Vedanta Dipa · Section 2 of 17
||atha prathama:dhya:ye: prathamah pa:dah||
Original Sanskrit · click to toggle
श्रियः कान्तोऽनन्तो वर-गुण-गणैकास्पद-वपुः
Link copiedहताशेषावद्यः परम-खपदो वाङ्-मनसयोः।
Link copiedअभूमिर् भूमिर् यो नत-जन-दृशाम् आदि-पुरुषो
Link copiedमनस् तत्-पादाब्जे परिचरण-सक्तं भवतु मे॥
Link copiedप्रणम्य शिरसाचार्यांस् तद्-आदिष्टेन वर्त्मना।
Link copiedब्रह्मसूत्र-पदान्त-स्थ-वेदान्तार्थः प्रकाश्यते॥
Link copiedअत्रेयम् एव हि वेद-विदां प्रक्रिया अचिद्-वस्तुनः स्वरूपतः स्वभावतश् चात्यन्त-विलक्षणः तद्-आत्म-भूतः चेतनः प्रत्यगात्मा। तस्माद् बद्धान् मुक्तान् नित्याच् च निखिल-हेय-प्रत्यनीकतया, कल्याण-गुणैकतानतया च, सर्वावस्थ-चिद्-अचिद्-व्यापकतया धारकतया नियन्तृतया शेषितया चात्यन्त-विलक्षणः परमात्मा। यथोक्तं भगवता--- द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः। यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः। यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम इति।
Link copiedश्रुतिश् च--- प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः, पतिं विश्वस्यात्मेश्वरम्, अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः इत्य् आदिका। कूटस्थः--- मुक्त-स्वरूपम्। ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते। सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् इत्य् आदि व्यपदेशात्। सूत्र-कारश् चैवम् एव वदति नेतरोऽनुपपत्तेः, भेदव्यपदेशात्। अनुपपत्तेस् तु न शारीरः, कर्म-कर्तृ-व्यपदेशाच् च, शब्द-विशेषात्, सम्भोग-प्राप्तिर् इति चेन् न वैशेष्यात्, न च स्मार्त-मत-धर्माभिलापाच् छारीरश् च, उभयेऽपि हि भेदेनैनम् अधीयते, विशेषण-भेद-व्यपदेशाभ्यां च नेतरौ, मुक्तोपसृप्यव्यपदेशाच् च, स्थित्य्-अदनाभ्यां च, इतर-परामर्शात् स इति चेन् नासम्भवात्, उत्तराच् चेद् आविर्भूत-स्वरूपस् तु, सुषुप्त्य् उत्क्रान्त्योर् भेदेन, पत्य्-आदि-शब्देभ्यः। अधिकं तु भेद-निर्देशात्। अधिकोपदेशात् तु बादरायणस्यैव तद्-दर्शनात्। जगद्-व्यापार-वर्जं प्रकरणाद् असन्निहितत्वाच् च, भोग-मात्र-साम्य-लिङ्गाच् च इत्य् आदिभिः। न चाविद्या-कृतम् उपाधिकृतं वा भेदम् आश्रित्यैते निर्देशाः। इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च, तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति, मुक्तोपसृप्य व्यपदाशाच् च, उत्तराच् चेद् आविर्भूत-स्वरूपस् तु, सम्पद्याविर्भावः स्वेन-शब्दात्, जगद्-व्यापार-वर्जं प्रकरणाद् असन्निहितत्वाच् च, भोग-मात्र-साम्य-लिङ्गाच् च, इति सर्वाविद्योपाधि-विनिर्मुक्तम् अधिकृत्यैव भेदोपपादनात्। श्रुति-स्मृति-सूत्रेषु सर्वत्र भेदे निर्दिष्टे चिद्-अचिद्-ईश्वर-स्वरूप-भेदः स्वाभाविको विवक्षित इति निश्चीयते। सर्वं खल्व् इदं ब्रह्म तज् जलान् इति शान्त उपासीत, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम्, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं तद् ऐक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजत, सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः, ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेतकेतो, क्षेत्रज्ञं चापि मां विद्धि, तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्य इति परस्य ब्रह्मणः कारणत्वं, कृत्स्नस्य चिद्-अचिद्-आत्मक-प्रपञ्चस्य कार्यत्वं, कारणात् कार्यस्यानन्यत्वं चोच्यमानम् एवम् एवोपपद्यते। सर्वावस्थस्य चिद्-अचिद्-वस्तुनः परमात्म-शरीरत्वं, परमात्मनश् चात्मत्वं, यः पृथिव्यां तिष्ठन् यस्य पृथिवी शरीरं, य आत्मनि तिष्ठन् यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति, यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युः शरीरम्, एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः, अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा इत्य् आदि श्रुत्यैवोपदिष्टम् इति सूक्ष्म-चिद्-अचिद्-वस्तु-विशिष्टः परमात्मा कारणम्, स एव परमात्मा स्थूल-चिद्-अचिद्-वस्तु-शरीरः कार्यम् इति, कारणावस्थायां कार्यावस्थायां च चिद्-अचिद्-वस्तु-शरीरकतया तत्-प्रकारः परमात्मैव सर्व-शब्द-वाच्य इति परमात्म-शब्देन सर्व-शब्द-सामानाधिकरण्यं मुख्यम् एवोपपन्नतरम्। अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि, तत् सृष्ट्वा तद् एवानुप्राविशत् तद् अनुप्रविश्य सच् च त्यच् चाभवत् इत्य् आदि श्रुतिर् एवेमम् अर्थम् उपपादयति। सर्वम् आत्मतयानुप्रविश्य तच्-छरीरत्वेन सर्व-प्रकारतया स एव सर्व-शब्द-वाच्यो भवतीत्य् अर्थः। बहु स्याम् इति बहु-भवन-सङ्कल्पोऽपि नाम-रूप-विभागानर्हातिसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरकतयैकधावस्थितस्य विभक्त-नाम-रूप-चिद्-अचित् शरीरकतया बहु-प्रकारता-विषयः, इति वेदवित्-प्रक्रिया।
Link copiedये पुनर् निर्विशेष-कूटस्थ-स्व-प्रकाश-नित्य-चैतन्य-मात्रं ब्रह्म ज्ञात-व्यतयोक्तम् इति वदन्ति, तेषाम्, जन्माद्यस्य यतः, शास्त्र-योनित्वात्, तत् तु समन्वयात्, ईक्षतेर् नाशब्दम् इत्य् आदेः--- जगद्-व्यापार-वर्जं, प्रकरणाद् असनन्निहितत्वाच् च, भोग-मात्र-साम्य-लिङ्गाच् च, अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् इत्य् अन्तस्य सूत्र-गणस्य ब्रह्मणो जगत्-कारणत्व-बहु-भवन-सङ्कल्प-रूपेक्षणाद्य्-अनन्त-विशेष-प्रतिपादन-परत्वात्सर्वं सूत्र-जातं, सूत्र-कारोदाहृताः, यतो वा इमानि भूतानि जायन्ते, तद् ऐक्षत बहु स्यां प्रजायेयेति इत्य् आद्याः सर्व-श्रुतयश् च न सङ्गच्छन्ते। अथोच्येत येनाश्रुतं श्रुतम् इत्य् एक-विज्ञानेन सर्व-विज्ञानं प्रतिज्ञाय, यथा सोम्यैकेन मृत्-पिण्डेन इत्य् एक-मृत्-पिण्डारब्ध-घट-शरावादीनां तन्-मृत्-पिण्डाद् अनन्य-द्रव्यतया तज्-ज्ञानेन तेषां ज्ञाततेव, ब्रह्म-ज्ञानेन तद्-आरब्धस्य कृत्स्नस्य चिद्-अचिद्-आत्मकस्य जगतस् तस्माद् अनतिरिक्त-वस्तुतया ज्ञातता सम्भवतीत्य् उपपाद्य, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इतीदं शब्द-वाच्यस्य चिद्-अचिद्-आत्मक-प्रपञ्चस्य सृष्टेः प्राङ्-निखिल-भेद-प्रहाणेन सच्-छब्द-वाच्येनैकतापत्तिं घट-शरावाद्य्-उत्पत्तेः प्राग्-उत्पादक-मृत्-पिण्डैकतापत्तिवत् अभिधाय, तद् ऐक्षत बहु स्याम् इति तद् एव सच्-छब्द-वाच्यं ब्रह्म चिद्-अचिद्-आत्मक-प्रपञ्च-रूपेणात्मनो बहु-भवनम् एक-मृत्-पिण्डस्य घट-शरावादि-रूपेण बहु-भवनवत् सङ्कल्प्य आत्मानम् एव तेजः प्रभृति-जगद्-आकारेण असृजतेति चाभिधाय, ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि