपबृंहण-तर्कोपादानाय साङ्ख्य-स्मृतिर् नादरणीया॥१२॥ इति विलक्षणत्वाधिकरणम्॥३॥ 

Link copied

अथ शिष्टापरिग्रहाधिकरणम्॥४॥ 

Link copied

**१५१ एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥२।१।१३॥ **

Link copied

शिष्टाः--- परिशिष्टाः, न विद्यते वेद-परिग्रहो येषाम् इत्य् अपरिग्रहाः; शिष्टाश् चापरिग्रहाश् च शिष्टापरिग्रहाः; एतेन--- वेदापरिगृहीत-साङ्ख्य-पक्ष-क्षपणेन, परिशिष्टाश् च वेदापरिगृहीताः कणभक्षाक्षपाद-क्षपणक-भिक्षु-पक्षाः क्षपिता वेदितव्याः। परमाणुकारणवादेऽमीषां सर्वेषां संवादात् कारण-वस्तु-विषयस्य तर्कस्याप्रतिष्ठितत्वं न शक्यते वक्तुम् इत्य् अधिकाशङ्का। तावन्-मात्र-संवादेऽपि तर्क-मूलत्वाविशेषात् परमाणु-स्वरूपेऽपि शून्यात्मकत्वाशून्यात्मकत्व-ज्ञानात्मकत्वार्थात्मकत्व-क्षणिकत्व-नित्यत्वैकान्तत्वानेकान्तत्व-सत्यासत्यात्मकत्वादि-विसंवाद-दर्शनाच् चाप्रतिष्ठितत्वम् एवेति परिहारः॥१३॥ इति शिष्टापरिग्रहाधिकरणम्॥४॥ 

Link copied

अथ भोक्त्रापत्त्य्-अधिकरणम्॥५॥

Link copied

**१५२ भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्॥२।१।१४॥ **

Link copied

पुनर् अपि साङ्ख्यः प्रत्यवतिष्ठते--- यद् उक्तं, स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरस्य परस्य ब्रह्मणः कार्य-कारण-रूपत्वाज् जीव-ब्रह्मणोः स्वभाव-विभाग उपपद्यत इति; स तु विभागो न सम्भवति, ब्रह्मणः सशरीरत्वे तस्य भोक्तृत्वापत्तेः, सशरीरत्वे जीवस्येवेश्वरस्यापि सशरीरत्व-प्रयुक्त-सुख-दुःखयोर् भोक्तृत्वस्यावर्जनीयत्वात्। ननु च, सम्भोग-प्राप्तिर् इति चेन् न वैशेष्याद् इत्य् अत्रेश्वरस्य भोग-प्रसङ्ग-परिहार उक्तः नैवम्; तत्र ह्य् उपास्यतया हृदयायतने सन्निहितस्य शरीरान्तर्वर्तित्व-मात्रेण भोग-प्रसङ्गो न विद्यत इत्य् उक्तम्, इह तु जीववद् ब्रह्मणोऽपि सशरीरत्वे तद्वद् एव सुख-दुःखयोर् भोक्तृत्व-प्रसङ्गो दुर्वार इत्य् उच्यते। दृश्यते हि सशरीराणां जीवानां शरीर-गत-बालत्व-स्थविरत्वादि-विकारासम्भवेऽपि शरीर-धातु-साम्य-वैषम्य-निमित्त-सुख-दुःख-योगः। श्रुतिश् च---- न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्त्य् अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः, इति। अतः सशरीर-ब्रह्म-कारण-वादे जीवेश्वर-स्वभाव-विभागासम्भवात् केवल-ब्रह्म-कारण-वादे मृत्-सुवर्णादिवज् जगद्-गतापुरुषार्थादि-सर्व-विशेषाश्रयत्व-प्रसङ्गाच् च प्रधान-कारण-वाद एव ज्यायान् इति चेद् अत्रोत्तरं--- स्याल् लोकवत् तद् इति। स्याद् एव विभागो जीवेश्वर-स्वभावयोः। न हि जीवस्य शरीर-धातु-साम्य-वैषम्य-निमित्तं सुख-दुःखयोर् भोक्तृत्वं सशरीरत्व-कृतम् अपि तु पुण्य-पाप-रूप-कर्म-कृतम्। न ह वै सशरीरस्येत्य् अपि कर्मारब्ध-देह-विषयम्, स एकधा भवति त्रिधा भवति, स यदि पितृ-लोक-कामो भवति, स तत्र पर्येति जक्षत् क्रीडत् रममाणः, इति कर्म-बन्ध-विनिर्मुक्तस्याविर्भूत-स्वरूपस्य सशरीरस्यैवापुरुषार्थ-गन्धाभावात्। अपहत-पाप्मनस् तु परमात्मनः स्थूल-सूक्ष्म-रूप-कृत्स्न-जगच्-छरीरत्वेऽपि कर्म-सम्बन्ध-गन्धो नास्तीति नतराम् अपुरुषार्थ-गन्ध-प्रसङ्गः। लोकवत्--- यथा लोके राज-शासनानुवर्तिनां तद्-अतिवर्तिनां च राजानुग्रह-निग्रह-कृत-सुख-दुःख-योगेऽपि न शरीरित्व-मात्रेण शासके राज्यपि शासनानुवृत्त्य्-अतिवृत्ति-निमित्त-सुख-दुःखयोर् भोक्तृत्व-प्रसङ्गः। यथाह द्रमिड-भाष्य-कारः--- यथा लोके राजा प्रचुर-दन्दशूके घोरेऽनर्थ-सङ्कटेऽपि प्रदेशे वर्तमानो व्यजनाद्य्-अवधूत-देहो दोषैर् न स्पृश्यते, अभिप्रेतांश् च लोकान् परिपालयति, भोगांश् च गन्धादीन् अविश्व-जनोपभोग्यान् धारयति, तथासौ लोकेश्वरो भ्रमत्-स्व-सामर्थ्य-चामरो दोषैर् न स्पृश्यते, रक्षति च लोकान् ब्रह्म-लोकादीन्, भोगांश् चाविश्व-जनोपभोग्यान् धारयति, इति। 

Link copied

मृत्-सुवर्णादिवद् ब्रह्म-स्वरूप-परिणामस् तु नैवाभ्युपगम्यते, अविकारत्व-निर्दोषत्वादि-श्रुतेः॥ 

Link copied

यत् तु परैर् ब्रह्म-कारण-वादे भोक्तृ-भोग्य-विभागाभावम् आशङ्क्य समुद्र-फेन-तरङ्ग-दृष्टान्तेन विभाग-प्रतिपादन-परं सूत्रं व्याख्यातं तद् अयुक्तम्, अन्तर्भावित-शक्त्य्-अविद्योपाधिकाद् ब्रह्मणः सृष्टिम् अभ्युपगच्छताम् एवम् आक्षेप-परिहारयोर् असङ्गतत्वात्, कारणान्तर्गत-शक्त्य्-अविद्योपाध्य्-उपहितस्य भोक्तृत्वाद् उपाधेश् च भोग्यत्वात्; विलक्षणयोस् तयोः परस्पर-भावापत्तिर् हि न सम्भवति। स्वरूप-परिणामस् तु तैर् अपि नाभ्युपेयते, न कर्माविभागाद् इति चेन् नानादित्वाद् इति क्षेत्रज्ञानां तद्-गत-कर्मणां चानादित्व-प्रतिपादनात्। स्वरूप-परिणामाभ्युपगमेऽपि भोक्तृ-भोग्याविभागाशङ्का कस्यचिद् अपि न जायते, मृत्-सुवर्णादि-परिणाम-रूप-घट-शराव-कटक-मकुटादि-विभागवद् भोक्तृ-भोग्य-विभागोपपत्तेः। स्वरूप-परिणामे च ब्रह्मण एव भोक्तृ-भोग्यत्वापत्तिर् इति पुनर् अप्य् असामञ्जस्यम् एव॥१४॥ इति भोक्त्रापत्त्य्-अधिकरणम्॥५॥ 

Link copied

अथारम्भणाधिकरणम्॥६॥

Link copied

**१५३ तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः॥२।१।१५॥ **

Link copied

असद् इति चेन् न प्रतिषेध-मात्रत्वात्, इत्य् आदिषु कारण-भूताद् ब्रह्मणः कार्य-भूतस्य जगतोऽनन्यत्वम् अभ्युपगम्य ब्रह्मणो जगत्-कारणत्वम् उपपादितम्, इदानीं तद् एवानन्यत्वम् आक्षिप्य समाधीयते। 

Link copied

तत्र काणादाः प्राहुः--- न कारणात् कार्यस्यानन्यत्वं सम्भवति, विलक्षण-बुद्धि-बोध्यत्वात्--- न खलु तन्तु-पट-मृत्-पिण्ड-घटादिषु कार्य-कारण-विषया बुद्धिर् एक-रूपा। शब्द-भेदाच् च--- न हि तन्तवः पट इत्य् उच्यन्ते, पटो वा तन्तव इति। कार्य-भेदाच् च--- न हि मृत्-पिण्डेनोदकम् आह्रियते, घटेन वा कुड्यं निर्मीयते। काल-भेदाच् च पूर्व-कालं च कारणम्, अपर-कालं च कार्यम्। आकार-भेदाच् च पिण्डाकारं कारणम्, कार्यं च पृथु-बुध्नोदराकारं तथा सत्याम् एव मृदि घटो नष्ट इति व्यवह्रियते। सङ्ख्या भेदश् च दृश्यते--- बहवस् तन्तवः, एकश् च पटः। कारक-व्यापार-वैयर्थ्यं च कारणम् एव चेत् कार्यं किं कारक-व्यापार-साध्यं स्यात्। सत्य् अपि कार्ये कार्योपयोगितया कारक-व्यापारेण भवितव्यं चेत्, सर्वदा कारक-व्यापारेण नोपरन्तव्यम्। सर्वस्य सर्वदा सत्त्वेन नित्यानित्य-विभागश् च न स्यात्। अथ कार्यं सद् एव पूर्वम् अनभिव्यक्तं कारक-व्यापारेणाभिव्यज्य अतः कारक-व्यापारार्थत्त्वं, नित्यानित्य-विभागश् चोच्यते; तद् असत्, अभिव्यक्तेर् अभिव्यक्त्य्-अन्तरापेक्षत्वेऽनवस्थानाद् अनपेक्षत्वे कार्यस्य नित्योपलब्धि-प्रसङ्गात् तद्-उत्पत्त्य्-अभ्युपगमे चासत्कार्यवाद-प्रसङ्गात्। किं च कारक-व्यापारस्याभिव्यञ्जकत्वे घटार्थेन कारक-व्यापारेण करकादेर् अप्य् अभिव्यक्तिः प्रसज्यते, सम्प्रतिपन्नाभिव्यञ्जक-भावेषु दीपादिष्व् अभिव्यङ्ग्य-विशेष-नियमादर्शनात्; न हि घटार्थम् आरोपितः प्रदीपः करकादीन् नाभिव्यनक्ति। अतोऽसतः कार्यस्योत्पत्ति-हेतुत्वेनैव कारक-व्यापारार्थवत्त्वम्, अतश् च सत्कार्यवादासिद्धिः। न च नियत-कारणोपादानं सत एव कार्यत्वं साधयति; कारण-शक्ति-नियमाद् एव तद्-उपपत्तेः। नन्व् असत्कार्य-वादिनोऽपि कारक-व्यापारो नोपपद्यते; प्राग्-उत्पत्तेः कार्यस्यासत्त्वात् कार्याद् अन्यत्र कारक-व्यापारेण भवितव्यम्; तत्रान्यत्वाविशेषात् तन्तु-गत-कारक-व्यापारेण घटोत्पत्तिर् अपि प्रसज्यते। नैवम्, यत् कार्योत्पादन-शक्तं यत् कारणम्, तद्-गत-कारक-व्यापारेण तत्-कार्योत्पत्ति-सिद्धेः॥ 

Link copied

अत्राहुः--- कारणाद् अनन्यत् कार्यम्। न हि परमार्थतः कारण-व्यतिरिक्तं कार्यं नाम वस्त्व् अस्ति, अविद्या-निबन्धनत्वात् सकल-कार्य-तद्-व्यवहारयोः। अतो यथा कारण-भूतान् मृद्-द्रव्याद् घटादिषु विकारेषूपलभ्यमानाव्यतिरिक्तं घट-शरावादि-कार्यं व्यवहार-मात्रालम्बनं मिथ्या, कारण-भूतं मृद्-द्रव्यम् एव सत्यम्; तथा निर्विशेष-सन्-मात्रात् कारण-भूताद् ब्रह्मणोऽन्योऽहङ्कारादि-व्यवहारालम्बनः कृत्स्नः प्रपञ्चो मिथ्या, कारण-भूतं सन्-मात्रं ब्रह्मैव सत्यम्। तस्मात् कारण-व्यतिरिक्तं कार्यं नास्तीति कारणाद् अनन्यत् कार्यम्। न च वाच्यं शुक्ति-कार-जतादीनाम् इव घटादि-कार्याणाम् असत्यत्वाप्रसिद्धेर् दृष्टान्तानुपपत्तिर् इति। यतस् तत्रापि युक्त्या मृद्-द्रव्य-मात्रम् एव सत्यतया व्यवस्थाप्यते; तद्-अतिरिक्तं तु युक्त्या बाध्यते। का पुनर् अत्र युक्तिः। मृद्-द्रव्य-मात्रस्यानुवर्तमानत्वम्, तद्-अतिरिक्तस्य च व्यावर्तमानत्वम्। रज्जु-सर्पादिषु ह्य् अनुवर्तमानस्याधिष्ठान-भूतस्य रज्ज्व्-आदेः सत्यता, व्यावर्तमानस्य च सर्प-भू-दलनाम्बु-धारादेर् असत्यता दृष्टा; तथानुवर्तमानम् अधिष्ठान-भूतं मृद्-द्रव्यम् एव सत्यम्, व्यावर्तमानास् तु घट-शरावादयोऽसत्य-भूताः। किं च सत आत्मनो विनाशाभावाद् असतश् च शश-विषाणादेर् उपलब्ध्य्-अभावाद् उपलब्धि-विनाश-योगि कार्यं सद्-असद्भ्याम् अनिर्वचनीयम् इति गम्यते। अनिर्वचनीयं च शुक्तिका-रजतादिवन् मृषैव। तस्य चानिर्वचनीयत्वं प्रतीति-बाधाभ्यां सिद्धम्। 

Link copied

किं च कार्यम् उत्पादयन् मृदादि कारण-द्रव्यं किम् अविकृतम् एव कार्यम् उत्पादयति, उत कञ्चन विशेषम् आपन्नम्। न तावद् अविकृतम् उत्पादयति, सर्वदोत्पादकत्व-प्रसङ्गात्। नापि विशेषान्तरम् आपन्नम्, विशेषान्तरापत्तेर् अपि विशेषान्तरापत्ति-पूर्वकत्वेन भवितव्यम्, तस्या अपि तथेत्य् अनवस्थानात्। अविकृतम् एव देश-काल-निमित्त-विशेष-सम्बद्धं कार्यम् उत्पादयतीति चेन् न। देशादि-विशेष-सम्बन्धोऽपि ह्य् अविकृतस्य विशेषान्तरम् आपन्नस्य च पूर्ववन् न सम्भवति। न च वाच्यं मृत्-सुवर्ण-दुग्धादिभ्यो घट-रुचक-दध्य्-आदीनाम् उत्पत्तिर् दृश्यते; शुक्तिका-रजतादिवद् देश-कालादि-प्रतिपन्नोपाधौ बाधश् च न दृश्यते, अतः प्रतीति-शरणानां कारणात् कार्योत्पत्तिर् अवश्याश्रयणीयेति; विकल्पासहत्वात्--- किं हेमादि-मात्रम् एव स्वस्तिकादेर् आरम्भकम् उत रुचकादि। अथ रुचकाद्य्-आश्रयो हेमादि। न तावद् धेमादि-मात्रम् आरम्भकम्; हेम-व्यतिरिक्तस्य कार्यस्याभावात्, स्वात्मानं प्रत्यात्मन आरम्भकत्वासम्भवाच् च। हेम-व्यतिरिक्तं स्वस्तिकं दृश्यत इति चेन् न हेम-व्यतिरिक्तं तत्, हेम-प्रत्यभिज्ञानात् तद्-अतिरिक्त-वस्त्व्-अन्तरानुपलब्धेश् च। बुद्धि-शब्दान्तरादिभिर् वस्त्व्-अन्तरत्वं साधितम् इति चेन् न, अनिरूपित-वस्त्व्-अवलम्बनानां बुद्धि-शब्दान्तरादीनां शुक्तिका-रजत-शब्द-बुद्ध्य्-आदिवद् भ्रान्ति-मूलत्वेन वस्त्व्-अन्तर-सद्-भावस्यासाधकत्वात्। नापि रुचकादि स्वस्तिकादेर् आरम्भकम्, स्वस्तिके हि रुचकं पट इव तन्तवो भवतापि नोपलभ्यते। नापि रुचकाश्रय-भूतं हेम, रुचकाश्रयाकारेण हेम्नः स्वस्तिकेऽनुपलब्धेः। 

Link copied

अतो मृद्-आदि-कारणातिरिक्तस्य कार्यस्यासत्यत्व-दर्शनाद् ब्रह्म-व्यतिरिक्तं कृत्स्नं जगत्-कार्यत्वेन मिथ्या-भूतम्। तद् इदं ब्रह्म-व्यतिरिक्त-मिथ्यात्व-सुख-प्रतिपत्तये काल्पनिक-मृद्-आदि-सत्यत्वम् आश्रित्य कार्यस्यासत्यत्वं प्रतिपादितम्। परमार्थतस् तु मृत्-सुवर्णादि-कारणम् अपि घट-रुचकादि-कार्यवन् मिथ्या-भूतम्, ब्रह्म-कार्यत्वाविशेषात्। ऐतदात्म्यम् इदं सर्वं तत् सत्यम्, नेह नानास्ति किञ्चन, मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति, यत्र हि द्वैतम् इव भवति तद्-इतर इतरं पश्यति यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत्, इन्द्रो मायाभिः पुरु-रूप ईयते, इत्य् एवम् आदिभिः श्रुतिभिश् च ब्रह्म-व्यतिरिक्तस्य मिथ्यात्वम् अवगम्यते। न चागमावगतार्थस्य प्रत्यक्ष-विरोधः शङ्कनीयः; यथोक्त-प्रकारेण कार्यस्य सर्वस्य मिथ्यात्वावगमात्, प्रत्यक्षस्य सन्-मात्र-विषयत्वाच् च। विरोधे सत्य् अप्य् असम्भावित-दोषस्य चरम-भाविनः स्वरूप-सद्-भावादौ प्रत्यक्षाद्य्-अपेक्षत्वेऽपि प्रमितौ निराकाङ्क्षस्य निरवकाशस्य शास्त्रस्य बलीयस्त्वात्। अतः कारण-भूताद् ब्रह्मणोऽन्यत् सर्वं मिथ्या। 

Link copied

न च प्रपञ्च-मिथ्यात्वेन जीव-मिथ्यात्वम् आशङ्कनीयम्, ब्रह्मण एव जीव-भावात्। ब्रह्मैव हि सर्व-शरीरेषु जीव-भावम् अनुभवति, अनेन जीवेनात्मनानुप्रविश्य, एको देवः सर्व-भूतेषु गूढः, एको देवो बहुधा निविष्टः, एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते, नान्योऽतोऽस्ति द्रष्टा, इत्य् एवम् आदिभ्यः। नन्व् एकम् एव ब्रह्म सर्व-शरीरेषु जीव-भावम् अनुभवति चेत् पादे मे वेदना, शिरसि मे सुखम् इतिवत् सर्व-शरीरेषु सुख-दुःख-प्रतिसन्धानं स्यात्; जीवेश्वर-बद्ध-मुक्त-शिष्याचार्य-ज्ञत्वाज्ञत्वादि-व्यवस्था च न स्यात्। 

Link copied

अत्र केचिद् अद्वितीयत्वं ब्रह्मणोऽभ्युपयन्त एवैवं समादधते--- एकस्यैव ब्रह्मणः प्रतिबिम्ब-भूतानां जीवानां सुखित्व-दुःखित्वादय एकस्यैव मुखस्य प्रतिबिम्बानां मणि-कृपाण-दर्पणादिषूपलभ्य मानानाम् अल्पत्व-महत्त्व-मलिनत्व-विमलत्वादिवत् तत्-तद्-उपाधिवशाद् व्यवस्थाप्यन्ते। ननु, अनेन जीवेनात्मनानुप्रविश्येत्य् आदि श्रुतेर् न जीवा ब्रह्मणो भिद्यन्त इत्य् उक्तम्। सत्यम्। परमार्थतः; काल्पनिकं तु भेदम् आश्रित्येयं व्यवस्थोच्यते। कस्य पुनः कल्पना। न तावद् ब्रह्मणः, तस्य परिशुद्ध-ज्ञानात्मनः कल्पना-शून्यत्वात्। नापि जीवानाम्। इतरेतराश्रयत्व-प्रसङ्गात्--- कल्पनाधीनो हि जीव-भावः, जीवाश्रया च कल्पनेति। नैतद् एवम्, अविद्याजीव-भावयोर् बीजाङ्कुर-न्यायेनानादित्वात्। किं च--- प्रासाद-निगरणादिवद् अनुपपन्नतैक-वेषायाम् अवस्तु-भूतायाम् अविद्यायां नेतरेतराश्रयत्वादयो वस्तु-दोषा अनवकॢप्तिम् आवहन्ति वस्तुतो ब्रह्माव्यतिरिक्तानां जीवानां स्वतो विशुद्धत्वेऽपि कृपाणादि-गत-मुख-प्रतिबिम्ब-श्यामतादिवद् औपाधिकाशुद्धि-सम्भवाद् अविद्याश्रयत्वोपपत्तेः काल्पनिकत्वोपपत्तिः। प्रतिबिम्ब-गत-श्यामतादिवज् जीव-गताशुद्धिर् अपि भ्रान्तिर् एव, अन्यथानिर्मोक्षत्व-प्रसङ्गात्। जीवानां भ्रमस्य प्रवाहानादित्वान् न तद् धेतुर् अन्वेषणीयः, इति॥ 

Link copied

तद् एतद् अविदिताद्वैत-याथात्म्यानां भेद-वाद-श्रद्धालु-जन-सबहुमानावलोकन-लिप्सा-विजृम्भितम्। तथा हि--- जीवस्याकल्पित-स्वाभाविक-रूपेणाविद्याश्रयत्वे ब्रह्मण एवाविद्याश्रयत्वम् उक्तं स्यात्। तद्-अतिरिक्तेन तस्मिन् कल्पितेनाकारेणाविद्याश्रयत्वे जडस्याविद्याश्रयत्वम् उक्तं स्यात्। न खल्व् अद्वैत-वादिनस् तद्-उभय-व्यतिरिक्तम् आकारम् अभ्युपगच्छन्ति। कल्पिताकार-विशिष्टेन स्वरूपेणैवाविद्याश्रयत्वम् इति चेत् तन् न, स्वरूपस्याखण्डैकरसस्याविद्याम् अन्तरेण विशिष्ट-रूपत्वासिद्धेः; अविद्याश्रयाकार एव हि निरूप्यते। किं च बन्ध-मोक्षादि-व्यवस्था-सिद्ध्य्-अर्थं हि जीवाज्ञान-वादाश्रयणम्, सा तु व्यवस्था जीवाज्ञान-पक्षेऽपि न सिध्यति। अविद्या-विनाश एव हि मोक्षः। तत्रैकस्मिन् मुक्ते अविद्या-विनाशादितरेऽपि विमुच्येरन्। अन्यस्याम् उक्तत्वाद् अविद्या तिष्ठतीति चेत्, तर्ह्य् एकस्याप्य् अमुक्तिः स्यात्, अविद्याया अविनष्टत्वात्। प्रतिजीवम् अविद्या-भेदः कल्प्यते, तत्र यस्याविद्या विनष्टा, स मोक्ष्यते, यस्य त्व् अविनष्टा, स भन्त्स्यत इति चेत् तन् न, प्रतिजीवम् इति जीव-भेदम् आश्रित्य ब्रूषे, स जीव-भेदः किं स्वाभाविकः, उताविद्या-कल्पितः। न तावत् स्वाभाविकः, अनभ्युपगमात्; भेद-सिद्ध्य्-अर्थस्य चाविद्या-कल्पनस्य व्यर्थत्वात्। अथाविद्या कल्पितः, तत्रेयं जीव-भेद-कल्पिकाविद्या किं ब्रह्मणः, उत जीवानाम्। ब्रह्मण इति चेद् आगतोऽसि मदीयं मार्गम्। अथ जीवानाम्, किम् अस्या जीव-भेद-कॢप्ति-सिद्ध्य्-अर्थतां विस्मरसि। अथ प्रतिजीवं बद्ध-मुक्त-व्यवस्था-सिद्ध्य्-अर्थं या अविद्याः कल्प्यन्ते, ताभिर् एव जीव-भेदोऽपीति मनुषे, जीव-भेद-सिद्धौ ताः सिद्ध्यन्ति, तासु सिद्धासु जीव-भेद-सिद्धिर् इतीतरेतराश्रयत्वम्। न चात्र बीजाङ्कुर-न्यायः सिध्यति। बीजाङ्कुरेषु ह्य् अन्यद् अन्यद् बीजम् अन्यस्यान्यस्याङ्कुरस्योत्पादकम्। इह तु याभिर् अविद्याभिर् ये जीवाः कल्प्यन्ते, तान् एवाश्रित्य तासां सिद्धिर् इत्य् अशकनीयता। अथ बीजाङ्कुर-न्यायेन पूर्व-पूर्व-जीवाश्रयाभिर् अविद्याभिर् उत्तरोत्तर-जीव-कल्पनां मन्यसे, तथा सति जीवानां भङ्गुरत्वम् अकृताभ्यागम-कृत-विप्रणाशादि-प्रसङ्गश् च। अत एव ब्रह्मणः पूर्व-पूर्व-जीवाश्रयाभिर् अविद्याभिर् उत्तरोत्तर-जीव-भव-कल्पनम् इत्य् अपि निरस्तम्। अविद्या प्रवाहेऽभ्युपगम्यमाने तत्-कल्पित-जीव-भावस्यापि तद्वत् प्रवाहानादिता स्यात्। न ध्रुव-रूपता। आमोक्षाच् च जीवस्य ध्रुवत्वम् इष्टं न सिध्येत्॥ 

Link copied

यच् चोक्तम् अविद्याया अवस्तु-रूपत्वेनानुपपन्नतैक-वेषाया नेतरेतराश्रयत्वादयो वस्तु-दोषा अनवकॢप्तिम् आवहन्तीति, तथा सति मुक्तान् परं च ब्रह्माश्रयेद् अविद्या। शुद्ध-विद्या-स्वरूपत्वाद् अशुद्धि-रूपा न तत्र प्रसजतीति चेत्, किम् उपपत्त्य् अनुवर्तिन्य् अविद्या। एवं तर्ह्य् उक्ताभिर् उपपत्तिभिर् जीवान् अपि नाश्रयेत्। 

Link copied

किं च जीवाश्रयाया अविद्यायास् तत्त्व-ज्ञानोदयान् नाशे सति जीवो नश्येद् वा न वा। यदि नश्येत्, स्वरूपोच्छित्ति-लक्षणो मोक्षः स्यात्; नो चेद् अविद्या-नाशेऽप्य् अनिर्मोक्षः, ब्रह्म-स्वरूप-व्यतिरिक्त-जीवत्वावस्थानात्। यच् चोक्तं मणि-कृपाण-दर्पणादिषूपलभ्यमान-मुख-मलिनत्व-विमलत्वादिवच् छुद्ध्य्-अशुद्ध्यादि-व्यवस्थोपपत्तिर् इति तत्रेदं विमर्शनीयम् अल्पत्व-मलिनत्वादय औपाधिका दोषाः कदा नश्येयुर् इति। कृपाणाद्य्-उपाध्य्-अपगम इति चेत् किं तदाल्पत्वाद्य्-आश्रयः प्रतिबिम्बं तिष्ठति वा न वा। तिष्ठति चेत्, तत्-स्थानीयस्य जीवस्यापि स्थितत्वाद् अनिर्मोक्ष-प्रसङ्गः। नश्यति चेत्, तद्वद् एव जीव-नाशात् स्वरूपोच्छित्ति-लक्षणो मोक्षः स्यात्। किं च यस्य ह्य् अपुरुषार्थ-रूप-दोष-प्रतिभासः, तस्य तद्-उच्छेदः पुरुषार्थः; तत्र किम् औपाधिक-दोष-प्रतिभासो बिम्ब-स्थानीयस्य ब्रह्मणः, उत प्रतिबिम्ब-स्थानीयस्य जीवस्य, उतान्यस्य कस्यचित्। आद्ययोः कल्पयोर् दृष्टान्तोऽयं न सङ्गच्छते, मुखस्य मुख-प्रतिबिम्बस्य चाल्पत्वादि-दोष-प्रतिभास-शून्यत्वात्। न हि मुखं तत्-प्रतिबिम्बं वा चेतयते। ब्रह्मणो दोष-प्रतिभासे ब्रह्माविद्या-प्रसङ्गश् च। तृतीयोऽपि कल्पो न कल्पते, जीव-ब्रह्म-व्यतिरिक्तस्य द्रष्टुर् अभावात्। 

Link copied

किं च--- अविद्या-कल्प्यस्य जीवस्य कल्पकः क इति निरूपणीयम्। न तावद् अविद्या, अचेतनत्वात्। नापि जीवः, आत्माश्रय-दोष-प्रसङ्गात्; शुक्तिका-रजतादिवद् अविद्या-कल्प्यत्वाच् च जीव-भावस्य। ब्रह्मैव कल्पकम् इति चेद् ब्रह्माज्ञानम् एवायातम्। किं च ब्रह्माज्ञानानभ्युपगमे किं ब्रह्म जीवान् पश्यति वा न वा। न पश्यति चेद् ईक्षा-पूर्विका विचित्र-सृष्टिर् नाम-रूप-व्याकरणम् इत्य् आदि ब्रह्मणो न स्यात्। अथ पश्यति, अखण्डैकरसं ब्रह्म नाविद्याम् अन्तरेण जीवान् पश्यतीति ब्रह्माज्ञान-प्रसङ्गः। 

Link copied

अत एव मायाविद्या-विभाग-वादोऽपि निरस्तः। अज्ञानम् अन्तरेण हि मायिनोऽपि ब्रह्मणो जीव-दर्शित्वं न स्यात्। न च मायावी परान् अदृष्ट्वा मोहयितुम् अलम्। नापि माया मायाविनो दर्शन-साधनम्, दृष्टेषु परेषु तन्-मोहन-साधन-मात्रत्वात् तस्याः। अथ ब्रह्मणो माया तस्य जीव-दर्शित्वं कुर्वती जीव-मोहनस्य हेतुर् इति मन्यसे; तर्हि परिशुद्धस्याखण्डैकरस-स्व-प्रकाशस्य ब्रह्मणः पर-दर्शनं कुर्वती माया माया-परपर्याया अविद्यैव स्यात्। अथ मतम्--- विपरीत-दर्शन-हेतुर् अविद्या, माया तु मिथ्या-भूतं ब्रह्म-व्यतिरिक्तं मिथ्यात्वेन दर्शयन्ती न ब्रह्मणो विपरीत-दर्शन-हेतुः। अतस् तस्या नाविद्यात्वम् इति। नैवम्--- चन्द्रैकत्वे ज्ञायमाने द्वि-चन्द्र-दर्शन-हेतोर् अप्य् अविद्यात्वात्। यदि च ब्रह्म मिथ्यात्वेनैव स्वव्यतिरिक्तं जानाति, न तर्हि तन् मोहयति। न ह्य् अनुन्मत्तो मिथ्यात्वेन ज्ञातान् मोहयितुम् ईहते। अथापुरुषार्थापरमार्थ-दर्शन-हेतुर् अविद्या, माया तु ब्रह्मणो नापुरुषार्थ-दर्शन-हेतुः; अतोऽस्या नाविद्यात्वम् इति मतम्; तन् न, द्वि-चन्द्र-ज्ञानस्य दुःख-हेतुत्वाभावेनापुरुषार्थत्वाभावेऽपि तद्-धेतुर् अविद्यैव, तन्-निरसने च प्रयस्यन्ति। यदि च नापुरुषार्थ-दर्शन-करी माया, तर्ह्य् अनुच्छेद्यतया नित्या ब्रह्म-स्वरूपानुबन्धिनी स्यात्। अस्तु को दोष इति चेद् द्वैत-दर्शनम् एव दोषः। यत्र हि द्वैतम् इव भवति\॥।यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन के पश्येत्, इत्य् आद्य् अद्वैत-श्रुतयः प्रकुप्येयुः। परमार्थ-विषया अद्वैत-श्रुतयः; माया यास् त्व् अपरमार्थत्वाद् अविरोध इति चेद् अपरिच्छिन्नानन्दैक-स्वरूपस्य ब्रह्मणोऽपरमार्थ-भूतमायादर्शनं तद्वत् ता चाविद्याम् अन्तरेण नोपपद्यते। 

Link copied

किं च--- अपरमार्थ-भूतया नित्यया मायया किं प्रयोजनं ब्रह्मणः। जीव-मोहनम् इति चेद् अपुरुषार्थेन मोहनेन किं प्रयोजनम्। क्रीडेति चेद् अपरिच्छिन्नानन्दस्य किं क्रीडया। परिपूर्ण-भोगानाम् एव क्रीडा पुरुषार्थत्वेन लोके दृष्टेति चेन् नैवम् इहोपपद्यते; न ह्य् अपरमार्थ-भूतैः क्रीडोपकरणैर् अपरमार्थतया प्रतिभासमानैर् निष्पन्नयापरमार्थ-भूतया क्रीडयापरमार्थ-भूतेन च तत्-प्रतिभासेनानुन्मत्तानां क्रीडा-रसो निष्पद्यते। मायाश्रयतयाभिमत-ब्रह्म-व्यतिरेकेणाविद्याश्रयस्य जीवस्य कल्पनासम्भवश् च पूर्ववद् एव द्रष्टव्यः॥ 

Link copied

अतो ब्रह्मैवानाद्य्-अविद्या-शबलं स्वगत-नानात्वं पश्यतीत्य् अद्वितीयत्वं ब्रह्मणोऽभ्युपयद्भिर् अभ्युपेत्यम्। यत् तु बन्ध-मोक्ष-व्यवस्था नोपपद्यत इति, न तद् ब्रह्माज्ञान-वादिनश् चोद्यम्, एकस्यैव ब्रह्मणोऽज्ञस्य स्वाज्ञान-निवृत्त्या मोक्षमाणत्वाद् बद्ध-मुक्तादि-व्यवस्थाया एवाभावात्, व्यवह्रियमाणायाश् च बद्ध-मुक्त-शिष्याचार्यादि-व्यवस्थायाः काल्पनिकत्वात्, स्वप्न-दर्शिन इव चैकस्यैवाविद्यया सर्व-कल्पनोपपत्तेः; स्वप्न-दृशा ह्य् एकेन दृष्टाः शिष्याचार्यादयस् तद्-अविद्या-कल्पिता एव। अत एव बह्व्-अविद्या-कल्पनम् अपि न युक्तिमत्। पारमार्थिकी बन्ध-मोक्ष-व्यवस्था स्व-परव्यवस्था च जीवाज्ञान-वादिनापि नाभ्युपेयते। अपारमार्थिकी त्व् एकस्यैवाविद्ययोपपद्यते। प्रयोगश् च--- बन्ध-मोक्ष-व्यवस्था स्व-परव्यवस्थाश् च स्वाविद्या-कल्पिताः, अपारमार्थिकत्वात्, स्वप्न-दृष्ट-व्यवस्थावद् इति। शरीरान्तराण्य् अपि मयैवात्मवन्ति, शरीरत्वात्, एतच्-छरीरवत्। शरीरान्तराण्य् अपि मद्-अविद्या-कल्पितानि, शरीरत्वात्, कार्यत्वात्, जडत्वात्, कल्पितत्वाद् वा; एतच्-छरीरवत्। विवादाध्यासितं चेतन-जातम् अहम् एव, चेतनत्वात्, यद् अनहं तद् अचेतनं दृष्टम्, यथा घटः। अतः स्वपर-विभागो बद्ध-मुक्त-शिष्याचार्यादि-व्यवस्थाश् चैकस्याविद्या-कल्पिताः॥ 

Link copied

द्वैत-वादिनापि बद्ध-मुक्त-व्यवस्था दुरुपपादा; अतीतानां कल्पनाम् आनन्त्याद् एकैकस्मिन् कल्पे एकैकम् उक्ताव् अपि सर्वेषां मोक्ष-सम्भवाद् अमुक्तानुपपत्तेः। अनन्तत्वाद् आत्मनाम् अमुक्ताश् च सन्तीति चेत्, किम् इदम् अनन्तत्वम्। असङ्ख्येयत्वम् इति चेन् न, भूयस्त्वाद् अल्प-ज्ञैर् असङ्ख्येयत्वेऽपीश्वरस्य सर्व-ज्ञस्य सङ्ख्येया एव। तस्याप्य् अशक्यत्वे सर्व-ज्ञत्वं न स्यात्; आत्मनां निःसङ्ख्यत्वाद् ईश्वरस्याविद्यमान-सङ्ख्यावेदनाभावो नासार्वज्ञ्यम् आवहतीति चेद् भिन्नत्वे सङ्ख्याविधुरत्वं नोपपद्यते। आत्मानः सङ्ख्यावन्तः, भिन्नत्वात्, माष-सर्षप-घट-पटादिवत्। भिन्नत्वे चात्मनां घटादिवज् जडत्वम् अनात्मत्वं क्षयित्वं च प्रसज्यते। ब्रह्मणश् चानन्तत्वं न स्यात्। अनन्तत्वं नाम परिच्छेद-रहितत्वम्। भेद-वादे च वस्त्व्-अन्तराद् विलक्षणत्वेन ब्रह्मणो वस्तुतः परिच्छेद-रहितत्वं न शक्यते वक्तुम्; वस्त्व्-अन्तरभाव एव हि वस्तुतः परिच्छेदः। वस्तुतः परिच्छिन्नस्य देशतः कालतश् चापरिच्छिन्नत्वं च न युज्यते; वस्त्व्-अन्तराद् विलक्षणत्वेन वस्तुतः परिच्छिन्ना एव घटादयो देशतः कालतश् च परिछिन्ना हि दृष्टाः; तथा सर्वे चेतना ब्रह्म च वस्तुतः परिच्छिन्ना देश-कालाभ्याम् अपि परिच्छिद्यन्ते। एवं च, सत्यं ज्ञानम् अनन्तम् इत्य् आदिभिः सर्व-प्रकार-परिच्छेद-रहितत्वं वदद्भिर् विरोधः। उत्पत्ति-विनाशादयश् च जीवानां ब्रह्मणश् च प्रसज्येरन्। काल-परिच्छेद एव ह्य् उत्पत्ति-विनाश-भागित्वम्। अत एकस्यैवापरिच्छिन्नस्य ब्रह्मणोऽविद्या-विजृम्भितं ब्रह्मादि-स्तम्ब-पर्यन्तं कृत्स्नं जगत्। सुख-दुःख-प्रतिसन्धान-व्यवस्थादयोऽपि स्वाप्न-व्यवस्थावद् अविद्या-स्वाभाव्याद् उपपद्यन्ते। तस्माद् एकम् एव नित्य-मुक्त-स्व-प्रकाश-स्वभावम् अनाद्य्-अविद्या-वशाज् जगद्-आकारेण विवर्तत इति परमार्थतो ब्रह्म-व्यतिरिक्ताभावात् तद्-अनन्यत्वं जगतः, इति॥ 

Link copied

अत्रोच्यते--- निर्विशेष-स्व-प्रकाश-मात्रं ब्रह्मानाद्य्-अविद्या-तिरोहित-स्व-स्वरूपं स्वगत-नानात्वं पश्यतीत्य् एतत् प्रकाश-स्वरूपस्य निरंशस्य प्रकाश-निवृत्ति-रूप-तिरोधाने स्वरूप-नाश-प्रसङ्गेन तिरोधानासम्भवादिभ्यः सकल-प्रमाण-विरुद्धं स्व-पचन-विरुद्धं चेति पूर्वम् एवोक्तम्। यत् पुनर् उक्तं कारण-व्यतिरिक्तं कार्यं युक्ति-बाधितत्वेन शुक्तिका-रजतादिवद् भ्रम इति; तद् अयुक्तम्, युक्तेर् अभावात्। यत् त्व् अनुवर्तमानस्य कारण-मात्रस्य सत्यत्वम्, व्यावर्तमानानां घट-शरावादि-कार्याणाम् असत्यत्वम् इति; तद् अप्य् अन्यत्र दृष्टस्यान्यत्र व्यावर्तमानता न बाधिकेत्य् आदिभिः पूर्वम् एव परिहृतम्। यच् चोपलभ्यमानत्व-विनाशित्वाभ्यां सद्-असद्-अनिर्वचनीयत्वेन कार्यस्य मृषात्वम् इति; तद् असत्, उपलब्धि-विनाश-योगो हि न मिथ्यात्वं साधयति, किन्त्व् अनित्यत्वम्। यद् देश-काल-सम्बन्धितया यद् उपलब्धम्, तद् देश-काल-सम्बन्धितया बाधितत्वम् एव हि तस्य मिथ्यात्वे हेतुः। देशान्तर-कालान्तर-सम्बन्धितयोपलब्धस्यान्य-देश-काल-सम्बन्धित्वेन बाधितत्वं देशान्तर-कालान्तराव्याप्ति-मात्रं साधयति; न तु मिथ्यात्वम्। प्रतिप्रयोगश् च--- घटादि कार्यं सत्यम्, देश-कालादि-प्रतिपन्नोपाधाव् अबाधितत्वात्, आत्मवत्। 

Link copied

यच् चोक्तं कारण-स्वरूपाद् अविकृताद् विकृताच् च कार्योत्पत्तिर् न सम्भवतीति; तद् असत्, देश-कालादि-सहकारि-समवहितात् कारणात् कार्योत्पत्ति-सम्भवात्। तत्-समवधानं च विकृतस्याविकृतस्य च न सम्भवतीति यद् उक्तम्; पूर्वम् अविकृतस्यैव कालादि-समवधान-सम्भवात्। अविकृतत्वाविशेषात् पूर्वम् अपि देश-कालादि-समवधानं प्रसज्यत इति चेन् न; देश-कालादि-समवधानस्य कारणान्तरायत्तस्यैतद्-आयत्तत्वाभावात्। अतो देश-कालादि-समवधान-रूप-विशेषम् आपन्नं कारणं कार्यम् उत्पादयतीति न किञ्चिद् अवहीनम्। कारणस्य च कार्यं प्रत्यारम्भकत्वम् अबाधितं दृश्यमानं न केनापि प्रकारेणापह्नोतुम् शक्यते॥ 

Link copied

यत् तु हेमादि-मात्रस्य, रुचकादि-कार्यस्यैतद्-आश्रयस्य वा हेमादेर् आरम्भकत्वं न सम्भवतीति; तद् अयुक्तम्, हेमादि-मात्रस्यैव यथोक्त-परिकर-युक्तस्यारम्भकत्व-सम्भवात्। न चारम्भक-हेम-व्यतिरिक्तं कार्यं न दृश्यत इति वक्तुं शक्यम्; हेमातिरिक्तस्य स्वस्तिकस्य दर्शनात्, बुद्धि-शब्दान्तरादिभिर् वस्त्व्-अन्तरस्य साधितत्वाच् च। न चायं शुक्तिका-रजतादिवद् भ्रमः, उत्पत्ति-विनाशयोर् अन्तराल उपलभ्यमानस्य तद्-देश-काल-सम्बन्धितया बाधादर्शनात्। न चास्या उपलब्धेर् बाधिका काचिद् अपि युक्तिर् दृश्यते। प्राग्-अनुपलब्ध-स्वस्तिकोपलब्धि-वेलायाम् अपि हेम-प्रत्यभिज्ञा स्वस्तिकाश्रयतया हेम्नोऽप्य् अनुवृत्तेर् अविरुद्धा। श्रुतिभिस् तु प्रपञ्च-मिथ्यात्व-साधनं पूर्वम् एव निरस्तम्। यच् चान्यद् अत्र प्रत्यक्षाविरोधादि प्रतिवक्तव्यम्, तद् अपि सर्वं पूर्वम् एव सूक्तम्। 

Link copied

यच् चोक्तम् एकेनात्मना सर्वाणि शरीराण्य् आत्मवन्तीति; तद् असत्, एकस्यैव सर्व-शरीर-प्रयुक्त-सुख-दुःख-प्रतिसन्धान-प्रसङ्गात्। सौभरि-प्रभृतिषु ह्य् आत्मैकत्वेनानेक-शरीर-प्रयुक्त-सुखादि-प्रतिसन्धानम् एकस्य दृश्यते। न चाहम्-अर्थस्य ज्ञातृत्वात् तद्-भेदात् प्रतिसन्धानाभावो, नात्मभेदाद् इति वक्तुं शक्यम्; आत्मा ज्ञातैव, स चाहम्-अर्थ एव, अन्तःकरण-भूतस् त्व् अहङ्कारो जडत्वात् करणत्वाच् च शरीरेन्द्रियादिवन् न ज्ञातेत्य् उपपादितत्वात्। यच् च शरीरत्व-जडत्व-कार्यत्व-कल्पितत्वैः सर्व-शरीराणाम् एकस्याविद्या-कल्पितत्वम् उक्तम्; तद् अपि सर्व-शरीराणाम् अविद्या-कल्पितत्वस्यैवाभावाद् अयुक्तम्। तद्-अभावश् चाबाधितस्य सत्यत्वोपपादनात्। यच् च चेतनाद् अन्यस्य जडत्व-दर्शनात् सर्व-चेतनानाम् अनन्यत्वम् उक्तम्, तद् अपि सुख-दुःख-व्यवस्थया भेदोपपादनाद् एव निरस्तम्। यत् तु मयैवात्मवन्ति, मद्-अविद्या-कल्पितान्य् अहम् एव सर्वं चेतन-जातम् इत्य् अहम्-अर्थस्यैक्यम् उपपादितम्, तद्-अज्ञात-स्व-सिद्धान्तस्य भ्रान्ति-जल्पितम्; अहं-त्वम्-आद्य्-अर्थ-विलक्षणं चिन्-मात्रं ह्य् आत्मा त्वन्-मते॥ 

Link copied

किं च निर्विशेष-चिन्-मात्रातिरेकि सर्वं मिथ्येति वदतो मोक्षार्थ-श्रवणादि-प्रयत्नो निष्फलः; अविद्या-कार्यत्वात्; शुक्तिका-रजतादिषु रजताद्य्-उपादानादि-प्रयत्नवत्। मोक्षार्थ-प्रयत्नो व्यर्थः; कल्पिताचार्यायत्त-ज्ञान-कार्यत्वात्, शुक-प्रह्लाद-वामदेवादि-प्रयत्नवत्। तत्त्वम् अस्य् आदि वाक्य-जन्य-ज्ञानं न बन्ध-निवर्तकम्, अविद्या-कल्पित-वाक्य-जन्यत्वात्, स्वयम् अविद्यात्मकत्वात्, अविद्या-कल्पित-ज्ञानाश्रयत्वात्, कल्पिताचार्यायत्त-श्रवण-जन्यत्वाद् वा, स्वाप्न-बन्ध-निवर्तन-वाक्य-जन्य-ज्ञानवत्। किं च निर्विशेष-चिन्-मात्रं ब्रह्म मिथ्या, अविद्या-कार्य-ज्ञान-गम्यत्वात्, अविद्या-कल्पित-ज्ञानाश्रय-ज्ञान-गम्यत्वात्, अविद्यात्मक-ज्ञान-गम्यत्वाद् वा, यद् एवं तत् तथा, यथा स्वाप्न-गन्धर्व-नगरादिः। न च निर्विशेष-चिन्-मात्रं ब्रह्म स्वयं प्रकाशते, येन न प्रमाणान्तरम् अपेक्षते। यत् त्व् आत्म-साक्षिकं स्वयं-प्रकाश-ज्ञानं दृश्यते, तत् तु ज्ञेय-विशेष-सिद्धि-रूपं ज्ञातृ-गतम् एव दृश्यत इति पूर्वम् एवोक्तम्। यानि च तस्य निर्विशेषत्व-साधकानि यौक्तिकानि ज्ञानान्य् उपन्यस्तानि, तानि चानन्तरोक्तैर् अविद्या-कार्यत्वाद् इत्य् आदिभिर् अनुमानैर् निरस्तानि। न च निर्विशेषस्य चिन्-मात्रस्याज्ञान-साक्षित्वम् अहङ्कारादि-जगद्-भ्रमश् चोपपद्यते। साक्षित्व-भ्रमादयोऽपि हि ज्ञातृ-विशेष-गता दृष्टाः; न ज्ञप्ति-मात्र-गताः। न च तस्य प्रकाशत्वं स्वायत्त-प्रकाशता वा सिध्यति। प्रकाशो हि कस्यचित् पुरुषस्य कञ्चनार्थ-विशेषं प्रति सिद्धि-रूपो दृश्यते। तत एव हि तस्य स्वयं-प्रकाशतोपपाद्यते भवद्भिर् अपि। न चातादृशस्य निर्विशेषस्य प्रकाशता सम्भवति॥

Link copied

यः पुनः स्व-गोष्ठीष्व् अपरमार्थाद् अपि परमार्थ-कार्यं दृश्यत इत्य् उद्घोषः, सोऽपि तानि कार्याणि सर्वाण्य् अबाधित-कल्पानि व्यावहारिक-सत्यानि; वस्तुतस् त्व् अविद्यात्मकान्य् एवेति स्वाभ्युपगमाद् एव निरस्तः। अस्माभिर् अपि सर्वत्र परमार्थाद् एव कारणात् सर्व-कार्योत्पत्तिम् उपपादयद्भिः पूर्वम् एव निरस्तः। न च त्वयैषाम् अनुमानानां श्रुति-विरोधो वक्तुं शक्यते, श्रुतेर् अप्य् अविद्यात्मकत्वेन चोक्त-दृष्टान्तेभ्यो विशेषाभावात्॥

Link copied

यत् तु ब्रह्मणोऽपारमार्थिक-ज्ञान-गम्यत्वेऽपि पश्चात्तन-बाधादर्शनाद् ब्रह्म सत्यम् एवेति तद् असत्, दुष्ट-कारण-जन्य-ज्ञान-गम्यत्वे निश्चिते सति पश्चात्तन-बाधादर्शनस्याकिञ्चित्करत्वात्; यथा शून्यम् एव तत्त्वम् इति वाक्य-जन्य-ज्ञानस्य पश्चात्तन-बाधादर्शनेऽपि दोष-मूलत्व-निश्चयाद् एव तद्-अर्थस्यासत्यत्वम्। किं च--- नेह नानास्ति किञ्चन, विज्ञानम् आनन्दं ब्रह्मेति विज्ञान-मात्रातिरिक्तस्य कृत्स्नस्य वस्तु-जातस्य निषेधकत्वेन सर्वस्मात् परत्वात् पश्चात्तन-बाधादर्शनम् उच्यते; शून्यम् एव तत्त्वम् इति तस्याप्य् अभावं वदतस् तस्मात् परत्वेन पश्चात्तन-बाधो दृश्यते। सर्व-शून्यत्वातिरेकि-निषेधासम्भवात् तस्यैव पश्चात्तन-बाधादर्शनम्। दोष-मूलत्वं तु प्रत्यक्षादीनां वेदान्त-जन्मनः सर्व-शून्य-ज्ञानस्याप्य् अविशिष्टम्। अतः सर्वं विज्ञान-जातं पारमार्थिक-ज्ञातृ-गतम्, स्वयं च परमार्थ-भूतम् अर्थ-विशेष-सिद्धि-रूपम्; तत्र किञ्चिज् ज्ञानं दोष-मूलम्; दोषश् च परमार्थः; किञ्चिच् च निर्दोषं पारमार्थिक-सामग्री-जन्यम् इति यावन् नाभ्युपेयते, न तावत् सत्य-मिथ्यार्थ-व्यवस्था लोक-व्यवहारश् च सेत्स्यति। लोक-व्यवहारो हि पारमार्थिको भ्रान्ति-रूपश् च पारमार्थिक-ज्ञातृ-गतार्थ-विशेष-सिद्धि-रूप-प्रकाश-पूर्वकः; निर्विशेष-सन्-मात्रस्य तु पारमाथिकस्यापारमार्थिकस्य च प्रतिभासादेर् हेतुत्वासम्भवाल् लोक-व्यवहारो न सम्भवति। यच् च तैर् निरधिष्ठान-भ्रमासम्भवात् सर्वाध्यासाधिष्ठानस्य सन्-मात्रस्य पारमार्थिकत्वम् उक्तं तद् अपि दोष-दोषाश्रयत्व-ज्ञातृत्व-ज्ञानानाम् अपारमार्थ्येऽपि भ्रमोपपत्तिवद् अधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेर् निरस्तम्। अथ अधिष्ठानापारमार्थ्येऽपि न क्वचिद् भ्रमो दृष्ट इति सन्-मात्रस्य पारमार्थिकत्वम् अवश्याश्रयणीयम् इति मन्यसे, हन्त तर्हि दोष-दोषाश्रयत्व-ज्ञातृत्व-ज्ञानानाम् अपारमार्थ्येऽपि न क्वचिद् भ्रमो दृष्ट इति दर्शनानुगुनुण्येन तेषाम् अपि पारमार्थ्यम् अवश्याश्रयणीयम् इति न कश्चिद् विशेषोऽन्यत्र तत्-संरम्भात्॥ 

Link copied

यत् तु भेद-पक्षेऽप्य् अतीत-कल्पानाम् आनन्त्यात् सर्वेषाम् आत्मनां मुक्तत्वेन बद्धासम्भवाद् बद्ध-मुक्त-व्यवस्था न सम्भवतीति, तदात्मानन्त्येन परिहृतम्। यत् त्व् आत्मनां भिन्नत्वे माष-सर्षप-घट-पटादिवत्-सङ्ख्यावत्त्वम् अवर्जनीयम् इति, तत्र घटादीनाम् अप्य् अनन्तत्वाद् दृष्टान्तः साध्य-विकलः स्यात्। दश-घटाः सहस्रं माषा इति सङ्ख्यावत्त्वं दृश्यत इति चेत् सत्यं, तत् तु न घटादि-स्वरूपगतम्, अपि तु देश-कालाद्य्-उपाधिमद्-घटादि-गतम्; तादृशं तु सङ्ख्यावत्त्वम् आत्मनाम् अभ्युपगच्छामः। न च तावता सर्व-मुक्ति-प्रसङ्गः; आत्म-स्वरूपानन्त्यात्। यत् त्व् आत्मनां भिन्नत्वे घटादिवज् जडत्वानात्मत्व-क्षयित्व-प्रसङ्ग इति; तद् अयुक्तं, एक-जातीयानां भेदस्य तज्-जातीयानां जात्य्-अन्तरीयत्वानापादकत्वात्। न हि घटानां भेदः तेषां पटत्वम् आपादयति। यत् तु भिन्नत्वे वस्तुतः परिच्छेदाद् देश-कालाभ्याम् अपि परिच्छेदो ब्रह्मणः प्रसज्यत इत्य् अनन्तत्वं ब्रह्मणो न सिध्यतीति; तद् अयुक्तं, वस्तुतः परिच्छिन्नानाम् अपि देश-काल-परिच्छेदस्य न्यूनाधिक-भावेनानियम-दर्शनात्; देश-काल-सम्बन्धेयत्तायाः प्रमाणान्तरायत्त-निर्णयत्वेन ब्रह्मणः सर्व-देश-काल-सम्बन्धस्यापि प्रमाणान्तराद् आपततो विरोधाभावात्। वस्तुतः परिच्छेद-मात्राद् अपि सर्व-प्रकार-परिच्छेद-रहितत्वाभावाद् आनन्त्यासिद्धिर् इति चेत्, तद् भवतोऽप्य् अविद्या-विलक्षणत्वं ब्रह्मणोऽभ्युपयतः समानम्। अतः सतोऽविद्या-विलक्षणत्वाभ्युपगमाद् ब्रह्मणोऽपि भिन्नत्वेन भेद-प्रयुक्ता दोषाः सर्वे तवापि प्रसज्येरन्। यद्य् अविद्या-विलक्षणत्वं नाभ्युपेयते तर्ह्य् अविद्यात्मकम् एव ब्रह्म स्यात्। सत्यं ज्ञानम् अनन्तं ब्रह्मेति लक्षण-वाक्यम् अपि तत एवापार्थकं स्यात्। भेद-तत्त्वानभ्युपगमे हि स्व-पक्ष-पर-पक्ष-साधन-दूषणादि-विवेकाभावात् सर्वम् असमञ्जसं स्यात्। आनन्त्य-प्रसिद्धिश् च देश-काल-परिच्छेद-रहितत्व-मात्रेण; न वस्तुतोऽपि परिच्छेद-रहितत्वेन, तथाविधस्य शश-विषाणायमानस्यानुपलब्धेः। भेद-वादिनस् तु सर्व-चिद्-अचिद्-वस्तु-शरीरत्वेन ब्रह्मणः सर्व-प्रकारत्वात् स्वतः परतोऽपि परिच्छेदो न विद्यते। तद् एवं कारणाद् भिन्नस्य कार्यस्य सत्यत्वाद् ब्रह्म-कार्यं कृत्स्नं जगद् ब्रह्मणोऽन्यद् एव॥ 

Link copied

इति प्राप्ते प्रचक्ष्महे--- तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः। तस्मात् परम-कारणाद् ब्रह्मणः, अनन्यत्वं जगत आरम्भण-शब्दादिभ्यः तद्-उपपादयद्भ्योऽवगम्यते। आरम्भण-शब्द आदिर् येषां वाक्यानाम्, तान्य् आरम्भण-शब्दादीनि--- वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम्, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं तद् ऐक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजत, अनेन जीवेनात्मनानुप्रविश्य, सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः\॥।ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेतकेतो, इत्य् एतानि; प्रकरणान्तर-स्थान्य् अप्य् एवञ्जातीयकान्य् अत्राभिप्रेतानि। एतानि हि वाक्यानि चिद्-अचिद्-आत्मकस्य जगतः परस्माद् ब्रह्मणोऽनन्यत्वम् उपपादयन्ति। तथा हि--- स्तब्धोऽस्युत तम् आदेशम् अप्राक्ष्यो येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातम् इति कृत्स्नं जगतो ब्रह्मैक-कारणत्वम्, कारणात् कार्यस्यानन्यत्वं च हृदि निधाय कारण-भूत-ब्रह्म-विज्ञानेन कार्य-भूतस्य सर्वस्य विज्ञाने प्रतिज्ञाते सति कृत्स्नस्य ब्रह्मैक-कारणताम् अजानता शिष्येण, कथं नु भगवः स आदेशः, इत्य् अन्य-ज्ञाने नान्य-ज्ञाततासम्भवं चोदितो, जगतो ब्रह्मैक-कारणताम् उपदेक्ष्यन्, लौकिक-प्रतीति-सिद्धं कारणात् कार्यस्यानन्यत्वं तावत्, यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं स्यात्, इति दर्शयति। यथैक-मृत्-पिण्डारब्धानां घट-शरावादीनां तस्माद् अनतिरिक्त-द्रव्यतया तज्-ज्ञानेन ज्ञाततेत्य् अर्थः। अत्र काणाद-वादेन कारणात् कार्यस्य द्रव्यान्तरत्वम् आशङ्क्य लोक-प्रतीत्यैव कारणात् कार्यस्यानन्यताम् उपपादयति--- वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति। आरभ्यते आलभ्यते स्पृश्यते इत्य् आरम्भणम्; कृत्य-ल्युटो बहूलम् इति कर्मणि ल्युट्। वाचा वाक्-पूर्वकेण व्यवहारेण हेतुनेत्य् अर्थः। घटेनोदकम् आहर, इत्य् आदि वाक्-पूर्वको ह्य् उदकाहरणादि-व्यवहारः; तस्य व्यवहारस्य सिद्धये, तेनैव मृद्-द्रव्येण पृथु-बुध्नोदरत्वादि-लक्षणो विकारः--- संस्थान-विशेषः, तत् प्रयुक्तं च घट इत्य् आदि नामधेयम्, स्पृश्यते--- उदकाहरणादि-व्यवहार-विशेष-सिद्ध्य्-अर्थं मृद्-द्रव्यम् एव संस्थानान्तर-नामधेयान्तर-भाग् भवति। अतो घटाद्य् अपि मृत्तिकेत्य् एव सत्यम्--- मृत्तिका-द्रव्यम् इत्य् एव सत्यम्, प्रमाणेनोपलभ्यत इत्य् अर्थः, न तु द्रव्यान्तरत्वेन। अतस् तस्यैव मृद्-धिरण्यादेर् द्रव्यस्य संस्थानान्तर-भाक्त्व-मात्रेण बुद्धि-शब्दान्तरादय उपपद्यन्ते यथैकस्यैव देवदत्तस्यावस्था-भेदैर् बालो युवा स्थविर इति बुद्धि-शब्दान्तरादयः कार्य-विशेषाश् च दृश्यन्ते॥ 

Link copied

यद् उक्तं सत्याम् एव मृदि घटो नष्ट इति व्यवहारात् कारणाद् अन्यत् कार्यम् इति, तद्-उत्पत्ति- विनाशादीनां कारण-भूतस्यैव द्रव्यस्यावस्था-विशेषत्वाभ्युपगमाद् एव परिहृतम्। तत्-तद्-अवस्थस्यैकस्यैव द्रव्यस्य ते ते शब्दास् तानि तानि च कार्याणीति युक्तम्। द्रव्यस्य तत्-तद्-अवस्थत्वं कारक-व्यापारायत्तम् इति तस्यार्थवत्त्वम्। अभिव्यक्त्य्-अनुबन्धीनि चोद्यानि तस्या अनभ्युपगमाद् एव परिहृतानि। उत्पत्त्य्-अभ्युपगमेऽपि सत्कार्यवादो न विरुध्यते सत एवोत्पत्तेः। विप्रतिषिद्धम् इदम् अभिधीयते--- पूर्वम् एव सत्, तद् उत्पद्यते चेति। अज्ञातोत्पत्ति-विनाश-याथात्म्यस्येदं चोद्यम्; द्रव्यस्योत्तरोत्तर-संस्थान-योगः पूर्व-पूर्व-संस्थान-संस्थितस्य विनाशः, स्वावस्थस्य तूत्पत्तिः। अतः सर्वावस्थस्य द्रव्यस्य सत्त्वात् सत्कार्यवादो न विरुध्यते। संस्थानस्यासत उत्पत्ताव् असत्कार्यवाद-प्रसङ्ग इति चेत्, असत्कार्यवादिनोऽप्य् उत्पत्तेर् अनुत्पत्तिमत्त्वे सत्कार्यवाद-प्रसङ्गः, उत्पत्तिमत्त्वे चानवस्था। अस्माकं त्व् अवस्थानां पृथक्-प्रतिपत्ति-कार्य-योगानर्हत्वाद् अवस्थावत एवोत्पत्त्य्-आदिकं सर्वम् इति निरवद्यम्। कपालत्व-चूर्णत्व-पिण्डत्वावस्था-प्रहाणेन घटत्वावस्थावद् एकत्वावस्था-प्रहाणेन बहुत्वावस्था, तत्-प्रहाणेनैकत्वावस्था चेति न कश्चिद् विरोधः॥ 

Link copied

तथा--- सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति सद् एवेदम् इदानीं विभक्त-नाम-रूपत्वेन नाना-रूपं जगद् अग्रे नाम-रूप-विभागाभावेनैकम् एवासीत्, सर्व-शक्तित्वेनाधिष्ठात्रन्तरासहतया अद्वितीयं चेत्य् अनन्यत्वम् एवोपपादितम्। तथा--- तद् ऐक्षत बहु स्यां प्रजायेयेति स्रक्ष्यमाण-तेजः-प्रभृति-विविध-विचित्र स्थिर-त्रस-रूप-जगत्त्वेनात्मनो बहु-भवनं सङ्कल्प्य जगत्-सर्गाभिधानात् कार्य-भूतस्य जगतः परम-कारणात् परस्माद् ब्रह्मणोऽनन्यत्वम् अवसीयते। सच्-छब्द-वाच्यस्य परस्य ब्रह्मणः सर्व-ज्ञस्य सत्य-सङ्कल्पस्य निरवद्यस्यैव सद् एवेदम् इति निर्देशार्ह-जगत्त्वम्, सच्-छब्द-वाच्यस्यैव जगतो नाम-रूप-विभागाभावेनैकत्वम् अधिष्ठात्रन्तर-निरपेक्षत्वम्, पुनर् अपि तस्यैव विचित्र-स्थिर-त्रस-रूप-जगत्त्वेन बहु-भवन-सङ्कल्प-रूपेक्षणम्, यथासङ्कल्पं सर्गश् च कथम् उपपद्यत इत्य् आशङ्क्याह--- सेयं देवतैक्षत हन्ताहम् इमास् तिस्रो देवताअ अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति तासां त्रिवृतं त्रिवृतम् इत्य् आदि। तिस्रो देवता इति कृत्स्नम् अचिद्-वस्तु निर्दिश्य स्वात्मक-जीवानुप्रवेशेनैतद्-विचित्र-नाम-रूप-भाक् करवाणीत्य् उक्तम्। अनेन जीवेनात्मना--- मद्-आत्मक-जीवेन आत्मतयानुप्रविश्यैतद् विचित्र-नाम-रूप-भाक् करवाणीत्य् अर्थः। स्वात्मनो जीवस्य चात्मतयानुप्रवेश-कृतं नाम-रूप-भाक्त्वम् इत्य् उक्तं भवति। तत् सृष्ट्वा, तद् एवानुप्राविशत्, तद् अनुप्रविश्य, सच् च त्यच् चाभवत्, इति श्रुत्य्-अन्तरेण स्पष्टं सजीवं जगत् परेण ब्रह्मणा आत्मतयानुप्रविष्टम् इति॥ 

Link copied

तद् एतत् कार्यावस्थस्य च कारणावस्थस्य च चिद्-अचिद्-वस्तुनः स्थूलस्य सूक्ष्मस्य च पर-ब्रह्म-शरीरत्वम्, परस्य च ब्रह्मण आत्मत्वम् अन्तर्यामि-ब्राह्मणादिषु सिद्धं स्मारितम्। अनेन पूर्वोक्ता शङ्का निरस्ता। अचिद्-वस्तुनि सजीवे ब्रह्मण्य् आत्मतयावस्थिते नाम-रूप-व्याकरण-वचनाच् चिद्-अचिद्-वस्तु-शरीरकं ब्रह्मैव जगच्-छब्द-वाच्यम् इति, सद् एवेदम् अग्र एकम् एवासीद् इत्य् आदि सर्वम् उपपन्नतरम्। शरीर-भूत-चिद्-अचिद्-वस्तु-गताः सर्वे विकाराश् चापुरुषार्थाश् चेति ब्रह्मणो निरवद्यत्वं कल्याण-गुणाकरत्वं च सुस्थितम्। तद् एतत्, अधिकं तु भेद-निर्देशात्, इत्य् अनन्तरम् एव वक्ष्यति। तथा--- ऐतदात्म्यम् इदं सर्वम् इति कृत्स्नस्य चेतनाचेतनस्य ब्रह्म-तादात्म्यम् उपदिशति। तद् एव च--- तत् त्वम् असीति निगमयति। तथा प्रकणान्तरस्थेष्व् अपि वाक्येषु---सर्वं खल्व् इदं ब्रह्म, आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्, इदं सर्वं यद् अयम् आत्मा, ब्रह्मैवेदं सर्वम्, आत्मैवेदं सर्वम् इत्य् अनन्यत्वं प्रतीयते। तथान्यत्वं च निषिध्यते--- सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद, नेह नानास्ति किञ्चन, मृत्योः स मृत्युम् आप्नोति य इह नानेवपश्यति, इति। तथा--- यत्र हि द्वैतम् इव भवति तद्-इतर इतरं पश्यति यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत्, इत्य् अविदुषो द्वैत-दर्शनं विदुषश् चाद्वैत-दर्शनं प्रतिपादयद् अनन्यत्वम् एव तात्त्विकम् इति प्रतिपादयति। तद् एवम् आरम्भण-शब्दादिभ्यो जगतः परम-कारणात् परस्माद् ब्रह्मणोऽनन्यत्वम् उपपाद्यते। 

Link copied

अत्रेदं तत्त्वम्--- चिद्-अचिद्-वस्तु-शरीरतया तत्-प्रकारं ब्रह्मैव सर्वदा सर्व-शब्दाभिधेयम्। तत् कदाचित् स्व-शरीरतयापि पृथग्-व्यपदेशानर्ह-सूक्ष्म-दशापन्न-चिद्-अचिद्-वस्तु-शरीरम्। तत् कारणावस्थं ब्रह्म। कदाचिच् च विभक्त-नाम-रूप-व्यवहारार्ह-स्थूल-दशापन्न-चिद्-अचिद्-वस्तु-शरीरम्। तच् च कार्यावस्थम् इति कारणात् परस्माद् ब्रह्मणः कार्य-रूपं जगद् अनन्यत्। शरीर-भूत-चिद्-अचिद्-वस्तुनः शरीरिणो ब्रह्मणश् च कारणावस्थायां कार्यावस्थायां च श्रुति-शत-सिद्धया स्वभाव-व्यवस्थया गुण-दोष-व्यवस्था च, न तु दृष्टान्त-भावात्, इत्य् अत्रोक्ता॥ 

Link copied

ये तु कार्य-कारणयोर् अनन्यत्वं कार्यस्य मिथ्यात्वाश्रयणेन वर्णयन्ति, न तेषां कार्य-कारणयोर् अनन्यत्वं सिध्यति, सत्य-मिथ्यार्थयोर् ऐक्यानुपपत्तेः; तथा सति ब्रह्मणो मिथ्यात्वं जगतः सत्यत्वं वा स्यात्॥ [ब्रह्माज्ञान-वादि-मत-दूषणम् इदम्] 

Link copied

ये च कार्यम् अपि पारमार्थिकम् अभ्युपयन्त एव जीव-ब्रह्मणोर् औपाधिकम् अन्यत्वम्, स्वाभाविकं चानन्यत्वम्, अचिद्-ब्रह्मणोस् तु द्वयम् अपि स्वाभाविकम् इति वदन्ति; तेषाम् उपाधि-ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तराभावान् निरवयवस्याखण्डितस्य ब्रह्मण एवोपाधि-सम्बन्धाद् ब्रह्म-स्वरूपस्यैव हेयाकार-परिणामात्, शक्ति-परिणामाभ्युपगमे शक्ति-ब्रह्मणोर् अनन्यत्वाच् च जीव-ब्रह्मणोः कर्म-वश्यत्वापहत-पाप्मत्वादि-व्यवस्था-वादिन्योऽचिद्-ब्रह्मणोश् च परिणामापरिणाम-वादिन्यः श्रुतयो व्याकुप्येयुः॥ [भास्कर-मत-दूषणम् इदम्] 

Link copied

ये पुनः निरस्त-निखिल-भोक्तृत्वादि-विकल्प-विप्लवं सर्व-शक्ति-युक्तं सन्-मात्र-द्रव्यम् एव कारणं ब्रह्म; तच् च प्रलय-वेलायां शान्ताशेष-सुख-दुःखानुभव-विशेषं स्व-प्रकाशम् अपि सुषुप्तात्म-वद-चिद्-अविलक्षणम् अवस्थितम्; सृष्टि-वेलायां मृत्तिका-द्रव्यम् इव घट-शरावादि-रूपम्, समुद्र इव च फेन-तरङ्ग-बुद्बुदादि-रूपो भोक्तृ-भोग्य-नियन्तृ-रूपेणांश-त्रयावस्थम् अवतिष्ठते; अतो भोक्तृ-भोग्य-नियन्तृत्वानि तत्-प्रयुक्ताश् च गुण-दोषाः शरावत्व-घटत्व-मणिकत्ववत्-तद्-गत-कार्य-भेदवच् च व्यवतिष्ठन्ते; भोक्तृ-भोग्य-नियन्तॄणां सद्-आत्मनैकत्वं च घट-शराव-मणिकादीनां मृद्-आत्मनैकत्ववद् उपपद्यते; अतः सन्-मात्र-द्रव्यम् एव सर्वावस्थावस्थितम् इति ब्रह्मणोऽनन्यज् जगद् आतिष्ठन्ते; तेषां सकल-श्रुति-स्मृतीतिहास-पुराण-न्याय-विरोधः। 

Link copied

सर्वा हि श्रुतयः सस्मृतीतिहास-पुराणाः सर्वेश्वरेश्वरं सदैव सर्व-ज्ञं सर्व-शक्तिं सत्य-सङ्कल्पं निरवद्यं देश-कालानवच्छिन्नानवधिकातिशयानन्दं परम-कारणं ब्रह्म प्रतिपादयन्ति; न पुनर् ईश्वराद् अपि परमीश्वरांशि सन्-मात्रम्। तथा हि--- सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्, तद् ऐक्षत बहु स्यां प्रजायेयेति, ब्रह्म वा इदम् अग्र आसीद् एकम् एव तद् एकं सन् न व्यभवत् तच्-छ्रेयो-रूपम् अत्यसृजत क्षत्रं यान्य् एतानि देव-क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युर् ईशान इति, आत्मा वा इदम् एक एवाग्र आसीत्, नान्यत् किञ्चन मिषत् स ऐक्षत लोकान् नु सृजा इति, एको ह वै नारायण आसीन् न ब्रह्मा नेशानो नेमे द्याव् आपृथिवी न नक्षत्राणि नापो नाग्निर् न सोमो न सूर्यः स एकाकी न रमेत तस्य ध्यानान्त-स्थस्य, इत्य् आदिभिः परम-कारणं सर्वेश्वरेश्वरो नारायण एवेत्य् अवगम्यते। सद्-ब्रह्मात्म-शब्दा हि तुल्य-प्रकरण-स्थास् तत्-तुल्य-प्रकरण-स्थेन नारायण-शब्देन विशेषितास् तम् एवावगमयन्ति। तम् ईश्वराणां परमं महेश्वरम्, स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः, इतीष्वरस्यैव कारणत्वं श्रूयते॥ 

Link copied

स्मृतिर् अपि मानवी, ततः स्वयम्भूर् भगवान् इति प्रकृत्य, सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यम् अपासृजत्, इति।

Link copied

इतिहास-पुराणान्य् अपि पुरुषोत्तमम् एव परम-कारणम् अभिदधति--- नारायणो जगन्-मूर्तिर् अनन्तात्मा सनातनः--- स सिसृक्षुः सहस्रांशाद् असृजत् पुरुषान् द्विधा, विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् इत्य् आदिषु॥ न चेश्वरः सन्-मात्रम् एवेति वक्तुं शक्यम्, तस्य तद्-अंशत्वाभ्युपगमात् सविशेषत्वाच् च। न च तस्य ज्ञानानन्दाद्य्-अनन्त-कल्याण-गुण-योगः कादाचित् क इति वक्तुं शक्यते, तेषां स्वाभाविकत्वेन सद्-आतनत्वात्। परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च, यः सर्व-ज्ञः सर्व-वित्, इत्य् आदिभ्यः। ज्ञानानन्दादि-शक्ति-योग एवास्य स्वाभाविक इति मा वोचः, शक्तिः स्वाभाविकी, ज्ञान-बल-क्रिया च स्वाभाविकी इति पृथङ् निर्देशाल् लक्षणाप्रसङ्गाच् च। न च पाचकादिवत् सर्व-ज्ञः इत्य् आदिषु शक्ति-मात्रे कृत्-प्रत्यय इति वक्तुं शक्यम्, कृत्-प्रत्यय-मात्रस्य शक्ताव् अस्मरणात्, शक्तौ हस्तिक-पाटयोः, इत्य् आदिषु केषाञ्चिद् एव कृत्-प्रत्ययानां शक्ति-विषयत्व-स्मरणात्। पाचकादिषु त्व् अगत्या लक्षणा समाश्रीयते। किं च, ईश्वरस्य तद्-अंश-विशेषत्वात्तः स चांशित्वे तरङ्गात् समुद्रस्येवांशाद् अंशिनोऽधिकत्वात्, तम् ईश्वराणां परमं महेश्वरम्, न तत्-समश् चाभ्यधिकश् च दृश्यते, इत्य् आदीन् ईश्वर-विषयाणि परः शतानि वचांसि बाध्येरन्। किं च सन्-मात्रस्य सर्वात्मकत्वे अंशित्वे च ईश्वरस्य तद्-अंश-विशेषत्वात् तस्य सर्वात्मकत्वांशित्वोपदेशा व्याहन्येरन्। न हि मणिकात्मकत्वं तद्-अंशत्वं वा घट-शरावादेः। स्वांशेषु सर्वेषु सन्-मात्रस्य पूर्णत्वेनेश्वरांशेऽपि तस्य पूर्णत्वात् तद्-आत्मकानि तद्-अंशाश् चेतराणि वस्तूनीति चेन् न, घटेऽपि सन्-मात्रस्य पूर्णत्वादीश्वरस्यापि घटात्मकत्व-तद्-अंशत्व-प्रसङ्गात्। न च सन्-मात्रस्य घटोऽस्ति, पटोऽस्तीति वस्तु-धर्मतयावगतस्य द्रव्यत्वं कारणत्वं वोपपद्यते। व्यवहार-योग्यता हि सत्वम्। विरोधि-व्यवहार-योग्यता तद्-व्यवहार-योग्यस्यासत्त्वम्। द्रव्यम् एव सद् इत्य् अभ्युपगमे क्रियादीनाम् असत्व-प्रसङ्गः। क्रियादिषु काश-कुशावलम्बनेनापि सर्वत्रैक-रूपा सत्ता दुरुपपादा। सद्-आत्मनाच् च सर्वस्याभिन्नत्वे सर्व्ज्ञत्वेन सर्व-स्वभाव-प्रातिसन्धानात् सर्व-गुण-दोष-सङ्कर-प्रसङ्गश् च पूर्वम् एवोक्तः। अतो यथोक्त-प्रकारम् एवानन्यत्वम्॥ [यादवप्रकाश-मत-दूषणम् इदम्] ॥१५॥

Link copied

अथोच्येत--- एकस्यैवावस्थान्तर-योगेऽपि बुद्धि-शब्दान्तरादयो बालत्व-युवत्वादिषु दृश्यन्ते, मृद्-दारु-हिरण्यादिषु द्रव्यान्तरत्वेऽपि दृश्यन्ते, तत्र मृद्-धटादिषु कार्य-कारणेषु बुद्धि-शब्दान्तरादयोऽवस्था-निबन्धना एवेति कुतो निर्णीयत इति। तत्रोत्तरम्---

Link copied

**१५४ भावे चोपलब्धेः॥२।१।१६॥ **

Link copied

कुण्डलादि-कार्य-सद्-भावे च कारण-भूत-हिरण्यस्योपलब्धेः--- इदं कुण्डलं हिरण्यम् इति हिरण्यत्वेन प्रत्यभिज्ञानाद् इत्य् अर्थः। न चैवं हिरण्यादिषु द्रव्यान्तरेषु मृद्-आदय उपलभ्यन्ते। अतो बाल-युवादिवत् कारण-भूतम् एव द्रव्यम् अवस्थान्तरापन्नं कार्यम् इति गीयते; द्रव्यान्तर-वादिनाप्य् अभ्युपेते नावस्थान्तर-योगेन बुद्धि-शब्दान्तरादिषूपपन्नेष्व् अनुपलब्ध-द्रव्यान्तर-कल्पनानुपपत्तेश् च। न च जातिनि बन्धनेयं प्रत्यभिज्ञा, जात्य्-आश्रय-भूत-द्रव्यान्तरानुपलब्धेः; एकम् एव हेम-जातीयं द्रव्यं कार्य-कारणो भयावस्थं दृश्यते। न च द्रव्य-भेदे समवायि-कारणानुवृत्त्या कार्ये प्रतिसन्धानम् इति वक्तुं शक्यम्, द्रव्यान्तरत्वे सत्याश्रयानुवृत्ति-मात्रेण तद्-आश्रित-द्रव्यान्तरे प्रतिसन्धानानुपपत्तेः। गोमयादि-कार्ये वृश्चिकादौ गोमयादि-प्रतिसन्धानं न दृश्यत इति चेन् न, तत्राप्य् आद्य-कारण-भूत-पृथिवी-द्रव्य-प्रत्यभिज्ञानात्। अग्नि-कार्ये धूमे अग्नि-प्रत्यभिज्ञानं न दृश्यत इति चेत्, भवतु न तत्र प्रत्यभिज्ञानम्; तथापि न दोषः, अग्नेर् निमित्त-कारण-मात्रत्वात्। अग्नि-संयुक्तार्द्रेन्धनाद् धि धूमो जायते। गन्धैक्याच् चार्द्रेन्धन-कार्यम् एव धूमः। अतः कार्य-भावे च तद् एवेदम् इत्य् उपलब्धेर् बुद्धि-शब्दान्तरादयोऽवस्था-भेद-मात्र-निबन्धना इत्य् अवगम्यते। तस्मात् कारणाद् अनन्यत् कार्यम्॥१६॥ 

Link copied

इतश् च---

Link copied

**१५५ सत्त्वाच् चापरस्य॥२।१।१७॥ **

Link copied

अपरस्य--- कायस्य कारणे सत्त्वाच् च कारणात् कार्यस्यानन्यत्वम्। लोक-वेदयोर् हि कार्यम् एव कारणतया व्यपदिश्यते; यथा लोके सर्वम् इदं घट-शरावादिकं पूर्वाह्ने मृत्तिकैवासीद् इति; वेदे च--- सद् एव सोम्येदम् अग्र आसीद् इति॥१७॥ 

Link copied

**१५६ असद्-व्यपदेशान् नेति चेन् न, धर्मान्तरेण वाक्य-शेषाद्य्-उक्तेः शब्दान्तराच् च॥२।१।१८॥ **

Link copied

यद् उक्तं कारणे कार्यस्य सत्त्वं लोक-वेदाभ्याम् अवगम्यत इति; तद् अयुक्तम्, असद्-व्यपदेशात्, असद् एवेदम् अग्र आसीत्, असद् वा इदम ग्र आसीत्, इदं वा अग्रे नैव किञ्चनासीत्, इति। लोके च सर्वम् इदं घट-शरावादिकं पूर्वाह्ने नासीद् इति। अतो यथोक्तं नोपपद्यत इति चेत् तन् न, धर्मान्तरेण तथा व्यपदेशात्। स खल्व् असद्-व्यपदेशस् तस्यैव कार्य-द्रव्यस्य पूर्व-काले धर्मान्तरेण-संस्थानान्तरेण; न भवद्-अभिप्रेतेन तुच्छत्वेन। सत्त्वासत्त्वे हि द्रव्य-धर्माव् इत्य् उक्तम्। तत्र सत्त्व-धर्माद् धर्मान्तरम् असत्त्वम्। इदं-शब्द-निर्दिष्टस्य जगतः सत्त्व-धर्मो नाम-रूपे; असत्त्व-धर्मस् तु तद्-विरोधिनी सूक्ष्मावस्था। अतो जगतो नाम-रूप-युक्तस्य तद्-विरोधि-सूक्ष्म-दशापत्तिर् असत्त्वम्। कथम् इदम् अवगम्यते। वाक्य-शेषाद्य्-उक्तेः शब्दान्तराच् च वाक्य-शेषस् तावत्--- इदं वा अग्रे नैव किञ्चनासीत्, इत्य् अत्र, तद् असद् एव सन् मनोऽकुरुत स्याम् इति, इति। अनेन वाक्य-शेष-गतेन मनस्कार-लिङ्गेनासच्-छब्दार्थे तुच्छातिरिक्ते निश्चिते तद्-ऐकार्थ्यात्--- असद् एवेदम् इत्य् आदिष्व् अप्य् असच्-छब्दस्यायम् एवार्थ इति निश्चीयते। युक्तेश् चासत्त्वस्य धर्मान्तरत्वम् अवगम्यते। युक्तिर् हि सत्त्वासत्त्वे पदार्थ-धर्माव् अवगमयति। मृद्-द्रव्यस्य पृथु-बुध्नोदराकार-योगो घटोऽस्तीति व्यवहार-हेतुः; तस्यैव तद्-विरोध्य्-अवस्थान्तर-योगो घटो नास्तीति व्यवहार-हेतुः। तत्र कपालाद्य्-अवस्थायास् तद्-विरोधित्वेन सैव घटावस्थस्य नास्तीति व्यवहार-हेतुः। न च तद्-व्यतिरिक्तो घटाभावो नाम कश्चिद् उपलभ्यते; न च कल्प्यते, तावतैवाभाव-व्यवहारोपपत्तेः। तथा शब्दान्तराच् च पूर्व-काले धर्मान्तर-योग एवावगम्यते। शब्दान्तरश् च पूर्वोदाहृतं--- सद् एव सोम्येदम् अग्र आसीद् इत्य् आदिकम्। तत्र हि--- कुतस् तु खलु सोम्यैवं स्यात्, इति तुच्छत्वम् आक्षिप्य, सद् एव सोम्येदम् अग्र आसीद् इति स्थापितं तद् धेदं तर्ह्य् आव्याकृतम् आसीत् तन्-नाम-रूपाभ्यां व्याक्रियत, इति सुस्पष्टम् उक्तम्॥१८॥ 