इत्य् अभिधानात् ब्रह्मैवाविद्याकृतेन पारमार्थिकेन वोपाधिना सम्बद्धं देवादि-रूपेण बहु-भूतम् इति वेदविद्भिर् अभ्युपगन्तव्यम् इति। तद् अयुक्तम्, ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ, नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् इत्य् आदि श्रुतिभिर् जीवानाम् अजत्व-नित्यत्व-बहुत्व-वचनात्। यदि घट-शरावादेर् उत्पत्तेः प्राग् एकीभूतस्य मृद्-द्रव्यस्य उत्पत्त्य्-उत्तर-काल-भावि-बहुत्ववत् सृष्टेः प्राग् एकीभूतस्यैव ब्रह्मणः सृष्ट्य्-उत्तर-कालीनं नाना-विध-जीव-रूपेण बहुत्वम् उच्यते, तदा जीवानाम् अजत्व-नित्यत्व-बहुत्वादि विरुध्येत। सूत्र-विरोधश् च इतर-व्यपदेशाद् हिताकरणादि-दोष-प्रसक्तिः इति ब्रह्मैव देव-मनुष्यादि-जीव-स्वरूपेण बहु-भूतं चेद् आत्मनो हिताकरणादि-दोष-प्रसक्तिर् इत्य् उक्त्वा, अधिकं तु भेद-निर्देशाद् इति जीवाद् ब्रह्मणोऽर्थान्तरत्वम् उक्तम्। तथा च वैषम्य-नैर्घृण्ये न सापेक्षत्वाद् इति देवादि-विषम-सृष्टि-प्रयुक्त-पक्ष-पात-नैर्घृण्ये, जीवानां पूर्व-पूर्व-कर्मापेक्षत्वाद् विषम-सृष्टेः इति परिहृते। तथा न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्युपलभ्यते च इति, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति सृष्टेः प्राग्-अविभाग-वचनात् सृष्टेः प्राग् जीवानाम् अभावात् तत्-कर्म न सम्भवतीति परिचोद्य, जीवानां तत्-कर्म-प्रवाहाणां चानादित्वाद् इति परिहृतम्। नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः इत्य् आत्मन उत्पत्त्य्-अभावश् चोक्तो नित्यत्वं च स्वाभ्युपगम-विरोधश्च। आमोक्षाज् जीव-भेदस्यानादित्वं सर्वैर् एव हि वेदान्तिभिर् अभ्युपगम्यते। अतः श्रुति-विरोधात् सूत्र-विरोधात् स्वाभ्युपग-विरोधाच् च सृष्टेः प्राग् एकत्वावधारणं नाम-रूप-विभागाभावाभिप्रायं, नाम-रूप-विभागानर्हासूक्ष्म-चिद्-अचिद्-वस्तु-शक्ति-भेद-सहं चेति सर्वैर् अभ्युपगम्यते। इयांस् तु विशेषः--- अविद्या-परिकल्पनेऽप्य् उपाधिपरि-कल्पनेऽपि ब्रह्म-व्यतिरिक्तस्याविद्या-सम्बन्धिनश् चोपाधिसम्बन्धिनः चेतनस्याभावाद् अविद्योपाधि-सम्बन्धौ तत्-कृताश् च दोषा ब्रह्मण एव भवेयुर् इति।
Link copiedसन्-मात्र-ब्रह्म-वादेऽपि प्राक्सृष्टेः सन्-मात्रं ब्रह्मैकम् एव सृष्ट्य्-उत्तर-कालं भोक्तृ-भोग्य-नियन्तृ-रूपेण त्रिधा-भूतं चेद् घट-शराव-मणिकवज् जीवेश्वरयोर् उत्पत्तिमत्त्वम् अनित्यत्वं च स्यात्। अथैकत्वापत्ति-वेलायाम् अपि भोक्तृ-भोग्य-नियन्तृ-शक्ति-त्रयम् अवस्थितम् इति चेत्, किम् इदं शक्ति-त्रय-शब्द-वाच्यम् इति विवेचनीयम्। यदि सन्-मात्रस्यैकस्यैव भोक्तृ-भोग्य-नियन्तृ-रूपेण परिणाम-सामर्थ्यं शक्ति-त्रय-शब्द-वाच्यम्, एवं तर्हि मृत्-पिण्डस्य घट-शरावादि-परिणाम-समर्थस्य तद्-उत्पादकत्वम् इव ब्रह्मण ईश्वरादीनाम् उत्पादकत्वम् इति तेषाम् अनित्यत्वम् एव। अथेश्वरादीनां सूक्ष्म-रूपेणावस्थितिर् एव शक्तिर् इत्य् उच्येत, तर्हि तद्-अतिरिक्तस्य सन्-मात्रस्य ब्रह्मणः प्रमाणाभावात् तद्-अभ्युपगमे च तद्-उत्पाद्यतयेश्वरादीनाम् अनित्यत्व-प्रसङ्गाच् च त्रयाणां नाम-रूप-विभागानर्ह-सूक्ष्म-दशापत्तिर् एव प्राक्सृष्टेर् एकत्वावधारणावसेयेति वक्तव्यम्। न तदा तेषां ब्रह्मात्मकत्वावधारणं विरुध्यते। अतः सर्वावस्थावस्थितस्य चिद्-अचिद्-वस्तुनः ब्रह्म-शरीरत्व-श्रुतेः सर्वदा सर्व-शब्दैर् ब्रह्मैव तत्-तच्-छरीरकतया तत्-तद्-विशिष्टम् एवाभिधीयत इति स्थूल-चिद्-अचिद्-वस्तु-विशिष्टं ब्रह्मैव कार्य-भूतं जगत्, नाम-रूप-विभागानर्ह-सूक्ष्म-चिद्-अचिद्-वस्तु-विशिष्टं ब्रह्म-कारणम् इति तद् एव मृत्-पिण्ड-स्थानीयम्, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इत्य् उच्यते, तद् एव विभक्त-नाम-रूप-चिद्-अचिद्-वस्तु-विशिष्टं ब्रह्म कार्यम् इति सर्वं समञ्जसम्। श्रुति-न्याय-विरोधस् तु तेषां भाष्ये प्रपञ्चित इति नेह प्रतन्यते। भाष्योदितः अधिकरणार्थः ससूत्रार्थ-विवरणः सुख-ग्रहणाय सङ्क्षेपेणोपन्यस्यते।
Link copiedशारीरकाध्याय-पादार्थ-सङ्ग्रहः
Link copiedतत्र प्रथमे पादे प्रधान-पुरुषाव् एव जगत्-कारणतया वेदान्ताः प्रतिपादयन्तीत्य् आशङ्क्य सर्वज्ञं सत्य-सङ्कल्पं निरवद्यं समस्त-कल्याण-गुणाकरं ब्रह्मैव जगत्-कारणतया प्रतिपादयन्तीत्य् उक्तम्। द्वितीय-तृतीय-चतुर्थ-पादेषु कानिचिद् वेदान्त-वाक्यानि प्रधानादि-प्रतिपादन-पराणीति तन्-मुखेन सर्वाक्षेपम् आशङ्क्य तान्य् अपि ब्रह्म-पराणीत्य् उक्तम्। तत्रास्पष्ट-जीवादि-लिङ्गकानि वाक्यानि द्वितीये निरूपितानि, स्पष्ट-लिङ्गकानि तृतीये। चतुर्थे तु प्रधानादि-प्रतिपादन-च्छायानुसारीणीति विशेषः। अतः प्रथमेऽध्याये सर्वं वेदान्त-वाक्य-जातं सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-युक्तं ब्रह्मैव जगत्-कारणतया प्रतिपादयतीति स्थापितम्। द्वितीयेऽध्याये तस्यार्थस्य दुर्धर्षणत्व-प्रतिपादनेन द्रढिमोच्यते। तत्र प्रथमे पादे साङ्ख्यादि-स्मृति-विरोधान् न्याय-विरोधाच् च प्रसक्तो दोषः परिहृतः। द्वितीये तु साङ्ख्यादि-वेद-बाह्य-पक्ष-प्रतिक्षेप-मुखेन तस्यैवादरणीयता स्थिरीकृता। तृतीय-चतुर्थयोर् वेदान्त-वाक्यानाम् अन्योन्य-विप्रतिषेधादि-दोष-गन्धाभाव-ख्यापनाय वियद्-आदीनां ब्रह्म-कार्यता-प्रकारो विशोध्यते। तत्र तृतीये पादे च चिद्-अचित्-प्रपञ्चस्य ब्रह्म-कार्यत्वे सत्य् अप्य् अचिद् अंशस्य स्वरूपान्य् अथाभावेन कार्यत्वं, चिद्-अंशस्य स्वभावान् यथाभावेन ज्ञान-सङ्कोच-विकास-रूपेण कार्यतोदिता। चतुर्थे तु जीवोपकरणानाम् इन्द्रियादीनाम् उत्पत्ति-प्रकारः इति प्रथमेनाध्याय-द्वयेन मुमुक्षुभिर् उपास्यं निरस्त-निखिल-दोष-गन्ध-मनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणं निखिल-जगद्-एक-कारणं ब्रह्मेति प्रतिपादितम्। उत्तरेण द्वयेन ब्रह्मोपासन-प्रकारस् तत्-फल-भूत-मोक्ष-स्वरूपं च चिन्त्यते। तत्र तृतीयस्य प्रथमे पादे ब्रह्मोपासिसिषोत्पत्तये जीवस्य संसरतो दोषाः कीर्तिताः। द्वितीये चोपासिसिषोत्पत्तय एव ब्रह्मणो निरस्त-निखिल-दोषता-कल्याण-गुणाकरता-रूपोभय-लिङ्गता प्रतिपाद्यते। तृतीये तु ब्रह्मोपासनैकत्व-नानात्व-विचार-पूर्वकम् उपासनेषु उपसंहार्यानुपसंहार्य-गुण-विशेषाः प्रपञ्चिताः। चतुर्थे तु उपासनस्य वर्णाश्रम-धर्मेति-कर्तव्यताकत्वम् उक्तम्। चतुर्थेऽध्याये ब्रह्मोपासन-फल-चिन्ता क्रियते। तत्र प्रथमे पादे ब्रह्मोपासन-फलं वक्तुम् उपासन-स्वरूप-पूर्वकोपासनानुष्ठान-प्रकारो विद्या-माहात्म्यं चोच्यते। द्वितीये तु ब्रह्मोपासीनानां ब्रह्म-प्राप्ति-गत्य्-उपक्रम-प्रकारश् चिन्तितः। तृतीये त्व् अर्चिरादि-गति-स्वरूपम् अर्चिरादिनैव ब्रह्म-प्राप्तिर् इति च प्रतिपाद्यते। चतुर्थे तु मुक्तस्य ब्रह्मानुभव-प्रकारश् चिन्त्यते। अतो मुमुक्षुभिर् ज्ञातव्यं निरस्त-निखिल-दोष-गन्धम् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणाकरं निखिल-जगद्-एक-कारणं परं ब्रह्म, तज्-ज्ञानं च मोक्ष-साधनम् असकृद्-आवृत्त-स्मृति-सन्तान-रूपम् उपासनात्मकम्, उपासन-फलं चार्चिरादिना परं ब्रह्मोपसम्पद्य स्व-स्वरूप-भूत-ज्ञानादि-गुणाविर्भाव-पूर्वकानन्त-महा-विभूत्य्-अनवधिकातिशयानन्द-ब्रह्मानुभवोऽपुनर्-आवृत्ति-रूप इति शारीरक-शास्त्रेणोक्तं भवति।