Link copied

इदानीं कार्यस्य कारणाद् अनन्यत्वे निदर्शन-द्वयं द्वाभ्यां सूत्राभ्यां दर्शयति---

Link copied

**१५७ पटवच् च॥२।१।१९॥ **

Link copied

यथा तन्तव एव व्यतिषङ्ग-विशेष-भाजः पट इति नाम-रूप-कार्यान्तरादिकं भजन्ते; तद्वद् ब्रह्मापि॥१९॥ 

Link copied

**१५८ यथा च प्राणादिः॥२।१।२०॥ **

Link copied

यथा च वायुर् एक एव शरीरे वृत्ति-विशेषं भजमानः प्राणापानादि-नाम-रूप-कार्यान्तराणि भजते; तद्वद् ब्रह्मैकम् एव विचित्र-स्थिर-त्रस-रूपं जगद् भवतीति परम-कारणात् परस्माद् ब्रह्मणोऽनन्यत्वं जगतः सिद्धम्॥२०॥ इत्य् आरम्भणाधिकरणम्॥६॥ 

Link copied

अथ इतर-व्यपदेशाधिकरणम्॥७॥

Link copied

**१५९ इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः॥२।१।२१॥ **

Link copied

जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भिः, तत् त्वम् असि, अयम् आत्मा ब्रह्म, इत्य् आदिभिर् जीवस्यापि ब्रह्मानन्यत्वं व्यपदिश्यत इत्य् उक्तम्। तत्रेदं चोद्यते--- यदीतरस्य जीवस्य ब्रह्म-भावोऽमीभिर् वाक्यैर् व्यपदिश्यते तदा ब्रह्मणः सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-युक्तस्यात्मनो हित-रूप-जगद्-अकरणम् अहित-रूप-जगत्-करणम् इत्य् आदयो दोषाः प्रसज्येरन्। आध्यात्मिकाधिदैविकाधिभौतिकानन्त-दुःखाकरं चेदं जगत्; न चेदृशे स्वानर्थे स्वाधीनो बुद्धिमान् प्रवर्तते। जीवाद् ब्रह्मणो भेद-वादिन्यः श्रुतयो जगद्-ब्रह्मणोर् अनन्यत्वं वदता त्वयैव परित्यक्ताः; भेदे सत्य् अनन्यत्वासिद्धेः॥ 

Link copied

औपाधिक-भेद-विषया भेद-श्रुतयः, स्वाभाविकाभेद-विषयाश् चाभेद-श्रुतय इति चेत् तत्रेदं वक्तव्यम्--- स्वभावतः स्वस्माद् अभिन्नं जीवं किम् अनुपहितं जगत्-कारणं ब्रह्म जानाति वा न वा। न जानाति चेत् सर्वज्ञत्व-हानिः; जानाति चेत् स्वस्माद् अभिन्नस्य जीवस्य दुःखं स्व-दुःखम् इति जानतो ब्रह्मणो हिताकरणाहित-करणादि-दोष-प्रसक्तिर् अनिवार्या॥ 

Link copied

जीव-ब्रह्मणोर् अज्ञान-कृतो भेदः, तद्-विषया भेद-श्रुतिर् इति चेत् तत्रापि जीवाज्ञान-पक्षे पूर्वोक्तो विकल्पस् तत्-फलं च तद्-अवस्थम्। ब्रह्माज्ञान-पक्षे स्व-प्रकाश-स्वरूपस्य ब्रह्मणोऽज्ञान-साक्षित्वं तत्-कृत-जगत्-सृष्टिश् च न सम्भवति। अज्ञानेन प्रकाशस् तिरोहितश् चेत् तिरोधानस्य प्रकाश-निवृत्ति-करत्वेन प्रकाशस्यैव स्वरूपत्वात् स्वरूप-निवृत्तिर् एवेति स्वरूप-नाशादि-दोष-सहस्रं प्राग् एवोदीरितम्। अत इदम् असङ्गतं ब्रह्मणो जगत्-कारणत्वम्॥२१॥ 

Link copied

इति प्राप्तेऽभिधीयते---

Link copied

**१६० अधिकं तु भेद-निर्देशात्॥२।१।२२॥ **

Link copied

तु-शब्दः पक्षं व्यावर्तयति; आध्यात्मिकादि-दुःख-योगार्हात् प्रत्यगात्मनोऽधिकम्---अर्थान्तर-भूतं ब्रह्म। कुतः। भेद-निर्देशात्--- प्रत्यगात्मनो हि भेदेन निर्दिश्यते परं ब्रह्म, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः, पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति, स कारणं करणाधिपाधिपः, तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति, ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ, प्राज्ञेनात्मना सम्परिष्वक्तः, प्राज्ञेनात्मनान्वारूढः, अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः, प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः, नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्, योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरं यम् अव्यक्तं न वेद योऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरं शरीरं यम् अक्षरं न वेद एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः, इत्य् आदिभिः॥२२॥ 

Link copied

**१६१ अश्मादिवच् च तद्-अनुपपत्तिः॥२।१।२३॥ **

Link copied

अश्म-काष्ठ-लोष्ट-तृणादीनाम् अत्यन्त-हेयानां सतत-विकारास्पदानाम् अचिद्-विशेषाणां निरवद्य्-अनिर्विकार-निखिल-हेय-प्रत्यनीक-कल्याणैकतान-स्वेतर-समस्त-वस्तु-विलक्षणानन्त-ज्ञानानन्दैक-स्वरूप-नाना-विधानन्त-महा-विभूति-ब्रह्म-स्वरूपैक्यं यथा नोपपद्यते, तथा चेतनस्याप्य् अनन्त-दुःख-योगार्हस्य खद्योत-कल्पस्य, अपहत-पाप्मा, इत्य् आदि वाक्यावगत-सकल-हेय-प्रत्यनीकानवधिकातिशयासङ्ख्येय-कल्याण-गुणाकर-ब्रह्म-भावानुपपत्तिः। सामानाधिकरण्य-निर्देशः, यस्यात्मा शरीरम् इत्य् आदि श्रुतेर् जीवस्य ब्रह्म-शरीरत्वाद् ब्रह्मणो जीव-शरीरतया तदात्मत्वेनावस्थितेर् जीव-प्रकार-ब्रह्म-प्रतिपादन-परश् चैतद्-अविरोधी, प्रत्युतैतस्यार्थस्योपपादकश् चेति, अवस्थितेर् इति काशकृत्स्नः, इत्य् आदिभिर् असकृद् उपपादितम्। अतः सर्वावस्थं ब्रह्म चिद्-अचिद्-वस्तु-शरीरम् इति सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कारणम्; तद् एव ब्रह्म स्थूल-चिद्-अचिद्-वस्तु-शरीरं जगद्-आख्यं कार्यम् इति जगद्-ब्रह्मणोः सामानाधिकरण्योपपत्तिः, जगतो ब्रह्म-कार्यत्वम्, ब्रह्मणोऽनन्यत्वम्, अचिद्-वस्तुनो जीवस्य च ब्रह्मणश् च परिणामित्व-दुःखित्व-कल्याण-गुणाकरत्व-स्वभावासङ्करः सर्व-श्रुत्य्-अविरोधश् च भवति। सद् एव सोम्येदम् अग्र आसीद् एकम् एवेत्य् अविभागावस्थायाम् अप्य् अचिद्-युक्त-जीवस्य ब्रह्म-शरीरतया सूक्ष्म-रूपेणावस्थानम् अवश्याभ्युपगन्तव्यम्, वैषम्य-नैर्घृण्ये न सापेक्षत्वात्। न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च, इति सूत्र-द्वयोदितत्वात् तदानीम् अपि सूक्ष्म-रूपेणावस्थानस्य। अविभागस् तु नाम-रूप-विभागाभावाद् उपपद्यते। अतो ब्रह्म-कारणत्वं सम्भवत्य् एव॥ 

Link copied

ये पुनर् अस्यैव जीवस्याविद्या-वियुक्तावस्थाम् अभिप्रेत्येमं भेदं वर्णयन्ति, तेषाम् इदं सर्वम् असङ्गतं स्यात्; न हि तद्-अवस्थस्य सर्वज्ञत्वं, सर्वेश्वरत्वं, समस्त-कारणत्वं, सर्वात्मत्वं सर्व-नियन्तृत्वम् इत्य् आदीनि सन्ति। अनेनैव रूपेण ह्य् आभिः श्रुतिभिः प्रत्यगात्मनो भेदः प्रतिपाद्यते। [तस्य सर्वस्याविद्या-परिकल्पितत्वात्] तत् सर्वं ह्य् अविद्या-परिकल्पितं त्वन्-मते। न चाविद्या-परिकल्पितस्याविद्यावस्थायां शुक्ति-कार-जतादि-भेदवत् परस्पर-भेदोऽत्र सूत्र-कारेण--- अधिकं तु भेद-निर्देशाद् इत्य् आदिषु प्रतिपाद्यते। ब्रह्म-जिज्ञासा कर्तव्येति जिज्ञास्यतया प्रक्रान्तस्य ब्रह्मणो जगज्-जन्मादि-कारणस्य वेदान्त-वेद्यत्वम्, तस्य च स्मृति-न्याय-विरोध-परिहारश् च क्रियते। अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम्, न तु दृष्टान्तभावात्, इति सूत्र-द्वयम् एतद्-अधिकरण-सिद्धम् अनुवदति; तत्र हि विलक्षणयोः कार्य-कारण-भाव-सम्भव एवाधिकरणार्थः। असद् इति चेन् न प्रतिषेध-मात्रत्वाद् इति च पूर्वाधिकरणस्थम् अनुवदति॥२३॥ इति इतर-व्यपदेशाधिकरणम्॥७॥ 

Link copied

अथ उपसंहार-दर्शनाधिकरणम्॥८॥

Link copied

**१६२ उपसंहार-दर्शनान् नेति चेन् न क्षीरवद् धि॥२।१।२४॥ **

Link copied

परस्य ब्रह्मणः सर्व-ज्ञस्य सत्य-सङ्कल्पस्य स्थूल-सूक्ष्मावस्थ-सर्व-चेतनाचेतन-वस्तु-शरीरतया सर्व-प्रकारत्वेन सर्वात्मत्वं सकलेतर-विलक्षणत्वं चाविरुद्धम् इति स्थापितम्। इदानीं सत्य-सङ्कल्पस्य परस्य ब्रह्मणः सङ्कल्प-मात्रेण विचित्र-जगत्-सृष्टि-योगो न विरुद्ध इति स्थाप्यते। ननु च परिमित-शक्तीनां कारक-कलापोपसंहार-सापेक्षत्व-दर्शनेन सर्व-शक्तेर् ब्रह्मणः कारक-कलापानुपसंहारेण जगत्-कारणत्व-विरोधः कथम् आशङ्क्यते। उच्यते--- लोके तत्-तत्-कार्य-जनन-शक्ति-युक्तस्यापि तत्-तद्-उपकरणापेक्षित्व-दर्शनात् सर्व-शक्ति-युक्तस्य परस्य ब्रह्मणोऽपि तत्-तद्-उपकरण-विरहिणः स्रष्टृत्वं नोपपद्यत इति कस्यचिन् मन्द-धियः शङ्का जायत इति सा निराक्रियते। घट-पटादि-कारण-भूतानां कुलाल-कुविन्दादीनां तज्-जनन-सामर्थ्ये सत्य् अपि कानिचिद् उपकरणान्य् उपसंहृत्यैव जनयितृत्वं दृश्यते। तज्-जननाशक्ताः कारक-कलापोपसंहारेऽपि जनयितुं न शक्नुवन्ति; शक्ताः पुनः कारक-कलापोपसंहारे जनयन्तीत्य् एतावान् एव विशेषः। ब्रह्मणोऽपि सर्व-शक्तेः सर्वस्य जनयितृत्वं तद्-उपकरणानाम् अनुपसंहारे नोपपद्यते। प्राक् सृष्टेश् चासहायत्वं, सद् एव सोम्येदम् अग्र आसीत्, एको ह वै नारायण आसीत्, इत्य् आदिषु प्रतीयते। अतः स्रष्टृत्वं नोपपद्यत इत्य् एवं प्राप्तम्। तद् इदम् आशङ्कते---उपसंहार-दर्शनान् नेति चेद् इति॥ 

Link copied

परिहरति--- न क्षीरवद् धीति। न सर्वेषां कार्य-जनन-शक्तानाम् उपसंहार-सापेक्षत्वम् अस्ति; यथा क्षीर-जलादेर् दधि-हिम-जनन-शक्तस्य तज्-जनने। एवं ब्रह्मणोऽपि स्वयम् एव सर्व-जनन-शक्तेः सर्वस्य जनयितृत्वम् उपपद्यते। हीति प्रसिद्धवन् निर्देशश् चोद्यस्य मन्दताख्यापनाय। क्षीरादिष्व् आतञ्चनाद्य्-अपेक्षा न दध्य्-आदि-भावाय, अपि तु शैघ्र्यार्थं रस-विशेषार्थं च॥२४॥ 

Link copied

**१६३ देवादिवद् अपि लोके॥२।१।२५॥ **

Link copied

यथा देवादयः स्वे स्वे लोके सङ्कल्प-मात्रेण स्वापेक्षितानि सृजन्ति; तथासौ पुरुषोत्तमः कृत्स्नं जगत् सङ्कल्प-मात्रेण सृजति। देवादीनां वेदावगत-शक्तीनां दृष्टान्ततयोपादानम्, ब्रह्मणो वेदावगत-शक्तेः सुख-ग्रहणायेति प्रतिपत्तव्यम्॥२५॥ इत्य् उपसंहार-दर्शनाधिकरणम्॥८॥ 

Link copied

अथ कृत्स्न-प्रसक्त्य्-अधिकरणम्॥९॥

Link copied

**१६४ कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-कोपो वा॥२।१।२६॥ **

Link copied

सद् एव सोम्येदम् अग्र आसीत्, इदं वा अग्रे नैव किञ्चनासीत्, आत्मा वा इदम् एक एवाग्र आसीत् इत्य् आदिषु कारणावस्थायां ब्रह्मैकम् एव निरवयवम् आसीद् इति कारणावस्थायां निरस्त-चिद्-अचिद्-विभागतया निरवयवं ब्रह्मैवासीद् इत्य् उक्तम्। तद्-अविभागम् एकं निरवयवम् एव ब्रह्म, बहु स्याम् इति सङ्कल्प्य आकाश-वाय्व्-आदि-विभागं ब्रह्मादि-स्तम्ब-पर्यन्त-क्षेत्रज्ञ-विभागं चाभवद् इति चोक्तम्। एवं सति तद् एव परं ब्रह्म कृत्स्नं कार्यत्वेनोपयुक्तम् इत्य् अभ्युपगन्तव्यम्। अथ चिद्-अंशः क्षेत्रज्ञ-विभाग-विभक्तः, अचिद्-अंशश् चाकाशादि-विभाग-विभक्त इत्य् उच्यते, तदा--- सद् एव सोम्येदम् अग्र आसीत्, एकम् एवाद्वितीयम्, ब्रह्मैकम् एव, आत्मैक एव, इत्य् एवम् आदयः कारण-भूतस्य ब्रह्मणो निरवयवत्व-वादिनः शब्दाः कुप्येयुः--- बाधिता भवेयुः। यद्य् अपि सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कारणम्, स्थूल-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कार्यम् इत्य् अभ्युपगम्यते; तथापि शरीयंशस्यापि कार्यत्वाभ्युपगमाद् उक्त-दोषो दुर्वारः। तस्य निरवयवस्य बहु-भवनं च नोपपद्यते। कार्यत्वानुपयुक्तांश-स्थितिश् च नोपपद्यते। तस्माद् असमञ्जसम् इवाभाति। अतो ब्रह्म-कारणत्वं नोपपद्यते॥२६॥ 

Link copied

इत्य् आक्षिप्ते समाधत्ते---

Link copied

**१६५ श्रुतेस् तु शब्द-मूलत्वात्॥२।१।२७॥ **

Link copied

तु-शब्द उक्त-दोषं व्यावर्तयति। नैवम् असामञ्जस्यम्। कुतः। श्रुतेः। श्रुतिस् तावन् निरवयवत्वं ब्रह्मणस् ततो विचित्र-सर्गं चाह। श्रौतेऽर्थे यथाश्रुति प्रतिपत्तव्यम् इत्य् अर्थः। ननु च श्रुतिर् अप्य् अग्निना सिञ्चेद् इतिवत् परस्परान्वयायोग्यम् अर्थं प्रतिपादयितुं न समर्था; अत आह--- शब्द-मूलत्वाद् इति। शब्दैक-प्रमाणकत्वेन सकलेतर-वस्तु-विसजातीयत्वाद् अस्यार्थस्य विचित्र-शक्ति-योगो न विरुद्ध्यत इति न सामान्यतो दृष्टं साधनं दूषणं वा अर्हति ब्रह्मा॥२७॥ 

Link copied

**१६६ आत्मनि चैवं विचित्राश् च हि॥२।१।२८॥ **

Link copied

किं च--- एवं वस्त्व्-अन्तर-सम्बन्धिनो धर्मस्य वस्त्व्-अन्तरे चारोपणे सति, अचेतने घटादौ दृष्टा धर्मास् तद्-विसजातीये चेतने नित्य आत्मन्य् अपि प्रसज्यन्ते। तद्-अप्रसक्तिश् च भाव-स्वभाव-वैचित्र्याद् इत्य् आह--- विचित्राश् च हीति। यथा अग्नि-जलादीनाम् अन्योन्य-विसजातीयानाम् औष्ण्यादि-शक्तयश् च विसजातीया दृश्यन्ते; तद्वल् लोक-दृष्ट-विसजातीये परे ब्रह्मणि तत्र तत्रादृष्टाः सहस्रशः शक्तयः सन्तीति न किञ्चिद् अनुपपन्नम्। यथोक्तं भगवता पराशरेण--- निर्गुणस्याप्रमेयस्य शुद्धस्याप्य् अमलात्मनः। कथं सर्गादि-कर्तृत्वं ब्रह्मणोऽभ्युपगम्यते, इति सामान्य-दृष्ट्या परिचोद्य, शक्तयः सर्व-भावानाम् अचिन्त्य-ज्ञान-गोचरः। यतोऽतो ब्रह्मणस् तास् तु सर्गाद्या भाव-शक्तयः। भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता, इति। श्रुतिश् च--- किं स्विद् वनं क उ स वृक्ष आसीद् यतो द्याव् आपृथिवी निष्टतक्षुः। मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन्॥ ब्रह्म वनं ब्रह्म स वृक्ष आसीद् यतो द्याव् आपृथिवी निष्टतक्षुः। मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद् भुवनानि धारयन्, इति। सामान्यतो दृष्टं चोद्यं सर्व-वस्तु-विलक्षणे परे ब्रह्मणि नावतरतीत्य् अर्थः॥२८॥ 

Link copied

इतश् च---

Link copied

**१६७ स्व-पक्षदोषाच् च॥२।१।२९॥ **

Link copied

स्व-पक्षे--- प्रधानादि-कारण-वादे, लौकिक-वस्तु-विसजातीयत्वाभावेन प्रधानादेः लोक-दृष्टा दोषास् तत्र भवेयुर् इति सकलेतर-विलक्षणं ब्रह्मैव कारणम् अभ्युपगन्तव्यम्। प्रधानं च निरवयवम्; तस्य निरवयवस्य कथम् इव महद्-आदि-विचित्र-जगद्-आरम्भ उपपद्यते। सत्त्वं रजस् तम इति तस्यावयवा विद्यन्त इति चेत्, तत्रेदं विवेचनीयम्; किं सत्व-रजस्-तमसां समूहः प्रधानम् उत सत्त्व-रजस्-तमोभिर् आरब्धं प्रधानम्। अनन्तरे कल्पे प्रधानं कारणम् इति स्वाभ्युपगम-विरोधः; स्वाभ्युपेत-सङ्ख्याविरावोधश् च; तेषाम् अपि निर्वयवानां कार्यारम्भ-विरोधश् च। समूह-पक्षे च तेषां निरवयवत्वेन प्रदेश-भेदम् अनपेक्ष्य संयुज्यमानानां न स्थूल-द्रव्यारम्भकत्व-सिद्धिः। परमाणुकारण-वादेऽपि तथैव अणवो निरंशा निष्प्रदेशाः प्रदेश-भेदम् अनपेक्ष्य परस्परं संयुज्यमाना अपि न स्थूल-कार्यारम्भाय प्रभवेयुः॥२९॥ 

Link copied

**१६८ सर्वोपेता च तद्-दर्शनात्॥२।१।३०॥ **

Link copied

सकलेतर-वस्तु-विसजातीया परा देवता सर्व-शक्त्य्-उपेता च। तथैव परां देवतां दर्शयन्ति हि श्रुतयः--- परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च, तथा, अपहत-पाप्मा विजरो विमृत्युर् विशोकोऽविजिघत्सोऽपिपासः इति सकलेतर-विसजातीयतां परस्या देवतायाः प्रतिपाद्य, सत्य-कामः सत्य-सङ्कल्पः, इति सर्व-शक्ति-योगं प्रतिपादयन्ति। तथा--- मनो-मयः प्राण-शरीरो भा-रूपः सत्य-सङ्कल्प आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यात्तोऽवाक्य् अनादरः, इति च॥३०॥ 

Link copied

**१६९ विकरणत्वान् नेति चेत् तद् उक्तम्॥२।१।३१॥ **

Link copied

यद्य् अप्य् एकम् एव ब्रह्म सकलेतर-विलक्षणं सर्व-शक्ति तथापि--- न तस्य कार्यं करणं च विद्यते, इति करण-विरहिणस् तस्य न कार्यारम्भ-सम्भवतीति चेत् तत्रोत्तरं--- शब्द-मूलत्वात्, विचित्राश् च हि, इत्य् उक्तम्। शब्दैक-प्रमाणकं सकलेतर-विलक्षणं तत्-तत्-करण-विरहेणापि तत्-तत्-कार्य-समर्थम् इत्य् अर्थः। तथा च श्रुतिः--- पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः अपाणि-पादो जवनो ग्रहीता, इत्य् एवम् आद्या॥३१॥ इति कृत्स्न-प्रसक्त्य्-अधिकरणम्॥९॥

Link copied

अथ प्रयोजनवत्त्वाधिकरणम्॥१०॥

Link copied

**१७० न प्रयोजनवत्त्वात्॥२।१।३२॥ **

Link copied

यद्य् अपीश्वरः प्राक् सृष्टेर् एक एव सन् सकलेतर-विलक्षणत्वेन सर्वार्थ-शक्ति-युक्तः स्वयम् एव विचित्रं जगत् स्रष्टुं शक्नोति। तथापीश्वर-कारणत्वं न सम्भवति, प्रयोजनवत्त्वाद् विचित्र-सृष्टेः, ईश्वरस्य च प्रयोजनाभावात्। बुद्धि-पूर्व-कारिणाम् आरम्भे द्वि-विधं हि प्रयोजनं--- स्वार्थः परार्थो वा। न हि परस्य ब्रह्मणः स्वभावत एवावाप्त-समस्त-कामस्य जगत्-सर्गेण किञ्चन प्रयोजनम् अनवाप्तम् अवाप्यते। नापि परार्थः, अवाप्त-कामस्य परार्थता हि परानुग्रहेण भवति; न चेदृश-गर्भ-जन्म-जरा-मरण-नरकादि-नाना-विधानन्त-दुःख-बहुलं जगत्-करुणावान् सृजति; प्रत्युत सुखैकतानम् एव जनयेज् जगत्-करुणया सृजन्। अतः प्रयोजनाभावाद् ब्रह्मणः कारणत्वं नोपपद्यत इति॥३२॥ 

Link copied

एवं प्राप्ते प्रचक्ष्महे---

Link copied

**१७१ लोकवत् तु लीला-कैवल्यम्॥२।१।३३॥ **

Link copied

अवाप्त-समस्त-कामस्य परिपूर्णस्य स्व-सङ्कल्प-विकार्य-विविध-विचित्र-चिद्-अचिन्-मिश्र-जगत्-सर्गे लीलैव केवला प्रयोजनम्। लोकवत्--- यथा लोके सप्त-द्वीपाम् एव मेदिनीम् अधितिष्ठतः सम्पूर्ण-शौर्य-वीर्य-पराक्रमस्यापि महाराजस्य केवल-लीलैक-प्रयोजनाः कन्दुकाद्य्-आरम्भा दृश्यन्ते; तथैव परस्यापि ब्रह्मणः स्व-सङ्कल्प-मात्रावकॢप्त-जगज्-जन्म-स्थिति-ध्वंसादेर् लीलैव प्रयोजनम् इति निरवद्यम्॥३३॥ 

Link copied

**१७२ वैषम्य-नैपुण्ये न सापेक्षत्वात् तथा हि दर्शयति॥२।१।३४॥ **

Link copied

यद्य् अपि परम-पुरुषस्य सकलेतर-चिद्-अचिद्-वस्तु-विलक्षणस्याचिन्त्य-शक्ति-योगात् प्राक् सृष्टेर् एकस्य निरवयवस्यापि विचित्र-चिद्-अचिन्-मिश्र-जगत्-सृष्टिः सम्भाव्येत; तथापि देव-तिर्यङ्-मनुष्य-स्थावरात्मनोत्कृष्ट-मध्यमापकृष्ट-सृष्ट्या पक्ष-पातः प्रसज्येत। अतिघोर-दुःख-योग-करणान् नैर्घृण्यं चावर्जनीयम् इति। तत्रोत्तरं--- न सापेक्षत्वाद् इति। न प्रसज्येयातां वैषम्य-नैर्घृण्ये। कुतः। सापेक्षत्वात्--- सृज्यमान-देवादि-क्षेत्रज्ञ-कर्म-सापेक्षत्वाद् विषम-सृष्टेः। देवादीनां क्षेत्रज्ञानां देवादि-शरीर-योगं तत्-तत्-कर्म-सापेक्षं दर्शयन्ति हि श्रुति-स्मृतयः--- साधु-कारी साधुर् भवति पाप-कारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पाप पापेन कर्मणा। तथा भगवता पराशरेणापि देवादि-वैचित्र्य-हेतुः सृज्यमानानां क्षेत्रज्ञानां प्राचीन-कर्म-शक्तिर् एवेत्य् उक्तं--- निमित्त-मात्रम् एवासौ सृज्यानां सर्ग-कर्मणि। प्रधान-कारणीभूता यतो वै सृज्य-शक्तयः॥ निमित्त-मात्रं मुक्त्वैव नान्यत् किञ्चिद् अपेक्षते। नीयते तपतां श्रेष्ठ स्व-शक्त्या वस्तु वस्तुताम् इति। स्व-शक्त्या--- स्व-कर्मणैव देवादि-वस्तुता-प्राप्तिर् इति॥३४॥

Link copied

**१७३ न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्युपलभ्यते च॥२।१।३५॥ **

Link copied

प्राक् सृष्टेः क्षेत्रज्ञा नाम न सन्ति। कुतः। अविभाग-श्रवणात्, सद् एव सोम्येदम् अग्र आसीद् इति; अन्तस् तदानीं तद्-अभावात् तत् कर्म न विद्यते; कथं तद्-अपेक्षं सृष्टि-वैषम्यम् इत्य् उच्यत इति चेन् न, अनादित्वात् क्षेत्रज्ञानां तत्-कर्म-प्रवाहाणां च। तद्-अनादित्वेऽप्य् अविभाग उपपद्यते च; यतस् तत्-क्षेत्रज्ञ-वस्तु-परित्यक्त-नाम-रूपं ब्रह्म-शरीरतयापि पृथग्-व्यपदेशानर्हम् अतिसूक्ष्मम्। तथानभ्युपगमेऽकृताभ्यागम-कृत-विप्रणाश-प्रसङ्गश् च। उपलभ्यते च तेषाम् अनादित्वं--- न जायते म्रियते वा विपश्चित्, इति । सृष्टि-प्रवाहानादित्वं च--- सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत, इत्य् आदौ। तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्यां व्याक्रियत इति नाम-रूप-व्याकरण-मात्र-श्रवणात् क्षेत्रज्ञानां स्वरूपानादित्वं। सिद्धम्। स्मृताव् अपि--- प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभावपि, इति। अतः सर्व-विलक्षणत्वात् सर्व-शक्तित्वात्, लीलैक-प्रयोजनत्वात्, क्षेत्रज्ञ-कर्मानुगुण्येन विवित्र-सृष्टि-योगाद् ब्रह्मैव जगत्-कारणम्॥३५॥ 

Link copied

**१७४ सर्व-धर्मोपपत्तेश् च॥२।१।३६॥ **

Link copied

प्रधान-परमाण्व्-आदीनां कारणत्वे यद् धर्म-वैकल्यम् उक्तं, वक्ष्यमाणं च तस्य सर्वस्य धर्म-जातस्य कारणत्वोपपादिनो ब्रह्मण्य् उपपत्तेश् च ब्रह्मैव जगत्-कारणम् इति स्थितम्॥३६॥ इति प्रयोजनवत्त्वाधिकरणम्॥१०॥ 

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-शारीरक-मीमांसा-भाष्ये द्वितीयस्याध्यायस्य प्रथमः पादः॥१॥

Link copied

द्वितीयाध्याये

Link copied

द्वितीयः पादः

रचनानुपपत्त्य्-अधिकरणम्॥१॥

Link copied

१७५ रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च॥२।२।१॥

Link copied

उक्तं जगज्-जन्मादि-कारणं परं ब्रह्मेति; तत्र परैर् उद्भाविताश् च दोषाः परिहृताः। इदानीं स्व-पक्ष-रक्षणाय पर-पक्षाः प्रतिक्षिप्यन्ते। इतरथा कस्यचिन् मन्द-धियस् तेषां पक्षाणां युक्त्य्-आभास-मूलताम् अजानतः प्रामाणिकत्व-शङ्कया वैदिक-पक्षे किञ्चिच् छ्रद्धा-वैकल्यं जायेतापि। अतः पर-पक्ष-प्रतिक्षेपायानन्तरः पादः प्रवर्तते। तत्र प्रथमं तावत् कापिल-मतं निरस्यते, वैदिकानुमत-सत्कार्यवादाद्य्-अर्थ-सङ्ग्रहेणैतस्य सत्-पक्ष-निक्षेप-सम्भावनाभ्रम-हेतुत्वातिरेकात्। ईक्षतेर् नाशब्दम् इत्य् आदिभिर् वैदिक-वाक्यानाम् अतत्-परत्व-मात्रम् उक्तम्। अत्रैव तत्-पक्ष-स्वरूप-प्रतिक्षेपः क्रियत इति न पौनरुक्त्य्-आशङ्का। 

Link copied

एषा हि साङ्ख्यानां दर्शन-स्थितिः--- मूल-प्रकृतिर् अविकृतिर् महद्-आद्याः प्रकृति-विकृतयः सप्त। षोडशकश् च विकारो न प्रकृतिर् न विकृतिः पुरुषः, इति तत्त्व-सङ्ग्रहः। मूल-प्रकृतिर् नाम सुख-दुःख-मोहात्मकानि लाघव-प्रकाश-चलनोपष्टम्भन-गौरवावरण-कार्याण्य् अत्यन्तातीन्द्रियाणि कार्यैक-निरूपण-विवेकान्य-न्यूनानतिरेकाणि समताम् उपेतानि सत्त्व-रजस् तमांसि द्रव्याणि। सा च सत्त्व-रजस्-तमसां साम्य-रूपा प्रकृतिर् एका स्वयम् अचेतनानेक-चेतन-भोगापवर्गार्था नित्या सर्व-गता सतत-विक्रिया न कस्यचिद् विकृतिः, अपि तु परम-कारणम् एव। महद्-आद्यास् तद्-विकृतयोऽन्येषां च प्रकृतयः सप्त--- महान् अहङ्कारः शब्द-तन्मात्रं स्पर्श-तन्मात्रं रूप-तन्मात्रं रस-तन्मात्रं गन्ध-तन्मात्रम् इति। तत्राहङ्कारस् त्रिधा--- वैकारिकस् तैजसो भूतादिश् च, क्रमात् सात्त्विको राजसस् तामसश् च। तत्र वैकारिकः सात्त्विक इन्द्रियादिः; भूतादिस् तामसो महाभूत-हेतु-भूत-तन्मात्र-हेतुः; तैजसो राजसस् तूभयोर् अनुग्राहकः। आकाशादीनि पञ्च महाभूतानि श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि वाग्-आदीनि पञ्च कर्मेन्द्रियाणि मन इति केवल-विकाराः षोडश। पुरुषस् तु निष्परिणामत्वेन न कस्यचित् प्रकृतिः, न कस्यचिद् विकृतिः; तत एव निर्धर्मकश् चैतन्य-मात्र-वपुर् नित्यो निष्क्रियः सर्व-गतः प्रतिशरीरं भिन्नश् च। निर्विकारत्वान् निष्क्रियत्वाच् च तस्य कर्तृत्वं भोक्तृत्वं च न सम्भवति। एवम्भूतेऽपि तत्त्वे मूढाः प्रकृति-पुरुष-सन्निधि-मात्रेण पुरुषस्य चैतन्यं प्रकृताव् अध्यस्य प्रकृतेश् च कर्तृत्वं स्फटिक-मणाव् इव जपा-कुसुमस्यारुणिमानं पुरुषेऽध्यस्य "अहं कर्ता भोक्ता" इति मन्यन्ते। एवम् अज्ञानाद् भोगः, तत्त्व-ज्ञानाच् चापवर्गः। तद् एतत् प्रत्यक्षानुमानागमैः साधयन्ति। तत्र प्रत्यक्ष-सिद्धेषु पदार्थेषु नातीव विवाद-पदम् अस्ति। आगमोऽपि कपिलादि-सर्वज्ञ-ज्ञान-मूल इति सोऽपि प्रथमे काण्डे प्रमाण-लक्षणे निरस्त-प्रायः। यद् इदं प्रधानम् एव जगत्-कारणम् इत्य् अनुमानम्, तन्-निरसनेन तन्मतं सर्वे निरस्तं भवतीति तद् एव निरस्यते॥ 

Link copied

ते चैवं वर्णयन्ति--- कृत्स्नस्य जगत एक-मूलत्वम् अवश्याभ्युपगमनीयम्, अनेकेभ्यः कार्योत्त्पत्य्-अभ्युपगमे कारणानवस्थानात्। तन्तु-प्रभृतयो ह्य् अवयवाः स्वांश-भूतैः षड्भिः पार्श्वैः परस्परं संयुज्यमाना अवयविनम् उत्पादयन्ति; ते च तन्त्व्-आदयः स्वावयवैस् तथाभूतैर् उत्पाद्यन्ते; ते च तथाभूतैः स्वावयवैर् इति परमाणुभिर् अपि स्वकीयैः षड्भिः पार्श्वैः संयुज्यमानैर् एव स्वकार्योत्पादनम् अभ्युपेतव्यम्। अन्यथा प्रथिमानुपपत्तेः। परमाणवोऽप्य् अंशित्वेन स्वांशैस् तथैवोत्पाद्यन्ते, ते च स्वांशैर् इति न क्वचित् कारण-व्यवस्थितिः। अतः कारण-व्यवस्थासिद्ध्य्-अर्थम् एक-द्रव्यं विविध-विचित्र-परिणाम-शक्ति-युक्तं स्वयम् अप्रच्युत-स्वरूपम् एव महद्-आद्य्-अनन्तावस्थाश्रयः कारणम् आश्रयणीयम्। तच् चैकं कारणं गुण-त्रय-साम्य-रूपं प्रधानम् इति तत्-कल्पने हेतून् उपन्यस्यन्ति--- भेदानां परिमाणात् समन्वयाच् छक्तितः प्रवृत्तेश् च। कारण-कार्य-विभागाद् अविभागाद् वैश्वरूप्यस्य॥ कारणम् अस्त्य् अव्यक्तम् इति। अयम् अर्थः--- विश्व-रूपम् एव वैश्वरूप्यं, विचित्र-सन्निवेशं तनु-भुवनादि कृत्स्नं जगत्। तच् च जगद् विचित्र-सन्निवेशत्वेन कार्य-भूतं तत्-सरूपाव्यक्त-कारणकम्। कुतः। कार्यत्वात्। कार्यस्य हि सर्वस्य तत्-सरूपात् कारण-विशेषाद् विभागस् तस्मिन्न् एवाविभागश् च दृश्यते। यथा घट-मकुटादेः कार्यस्य तत्-सरूपान् मृत्-सुवर्णादेः कारणाद् विभागस् तस्मिन्न् एव चाविभागः। अतो विश्व-रूपस्य जगतस् तत्-सरूपात् प्रधानाद् उत्पत्तिस् तस्मिन्न् एव लयश् चेति प्रधान-कारणकम् एव जगत्। गुण-त्रय-साम्य-रूपं प्रधानम् एव जगत्-सरूपं कारणम्; सत्त्व-रजस्-तमो-मय-सुख-दुःख-मोहात्मकत्वाज् जगतः। यथा मृद्-आत्मनो घटस्य मृद्-द्रव्यम् एव कारणम्। तद् एव हि तद्-उत्पत्त्य्-आख्य-प्रवृत्ति-शाक्तिमत्, तथा दर्शनात्। अव्यक्तस्य गुण-साम्य-रूपस्य देशतः कालतश् चापरिमितस्यैव कारणत्वं भेदानां महद्-अहङ्कार-तन्मात्रादीनां परिमितत्वाद् अवगम्यते। महद्-आदीनि च घटादिवत् परिमितानि कृत्स्न-जगद्-उत्पत्तौ न प्रभवन्ति, अतस् त्रि-गुणं जगद्-गुण-त्रय-साम्य-रूप-प्रधानैक-कारणम् इति निश्चीयते॥ 

Link copied

अत्रोच्यते--- रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च। अनुमीयत इत्य् अनुमानम्। न भवद्-उक्तं प्रधानं विचित्र-जगद्-रचना-समर्थम्, अचेतनत्वे सति तत्-स्वभावाभिज्ञानधिष्ठितत्वात्। यद् एवं तत् तथा, यथा रथ-प्रासादादि-निर्माणे केवल-दार्वादिकम्। दार्वादेर् अचेतनस्य तज्-ज्ञानधिष्ठितस्य कार्यारम्भानुपपत्तेर् दर्शनात्, तज्-ज्ञाधिष्ठितस्य कार्यारम्भ-प्रवृत्तेर् दर्शनाच् च न प्राज्ञानधिष्ठितं प्रधानं कारणम् इत्य् उक्तं भवति। च-काराद् अन्वयस्यानैकान्त्यं समुच्चिनोति। न ह्य् अन्वितं शौक्ल्य-गोत्वादि कारणत्व-व्याप्तम्। न च वाच्यं मा भूद् अन्वितानाम् अपि शौक्ल्यादि-धर्माणां कारणत्वम्, द्रव्यस्य तु हेमादेः कार्येऽन्वितस्य कारणत्व-व्याप्तिर् अस्त्य् एव; सत्त्वादीन्य् अपि द्रव्याणि कार्येऽन्वितानि कारणत्व-व्याप्तानीति। यतः सत्त्वादयो द्रव्य-धर्माः, न तु द्रव्य-स्वरूपम्। सत्त्वादयो हि पृथिव्य्-आदि-द्रव्य-गत-लघुत्व-प्रकाशादि-हेतु-भूतास् तत्-स्वभव-विशेषा एव। न तु मृद्-धिरण्यादिवद् द्रव्यतया कार्यान्विता उपलभ्यन्ते। गुणा इत्य् एव च सत्त्वादीनां प्रसिद्धिः। यच् च कारण-व्यवस्थासिद्धये जगत एक-मूलत्वम् उक्तम्, तद् अपि सत्त्वादीनाम् अनेकत्वान् नोपपद्यते। अत एव कारण-व्यवस्था च न सिध्यति। साम्यावस्थाः सत्त्वादय एव हि प्रधानम् इति त्वन्-मतम्। अतः कारण-बहुत्वाद् अनवस्था तद्-अवस्थैव। न च तेषाम् अपरिमितत्वेन व्यवस्थासिद्धिः, अपरिमितत्वे हि त्रयाणाम् अपि सर्व-गतत्वेन न्यूनाधिक-भावाभावाद् वैषम्यासिद्धेः कार्यारम्भासम्भवात्, कार्यारम्भायैव परिमितत्वम् अवश्याश्रयणीयम्॥१॥

Link copied

यत्र रथादिषु स्पष्टं चेतनाधिष्ठितत्वं दृष्टम्, तद्-व्यतिरिक्तं सर्वं पक्षीकृतम् इत्य् आह---

Link copied

१७६ पयोऽम्बुवच् चेत् तत्रापि॥२।२।२॥

Link copied

यद् उक्तं प्रधानस्य प्राज्ञानधिष्ठितस्य विचित्र-जगद्-रचनानुपपत्तिर् इति तन् न, यतः पयोऽम्बुवत् प्रवृत्तिर् उपपद्यते। पयसस् तावद् दधि-भावेन परिणममानस्यानन्यापेक्षस्याद्य्-अपरिस्पन्द-प्रभृति-परिणाम-परम्परा स्वत एवोपलभ्यते। यथा च वारिद-विमुक्तस्याम्बुन एकरसस्य नारिकेल-ताल-चूत-कपित्थ-निम्ब-तिन्त्रिण्य्-आदि-विचित्र-रस-रूपेण परिणाम-प्रवृत्तिः स्वत एव दृश्यते। तथा प्रधानस्यापि परिणाम-स्वभावस्यान्यानाधिष्ठितस्यैव प्रतिसर्गावस्थायां सदृश-परिणामेनावस्थितस्य सर्गावस्थायां गुण-वैषम्य-निमित्त-विचित्र-परिणाम उपपद्यते। यथोक्तं--- परिणामतस् सलिलवत् प्रतिप्रतिगुणाश्रय-विशेषात्, इति। तद् एवम् अव्यक्तम् अनन्यापेक्षं प्रवर्तत इति चेत्, अत उत्तरं--- तत्रापीति। यत् क्षीर-जलादि दृष्टान्ततया निदर्शितम्, तत्रापि प्राज्ञानधिष्ठाने प्रवृत्तिर् नोपपद्यते; तद् अपि पूर्वत्र पक्षीकृतम् इत्य् अभिप्रायः। उपसंहार-दर्शनान् नेति चेन् न क्षीरवद् धि, इत्य् अत्र दृष्ट-परिकरान्तर-रहितस्यापि स्वासाधारण-परिणाम उपपद्यत इत्य् एतावद् उक्तम्, न प्राज्ञाधिष्ठितत्वं पराकृतम्, योऽप्सु तिष्ठन्, इत्य् आदि श्रुतेः॥२॥ 

Link copied

**१७७ व्यतिरेकानवस्थितेश् चानपेक्षत्वात्॥२।२।३॥ **

Link copied

इतश् च सत्य-सङ्कल्पेश्वराधिष्ठानानपेक्ष-परिणामित्वे सर्ग-व्यतिरेकेण प्रतिसर्गावस्थयानवस्थिति-प्रसङ्गाच् च न प्राज्ञानधिष्ठितं प्रधानं कारणम्। प्राज्ञाधिष्ठितत्वे तस्य सत्य-सङ्कल्पत्वेन सर्ग-प्रतिसर्ग-विचित्र-सृष्टि-व्यवस्थासिद्धिः। न च वाच्यं प्राज्ञाधिष्ठितत्वेऽपि तस्यावाप्त-समस्त-कामस्य परिपूर्णस्यानवधिकातिशयानन्दस्य निरवद्यस्य निरञ्जनस्य सर्ग-प्रतिसर्ग-व्यवस्था-हेत्व्-अभावाद् विषम-सृष्टौ निर्दयत्व-प्रसङ्गाच् च समानोऽयं दोष इति। परिपूर्णस्यापि लीलार्थ-प्रवृत्ति-सम्भवात्, सर्वज्ञस्य तस्य परिणाम-विशेषापन्न-प्रकृति-दर्शन-रूप-सर्ग-प्रतिसर्ग-विशेष-हेतोः सम्भवात्, क्षेत्रज्ञ-कर्मणाम् एव विषम-सृष्टि-व्यवस्थापकत्वाच् च। नन्व् एवं क्षेत्रज्ञ-पुण्यापुण्य-कर्मभिर् एव सर्वा व्यवस्थाः सिध्यन्तीति कृतम् ईश्वरेणाधिष्ठात्रा। पुण्यापुण्य-रूपानुष्ठित-कर्म-संस्कृता प्रकृतिर् एव पुरुषार्थानुरूपं तथा तथा व्यवस्थया परिणंस्यते। यथा विषादि-दूषितानाम् अन्न-पानादीनाम् औषध-विशेषाप्यायितानां च सुख-दुःख-हेतु-भूतः परिणाम-विशेषो देश-काल-व्यवस्थया दृश्यते। अतः सर्ग-प्रतिसर्ग-व्यवस्था, देवादि-विषम-सृष्टिः, कैवल्य-व्यवस्था च सर्व-प्रकार-परिणाम-शक्ति-युक्तस्य प्रधानस्यैवोपपद्यत इति। 

Link copied

अनभिज्ञो भवान् पुण्यापुण्य-कर्म-स्वरूपयोः। पुण्यापुण्य-स्वरूपे हि शास्त्रैक-समधिगम्ये। शास्त्रं चानादि-निधनाविच्छिन्न-पाठ-सम्प्रदायानाघ्रात-प्रमादादि-दोष-गन्ध-वेदाख्याक्षर-राशिः। तच् च परम-पुरुषाराधन-तद्-विपर्यय-रूपे कर्मणी पुण्यापुण्ये, तद्-अनुग्रह-निग्रहायत्ते च तत्-फले सुख-दुःखे इति वदति। तथाह द्रमिडाचार्यः--- फल-संविभन्त्सया हि कर्मभिर् आत्मानं पिप्रीषन्ति स प्रीतोऽलं फलायेति शास्त्र-मर्यादा, इति। तथा च श्रुतिः--- इष्टापूऋतं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः, इति। तथा च भगवता स्वयम् एवोक्तं---यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम्। स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः, इति, तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु, इति च॥ 

Link copied

स भगवान् पुरुषोत्तमोऽवाप्तसमस्तकामः सर्व-ज्ञः सर्वेश्वरः सत्य-सङ्कल्पः, स्व-माहात्म्यानुगुण-लीला-प्रवृत्तः, एतानि कर्माणि समीचीनान्य् एतान्य् असमीचीनानीति कर्म-द्वैविध्यं संविधाय, तद्-उपादानोचित-देहेन्द्रियादिकं तन्-नियमन-शक्तिं च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदिश्य, स्व-शासनावबोधि शास्त्रं च प्रदर्श्य, तद्-उपसंहारार्थं चान्तरात्मतयानुप्रविश्यानुमन्तृतया च नियच्छंस् तिष्ठति। क्षेत्रज्ञास् तु तद्-आहित-शक्तयस् तत्-प्रदिष्ट-करण-कलेवरादिकास् तद्-आधाराश् च स्वयम् एव स्वेच्छानुगुण्येन पुण्यापुण्य-रूपे कर्मणी उपाददते। ततश् च पुण्य-रूप-कर्म-कारिणं स्व-शासनानुवर्तिनं ज्ञात्वा धर्मार्थ-काम-मोक्षैर् वर्धयते। शासनातिवर्तिनं च तद्-विपर्ययैर् योजयति। अतः स्वातन्त्र्यादि-वैकल्यचोद्यानि नावकाशं लभन्ते। दया हि नाम स्वार्थ-निरपेक्षा पर-दुःखासहिष्णुता। सा च स्व-शासनातिवृत्ति-व्यवसायिन्य् अपि वर्तमाना न गुणायावकल्पते; प्रत्युतापुंस्त्वम् एवावहति। तन्-निग्रह एव तत्र गुणः; अन्यथा शत्रु-निग्रहादीनाम् अगुणत्व-प्रसङ्गात्। स्व-शासनातिवृत्ति-व्यवसाय-निवृत्ति-मात्रेणानाद्य्-अनन्त-कल्पोपचित-दुर्विषहानन्तापराधानङ्गीकारेण निरतिशय-सुख-संवृद्धये स्वयम् एव प्रयतते। यथोक्तं--- तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकं। ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते॥ तेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः। नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता, इति। अतः प्राज्ञानधिष्ठितं प्रधानं न कारणम्॥३॥ 

Link copied

अथ स्यात्--- यद्य् अपि प्राज्ञानधिष्ठितायाः प्रकृतेः परिस्पन्द-प्रवृत्तिर् अपि न सम्भवतीत्य् उक्तम्, तथाप्य् अनपेक्षाया एव परिणाम-प्रवृत्तिः सम्भवति, तथा दर्शनात्; धेन्व्-आदिनोपयुक्तं हि तृणोदकादि स्वयम् एव क्षीराद्य्-आकारेण परिणममानं दृश्यते। अतः प्रकृतिर् अपि स्वयम् एव जगद्-आकारेण परिणंस्यत इति। तत्राह---

Link copied

**१७८ अन्यत्राभावाच् च न तृणादिवत्॥२।२।४॥ **

Link copied

नैतद् उपपद्यते, तृणादेः प्राज्ञानधिष्ठितस्य परिणामाभावाद् दृष्टान्तासिद्धेः। कथम् असिद्धिः। अन्यत्राभावात्--- यदि हि तृणोदकादिकम् अनडुदाह्य्-उपयुक्त प्रहीणं वा क्षीराकारेण पर्यणंस्यत; ततः प्राज्ञानधिष्ठितम् एव परिणमत इति वक्तुम् अशक्ष्यत। न चैतद् अस्ति; अतो धेन्व्-आद्य्-उपयुक्तं प्राज्ञ एव क्षीरीकरोति। पयोऽम्बुवच् चेत् तत्रापीत्य् उक्तम् एवात्र प्रपञ्चितं तत्रैव व्यभिचार-प्रदर्शनाय॥४॥ 

Link copied

**१७९ पुरुषाश्मवद् इति चेत् तथापि॥२।२।५॥ **

Link copied

अथोच्येत--- यद्य् अपि चैतन्य-मात्र-वपुः पुरुषो निष्क्रियः, प्रधानम् अपि दृक्-शक्ति-विकलम्; तथापि पुरुष-सन्निधानाद् अचेतनं प्रधानं प्रवर्तते, तथा दर्शनात्। गमन-शक्ति-विकल-दृक्-शक्ति-युक्त-पङ्गु-सन्निधानात् तच्-चैतन्योपकृतो दृक्-शक्ति-विकलः प्रवृत्ति-शक्तोऽन्धः प्रवर्तते; अयस्कान्ताश्म-सन्निधानाच् चायः प्रवर्तते। एवं प्रकृति-पुरुष-संयोग-कृतो जगत्-सर्गः प्रवर्तते। यथोक्तं--- पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पङ्ग्व्-अन्धवद् उभयोर् अपि संयोगस् तत्-कृतः सर्गः, इति। पुरुषस्य प्रधानोपभोगार्थं कैवल्यार्थं च पुरुष-सन्निधानात् प्रधानं सर्गादौ प्रवर्तत इत्य् अर्थः। अत्रोत्तरं--- तथापीति। एवम् अपि प्रधानस्य प्रवृत्त्य्-असम्भवस् तद्-अवस्थ एव, पङ्गोर् गमन-शक्ति-विकलस्यापि मार्ग-दर्शन-तद्-उपदेशादयः कादाचित्का विशेषाः सहस्रशः सन्ति; अन्धोऽपि चेतनः संस्तद्-उपदेशाद्य्-अवगमेन प्रवर्तते; तथा अयस्कान्त-मणेर् अप्य् अयः समीपागमनादयः सन्ति। पुरुषस्य तु निष्क्रियस्य न तादृशा विकाराः सम्भवन्ति। सन्निधान-मात्रस्य नित्यत्वेन नित्य-सर्ग-प्रसङ्गः, नित्य-मुक्तत्वेन बन्धाभावोऽपवर्गाभावश् च॥५॥ 

Link copied

**१८० अङ्गित्वानुपपत्तेश् च॥२।२।६॥ **

Link copied

गुणानाम् उत्कर्ष-निकर्ष-निबन्धनाङ्गाङ्गि-भावाद् धि जगत्-प्रवृत्तिः, प्रतिप्रति-गुणाश्रय-विशेषात्, इति वदद्भिर् भवद्भिर् अभ्युपगम्यते। प्रतिसर्गावस्थायां तु साम्यावस्थानां सत्त्व-रजस्-तमसाम् अन्योन्याधिक्य-न्यूनत्वाभावाद् अङ्गाङ्गि-भावानुपपत्तेर् न जगत्-सर्ग उपपद्यते। तदापि वैषम्याभ्युपगमे नित्य-सर्ग-प्रसङ्गः। अतश् च न प्राज्ञानधिष्ठितं प्रधानं कारणम्॥६॥ 

Link copied

**१८१ अन्यथानुमितौ च ज्ञ-शक्ति-वियोगात्॥२।२।७॥ **

Link copied

दूषित-प्रकारातिरिक्त-प्रकारान्तरेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्व-शक्ति-वियोगात्त एव दोषाः प्रादुः ष्युः। अतो न कथञ्चिद् अप्य् अनुमानेन प्रधान-सिद्धिः॥७॥

Link copied

**१८२ अभ्युपगमेऽप्य् अर्थाभावात्॥२।२।८॥ **

Link copied

अनुमानेन प्रधान-सिद्ध्य्-अभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान् न तद् अनुमातव्यम्। पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्येति प्रधानस्य प्रयोजनं पुरुष-भोगापवर्गावभिमतौ, तौ च न सम्भवतः। पुरुषस्य चैतन्य-मात्र-वपुषो निष्क्रियस्य निर्विकारस्य निर्मलस्य तत एव नित्य-मुक्त-स्वरूपस्य प्रकृति-दर्शन-रूपो भोगस् तद्-वियोग-रूपोऽपवर्गश् च न सम्भवति। एवंरूपस्यैव प्रकृति-सन्निधानात् तत्-परिणाम-विशेष-सुख-दुःख-दर्शन-रूप-भोग-सम्भावनायां प्रकृति-सन्निधानस्य नित्यत्वेन कदाचिद् अप्य् अपवर्गो न सेत्स्यति॥८॥ 

Link copied

**१८३ विप्रतिषेधाच् चासमञ्जसम्॥२।२।९॥ **

Link copied

विप्रतिषिद्धं चेदं साङ्ख्यानां दर्शनम्। तथा हि--- प्रकृतेः परार्थत्वेन दृश्यत्वेन भोग्यत्वेन च प्रकृतेर् भोक्तारम् अधिष्ठातारं द्रष्टारं साक्षिणं च पुरुषम् अभ्युपगम्य प्रकृत्यैव साधन-भूतया तस्य कैवल्यम् अपि प्राप्यं वदन्त एव तस्य नित्य-निर्विकार-चैतन्य-मात्र-स्वरूपतया अकर्तृत्वं, कैवल्यं च स्वरूपम् एवाहुः; तत एव बन्ध-मोक्ष-साधनानुष्ठानं मोक्षश् च प्रकृतेर् एवेत्य् आहुः; एवम्भूत-निर्विकारोदासीन-पुरुष-सन्निधानात् प्रकृतेर् इतरेतराध्यासेन सर्गादि-प्रवृत्तिं पुरुष-भोगापवर्गार्थत्वं चाहुः--- सङ्घात-परार्थत्वात् त्रि-गुणादि-विपर्ययाद् अधिष्ठानात्। पुरुषोऽस्ति भोक्तृ-भावात् कैवल्यार्थ-प्रवृत्तेश् च॥ तस्माच् च विपर्यासात् सिद्धं साक्षित्वम् अस्य पुरुषस्य। कैवल्यं माध्यस्थ्यं द्रष्टृत्वम् अकर्तृ-भावश् च, इति। पुरुष-विमोक्ष-निमित्तं तथा प्रवृत्तिः प्रधानस्य, इत्य् उक्त्वैवम् आहुः--- तस्मान् न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित्। संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः, इति। तथा--- तस्मात् तत्-संयोगाद् अचेतनं चेतनावद् इव लिङ्गम्। गुण-कर्तृत्वे च तथा कर्तेव भवत्य् उदासीनः॥ पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पङ्ग्व्-अन्धवद् उभयोर् अपि संयोगस् तत्-कृतः सर्गः, इति। साक्षित्व-द्रष्टृत्व-भोक्तृत्वादयो नित्य-निर्विकारस्याकर्तुर् उदासीनस्य कैवल्यैक-स्वरूपस्य न सम्भवन्ति। एवंरूपस्य तस्याध्यास-मूल-भ्रमोऽपि न सम्भवति, अध्यास-भ्रमयोर् अपि विकारत्वात्। प्रकृतेश् च तौ न सम्भवतः, तयोश् चेतन-धर्मत्वात्। अध्यासो हि नाम चेतनस्यान्यस्मिन्न् अन्य-धर्मानुसन्धानम्। स च चेतन-धर्मो विकारश् च। न च पुरुषस्य प्रकृति-सन्निधि-मात्रेणाध्यासादयः सम्भवन्ति, निर्विकारत्वाद् एव। सम्भवन्ति चेत्, नित्यं प्रसज्येरन्। सन्निधेर् अकिञ्चित्करत्वं च--- न विलक्षणत्वाद् इत्य् अत्र प्रतिपादितम्। प्रकृतिर् एव संसरति बध्यते मुच्यते चेत्; कथं नित्य-मुक्तस्य पुरुषस्योपकारिणी सेत्य् उच्यते। वदन्ति हि--- नानाविधैर् उपायैर् उपकारिण्य् अनुपकारिणः पुंसः। गुनवत्य् अगुणस्य सतस् तस्यार्थम् अपार्थकं चरति, इति॥ 

Link copied

तथा प्रकृतिर् येन पुरुषेण यथास्वभावा दृष्टा, तस्मात् पुरुषात् तदानीम् एव निवर्तत इति चाहुः--- रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात्। पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥ प्रकृतेः सुकुमारतरं न किञ्चिद् अस्तीति मे मतिर् भवति। या दृष्टास्मीति पुनर् न दर्शनम् उपैति पुरुषस्य, इति।

Link copied

तद् अप्य् असङ्गतम्, पुरुषो हि नित्य-मुक्तत्वान् निर्विकारत्वान् न तां कदाचिद् अपि पश्यति, नाध्यस्यति च। स्वयं च स्वात्मानं न पश्यति, अचेतनत्वात्। पुरुषस्य स्वात्म-दर्शनं स्व-दर्शनम् इति नाध्यस्यति च, स्वयम् अचेतनत्वात्; पुरुषस्य च दर्शन-रूप-विकारासम्भवात्। अथ सन्निधि-मात्रम् एव दर्शनम् इत्य् उच्यते; सन्निधेर् नित्यत्वेन नित्य-दर्शन-प्रसङ्ग इत्य् उक्तम्। स्वरूपातिरिक्त-कादाचित्क-सन्निधिर् अपि नित्य-निर्विकारस्य नोपपद्यते। किं च मोक्ष-हेतुस् तु स्व-सन्निधान-रूपम् एव दर्शनं चेत्; बन्ध-हेतुर् अपि तद् एवेति नित्यवद् बन्धो मोक्षश् च स्याताम्। अयथादर्शनं बन्ध-हेतुः, यथावत् स्वरूप-दर्शनं मोक्ष-हेतुर् इति चेत्; उभय-विधस्यापि दर्शनस्य सन्निधान-रूपतानतिरेकात् सदोभय-प्रसङ्ग एव। सन्निधेर् अनित्यत्वे तस्य हेतुर् अन्वेषणीयः, तस्यापीत्य् अनवस्था। अथैतद्-दोष-परिजिहीर्षया स्वरूप-सद्-भाव एव सन्निधिर् इति, तदा स्वरूपस्य नित्यत्वेन नित्यवद् बन्ध-मोक्षौ। अत एवम् आदेर् विप्रतिषेधात् साङ्ख्यानां दर्शनम् असमञ्जसम्॥ 

Link copied

येऽपि कूटस्थ-नित्य-निर्विशेष-स्व-प्रकाश-चिन्-मात्रं ब्रह्माविद्या-साक्षित्वेनापारमार्थिक-बन्ध-मोक्ष-भाग् इति वदन्ति, तेषाम् अप्य् उक्त-नीत्याविद्या-साक्षित्वाध्यासाद्य्-असम्भवाद् असामञ्जस्यम् एव; इयांस् तु विशेषः--- साङ्ख्याः जनन-मरण-प्रतिनियमादि-व्यवस्थासिद्ध्य्-अर्थं पुरुष-बहुत्वम् इच्छन्ति, ते तु तद् अपि नेच्छन्तीति सुतराम् असामञ्जस्यम्। यत् तु प्रकृतेः पारमार्थ्यापारमार्थ्य-विभागेन वैषम्यम् उक्तम्, तद् अयुक्तम्; पारमार्थिकत्वेऽप्य् अपारमार्थिकत्वेऽपि नित्य-निर्विकार-स्व-प्रकाशैकरस-चिन्-मात्रस्य स्व-व्यतिरिक्त-साक्षित्वाद्य्-अनुपपत्तेः। अपारमार्थिकत्वे तु तस्या दृश्यत्व-बाध्यत्वाभ्युपगमात् सुतराम् असङ्गतम्। औपाधिक-भेद-वादेऽप्य् उपाधि-सम्बन्धिनो ब्रह्मणोऽयम् एव स्वभाव इत्य् उपाधि-सम्बन्धाद्य्-अनुपपत्तेर् असामञ्जस्यं पूर्वम् एवोक्तम्॥९॥ इति रचनानुपपत्त्य्-अधिकरणम्॥१॥ 

Link copied

अथ महद्-दीर्घाधिकरणम्॥२॥

Link copied

**१८४ महद्-दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम्॥२।२।१०॥ **

Link copied

प्रधान-कारण-वादस्य युक्त्य्-आभास-मूलतया विप्रतिषिद्धत्वाच् चासामञ्जस्यम् उक्तम्; सम्प्रति परमाणु-कारण-वादस्याप्य् असामञ्जस्यं प्रतिपाद्यते--- महद्-दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम् इति। असमञ्जसम् इति वर्तते। वा-शब्दश् चार्थे। ह्रस्व-परिमण्डलाभ्यां--- द्व्य्-अणुक-परमाणुभ्यां, महद्-दीर्घवत्--- त्र्य्-अणुकोत्पत्ति-वादवत्, अन्यच् च तद्-अभ्युपगतं सर्वम् असमञ्जसम्; परमाणुभ्यो द्व्य्-अणुकादि-क्रमेण जगद्-उत्पत्ति-वादवद् अन्यद् अप्य् असमञ्जसम् इत्य् अर्थः। तथा हि--- तन्तु-प्रभृतयो ह्य् अवयवाः स्वांशैः षड्भिः पार्श्वैः संयुज्यमाना अवयविनम् उत्पादयन्ति, परमाणवोऽपि स्वकीयैः षड्भिः पार्श्वैः संयुज्यमाना एव द्व्य्-अणुकादीनाम् उत्पादका भवेयुः, अन्यथा परमाणूनां प्रदेश-भेदाभावे सति सहस्र-परमाणु-संयोगेऽप्य् एकस्मात् परमाणोर् अनतिरिक्त-परिमाणतया अणुत्व-ह्रस्वत्व-महत्त्व-दीर्घत्वाद्य्-असिद्धिः स्यात्। प्रदेश-भेदाभ्य्-उपगमे परमाणवोऽपि सांशाः स्वकीयैर् अंशैः, ते च स्वकीयैर् अंशैर् इत्य् अनवस्था। न च वाच्यम् अवयवाल्पत्व-महत्त्वाभ्यां हि सर्षप-महीधरयोर् वैषम्यम्; परमाणोर् अप्य् अनन्तावयवत्वे अवयवानन्त्य-साम्यात् सर्षप-महीधरयोर् वैषम्यासिद्धेर् अवयवापकर्ष-काष्ठावश्याभ्युपगमनीयेति। परमाणूनां प्रदेश-भेदाभावे सत्य् एक-परमाणु-परिमाणातिरेकि-प्रथिमा न जायेतेति सर्षप-महीधरयोर् एवासिद्धेः। किं कुर्म इति चेत्; वैदिकः पक्षः परिगृह्यताम्।

Link copied

यत् तु परैर् ब्रह्म-कारण-वाद-दुषण-परिहार-परम् इदं सूत्रं व्याख्यातम्; तद्-असङ्गतं, पुनर् उक्तं च। ब्रह्म-कारण-वादे परोक्तान् दोषान् पूर्वस्मिन् पादे परिहृत्य पर-पक्ष-प्रतिक्षेपो ह्य् अस्मिन् पादे क्रियते। चेतनाद् ब्रह्मणो जगद्-उत्पत्ति-सम्भवश् च--- न विलक्षणत्वाद् इत्य् अत्रैव प्रपञ्चितः। अतो ह्रस्व-परिमण्डलाभ्यां महद्-दीर्घाणु-ह्रस्वोत्पत्तिवद् अन्यच् च तद्-अभ्युपगतं सर्वम् असमञ्जसम् इत्य् एव सूत्रार्थः॥१०॥ 

Link copied

किम् अत्रान्यद् असमञ्जसम् इत्य् अत आह---

Link copied

**१८५ उभयधापि न कर्मातस् तद्-अभावः॥२।२।११॥ **

Link copied

परमाणु-कारण-वादे हि परमाणु-गत-कर्म-जनित-तत्-संयोग-पूर्वक-द्व्य्-अणुकादि-क्रमेण जगद्-उत्पत्तिर् इष्यते। तत्र निखिल-जगद्-उत्पत्ति-कारण-भूतं परमाणु-गतम् आद्यं कर्मादृष्ट-कारितम् इत्य् अभ्युपगम्यते--- अग्नेर् ऊर्ध्व-ज्वलनं वायोस् तिर्यग्-गमनम् अणु-मनसोश् चाद्यं कर्मेत्य् अदृष्ट-कारितानि, इति। तद् इदं परमाणु-गतं कर्म स्वगतादृष्ट-कारितम्, आत्म-गतादृष्ट-कारितं वा। उभयधापि न सम्भवति; क्षेत्रज्ञ-पुण्य-पापानुष्ठान-जनितस्यादृष्टस्य परमाणु-गतत्वासम्भवात्। सम्भवे च सदोत्पादकत्व-प्रसङ्गः। आत्म-गतस्य चादृष्टस्य परमाणु-गत-कर्मोत्पत्ति-हेतुत्वं न सम्भवति। अथादृष्टवद् आत्म-संयोगाद् अणुषु कर्मोत्पत्तिः, तदा तस्यादृष्ट-प्रवाहस्य नित्यत्वेन नित्य-सर्ग-प्रसङ्गः। 

Link copied

नन्व् अदृष्टं विपाकापेक्षं फलायालम्। कानिचिद् अदृष्टानि तदानीम् एव विपच्यन्ते, कानिचिज् जन्मान्तरे, कानिचित् कल्पान्तरे। अतो विपाकापेक्षत्वान् न सर्वदोत्पादकत्व-प्रसङ्ग इति। नैतत्, अनन्तैरात्मभिर् असङ्केत-पूर्वकम् अयुगपद्-अनुष्ठितानेक-विध-कर्म-जनितानाम् अदृष्टानाम् एकस्मिन् काले एक-रूप-विपाकस्याप्रामाणिकत्वात्। अत एव युगपत्-सर्व-संहारो द्वि-परार्ध-कालम् अविपाकेनावस्थानं च न सङ्गच्छते। न चेश्वरेच्छाहित-विशेषादृष्ट-संयोगाद् अणुषु कर्म, आनुमानिकेश्वरासिद्धेः--- शास्त्र-योनित्वाद् इत्य् अत्रोपपादितत्वात्। अतो जगद्-उत्पत्तेर् अणुगत-कर्म-पूर्वकत्वाभावः॥११॥

Link copied

**१८६ समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः॥२।२।१२॥ **

Link copied

समवायाभ्युपगमाच् चासमञ्जसम्। कुतः। साम्याद् अनवस्थितेः--- समवायस्याप्य् अवयवि-जाति-गुणवद् उपपादकान्तरापेक्षा-साम्याद् उपपादकान्तरस्यापि तथेत्य् अनवस्थितेर् असमञ्जसम् एव। एतद् उक्तं भवति--- अयुत-सिद्धानाम् आधाराधेय-भूतानाम् इह प्रत्यय-हेतुर् यः सम्बन्धः, स समवाय इति समवायोऽभ्युपगम्यते। अपृथक्-स्थित्य्-उपलब्धीनां जात्य्-आदीनां तथाभावस्य निर्वाहकत्वेन चेत् समवायोऽभ्युपगम्यते, समवायस्यापि तत्-साम्यात् तथाभाव-हेतुर् अन्वेषणीयः, तस्यापि तथेत्य् अनवस्थितिः। समवायस्य तद्-अपृथक्-सिद्धत्वं स्वभाव इति परिकल्प्यते चेत्, जाति-गुणानाम् एवैष स्वभावः परिकल्पनीयः, न पुनर् अदृष्ट-चरं समवायम् अभ्युपगम्य तस्यैष स्वभाव इति कल्पयितुं युक्तम् इति॥१२॥ 

Link copied

समवायस्य नित्यत्वे अनित्यत्वे चायं दोषः समानः; नित्यत्वे दोषान्तरं चाह ---

Link copied

**१८७ नित्यम् एव च भावात्॥२।२।१३॥ **

Link copied

समवायस्य सम्बन्धत्वात् सम्बन्धस्य नित्यत्वे सम्बन्धिनो जगतश् च नित्यम् एव भावाद् असमञ्जसम्॥१३॥ 

Link copied

**१८८ रूपादिमत्त्वाच् च विपर्ययो दर्शनात्॥२।२।१४॥ **

Link copied

परमाणूनां पार्थिवाप्य् अतैजस-वायवीयानां चतुर्-विधानां रूप-रस-गन्ध-स्पर्शवत्वाभ्युपगमाद् अभिमत-नित्यत्व-सूक्ष्मत्व-निरवयवत्वादि-विपर्ययेणानित्यत्व-स्थूलत्व-सावयवत्वादि प्रसज्यते, रूपादिमतां घटादीनाम् अनित्यत्व-तथाविध-कारणान्तरारब्धत्वादि-दर्शनात्। न हि दर्शनानुगुण्येनादृष्टोऽर्थः कल्प्यमानः स्वाभिमत-विशेषे व्यवस्थापयितुं शक्यः। दर्शनानुगुण्येन हि परमाणूनां रूपदिमत्त्वं त्वया कल्प्यते। अतोऽप्य् असमञ्जसम्॥१४॥ 

Link copied

अथैतद्-दोष-परिजिहीर्षया परमाणूनां रूपादिमत्त्वं नाभ्युपगम्यते, तत्राह---

Link copied

**१८९ उभयधा च दोषात्॥२।२।१५॥ **

Link copied

न केवलं परमाणूनां रूपादिमत्त्वाभ्युपगम एव दोषः, रूपादि-विरहेऽपि कारण-गुण-पूर्वकत्वात् कार्य-गुणानां पृथिव्य्-आदयो रूपादि-शून्याः स्युः। तत्-परिजिहीर्षया रूपादिमत्त्वाभ्युपगमे पूर्वोक्त-दोष इत्य् उभयधा च दोषाद् असमञ्जसम्॥१५॥ 

Link copied

**१९० अपरिग्रहाच् चात्यन्तम् अनपेक्षा॥२।२।१६॥ **

Link copied

कापिल-पक्षस्य श्रुति-न्याय-विरोध-परित्यक्तस्यापि सत्कार्यवादादिना क्वचिद् अंशे वैदिकैः परिग्रहोऽस्ति, अस्य तु काणाद-पक्षस्य केनाप्य् अंशेनापरिग्रहाद् अनुपपन्नत्वाच् चात्यन्तम् अनपेक्षैव निःश्रेयसार्थिभिः कार्या॥१६॥ इति महद्-दीर्घाधिकरणम्॥२॥ 

Link copied

अथ समुदायाधिकरणम्॥३॥

Link copied

**१९१ समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः॥२।२।१७॥ **

Link copied

परमाणु-कारण-वादिनो वैशेषिका निरस्ताः; सौगताश् च जगतः परमाणु-कारणत्वम् अभ्युपगच्छन्तीत्य् अनन्तरं तन्-मतेऽपि जगद्-उत्पत्ति-तद्-व्यवहारादिकं नोपपद्यत इत्य् उच्यते। ते चतुर्-विधाः--- केचित् पार्थिवाप्य् अतैजस-वायवीय-परमाणु-सङ्घात-रूपान् भूत-भौतिकान् बाह्यांश् चित्त-चैत्त-रूपांश् चाभ्यन्तरानर्थान् प्रत्यक्षानुमान-सिद्धान् अभ्युपयन्ति; अन्ये तु बाह्यार्थान् सर्वान् पृथिव्य्-आदीन् विज्ञानानुमेयान् वदन्ति; अपरे त्व् अर्थ-शून्यं विज्ञानम् एव परमार्थ-सत्-बाह्यार्थास् तु स्वाप्नार्थ-कल्पा इत्य् आहुः; त्रयोऽप्य् एते स्वाभ्युपगतं वस्तु क्षणिकम् आचक्षते, उक्त-भूत-भौतिक-चित्त-चैत्त-व्यतिरिक्तम् आत्माकाशादिकं स्वरूपेणैव नानुमन्वते; अन्ये तु सर्व-शून्यत्वम् एव सङ्गिरन्ते॥ 

Link copied

तत्र ये बाह्यार्थास्तित्व-वादिनः, ते तावन् निरस्यन्ते। ते चैवं मन्यन्ते--- रूप-रस-स्पर्श-गन्ध-स्वभावाः पार्थिवाः परमाणवः, रूप-रस-स्पर्श-स्वभावाश् चाप्याः, रूप-स्पर्श-स्वभावाश् च तैजसाः, स्पर्श-स्वभावाश् च वायवीयाः पृथिव्य्-अप्-तेजो-वायु-रूपेण संहन्यन्ते, तेभ्यश् च पृथिव्य्-आदिभ्यः शरीरेन्द्रिय-विषय-रूप-सङ्घाता भवन्ति; तत्र च शरीरान्तर्वर्ती ग्राहकाभिमानारूढो विज्ञान-सन्तान एवात्मत्वेनावतिष्ठते; तत एव सर्वो लौकिको व्यवहारः प्रवर्तत इति॥ 

Link copied

तत्राभिधीयते--- समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः। योऽयम् अणु-हेतुकः पृथिव्य्-आदि-भूतात्मकः समुदायः, यश् च पृथिव्य्-आदि-हेतुकः शरीरेन्द्रिय-विषय-रूपः समुदायः, तस्मिन्न् उभय-हेतुकेऽपि समुदाये तत्-प्राप्तिर् नोपपद्यते--- जगद्-आत्मक-समुदायोत्पत्तिर् नोपपद्यत इत्य् अर्थः। परमाणूनां पृथिव्य्-आदि-भूतानां च क्षणिकत्वाभ्युपगमात्, क्षण-ध्वंसिनः परमाणवो भूतानि च कदा संहतौ व्याप्रियन्ते। कदा वा संहन्यन्ते। कदा विज्ञान-विषय-भूताः। कदा च हानोपादानादि-व्यवहारास्पदतां भजन्ते। को वा विज्ञानात्मा कं च विषयं स्पृशति। कश् च विज्ञानात्मा कम् अर्थं कदा वेदयते। कं वा विदितम् अर्थं कश् च कदोपादत्ते। स्प्रष्टा हि नष्टः, स्पृष्टश् च नष्टः, तथा वेदिता विदितश् च नष्टः; कथं चान्येन स्पृष्टम् अन्यो वेदयते। कथञ्चान्येन विदितम् अर्थम् अन्य उपादत्ते। सन्तानानाम् एकत्वेऽपि सन्तानिभ्यस् तेषां वस्तुतो वस्त्व्-अन्तरत्वानभ्युपगमान् न तन्-निबन्धनं व्यवहारादिकम् उपपद्यते। अहम्-अर्थ एवात्मा, स च ज्ञातैवेति चोपपादितं पुरस्तात्॥१७॥

Link copied

**१९२ इतरेतर-प्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घात-भावानिमित्तत्वात्॥२।२॥१८॥ **

Link copied

अविद्यादीनाम् इतरेतर-हेतुत्वेनोपपन्नं सङ्घात-भावादिकम् इति चेत्। एतद् उक्तं भवति--- यद्य् अपि क्षणिकाः सर्वे भावाः, तथाप्य् अविद्ययैतत् सर्वम् उपपद्यते। अविद्या हि नाम विपरीत-बुद्धिः क्षणिकादिषु स्थिरत्वादि-गोचरा। तया संस्काराख्या राग-द्वेषादयो जायन्ते; ततश् चित्ताभिज्वलन-रूपं विज्ञानम्; ततश् च नामाख्याश् चित्त-चैत्ताः; ततश् च पृथिव्य्-आदिकं [च] रूपि-द्रव्यम्; ततः षड् आयतनाख्यम् इन्द्रिय-षट्कम्; ततः स्पार्शख्यः कायः; ततो वेदनादयः; ततश् च पुनर् अप्य् अविद्यादयो यथोक्ता इत्य् अनादिर् इयम् अविद्यादिकान्योन्य-मूला चक्र-परिवृत्तिः। एतच् च सर्वं पृथिव्य्-आदि-भूत-भौतिक-सङ्घातम् अन्तरेण नोपपद्यते। अतः सङ्घात-भावादिकम् उपपन्नम् इति॥

Link copied

तत्रोत्तरं--- न सङ्घात-भावानिमित्तत्वाद् इति। नैतद् उपपद्यते, एषाम् अविद्यादीनां पृथिव्य्-आदि-भूत-भौतिक-सङ्घात-भावं प्रत्य् अनिमित्तत्वात्। न खल्व् अस्थिरादिषु स्थिरत्वादि-बुद्ध्य्-आत्मिकाविद्या तन्-निमित्ता राग-द्वेषादयो वार्थान्तरस्य क्षणिकस्य संहति-हेतुतां प्रतिपद्यन्ते। शुक्तिका-रजतादि-बुद्धिर् हि न शुक्त्य्-आद्य्-अर्थ-संहति-हेतुर् भवति। किं च यस्य क्षणिके स्थिरत्व-बुद्धिः, स तदैव नष्ट इति कस्य रागादय उत्पद्यन्ते। संस्काराश्रयं स्थिरम् एकं द्रव्यम् अनभ्युपगच्छतां संस्कारानुवृत्तिर् अपि न शक्या कल्पयितुम्॥१८॥ 

Link copied

१९३ उत्तरोत्पादे च पूर्व-निरोधात्॥२।२।१९॥

Link copied

इतश् च क्षणिकत्व-पक्षे जगद्-उत्पत्तिर् नोपपद्यते; उत्तर-क्षणोत्पत्ति-वेलायां पूर्व-क्षणस्य विनष्टत्वात्, तस्योत्तर-क्षणं प्रति हेतुत्वानुपपत्तेः। अभावस्य हेतुत्वे सर्वं सर्वत्र सर्वदोत्पद्येत; अथ पूर्व-क्षण-वर्तित्वम् एव हेतुत्वम् इत्य् उच्यते, एवं तर्हि कश्चिद् एव घट-क्षणस् तद्-उत्तर-काल-भाविनां सर्वेषाम् एव गो-महिषाश्व-कुड्य-पाषाणादीनां त्रैलोक्य-वर्तिनां हेतुः स्यात्। अथैक-जातीयस्यैव पूर्व-क्षण-वर्तिनो हेतुत्वम् इष्यते, तथापि सर्व-देश-वर्तिनाम् उत्तर-क्षण-भाविनां घटानाम् एक एव पूर्व-क्षण-वर्ति-घटो हेतुः स्यात्। अथैकस्यैव हेतुर् एक इति मनुषे, तथापि कस्यैकस्य को हेतुर् इति न ज्ञायते। अथ यस्मिन् देशे यो घट-क्षणः स्थितः, तद्-देश-सम्बन्धिन एवोत्तर-घट-क्षणस्य स हेतुर् इति, किं देशस्य स्थिरत्वं मनुषे। किं च चक्षुर्-आदि-सम्प्रयुक्तस्यार्थस्य ज्ञानोत्पत्ति-कालेऽनवस्थितत्वान् न कस्यचिद् अर्थस्य ज्ञान-विषयत्वं सम्भवति॥१९॥ 

Link copied

१९४ असति प्रतिज्ञोपरोधो यौगपद्यम् अन्यथा॥२।२।२०॥

Link copied

असत्य् अपि हेतौ कार्यम् उत्पद्यते चेत्; सर्वं सर्वत्र सर्वदोत्पद्येतेत्य् उक्तम्। न केवलम् उत्पत्ति-विरोध एव; प्रतिज्ञा च भवताम् उपरुध्येत, अधिपति-सहकार्यालम्बन-समनन्तर-प्रत्ययाश् चत्वारो विज्ञानोत्पत्तौ हेतव इति वः प्रतिज्ञा; अधिपतिर् इन्द्रियम्। अथ प्रतिज्ञानुपरोधाय घट-क्षणे स्थित एव घट-क्षणान्तरोत्पत्तिर् इष्यते, तथा च सति द्वयोः कार्य-कारणयोर् घट-क्षणयोर् यौगपद्येनोपलब्धिः प्रसज्येत, न च तथोपलभ्यते; क्षणिकत्व-प्रतिज्ञा चैवं हीयेत। क्षणिकत्वं स्थितम् एवेति चेत्, इन्द्रिय-सम्प्रयोग-ज्ञानयोर् यौगपद्यं प्रसज्येत॥२०॥ 

Link copied

**१९५ प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिर् अविच्छेदात्॥२।२।२१॥ **

Link copied

एवं तावद् असत उत्पत्तिर् निरस्ता; सतो निरन्वय-विनाशोऽपि नोपपद्यत इत्य् उच्यते। क्षणिकत्व-वादिभिर् मुद्गराभिघाताद्य्-अनन्तर-भावितयोपलब्धि-योग्यः सदृश-सन्तानावसान-रूपः स्थूलो यः, सदृश-सन्ताने प्रतिक्षण-भावी चोपलब्ध्य्-अनर्हः सूक्ष्मश् च यो निरन्वयो विनाशः प्रतिसङ्ख्यानिरोधाप्रतिसङ्ख्यानिरोध-शब्दाभ्याम् अभिधीयेते, तौ न सम्भवत इत्य् अर्थः। कुतः। अविच्छेदात्--- सतो निरन्वय-विच्छेदासम्भवात्। असम्भवश् च, सत उत्पत्ति-विनाशौ नामावस्थान्तरापत्तिर् एव; अवस्थायोगि तु द्रव्यम् एकम् एव स्थिरम् इति कारणाद् अनन्यत्वं कार्यस्योपपादयद्भिर् अस्माभिः--- तद्-अनन्यत्वम् इत्य् अत्र प्रतिपादितः। निर्वाणस्य दीपस्य निरन्वय-विनाश-दर्शनाद् अन्यत्रापि विनाशो निरन्वयोऽनुमीयत इति चेन् न, घट-शरावादौ मृद्-आदि-द्रव्यानुवृत्त्य्-उपलब्ध्या सतो द्रव्यस्यावस्थान्तरापत्तिर् एव विनाश इति निश्चिते सति प्रदीपादौ सूक्ष्म-दशापत्त्याप्य् अनुपलम्भोपपत्तेस् तत्राप्य् अवस्थान्तरापत्ति-कल्पनस्यैव युक्तत्वात्॥२१॥ 