Link copied१।१।१
Link copied१ ओम् अथातो ब्रह्म-जिज्ञासा॥१।१।१॥
Link copiedब्रह्म-मीमांसा-विषयः। सा किम् आरम्भणीया, उत अनारम्भणीयेति संशयः। तद्-अर्थं परीक्ष्यते--- वेदान्ताः किं ब्रह्मणि प्रमाणम् उत नेति। तद्-अर्थं परिनिष्पन्नेऽर्थे शब्दस्य बोधन-सामर्थ्यावधारणं सम्भवति, नेति। न सम्भवति इति पूर्व-पक्षः। सम्भवतीति राद्धान्तः। यदा न सम्भवति तदा परिनिष्पन्नेऽर्थे शब्दस्य बोधन-सामर्थ्याभावात् सिद्ध-रूपे ब्रह्मणि न वेदान्ताः प्रमाणम् इति तद्-विचाराकारा ब्रह्म-मीमांसा नारम्भणीया। यदा सम्भवति तदा सिद्ध्येऽप्य् अर्थे शब्दस्य बोधन-सामर्थ्य-सम्भवाद् वेदान्ताः ब्रह्मणि प्रमाणम् इति सा चारम्भणीया स्यात्। अत्र पूर्व-पक्ष-वादी मन्यते--- वृद्ध-व्यवहाराद् अन्यत्र व्युत्पत्त्य्-असम्भवाद् व्यवहारस्य च कार्य-बुद्धि-पूर्वकत्वेन कार्य एवार्थे शब्द-शक्त्य्-अधारणात् परिनिष्पन्नेऽर्थे ब्रह्मणि न वेदान्ताः प्रमाणम् इति तद्-विचार-रूपा ब्रह्म-मीमांसा नारम्भणीयेति। सिद्धान्तस् तु--- बालानां माता-पितृ-प्रभृतिभिर् अम्बा-तात-मातुल-शिशु-पशु-पक्षि-मृगादिष्व् अङ्गुल्या निर्दिश्य तत्-तद्-अभिधायिनः शब्दान् प्रयुञ्जानैः क्रमेण बहुशः शिक्षितानां तत्-तच्-छब्द-श्रवण-समनन्तरं स्वात्मनाम् एव तद्-अर्थ-बुद्ध्य्-उत्पत्ति-दर्शनात्, शब्दार्थयोः सम्बन्धान्तरादर्शनात् सङ्केतयितृ-पुरुषाज्ञानाच् च बोध्य-बोधक-भाव एव शब्दार्थयोः सम्बन्ध इति निश्चिन्वानानां परिनिष्पन्नेऽर्थे शब्दस्य बोधकत्वावधारणं सम्भवतीति ब्रह्मणि वेदान्त-वाक्यानां प्रामाण्यात् तद्-अर्थ-विचाराकारा ब्रह्म-मीमांसा आरम्भणीयेति। सूत्रार्थस् तु--- अथातो ब्रह्म-जिज्ञासा--- अथ इत्य् आनन्तर्ये। अत इति च वृत्तस्य हेतु-भावे। ब्रह्मणो जिज्ञासा ब्रह्म-जिज्ञासा, ज्ञातुम् इच्छा जिज्ञासा। इच्छाया इष्यमाण-प्रधानत्वाद् इष्यमाणं ज्ञानम् इहाभिप्रेतम्। पूर्व-वृत्ताद् अल्पास्थिर-फल-केवल-कर्माधिगमाद् अनन्तरं तत एव हेतोर् अनन्त-स्थिर-फल-ब्रह्माधिगमः कर्तव्यः॥१॥इति जिज्ञासाधिकरणम्॥१॥
Link copied१।१।२
Link copied२ जन्माद्य् अस्य यतः॥१।१।२॥
Link copiedतैत्तरीयके--- यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति तद् विजिज्ञासस्व तद् ब्रह्म इत्य् एतद् वाक्यं विषयः। किम् एतज्-जिज्ञास्यतया प्रतिज्ञातं ब्रह्म जगज्-जन्मादि-कारणतया लक्षणतः प्रतिपादयितुं शक्नोति न वेति संशयः। न शक्नोतीति पूर्व-पक्षः। कुतः। जगज्-जन्मादीनाम् उपलक्षणतया विशेषणतया वा ब्रह्म-लक्षणत्वासम्भवात्। उपलक्षणत्वे ह्य् उपलक्ष्यस्याकारान्तर-योगोऽपेक्षितः। न चेह तद् अस्ति। अत उपलक्षणत्वं न सम्भवति। विशेषणत्वेऽप्य् अनेक-विशेषण-विशिष्टतयापूर्वस्यैकस्य प्रतिपादकत्वं न सम्भवति, विशेषणानां व्यावर्तकत्वेन विशेषण-बहुत्वे ब्रह्म-बहुत्व-प्रसक्तेः। राद्धान्तस् तु--- एकस्मिन्न् अविरुद्धानां विशेषणानाम् अनेकत्वेऽपि श्यामत्व-युवत्वादि-विशिष्ट-देवदत्तवज् जगज्-जन्मादि-विशिष्टं ब्रह्मैकम् एव विशेष्यं भवति। उपलक्षणत्वे जन्मादिभिर् उपलक्ष्यस्य ब्रह्म-शब्दावगत-बृहत्त्वाद्य्-आकाराश् च सन्तीति जगज्-जन्मादि-कारणं ब्रह्मेति लक्षणतः प्रतिपादयितुं शक्नोतीति। सूत्रार्थः--- अस्य विविध-विचित्र-भोक्तृ-भोग्य-पूर्णस्य जगतो यतो जन्मादि, तद् ब्रह्मेति प्रतिपादयितुं शक्नोत्य् एतद् वाक्यम् इति॥२॥इति जन्माद्य्-अधिकरणम्॥२॥
Link copied१।१।३
Link copied३ शास्त्र-योनित्वात्॥१।१।३॥
Link copiedयतो वा इमानि इत्य् आदि वाक्यम् एव विषयः। तत् किं जगत्-कारणे ब्रह्मणि प्रमाणम् उत नेति संशयः। नैतत् प्रमाणम् इति पूर्व-पक्षः, अनुमान-सिद्ध-ब्रह्म-विषयत्वात्। प्रमाणान्तराविषये हि शास्त्रं प्रमाणम्। जगतः सावयवत्वेन कार्यत्वात्। कार्यस्य स्वोपादानोपकरण-सम्प्रदान-प्रयोजनाद्य्-अभिज्ञ-कर्तृकत्वात्, जगन्-निर्माण-कार्य-चतुरः कर्म-परवश-परिमित-शक्त्य्-आदि-क्षेत्रज्ञ-विलक्षणः सर्वज्ञः सर्व-शक्तः सर्वेश्वरः अनुमान-सिद्ध इति तस्मिन् यतो वा इमानि भूतानि इत्य् आदि वाक्यं प्रमाणम् इति। राद्धान्तस् तु--- जगतः कार्यत्वेऽप्य् एकदैवैकेनैव कृत्स्नं जगन् निर्मितम् इत्य् अत्र प्रमाणाभावात्। क्षेत्रज्ञानाम् एव विलक्षण-पुण्यानां ज्ञान-शक्ति-वैचित्र्य-सम्भावनया कदाचित् कस्यचिज् जगद्-एकदेश-निर्माण-सामर्थ्य-सम्भवात् तद्-अतिरिक्त-पुरुषानुमानं न सम्भवतीति शास्त्रैक-प्रमाणकत्वाद् ब्रह्मणस् तत्-प्रतिपादकत्वेन तस्मिन्, यतो वा इमानि भूतानि इत्य् आदि वाक्यं प्रमाणम् इति। शास्त्रं योनिः यस्य कारणम्। प्रमाणं तद् ब्रह्म शास्त्र-योनि; प्रमाणान्तराविषयत्वेन शास्त्रैक-प्रमाणकत्वाद् ब्रह्मणस् तस्मिन्, यतो वा इमानि इत्य् आदि वाक्यं प्रमाणम् इति सूत्रार्थः॥३॥इति शास्त्र-योनित्वाधिकरणम्॥३॥
Link copied१।१।४
Link copied४ तत् तु समन्वयात्॥१।१।४॥
Link copiedब्रह्मणः शास्त्र-प्रमाणकत्वं सम्भवति, नेति विचार्यते। न सम्भवतीति पूर्वः पक्षः। कुतः प्रवृत्ति-निवृत्त्य्-अन्वय-विरहिणो ब्रह्मणः स्वरूपेणा पुरुषार्थत्वात्, पुरुषार्थावबोधकत्वेन च शास्त्रस्य प्रामाण्यात्, मोक्ष-साधन-ब्रह्म-ध्यान-विधि-परत्वेऽप्य् असत्य् अपि ब्रह्मणि तद्-ध्यान-विधान-सम्भवात्, न ब्रह्म-सद्-भावे तात्पर्यम् इति ब्रह्मणः शास्त्र-प्रमाणकत्वं न सम्भवति। राद्धान्तस् त्व् अतिशयित-गुण-पितृ पुत्रादि-जीवन-ज्ञानवद्-अनवधिकातिशयानन्द-स्वरूप-ब्रह्म-ज्ञानस्य निरतिशय-पुरुषार्थत्वात् तस्य शास्त्र-प्रमाणकत्वं सम्भवति, आनन्दो ब्रह्म, यद् एष आकाश आनन्दो न स्यात्, यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान् इत्य् आदिभिर् अनवधिकातिशयानन्द-स्वरूपं ब्रह्मेति हि प्रतिपाद्यते। अतो ब्रह्म स्वेन परेण वाप्य् अनुभूयमानं निरतिशयानन्द-स्वरूपम् एवेति तत्-प्रतिपादन-परस्यैव साक्षात् पुरुषार्थान्वयः। प्रवृत्ति-निवृत्ति-परस्य तु तत्-साध्य-फल-सम्बन्धात् पुरुषार्थान्वय इति। सूत्रार्थः--- तु-शब्दः प्रसक्ताशङ्का-निवृत्त्य्-अर्थः। तत्--- पूर्वस्-ऊत्रोदितं ब्रह्मणः शास्त्र-योनित्वं समन्वयात् सिद्ध्यति। सम्यक् पुरुषार्थतया अन्वयः समन्वयः। वेदितुर् निरतिशयानन्द-स्वरूपत्वेन परम-पुरुषार्थ-रूपे परे ब्रह्मणि वेदकतया शास्त्रस्यान्वयाद् ब्रह्मणः शास्त्र-प्रमाणकत्वं सिद्ध्यत्य् एवेति॥४॥ इति समन्वयाधिकरणम्॥४॥
Link copied१।१।५
Link copied५ ईक्षतेर् नाशब्दम्॥१।१।५॥
Link copiedयेनाश्रुतं श्रुतं भवति इत्य् आदि जगत्-कारण-वादि-वेदान्त-वेद्यं विषयः। तत् किं साङ्ख्योक्तं प्रधानम् उत अनवतिकातिशयानन्दं ब्रह्मेति संशयः। प्रधानम् इति पूर्व-पक्षः। कुतः प्रतिज्ञा-दृष्टान्तान्वयेनानुमानाकार-वाक्य-वेद्यत्वात्। येनाश्रुतं श्रुतं भवति इत्य् आदिना एक-विज्ञानेन सर्व-विज्ञानं प्रतिज्ञाय, यथा सोम्यैकेन मृत्-पिण्डेन इति दृष्टान्तेन ह्य् उपपाद्यते। एवम् आनुमानिकम् एव एतद्-वाक्य-वेद्यम् इति निश्चीयते। सद् एव सोम्येदम् इति सच्-छब्दः प्रधान-विषयः। तद् ऐक्षत बहु स्याम् इति च गौणम् ईक्षणं भवितुम् अर्हति; तत् तेज ऐक्षत इत्य् आदि गौणेक्षण-साहचर्याच् च। राद्धान्तस् तु--- तद् ऐक्षत बहु स्याम् इति बहु-भवन-सङ्कल्प-रूपेक्षणान्वयात्, सद् एव सोम्य इति कारण-वाचि-सच्-छब्द-विषयो नाचेतनं प्रधानम् अपि तु सार्वज्ञ्य-सत्य-सङ्कल्पादि-युक्तं परब्रह्मैवेति निश्चीयते। न चानुमानाकारम् एतद् वाक्यम्, हेत्व्-अनुपादानात्। अन्य-ज्ञानेनान्य-ज्ञानासम्भव-परिजिहीर्षया तु दृष्टान्तोपपादानम्। न च मुख्येक्षण-सम्भवे गौण-परिग्रह-सम्भवः। तेजः प्रभृति-शरीरकस्यान्तर्यामिणो वाचकत्वाद् इति परम् एव ब्रह्म जगत्-कारण-वादि-वेदान्त-वेद्यम् इति। सूत्रार्थश् च--- ईक्षतेर् इति ईक्षति-धात्व्-अर्थः ईक्षणम्। शब्दः प्रमाणं यस्य न भवति तद् अशब्दं--- परोक्तम् आनुमानिकं प्रधानम्। सद् एव सोम्येदम् इति जगत्-कारणतया प्रतिपादितान्वयिनः ईक्षण-व्यापारान् नाचेतनम् अशब्दं तद् अपि तु सर्वज्ञं सत्य-सङ्कल्पं ब्रह्मैव जगत्-कारणम् इति निश्चीयते इति॥५॥
Link copied६ गौणश् चेन् नात्म-शब्दात्॥१।१।६॥
Link copiedतत् तेज ऐक्षत इत्य् अचेतन-गत-गौणेक्षण-साहचर्यात्, तद् ऐक्षत इत्य् अत्र ईक्षतिर् गौण इति चेन् न, आत्म-शब्दात्। सच्-छब्दाभिहिते ईक्षितरि, ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा इति श्रूयमाणाच् चेतन-वाचिनः आत्म-शब्दाद् अयम् ईक्षतिर् मुख्य एवेति प्रतीयते। ऐतदात्म्यम् इदं सर्वम् इति तेजः-प्रभृतीनाम् अपि तद्-आत्मकत्वावगमात् तेजः-प्रभृतीक्षणम् अपि मुख्यम् एवेत्य् अभिप्रायः॥६॥
Link copied७ तन्-निष्ठस्य मोक्षोपदेशात्॥१।१।७॥
Link copiedइतश् च सच्-छब्दाभिहितं न प्रधानम् अपि तु परम् एव ब्रह्म। तत् त्वम् असि इति सद्-आत्मकतया प्रत्यग्-आत्मानुसन्धान-निष्ठस्य, तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ सम्पत्स्य इति मोक्षोपदेशात् तत्-कारणं परम् एव ब्रह्म॥७॥
Link copied८ हेयत्वावचनाच् च॥१।१।८॥
Link copiedयदि प्रधानम् इह कारणतया विवक्षितम्, तदा तस्य मोक्ष-विरोधित्वाद् धेयत्वम् उच्येत। न चोच्यते। अतश् च न प्रधानम्॥८॥
Link copied९ प्रतिज्ञा-विरोधात्॥१।१।९॥
Link copiedप्रधान-वादे प्रतिज्ञा च विरुध्यते, येनाश्रुतं श्रुतम् इति वक्ष्यमाण-कारण-विज्ञानेन चेतनाचेतन-मिश्र-कृत्स्न-प्रपञ्च-ज्ञानं हि प्रतिज्ञातम्। चेतनांशं प्रति प्रधानस्याकारणत्वात्, तज्-ज्ञानेन चेतनांशो न ज्ञायत इति न प्रधानं कारणम्॥९॥
Link copied१० स्वाप्ययात्॥१।१।१०॥
Link copiedस्वम् अपीतो भवति। सता सोम्य तदा सम्पन्नो भवति इति जीवस्य सुषुप्तस्य स्वाप्ययः श्रूयते। स्व-कारणे ह्य् अप्ययः स्वाप्ययः। जीवं प्रति प्रधानस्याकारणत्वात् स्वाप्यय-श्रुतिः विरुध्यते। अतश् च न प्रधानम् अपि तु ब्रह्मैव॥१०॥
Link copied११ गति-सामान्यात्॥१।१।११॥
Link copiedइतरोपनिषद्-गति-सामान्याद् अस्यां चोपनिषदि न प्रधानं कारणं विवक्षितम्। इतरासु चोपनिषत्सु, यः सर्वज्ञः सर्ववित्। तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते, परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च, स कारणं करणाधिपाधिपः, आत्मनि खल्व् अरे विदिते सर्वम् इदं विदितं, तस्य ह वा एतस्य महतो भूतस्य विश्वसितम् एतद् यद् ऋग्-वेदः, पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम्, तस्माद् विराड् अजायत, आत्मा वा इदम् एक एवाग्र आसीत्। स इमान् लोकान् असृजत, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः, एको ह वै नारायण आसीत्। स एकाकी न रमेत इति सर्वज्ञः पुरुषोत्तम एव कारणतया प्रतिपाद्यते। अस्याश् च तद्-गति-सामान्याद् अत्रापि स एव कारणतया प्रतिपादनम् अर्हतीति न प्रधानम्॥११॥
Link copied१२ श्रुतत्वाश् च॥१।१।१२॥
Link copiedश्रुतम् एवास्याम् उपनिषद्य् आत्मत एवेदं सर्वम् इति। अतश् च सद् एव सोम्य इत्य् आदि जगत्-कारण-वादि-वेदान्त-वेद्यं न प्रधानम्। सर्वज्ञं सत्य-सङ्कल्पं परम् एव ब्रह्म इति स्थितम्॥१२॥इति ईक्षत्य्-अधिकरणम्॥५॥
Link copied१।१।६
Link copied१३ आनन्द-मयोऽभ्यासात्॥१।१।१३॥
Link copiedतैत्तिरीयके --- तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इति प्रकृत्य, तस्माद् वा एतस्माद् विज्ञान-मयात्। अन्योऽन्तर आत्मानन्द-मय इत्य् अत्र जगत्-कारणतयावगतः आनन्द-मयः किं प्रत्यग्-आत्मा, उत परमात्मेति संशयः। प्रत्यग्-आत्मेति पूर्वः पक्षः। कुतः। तस्यैष एव शारीर आत्मा इत्य् आनन्द-मयस्य शारीरत्व-श्रवणात्। शारीरो हि शरीर-सम्बन्धी। स च प्रत्यग्-आत्मैव। तस्य चेतनत्वेनेक्षा-पूर्विका सृष्टिर् उपपद्यत इति। राद्धान्तस् तु --- सैषानन्दस्य मीमांसा भवति इत्य् आरभ्य, यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान् इति निरतिशय-दशाशिरस्कोऽभ्यस्यमान आनन्दः प्रत्यग्-आत्मनोऽर्थान्तर-भूतस्य परस्यैव ब्रह्मण इति निश्चीयते। शारीरात्मत्वं च परमात्मन एव, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इत्य् आकाशादि-जगत्-कारणतयावगत एवान्न-मयस्य शारीर आत्मेति प्रतीयते, आत्मान्तरानिर्देशात्। श्रुत्य्-अन्तरेषु पृथिव्य्-अक्षरादीनां शरीरत्वं, परमात्मन आत्मत्वं च श्रूयते यस्य पृथिवी शरीरम् इत्य् आरभ्य, एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायण इति। अन्न-मयस्यात्मैव प्राण-मयादिषु, तस्यैष एव शारीर आत्मा यः पूर्वस्य इत्य् अनुकृष्यत इति प्रत्यग्-आत्मनो विज्ञान-मयस्य च स एव शारीर आत्मा। आनन्द-मये तु, तस्यैष एव शारीर आत्मा यः पूर्वस्य इति निर्देशः आनन्द-मयस्यानन्यात्मत्व-प्रदर्शनार्थः। अतो जगत्-कारणतया निर्दिष्टम् आनन्द-मयः परमात्मैवेति। सूत्रार्थस् तु आनन्द-मय-शब्द-निर्दिष्टः आकाशादि-जगत्-कारण-भूतः प्रत्यग्-आत्मनोऽर्थान्तर-भूतः परमात्मा। कुतः। तस्यानन्दस्य निरतिशय-प्रतीति-बलात्। स एको मानुष आनन्दः। ते ये शतम् इत्य् आद्य् अभ्यासात्, तस्य च प्रत्यग्-आत्मन्य् असम्भावितस्य तद्-अतिरिक्ते परमात्मन्य् एव सम्भवात्॥१३॥