Link copied

**१९६ उभयधा च दोषात्॥२।२।२२॥ **

Link copied

क्षणिकत्व-वादिभिर् अभ्युपेता तुच्छाद् उत्पत्तिर् उत्पन्नस्य तुच्छतापत्तिश् च न सम्भवतीत्य् उक्तम्; तद्-उभय-प्रकाराभ्युपगतौ दोषश् च भवति। तुच्छाद् उत्पत्तौ तुच्छात्मकम् एव कार्यं स्यात्; यद् धि यस्माद् उत्पद्यते, तत्-तद्-आत्मकं दृष्टम्; यथा मृत्-सुवर्णादेर् उत्पन्नं मणिक-मकुटादि मृत्-सुवर्णाद्य्-आत्मकं दृष्टम्; न च जगत्-तुच्छात्मकं भवद्भिर् अभ्युपगम्यते; न च प्रतीयते। सतो निरन्वय-विनाशे सत्य् एक-क्षणाद् ऊर्ध्वं कृत्स्नस्य जगतस् तुच्छतापत्तिर् एव स्यात्; पश्चात् तुच्छाज् जगद्-उत्पत्तौ अनन्तरोक्तं तुच्छात्मकत्वम् एव स्यात्। अत उभयधापि दोषान् न भवद्-उक्त-प्रकाराव् उत्पत्ति-निरोधौ॥२२॥ 

Link copied

**१९७ आकाशे चाविशेषात्॥२।२।२३॥ **

Link copied

बाह्याभ्यन्तर-वस्तुनः स्थिरत्व-प्रतिपादनाय प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधयोस् तुच्छ-रूपता निराकृता। तत्-प्रसङ्गेन ताभ्यां सह तुच्छत्वेन सौगतैः परिगणितस्याकाशस्यापि तुच्छता प्रतिक्षिप्यते। आकाशे च निरुपाख्यता न युक्ता, भाव-रूपत्वेनाभ्युपगत-पृथिव्य्-आदिवद् आकाशस्याप्य् अबाधित-प्रतीति-सिद्धत्वाविशेषात्। प्रतीयते ह्य् आकाशः, अत्र श्येनः पतति, अत्र गृध्र इति श्येनादि-पतन-देशत्वेन। न च पृथिव्य्-आद्य्-अभाव-मात्रम् आकाश इति वक्तुं शक्यम्, विकल्पासहत्वात्। पृथिव्य्-आदेः प्राग्-अभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावो वा आकाशः। सर्वथाप्य् आकाश-प्रतीत्य्-अनुपपत्तिः स्यात्। प्राग्-अभाव-प्रध्वंसाभावयोर् आकाशत्वे पृथिव्य्-आदिषु वर्तमानेषु आकाश-प्रतीत्य्-अयोगात् निराकाशं जगत्स्यात्। इतरेतराभावस्याकाशत्वेऽपि, इतरेतराभावस्य तत्-तद्-वस्तु-गतत्वेन तेषाम् अन्तराले आकाश-प्रतीतिर् न स्यात्। अत्यन्ताभावस् तु पृथिव्य्-आदीनां न सम्भवति। अभावस्य विद्यमान-पदार्थावस्था-विशेषत्वोपपादनाच् चाकाशस्याभाव-रूपत्वेऽपि न निरुपाख्यत्वम्। अण्डान्तर्वर्तिन आकाशस्य त्रिवृत्-करणोपदेश-प्रदर्शित-पञ्चीकरणेन रूपवत्त्वाच् चाक्षुषत्वेऽप्य् अविरोधः॥२३॥ 

Link copied

**१९८ अनुस्मृतेश् च॥२।२।२४॥ **

Link copied

पूर्व-प्रस्तुतं वस्तुनः स्थिरत्वम् एवोपपाद्यते। अनुस्मरणं--- पूर्वानुभूत-वस्तु-विषयं ज्ञानम्, प्रत्यभिज्ञानम् इत्य् अर्थः। तद् एवेदम् इति सर्वं वस्तु-जातम् अतीत-कालानुभूतं प्रत्यभिज्ञायते। न च भवद्भिर् ज्वालादिष्व् इव सादृश्य-निबन्धनोऽयम् एकत्व-व्यामोह इति वक्तुं शक्यम्; व्यामुह्यतो ज्ञातुर् एकस्यानभ्युपगमात्। न ह्य् अन्यानुभूतेनैकत्वं सादृश्यं वा स्वानुभूतस्यान्योऽनुसन्धत्ते। अतो भिन्न-काल-वस्त्व्-आश्रय-सादृश्यानुभव-निबन्धनम् एकत्व-व्यामोहं वदद्भिर् ज्ञातुर् एकत्वम् अवश्याश्रयणीयम्। न च ज्ञेयेष्व् अपि घटादिषु ज्वालादिष्व् इव भेद-साधन-प्रमाणम् उपलभामहे, येन सादृश्य-निबन्धनां प्रत्यभिज्ञां कल्पयेम। 

Link copied

यद् अपि चेदम् उच्यते प्रत्यक्षानुमानाभ्यां घटादेः क्षणिकत्वं सिध्यति। प्रत्यक्षं तावद् वर्तमानार्थ-विषयम-वर्तमानाद् वस्तुनो व्यावृत्तं स्व-विषयम् अवगमयति, नीलम् इव पीतात्। एवं च भूत-भविष्यद्भ्यः वर्तमानस्य वस्त्व्-अन्तरत्वम् अवगतं भवति। अनुमानम् अपि--- अर्थ-क्रिया-कारित्वात् सत्त्वाच् च घटादिः क्षणिकः, यद् अक्षणिकं शश-विषाणादि, तद् अनर्थ-क्रिया-कार्य-सच् च। तथान्त्य-घट-क्षण-सत्त्वात् पूर्व-घट-क्षण-सत्त्वानि विनाशीनि, घट-क्षण-सत्त्वात्, अन्त्य-घट-क्षण-सत्त्ववद् इति। तच् च कार्य-कारण-भावानुपपत्त्य्-आदिभिः पूर्वम् एव निरस्तम्। किं च प्रत्यक्ष-गम्या वर्तमानस्यावर्तमानाद् व्यावृत्तिर् न वर्तमानस्य वस्त्व्-अन्तरत्वम् अवगमयति; अपि तु वर्तमान-काल-योगिता-मात्रम्। न च तावता वस्त्व्-अन्तरत्वं सिध्यति, तस्यैव कालान्तर-योग-सम्भवात्। 

Link copied

यत् तु सत्त्वाद् अर्थ-क्रिया-कारित्वाच् चेति क्षणिकत्वे हेतु-द्वयम् उक्तम्, तद्-अभिमत-विपरीत-साधनत्वाद् विरुद्धम्। सत्त्वाद् अर्थ-क्रिया-कारित्वाद् वा घटादि स्थास्नु। यद् अस्थास्नु तद् असद् अनर्थ-क्रिया-कारि च, यथा शश-विषाणम् इत्य् अपि हि वक्तुं शक्यम्। किं च--- अर्थ-क्रिया-कारित्वम् अक्षणिकत्वम् एव साधयेत्। क्षण-ध्वंसिनो हि व्यापारासम्भवाद् अर्थ-क्रिया-कारित्वं न सम्भवतीत्य् उक्तम्। तथान्त्य-घट-क्षणस्य हेतुतो नाश-दर्शनाद् इतरेऽपि घट-क्षणा हेत्व्-अपेक्ष-विनाशाः स्युर् इत्य् आमुद्गरादि-हेतूपनिपातात् स्थास्नुत्वम् एव। न च वाच्यं न मुद्गरादयो विनाश-हेतवः, अपि तु कपालादि-विसदृश-सन्तानोत्पत्ति-हेतव इति; कपालत्वावस्थापत्तिर् एव घटादीनां विनाश इत्य् उपपादितत्वात्। कपालोत्पत्ति-व्यतिरिक्तत्वाभ्युपगमेऽपि विनाशस्य विनाश-हेतुत्वम् एव मुद्गरादेर् आनन्तर्याद्य् उक्तम्। 

Link copied

अतः प्रत्यभिज्ञया स्थिरत्वम् अवगम्यमानं न केनापि प्रकारेणापह्नोतुं शक्यम्। पूर्वापर-काल-सम्बन्ध्य्-अर्थ्यैक्य-विषयायाः प्रत्यभिज्ञाया अन्य-विषयत्वं ब्रुवन् नीलादि-ज्ञानानाम् अपि नीलादेर् अर्थान्तर-विषयत्वं ब्रूयात्। किं च प्रमातृ-प्रमेययोः क्षणिकत्वं वदद्भिर् व्याप्त्य्-अवधारण-तत्-स्मरण-पूर्वकानुमानाभ्युपगमोऽपि दुःशकः। तथा इदं क्षणिकम् इत्य् आदि प्रतिज्ञा-पूर्वक-हेतूपन्यासादिकम् अपि नोपपद्यते भवताम्, प्रतिज्ञोपक्रमक्षण एव वक्तुर् विनष्टत्वात्; न ह्य् अन्येनोपक्रान्तम् अजानद्भिर् अन्यैः समापयितुं शक्यम्॥२४॥ 

Link copied

**१९९ नासतोऽदृष्टत्वात्॥२।२।२५॥ **

Link copied

एवं तावद् वैभाषिक-सौत्रान्तिकयोर् बाह्यार्थास्तित्व-वादिनोः साधारणानि दूषणान्य् उक्तानि। तत्र यद् उक्तं सम्प्रयुक्तस्यार्थस्य ज्ञानोत्पत्ति-कालेऽनवस्थितत्वान् न कस्यचिद् अर्थस्य ज्ञान-विषयत्वं सम्भवतीति; तत्र सौत्रान्तिकः प्रत्यवतिष्ठते--- न ज्ञान-कालेऽनवस्थानम् अर्थस्य ज्ञानाविषयत्व-हेतुः; ज्ञानोत्पत्ति-हेतुत्वम् एव हि ज्ञान-विषयत्वम्। न चैतावता चक्षुर्-आदेर् ज्ञान-विषयत्व-प्रसङ्गः, स्वाकार-समर्पणेन ज्ञान-हेतोर् एव ज्ञान-विषयत्वाभ्युपगमात्। ज्ञाने स्वाकारं समर्प्य विनष्टोऽप्य् अर्थो ज्ञान-गतेन नीलाद्य्-आकारेणानुमीयते। न च पूर्व-पूर्व-ज्ञानेनोत्तरोत्तर-ज्ञानाकार-सिद्धिः, नील-ज्ञान-सन्ततौ पीत-ज्ञानानुत्पत्ति-प्रसङ्गात्। अतोऽर्थ-कृतम् एव ज्ञान-वैचित्र्यम् इति। अत्रोच्यते--- नासतोऽदृष्टत्वाद् इति। योऽयं ज्ञाने नीलादिर् आकार उपलभ्यते, स विनष्टस्यासतोऽर्थस्याकारो भवितुं नार्हति। कुतः। अदृष्टत्वात्--- न खलु धर्मिणि विनष्टे तद्-धर्मस्यार्थान्तरे सङ्क्रमणं दृष्टम्। प्रतिबिम्बादिकम् अपि स्थिरस्यैव भवति। तत्रापि न धर्म-मात्रस्य। अतोऽर्थ-वैचित्र्य-कृतं ज्ञान-वैचित्र्यम् अर्थस्य ज्ञान-कालेऽवस्थानाद् एव भवति॥२५॥ 

Link copied

पुनर् अपि साधारणं दूषणम् आह---

Link copied

**२०० उदासीनानाम् अपि चैवं सिद्धिः॥२।२।२६॥ **

Link copied

एवं क्षणिकत्वासद्-उत्पत्य-हेतुक-विनाशाद्य्-अभ्युपगमे उदासीनानाम्--- अनुद्युञ्जानानाम् अपि सर्वार्थ-सिद्धिः स्यात्। इष्ट-प्राप्तिर् अनिष्ट-निवृत्तिर् वा प्रयत्नादिभिः साध्यते। क्षण-ध्वंसे हि सर्वेषां भावानां पूर्व-पूर्वं वस्तु तद्-गतो वा विशेषः संस्कारादिको विद्यादिर् वा उत्तरत्र न कश्चिद् अनुवर्तत इति प्रयत्नादि-साध्यं न किञ्चिद् अस्ति। एवं सत्य-हेतु-साध्यत्वात् सर्व-सिद्धीनाम् उदासीनानाम् अप्य् ऐहिकामुष्मिक-फलं मोक्षश् च सिध्येत्॥२६॥ इति समुदायाधिकरणम्॥३॥ 

Link copied

अथोपलब्ध्य्-अधिकरणम्॥४॥ 

Link copied

**२०१ नाभाव उपलब्धेः॥२।२।२७॥ **

Link copied

विज्ञान-मात्रास्तित्व-वादिनो योगाचाराः प्रत्यवतिष्ठन्ते--- यद् उक्तम् अर्थ-वैचित्र्य-कृतं ज्ञान-वैचित्र्यम् इति; तन् नोपपद्यते, अर्थवज् ज्ञानानाम् एव साकाराणां स्वयम् एव विचित्रत्वात्। तच् च स्वरूप-वैचित्र्यं वासना-वशाद् एवोपपद्यते। वासना च विलक्षण-प्रत्यय-प्रवाह एव। यद् घटाकार-ज्ञानं कपालाकार-ज्ञानस्योत्पादकम्, तस्य तथाविधस्योत्पादकं तत्-पूर्व-घट-ज्ञानम्; तस्य च तथाविधस्योत्पादकं ततः पूर्व-घट-ज्ञानम् इत्य् एवंरूपः प्रवाह एव वासनेत्य् उच्यते। कथं बहिष्ठ-सर्षप-महीधरादेर् आकार आन्तरस्य ज्ञानस्येत्य् उच्यते। इत्थम्--- अर्थस्यापि व्यवहार-योग्यत्वं ज्ञान-प्रकाशायत्तम्, अन्यथा स्व-पर-वेद्ययोर् अनतिशय-प्रसङ्गात्। प्रकाशमानस्य च ज्ञानस्य साकारत्वम् अवश्याश्रयणीयम्, निराकारस्य प्रकाशायोगात्। एकश् चायम् आकार उपलभ्यमानो ज्ञानस्यैव। तस्य च बहिर्वद् अवभासोऽपि भ्रम-कृतः। ज्ञानार्थयोः सहोपलम्भ-नियमाच् च ज्ञानाद् अव्यतिरिक्तोऽर्थः। किं च बाह्यम् अर्थम् अभ्युपयद्भिर् अपि घट-पटादि-विज्ञानेषु ज्ञानस्य तत्-तद्-अर्थासाधारण्यं तत्-तद्-अर्थ-सारूप्यम् अन्तरेण नोपपद्यत इत्य् अवश्यं ज्ञानेऽर्थ-सरूपं रूपम् आस्थेयम्। तावतैव सर्व-व्यवहारोपपत्तेस् तद्-व्यतिरिक्तार्थ-कल्पना निष्प्रामाणिका। अतो विज्ञान-मात्रम् एव तत्त्वम्, न बाह्यार्थोऽस्तीति॥ 

Link copied

एवं प्राप्ते प्रचक्ष्महे--- नाभाव उपलब्धेर् इति। ज्ञानातिरिक्तस्यार्थस्याभावो वक्तुं न शक्यते। कुतः। उपलब्धेः--- ज्ञातुर् आत्मनोऽर्थ-विशेष-व्यवहार-योग्यतापादन-रूपेण ज्ञानस्योपलब्धेः। एवम् एव हि सर्वे लौकिकाः प्रतियन्ति घटम् अहं जानामीति। एवंरूपेण सकर्मकेण सकर्तृकेन ज्ञा-धात्व्-अर्थेन सर्व-लोक-साक्षिकम् अपरोक्षम् अवभासमानेनैव ज्ञान-मात्रम् एव परमार्थ इति साधयन्तः सर्व-लोकोपहासोपकरणं भवन्तीति वेद-वाद-च्छद्म-प्रच्छन्न-बौद्ध-निराकरणे निपुणतरं प्रपञ्चितम्। यत् तु--- सहोपलम्भ-नियमाद् अभेदो नील-तद्-धियोर् इति, तत् स्व-वचन-विरुद्धम्, साहित्यस्यार्थ-भेद-हेतुकत्वात्। तद्-अर्थ-व्यवहार-योग्यतैक-स्वरूपस्य ज्ञानस्य तेन सहोपलम्भ-नियमस् तस्माद् अवैलक्षण्य-साधनम् इति च हास्यम्। निरन्वय-विनाशिनां ज्ञानानाम् अनुवर्तमान-स्थिराकार-विरहाद् वासना च दुरुपपादा। विनष्टेन पूर्व-ज्ञानेनानुत्पन्नम् उत्तर-ज्ञानं कथं वास्यते। अतो ज्ञान-वैचित्र्यम् अप्य् अर्थ-वैचित्र्य-कृतम् एव। तत्-तद्-अर्थ-व्यवहार-योग्यतापादन-रूपतया साक्षात् प्रतीयमानस्य ज्ञानस्य तत्-तद्-अर्थ-सम्बन्धायत्तं तत्-तद्-असाधारण्यम्। सम्बन्धश् च संयोग-लक्षणः। ज्ञानम् अपि हि द्रव्यम् एव। प्रभा-द्रव्यस्य प्रदीप-गुण-भूतस्येव ज्ञानस्याप्य् आत्म-गुण-भूतस्य द्रव्यत्वम् अविरुद्धम् इत्य् उक्तम्। अतो न बाह्यार्थाभावः॥२७॥ 

Link copied

यत् परैः स्वप्न-ज्ञान-दृष्टान्तेन जागरित-ज्ञानानाम् अपि निरालम्बनत्वम् उक्तम्; तत्राह---

Link copied

**२०२ वैधर्म्याच् च न स्वप्नादिवत्॥२।२।२८॥ **

Link copied

स्वप्न-ज्ञान-वैधर्म्याज् जागरित-ज्ञानानाम् अर्थ-शून्यत्वं न युज्यते वक्तुम्। स्वप्न-ज्ञानानि हि निद्रादि-दोष-दुष्ट-करण-जन्यानि, बाधितानि च; जागरित-ज्ञानानि तु तद्-विपरीतानीति तेषां न तत्-साम्यम्। सर्वेषां च ज्ञानानाम् अर्थ-शून्यत्वे भवद्भिः साध्योऽप्य् अर्थो न सिध्यति, निरालम्बनानुमानस्याप्य् अर्थ-शून्यत्वात्। तस्यार्थवत्त्वे ज्ञानत्वस्यानैकान्त्यात् सुतराम् अर्थ-शून्यत्वासिद्धिः॥२८॥ 

Link copied

**२०३ न भावोऽनुपलब्धेः॥२।२।२९॥ **

Link copied

न केवलस्यार्थ-शून्यस्य ज्ञानस्य भावः सम्भवति। कुतः। क्वचिद् अप्य् अनुपलब्धेः। न ह्य् अकर्तृकस्याकर्मकस्य वा ज्ञानस्य क्वचिद् उपलब्धिः। स्वप्न-ज्ञानादिष्व् अपि नार्थ-शून्यत्वम् इति ख्याति-निरूपणे प्रतिपादितम्॥२९॥ इत्य् उपलब्ध्य्-अधिकरणम्॥४॥ 

Link copied

अथ सर्वथानुपपत्त्य्-अधिकरणम्॥५॥ 

Link copied

**२०४ सर्वथानुपपत्तेश् च॥२।२।३०॥ **

Link copied

अत्र सर्व-शून्य-वादी माध्यमिकः प्रत्यवतिष्ठते। शून्य-वाद एव हि सुगत-मत-काष्ठा। शिष्य-बुद्धि-योग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्ताः। विज्ञानं बाह्यार्थाश् च सर्वे न सन्ति, शून्यम् एव तत्त्वम्; अभावापत्तिर् एव च मोक्ष इत्य् एव बुद्धस्याभिप्रायः। तद् एव हि युक्तम्, शून्यस्याहेतु-साध्यतया स्वतः सिद्धेः। सत एव हि हेतुर् अन्वेषणीयः। तच् च सत् भावाद् अभावाच् च नोत्पद्यते; भावात् तावन् न कस्यचिद् उत्पत्तिर् दृष्टा; न हि घटादिर् अनुपमृदिते पिण्डादिके जायते। नाप्य् अभावाद् उत्पत्तिः सम्भवति, नष्टे पिण्डादिके ह्य् अभावाद् उत्पद्यमानं घटादिकम् अभावात्मकम् एव स्यात्। तथा स्वतः परतश् चोत्पत्तिर् न सम्भवति। स्वतः स्वोत्पत्ताव् आत्माश्रय-दोष-प्रसङ्गात्, प्रयोजनाभावाच् च। परतः परोत्पत्तौ परत्वाविशेषात् सर्वेषां सर्वेभ्य उत्पत्ति-प्रसङ्गः। जन्माभावाद् एव विनाशस्याप्य् अभावः। अतः शून्यम् एव तत्त्वम्। अतो जन्म-विनाश-सद्-असद्-आदयो भ्रान्ति-मात्रम्। न च निरधिष्ठान-भ्रमासम्भवाद् भमाधिष्ठानं किञ्चित् पारमार्थिकं तत्त्वम् आश्रयितव्यम्, दोष-दोषाश्रयत्व-ज्ञातृत्वाद्य्-अपारमार्थेऽपि भ्रमोपपत्तिवद् अधिष्ठानापारमार्थेऽपि भ्रमोपपत्तेः। अतः शून्यम् एव तत्त्वम्॥ 

Link copied

इति प्राप्त उच्यते--- सर्वथानुपपत्तेश् चेति। सर्वथानुपपत्तेः सर्व-शून्यत्वं च भवद्-अभिप्रेतं न सम्भवति। किं भवान् सर्वं सद् इति वा प्रतिजानीते, असद् इति वा, अन्यथा वा। सर्वथा तवाभिप्रेतं तुच्छत्वं न सम्भवति; लोके भावाभाव-शब्दयोस् तत्-प्रतीत्योश् च विद्यमानस्यैव वस्तुनोऽवस्था-विशेष-गोचरत्वस्य प्रतिपादितत्वात्। अतः सर्वं शून्यम् इति प्रतिजानता सर्वं सद् इति प्रतिजानतेव सर्वस्य विद्यमानस्यावस्था-विशेष-योगितैव प्रतिज्ञाता भवतीति भवद्-अभिमता तुच्छता न कुतश्चिद् अपि सिध्यति। किं च कुतश्चित् प्रमाणाच् छून्यत्वम् उपलभ्य शून्यत्वं सिषाधयिषता तस्य प्रमाणस्य सत्यत्वम् अभ्युपेत्य; तस्यासत्यत्वे सर्वं सत्यं स्याद् इति सर्वथा सर्व-शून्यत्वं चानुपपन्नम्॥३०॥ इति सर्वथानुपपत्त्य्-अधिकरणम्॥५॥ 

Link copied

अथ एकस्मिन्न् असम्भवाधिकरणम्॥६॥

Link copied

**२०५ नैकस्मिन्न् असम्भवात्॥२।२।३१॥ **

Link copied

निरस्ताः सौगताः। जैना अपि परमाणुकारणत्वादिकं जगतो वदन्तीत्य् अनन्तरं जैन-पक्षः प्रतिक्षिप्यते। ते किल मन्यन्ते--- जीवाजीवात्मकं जगद् एतन् निरीश्वरम्; तच् च षड्-द्रव्यात्मकम्। तानि च द्रव्याणि जीव-धर्माधर्म-पुद्गल-कालाकाशाख्यानि। तत्र जीवाः--- बद्धाः, योग-सिद्धाः, मुक्ताश् चेति त्रि-विधाः। धर्मो नाम गतिमतां गति-हेतु-भूतो द्रव्य-विशेषो जगद्-व्यापी। अधर्मश् च स्थिति-हेतु-भूतो व्यापी। पुद्गलो नाम वर्ण-गन्ध-रस-स्पर्शवद् द्रव्यम्। तच् च द्वि-विधम्--- परमाणु-रूपं, तत्-सङ्घात-रूपं च पवन-ज्वलन-सलिल-धरणी-तनु-भुवनादिकम्। कालस् त्व् अभूद् अस्ति भविष्यतीति व्यवहार-हेतुर् अणुरूपो द्रव्य-विशेषः। आकाशोऽप्य् एकोऽनन्त-प्रदेशश् च। तेषु चाणुव्यतिरिक्त-द्रव्याणि पञ्चास्तिकाया इति च सङ्गृह्यन्ते--- जीवास्तिकायः; धर्मास्तिकायः, अधर्मास्तिकायः, पुद्गलास्तिकायः, आकाशास्तिकायः, इति। अनेक-देश-वर्तिनि द्रव्येऽस्तिकाय-शब्दः प्रयुज्यते॥ 

Link copied

जीवानां मोक्षोपयोगिनम् अपरम् अपि सङ्ग्रहं कुर्वन्ति--- जीवाजीवास्रव-बन्ध-निर्जर-संवर-मोक्षा इति। मोक्ष-सङ्ग्रहेण मोक्षोपायश् च गृहीतः। स च सम्यग्-ज्ञान-दर्शन-चारित्र-रूपः। तत्र जीवस् तु ज्ञान-दर्शन-सुख-वीर्य-गुणः। अजीवश् च जीव-भोग्य-वस्तु-जातम्। आस्रवस् तद्-भोगोपकरण-भूतम् इन्द्रियादिकम्। बन्धश् चाष्ट-विधः--- घाति-कर्म-चतुष्टयम् अघाति-कर्म-चतुष्टयं चेति। तत्राद्यं जीव-गुणानां स्वाभाविकानां ज्ञान-दर्शन-वीर्य-सुखानां प्रतिघातकरम्। अपरं शरीर-संस्थान-तद्-अभिमान-तत्-स्थिति-तत्-प्रयुक्त-सुख-दुःखोपेक्षा-हेतु-भूतम्। निर्जरं मोक्ष-साधनम् अर्हद्-उपदेशावगतं तपः। संवरो नामेन्द्रिय-निरोधः समाधिरूपः। मोक्षस् तु निवृत्त-रागादि-क्लेशस्य स्वाभाविकात्म-स्वरूपाविर्भावः। पृथिव्य्-आदि-हेतु-भूताश् चाणवो वैशेषिकादीनाम् इव न चतुर्-विधाः। अपि त्व् एक-स्वभावाः। पृथिव्य्-आदि-भेदस् तु परिणाम-कृतः। सर्वं च वस्तु-जातं सत्त्वासत्त्व-नित्यत्वानित्यत्व-भिन्नत्वाभिन्नत्वादिभिर् अनैकान्तिकम् इच्छन्ति--- स्याद् अस्ति, स्यान् नास्ति, स्याद् अस्ति च नास्ति च, स्याद् अवक्तव्यम्, स्याद् अस्ति चावक्तव्यं च, स्यान् नास्ति चावक्तव्यं च, स्याद् अस्ति च नास्ति चावक्तव्यं चेति सर्वत्र सप्त-भङ्गी-नयावतारात्। सर्वं वस्तु-जातं द्रव्य-पर्यायात्मकम् इति द्रव्यात्मना सत्त्वैकत्व-नित्यत्वाद्य् उपपादयन्ति; पर्यायात्मना च तद्-विपरीतम्। पर्यायाश् च द्रव्यस्यावस्था-विशेषाः। तेषां च भावाभाव-रूपत्वात् सत्त्वासत्त्वादिकं सर्वम् उपपन्नम् इति॥ 

Link copied

अत्राभिधीयते--- नैकस्मिन्न् असम्भवाद् इति। नैतद् उपपद्यते; कुतः। एकस्मिन्न् असम्भवात्--- एकस्मिन् वस्तुन्य् अस्तित्व-नास्तित्वादेर् विरुद्धस्य च्छाया-तपवद् युगपद् असम्भवात्। एतद् उक्तं भवति--- द्रव्यस्य तद्-विशेषण-भूत-पर्याय-शब्दाभिधेयावस्था-विशेषस्य च पृथक् पदार्थत्वान् नैकस्मिन् विरुद्ध-धर्म-समावेशः सम्भवतीति। तथा हि--- एकेनास्तित्वादिनावस्था-विशेषेण विशिष्टस्य तदानीम् एव न तद्-विपरीत-नास्तित्वादि-विशिष्टत्वं सम्भवति। उत्पत्ति-विनाशाख्य-परिणाम-विशेषास्पदत्वं च द्रव्यस्यानित्यत्वम्, तद्-विपरीतं च नित्यत्वं तस्मिन् कथं समवैति। विरोधि-धर्माश्रयत्वं च भिन्नत्वम्, तद्-विपरीतं चाभिन्नत्वं कथं वा तस्मिन् समवैति। यथाश्वत्व-महिषत्वयोर् युगपद् एकस्मिन्न् असम्भवः। अयम् अर्थः पूर्वम् एव भेदाभेद-वादि-निरसन-समये--- तत् तु समन्वयाद् इत्य् अत्र प्रपञ्चितः। कालस्य पदार्थ-विशेषणतयैव प्रतीतेस् तस्य पृथग्-अस्तित्वनास्तित्वादयो न वक्तव्याः; न च परिहर्तव्याः। कालोऽस्ति नास्तीति व्यवहारो व्यवहर्तॄणां जात्य्-आद्य्-अस्तित्व-नास्तित्व-व्यवहार-तुल्यः। जात्य्-आदयो हि द्रव्य-विशेषणतयैव प्रतीयन्त इति पूर्वम् एवोक्तम्। कथं पुनर् एकम् एव ब्रह्म सर्वात्मकम् इति श्रोत्रियैर् उच्यते। सर्व-चेतनाचेतन-शरीरत्वात् सर्व-ज्ञस्य सर्व-शक्तेः सत्य-सङ्कल्पस्य पुरुषोत्तमस्येत्य् उक्तम्। शरीर-शरीरिणोस् तद्-धर्माणां चात्यन्त-वैलक्षण्यम् अप्य् उक्तम्। किं च जीवादीनां षण्णां द्रव्याणाम् एक-द्रव्य-पर्यायत्वाभावात् तेषु द्रव्यैकत्वेन पर्यायात्मना चैकत्वानेकत्वादयो दुरुपपादाः। अथोच्येत--- षड् एतानि द्रव्याणि स्वकीयैः पर्यायैः स्वेन स्वेन चात्मना तथा भवन्तीति। एवम् अपि सर्वम् अनैकान्तिकम् इत्य् अभ्युपगम-विरोधः, अन्योन्य-तादात्म्याभावात्। अतो न युक्तम् इदं जैन-मतम्। ईश्वरानधिष्ठित-परमाणु-कारण-वादे पूर्वोक्त-दोषास् तथैवावतिष्ठन्ते॥३१॥ 

Link copied

**२०६ एवं चात्माकार्त्स्न्यम्॥२।२।३२॥ **

Link copied

एवं भवद्-अभ्युपगमे सत्य् आत्मनश् चाकार्त्स्न्यं प्रसज्यते। जीवोऽसङ्ख्यात-प्रदेशो देह-परिमाण इति हि भवतां स्थितिः। तत्र हस्त्य्-आदि-शरीरेऽवस्थितस्यात्मनस् ततो न्यून-परिमाणे पिपीलिकादि-शरीरे प्रविशतोऽल्प-देश-व्यापित्वेनाकार्त्स्न्यं प्रसज्यते--- अपरिपूर्णता प्रसज्यत इत्य् अर्थः॥३२॥ 

Link copied

अथ सङ्कोच-विकास-धर्मतया आत्मनः पर्याय-शब्दाभिधेयावस्थान्तरापत्त्या विरोधः परिह्रियत इत्य् उच्येत; तत्राह--- 

Link copied

**२०७ न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः॥२।२।३३॥ **

Link copied

न च सङ्कोच-विकास-रूपावस्थन्तरापत्त्या विरोधः परिहर्तुं शक्यते, विकार-तत्-प्रयुक्तानित्यत्वादि-दोष-प्रसक्तेर् घटादि-तुल्यत्व-प्रसङ्गात्॥३३॥

Link copied

**२०८ अन्त्यावस्थितेश् चोभय-नित्यत्वाद् अविशेषः॥२।२।३४॥ **

Link copied

जीवस्य यद् अन्त्यं परिमाणं मोक्षावस्था-गतम्, तस्य पश्चाद् देहान्तर-परिग्रहाभावाद् अवस्थितत्वाद् आत्मनश् च मोक्षावस्थस्य तत्-परिमाणस्य चोभयोर् नित्यत्वात् तद् एव आत्मनः स्वाभाविकं परिमाणम् इति पूर्वम् अपि तस्माद् अविशेषः स्यात्। अतो देह-परिमाणत्वम् आत्मनो न स्याद् इत्य् असङ्गतम् एवेदम् आर्हत-मतम्॥३४॥ इत्य् एकस्मिन्न् असम्भवाधिकरणम्॥६॥ 

Link copied

अथ पशुपत्य्-अधिकरणम्॥७॥

Link copied

**२०९ पत्युर् असामञ्जस्यात्॥२।२।३५॥ **

Link copied

कपिल-कणाद-सुगतार्हत-मतानाम् असामञ्जस्याद् वेद-बाह्यत्वाच् च निःश्रेयसार्थिभिर् अनादरणीयत्वम् उक्तम्; इदानीं पशुपति-मतस्य वेद-विरोधाद् असामञ्जस्याच् च अनादरणीयतोच्यते। तन्-मतानुसारिणश् चतुर्-विधाः--- कापालाः कालामुखाः पाशुपताः शैवाश् चेति। सर्वे चैते वेद-विरुद्धां तत्त्व-प्रक्रियाम् ऐहिकामुष्मिक-निःश्रेयस-साधन-कल्पनाश् च कल्पयन्ति। निमित्तोपादानयोर् भेदं, निमित्त-कारणं च पशुपतिम् आचक्षते। तथा निःश्रेयस-साधनम् अपि मुद्रिका-षट्क-धारणादिकम्। यथाहुः कापालाः--- मुद्रिका-षट्क-तत्त्व-ज्ञः पर-मुद्रा-विशारदः। भगासन-स्थम् आत्मानं ध्यात्वा निर्वाणम् ऋच्छति॥ कण्ठिका रुचकं चैव कुण्डलं च शिखा-मणिः। भस्म यज्ञोपवीतं च मुद्रा-षट्कं प्रचक्षते॥ आभिर्मुद्रित-देहस् तु न भूय इह जायते, इत्य् आदिकम्। तथा कालामुखा अपि कपाल-पात्र-भोजन-शव-भस्म-स्नान-तत्-प्राशन-लगुड-धारण-सुरा-कुम्भ-स्थापन-तद्-आधार-देव-पूजादिकम् ऐहिकामुष्मिक-सकल-फल-साधनम् अभिदधति। रुद्राक्ष-कङ्कणं हस्ते जटा चैका च मस्तके। कपालं भस्मना स्नानम् इत्य् आदि च प्रसिद्धं शैवागमेषु। तथा केनचित् क्रिया-विशेषेण विजातीयानाम् अपि ब्राह्मण्य-प्राप्तिम् उत्तमाश्रम-प्राप्तिं चाहुः--- दीक्षा-प्रवेश-मात्रेण ब्राह्मणो भवति क्षणात्। कापालं व्रतम् आस्थाय यतिर् भवति मानवः, इति॥ 

Link copied

तत्रेदम् उच्यते--- पत्युर् असामञ्जस्याद् इति। नैकस्मिन्न् असम्भवाद् इत्य् अतो नेत्य् अनुवर्तते। पत्युः--- पशुपतेः, मतं नादरणीयम्। कुतः। असामञ्जस्यात्। असामञ्जस्यं चान्योन्य-व्याघाताद् वेद-विरोद्धाच् च। मुद्रिका-षट्क-धारण-भगासन-स्थात्म-ध्यान-सुरा-कुम्भ-स्थापन-तत्-स्थ-देवतार्चन-गूढाचार-श्मशान-भस्म-स्नान-प्रणव-पूर्वाभिध्यानान्यन्योन्य-विरुद्धानि। वेद-विरुद्धं चेदं तत्त्व-परिकल्पनम् उपासनम् आचारश् च। वेदाः खलु पर ब्रह्म नारायणम् एव जगन्-निमित्तम् उपादानं च वदन्ति--- नारायणः परं ब्रह्म तत्त्वं नारायणः परः। नारायण परो ज्योतिर् आत्मा नारायणः परः तद् ऐक्षत बहु स्यां प्रजायेयेति, सोऽकामयत बहु स्यां प्रजायेयेति तद् आत्मानं स्वयम् अकुरुत, इत्य् आदयः। पर-ब्रह्म-भूत-परम-पुरुष-वेदनम् एव च मोक्ष-साधनम् उपासनं वदन्ति--- वेदाहम् एतं पुरुषं महान्तम्, आदित्य-वर्णं तमसस् तु पारे, तम् एवं विद्वान् अमृत इह भवति, नान्यः पन्था अयनाय विद्यते, इत्य् आदिना एकतां गताः सर्वे वेदान्ताः। तद् इतिकर्तव्यता-भूतं कर्म च वेद-विहित-वर्णाश्रम-सम्बन्धि यज्ञादिकम् एव वदन्ति--- तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन एतम् एव लोकम् इच्छन्तः प्रवाजिनः प्रव्रजन्ति, इत्य् आदयः। केवल-पर-तत्त्व-प्रतिपादन-पर-नारायणानुवाक-सिद्ध-तत्त्व-पराः केषुचिद् उपासनादि-विधि-परेषु वाक्येषु श्रुताः प्रजापति-शिवेन्द्राकाश-प्राणादि-शब्दा इति शास्त्र-दृष्ट्या तूपदेशो वामदेववद् इत्य् अत्र प्रतिपादितम्। तथा--- एको ह वै नारायण आसीन् न ब्रह्मा नेशानः, इत्य् आरभ्य, स एकाकी न रमत, इति सृष्टि-वाक्योदितं स्रष्टारं नारायणम् एव समान-प्रकरण-स्थाः, सद् एव सोम्येदम् अग्र इत्य् आदिषु साधारणाः सब्रह्मात्मादि-शब्दाः प्रतिपादयन्तीति--- जन्माद्य् अस्य यतः, इत्य् अत्र प्रतिपादितम्। अतो वेद-विरुद्ध-तत्त्वोपासनानुष्ठानाभिधानात् पशुपति-मतम् अनादरणीयम् एव॥३५॥ 

Link copied

**२१० आधिष्ठानानुपपत्तेश् च॥२।२।३६॥ **

Link copied

वेद-बाह्यानाम् अनुमानाद् धि केवल-निमित्तेश्वर-कल्पना। तथा सति दृष्टानुसारेण कुलालादिवद् अधिष्ठानं कर्तव्यम्; न च कुलालादेर् मृद्-आद्य्-अधिष्ठानवत् पशुपतेर् निमित्त-भूतस्य प्रधानाधिष्ठानम् उपपद्यते, अशरीरत्वात्; सशरीराणाम् एव हि कुलालादीनाम् अधिष्ठान-शक्तिर् दृष्टा। न चेश्वरस्य सशरीरत्वम् अभ्युपगन्तव्यम्; तच्-छरीरस्य सावयवस्य नित्यत्वे अनित्यत्वे च, शास्त्र-योनित्वाद् इत्य् अत्र दोषस्योक्तत्वात्॥३६॥ 

Link copied

**२११ करणवच् चेन् न भोगादिभ्यः॥२।२।३७॥ **

Link copied

यथा भोक्तुर् जीवस्य करण-कलेवराद्य्-अधिष्ठानम् अशरीरस्यैव दृश्यते; तद्वन् महेश्वरस्याप्य् अशरीरस्य च प्रधानाधिष्ठानम् उपपद्यत इति चेन् न; भोगादिभ्यः---पुण्य-पाप-रूप-कर्म-फल-भोगार्थं पुण्य-पाप-रूपादृष्ट-कारितं हि तद्-अधिष्ठानम्; तद्वत् पशुपतेर् अपि पुण्य-पाप-रूपादृष्टवत्तया तत्-फल-भोगादि सर्वं प्रसज्येत; अतो नाधिष्ठान-सम्भवः॥३७॥ 

Link copied

**२१२ अन्तवत्त्वम् असर्वज्ञता वा॥२।२।३८॥ **

Link copied

वा-शब्दश् चार्थे; पशुपतेः पुण्य-पाप-रूपादृष्टवत्त्वे जीववद् अन्तवत्त्वं सृष्टि-संहाराद्य्-आस्पदत्वम् असर्वज्ञता च स्याद् इत्य् अनादरणीयम् एवेदं मतम्। विरोधे त्व् अनपेक्षं स्यात्, इत्य् आदिना वेद-विरुद्धस्यानादरणीयत्वे सिद्धेऽपि पशुपति-मतस्य वेद-विरुद्धताख्यापनार्थं, पत्युर् असामञ्जस्याद् इति पुनर् आरम्भः। यद्य् अपि पाशुपत-शैवयोर् वेदाविरोधिन इव केचन धर्माः प्रतीयन्ते तथापि वेद-विरुद्ध-निमित्तोपादान-भेद-कल्पनापरावर-तत्त्व-व्यत्यय-कल्पना-मूलत्वात् सर्वम् असमञ्जसम् एवेत्य् असामञ्जस्याद् इत्य् उक्तम्॥३८॥ 