Link copied१४ विकार-शब्दान् नेति चेन् न प्राचुर्यात्॥१।१।१४॥
Link copiedआनन्द-मयः इति विकारार्थान् मयट्-छब्दान् नायम् अविकृतः परमात्मा। अस्य च विकारार्थत्वम् एव युक्तम्, अन्न-मयः इति विकारोपक्रमाद् इति चेन् न, प्रत्यग्-आत्मनोऽपि, न जायते म्रियते वा इत्य् आदि विकार-प्रतिषेधात् प्राचुर्यार्थ एवायं मयड् इति निश्चयात्। अस्मिंश् चानन्दे, यतो वाचो निवर्तन्ते इत्य् आदि वक्ष्यमाणात् प्राचुर्याद् अयम् आनन्द-प्रचुरः परमात्मैव। न ह्य् अनवधिकातिशय-रूपः प्रभूतानन्दः प्रत्यग्-आत्मनि सम्भवति॥१४॥
Link copied१५ तद् धेतु-व्यपदेशाच् च॥१।१।१५॥
Link copiedएष ह्य् एवानन्दयाति इति जीवान् प्रत्य् आनन्दयितृत्व-व्यपदेशाद् अयं परमात्मैव॥१५॥
Link copied१६ मान्त्र-वर्णिकम् एव च गीयते॥१।१।१६॥
Link copiedसत्यं ज्ञानम् अनन्तं ब्रह्म इति मन्त्र-वर्णोदितं ब्रह्मैव, तस्माद् वा एतस्माद् आत्मन इत्य् आरभ्य, आनन्द-मयः इति च गीयते। ततश् चानन्द-मयो ब्रह्म॥१६॥
Link copiedप्रत्यग्-आत्मनः परिशुद्धं स्वरूपं मन्त्र-वर्णोदितम् इत्य् आशङ्क्याह---
Link copied१७ नेतरोऽनुपपत्तेः॥१।१।१७॥
Link copiedपरस्माद् ब्रह्मणः इतरः प्रत्यग्-आत्मा न मन्त्र-वर्णोदितः, तस्य, विपश्चिता ब्रह्मणा इति विपश्चित्त्वानुपपत्तेः। विविधं पश्यच् चित्त्वं हि विपश्चित्त्वम्। तच् च, सोऽकामयत बहु स्यां प्रजायेय इत्य् आदि वाक्योदित-निरुपाधिक-बहु-भवन-सङ्कल्प-रूपं सर्वज्ञत्वम्। तत् तु प्रत्यग्-आत्मनः परिशुद्धस्यापि न सम्भवति, जगद्-व्यापार-वर्जं प्रकरणाद् असन्निहितत्वाच् च इति वक्ष्यमाणत्वात्। अतः परं ब्रह्मैव मान्त्र-वर्णिकम्॥१७॥
Link copied१८ भेद-व्यपदेशाश् च॥१।१।१८॥
Link copiedभीषास्माद् वातः पवते इत्य् आदिना अग्नि-वायु-सूर्यादि-जीव-वर्गस्य आनन्द-मयात् प्रशासितुः प्रशासितव्यत्वेन भेदो व्यपदिश्यते। अतश् चानन्द-मयः परमात्मेति। योजनान्तरम्--- तस्माद् वा एतस्माद् विज्ञान-मयात्। अन्योऽन्तर आत्मानन्द-मय इति विज्ञान-मयाज् जीवाद् आनन्द-मयस्य भेदो व्यपदिश्यति। विज्ञान-मयो हि जीव एव न बुद्धि-मात्रम्, मयट्-च्छ्रुतेः। अतश् चानन्द-मयः परमात्मा॥१८॥
Link copied१९ कामाच् च नानुमानापेक्षा॥१।१।१९॥
Link copiedसोऽकामयत इत्य् आरभ्य, इदं सर्वम् असृजत इति कामाद् एव जगत्-सर्ग-श्रवणाद् अस्यानन्द-मयस्य जगत्-सर्गे नानुमान-गम्य-प्रकृत्य्-अपेक्षा प्रतीयते। प्रत्यग्-आत्मनो यस्य कस्यचिद् अपि सर्गे प्रकृत्य्-अपेक्षास्ति। अतश् चायं प्रत्यग्-आत्मनोऽन्यः परमात्मा॥१९॥
Link copied२० अस्मिन्न् अस्य च तद् योगं शास्ति॥१।१।२०॥
Link copiedरसो वै सः। रसं ह्य् एवायं लब्ध्वानन्दी भवति इत्य् अस्मिन्--- आनन्द-मये रस-शब्द-निर्दिष्टे, अस्य अयं-शब्द-निर्दिष्टस्य, जीवस्य तल्-लब्धादानन्द-योगं शास्ति शास्त्रम्। प्रत्यग्-आत्मनो यल्-लब्धादानन्द-योगः, स तस्माद् अन्यः परमात्मैवेत्य् आनन्द-मयः परं ब्रह्म॥२०॥इत्य् आनन्द-मयाधिकरणम्॥६॥
Link copied१।१।७
Link copied२१ अन्तस् तद्-धर्मोपदेशात्॥१।१।२१॥
Link copiedछान्दोग्ये य एषोऽन्तर् आदित्ये हिरण्मयः पुरुषो दृश्यते, य एषोऽन्तर्-अक्षिणि पुरुषो दृश्यते इत्य् अक्ष्यादित्याधारतया श्रूयमाणः पुरुषः किं जीव-विशेषः, उत परम-पुरुष इति संशयः। जीव-विशेष इति पूर्व-पक्षः। कुतः। सशरीरत्वात्। शरीर-संयोगो हि कर्म-वश्यस्य जीवस्य स्व-कर्म-फल-भोगायेति। राद्धान्तस् तु--- स एष सर्वेभ्यः पाप्मभ्य उदितः इत्य् आदिना अपहत-पाप्मत्व-पूर्वक-सर्व-लोक-कामेशत्वोपदेशात्, तेषां च जीवेष्व् असम्भवात्, अयम् अक्ष्यादित्याधारः पुरुषोत्तम एव। स्वासाधारण-विलक्षण-रूपवत्त्वं च ज्ञान-बलैश्वर्य्-आदि-कल्याण-गुणवत्तस्य सम्भवति। श्रूयते च तद्-रूपस्य अप्राकृतत्वम्। आदित्य-वर्णं तमसस् तु पारे इत्य् आदौ। सूत्रार्थस् तु--- आदित्याद्य्-अन्तः श्रूयमाणः पुरुषः परं ब्रह्म। तद्-असाधारणापहत-पाप्मत्वादि-धर्मोपदेशात्॥२१॥
Link copied२२ भेद-व्यपदेशाच् चान्यः॥१।१।२२॥
Link copiedय आदित्ये तिष्ठन्न् आदित्याद् अन्तरः, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरः इत्य् आदिभिः जीवाद् भेद-व्यपदेशाच् चायं जीवाद् अन्यः परमात्मैव॥२२॥इत्य् अन्तर्-अधिकरणम्॥७॥
Link copied१।१।८
Link copied२३ आकाशस् तल्-लिङ्गात्॥१।१।२३॥
Link copied(छान्दोग्ये)--- अस्य लोकस्य का गतिः इत्य् आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति इत्य् अत्र आकाश-शब्द-निर्दिष्टं जगत्-कारणं किं प्रसिद्धाकाशः उत समस्त-चिद्-अचिद्-वस्तु-विलक्षणं ब्रह्मेति संशयः। प्रसिद्धाकाशः इति पूर्व-पक्षः। कुतः। आकाश-शब्दस्य लोके तत्रैव व्युत्पत्तेः, यतो वा इमानि भूतानि इत्य् आदि सामान्य-लक्षणस्य सद्-आदि-शब्दानाम् अपि साधारणत्वेन, आकाशद् एव समुत्पद्यन्ते, इति विशेषे पर्यवसानात्। ईक्षणादयोऽप्य् आकाश एव जगत्-कारणम् इति निश्चिते सति गौणा वर्णनीया इति। राद्धान्तस् तु--- सर्वाणि ह वा इमानि भूतानि इति प्रसिद्धवन् निर्देशात्, प्रसिद्धेश् चेक्षा-पूर्वकत्वात् चिद्-अचिद्-वस्तु-विलक्षणं सर्वज्ञं ब्रह्माकाश-शब्द-निर्दिष्टम् इति। सूत्रार्थस् तु--- आकाश-शब्द-निर्दिष्टं परम् एव ब्रह्म, प्रसिद्धवन् निर्दिश्यमानाज् जगत्-कारणत्वादि-लिङ्गात्॥२३॥इत्य् आकाशाधिकरणम्॥८॥
Link copied१।१।९
Link copied२४ अत एव प्राणः॥१।१।२४॥
Link copiedछान्दोग्ये--- प्रस्तोतर्या देवता प्रस्तावम् अन्वायत्ता इति प्रस्तुत्य, कतमा सा देवतेति। प्राण इति होवाच, सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसंविशन्ति; प्राणम् अभ्युज्जिहते, सैषा देवता प्रस्तावम् अन्वायत्ता इत्य् अत्र निखिल-जगत्-कारणतया प्राण-शब्द-निर्दिष्टः किं प्रसिद्धः प्राणः, उतोक्त-लक्षणं ब्रह्मेति संशयः। प्रसिद्ध-प्राण इति पूर्व-पक्षः। कुतः सर्वस्य जगतः प्राणायत्त-स्थिति-दर्शनात्, स एव निखिल-जगद्-एक-कारणतया निर्देशम् अर्हतीति। राद्धान्तस् तु--- शिला-काष्टादिष्व् अचेतनेषु चेतन-स्वरूपेषु च प्राणायत्त-स्थित्य्-अभावत्, सर्वाणि ह वा इमानि भूतानि इति प्रसिद्धवन् निर्देशाद् एव हेतोः प्राण-शब्द-निर्दिष्टं परम् एव ब्रह्म। सूत्रम् अपि व्याख्यातम्॥२४॥इति प्राणाधिकरणम्॥९॥
Link copied१।१।१०
Link copied२५ ज्योतिश् चरणाभिधानात्॥१।१।२५॥
Link copiedछान्दोग्ये अथ यद् अतः परो दिवो ज्योतिर् दीप्यते विश्वतः पृष्टेषु सर्वतः पृष्ठेष्व् अनुत्तमेषूत्तमेषु लोकेषु इदं वा व तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः इत्य् अत्र जगत्-कारणत्व-व्याप्त-निरतिशय-दीप्ति-युक्ततया ज्योतिः-शब्द-निर्दिष्टं किं प्रसिद्धाद् इत्य् आदि ज्योतिः, उत परम् एव ब्रह्मेति संशयः। प्रसिद्ध-ज्योतिर् इति पूर्व-पक्षः। कुतः। इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः इति कौक्षेय-ज्योतिषा प्रसिद्धेनैक्यावगमात्, स्व-वाक्ये तद्-अतिरिक्त-परब्रह्मासाधारण-लिङ्गादर्शनाच् च। राद्धान्तस् तु--- प्रसिद्ध-ज्योतिषोऽन्यद् एव परं ब्रह्मेह निरतिशय-दीप्ति-युक्तं ज्योतिः-शब्द-निर्दिष्टम्। कुतः। पादोऽस्य सर्वा भूतानि त्रि-पादस्यामृतं दिवि इति पूर्व-वाक्ये द्यु-सम्बन्धितया निर्दिष्टस्यैव चतुष्पदो ब्रह्मणः, अथ यद् अतः परो दिवो ज्योतिः इत्य् अत्र प्रत्यभिज्ञानात्। तच् च परम् एव ब्रह्मेति विज्ञातम्, सर्वेषां भूतानां तस्य पादत्वेन व्यपदेशात्। एवं परब्रह्मत्वे निश्चिते कौक्षेय-ज्योतिषः तद्-आत्मकत्वानुसन्धानं फलयोपदिश्यत इति ज्ञायते। सूत्रार्थस् तु--- ज्योतिः-शब्द-निर्दिष्टं परं ब्रह्म, अस्य ज्योतिषः पूर्व-वाक्ये सर्व-भूत-चरणत्वाभिधानात्। सर्व-भूत-पादत्वं च परस्यैव ब्रह्मण उपपद्यते॥२५॥
Link copied२६ छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पण-निगमात् तथा हि दर्शनम्॥१।१।२६॥
Link copiedगायत्री वा इदं सर्वम् इति गायत्र्य्-आख्य-च्छन्दसः प्रकृतत्वात् सर्व-भूत-पादत्वेन गायत्र्या एवाभिधानान् न ब्रह्मेति चेत्, नैतत्। तथा चेतोऽर्पण-निगमात्--- गायत्री यथा भवति तथा ब्रह्मणि चेतोऽर्पणोपदेशात्। गायत्री-सादृश्यं चतुष्पात्त्वं ब्रह्मण्य् अनुसन्धेयम् इत्य् उपदिश्यते। गायत्र्याः सर्वात्मकत्वानुपपत्तेर् इत्य् अर्थः। तथा हि दर्शनं तथा ह्य् अन्यत्राप्य् अछन्दस एव सादृश्याच् छन्दः-शब्देनाभिधानं दृश्यते ते वा एते पञ्चान्ये पञ्चान्ये दश सम्पद्यन्त इत्य् आरभ्य सैषा विराड् अन्नात् इति॥२६॥
Link copied२७ भूतादि-पाद-व्यपदेशोपपत्तैश् चैवम्॥१।१।२७॥
Link copiedभूत-पृथिवी-शरीर-हृदयानि निर्दिश्य सैषा चतुष्पदा इति भूतादीनां पादत्व-व्यपदेशो ब्रह्मण्य् एवोपपद्यत इति ब्रह्मैव गायत्री-शब्द-निर्दिष्टम् इति गम्यते॥२७॥
Link copied२८ उपदेश-भेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात्॥१।१।२८॥
Link copiedपादोऽस्य सर्वा भूतानि त्रि-पादस्यामृतं दिवि इति पूर्व-वाक्योदितं परं ब्रह्मैवास्तु; तथाप्य् अथ यद् अतः परो दिवो ज्योतिः इति द्यु-सम्बन्ध-मात्रेण नेह तत् प्रत्यभिज्ञायते; तत्र चात्र चोपदेश-प्रकार-भेदात्; तत्र हि दिवि इति द्याः सप्तम्या निर्दिश्यते, इह च दिवः परो ज्योतिः इति पञ्चम्या, ततो न प्रतिसन्धानम् इति चेन् न, उभयस्मिन्न् अपि व्यपदेश उपरि-स्थिति-रूपार्थैक्येन प्रतिसन्धानाविरोधात्। यथा वृक्षाग्रे श्येनः, वृक्षाग्रात् परतः श्येन इति॥२८॥इति ज्योतिर्-अधिकरणम्॥१०॥
Link copied१।१।११
Link copied२९ प्राणस् तथानुगमात्॥१।१।२९॥
Link copiedकौषीतकी-ब्राह्मणे प्रतर्दन-विद्यायां त्वम् एव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे इति प्रतर्देनोक्त इन्द्रः प्राणोऽस्मि प्रज्ञात्मा तं माम् आयुर् अमृतम् इत्य् उपास्स्व इत्य् आह। अत्र हिततमोपासन-कर्मतया निर्दिष्ट इन्द्र-प्राण-शब्दाभिधेयः किं जीवः। उत परमात्मेति संशयः। जीव इति पूर्वः पक्षः। कुतः। इन्द्र-शब्दस्य जीव-विशेषे प्रसिद्धेः, प्राण-शब्दस्यापि तत्-समानाधिकरणस्य स एवार्थ इति तं माम् आयुर् अमृतम् इत्य् उपास्व इति तस्यैवोपास्यत्वोपदेशाद् इति। राद्धान्तस् तु--- इन्द्र-प्राण-शब्द-निर्दिष्टं जीवाद् अर्थान्तर-भूतं परं ब्रह्म स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृत इतीन्द्र-प्राण-शब्द-निर्दिष्टस्यैव जीवेष्व् असम्भावितानन्दत्वाजरत्वामृतत्व-श्रवणात्। सूत्रार्थस् तु--- उपास्यतयोपदिष्टम् इन्द्र-प्राण-शब्दाभिधेयं परं ब्रह्म। तथेति प्रकार-वचनः परब्रह्म-प्रकार-भूतेष्व् आनन्दादिष्व् अस्यानुगमात्॥२९॥
Link copied३० न वक्तुरात्मोपदेशाद् इति चेद् अध्यात्म-सम्बन्ध-भूमा ह्य् अस्मिन्॥१।१।३०॥
Link copiedनायम् उपास्यः परमात्मा, माम् एव विजानीहि तं माम् आयुर् अमृतम् इत्य् उपास्व इति प्रज्ञात-जीवस्येन्द्रस्य वक्तुः स्वात्मन उपास्यत्वोपदेशात्, उपक्रमे जीव-भाव-निश्चये सत्य् उपसंहारस्य तद्-अनुगुणतया नेयत्वाद् इति चेन् न। अध्यात्मसम्बन्धभूमा ह्यस्मिन् आत्मनि सम्बन्धः--- अध्यात्मसम्बन्धः तस्य भूमा बहुत्वम्। जीवाद् अर्थान्तर-भूतात्मासाधारण-धर्म-सम्बन्ध-बहुत्वम् अस्मिन् प्रकरणे उपक्रम-प्रभृत्योपसंहाराद् उपलभ्यते। उपक्रमे तावद् यं त्वं मनुष्याय हिततमं मन्यसे इति ह्य् अनेनोच्यमानम् उपासनं परमात्मोपासनम् एव, तस्यैव हिततमत्वात्। तथा एष एव साधु कर्म कारयति इत्य् आदि साध्व्-असाधु-कर्मणोः कारयितृत्वं परमात्मान एव धर्मः। तद्य् अथा रथस्यारेषु नेमिर् अर्पिता नाभावरा अर्पिताः एवम् एवैता भूत-मात्राः प्रज्ञा-मात्रास्व् अर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः इति सर्वाधारत्वं च तस्यैव धर्मः। आनन्दादयश् च। एष लोकाधिपतिर् एष सर्वेश इति च। हीति हेतौ। अतः परब्रह्मैवायम् इत्य् अर्थः॥३०॥
Link copiedपरमात्मैवोपास्यश् चेत् कथम् इन्द्रो माम् उपास्व इत्य् उपादिदेशेत्य् अत आह---
Link copied३१ शास्त्र-दृष्ट्या तूपदेशो वामदेववत्॥१।१।३१॥
Link copiedइन्द्रस्य जीवस्यैव सतः स्वात्मत्वेनोपास्य-भूत-परमात्मोपदेशोऽयं शास्त्र-दृष्ट्या। अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा। तत् त्वम् असि। य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः। एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः इत्य् आदीनि हि शास्त्राणि परमात्मानं जीवात्मन आत्मतयोपदिदिशुः। अतो जीवात्म-वाचिनः शब्दाः जीवात्म-शरीरकं परमात्मानम् एव वदन्तीति शास्त्र-दृष्टार्थस्य तस्य माम् एव विजानीहि। माम् उपास्स्व इति स्वात्म-शब्देन परमात्मोपदेशोऽयं न विरुद्ध्यते। यथा वामदेवः शास्त्र-दृष्ट्या स्वात्म-शरीरकं परमात्मानं पश्यन्न् अहम् इति परमात्मानम् अवोचत्। तद् धैतत् पश्यन्न् ऋषिर् वामदेवः प्रतिपेदे अहं मनुर् अभवं सूर्यश् चाहं कक्षीवान् ऋषिर् अस्मि विप्रः इति॥३१॥
Link copied३२ जीव-मुख्य-प्राण-लिङ्गान् नेति चेन् नोपासा-त्रैविध्याद् आश्रितत्वाद् इह तद्-योगात्॥१।१।३२॥
Link copiedत्रिशिर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छम्। यावद् ध्य् अस्मिञ् शरीरे प्राणो वसति तावद् आयुः इति जीव-मुख्य-प्राण-लिङ्गात् नाध्यात्म-सम्बन्ध-भूम्ना परमात्मत्व-निश्चय इति चेन् न। परमात्मन एव स्वाकारेण जीव-शरीरकत्वेन, प्राण-शरीरकत्वेन चोपासा-त्रैविध्याद् धेतोः तत्-तच्-छब्देनाभिधानम् इति निश्चीयते। अन्यत्रापि ब्रह्मोपासने त्रैविध्यस्याश्रितत्वात् सत्यं ज्ञानम् अनन्तं ब्रह्म। आनन्दो ब्रह्म इति स्वाकारेणोपास्यत्वं सच् च त्यच् चाभवत् इत्य् आदिना भोक्तृ-शरीरकत्वेन भोग्य-शरीरकत्वेन च। इह प्रतर्दन-विद्यायाम् अपि तस्य त्रैविध्यस्य सम्भवात्। अत इन्द्र-प्राण-शब्द-निर्दिष्टः परमात्मा॥३२॥इति इन्द्र-प्राणाधिकरणम्॥११॥