Link copied

इति पशुपत्य्-अधिकरणम्॥७॥

Link copied

अथोत्पत्त्य्-असम्भवाधिकरणम्॥८॥ 

Link copied

२१३ उत्पत्त्य्-असम्भवात्॥२।२।३९॥

Link copied

कपिलादि-तन्त्र-सामान्याद् भगवद्-अभिहित-परम-निःश्रेयस-साधनावबोधिनि पञ्चरात्र-तन्त्रेऽप्य् अप्रामाण्यम् आशङ्क्य निराक्रियते। तत्रैवम् आशङ्क्यते---परम-कारणात् परब्रह्म-भूताद् वासुदेवात् सङ्कर्षणो नाम जीवो जायते, सङ्कर्षणात् प्रद्युम्न-संज्ञं मनो जायते, तस्माद् अनिरुद्ध-संज्ञोऽहङ्कारो जायत इति हि भागवत-प्रक्रिया। अत्र जीवस्योत्पत्तिः श्रुति-विरुद्धा प्रतीयते; श्रुतयो हि जीवस्यानादित्वं वदन्ति--- न जायते म्रियते वा विपश्चित्, इत्य् आद्याः॥३९॥ 

Link copied

**२१४ न च कर्तुः करणम्॥२।२।४०॥ **

Link copied

सङ्कर्षणात् प्रद्युम्न-संज्ञं मनो जायते इति कर्तुर् जीवात्, करणस्य मनस उत्पत्तिर् न सम्भवति, एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, इति परस्माद् एव ब्रह्मणो मनसोऽप्य् उत्पत्ति-श्रुतेः। अतः श्रुति-विरुद्धार्थ-प्रतिपादनाद् अस्यापि तन्त्रस्य प्रामाण्यं प्रतिषिद्ध्यत इति॥४०॥ 

Link copied

एवं प्राप्ते प्रचक्ष्महे---

Link copied

**२१५ विज्ञानादि-भावे वा तद्-अप्रतिषेधः॥२।२।४१॥ **

Link copied

वा-शब्दात् पक्षो विपरिवर्तते; विज्ञानं चादि चेति परब्रह्म विज्ञानादि। सङ्कर्षण-प्रद्युम्नानिरुद्धानाम् अपि परब्रह्म-भावे सति तत्-प्रतिपादन-परस्य शास्त्रस्य प्रामाण्यं न प्रतिषिध्यते। एतद् उक्तं भवति--- भागवत-प्रक्रियाम् अजानताम् इदं चोद्यं यज् जीवोत्पत्तिर् विरुद्धाभिहितेति। वासुदेवाख्यं परं ब्रह्मैवाश्रित-वत्सलं स्वाश्रित-समाश्रयणीयत्वाय स्वेच्छया चतुर्धावतिष्ठत इति हि तत्-प्रक्रिया। यथा पौष्कर-संहितायां--- कर्तव्यत्वेन वै यत्र चातुरात्म्यम् उपास्यते। क्रमागतैः स्व-संज्ञाभिर् ब्राह्मणैर् आगमं तु तत्, इत्य् आदि। तच् च चातुरात्म्योपासनं वासुदेवाख्य-परब्रह्मोपासनम् इति सात्त्वत-संहितायाम् उक्तं--- ब्राह्मणानां हि सद्-ब्रह्म-वासुदेवाख्य-याजिनाम्। विवेक-दं परं शास्त्रं ब्रह्मोपनिषदं महत्, इति। तद् धि वासुदेवाख्यं परं ब्रह्म सम्पूर्ण-षाड्गुण्य-वपुः सूक्ष्म-व्यूह-विभव-भेद-भिन्नं यथाधिकारं भक्तैर् ज्ञान-पूर्वेण कर्मणा अभ्यर्चितं सम्यक् प्राप्यते। विभवार्चनाद् व्यूहं प्राप्य व्यूहार्चनात् परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यत इति वदन्ति। विभवो हि नाम राम-कृष्णादि-प्रादुर्भाव-गणः। व्यूहो वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-रूपश् चतुर्-व्यूहः। सूक्ष्मं तु केवल-षाड्गुण्य-विग्रहं वासुदेवाख्यं परब्रह्म। यथा पौष्करे--- यस्मात् सम्यक् परं ब्रह्म वासुदेवाख्यम् अव्ययम्। अस्माद् अवाप्यते शास्त्राज् ज्ञान-पूर्वेण कर्मणा, इत्य् आदि। अतः सङ्कर्षणादीनाम् अपि परस्यैव ब्रह्मणः स्वेच्छा-विग्रह-रूपत्वात्, अजायमानो बहुधा विजायत इति श्रुति-सिद्धस्यैवाश्रित-वात्सल्य-निमित्त-स्वेच्छा-विग्रह-सङ्ग्रह-रूप-जन्मनोऽभिधानात् तद्-अभिधायि-शास्त्र-प्रामाण्यस्याप्रतिषेध इति। तत्र जीव-मनो-ऽहङ्कार-तत्त्वानाम् अधिष्ठातारः सङ्कर्षण-प्रद्युम्नानिरुद्धा इति तेषाम् एव जीवादि-शब्दैर् अभिधानम् अविरुद्धम्; यथा आकाश-प्राणादि-शब्दैर् ब्रह्मणोऽभिधानम्॥४१॥

Link copied

२१६ विप्रतिषेधाच् च॥२।२।४२॥

Link copied

विप्रतिषिद्धा हि जीवोत्पत्तिस् तस्मिन्न् अपि तन्त्रे; यथोक्तं परम-संहितायाम्--- अचेतना परार्था च नित्या सतत-विक्रिया। त्रि-गुणा कर्मिणां क्षेत्रं प्रकृते रूपम् उच्यते॥ व्याप्ति-रूपेण सम्बन्धस् तस्याश् च पुरुषस्य च। स ह्य् अनादिर् अनन्तश् च परमार्थेन निश्चितः, इति। एवं सर्वास्व् अपि संहितासु जीवस्य नित्यत्व-वचनाज् जीव-स्वरूपोत्पत्तिः पञ्चरात्र-तन्त्रे प्रतिषिद्धैव। जन्म-मरणादि-व्यवहारस् तु लोक-वेदयोर् जीवस्य यथोपपद्यते, तथा--- नात्मा श्रुतेर् इत्य् अत्र वक्ष्यते। अतो जीवस्योत्पत्तिस् तत्रापि प्रतिषिद्धैवेति जीवोत्पत्ति-वाद-निमित्ताप्रामाण्य-शङ्का दूरोत्सारिता। 

Link copied

यश् चैष केषाञ्चिद् उद्घोषः--- साङ्गेषु वेदेषु निष्ठाम् अलभमानः शाण्डिल्यः पञ्चरात्र-शास्त्रम् अधीतवान् इति साङ्गेषु वेदेषु पुरुषार्थ-निष्ठा न लब्धेति वचनाद् वेद-विरुद्धम् एवेदं तन्त्रम् इति, सोऽप्य् अनाघ्रात-वेद-वचसाम् अनाकलित-तद्-उपबृंहण-न्याय-कलापानां श्रद्धा-मात्र-विजृम्भितः। यथा--- प्रातः प्रातर् अनृतं ते वदन्ति पुरोदयाज् जुह्वति येऽग्निहोत्रम् इत्य् अनुदित-होम-निन्दा उदित-होम-प्रशंसार्थेत्य् उक्तम्; यथा च भूम-विद्या-प्रक्रमे नारदेन--- ऋग्-वेदं भगवोऽध्येमि यजुर्-वेदं साम-वेदम् आथर्वणं चतुर्थम् इतिहास-पुराणं पञ्चमम् इत्य् आरभ्य सर्वं विद्या-स्थानम् अभिधाय, सोऽहं भगवो मन्त्र-विद् एवास्मि नात्मवित्, इति भूम-विद्या-व्यतिरिक्तासु सर्वासु विद्या-स्वात्म-वेदनालाभ-वचनं वक्ष्यमाण-भूम-विद्या-प्रशंसार्थं कृतम्। अथवा अस्य नारदस्य साङ्गेषु वेदेषु यत् पर-तत्त्वं प्रतिपाद्यते, तद्-अलाभ-निमित्तोऽयं वादः; एवम् एव शाण्डिल्यस्येति, पश्चाद् वेदान्त-वेद्य-वासुदेवाख्य-परब्रह्म-तत्त्वाभिधानाद् अवगम्यते॥ 

Link copied

तथा वेदार्थस्य दुर्ज्ञानतया सुखावबोधार्थः शास्त्रारम्भः परम-संहितायाम् उच्यते। अधीता भगवन् वेदाः साङ्गोपाङ्गाः सविस्तराः। श्रुतानि च मयाङ्गानि वाको-वाक्ययुतानि च। न चैतेषु समस्तेषु संशयेन विना क्वचित्। श्रेयो-मार्गं प्रपश्यामि येन सिद्धिर् भविष्यति, इति। वेदान्तेषु यथा सारं सङ्गृह्य भगवान् हरिः। भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम्, इति च। अतः स भगवान् वेदैक-वेद्यः परब्रह्माभिधानो वासुदेवो निखिल-हेय-प्रत्यनीक-कल्याणैकतानानन्त-ज्ञानानन्दाद्य्-अपरिमितोदार-गुण-सागरः सत्य-सङ्कल्पश् चातुवर्ण्य-चातुराश्रम्य-व्यवस्थयावस्थितान् धर्मार्थ-काम-मोक्षाख्य-पुरुषार्थाभिमुखान् भक्तान् अवलोक्यापार-कारुण्य-सौशील्य-वात्सल्यौदार्य-महोदधिः स्व-स्वरूप-स्व-विभूति-स्वाराधन-तत्-फल-याथात्म्यावबोधिनो वेदान् ऋग्-यजुः सामाथर्व-भेद-भिन्नान-परिमित-शाखान् विध्य्-अर्थवाद-मन्त्र-रूपान् स्वेतर-सकल-सुर-नर-दुरवगाहांश् चावधार्य तद्-अर्थ-याथात्म्यावबोधि पञ्चरात्र-शास्त्रं स्वयम् एव निरमिमीतेति निरवद्यम्॥

Link copied

यत् तु परैः सूत्र-चतुष्टयं कस्यचिद् विरुद्धांशस्य प्रामाण्य-निषेध-परं व्याख्यातम्। तत् सूत्राक्षराननुगुणम्, सूत्र-काराभिप्राय-विरुद्धं च। तथा हि--- सूत्र-कारेण वेदान्त-न्यायाभिधायीनि सूत्राण्य् अभिधाय वेदोपबृंहणाय च भारत-संहितां शत-सहस्रिकां कुर्वता मोक्षधर्मे ज्ञान-काण्डेऽभिहितं--- गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। य इच्छेत् सिद्धिम् आस्थातुं देवतां कां यजेत सः, इत्य् आरभ्य महता प्रबन्धेन पञ्चरात्र-शास्त्र-प्रक्रियां प्रतिपाद्य, इदं शत-सहस्राद् धि भारताख्यान-विस्तरात्। आविध्य मति-मन्थानं दध्नो घृतम् इवोद्धृतम्। नवनीतं यथा दध्नो द्वि-पदां ब्राह्मणो यथा। आरण्यकं च वेदभ्य ओषधीभ्यो यथामृतम्॥ इदं महोपनिषदं चतुर्-वेद-समन्वितम्। साङ्ख्य-योग-कृतान्तेन पञ्चरात्रानुशब्दितम्॥ इदं श्रेय इदं ब्रह्म इदं हितम् अनुत्तमम्। ऋग्-यजुः-सामभिर् जुष्टम् अथर्वाङ्गिरसैस् तथा। भविष्यति प्रमाणं वा एतद् एवानुशासनम्, इति। साङ्ख्य-योग-शब्दाभ्यां ज्ञान-योग-कर्म-योगावभिहितौ; यथोक्तंइ--- ज्ञान-योगेन साङ्ख्यानां कर्म-योगेन योगिनाम् इति। भीष्म-पर्वण्य् अपि--- ब्राह्मणैः क्षत्रियैर् वैश्यः शूद्रैश् च कृत-लक्षणैः। अर्चनीयश् च सेव्यश् च पूजनीयश् च माधवः। सात्त्वतं विधिम् आस्थाय गीतः सङ्कर्षणेन यः, इति। कथम् अवब्रुवाणो बादरायणो वेद-विद् अग्रेसरो वेदान्त-वेद्य-परब्रह्म-भूत-वासुदेवोपासनार्चनादि-प्रतिपादन-परस्य सात्त्वत-शास्त्रस्याप्रामाण्यं ब्रूयात्। 

Link copied

ननु च--- साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा। किम् एतान्य् एक-निष्ठानि पृथङ् निष्ठानि वा मुने, इत्य् आदिना साङ्ख्यादीनाम् अप्य् आदरणीयतोच्यते। शारीरके तु साङ्ख्यादीनि प्रतिषिध्यन्ते। अत इदम् अपि तन्त्रं तत्-तुल्यम्। नेत्युच्यते, यतस् तत्रापीमम् एव शारीरकोक्तं न्यायम् अवतारयति। किम् एतान्य् एक-निष्ठानि पृथङ् निष्ठानि वेति प्रश्नस्यायम् अर्थः--- किं साङ्ख्य-योग-पाशुपत-वेद-पञ्चरात्राण्य् एक-तत्त्व-प्रतिपादन-पराणि, पृथक्-तत्त्व-प्रतिपादन-पराणि वा। यदैक-तत्त्व-प्रतिपादन-पराणि, किं तद् एकं तत्त्वम्। यदा तु पृथक्-तत्त्व-प्रतिपादन-पराणि, तदैषां परस्परं विरुद्धार्थ-प्रतिपादन-परत्वाद् वस्तुनि विकल्पासम्भवाच् चैकम् एव प्रमाणम् अङ्गीकरणीयम्, किं तद् एकम् इति। अस्योत्तरं ब्रुवन्--- ज्ञानान्येतानि राजर्षे विद्धि नाना-मतानि वै। साङ्ख्यस्य वक्ता कपिलः, इत्य् आरभ्य साङ्ख्य-योग-पाशुपतानां कपिल-हिरण्यगर्भ-पशुपति-कृतत्वेन पौरुषेयत्वं प्रतिपाद्य--- अवान्तरतपा नाम वेदाचार्यः स उच्यते, इति वेदानाम् अपौरुषेयत्वम् अभिधाय, पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् इति पञ्चरात्र-तन्त्रस्य वक्ता नारायणः स्वयम् एवेत्य् उक्तवान्। 

Link copied

एवं वदतश् चायम् आशयः--- पौरुषेयाणां हि तन्त्राणां परस्पर-विरुद्ध-वस्तु-वादितया अपौरुषेयत्वेन निरस्त-प्रमादादि-निखिल-दोष-गन्ध-वेद-वेद्य-वस्तु-विरुद्धाभिधायित्वाच् च यथावस्थित-वस्तुनि प्रामाण्यं दुर्लभम्; वेद-वेद्यश् च परब्रह्म-भूतो नारायणः; अतस् तत्-तत्-तन्त्राभिहित-प्रधान-पुरुष-पशुपति-प्रभृति-तत्त्वस्य वेदान्त-वेद्य-परब्रह्म-भूत-नारायणात्मकतयैव वस्तुत्वम् अभ्युपगमनीयम् इति। तद् इदम् आह च--- सर्वेषु च नृप-श्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते। यथागमं यथान्यायं निष्ठा नारायणः प्रभुः, इति। यथागमं यथान्यायम् इति न्यायानुगृहीत-तत्-तद्-आगमोक्तं वस्तु परामृशतो नारायण एव सर्वस्य वस्तुनो निष्ठेति दृश्यते, अब्रह्मात्मकतया तत्-तत्-तन्त्राभिहितानां तत्त्वानां--- सर्वं खल्व् इदं ब्रह्म, विश्वं नारायणः, इत्य् आदिना सर्वस्य ब्रह्मात्मकताम् अनुसन्दधानस्य नारायण एव निष्ठेति प्रतीयत इत्य् अर्थः। अतो वेदान्त-वेद्यः परब्रह्म-भूतो नारायणः स्वयम् एव पञ्चरात्रस्य कृत्स्नस्य वक्तेति, तत्-स्वरूप-तद्-उपासनाभिधायि तत् तन्त्रम् इति च तस्मिन्न् इतर-तन्त्र-सामान्यं न केनचिद् उद्भावयितुं शक्यम्। अतस् तत्रैवेदम् उच्यते--- एवम् एकं साङ्ख्य-योगं वेदारण्यकम् एव च। परस्पराङ्गान्य् एतानि पञ्चरात्रं तु कथ्यते, इति। साङ्ख्यं च योगश् च साङ्ख्य-योगम्, वेदाश् चारण्यकानि च वेदारण्यकम्, परस्पराङ्गान्य् एतान्य् एक-तत्त्व-प्रतिपादन-परतयैकीभूतान्य् एकं पञ्चरात्रम् इति कथ्यते। 

Link copied

एतद् उक्तं भवति--- साङ्ख्योक्तानि पञ्च-विंशति-तत्त्वानि, योगोक्तं च यम-नियमाद्य्-आत्मकं योगम्, वेदोदित-कर्म-स्वरूपाण्य् अङ्गीकृत्य तत्त्वानां ब्रह्मात्मकत्वं, योगस्य च ब्रह्मोपासन-प्रकारत्वं कर्मणां च तद्-आराधन-रूपताम् अभिदधति ब्रह्म-स्वरूपं प्रतिपादयन्त्य् आरण्यकानि। एतद् एव परेण ब्रह्मणा नारायणेन स्वयम् एव पञ्चरात्र-तन्त्रे विशदीकृतम् इति। शारीरके च साङ्ख्योक्त-तत्त्वानाम् अब्रह्मात्मकता-मात्रं निराकृतम्; न स्वरूपम्। योग-पाशुपतयोश् चेश्वरस्य केवल-निमित्त-कारणता, परावर-तत्त्व-विपरीत-कल्पना, वेद-बहिष्कृताचारो निराकृतः; न योग-स्वरूपम्, पशुपति-स्वरूपं च। अतः--- साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा। आत्म-प्रमाणान्य् एतानि न हन्तव्यानि हेतुभिः, इत्य् अपि तत्-तद्-अभिहित-तत्-तत्-स्वरूप-मात्रम् अङ्गीकार्यम्; जिन-सुगताभिहित-तत्त्ववत् सर्वं न बहिष्कार्यम् इत्य् उच्यते, यथागमं यथान्यायं निष्ठा नारायणः प्रभुर् इत्य् अनेनैकार्थ्यात्॥४२॥ इत्य् उत्पत्त्य्-असम्भवाधिकरणम्॥८॥ 

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-शारीरक-मीमांसा-भाष्ये द्वितीयस्याध्यायस्य द्वितीयः पादः॥२॥

Link copied

द्वितीयाध्याये

Link copied

तृतीयः पादः

वियद्-अधिकरणम्॥१॥

Link copied

**२१७ न वियदश्रुतेः॥२।३।१॥ **

Link copied

साङ्ख्यादि-वेद-बाह्य-तन्त्राणां न्यायाभास-मूलतया विप्रतिषेधाच् चासामञ्जस्यम् उक्तम्। इदानीं स्व-पक्षस्य विप्रतिषेधादि-दोष-गन्धाभाव-ख्यापनाय ब्रह्म-कार्यतयाभिमत-चिद्-अचिद्-आत्मक-प्रपञ्चस्य कार्यता-प्रकारो विशोध्यते। तत्र वियद् उत्पद्यते न वेति संशय्यते। किं युक्तम्। न वियद् उत्पद्यत इति। कुतः। अश्रुतेः; सम्भावितस्य हि श्रवण-सम्भवः; असम्भावितस्य तु गगन-कुसुम-वियद्-उत्पत्त्य्-आदेः शब्दाभिधेयत्वं न सम्भवति। न खलु निरवयवस्य सर्व-गतस्याकाशस्य आत्मन इवोत्पत्तिर् निरूपयितुं शक्यते। अत एव चोत्पत्त्य्-असम्भवाच् छान्दोग्ये सृष्टि-प्रकरणे तेजः-प्रभृतीनाम् एवोत्पत्तिर् आम्नायते--- तद् ऐक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजतेति। तैत्तिरीयकाथर्वणादिषु--- तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः, एतस्माज् जायते प्राणो मनः-सर्वेन्द्रियाणि च, खं वायुर् ज्योतिर् आपः, इत्य् आदिषु श्रूयमाणा वियद्-उत्पत्तिर् अर्थ-विरोधाद् बाध्यत इति॥१॥

Link copied

एवं प्राप्तेऽभिधीयते---

Link copied

**२१८ अस्ति तु॥२।३।२॥ **

Link copied

अस्ति त्व् आकाशस्योत्पत्तिः। अतीन्द्रियार्थ-विषया हि श्रुतिः प्रमाणान्तराप्रतीताम् अपि वियद् उत्पत्तिं प्रतिपादयितुं समर्थैव। न च श्रुति-प्रतिपन्नेऽर्थे तद्-विरोधि-निरवयवत्वादि-हेतुकम् अनुत्पत्त्य्-अनुमानम् उदेतुम् अलम्; आत्मनोऽनुत्पत्तिर् न निरवयवत्व-प्रयुक्तेति वक्ष्यते॥२॥

Link copied

पुनश् चोदयति---

Link copied

**२१९ गौण्य-सम्भवाच् छब्दाच् च॥२।३।३॥ **

Link copied

तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इत्य् आदि वियद्-उत्पत्ति-श्रुतिर् गौणीति कल्पयितुं युक्तम्, तत् तेजोऽसृजतेति सिसृक्षोः ब्रह्मणः प्रथमं तेज उत्पद्यत इति तेज-उत्पत्ति-प्राथम्येन वियद्-उत्पत्ति-प्रतिपादनासम्भवात्, वायुश् चान्तरिक्षं चैतद् अमृतम् इति वियतोऽमृतत्व-शब्दाच् च॥३॥

Link copied

कथम् एकस्य सम्भूत-शब्दस्य आकाशापेक्षया गौणत्वम्, अग्न्य्-आद्य्-अपेक्षया मुख्यत्वम् इति चेत्, तत्राह---

Link copied

२२० स्याच् चैकस्य ब्रह्म-शब्दवत्॥२।३।४॥

Link copied

एकस्यैव--- तस्माद् वा एतस्माद् आत्मन आकाशाः सम्भूतः इत्य् आकाशे मुख्यत्वासम्भवाद् गौणतया प्रयुक्तस्य सम्भूत-शब्दस्य, वायोर् अग्निः, इत्य् आदिष्व् अनुषक्तस्य मुख्यत्वं स्याद् एव। ब्रह्म-शब्दवत्--- यथा ब्रह्म-शब्दः; तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते इत्य् अत्र प्रधाने गौणतया प्रयुक्तस् तस्मिन्न् एव प्रकरणे, तपसा चीयते ब्रह्म ततोऽन्नम् अभिजायते इति ब्रह्मणि मुख्यतया प्रयुज्यते; तद्वत्। अनुषङ्गे च श्रवणावृत्ताव् इवाभिधानावृत्तिर् विद्यत एवेत्य् अर्थः॥४॥

Link copied

परिहरति---

Link copied

२२१ प्रतिज्ञाहानिर् अव्यतिरेकात्॥२।३।५॥

Link copied

छान्दोग्य-श्रुत्य्-अनुसारेणान्यासां वियद्-उत्पत्ति-वादिनीनां श्रुतीनां गौणत्वं कल्पयितुं न युज्यते। यतश् छान्दोग्य-श्रुत्यैव वियद्-उत्पत्तिर् अङ्गीकृता; येनाश्रुतं श्रुतम् इत्य् आदिना ब्रह्म-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञानात्। तस्या हि प्रतिज्ञायाः अहानिर् आकाशस्यापि ब्रह्म-कार्यत्वेन तद्-अव्यतिरेकाद् एव भवति॥५॥

Link copied

**२२२ शब्देभ्यः॥२।३।६॥ **

Link copied

इतश् च वियद्-उत्पत्तिश् छान्दोग्ये प्रतीयते--- सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति प्राक्सृष्टेर् एकत्वावधारण-शब्दात्; ऐतदात्म्यम् इदं सर्वम् इत्य् एवम् आदि-शब्देभ्यश् च कार्यत्वेन ब्रह्मणोऽव्यतिरेक-प्रतीतेः। न च तत् तेजोऽसृजतेति तेजस उत्पत्ति-श्रुतिर् वियद्-उत्पत्तिं वारयति। वियद्-उत्पत्त्य्-अवचन-मात्रेण तेजसः प्रतीयमानं प्राथम्यं श्रुत्य्-अन्तर-प्रतिपन्नां वियद्-उत्पत्तिं न निवारयितुम् अलम्॥६॥

Link copied

२२३ यावद् विकारं तु विभागो लोकवत्॥२।३।७॥

Link copied

तु-शब्दश् चार्थे; ऐतदात्म्यम् इदं सर्वम् इत्य् आदिभिर् आकाशस्य विकारत्व-वचनेन तस्याकाशस्य ब्रह्मणो विभागः--- उत्पत्तिर् अप्य् उक्तैव। लोकवत्--- यथा लोके एते सर्वे देवदत्त-पुत्राः इत्य् अभिधाय तेषु केषाञ्चित् तत उत्पत्ति-वचनेन सर्वेषाम् उत्पत्तिर् उक्ता स्यात् तद्वत्। एवं च सति--- वायुश् चान्तरिक्षं चैतद् अमृतम् इति सुराणाम् इव चिर-काल-स्थायित्वाभिप्रायम्॥७॥

Link copied

२२४ एतेन मातरिश्वा व्याख्यातः॥२।३।८॥

Link copied

अनेनैव हेतुना मातरिश्वनो वायोर् अप्य् उत्पत्तिर् व्याख्याता। वियन्-मातरिश्वनोः पृथग् योग-करणं, तेजोऽतस् तथा ह्य् आहेति मातरिश्व-परामर्शार्थम्॥८॥

Link copied

**२२५ असम्भवस् तु सतोऽनुपपत्तेः॥२।३।९॥ **

Link copied

तु-शब्दोऽवधारणार्थः। असम्भवः--- अनुत्पत्तिः, सता--- ब्रह्मण एव; तद्-व्यतिरिक्तस्य कस्यचिद् अप्य् अनुत्पत्तिर् न सम्भवति, अनुपपत्तेः। एतद् उक्तं भवति--- वियन्-मातरिश्वनोर् उत्पत्ति-प्रतिपादनम् उदाहरणार्थम्; उत्पत्त्य्-असम्भवस् तु सतः परम-कारणस्य परस्यैव ब्रह्मणः। तद्-व्यतिरिक्तस्य कृत्स्नस्याव्यक्त-महद्-अहङ्कार-तन्मात्रेन्द्रिय-वियत्-पवनादिकस्य प्रपञ्चस्यैक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञादिभिर् अवगत-कार्य-भावस्यानुत्पत्तिर् नोपपद्यत इति॥९॥ इति वियद्-अधिकरणम्॥१॥

Link copied

अथ तेजोऽधिकरणम्॥२॥

Link copied

**२२६ तेजोऽतस् तथा ह्य् आह॥२।३।१०॥ **

Link copied

ब्रह्म-व्यतिरिक्तस्य कृत्स्नस्य ब्रह्म-कार्यत्वम् उक्तम्। इदानीं व्यवहित-कार्याणां किं केवलात् तत्-तद्-अनन्तर-कारण-भूताद् वस्तुन उत्पत्तिः, आहोस्वित् तत्-तद्-रूपाद् ब्रह्मण इति चिन्त्यते। किं युक्तम्। केवलात् तत्-तद्-वस्तुन इति। कुतः। तेजस् तावत् अतः--- मातरिश्वन एवोत्पद्यते। वायोर् अग्निः, इति ह्य् आह॥१०॥

Link copied

**२२७ आपः॥२।३।११॥ **

Link copied

आपोऽप्य् अतः--- तेजस एवोत्पद्यन्ते, अग्नेर् आपः, तद् अपोऽसृजत, इति ह्य् आह॥११॥ 

Link copied

**२२८ पृथिवी॥२।३।१२॥ **

Link copied

पृथिवी अद्भ्य उत्पद्यते--- अद्भ्यः पृथिवी, ता अन्नम् असृजन्त, इति ह्य् आह॥१२॥ नन्व् अन्न-शब्देन कथं पृथिव्य् अभिधीयते। अत आह---

Link copied

२२९ अधिकार-रूप-शब्दान्तरेभ्यः॥२।३।१३॥

Link copied

महाभूत-सृष्ट्य्-अधिकारात् पृथिव्य् एवान्न-शब्देनोक्तेति प्रतीयते। अदनीयस्य सर्वस्य पृथिवी-विकारत्वात् कारणे कार्य-शब्दः। तथा वाक्य-शेषे भूतानां रूप-संशब्दने, यद् अग्ने रोहितं रूपं तेजसस् तद् रूपं यच् छुक्लं तद् अपां यत् कृष्णं तद् अन्नस्य, इत्य् अप्-तेजसोः सजातीयम् एवान्न-शब्द-वाच्यं प्रतीयते। शब्दान्तरं च समान-प्रकरणे, अग्नेर् आपः, अद्भ्यः पृथिवी, इति श्रूयते। अतः पृथिव्य् एवान्न-शब्देनोच्यत इत्य् अद्भ्य एव पृथिवी जायते। उदाहृतास् तेजः-प्रभृतयः प्रदर्शनार्थाः। महद्-आदयोऽपि स्वानन्तर-वस्तुन एवोत्पद्यन्ते, यथाश्रुत्य्-अभ्युपगमाविरोधात्। एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर् ज्योतिर् आपः पृथिवी विश्वस्य धारिणी, तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः। तत् तेजोऽसृजत, इत्य् आदयो ब्रह्मणः परम्परया कारणत्वेऽप्य् उपपद्यन्त इति॥१३॥

Link copied

एवं प्राप्ते प्रचक्ष्महे---

Link copied

२३० तद्-अभिध्यानाद् एव तु तल्-लिङ्गात् सः॥२।३।१४॥

Link copied

तु-शब्दात् पक्षो व्यावृत्तः। महद्-आदि-कार्याणाम् अपि तत्-तद्-अनन्तर-वस्तु-शरीरकः स एव पुरुषोत्तमः कारणम्। कुतः। तद्-अभिध्यान-रूपात् तल्-लिङ्गात्। अभिध्यानं--- बहु स्याम् इति सङ्कल्पः, तत् तेज ऐक्षत बहु स्यां प्रजायेयेति, ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहि, इत्य् आत्मनो बहु-भवन-सङ्कल्प-रूपेक्षण-श्रवणान् महद्-अहङ्काराकाशादीनाम् अपि कारणानां तथाविधेक्षा-पूर्विकैव स्व-कार्य-सृष्टिर् इति गम्यते; तथाविधं चेक्षणं तत्-तच्-छरीरकस्य परस्यैव ब्रह्मण उपपद्यते। श्रूयते च सर्व-शरीरकत्वेन सर्वात्मकत्वं परस्य ब्रह्मणोऽन्तर्यामि-ब्राह्मणे--- यः पृथिव्यां तिष्ठन्, योऽप्सु तिष्ठन्, यस् तेजसि तिष्ठन्, यो वायौ तिष्ठन्, य आकाशे तिष्ठन्, इत्य् आदि। सुबालोपनिषदि च--- यस्य पृथिवी शरीरम् इत्य् आरभ्य, यस्याहङ्कारः शरीरम्, यस्य बुद्धिः शरीरम्, यस्याव्यक्तं शरीरम् इत्य् आदि॥१४॥

Link copied

यच् चोक्तम्--- एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि चेत्य् आदिषु श्रूयमाणा ब्रह्मणः प्राणादि-सृष्टिः परम्परयाप्युपपद्यत इति; अत्रोच्यते---

Link copied

२३१ विपर्ययेण तु क्रमोऽत उपपद्यते च॥२।३।१५॥

Link copied

तु-शब्दोऽवधारणार्थः। अव्यक्त-महद्-अहङ्काराकाशादि-क्रमाद् विपर्ययेण यः सर्वेषां कार्याणां ब्रह्मानन्तर्य-रूपः क्रमः, एतस्माज् जायते प्राण इत्य् आदिषु प्रतीयते, स च क्रमस् तत्-तद्-रूपाद् ब्रह्मणस् तत्-तत्-कार्योत्पत्तेर् एवोपपद्यते। परम्परया कारणत्वे ह्य् आनन्तर्य-श्रवणम् उपरुध्येत। अतः--- एतस्माज् जायते इत्य् आदिकम् अपि सर्वस्य ब्रह्मणः साक्षात् सम्भवस्योत्तम्भनम्॥१५॥

Link copied

२३२ अन्तरा विज्ञान-मनसी क्रमेण तल्-लिङ्गाद् इति चेन् नाविशेषात्॥२।३।१६॥

Link copied

विज्ञान-साधनत्वाद् इन्द्रियाणि विज्ञानम् इत्य् उच्यन्ते। यद् उक्तम्--- एतस्माज् जायते इत्य् आदिना सर्वस्य ब्रह्मणोऽनन्तर-कार्यत्वं श्राव्यते; अतश् चानेन वाक्येन सर्वस्य साक्षाद् ब्रह्मण उत्पत्तिर् अभिध्यान-लिङ्गावगतोत्तभ्यत इति; तन् नोपपद्यते, क्रम-विशेष-परत्वाद् अस्य वाक्यस्य; अत्रापि सर्वेषां क्रम-प्रतीतेः। खादिषु तावत् श्रुत्य्-अन्तर-सिद्धः क्रमोऽत्रापि प्रतीयते; तैः सहपाठ-लिङ्गाद् भूत-प्राणयोर् अन्तराले विज्ञान-मनसी अपि क्रमेणोत्पद्येते इति प्रतीयते। अतः सर्वस्य साक्षाद् ब्रह्मण एव सम्भवस्योत्तम्भनम् इदं वाक्यं न भवतीति चेत्; तन् न, अविशेषात्--- एतस्माज् जायते प्राण इत्य् अनेनाविशेषात्। विज्ञान-मनसोः खादीनां च--- एतस्माज् जायते इत्य् अनेन साक्षात् सम्भव-रूप-सम्बन्धस्याभिधेयस्य सर्वेषां प्राणादि-पृथिव्य्-अन्तानाम् अविशिष्टत्वात् स एव विधेयः, न क्रमः। श्रुत्य्-अन्तर-सिद्ध-क्रम-विरोधाच् च नेदं क्रम-परम्, पृथिव्य् अप्सु प्रलीयते, इत्य् आरभ्य, तमः परे देव एकीभवतीत्य् अन्तेन क्रमान्तर-प्रतीतेः। अतोऽव्यक्तादि-शरीरकात् परस्माद् ब्रह्मण एव सर्व-कार्याणाम् उत्पत्तिः। तेजः-प्रभृतयश् च शब्दास् तदात्म-भूतं ब्रह्मैवाभिदधति॥१६॥

Link copied

नन्व् एवं सर्व-शब्दानां ब्रह्म-वाचित्वे सति तैस् तैः शब्दैस् तत्-तद्-वस्तु-व्यपदेशो व्युत्पत्ति-सिद्ध उपरुद्ध्येत; तत्राह---

Link copied

**२३३ चराचर-व्यपाश्रयस् तु स्यात् तद्-व्यपदेशो भाक्तस् तद्-भाव-भावित्वात्॥२।३।१७॥ **

Link copied

तु-शब्दश् चोदिताशङ्का-निवृत्त्य्-अर्थः। निखिल-जङ्गम-स्थावर-व्यपाश्रयस् तत्-तच्-छब्द-व्यपदेशो भाक्तो वाच्यैकदेशे भज्यत इत्य् अर्थः। समस्त-वस्तु-प्रकारिणो ब्रह्मणः प्रकार-भूत-वस्तु-ग्राहि-प्रत्यक्षादि-प्रमाणाविष्यत्वाद् वेदान्त-श्रवणात् प्राक्-प्रकार्य-प्रतीतेः, प्रकारि-प्रतीति-भाव-भावित्वाच् च तत्पर्य-वसानस्य, लोके तत्-तद्-वस्तु-मात्रे वाच्यैकदेशे ते ते शब्दा भङ्क्त्वाभङ्क्त्वा व्यपदिश्यन्ते। अथवा तेजः-प्रभृतिभिः शब्दैस् तत्-तद्-वस्तु-मात्र-वाचितया व्युत्पन्नैर् ब्रह्मणो व्यपदेशो भाक्तः स्यात्--- अमुख्यः स्याद् इत्य् आशङ्क्य, चराचर-व्यपाश्रयस् तु इत्य् आद्य् उच्यते। चराचर-व्यपाश्रयस् तद्-व्यपदेशः--- तद्-वाचि-शब्दः, चराचर-वाचि-शब्दो ब्रह्मण्य् अभाक्तः--- मुख्य एव। कुतः। ब्रह्म-भाव-भावित्वात् सर्व-शब्दानां वाचक-भावस्य; नाम-रूप-व्याकरण-श्रुत्या हि तथावगतम्॥१७॥ इति तेजो-ऽधिकरणम्॥२॥

Link copied

२३४ नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः॥२।३।१८॥

Link copied

वियद्-आदेः कृत्स्नस्य परस्माद् ब्रह्मण उत्पत्तिर् उक्ता। इदानीं जीवस्याप्य् उत्पत्तिर् अस्ति नेति संशय्यते। किं युक्तम्। अस्तीति। कुतः। एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपत्तेः, प्राक् सृष्टेर् एकत्वावधारणाच् च। वियद्-आदेर् इव जीवस्याप्य् उत्पत्ति-वादिन्यः श्रुतयश् च सन्ति---यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्, प्रजापतिः प्रजा असृजत, सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः, यतो वा इमानि भूतानि जायन्ते, इति। एवं सचेतनस्य जगत उत्पत्ति-वचनाज् जीवस्याप्य् उत्पत्तिः प्रतीयते। न च वाच्यं ब्रह्मणो नित्यत्वात् तत् त्वम् अस्य् आदिभिश् च जीवस्य ब्रह्मत्वावगमाज् जीवस्य नित्यत्वम् इति; ऐतदात्म्यम् इदं सर्वम्, सर्वं खल्व् इदं ब्रह्म, इत्य् एवम् आदिभिर् वियद्-आदेर् अपि ब्रह्मत्वावगमात् तस्यापि नित्यत्व-प्रसक्तेः। अतो जीवोऽपि वियद्-आदिवद् उत्पद्यत इति॥

Link copied

एवं प्राप्तेऽभिधीयते--- नात्मा श्रुतेर् इति। नात्मोत्पद्यते। कुतः। श्रुतेः--- न जायत म्रियते वा विपश्चित्, ज्ञाज्ञौ द्वाव् अजौ, इत्य् आदिभिर् जीवस्योत्पत्ति-प्रतिषेधो हि श्रूयते। आत्मनो नित्यत्वं च ताभ्यः--- श्रुतिभ्य एवावगम्यते, नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्, अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे, इत्य् आदिभ्यः। अतश् च नात्मोत्पद्यते। कथं तर्ह्य् एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपद्यते। इत्थम् उपपद्यते--- जीवस्यापि कार्यत्वात् कार्य-कारणयोर् अनन्यत्वाच् च। एवं तर्हि वियद्-आदिवद् उत्पत्तिमत्त्वम् अङ्गीकृतं स्यात्; नेत्य् उच्यते। कार्यत्वं हि नामैकस्य द्रव्यस्यावस्थान्तरापत्तिः, तज्-जीवस्याप्यस्त्य् एव। इयांस् तु विशेषः---वियद्-आदेर् अचेतनस्य यादृशोऽन्यथाभावो न तादृशो जीवस्य; ज्ञान-सङ्कोच-विकास-लक्षणो जीवस्यान्यथा-भावः; वियद्-आदेस् तु स्वरूपान्यथा-भाव-लक्षणः। सेयं स्वरूपान्यथा-भाव-लक्षणोत्पत्तिर् जीवे प्रतिषिध्यते॥

Link copied

एतद् उक्तं भवति--- भोग्य-भोक्तृ-नियन्तॄन् विविक्त-स्वभावान् प्रतिपाद्य भोग्य-गतम् उत्पत्त्य्-आदिकं भोक्तरि प्रतिषिध्य तस्य नित्यतां च प्रतिपाद्य, भोग्य-गतम् उत्पत्त्य्-आदिकं भोक्तृ-गतं चापुरुषार्थाश्रयत्वं नियन्तरि प्रतिषिध्य, तस्य नित्यत्वं, निरवद्यत्वं, सर्वदा सर्वज्ञत्वं, सत्य-सङ्कल्पत्वं, करणाधिपाधिपत्वं विश्वस्य पतित्वं च प्रतिपाद्य, सर्वावस्थयोश् चिद्-अचितोस् तं प्रति शरीरत्वं, तस्य चात्मत्वं प्रतिपादितम्। अतः सर्वदा चिद्-अचिद्-वस्तु-शरीरतया तत्-प्रकारं ब्रह्म। तत् कदाचित् स्वमाद् विभक्त-व्यपदेशानर्हातिसूक्ष्म-दशापन्न-चिद्-अचिद्-वस्तु-शरीरं तिष्ठति तत्-कारणावस्थं ब्रह्म। कदाचिच् च विभक्त-नाम-रूप-स्थूल-चिद्-अचिद्-वस्तु-शरीरम्; तच् च कार्यावस्थम्। तत्र कारणावस्थस्य कार्यावस्थापत्ताव् अचिद्-अंशस्य कारणावस्थायां शब्दादि-विहीनस्य भोग्यत्वाय शब्दादिमत्तया स्वरूपान्यथा-भाव-रूप-विकारो भवति। चिद्-अंशस्य च कर्म-फल-विशेष-भोक्तृत्वाय तद्-अनुरूप-ज्ञान-विकास-रूप-विकारो भवति। उभय-प्रकार-विशिष्टे नियन्त्रंशे तद्-अवस्थ-तद्-उभय-विशिष्टता-रूप-विकारो भवति; कारणावस्थाया अवस्थान्तरापत्ति-रूपो विकारः प्रकार-द्वये प्रकारिणि च समानः। अत एवैकस्यावस्थान्तरापत्ति-रूप-विकारापेक्षया, येनाश्रुतं श्रुतम् इत्य् एक-विज्ञानेन सर्व-विज्ञानं प्रतिज्ञाय मृद्-आदि-दृष्टान्तो यथा सोम्यैकेनेत्य् आदिना निदर्शितः। ईदृश-ज्ञान-सङ्कोच-विकास-कर-तत्-तद्-देह-सम्बन्ध-वियोगाभिप्रायाः जीवस्योत्पत्ति-मरण-वादिन्यः, प्रजापतिः प्रजा असृजत, इत्य् आद्याः श्रुतयः। अचिद्-अंशवत् स्वरूपान्यथात्वाभावाभिप्राया उत्पत्ति-प्रतिषेध-वादिन्यो नित्यत्व-वादिन्यश् च, न जायते म्रियते इत्य् आद्याः, नित्यो नित्यानाम् इत्य् आद्याश् च श्रुतयः। स्वरूपान्यथात्व-ज्ञान-सङ्कोच-विकास-रूपोभय-विधानिष्ट-विकाराभावाभिप्रायाः, स वा एष महान् अज आत्माजरोऽमरोऽमृतो ब्रह्म, नित्यो नित्यानाम् इत्य् आद्याः पर-विषयाः श्रुतयः। एवं सर्वदा चिद्-अचिद्-वस्तु-विशिष्टस्य ब्रह्मणः प्राक्सृष्टेर् एकत्वावधारणं च नाम-रूप-विभागाभावाद् उपपद्यते। तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्यां व्याक्रियत, इति हि नाम-रूप-विभाग-भावाभावाभ्यां नानात्वैकत्वे वदतीति॥