Link copiedइति श्री-रामानुजाचार्य-रचिते श्री-वेदान्तदीपे प्रथमस्याध्यायस्य प्रथमः पादः॥
Link copiedశ్రియః కాన్తోఽనన్తో వర-గుణ-గణైకాస్పద-వపుః
Link copiedహతాశేషావద్యః పరమ-ఖపదో వాఙ్-మనసయోః।
Link copiedఅభూమిర్ భూమిర్ యో నత-జన-దృశామ్ ఆది-పురుషో
Link copiedమనస్ తత్-పాదాబ్జే పరిచరణ-సక్తం భవతు మే॥
Link copiedప్రణమ్య శిరసాచార్యాంస్ తద్-ఆదిష్టేన వర్త్మనా।
Link copiedబ్రహ్మసూత్ర-పదాన్త-స్థ-వేదాన్తార్థః ప్రకాశ్యతే॥
Link copiedఅత్రేయమ్ ఏవ హి వేద-విదాం ప్రక్రియా అచిద్-వస్తునః స్వరూపతః స్వభావతశ్ చాత్యన్త-విలక్షణః తద్-ఆత్మ-భూతః చేతనః ప్రత్యగాత్మా। తస్మాద్ బద్ధాన్ ముక్తాన్ నిత్యాచ్ చ నిఖిల-హేయ-ప్రత్యనీకతయా, కల్యాణ-గుణైకతానతయా చ, సర్వావస్థ-చిద్-అచిద్-వ్యాపకతయా ధారకతయా నియన్తృతయా శేషితయా చాత్యన్త-విలక్షణః పరమాత్మా। యథోక్తం భగవతా--- ద్వావ్ ఇమౌ పురుషౌ లోకే క్షరశ్ చాక్షర ఏవ చ। క్షరః సర్వాణి భూతాని కూటస్థోఽక్షర ఉచ్యతే। ఉత్తమః పురుషస్ త్వ్ అన్యః పరమాత్మేత్య్ ఉదాహృతః। యో లోక-త్రయమ్ ఆవిశ్య బిభర్త్య్ అవ్యయ ఈశ్వరః। యస్మాత్ క్షరమ్ అతీతోఽహమ్ అక్షరాద్ అపి చోత్తమః। అతోఽస్మి లోకే వేదే చ ప్రథితః పురుషోత్తమ ఇతి।
Link copiedశ్రుతిశ్ చ--- ప్రధాన-క్షేత్రజ్ఞ-పతిర్ గుణేశః, పతిం విశ్వస్యాత్మేశ్వరమ్, అన్తర్ బహిశ్ చ తత్ సర్వం వ్యాప్య నారాయణః స్థితః ఇత్య్ ఆదికా। కూటస్థః--- ముక్త-స్వరూపమ్। యే త్వ్ అక్షరమ్ అనిర్దేశ్యమ్ అవ్యక్తం పర్యుపాసతే। సర్వత్రగమ్ అచిన్త్యం చ కూటస్థమ్ అచలం ధ్రువమ్ ఇత్య్ ఆది వ్యపదేశాత్। సూత్ర-కారశ్ చైవమ్ ఏవ వదతి నేతరోఽనుపపత్తేః, భేదవ్యపదేశాత్। అనుపపత్తేస్ తు న శారీరః, కర్మ-కర్తృ-వ్యపదేశాచ్ చ, శబ్ద-విశేషాత్, సమ్భోగ-ప్రాప్తిర్ ఇతి చేన్ న వైశేష్యాత్, న చ స్మార్త-మత-ధర్మాభిలాపాచ్ ఛారీరశ్ చ, ఉభయేఽపి హి భేదేనైనమ్ అధీయతే, విశేషణ-భేద-వ్యపదేశాభ్యాం చ నేతరౌ, ముక్తోపసృప్యవ్యపదేశాచ్ చ, స్థిత్య్-అదనాభ్యాం చ, ఇతర-పరామర్శాత్ స ఇతి చేన్ నాసమ్భవాత్, ఉత్తరాచ్ చేద్ ఆవిర్భూత-స్వరూపస్ తు, సుషుప్త్య్ ఉత్క్రాన్త్యోర్ భేదేన, పత్య్-ఆది-శబ్దేభ్యః। అధికం తు భేద-నిర్దేశాత్। అధికోపదేశాత్ తు బాదరాయణస్యైవ తద్-దర్శనాత్। జగద్-వ్యాపార-వర్జం ప్రకరణాద్ అసన్నిహితత్వాచ్ చ, భోగ-మాత్ర-సామ్య-లిఙ్గాచ్ చ ఇత్య్ ఆదిభిః। న చావిద్యా-కృతమ్ ఉపాధికృతం వా భేదమ్ ఆశ్రిత్యైతే నిర్దేశాః। ఇదం జ్ఞానమ్ ఉపాశ్రిత్య మమ సాధర్మ్యమ్ ఆగతాః సర్గేఽపి నోపజాయన్తే ప్రలయే న వ్యథన్తి చ, తదా విద్వాన్ పుణ్య-పాపే విధూయ నిరఞ్జనః పరమం సామ్యమ్ ఉపైతి, ముక్తోపసృప్య వ్యపదాశాచ్ చ, ఉత్తరాచ్ చేద్ ఆవిర్భూత-స్వరూపస్ తు, సమ్పద్యావిర్భావః స్వేన-శబ్దాత్, జగద్-వ్యాపార-వర్జం ప్రకరణాద్ అసన్నిహితత్వాచ్ చ, భోగ-మాత్ర-సామ్య-లిఙ్గాచ్ చ, ఇతి సర్వావిద్యోపాధి-వినిర్ముక్తమ్ అధికృత్యైవ భేదోపపాదనాత్। శ్రుతి-స్మృతి-సూత్రేషు సర్వత్ర భేదే నిర్దిష్టే చిద్-అచిద్-ఈశ్వర-స్వరూప-భేదః స్వాభావికో వివక్షిత ఇతి నిశ్చీయతే। సర్వం ఖల్వ్ ఇదం బ్రహ్మ తజ్ జలాన్ ఇతి శాన్త ఉపాసీత, వాచారమ్భణం వికారో నామధేయం మృత్తికేత్య్ ఏవ సత్యమ్, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయం తద్ ఐక్షత బహు స్యాం ప్రజాయేయేతి తత్ తేజోఽసృజత, సన్-మూలాః సోమ్యేమాః సర్వాః ప్రజాః సద్-ఆయతనాః సత్-ప్రతిష్ఠాః, ఐతదాత్మ్యమ్ ఇదం సర్వం తత్ సత్యం స ఆత్మా తత్ త్వమ్ అసి శ్వేతకేతో, క్షేత్రజ్ఞం చాపి మాం విద్ధి, తద్-అనన్యత్వమ్ ఆరమ్భణ-శబ్దాదిభ్య ఇతి పరస్య బ్రహ్మణః కారణత్వం, కృత్స్నస్య చిద్-అచిద్-ఆత్మక-ప్రపఞ్చస్య కార్యత్వం, కారణాత్ కార్యస్యానన్యత్వం చోచ్యమానమ్ ఏవమ్ ఏవోపపద్యతే। సర్వావస్థస్య చిద్-అచిద్-వస్తునః పరమాత్మ-శరీరత్వం, పరమాత్మనశ్ చాత్మత్వం, యః పృథివ్యాం తిష్ఠన్ యస్య పృథివీ శరీరం, య ఆత్మని తిష్ఠన్ యస్యాత్మా శరీరం య ఆత్మానమ్ అన్తరో యమయతి, యస్యావ్యక్తం శరీరం యస్యాక్షరం శరీరం యస్య మృత్యుః శరీరమ్, ఏష సర్వ-భూతాన్తరాత్మాపహత-పాప్మా దివ్యో దేవ ఏకో నారాయణః, అన్తః ప్రవిష్టః శాస్తా జనానాం సర్వాత్మా ఇత్య్ ఆది శ్రుత్యైవోపదిష్టమ్ ఇతి సూక్ష్మ-చిద్-అచిద్-వస్తు-విశిష్టః పరమాత్మా కారణమ్, స ఏవ పరమాత్మా స్థూల-చిద్-అచిద్-వస్తు-శరీరః కార్యమ్ ఇతి, కారణావస్థాయాం కార్యావస్థాయాం చ చిద్-అచిద్-వస్తు-శరీరకతయా తత్-ప్రకారః పరమాత్మైవ సర్వ-శబ్ద-వాచ్య ఇతి పరమాత్మ-శబ్దేన సర్వ-శబ్ద-సామానాధికరణ్యం ముఖ్యమ్ ఏవోపపన్నతరమ్। అనేన జీవేనాత్మనానుప్రవిశ్య నామ-రూపే వ్యాకరవాణి, తత్ సృష్ట్వా తద్ ఏవానుప్రావిశత్ తద్ అనుప్రవిశ్య సచ్ చ త్యచ్ చాభవత్ ఇత్య్ ఆది శ్రుతిర్ ఏవేమమ్ అర్థమ్ ఉపపాదయతి। సర్వమ్ ఆత్మతయానుప్రవిశ్య తచ్-ఛరీరత్వేన సర్వ-ప్రకారతయా స ఏవ సర్వ-శబ్ద-వాచ్యో భవతీత్య్ అర్థః। బహు స్యామ్ ఇతి బహు-భవన-సఙ్కల్పోఽపి నామ-రూప-విభాగానర్హాతిసూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరకతయైకధావస్థితస్య విభక్త-నామ-రూప-చిద్-అచిత్ శరీరకతయా బహు-ప్రకారతా-విషయః, ఇతి వేదవిత్-ప్రక్రియా।
Link copiedయే పునర్ నిర్విశేష-కూటస్థ-స్వ-ప్రకాశ-నిత్య-చైతన్య-మాత్రం బ్రహ్మ జ్ఞాత-వ్యతయోక్తమ్ ఇతి వదన్తి, తేషామ్, జన్మాద్యస్య యతః, శాస్త్ర-యోనిత్వాత్, తత్ తు సమన్వయాత్, ఈక్షతేర్ నాశబ్దమ్ ఇత్య్ ఆదేః--- జగద్-వ్యాపార-వర్జం, ప్రకరణాద్ అసనన్నిహితత్వాచ్ చ, భోగ-మాత్ర-సామ్య-లిఙ్గాచ్ చ, అనావృత్తిః శబ్దాద్ అనావృత్తిః శబ్దాత్ ఇత్య్ అన్తస్య సూత్ర-గణస్య బ్రహ్మణో జగత్-కారణత్వ-బహు-భవన-సఙ్కల్ప-రూపేక్షణాద్య్-అనన్త-విశేష-ప్రతిపాదన-పరత్వాత్సర్వం సూత్ర-జాతం, సూత్ర-కారోదాహృతాః, యతో వా ఇమాని భూతాని జాయన్తే, తద్ ఐక్షత బహు స్యాం ప్రజాయేయేతి ఇత్య్ ఆద్యాః సర్వ-శ్రుతయశ్ చ న సఙ్గచ్ఛన్తే। అథోచ్యేత యేనాశ్రుతం శ్రుతమ్ ఇత్య్ ఏక-విజ్ఞానేన సర్వ-విజ్ఞానం ప్రతిజ్ఞాయ, యథా సోమ్యైకేన మృత్-పిణ్డేన ఇత్య్ ఏక-మృత్-పిణ్డారబ్ధ-ఘట-శరావాదీనాం తన్-మృత్-పిణ్డాద్ అనన్య-ద్రవ్యతయా తజ్-జ్ఞానేన తేషాం జ్ఞాతతేవ, బ్రహ్మ-జ్ఞానేన తద్-ఆరబ్ధస్య కృత్స్నస్య చిద్-అచిద్-ఆత్మకస్య జగతస్ తస్మాద్ అనతిరిక్త-వస్తుతయా జ్ఞాతతా సమ్భవతీత్య్ ఉపపాద్య, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ ఇతీదం శబ్ద-వాచ్యస్య చిద్-అచిద్-ఆత్మక-ప్రపఞ్చస్య సృష్టేః ప్రాఙ్-నిఖిల-భేద-ప్రహాణేన సచ్-ఛబ్ద-వాచ్యేనైకతాపత్తిం ఘట-శరావాద్య్-ఉత్పత్తేః ప్రాగ్-ఉత్పాదక-మృత్-పిణ్డైకతాపత్తివత్ అభిధాయ, తద్ ఐక్షత బహు