Link copied

ये त्व् अविद्योपाधिकं जीवत्वं वदन्ति, ये च पारमार्थिकोपाधिकृतम्, ये च सन्-मात्र-स्वरूपं ब्रह्म स्वयम् एव भोक्तृ-भोग्य-नियन्तृ-रूपेण त्रिधावस्थितं वदन्ति; सर्वेऽप्य् एते अविद्या-शक्तेर् उपाधि-शक्तेर् भोक्तृ-भोग्य-नियन्तृ-शक्तीनां च प्रलय-कालेऽवस्थानेऽपि तदानीम् एकत्वावधारणं नाम-रूप-विभागाभावाद् एवोपपादयन्ति। वैषम्य-नैर्घृण्ये न सापेक्षत्वात्, न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च, इति सूत्राभ्यां जीव-भेदस्य तत्-कर्म-प्रवाहस्य चानादित्वाभ्युपगमाच् च। इयान् विशेषः--- एकस्यानाद्य्-अविद्यया ब्रह्म स्वयम् एव मुह्यति; अन्यस्य पारमार्थिकानाद्य्-उपाधिना ब्रह्म-स्वरूपम् एव बध्यते, उपाधि-ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तराभावात्; अपरस्य ब्रह्मैव विचित्राकारेण परिणमते, कर्म-फलानि चानिष्टानि भुङ्क्ते; नियन्त्रंशस्य भोक्तृत्वाभावेऽपि सर्वज्ञत्वात् स्वस्माद् अभिन्नं भोक्तारम् अनुसन्दधातीति स्वयम् एव भुङ्क्ते। अस्माकं तु स्थूल-सूक्ष्मावस्थ-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कार्य-कारणोभयावस्थावस्थितम् अपि सर्वदा निरस्त-निखिल-दोष-गन्धं सत्य-सङ्कल्पत्वाद्य्-अपरिमितोदार-गुण-सागरम् अवतिष्ठते। प्रकार-भूत-चिद्-अचिद्-वस्तु-गताः अपुरुषार्थाः स्वरूपान्यथा-भावाश् चेति सर्वं समञ्जसम्॥१८॥ इत्य् आत्माधिकरणम्॥३॥

Link copied

अथ ज्ञाधिकरणम्॥४॥

Link copied

**२३५ ज्ञोऽत एव॥२।३।१९॥ **

Link copied

वियद्-आदिवज् जीवो नोत्पद्यत इत्य् उक्तम्, तत्-प्रसङ्गेन जीव-स्वरूपं निरूप्यते। किं सुगत-कापिलाभिमत-चिन्-मात्रम् एवात्मनः स्वरूपम् उत कणभुग्-अभिमत-पाषाण-कल्प-स्वरूपम् अचित्-स्वभावम् एवागन्तुक-चैतन्य-गुणकम्; अथ ज्ञातृत्वम् एवास्य स्वरूपम् इति। किं युक्तम्। चिन्-मात्रम् इति। कुतः। तथा श्रुतेः। अन्तर्यामि-ब्राह्मणे हि--- य आत्मनि तिष्ठन्न् इति माध्यन्दिनीय-पर्यायस्य स्थाने, यो विज्ञाने तिष्ठन्न् इति काण्वा अधीयते। तथा--- विज्ञानं यज्ञं तनुते, कर्माणि तनुतेऽपि चेति कर्तुर् आत्मनो विज्ञानम् एव स्वरूपं श्रूयते। स्मृतिषु च--- ज्ञान-स्वरूपम् अत्यन्त-निमलं परमार्थतः, इत्य् आदिष्व् आत्मनो ज्ञान-स्वरूपत्वं प्रतीयते। अपरस्तु--- जीवात्मनो ज्ञानत्वे ज्ञातृत्वे च स्वाभाविकेऽभ्युपगम्यमाने तस्य सर्व-गतस्य सर्वदा सर्वत्रोपलब्धि-प्रसङ्गात्, करणानां च वैयर्थ्यात्, सुषुप्ति-मूर्छादिषु सतोऽप्य् आत्मनश् चैतन्यानुपलब्धेर् जाग्रतः सामग्र्यां सत्यां ज्ञानोत्पत्ति-दर्शनाद् अस्य न ज्ञानं स्वरूपम्; नापि ज्ञातृत्वम्। आगन्तुकम् एव चैतन्यम्; सर्व-गतत्वं चात्मनोऽवश्याभ्युपेत्यम्, सर्वत्र कार्योपलब्धेः सर्वत्रात्मनः सन्निधानाभ्युपगमाच् छरीर-गमनेनैव कार्य-सम्भवे सति गति-कल्पनायां प्रमाणाभावाच् च। श्रुतिर् अपि सुषुप्ति-वेलायां ज्ञानाभावं दर्शयति--- नाह खल्व् अयम् एवं सम्प्रत्य् आत्मानं जानात्य् अयम् अहम् अस्मीति नो एवेमानि भूतानि, इति। तथा मोक्ष-दशायां ज्ञानाभावं दर्शयति--- न प्रेत्य संज्ञास्ति, इति। ज्ञान-स्वरूपम् इत्य् आदि प्रयोगस् तु ज्ञानस्य तद्-असाधारण-गुणत्वेन लाक्षणिक इति॥

Link copied

एवं प्राप्ते प्रचक्ष्महे--- ज्ञोऽत एव। ज्ञ एव--- अयम् आत्मा ज्ञातृ-स्वरूप एव, न ज्ञान-मात्रम्; नापि जड-स्वरूपः। कुतः। अत एव--- श्रुतेर् एवेत्य् अर्थः। नात्मा श्रुतेर् इति प्रकृता श्रुतिः अत इति शब्देन परामृश्यते। तथा छान्दोग्ये प्रजापति-वाक्ये मुक्तामुक्तात्म-स्वरूप-कथने, अथ यो वेदेदं जिघ्राणीति स आत्मा, मनसैवैतान् कामान् पश्यन् रमते य एते ब्रह्म-लोके, सत्य-कामः सत्य-सङ्कल्पः, नोपजनं स्मरन्न् इदं शरीरम्। अन्यत्रापि--- न पश्यो मृत्युं पश्यति, तथा वाजसनेयके, कतम आत्मेति पृष्ट्वा, योऽयं विज्ञान-मयः प्राणेषु हृद्य् अन्तर् ज्योतिः पुरुषः इति; तथा--- विज्ञातारम् अरे केन विजानीयात्, जानात्य् एवायं पुरुषः, तथा--- एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः, एवम् एवास्य परिद्रष्टुर् इमाः षोडश-कलाः, इति॥१९॥

Link copied

यत् तूक्तं ज्ञातृत्वे स्वाभाविके सति सर्व-गतस्य तस्य सर्वदा सर्वत्रोपलब्धिः प्रसज्यत इति;

Link copied

तत्रोच्यते---

Link copied

**२३६ उत्क्रान्ति-गत्य्-आगतीनाम्॥२।३।२०॥ **

Link copied

नायं सर्वगतः, अपि त्व् अणुर् एवायम् आत्मा। कुतः। उत्क्रान्ति-गत्य्-आगतीनां श्रुतेः। उत्क्रान्तिस् तावच् छ्रूयते--- तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीर-देशेभ्यः, इति। गतिर् अपि--- ये वै के चास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वे गच्छन्ति, इति। आगतिर् अपि--- तस्माल् लोकात् पुनर् एत्य् अस्मै लोकाय कर्मणे, इति। विभुत्वे ह्य् ओता उत्क्रान्त्य्-आदयो नोपपद्येरन्॥२०॥

Link copied

२३७ स्वात्मना चोत्तरयोः॥२।३।२१॥

Link copied

चशब्दोऽवधारणे। यद्य् अपि शरीर-वियोग-रूपत्वेनोत्क्रान्तः स्थितस्याप्य् आत्मनः कथञ्चिद् उपपद्यते। गत्य्-आगती तु न कथञ्चिद् उपपद्येते। अतस् ते स्वात्मनैव सम्पाद्ये॥२१॥

Link copied

२३८ नाणुर् अतच्-छ्रुतेर् इति चेन् नेतराधिकारात्॥२।३।२२॥

Link copied

योऽयं विज्ञान-मयः प्राणेषु, इति जीवं प्रस्तुत्य, स वा एष महानज आत्मा, इति महत्त्व-श्रुतेः नाणुर् जीव इति चेन् न। इतराधिकारात्--- जीवादितरस्य प्राज्ञस्य तत्राधिकारात्। यद्य् अप्य् उपक्रमे जीवः प्रस्तुतः; तथापि--- यस्यानुवित्तः प्रतिबुद्ध आत्मा, इति मध्ये परः प्रतिपाद्यत इति तत्-सम्बन्धीदं महत्त्वम्, न जीवस्य॥२२॥

Link copied

२३९ स्व-शब्दोन्मानाभ्यां च॥२।३।२३॥

Link copied

साक्षाद् अणु-शब्द एव श्रूयते--- एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश, इति। उद्धृत्य मानम् उन्मानम्; अणु-सदृशं वस्तूद्धृत्य तन्-मानत्वं जीवस्य श्रूयते--- बालाग्र-शत-भागस्य शतधा कल्पितस्य च, भागो जीवः स विज्ञेयः, इति; आराग्र-मात्रो ह्य् अवरोऽपि दृष्टः, इति च। अतोऽणुर् एवायम् आत्मा॥२३॥

Link copied

अथ स्यात्--- आत्मनोऽणुत्वे सकल-शरीर-व्यापिनी वेदना नोपपद्यत इति; तत्र मतान्तरेण परिहारम् आह---

Link copied

**२४० अविरोधश् चन्दनवत्॥२।३।२४॥ **

Link copied

यथा हरिचन्दन-बिन्दुर् देहैकदेश-वर्त्य् अपि सकल-देह-व्यापिनम् आह्लादं जनयति, तद्वद् आत्मापि देहैकदेश-वर्ती सकल-देश-वर्तिनीं वेदनाम् अनुभवति॥२४॥

Link copied

२४१ अवस्थिति-वैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि॥२।३।२५॥

Link copied

हरिचन्दन-बिन्द्व्-आदेर् देह-देश-विशेषावस्थिति-विशेषात् तथाभावः, आत्मनस् तु तन् न विद्यत इति चेन् न; आत्मनोऽपि देह-देश-विशेषे स्थित्य् अभ्युपगमात्। हृदय-देशे ह्य् आत्मनः स्थितिः श्रूयते--- हृदि ह्य् अयम् आत्मा तत्रैकशतं नाडीनाम् इति; तथा--- कतम आत्मेति प्रकृत्य, योऽयं विज्ञान-मयः प्राणेषु हृद्य् अन्तर् ज्योतिः, इति। आत्मनो देश-विशेष-स्थिति-ख्यापनाय चन्दन-दृष्टान्तः प्रदर्शितः, न तु चन्दनस्य देश-विशेषापेक्षा॥२५॥

Link copied

एकदेश-वर्तिनः सकल-देह-व्यापि-कार्य-करत्व-प्रकारं स्व-मतेनाह---

Link copied

२४२ गुणाद् वालोकवत्॥२।३।२६॥

Link copied

वा-शब्दो मतान्तर-व्यावृत्त्य्-अर्थः। आत्मा स्व-गुणेन ज्ञानेन सकल-देहं व्याप्यावस्थितः; आलोकवत्--- यथा मणि-द्यु-मणि-प्रभृतीनाम् एकदेश-वर्तिनाम् आलोकोऽनेक-देश-व्यापी दृश्येते, तद्वद् धृदय-स्थस्यात्मनो ज्ञानं सकल-देहं व्याप्य वर्तते। ज्ञातुः प्रभा-स्थानीयस्य ज्ञानस्य स्वाश्रयाद् अन्यत्र वृत्तिर् मणि-प्रभावद् उपपद्यत इति प्रथम-सूत्रे स्थापितम्॥२६॥

Link copied

ननूक्तं ज्ञान-मात्रम् एवात्मेति; तत् कथं ज्ञानस्य स्वरूप-व्यतिरिक्त-गुणत्वम् उच्यते; तत्राह---

Link copied

२४३ व्यतिरेको गन्धवत् तथा च दर्शयति॥२।३।२७॥

Link copied

यथा पृथिव्या गन्धस्य गुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः, तथा जानामीति ज्ञातृ-गुणत्वेन प्रतीयमानस्य ज्ञानस्यात्मनो व्यतिरेकः सिद्धः। दर्शयति च श्रुतिः--- जानात्य् एवायं पुरुष इति॥२७॥

Link copied

२४४ पृथग् उपदेशात्॥२।३।२८॥

Link copied

स्व-शब्देनैव विज्ञानं विज्ञातुः पृथग् उपदिश्यते--- न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते इति॥२८॥

Link copied

यत् तूक्तं--- यो विज्ञाने तिष्ठन्, विज्ञानं यज्ञं तनुते, ज्ञान-स्वरूपम् अत्यन्त-निर्मलम् इत्य् आदिषु ज्ञानम् एवात्मेति व्यपदिश्यत इति, तत्राह---

Link copied

२४५ तद्-गुण-सारत्वात् तु तद्-व्यपदेशः प्राज्ञवत्॥२।३।२९॥

Link copied

तु-शब्दश् चोद्यं व्यावर्तयति। तद्-गुण-सारत्वात्--- विज्ञान-गुण-सारत्वाद् आत्मनो विज्ञानम् इति व्यपदेशः। विज्ञानम् एवास्य सार-भूतो गुणः, यथा प्राज्ञस्यानन्दः सार-भूतो गुण इति प्राज्ञ आनन्द-शब्देन व्यपदिश्यते--- यद् एष आकाश आनन्दो न स्यात्, आनन्दो ब्रह्मेति व्यजानात्, इति। प्राज्ञस्य ह्य् आनन्दः सार-भूतो गुणः--- स एको ब्रह्मण आनन्दः, आनन्दं ब्रह्मणो विद्वान्, न बिभेति कुतश्चन, इति। यथा वा--- सत्यं ज्ञानम् अनन्तं ब्रह्मेति विपश्चितः प्राज्ञस्य ज्ञान-शब्देन व्यपदेशः। सह ब्रह्मणा विपश्चिता, यः सर्वज्ञः, इत्य् आदिषु प्राज्ञस्य ज्ञानं सार-भूतो गुण इति विज्ञायते॥२९॥

Link copied

२४६ यावद् आत्म-भावित्वाच् च न दोषस् तद्-दर्शनात्॥२।३।३०॥

Link copied

विज्ञानस्य यावद् आत्म-भावि-धर्मत्वात् तेन तद्-व्यपदेशो न दोषः; तथा च खण्डादयो यावत् स्वरूप-भावि-गोत्वादि-धर्म-शब्देन गौर् इति व्यपदिश्यमाना दृश्यन्ते; स्वरूप-निरूपण-धर्मत्वाद् इत्य् अर्थः। च-काराज् ज्ञानवद् आत्मनोऽपि स्व-प्रकाशत्वेन विज्ञानम् इति व्यपदेशो न दोष इति समुच्चिनोति॥३०॥

Link copied

यच् चोक्तं सुषुप्त्य् आदिषु ज्ञानाभावाज् ज्ञानस्य न स्वरूपानुबन्धि-धर्मत्वम् इति, तत्राह---

Link copied

२४७ पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्ति-योगात्॥२।३।३१॥

Link copied

तु-शब्दश् चोदिताशङ्का-निवृत्त्य्-अर्थः। अस्य--- ज्ञानस्य सुषुप्त्य्-आदिष्व् अपि विद्यमानस्य जागर्यादिष्व् अभिव्यक्तेः सम्भवात् स्वरूपानुबन्धि-धर्मत्वोपपत्तिः। पुस्त्वादिवत्---यथा पुंस्त्वाद्य्-असाधारणस्य धातोर् बाल्यावस्थायां सतोऽप्य् अनभिव्यक्तस्य युवत्वेऽभिव्यक्तौ पुंसस् तद्वत्ता न कादाचित्की भवति। सप्त-धातु-मयत्वं हि शरीरस्य स्वरूपानुबन्धि--- तत्-सप्त-धातु त्रि-मलं द्वि-योनि चतुर्-विधाहार-मयं शरीरम् इति शरीर-स्वरूप-व्यपदेशात्। सुषुप्त्य्-आदिष्व् अप्य् अहम्-अर्थः प्रकाशत इति प्राग् एवोक्तम्। तस्य विद्यमानस्य ज्ञानस्य विषय-गोचरत्वं जागर्यादाव् उपलभ्यते। एते चात्मनो ज्ञातृत्वादयो धर्माः प्राग् एवोपपादिताः। अतो ज्ञातृत्वम् एव जीवात्मनः स्वरूपम्। स चायम् आत्माणु-परिमाणः। न प्रेत्य संज्ञास्ति, इत्य् अपि न मुक्तस्य ज्ञानाभाव उच्यते, अपि तु--- एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति, इति संसार-दशायां यद् भूतानुविधायित्व-प्रयुक्तं जन्म-नाशादि-दर्शनम्, तन् मुक्तस्य न विद्यते, न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्। सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः॥ नोपजनं स्मरन्न् इदं शरीरम्, मनसैतान् कामान् पश्यन् रमते, इत्य् आदि श्रुत्यैकार्थ्यात्॥३१॥ 

Link copied

सम्प्रति ज्ञानात्म-वादे तस्य सर्व-गतत्वे दूषणम् आह---

Link copied

२४८ नित्योपलब्ध्य्-अनुपलब्धि-प्रसङ्गोऽन्यतर-नियमो वान्यथा॥२।३।३२॥

Link copied

अन्यथा--- सर्व-गतत्व-पक्षे तस्य ज्ञान-मात्रत्व-पक्षे च नित्यम् उपलब्ध्य्-अनुपलब्धी सहैव प्रसज्येयाताम्; अन्यतर-नियमो वा--- उपलब्धिर् एव वा नित्यं स्यात्, अनुपलब्धिर् एव वा। एतद् उक्तं भवति--- लोके तावद् वर्तमानयोर् आत्मोपलब्ध्य्-अनुपलब्ध्योर् अयं ज्ञानात्मा सर्व-गतो हेतुः स्यात्; उपलब्धेर् एव वा, अनुपलब्धेर् एव वा। उभय-हेतुत्वे सर्वदा सर्वत्रोभयं प्रसज्येत। यद्य् उपलब्धेर् एव, सर्वस्य सर्वदा सर्वत्रानुपलम्भो न स्यात्। अथानुपलब्धेर् एव, सर्वदा सर्वत्रोपलब्धिर् न स्याद् इति। अस्माकं शरीरस्यान्तर् एवावस्थितत्वाद् आत्मनस् तत्रैवोपलब्धिर् नान्यत्रेति व्यवस्था-सिद्धिः। करणायत्तोपलब्धेर् अपि सर्वेषाम् आत्मनां सर्व-गतत्वेन सर्वैः करणैः सर्वदा संयुक्तत्वाद् अदृष्टादेर् अप्य् अनियमाद् उक्त-दोषः समानः॥३२॥ इति ज्ञाधिकरणम्॥४॥

Link copied

अथ कर्त्रधिकरणम्॥५॥

Link copied

**२४९ कर्ता शास्त्रार्थवत्त्वात्॥२।३।३३॥ **

Link copied

अयम् आत्मा ज्ञाता, स चाणु-परिमाण इत्य् उक्तम्; इदानीं किं स एव कर्ता, उत स्वयम् अकर्तैव सन्न् अचेतनानां गुणानां कर्तृत्वम् आत्मन्य् अध्यस्यतीति चिन्त्यते। किम् अत्र युक्तम्। अकर्तैवात्मेति। कुतः। आत्मनो ह्य् अकर्तृत्वम्, गुणानाम् एव च कर्तृत्वम् अध्यात्म-शास्त्रेषु श्रूयते। तथा हि कठवल्लीषु जीवस्य--- न जायते म्रियते इत्य् आदिना जन्म-जरा-मरणादिकं सर्वं प्रकृति-धर्मं प्रतिषिध्य हननादिषु क्रियासु कर्तृत्वम् अपि प्रतिषिध्यते---हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम्। उभौ तौ न विजानाती नायं हन्ति न हन्यते, इति। हन्तारम् आत्मानं जानन् न जानात्य् आत्मानम् इत्य् अर्थः। तथा च भगवता स्वयम् एव जीवस्याकर्तृत्वं स्वरूपम्, कर्तृत्वाभिमानस् तु व्यामोह इत्य् उच्यते--- प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते, नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यन्ति, कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते। पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते, इति च। अतः पुरुषस्य भोक्तृत्वम् एव, प्रकृतेर् एव तु कर्तृत्वम् इति॥

Link copied

एवं प्राप्ते प्रचक्ष्महे--- कर्ता शास्त्रार्थवत्त्वाद् इति। आत्मैव कर्ता; न गुणाः। कस्मात्। शास्त्रार्थवत्त्वात्। शास्त्राणि हि यजेत स्वर्ग-कामः, मुमुक्षुर् ब्रह्मोपासीतेत्य् एवम् आदीनि स्वर्ग-मोक्षादि-फलस्य भोक्तारम् एव कर्तृत्वे नियुञ्जते। न ह्य् अचेतनस्य कर्तृत्वेऽन्यो नियुज्यते। शासनाच् च शास्त्रम्; शासनं च प्रवर्तनम्; शास्त्रस्य च प्रवर्तकत्वं बोध-जनन-द्वारेण; अचेतनं च प्रधानं न बोधयितुं शक्यम्। अतः शास्त्राणाम् अर्थवत्त्वं भोक्तुश् चेतनस्यैव कर्तृत्वे भवेत्। तद् उक्तं--- शास्त्र-फलं प्रयोक्तरीति। यद् उक्तं--- हन्ता चेन् मन्यते इत्य् आदिना हनन-क्रियायाम् अकर्तृत्वम् आत्मनः श्रूयत इति; तद्-आत्मनो नित्यत्वेन हन्तव्यत्वाभावाद् उच्यते। यच् च--- प्रकृतेः क्रियामाणानीत्य् आदिना गुणानाम् एव कर्तृत्वं स्मर्यत इति तत् सांसारिक-प्रवृत्तिष्व् अस्य कर्तृता सत्त्व-रजस्-तमो-गुण-संसर्ग-कृता; न स्वरूप-प्रयुक्तेति प्राप्ताप्राप्त-विवेकेन गुणानाम् एव कर्तृतेत्य् उच्यते। तथा च तत्रैवोच्यते--- कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु, इति। तथा तत्रैवात्मनश् च कर्तृत्वम् अभ्युपेत्योच्यते--- तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः। पश्यत्य् अकृत-बुद्धित्वान् न पश्यति दुर्मतिः, इति। अधिष्ठानं तथा कर्ता करणं च पृथग् विधम्। विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् इत्य् अधिष्ठानादि-दैव-पर्यन्त-सापेक्षे सत्यात्मनः कर्तृत्वे य आत्मानम् एव केवलं कर्तारं मन्यते, न स पश्यतीत्य् अर्थः॥३३॥

Link copied

२५० उपादानाद् विहारोपदेशाच् च॥२।३।३४॥

Link copied

स यथा महाराजः, इति प्रकृत्य, एवम् एवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते, इति प्राणानाम् उपादाने विहारे च कतृत्वम् उपदिश्यते॥३४॥

Link copied

२५१ व्यपदेशाच् च क्रियायां न चेन् निर्देश-विपर्ययः॥२।३।३५॥

Link copied

विज्ञानं यज्ञं तनुते, कर्माणि तनुतेऽपि च, इति लौकिक-वैदिक-क्रियासु कर्तृत्व-व्यपदेशाच् च कर्ता। विज्ञान-शब्देन नात्मनो व्यपदेशः, अपि त्व् अन्तःकरणस्य बुद्धेर् इति चेत्; एवं सति निर्देश-विपर्ययः स्यात्--- बुद्धेः करणत्वाद् विज्ञानेनेति करण-विभक्ति-निर्देशः स्यात्॥३५॥

Link copied

**२५२ उपलब्धिवद् अनियमः॥२।३।३६॥ **

Link copied

आत्मनोऽकर्तृत्वे दोष उच्यते। यथात्मनो विभुत्वे नित्योपलब्ध्य्-अनुपलब्धि-प्रसङ्ग इत्य् आदिनोपलब्धेर् अनियम उक्तः, तद्वद् आत्मनोऽकर्तृत्वे प्रकृतेश् च कर्तृत्वे तस्याः सर्व-पुरुष-साधारणत्वात् सर्वाणि कर्माणि सर्वेषां भोगाय स्युः; नैव वा कस्यचित्। आत्मनो विभुत्वाभ्युपगमात् सन्निधानम् अपि सर्वेषाम् अविशिष्टम्। अत एव चान्तःकरणादीनाम् अपि नियमो नोपपद्यते, यद्-आयत्ता व्यवस्था स्यात्॥३६॥

Link copied

**२५३ शक्ति-विपर्ययात्॥२।३।३७॥ **

Link copied

बुद्धेः कर्तृत्वे कर्तुर् अन्यस्य भोक्तृत्वानुपपत्तेर् भोक्तृत्व-शक्तिर् अपि तस्या एव स्याद् इत्य् आत्मनो भोक्तृत्व-शक्तिर् हीयेत। भोक्तृत्वं च बुद्धेर् एव सम्पद्यत इत्य् आत्म-सद्-भावे प्रमाणाभावश् च स्यात्। पुरुषोऽस्ति भोक्तृ-भावात्, इति हि तेषाम् अभ्युपगमः॥३७॥

Link copied

**२५४ समाध्य्-अभावाच् च॥२।३।३८॥ **

Link copied

बुद्धेः कर्तृत्वे मोक्ष-साधन-भूत-समाधाव् अपि सैव कर्त्री स्यात्। स च समाधिः प्रकृतेर् अन्योऽस्मीत्य् एवं-रूपः; न च प्रकृतेर् अन्योऽस्मीति प्रकृतिः समाधातुम् अलम्। अतोऽप्य् आत्मैव कर्ता॥३८॥

Link copied

नन्व् आत्मनः कर्तृत्वेऽभ्युपगम्यमाने सर्वदा कर्तृत्वान् नोपरम् एतेत्य् अत्राह---

Link copied

२५५ यथा च तक्षोभयधा॥२।३।३९॥

Link copied

वाग्-आदि-करण-सम्पन्नोऽप्य् आत्मा यदेच्छति तदा करोति; यदा तु नेच्छति तदा न करोति। यथा तक्षा वास्यादि-करण-सन्निधानेऽपि इच्छानुगुण्येन करोति, न करोति च। बुद्धेस् त्व् अचेतनायाः कर्तृत्वे तस्या भोग-वाञ्छादि-नियम-कारणाभावात् सर्वदा कर्तृत्वम् एव स्यात्॥३९॥ इति कर्त्रधिकरणम्॥५॥

Link copied

अथ परायत्ताधिकरणम्॥६॥

Link copied

**२५६ परात् तु तच्-छ्रुतेः॥२।३।४०॥ **

Link copied

इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण, उत परमात्मायत्तम् इति। किं प्राप्तम्। स्वातन्त्र्येणेति। परमात्मायत्तत्वे हि विधि-निषेध-शास्त्रानर्थक्यं प्रसज्येत। यो हि स्व-बुद्ध्या प्रवृत्ति-निवृत्त्य्-आरम्भ-शक्तः; स एव नियोज्यो भवति। अतः स्वातन्त्र्येणास्य कर्तृत्वम् इति प्राप्तेऽभिधीयते--- परात् तु तच्-छ्रुतेर् इति। तु-शब्दः पक्षं व्यावर्तयति; तत्--- कर्तृत्वम्, अस्य जीवस्य परात्--- परमात्मन एव हेतोर् भवति। कुतः। श्रुतेः--- अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः, इति। स्मृतिर् अपि सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च, ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति। भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया, इति॥४०॥

Link copied

नन्व् एवं विधि-निषेध-शास्त्रानर्थक्यं प्रसज्येतेत्य् उक्तम्; तत्राह---

Link copied

२५७ कृत-प्रयत्नापेक्षस् तु विहित-प्रतिषिद्धावैयर्थ्यादिभ्यः॥२।३।४१॥

Link copied

सर्वासु क्रियासु पुरुषेण कृतं प्रयत्नम्--- उद्योगम् अपेक्ष्यान्तर्यामी परमात्मा तद्-अनुमति-दानेन प्रवर्तयति। परमात्मानुमतिम् अन्तरेणास्य प्रवृत्तिर् नोपपद्यत इत्य् अर्थः। कुत एतत्। विहित-प्रतिषिद्धावैयर्थ्यादिभ्यः--- आदि-शब्देनानुग्रह-निग्रहादयो गृह्यन्ते। यथा द्वयोः साधारणे धने पर-स्वत्वापादनम् अन्यतरानुमतिम् अन्तरेण नोपपद्यते; अथापीतरानुमतेः; स्वेनैव कृतम् इति तत्-फलं स्वस्यैव भवति। पाप-कर्मसु निवर्तन-शक्तस्याप्य् अनुमन्तृत्वं न निर्दयत्वम् आवहतीति साङ्ख्य-समय-निरूपणे प्रतिपादितम्। नन्व् एवम्--- एष ह्य् एव साधु कर्म कारयति तं यम् एभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तं यम् अधो निनीषति, इत्य् उन्निनीषयाधोनिनीषया च स्वयम् एव साध्व्-असाधुनी कर्मणी कारयतीत्य् एतन् नोपपद्यते। उच्यते--- एतन् न सर्व-साधारणम्, यस् त्व् अतिमात्र-परम-पुरुषानुकूल्ये व्यवसितः प्रवर्तते; तम् अनुगृह्णन् भगवान् स्वयम् एव स्व-प्राप्त्य्-उपायेष्व् अतिकल्याणेषु कर्मस्व् एव रुचिं जनयति। यश् चातिमात्र-प्रातिकूल्ये व्यवसितः प्रवर्तते तं निगृह्णन् स्व-प्राप्ति-विरोधिष्व् अधो-गति-साधनेषु कर्मसु सञ्जयति। यथोक्तं भगवता स्वयम् एव--- अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भाव-समन्विताः, इत्यारभ्य, तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम्। ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते॥ तेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः। नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता, इति। तथा---असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् इत्य् आदि, माम् आत्म-पर-देहेषु प्रद्विषन्तोऽभ्यसूयकाः, इत्य् अन्तम् उक्त्वा, तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रम् अशुभान् आसुरीष्व् एव योनिषु, इत्य् उक्तम्॥४१॥ इति परायत्ताधिकरणम्॥६॥

Link copied

अथ अंशाधिकरणम्॥७॥

Link copied

**२५८ अंशो नाना-व्यपदेशाद् अन्यथा चापि दाश-कितवादित्वम् अधीयत एके॥२।३।४२॥ **

Link copied

जीवस्य कर्तृत्वं परम-पुरुषायत्तम् इत्य् उक्तम्; इदानीं किम् अयं जीवः परस्माद् अत्यन्त-भिन्नः, उत परम् एव ब्रह्म भ्रान्तम्, उत ब्रह्मैवोपाध्य्-अवच्छिन्नम्, अथ ब्रह्मांश इति संशय्यते। श्रुति-विप्रतिपत्तेः संशयः। ननु--- तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः, अधिकं तु भेद-निर्देशात्, इत्य् अत्रैवायम् अर्थो निर्णीर्तः। सत्यम्। स एव नानात्वैकत्व-श्रुति-विप्रतिपत्त्या आक्षिप्य जीवस्य ब्रह्मांशत्वोपपादनेन विशेषतो निर्णीयते। यावद् धि जीवस्य ब्रह्मांशत्वं न निर्णीतम्, तावज् जीवस्य ब्रह्मणोऽनन्यत्वं, ब्रह्मणस् तस्माद् अधिकत्वं च न प्रतितिष्ठति। किं तावत् प्राप्तम्। अत्यन्त-भिन्न इति। कुतः। ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ, इत्य् आदि भेद-निर्देशात्। ज्ञाज्ञयोर् अभेद-श्रुतयस् तु, अग्निना सिञ्चद् इतिवद् विरुद्धार्थ-प्रतिपादनाद् औपचारिक्यः। ब्रह्मणोऽंशो जीव इत्य् अपि न साधीयः। एक-वस्त्व्-एकदेश-वाची ह्य् अंश-शब्दः। जीवस्य ब्रह्मैकदेशत्वे तद्-गता दोषा ब्रह्माणि भवेयुः। न च ब्रह्म-खण्डो जीव इत्य् अशत्वोपपत्तिः, खण्डनानर्हत्वाद् ब्रह्मणः, प्राग्-उक्त-दोष-प्रसङ्गाच् च। तस्माद् अत्यन्त-भिन्नस्य च तद्-अंशत्वं दुरुपपादम्। यद्वा भ्रान्तं ब्रह्मैव जीवः। कुतः। तत् त्वम् असि, अयम् आत्मा ब्रह्मेत्य् आदि ब्रह्मात्म-भावोपदेशात्। नानात्व-वादिन्यस् तु प्रत्यक्षादि-सिद्धार्थानुवादित्वाद् अनन्यथा-सिद्धाद्वैतोपदेश-पराभिः श्रुतिभिः प्रत्यक्षादय इवाविद्यान्तर्गताः ख्याप्यन्ते। अथवा ब्रह्मैवानाद्य्-उपाध्य्-अवच्छिन्नं जीवः। कुतः। तत एव ब्रह्मात्म-भावोपदेशात्। न चायम् उपाधिर् भ्रान्ति-परिकल्पित इति वक्तुं शक्यम्, बन्ध-मोक्षादि-व्यवस्थानुपपत्तेर् इति॥

Link copied

एवं प्राप्तेऽभिधीयते ब्रह्मांश इति। कुतः। नानाव्यपदेशात्, अन्यथा च--- एकत्वेन व्यपदेशात्। उभयधा हि व्यपदेशो दृश्यते। नानात्व-व्यपदेशस् तावत् स्रष्टृत्व-सृज्यत्व-नियन्तृत्व-नियाम्यत्व-सर्वज्ञत्वाज्ञत्व-स्वाधीनत्व-पराधीनत्व-शुद्धत्वाशुद्धत्व-कल्याण-गुणाकरत्व-तद्-विपरीतत्व-पतित्व-शेषत्वादिभिर् दृश्यते। अन्यथा चाभेदन व्यपदेशोऽपि, तत् त्वम् असि, अयम् आत्मा ब्रह्मेत्य् आदिभिर् दृश्यते। अपि दाश-कितवादित्वम् अधीयत एके-- ब्रह्म-दाशा ब्रह्म-दासा ब्रह्मेमे कितवाः, इत्य् आथर्वणिका ब्रह्मणो दाश-कितवादित्वम् अप्य् अधीयते। ततश् च सर्व-जीव-व्यापित्वेनाभेदो व्यपदिश्यत इत्य् अर्थः। एवम् उभय-व्यपदेश-मुख्यत्व-सिद्धये जीवोऽयं ब्रह्मणोऽंश इत्य् अभ्युपगन्तव्यः।

Link copied

न च भेद-व्यपदेशानां प्रत्यक्षादि-प्रसिद्धार्थत्वेनान्यथा-सिद्धत्वम्; ब्रह्म-सृज्यत्व-तन्-नियाम्यत्व-तच्-छरीरत्व-तच्-छेषत्व-तद्-आधारत्व-तत्-पाल्यत्व-तत्-संहार्यत्व-तद्-उपासकत्व-तत्-प्रसाद-लभ्य-धर्मार्थ-काम-मोक्ष-रूप-पुरुषाथ-भाक्त्वादयस् तत्-कृतश् च जीव-ब्रह्मणोर् भेदः प्रत्यक्षाद्य्-अगोचरत्वेनानन्यथा-सिद्धः। अतो न जगत्-सृष्ट्य्-आदि-वादिनीनां प्रमाणान्तर-सिद्ध-भेदानुवादेन मिथ्यार्थोपदेश-परत्वम्। न चाखण्डैकरस-चिन्-मात्र-स्वरूपेण ब्रह्मणा आत्मनोऽतद्-भावानुसन्धानम्, बहु-भवन-सङ्कल्प-पूर्वक-वियद्-आदि-सृष्टिं, जीव-भावेन तत्-प्रवेशं, विचित्र-नाम-रूप-व्याकरणं, तत्-कृतानन्त-विषयानुभव-निमित्त-सुख-दुःख-भागित्वम्, अभोक्तृत्वेन तत्र स्थित्वा तन्-नियमनेनान्तर्यामित्वं, जीव-भूतस्य स्वस्य कारण-ब्रह्मात्म-भावानुसन्धानं, संसार-मोक्षं, तद्-उपदेश-शास्त्रं च कुर्वाणेन भ्रमितव्यम् इत्य् उपदिश्यते; तथा सत्य् उन्मत्त-प्रलपितत्वापातात्। उपाध्य्-अवच्छिन्नं ब्रह्म जीव इत्य् अपि न साधीयः, पूर्व-निर्दिष्ट-नियन्तृत्व-नियाम्यत्वादि-व्यपदेश-बाधाद् एव। न हि देवदत्तादेर् एकस्यैव गृहाद्य्-उपाधि-भेदान् नियन्तृ-नियाम्य-भावादि-सिद्धिः। अत उभय-व्यपदेशोपपत्तये जीवोऽयं ब्रह्मणोऽंश इत्य् अभ्युपेत्यम्॥४२॥

Link copied

**२५९ मन्त्र-वर्णात्॥२।३।४३॥ **

Link copied

पादोऽस्य विश्वा भूतानि त्रि-पादस्यामृतं दिवि, इति मन्त्र-वर्णाच् च ब्रह्मांशो जीवः। अंश-वाची हि पाद-शब्दः। विश्वा भूतानीति जीवानां बहुत्वाद् बहु-वचनं मन्त्रे। सूत्रेऽप्य् अंश इत्य् एक-वचनं जात्य्-अभिप्रायम्; नात्मा श्रुतेर् इत्य् अत्राप्य् एक-वचनं जात्य्-अभिप्रायम्; नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्, इत्य् आदि श्रुतिभ्य ईश्वराद् भेदस्यात्मनां बहुत्व-नित्यत्वयोश् चाभिधीयमानत्वात्। एवं नित्यानाम् आत्मनां बहुत्वे प्रामाणिके सति ज्ञान-स्वरूपत्वेन सर्वेषाम् एक-रूपत्वेऽपि भेदकाकार आत्म-याथात्म्य-वेदन-क्षमैर् अवगम्यते। असन्ततेश् चाव्यतिकरः, इत्य् अनन्तरम् एव चात्म-बहुत्वं वक्ष्यति॥४३॥

Link copied

**२६० अपि स्मर्यते॥२।३।४४॥ **

Link copied

ममैवांशो जीव-लोके जीव-भूतः सनातनः, इति जीवस्य पुरुषोत्तमांशत्वं स्मर्यते; अतश् चायम् अंशः॥४४॥

Link copied

अंशत्वेऽपि जीवस्य ब्रह्मैकदेशत्वेन जीव-गता दोषा ब्रह्मण एवेत्य् आशङ्क्याह---

Link copied

२६१ प्रकाशादिवत् तु नैवं परः॥२।३।४५॥

Link copied

तु-शब्दश् चोद्यं व्यावतयति। प्रकाशादिवज् जीवः परमात्मनोऽंशः, यथाग्न्य्-आदित्यादेर् भास्वतो भा-रूपः प्रकाशोऽंशो भवति, यथा गवाश्व-शुक्ल-कृष्णादीनां गोत्वादि-विशिष्टानां वस्तूनां गोत्वादीनि विशेषणान्य् अंशाः, यथा वा देहिनो देव-मनुष्यादिर् देहोऽंशः, तद्वत्। एक-वस्त्व्-एकदेशत्वं ह्य् अंशत्वम्। विशिष्टस्यैकस्य वस्तुनो विशेषणम् अंश एव। तथा च विवेचका विशिष्टे वस्तुनि विशेषणांशोऽयम्, विशेष्यांशोऽयम् इति व्यपदिशन्ति। विशेषण-विशेष्ययोर् अंशांशित्वेऽपि स्वभाव-वैलक्षण्यं दृश्यते। एवं जीव-परयोर् विशेषण-विशेष्ययोर् अंशांशित्वं, स्वभाव-भेदश् चोपपद्यते। तद् इदम् उच्यते--- नैवं पर इति। यथाभूतो जीवः, न तथाभूतः परः। यथैव हि प्रभायाः प्रभावानन्यथा-भूतः, तथा प्रभा-स्थानीयात् स्वांशाज् जीवाद् अंशी परोऽप्य् अर्थान्तर-भूत इत्य् अर्थः। एवं जीव-परयोर् विशेषण-विशेष्यत्व-कृतं स्वभाव-वैलक्षण्यम् आश्रित्य भेद-निर्देशाः प्रवर्तन्ते; अभेद-निर्देशास् तु पृथक्सिद्ध्य्-अनर्ह-विशेषणानां विशेष्य-पर्यन्तत्वम् आश्रित्य मुख्यत्वेनोपपद्यन्ते। तत् त्वम् असि, अयम् आत्मा ब्रह्मेत्य् आदिषु, तच्-छब्द-ब्रह्म-शब्दवत् त्वम् अयम् आत्मेति शब्दा अपि, जीव-शरीरक-ब्रह्म-वाचकत्वेनैकार्थाभिधायित्वाद् इत्य् अयम् अर्थः प्राग् एव प्रपञ्चितः॥४५॥

Link copied

**२६२ स्मरन्ति च॥२।३।४६॥ **

Link copied

एवं प्रभाप्रभावद् रूपेण शक्ति-शक्तिमद्-रूपेण शरीरात्म-भावेन चांशांशि-भावं जगद्-ब्रह्मणोः पराशरादयः स्मरन्ति, एकदेश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा। परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत्, यत् किञ्चित् सृज्यते येन सत्त्व-जातेन वै द्विज। तस्य सृज्यस्य सम्भूतौ तत् सर्वं वै हरेस् तनुः, इत्य् आदिना। च-काराच् छ्रुतयोऽपि--- यस्यात्मा शरीरम् इत्य् आदिना आत्म-शरीर-भावेनाशांशित्वं वदन्तीत्य् उच्यते॥४६॥

Link copied

एवं ब्रह्मणोऽंशत्वे, ब्रह्म-प्रवर्त्यत्वे, ज्ञत्वे च सर्वेषां समाने केषाञ्चिद् वेदाध्ययन-तद्-अर्थानुष्ठानाद्य्-अनुज्ञा, केषाञ्चित् तत्-परिहारः, केषाञ्चिद्-दर्शन-स्पर्शनाद्य्-अनुज्ञा, केषाञ्चित्-तत्-परिहारश् च, शास्त्रेषु कथम् उपपद्यत इत्य् आशङ्क्याह---

Link copied

२६३ अनुज्ञा-परिहारौ देह-सम्बन्धाज् ज्योतिर् आदिवत्॥२।३।४७॥

Link copied

सर्वेषां ब्रह्मांशत्वादिनैक-रूपत्वे सत्य् अपि ब्राह्मण-क्षत्रिय-वैश्य-शूद्रादि-रूप-शुच्य्-अशुचि-देह-सम्बन्ध-निबन्धनाव् अनुज्ञा-परिहाराव् उपपद्येते। ज्योतिर्-आदिवद् यथाग्नेर् अग्नित्वेनैक-रूपत्वेऽपि श्रोत्रियागाराद् अग्निर् आह्रियते; श्मशानादेस् तु परिह्रियते; यथा चान्नादि श्रोत्रियादेर् अनुज्ञायते; अभिशस्तादेस् तु परिह्रियते॥४७॥

Link copied

**२६४ असन्ततेश् चाव्यतिकरः॥२।३।४८॥ **

Link copied

ब्रह्मांशत्वादिनैक-रूपत्वे सत्य् अपि जीवानाम् अन्योन्य-भेदाद् अणुत्वेन प्रतिशरीरं भिन्नत्वाच् च भोग-व्यतिकरोऽपि न भवति। भ्रान्त-ब्रह्म-जीव-वादे चोपहित-ब्रह्म-जीव-वादे च जीव-परयोर् जीवानां च भोग-व्यतिकरादयः सर्वे दोषाः सन्तीत्य् अभिप्रायेण स्व-पक्षे भोग-व्यतिकराभाव उक्तः॥४८॥

Link copied

ननु भ्रान्त-ब्रह्म-जीव-नादेऽप्य् अविद्याकृतोपाधि-भेदाद् भोग-व्यवस्थादय उपपद्यन्ते; अत आह---

Link copied

**२६५ आभास एव च॥२।३।४९॥ **

Link copied

अखण्डैकरस-प्रकाश-मात्र-स्वरूपस्य स्वरूप-तिरोधान-पूर्वकोपाधि-भेदोपपादन-हेतुर् आभास एव। प्रकाशैक-स्वरूपस्य प्रकाश-तिरोधानं, प्रकाश-नाश एवेति प्राग् एवोपपादितम्। आभासा एव इति वा पाठः; तथा सति हेतव आभासाः। च-कारात्--- पृथग् आत्मानं प्रेरितारं च मत्वा, ज्ञाज्ञौ द्वौ, तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति, इत्य् आदि श्रुति-विरोधश् च। अविद्या-परिकल्पितोपाधि-भेदेऽपि सर्वोपाधिभिर् उपहित-स्वरूपस्यैकत्वाभ्युपगमाद् भोग-व्यतिकरस् तद्-अवस्थ एव॥४९॥

Link copied

पारमार्थिकोपाध्य्-उपहित-ब्रह्म-जीव-वादेऽप्य् उपाधि-भेद-हेतु-भूतानाद्य्-अदृष्ट-वशाद् व्यवस्था भविष्यतीत्य् आशङ्क्याह---

Link copied

**२६६ अदृष्टानियमात्॥२।३।५०॥ **

Link copied

उपाधि-परम्परा-हेतु-भूतस्यादृष्टस्यापि ब्रह्म-स्वरूपाश्रयत्वेन नियम-हेत्व्-अभावाद् अव्यवस्थैव, उपाधिभिर् अदृष्टैश् च स्व-सम्बन्धेन ब्रह्म-स्वरूप-च्छेदासम्भवात्॥५०॥

Link copied

**२६७ अभिसन्ध्य्-आदिष्व् अपि चैवम्॥२।३।५१॥ **

Link copied

अदृष्ट-हेतु-भूताभिसन्ध्य्-आदिष्व् अप्य् उक्ताद् एव हेतोर् अनियम एव॥५१॥

Link copied

२६८ प्रदेश-भेदाद् इति चेन्नान्तर्भावात्॥२।३।५२॥

Link copied

यद्य् अप्य् एकम् एव ब्रह्म-स्वरूपम्, तच्-छेदानर्हं नाना-विधोपाधिभिः सम्बध्यते; तथाप्य् उपाधि-सम्बन्धि-ब्रह्म-प्रदेश-भेदाद् उपपद्यत एव भोग-व्यवस्थेति चेत् तन् न, उपाधीनां तत्र तत्र गमनात् सर्व-प्रदेशानां सर्वोपाध्य्-अन्तर्भावाद् व्यतिकरस् तद्-अवस्थ एव। प्रदेश-भेदेन सम्बन्धेऽपि सर्वस्य ब्रह्म-प्रदेशत्वात् तत्-तत्-प्रदेश-सम्बन्धि दुःखं ब्रह्मण एव स्यात्। पूर्वत्र--- नित्योपलब्ध्य्-अनुपलब्धि-प्रसङ्गोऽन्यतर-नियमो वान्यथा, उपलब्धिवद् अनियमः, इत्य् आभ्यां सूत्राभ्यां वेद-बाह्यानां सर्व-गत-जीव-वादिनां दोष उक्तः; अत्र तु, आभास एव चेत्य् आदिभिः सूत्रैर् वेदावलम्बिनाम् आत्मैकत्व-वादिनां दोष उच्यते॥५२॥ इत्य् अंशाधिकरणम्॥७॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-शारीरक-मीमांसा-भाष्ये द्वितीयस्याध्यायस्य तृतीयः पादः॥३॥

Link copied

द्वितीयाध्याये

Link copied

चतुर्थः पादः

प्राणोत्पत्त्य्-अधिकरणम्॥१॥

Link copied

२६९ तथा प्राणाः॥२।४।१॥

Link copied

ब्रह्म-व्यतिरिक्तस्य वियद्-आदेः कृत्स्नस्य कार्यत्वेनोत्पत्ताव् उक्तायां जीवस्य कार्यत्वेऽपि स्वरूपान्यथा-भाव-लक्षणोत्पत्तिर् अपोदिता। तत्-प्रसङ्गेन जीव-स्वरूपं शोधितम्। सम्प्रति जीवोपकरणानाम् इन्द्रियाणां प्राणस्य चोत्पत्त्यादि-प्रकारो विशोध्यते। तत्र किम् इन्द्रियाणां कार्यत्वं जीववत्। उत वियद्-आदिवद् इति चिन्त्यते। किं युक्तम्। जीववद् एवेत्य् आह पूर्व-पक्षी तथा प्राणाः इति। प्राणाः इन्द्रियाणि। यथा जीवो नोत्पद्यते; तथेन्द्रियाण्य् अपि नोत्पद्यन्ते। कुतः। श्रुतेः। यथा जीवस्यानुत्पत्तिः श्रुतेर् अवगम्यते; तथा प्राणानाम् अप्य् अनुत्पत्तिः श्रुतेर् एवावगम्यते। तथा प्राणा इति प्रमाणम् अप्य् अतिदिश्यते। का पुनर् अत्र श्रुतिः। असद् वा इदम् अग्र आसीत् तद् आहुः किं तद् आसीद् इति ऋषयो वा व ते अग्रे सद् आसीत् तद् आहुः के ते ऋषय इति प्राणा वा व ऋषयः इति जगद्-उत्पत्तेः प्राग् इन्द्रियाणां सद्-भावः श्रूयते। प्राण-शब्दे बहु-वचनाद् इन्द्रियाण्य् एवेति निश्चीयते। न चेयं श्रुतिर् वायुश् चान्तरिक्षं चैतद् अमृतम्, सैषानस्तमिता देवता यद् वायुः इतिवच् चिर-कालावस्थायित्वेन परिणतुं शक्या, असद् वा इदम् अग्र आसीत् इति कृत्स्न-प्रपञ्च-प्रलय-वेलायाम् अप्य् अवस्थितत्व-श्रवणात्। उत्पत्ति-वादिन्यस् तु जीवोत्पत्ति-वादिन्य इव नेतव्या इति॥ 

Link copied

एवं प्राप्तेऽभिधीयते--- वियद्-आदिवद् एव प्राणाश् चोत्पद्यन्ते। कुतः। सद् एव सोम्येदम् अग्र आसीत्, आत्मा वा इदम् एक एवाग्र आसीद् इत्य् आदिषु प्राकृष्टेर् एकत्वावधारणात्, एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, इतीन्द्रियाणाम् उत्पत्ति-श्रवणाच् च, प्राग्-अवस्थानासम्भवात्। न चात्मोत्पत्ति-वादवद् इन्द्रियोत्पत्ति-वादाः परिणेतुं शक्याः, आत्मवद् उत्पत्ति-प्रतिषेध-श्रुतीनां नित्यत्व-श्रुतीनां चादर्शनात्। असद् वा इदम् अग्र आसीद् इत्य् आदि वाक्येऽपि प्राण-शब्देन परमात्मैव निर्दिश्यते, सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसंविशन्ति प्राणम् अभ्युज्जिहते इति प्राण-शब्दस्य परमात्मन्य् अपि प्रसिद्धेः। प्राणा वा व ऋषयः इति ऋषि-शब्दश् च सर्व-ज्ञे तस्मिन्न् एव युज्यते; न त्व् अचेतनेष्व् इन्द्रियेषु॥१॥ 

Link copied

ऋषयः, प्राणा इति च बहु-वचन-श्रुतिः कथम् उपपद्यत इति चेत्, तत्राह---

Link copied

२७० गौण्य-सम्भवात् तत्-प्राक्-छ्रुतेश् च॥२।४।२॥

Link copied

बहु-वचन-श्रुतिर् गौणी, बह्व्-अर्थासम्भवात्। तस्यैव परमात्मनः सृष्टेः प्राग् अवस्थान-श्रुतेर् एव॥२॥ 

Link copied

२७१ तत्-पूर्वकत्वाद् वाचः॥२।४।३॥

Link copied

इतश् च प्राण-शब्दः परमात्म-वचनः; वाचः--- परमात्म-व्यतिरिक्त-विषयस्य नामधेयस्य वाग्-विषय-भूत-वियद्-आदि-सृष्टि-पूर्वकत्वात्। तद् धेदं तर्ह्य् अव्याकृतम्--- आसीत् तन्-नाम-रूपाभ्यां व्याक्रियत, इति नाम-रूप-भाजाम् अभावात् तदानीं वाग्-आदीन्द्रिय-कार्याभावाच् च तानि न सन्तीत्य् अर्थः॥३॥ 

Link copied

इति प्राणोत्पत्त्य्-अधिकरणम्॥१॥ 

Link copied

अथ सप्त-गत्य्-अधिकरणम्॥२॥ 

Link copied

२७२ सप्त गतेर् विशेषितत्वाच् च॥२।४।४॥

Link copied

तानीन्द्रियाणि किं सप्तैव स्युः, अथवैकादशेति चिन्त्यते। श्रुति-विप्रतिपत्तेः संशयह्। किं प्राप्तम्; सप्तेति। कुतः। गतेर् विशेषितत्वाच् च। गतिस् तावज् जायमानेन म्रियमाणेन च जीवेन सह लोकेषु सञ्चरण-रूपा सप्तानाम् एव श्रुयते--- सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त, इति। वीप्सा पुरुष-भेदाभिप्राया। विशेषिताश् च ते गतिमन्तः प्राणाः स्वरूपतः, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश् च न विचेष्टेत ताम् आहुः परमां गतिम् इति। शरीरान्तः-सञ्चरणं विहाय मोक्षार्थ-गमनं परमा गतिः। एवं जीवेन सह जन्म-मरणयोः सप्तानाम् एव गति-श्रवणाद् योग-दशायां ज्ञानानीति विशेषितत्वाच् च जीवस्य करणानि श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राण-बुद्धि-मनांसि सप्तैवेति गम्यते। यानि त्व् इतराणि विषयाणां ग्राहकत्वेन, अष्टौ ग्रहाः, सप्त वै शीर्सण्याः प्राणाः द्वाव् अवाञ्चौ, इत्य् आदिषु चतुर्दश-पर्यन्तानि प्राण-प्रतिपादक-वाक्येषु वाक्-पाणि-पाद-पायूपस्थाहङ्कार-चित्ताख्यानीन्द्रियाणि प्रतीयन्ते, तेषां जीवेन सह गति-श्रवणाभावाज् जीवस्याल्पाल्पोपकारकत्व-मात्रेणौपचारिकः प्राण-व्यपदेशः॥४॥ 

Link copied

इति प्राप्ते प्रचक्ष्महे---

Link copied

२७३ हस्तादयस् तु स्थितेऽतो नैवम्॥२।४।५॥

Link copied

न सप्तैवेन्द्रियाण्य् अपि त्व् एकादश; हस्तादीनाम् अपि शरीरे स्थिते जीवे तस्य भोगोपकरणत्वात्, कार्य-भेदाच् च। दृश्यते हि श्रोत्रादीनाम् इव हस्तादीनाम् अपि कार्य-भेद आदानादिः; अतस् ते ऽपि सन्त्य् एव। अतो नैवम्--- अतो हस्तादयो न सन्तीत्य् एवं न मन्तव्यम् इत्य् अर्थः। अध्यवसायाभिमान-चिन्तावृत्ति-भेदान् मन एव बुद्धयह् अङ्कार-चित्त-शब्दैर् व्यपदिश्यत इत्य् एकादशेन्द्रियाणि। अतः--- दशेमे पुरुषे प्राणाः आत्मैकादशः इत्य् आत्म-शब्देन मनोऽभिधीयते। इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय गोचराः, तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश। एकादशं मनश् चात्र, इत्य् आदि श्रुति-स्मृति-सिद्धेन्द्रिय-सङ्ख्या स्थिता। अधिक-सङ्ख्या-वादाः मनो-वृत्ति-भेदाभिप्रायाः; न्यून-व्यपदेशास् तु तत्र तत्र विवक्शित-गमनादि-कार्य-विशेष-प्रयुक्ताः॥५॥ 

Link copied

इति सप्त-गत्य्-अधिकरणम्॥२॥ 

Link copied

अथ प्राणाणुत्वाधिकरणम्॥३॥ 

Link copied

२७४ अणवश् च॥२।४।६॥

Link copied

त एते सर्व एव समाः सर्वेऽनन्ताः, इत्य् आनन्त्य श्रवणाद् विभुत्वं प्राणानाम्; इति प्राप्तेऽभिधीयते--- प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति, इत्य् उत्क्रान्त्य् आदि श्रवणात् परिमितत्वे सिधे सत्य् उत्क्रान्त्य् आदिषु पार्ष्व-स्थैर् अनुपलभ्यमानत्वाद् अणवश् च प्राणाः। आनन्त्य-श्रुतिस् तु, अथ यो हैतान् अनन्तान् उपास्ते इत्य् उपासन-श्रवणाद् उपास्य-प्राण-विशेषण-भूत-कार्य-बाहुल्याभिप्राया॥६॥ 

Link copied

२७५ श्रेष्ठश् च॥२।४।७॥

Link copied

प्राण-संवादे शरीर-स्थिति-हेतुत्वेन श्रेष्ठतया निर्णीतो मुख्य-प्राणः, आनीदवातं स्वधया तद् एकम् इति महा-प्रलय-समये स्व-कार्य-भूत-प्राणन-सद्-भाव-श्रवणात्, एतस्माज् जायते इति जन्म-श्रवणस्य जीव-जन्म-श्रवणवद् उपपत्तेर् नोत्पद्यत, इत्य् आशङ्क्य प्राक्सृष्टेर् एकत्वावधारणादि-विरोधात्, एतस्माज् जायते प्राणः इति पृथिव्य्-आदि- तुल्योत्पत्ति-श्रवणात्, उत्पत्ति-निषेधाभावाच् च, जायत एव श्रेष्ठश् च प्राण इत्य् उच्यते। आनीदवातम् इति तु न जैवं श्रेष्ठं प्राणम् अभिप्रेत्योच्यते, अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्वम् उच्यते, अवातम् इति तत्रैव श्रवणात्। पूर्वेणैव तुल्य-न्यायत्वेऽपि पृथग् योग-करणम् उत्तर चिन्तार्थम्॥७॥

Link copied

इति प्राणाणुत्वाधिकरणम्॥३॥ 

Link copied

अथ वायु-क्रियाधिकरणम्॥४॥

Link copied

२७६ न वायु-क्रिये पृथग्-उपदेशात्॥२।४।८॥

Link copied

सोऽयं श्रेष्ठः प्राणः किं महाभूत-द्वितीय-वायु-मात्रं, तस्य वा स्पन्द-रूप-क्रिया, अथवा वायुर् एव कञ्चन विशेषम् आपन्नः, इति विशये वायुर् एवेति प्राप्तम्, यः प्राणः स वायुः इति व्यपदेशात्। यद्वा वायु-मात्रे प्राणत्व-प्रसिद्ध्य्-अभावाद् उच्छ्वास-निःश्वासादि-वायु-क्रियायां प्राण-शब्द-प्रसिद्धेश् च तत्-क्रियैव, इति प्राप्ते न वायु-मात्रं, न च तत्-क्रियेत्य् उच्यते। कुतः। पृथग्-उपदेशात्--- एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, खं वायुः इति। तत एव पृथग्-उपदेशात् वायु-क्रियापि न भवति प्राणः; न हि तेजः-प्रभृतीनां क्रिया तैः सह पृथग्-द्रव्यतयोपदिश्यते। यः प्राणः स वायुर् इति तु वायुर् एवावस्थान्तरम् आपन्नः प्राणः; न तेजः-प्रभृतिवत् तत्त्वान्तरम् इति ज्ञापनार्थं। उच्छ्वास-निःश्वासादाव् अपि प्राणः स्पन्दत इति क्रियावति द्रव्य एव प्राण-शब्द-प्रसिद्धिः; न क्रिया-मात्रे॥८॥ किम् अयं प्राणो वायोर् विकारः सन्न् अग्निवद् भूतान्तरम्। नेत्य् आह--- 

Link copied

२७७ चक्षुर्-आदिवत् तु तत्-सह-शिष्ट्य्-आदिभ्यः॥२।४।९॥

Link copied

नायं भूत-विशेषः, अपि तु चक्षुर्-आदिवज् जीवोपकरण-विशेषः। तच् चोपकरणत्वम् उपकरण-भूतैर् इन्द्रियैह् सहशिष्ट्य्-आदिभ्योऽवगम्यते। चक्षुर्-आदिभिः सहायं प्राणः शिष्यते प्राण-संवादादिषु तत्-सजातीयत्वे हि तैः सह शासनं युज्यते। प्राण-शब्द-परिगृहीतेषु करणेष्व् अस्य विशिष्याभिधानम् आदि-शब्देन गृह्यते; अथ ह य एवायं मुख्यः प्राणः श्योऽयं मध्यमः प्राणः इत्य् आदिषु विशिष्याभिधानात्॥९॥ 

Link copied

चक्षुर्-आदिवद् अस्यापि करणत्वे तद्वद् अस्यापि जीवं प्रत्युपकार-विशेष-रूप-क्रियया भवितव्यं सा तु न दृश्यते; अतो नायं चक्षुर्-आदिवद् भवितुम् अर्हतीति चेत्, तत्राह--- 

Link copied

२७८ अकरणत्वाच् च न दोषस् तथा हि दर्शयति॥२।४।१०॥

Link copied

अकरणत्वात्--- करणं क्रिया, अक्रियत्वात्, अस्य प्राणस्य जीवं प्रत्युपकार-विशेष-रूप-क्रिया-रहितत्वाच् च यो दोष उद्भाव्यते, स नास्ति; यत उपकार-विशेष-रूपां शरीरेन्द्रिय-धारणादि-रूपां क्रियां दर्शयति श्रुतिः--- यस्मिन्न् उत्क्रान्ते इदं शरीरं पापिष्ठतरम् इव दृश्यते स वः श्रेष्ठः इत्य् उक्त्वा वाग्-आद्य्-उत्क्रमणेऽपि शरीरस्येन्द्रियान्तराणां च स्थितिं दर्शयित्वा प्राणोत्क्रमणे शरीरेन्द्रिय-शैथिल्याभिधानात्। अतः प्राणापान-व्यानोदान-समानाकारेण पञ्चधावस्थितोऽयं प्राणः शरीरेन्द्रिय-धारणादिना जीवस्योपकरोतीति चक्षुर्-आदिवत् करणत्वम्॥१०॥ 

Link copied

नन्व् एवं नाम-भेदात् कार्य-भेदाच् च प्राणापानादयस् तत्त्वान्तराणि स्युः, तत्राह---

Link copied

२७९ पञ्च-वृत्तिर् मनोवद् व्यपदिश्यते॥२।४।११॥

Link copied

यथा कामादि-वृत्ति-भेदे तत्-कार्य-भेदेऽपि न कामादिकं मनसस् तत्त्वान्तरं, कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा-धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्वं मन एव, इति वचनात्। एवं--- प्राणोऽपानो व्यान उदानः समान इत्य् एतत् सर्वे प्राण एव, इति वचनाद् अपानादयोऽपि प्राणस्यैव वृत्ति-विशेषाः, न तत्त्वान्तरम् इत्य् अवगम्यते॥११॥ 

Link copied

इति वायु-क्रियाधिकरणम्॥४॥ 

Link copied

अथ श्रेष्ठाणुत्वाधिकरणं॥५॥ 

Link copied

२८० अणुश् च॥२।४।१२॥

Link copied

अणुश् चायं, पूर्ववद् उत्क्रान्त्य् आदि श्रवणात्--- तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति इत्य् आदिषु अधिकाशङ्का तु सम एभिस् त्रिभिर् लोकैः समोऽनेन सर्वेण प्राणे सर्वं प्रतिष्ठितम्, सर्वं हीदं प्राणेनावृतम् इत्य् आदि श्रवणात् महा-परिमाण इति। परिहारस् तु--- उत्क्रान्त्य्-आदि-श्रवणात् परिच्छिन्नत्वे निश्चिते सर्वस्य प्राणि-जातस्य प्राणायत्त-स्थितित्वेन वैभव-वादोपपत्तिर् इति॥१२॥ 

Link copied

इति श्रेष्ठाणुत्वाधिकरणम् 

Link copied

अथ ज्योतिर्-आद्य्-अधिष्ठानाधिकरणम्॥६॥ 

Link copied

२८१ ज्योतिर्-आद्य्-अधिष्ठानं तु तद्-आमननात् प्राणवता शब्दात्॥२।४।१३॥

Link copied

सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिर् इयत्ता-परिमाणं चोक्तम्। तेषां प्राणानाम् अग्न्य्-आदि-देवताधिष्ठितत्वं च पूर्वम् एव अभिमानि-व्यपदेशस् तु विशेषानुगतिभ्याम् इत्य् अनेन सूत्रेण प्रसङ्गाद् उपपादितं जीवस्य च स्व-भोग-साधनानाम् एषाम् अधिष्ठात्रित्वं लोक-सिद्धम्, एवम् एवैष एतान प्राणान् गृहित्वा स्वे शरीरे यथाकामं परिवर्तते इत्य् आदि श्रुति-सिद्धं च। तद् इदं जीवस्याग्न्य्-आदि-देवतानां च प्राण-विषयम् अधिष्ठानं किं स्वायत्तम्, उत परमात्मायत्तम् इति विशये नैरपेक्ष्यात् स्वायत्तम्॥ 

Link copied

इति प्राप्त उच्यते--- ज्योतिर्-आद्य्-अधिष्ठानम् इति। प्राणवता--- जीवेन सह ज्योतिर्-आदीनाम् अग्न्य्-आदि-देवतानां प्राण-विषयम् अधिष्ठानम्, तद्-आमननात्--- तस्य परमात्मनः आमननाद् भवति। आमननम्--- आभिमुख्येन मननम्, परमात्मनः सङ्कल्पाद् एव भवतीत्य् अर्थः। कुत एतत्। शब्दात्--- इन्द्रियाणां साभिमानि-देवतानां जीवात्मनश् च स्व-कार्येषु परम-पुरुष-मननायत्तत्व-शास्त्रात्। यथान्तर्यामि ब्राह्मणादिषु--- योऽग्नौ तिष्ठन्न् अग्नेर् अन्तरो यम् अग्निर् न वेद यस्याग्निः शरीरं योऽग्निम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः यो वायौ तिष्ठन्, य आदित्ये तिष्ठन्, य आत्मनि तिष्ठन्, यश् चक्षुषि तिष्ठन् इत्य् आदि। यथा च--- भीषास्माद् वातः पवते, भीषोदेति सूर्यः, भीषास्माद् अग्निश् चेन्द्रश् च, मृत्युर् धावति पञ्चमः इति। तथा--- एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्य् आदि॥१३॥ 

Link copied

२८२ तस्य च नित्यत्वात्॥२।४।१४॥

Link copied

सर्वेषां परमात्माधिष्ठितत्वस्य नित्यत्वात्, स्वरूपानुबन्धित्वेन नियतत्वाच् च तत्-सङ्कल्पाद् एवैषाम् अधिष्ठातृत्वम् अवर्जनीयम्। तत् सृष्ट्वा, तद् एवानुप्राविशत्, तद् अनुप्रविश्य, सच् च त्यच् चाभवत् इत्य् आदिना परम-पुरुषस्य नियन्तृत्वेन सर्व-चिद्-अचिद्-वस्त्व्-अनुप्रवेशः स्वरूपानुबन्धी श्रूयते। स्मर्यते च--- विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति॥१४॥ 

Link copied

इति ज्योतिर्-आद्य्-अधिष्ठानाधिकरणम्॥६॥ 

Link copied

अथ इन्द्रियाधिकरणम्॥७॥ 

Link copied

२८३ त इन्द्रियाणि तद्-व्यपदेशाद् अन्यत्र श्रेष्ठात्॥२।४।१५॥

Link copied

किं सर्वे प्राण-शब्द-निर्दिष्टा इन्द्रियाणि, उत श्रेष्ठ-प्राण-व्यतिरिक्ता एवेति विशये प्राण-शब्द वाच्यत्वात्, करणत्वां च सर्व एवेन्द्रियाणि, इति प्राप्त उच्यते--- श्रेष्ठ-व्यतिरिक्ता एव प्राणा इन्द्रियाणि। कुतः। श्रेष्ठाद् अन्येष्व् एव प्राणेषु तद्-व्यपदेशात्। इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः इत्य् आदिभिर् हि चक्षुर्-आदिषु समनस्केष्व् एव इन्द्रिय-शब्दो व्यपदिश्यते॥१५॥ 

Link copied

२८४ भेद-श्रुतेर् वैलक्षण्याच् च॥२।४।१६॥

Link copied

एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, इत्य् आदिष्व् इन्द्रियेभ्यः प्राणस्य पृथक् श्रवणात् प्राण-व्यतिरिक्तानाम् एवेन्द्रियत्वम् अवगम्यते। मनसः पृथक् श्रवणेऽपि तस्यान्यत्रेन्द्रियान्तर्भाव उक्तः--- मनः षष्ठानीन्द्रियाणि इत्य् आदौ। वैलक्षण्यं च चक्षुर्-आदिभ्यः श्रेष्ठ-प्राणस्योपलभ्यते; सुषुप्तौ हि प्राणस्य वृत्तिर् उपलभ्यते, चक्षुर्-आदीनां तु वृत्तिर् नोपलभ्यते। कार्यं च चक्षुर्-वाग्-आदीनां समनस्कानां ज्ञान-कर्म-साधनत्वम्; प्राणस्य तु शरीरेन्द्रिय-धारणम्। प्राणाधीन-धारणत्वात् त्व् इन्द्रियेषु प्राण-शब्द-व्यपदेशः। तथा च श्रुतिः--- त एतस्यैव सर्वे रूपम् अभवन्, तस्माद् एत एतेनाख्यायन्ते इति। रूपम् अभवन् शरीरम् अभवन्, तद्-अधीन-प्रवृत्तयोऽभवन्न् इत्य् अर्थः॥१६॥ इति इन्द्रियाधिकरणम्॥७॥ 

Link copied

अथ संज्ञा-मूर्ति-कॢप्त्य्-अधिकरणम्॥८॥ 

Link copied

२८५ संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात्॥२।४।१७॥

Link copied

भूतेन्द्रियादीनां समष्टि-सृष्टिः, जीवानां कर्तृत्वं च परस्माद् ब्रह्मण इत्य् उक्तं पुरस्तात्। जीवानां स्वेन्द्रियाधिष्ठानं च परायत्तम् इति चानन्तरं स्थिरीकरणाय स्मारितम्। या त्व् इयं नाम-रूप-व्याकरणात्मिका प्रपञ्च-व्यष्टि-सृष्टिः, सा किं समष्टि-जीव-रूपस्य हिरण्यगर्भस्यैव कर्म। उत तेजः-प्रभृति-शरीरकस्य परस्याब्-आदि-सृष्टिवद् धिरण्यगर्भ-शरीरकस्य परस्य ब्रह्मणः। इतीदानीं चिन्त्यते। किं युक्तम्। समष्टि-जीवस्येति। कुतः। अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति जीव-कर्तृकत्व-श्रवणात्। न हि परा देवता स्वेन रूपेण नाम-रूपे व्याकरवाणीत्य् ऐक्षत; अपि तु स्वांश-भूतेन जीव-रूपेण, अनेन जीवेनात्मनेति वचनात्। नन्व् एवं चारेणानुप्रविश्य पर-बलं सङ्कलयानीतिवत्, व्याकरवाणीत्य् उत्तम-पुरुषः कर्तृ-स्थ-क्रियश् च प्रविशतिर् लाक्षणिकः स्यात्। नैवम्, तत्र राज-चारयोः स्वरूप-भेदाल् लाक्षणिकत्वम्, इह तु जीवस्यापि स्वांशत्वेन स्वरूपत्वात् तेन रूपेण प्रवेशो व्याकरणं चात्मन एवेति न लाक्षणिकत्व-प्रसङ्गः। न च सहयोग-लक्षणेयं तृतीया, कारक-विभक्तौ सम्भवन्त्याम् उपपद-विभक्तेर् अन्याय्यत्वात्। न च करणे तृतीया, ब्रह्म-कर्तृकयोः प्रवेश-व्याकरणयोर् जीवस्य साधकतमत्वाभावात्। न च जीवस्य कर्तृत्वं प्रवेशमाने पर्यवस्यति, नाम-रूप-व्याकरणं तु ब्रह्मण एवेति शक्यं वक्तुम्; क्वाप्रत्ययेन समान-कर्तृकत्व-प्रतीतेः। जीवस्य स्वांशत्वेन स्वरूपत्वेऽपि पर-स्वरूप-व्यावृत्त्य्-अर्थः, अनेन जीवेनेति पराक्त्वेन परामर्शः। अतो हिरण्यगर्भ-कर्तृकेयं नाम-रूप-व्याक्रिया। अत एव च स्मृतिषु चतुर्मुख-कर्तृक-सृष्टि-प्रकरणे नाम-रूप-व्याकरणं सङ्कीर्त्यते, नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम्। वेद-शब्देभ्य एवादौ देवादीनां चकार सः, इत्य् आदि॥ 

Link copied

एवं प्राप्तेऽभिधीयते--- संज्ञा-मूर्ति-कॢप्तिस् तु इति। तु-शब्दः पक्षं व्यावर्तयति। संज्ञा-मूर्ति-कॢप्तिः--- नाम-रूप-व्याकरणम्। तत् त्रिवृत् कुर्वतः परस्यैव ब्रह्मणः, तस्यैव नाम-रूप-व्याकरणोपदेशात्। त्रिवृत्-करणं कुर्वत एव हि नाम-रूप-व्याकरणम् उपदिश्यते, सेयं देवतैक्षत हन्ताहम् इमास् तिस्रो देवता अनेन जिवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतम् एकैकां करवाणि, इति समान-कर्तृकत्व-प्रतितेः। त्रिवृत्-करणं तु चतुर्मुखस्याण्डान्तवर्तिनो न सम्भवति, तेजो-ऽब्-अन्नैर् ह्य् अण्डम् उत्पाद्यते। चतुर्मुखस्य चाण्डे सम्भवः स्मर्यते--- तस्मिन्न् अण्डेऽभवद् ब्रह्मा सर्व-लोक-पितामहः इति। अतस् त्रिवृत् करणं परस्यैव ब्रह्मणः; तत्-समान-कर्तृकं नाम-रूप-व्याकरणं च तस्यैवेति विज्ञायते। कथं तर्हि, अनेन जीवेनेति सङ्गच्छते। आत्मना जीवेनेति सामानाधिकरण्यात् जीव-शरीरकं परं ब्रह्मैव जीव-शब्देनाभिधीयते; यथा--- तत् तेज ऐक्षत तद् अपोऽसृजत, ता आप ऐक्षन्त, ता अन्नम् असूजन्त, इति तेजः-प्रभृति-शरीरकं परम् एव ब्रह्माभिधीयते। अतो जीव-समष्टि-भूत-हिरण्यगर्भ-शरीरकस्य परस्यैव ब्रह्मणः कर्म नाम-रूप-व्याकरणम्। एवं च--- प्रविश्य नाम-रूपे व्याकरवाणीति प्रविशतिर् उत्तम-पुरुषश् चाक्लिष्टौ मुख्यार्थाव् एव भवतः। प्रवेश-व्याकरणयोः समान-कर्तृकत्वम् अप्य् उपपद्यते। चतुर्मुख-शरीरकस्य परस्यैव ब्रह्मणः कर्म देवादि-विचित्र-सृष्टिर् इति चतुर्मुख-कर्तृक-सृष्टि-प्रकरणे नाम-रूप-व्याक्रियोपदेशश् चोपपद्यते। अतः--- सेयं देवतेत्य्-आदि-वाक्यस्यायम् अर्थः--- इमाः---तेजोऽब्-अन्न-रूपास् तिस्रो देवताः, अनेन जीवेन--- जीव-समष्टि-विशिष्टेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि--- देवादि-विचित्र-सृष्टिं तन्-नामधेयानि च करवाणि। तद्-अर्थम् अन्योन्य-संसर्गम् अप्राप्तानाम् एषां तेजोऽब्-अन्नानां विशेष-सृष्ट्य्-असमर्थानां तत्-सामर्थ्यायैकैकां त्रिवृतं त्रिवृतं करवाणीति। अतः परस्यैव ब्रह्मणः कर्मेदं नाम-रूप-व्याकरणम्॥१७॥ 

Link copied

अथ स्यात्--- नाम-रूप-व्याकरणस्य त्रिवृत्-करणेनैक-कर्तृकत्वात् परमात्म-कर्तृकम् इति न शक्यते वक्तुम्, त्रिवृत्-करणस्यापि जीव-कर्तृकत्व-सम्भवात्। अण्ड-सृष्ट्य्-उत्तर-कालं हि चतुर्मुख-सृष्ट-जीवेषु त्रिवृत्-करण-प्रकार उपदिश्यते--- यथा तु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तन् मे विजानीहीति, अन्नम् अशितं त्रेधा विधीयते तस्य यः स्थविष्ठो भागस् तत् पुरीषं भवति यो मध्यमस् तन् मांसं योऽणिष्ठस् तन् मनः इत्य् आदिना। तथा पूर्वस्मिन्न् अपि वाक्ये--- यद् अग्ने रोहितं रूपं तेजसस् तद् रूपं यच् छुक्लं तद् अपां यत् कृष्णं तद् अन्नस्य, इत्य् आदिना चतुर्मुख-सृष्टाग्न्य्-आदित्य-चन्द्र-विद्युत्सु त्रिवृत्-करणं प्रदर्श्यते। नाम-रूप-व्याकरणोत्तर-कालं च त्रिवृत्-करणं श्रूयते--- सेयं देवतेमास् तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरोत्तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोत् इति। तत्राह--- 

Link copied

२८६ मांसादि-भौमं यथा शब्दम् इतरयोश् च॥२।४।१८॥

Link copied

यद् उक्तम् अण्ड-सृष्ट्य्-उत्तर-कालं चतुर्मुख-सृष्ट-देवतादि-विषयोऽयं--- तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोद् इति त्रिवृत्-करणोपदेश इति; तन् नोपपद्यते; अन्नम् अशितं त्रेधा विधीयते इत्य् अत्र मांस-मनसोः पुरीषाद् अणुत्वेनाणीयस्त्वेन च व्यपदिष्टयोः कारणानुविधायित्वेनाप्य् अतैजसत्व-प्रसङ्गात्; आपः पीताः इत्य् अत्रापि मूत्र-प्राणयोः स्थविष्ठाणीयसोः पार्थिवत्व-तैजसत्व-प्रसङ्गाच् च। न चैवम् इष्यते; मांसादि हि भौमम् इष्यते--- पुरीषवन् मांस-मनसी अपि भौमे--- पार्थिवे इष्येते, अन्नम् अशितं त्रेधेति प्रक्रमात्। यथा शब्दम् इतरयोश् च--- इतरयोर् अपि, आपः पीताः, तेजोऽशितम् इति पर्याययोर् यथा शब्दं विकारा इष्यन्ते। आपः पीतास् त्रेधा विधीयन्त इत्य् अपाम् एव त्रेधा परिणामः शब्दात् प्रतीयते; तथा तेजोऽशितं त्रेधा विधीयत इत्य् अपि तेजस एव त्रेधा परिणामः शब्दात् प्रतीयते। अतः पुरीष-मांस-मनांसि पृथिवी-विकाराः, मूत्र-लोहित-प्राणाः अब्-विकाराः, अस्थि-मज्जा-वाचस्-तेजो-विकारा इति प्रतिपत्तव्यम्; अन्न-मयं हि सोम्य मनः आपो-मयः प्राणस् तेजो-मयी वाक्, इति वाक्य-शेषाविरोधाच् च। अतः--- तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोद् इत्य् उक्तस् त्रिवृत्-करण-प्रकारः, अन्नम् अशितम् इत्य् आदिना न प्रदर्श्यते; तथा सति मनः-प्राण-वाचां त्रयाणाम् अप्य् अणीयस्त्वेन तैजसत्वात्, अन्न-मयं हि सोम्य मनः इत्य् आदिर् विरुध्यते। प्राग् एव त्रिवृत्-कृतानां पृथिव्य्-आदीनां पुरुषं प्राप्तानाम्, अन्नम् अशितम् इत्य् आदिनैकैकस्य त्रेधा परिणाम उच्यते। अण्ड-सृष्टेः प्राग् एव च तेजोऽब्-अन्नानां त्रिवृत्-करणेन भवितव्यम्, अत्रिवृत्-कृतानां तेषां कार्यारम्भासामर्थ्यात्। अन्योन्य-संयुक्तानाम् एव हि कार्यारम्भ-सामर्थ्यम्; तद् एव च त्रिवृत्-करणम्। तथा च स्मर्यते--- नाना-वीर्याः पृथग्-भूतास् ततस् ते संहतिं विना। नाशक्नुवन् प्रजास् स्रष्टुम् असमागम्य कृत्स्नशः। समेत्यान्योन्य-संयोगं परस्पर-समाश्रयाः। महद्-आद्या विशेषान्ता ह्य् अण्डम् उत्पादयन्ति ते, इति। अत एव च--- अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरोत् तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोत्, इति पाठ-क्रमोऽर्थ-क्रमेण बाध्यते। अण्डान्तर्वर्तिष्व् अग्न्य्-आदित्यादिषु त्रिवृत्-करण-प्रदर्शनं श्वेतकेतोः शुश्रूषोर् अण्डान्तर्वर्तित्वेन तस्य बहिष्ठ-वस्तुषु त्रिवृत्-करण-प्रदर्शनायोगात् त्रिवृत्-कृतानां कार्येष्व् अग्न्य्-आदित्यादिषु क्रियते॥१८॥ 

Link copied

स्याद् एतत्; अन्नम् अशितम्, आपः पीताः, तेजोऽशितम् इति त्रिवत्-कृतानाम् अन्नादीनाम् एकैकस्य तेजोऽब्-अन्नात्मकत्वेन त्रि-रूपस्य कथम् अन्नम् आपस् तेज इत्य् एकैक-रूपेण व्यपदेश उपपद्यत इति; 

Link copied

तत्राह---

Link copied

२८७ वैशेष्यात् तु तद्-वादस् तद्-वादः॥२।४।१९॥

Link copied

वैशेष्यं--- विशेष-भावः। त्रिवृत्-करणेन त्रि-रूपेऽप्य् एकैकस्मिन्न् अन्नाद्य्-आधिक्यात् तत्र तत्रान्नादि-वादः। द्विर् उक्तिर् अध्याय-समाप्तिं द्योतयति॥१९॥ 

Link copied

इति संज्ञा-मूर्ति-कॢप्त्य्-अधिकरणम्॥८॥ 

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-शारीरक-मीमांसा-भाष्ये द्वितीयस्याध्यायस्य चतुर्थः पादः॥४॥ 

Link copied

समाप्तश् चाध्यायः॥

Link copied
Join our community