స్యామ్ ఇతి తద్ ఏవ సచ్-ఛబ్ద-వాచ్యం బ్రహ్మ చిద్-అచిద్-ఆత్మక-ప్రపఞ్చ-రూపేణాత్మనో బహు-భవనమ్ ఏక-మృత్-పిణ్డస్య ఘట-శరావాది-రూపేణ బహు-భవనవత్ సఙ్కల్ప్య ఆత్మానమ్ ఏవ తేజః ప్రభృతి-జగద్-ఆకారేణ అసృజతేతి చాభిధాయ, ఐతదాత్మ్యమ్ ఇదం సర్వం తత్ సత్యం స ఆత్మా తత్ త్వమ్ అసి ఇత్య్ అభిధానాత్ బ్రహ్మైవావిద్యాకృతేన పారమార్థికేన వోపాధినా సమ్బద్ధం దేవాది-రూపేణ బహు-భూతమ్ ఇతి వేదవిద్భిర్ అభ్యుపగన్తవ్యమ్ ఇతి। తద్ అయుక్తమ్, జ్ఞాజ్ఞౌ ద్వావ్ అజావ్ ఈశనీశౌ, నిత్యో నిత్యానాం చేతనశ్ చేతనానామ్ ఏకో బహూనాం యో విదధాతి కామాన్ ఇత్య్ ఆది శ్రుతిభిర్ జీవానామ్ అజత్వ-నిత్యత్వ-బహుత్వ-వచనాత్। యది ఘట-శరావాదేర్ ఉత్పత్తేః ప్రాగ్ ఏకీభూతస్య మృద్-ద్రవ్యస్య ఉత్పత్త్య్-ఉత్తర-కాల-భావి-బహుత్వవత్ సృష్టేః ప్రాగ్ ఏకీభూతస్యైవ బ్రహ్మణః సృష్ట్య్-ఉత్తర-కాలీనం నానా-విధ-జీవ-రూపేణ బహుత్వమ్ ఉచ్యతే, తదా జీవానామ్ అజత్వ-నిత్యత్వ-బహుత్వాది విరుధ్యేత। సూత్ర-విరోధశ్ చ ఇతర-వ్యపదేశాద్ హితాకరణాది-దోష-ప్రసక్తిః ఇతి బ్రహ్మైవ దేవ-మనుష్యాది-జీవ-స్వరూపేణ బహు-భూతం చేద్ ఆత్మనో హితాకరణాది-దోష-ప్రసక్తిర్ ఇత్య్ ఉక్త్వా, అధికం తు భేద-నిర్దేశాద్ ఇతి జీవాద్ బ్రహ్మణోఽర్థాన్తరత్వమ్ ఉక్తమ్। తథా చ వైషమ్య-నైర్ఘృణ్యే న సాపేక్షత్వాద్ ఇతి దేవాది-విషమ-సృష్టి-ప్రయుక్త-పక్ష-పాత-నైర్ఘృణ్యే, జీవానాం పూర్వ-పూర్వ-కర్మాపేక్షత్వాద్ విషమ-సృష్టేః ఇతి పరిహృతే। తథా న కర్మావిభాగాద్ ఇతి చేన్ నానాదిత్వాద్ ఉపపద్యతే చాప్యుపలభ్యతే చ ఇతి, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ ఇతి సృష్టేః ప్రాగ్-అవిభాగ-వచనాత్ సృష్టేః ప్రాగ్ జీవానామ్ అభావాత్ తత్-కర్మ న సమ్భవతీతి పరిచోద్య, జీవానాం తత్-కర్మ-ప్రవాహాణాం చానాదిత్వాద్ ఇతి పరిహృతమ్। నాత్మా శ్రుతేర్ నిత్యత్వాచ్ చ తాభ్యః ఇత్య్ ఆత్మన ఉత్పత్త్య్-అభావశ్ చోక్తో నిత్యత్వం చ స్వాభ్యుపగమ-విరోధశ్చ। ఆమోక్షాజ్ జీవ-భేదస్యానాదిత్వం సర్వైర్ ఏవ హి వేదాన్తిభిర్ అభ్యుపగమ్యతే। అతః శ్రుతి-విరోధాత్ సూత్ర-విరోధాత్ స్వాభ్యుపగ-విరోధాచ్ చ సృష్టేః ప్రాగ్ ఏకత్వావధారణం నామ-రూప-విభాగాభావాభిప్రాయం, నామ-రూప-విభాగానర్హాసూక్ష్మ-చిద్-అచిద్-వస్తు-శక్తి-భేద-సహం చేతి సర్వైర్ అభ్యుపగమ్యతే। ఇయాంస్ తు విశేషః--- అవిద్యా-పరికల్పనేఽప్య్ ఉపాధిపరి-కల్పనేఽపి బ్రహ్మ-వ్యతిరిక్తస్యావిద్యా-సమ్బన్ధినశ్ చోపాధిసమ్బన్ధినః చేతనస్యాభావాద్ అవిద్యోపాధి-సమ్బన్ధౌ తత్-కృతాశ్ చ దోషా బ్రహ్మణ ఏవ భవేయుర్ ఇతి।
Link copiedసన్-మాత్ర-బ్రహ్మ-వాదేఽపి ప్రాక్సృష్టేః సన్-మాత్రం బ్రహ్మైకమ్ ఏవ సృష్ట్య్-ఉత్తర-కాలం భోక్తృ-భోగ్య-నియన్తృ-రూపేణ త్రిధా-భూతం చేద్ ఘట-శరావ-మణికవజ్ జీవేశ్వరయోర్ ఉత్పత్తిమత్త్వమ్ అనిత్యత్వం చ స్యాత్। అథైకత్వాపత్తి-వేలాయామ్ అపి భోక్తృ-భోగ్య-నియన్తృ-శక్తి-త్రయమ్ అవస్థితమ్ ఇతి చేత్, కిమ్ ఇదం శక్తి-త్రయ-శబ్ద-వాచ్యమ్ ఇతి వివేచనీయమ్। యది సన్-మాత్రస్యైకస్యైవ భోక్తృ-భోగ్య-నియన్తృ-రూపేణ పరిణామ-సామర్థ్యం శక్తి-త్రయ-శబ్ద-వాచ్యమ్, ఏవం తర్హి మృత్-పిణ్డస్య ఘట-శరావాది-పరిణామ-సమర్థస్య తద్-ఉత్పాదకత్వమ్ ఇవ బ్రహ్మణ ఈశ్వరాదీనామ్ ఉత్పాదకత్వమ్ ఇతి తేషామ్ అనిత్యత్వమ్ ఏవ। అథేశ్వరాదీనాం సూక్ష్మ-రూపేణావస్థితిర్ ఏవ శక్తిర్ ఇత్య్ ఉచ్యేత, తర్హి తద్-అతిరిక్తస్య సన్-మాత్రస్య బ్రహ్మణః ప్రమాణాభావాత్ తద్-అభ్యుపగమే చ తద్-ఉత్పాద్యతయేశ్వరాదీనామ్ అనిత్యత్వ-ప్రసఙ్గాచ్ చ త్రయాణాం నామ-రూప-విభాగానర్హ-సూక్ష్మ-దశాపత్తిర్ ఏవ ప్రాక్సృష్టేర్ ఏకత్వావధారణావసేయేతి వక్తవ్యమ్। న తదా తేషాం బ్రహ్మాత్మకత్వావధారణం విరుధ్యతే। అతః సర్వావస్థావస్థితస్య చిద్-అచిద్-వస్తునః బ్రహ్మ-శరీరత్వ-శ్రుతేః సర్వదా సర్వ-శబ్దైర్ బ్రహ్మైవ తత్-తచ్-ఛరీరకతయా తత్-తద్-విశిష్టమ్ ఏవాభిధీయత ఇతి స్థూల-చిద్-అచిద్-వస్తు-విశిష్టం బ్రహ్మైవ కార్య-భూతం జగత్, నామ-రూప-విభాగానర్హ-సూక్ష్మ-చిద్-అచిద్-వస్తు-విశిష్టం బ్రహ్మ-కారణమ్ ఇతి తద్ ఏవ మృత్-పిణ్డ-స్థానీయమ్, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ ఇత్య్ ఉచ్యతే, తద్ ఏవ విభక్త-నామ-రూప-చిద్-అచిద్-వస్తు-విశిష్టం బ్రహ్మ కార్యమ్ ఇతి సర్వం సమఞ్జసమ్। శ్రుతి-న్యాయ-విరోధస్ తు తేషాం భాష్యే ప్రపఞ్చిత ఇతి నేహ ప్రతన్యతే। భాష్యోదితః అధికరణార్థః ససూత్రార్థ-వివరణః సుఖ-గ్రహణాయ సఙ్క్షేపేణోపన్యస్యతే।
Link copiedశారీరకాధ్యాయ-పాదార్థ-సఙ్గ్రహః
Link copiedతత్ర ప్రథమే పాదే ప్రధాన-పురుషావ్ ఏవ జగత్-కారణతయా వేదాన్తాః ప్రతిపాదయన్తీత్య్ ఆశఙ్క్య సర్వజ్ఞం సత్య-సఙ్కల్పం నిరవద్యం సమస్త-కల్యాణ-గుణాకరం బ్రహ్మైవ జగత్-కారణతయా ప్రతిపాదయన్తీత్య్ ఉక్తమ్। ద్వితీయ-తృతీయ-చతుర్థ-పాదేషు కానిచిద్ వేదాన్త-వాక్యాని ప్రధానాది-ప్రతిపాదన-పరాణీతి తన్-ముఖేన సర్వాక్షేపమ్ ఆశఙ్క్య తాన్య్ అపి బ్రహ్మ-పరాణీత్య్ ఉక్తమ్। తత్రాస్పష్ట-జీవాది-లిఙ్గకాని వాక్యాని ద్వితీయే నిరూపితాని, స్పష్ట-లిఙ్గకాని తృతీయే। చతుర్థే తు ప్రధానాది-ప్రతిపాదన-చ్ఛాయానుసారీణీతి విశేషః। అతః ప్రథమేఽధ్యాయే సర్వం వేదాన్త-వాక్య-జాతం సార్వజ్ఞ్య-సత్య-సఙ్కల్పత్వాది-యుక్తం బ్రహ్మైవ జగత్-కారణతయా ప్రతిపాదయతీతి స్థాపితమ్। ద్వితీయేఽధ్యాయే తస్యార్థస్య దుర్ధర్షణత్వ-ప్రతిపాదనేన ద్రఢిమోచ్యతే। తత్ర ప్రథమే పాదే సాఙ్ఖ్యాది-స్మృతి-విరోధాన్ న్యాయ-విరోధాచ్ చ ప్రసక్తో దోషః పరిహృతః। ద్వితీయే తు సాఙ్ఖ్యాది-వేద-బాహ్య-పక్ష-ప్రతిక్షేప-ముఖేన తస్యైవాదరణీయతా స్థిరీకృతా। తృతీయ-చతుర్థయోర్ వేదాన్త-వాక్యానామ్ అన్యోన్య-విప్రతిషేధాది-దోష-గన్ధాభావ-ఖ్యాపనాయ వియద్-ఆదీనాం బ్రహ్మ-కార్యతా-ప్రకారో విశోధ్యతే। తత్ర తృతీయే పాదే చ చిద్-అచిత్-ప్రపఞ్చస్య బ్రహ్మ-కార్యత్వే సత్య్ అప్య్ అచిద్ అంశస్య స్వరూపాన్య్ అథాభావేన కార్యత్వం, చిద్-అంశస్య స్వభావాన్ యథాభావేన జ్ఞాన-సఙ్కోచ-వికాస-రూపేణ కార్యతోదితా। చతుర్థే తు జీవోపకరణానామ్ ఇన్ద్రియాదీనామ్ ఉత్పత్తి-ప్రకారః ఇతి ప్రథమేనాధ్యాయ-ద్వయేన ముముక్షుభిర్ ఉపాస్యం నిరస్త-నిఖిల-దోష-గన్ధ-మనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణం నిఖిల-జగద్-ఏక-కారణం బ్రహ్మేతి ప్రతిపాదితమ్। ఉత్తరేణ ద్వయేన బ్రహ్మోపాసన-ప్రకారస్ తత్-ఫల-భూత-మోక్ష-స్వరూపం చ చిన్త్యతే। తత్ర తృతీయస్య ప్రథమే పాదే బ్రహ్మోపాసిసిషోత్పత్తయే జీవస్య సంసరతో దోషాః కీర్తితాః। ద్వితీయే చోపాసిసిషోత్పత్తయ ఏవ బ్రహ్మణో నిరస్త-నిఖిల-దోషతా-కల్యాణ-గుణాకరతా-రూపోభయ-లిఙ్గతా ప్రతిపాద్యతే। తృతీయే తు బ్రహ్మోపాసనైకత్వ-నానాత్వ-విచార-పూర్వకమ్ ఉపాసనేషు ఉపసంహార్యానుపసంహార్య-గుణ-విశేషాః ప్రపఞ్చితాః। చతుర్థే తు ఉపాసనస్య వర్ణాశ్రమ-ధర్మేతి-కర్తవ్యతాకత్వమ్ ఉక్తమ్। చతుర్థేఽధ్యాయే బ్రహ్మోపాసన-ఫల-చిన్తా క్రియతే। తత్ర ప్రథమే పాదే బ్రహ్మోపాసన-ఫలం వక్తుమ్ ఉపాసన-స్వరూప-పూర్వకోపాసనానుష్ఠాన-ప్రకారో విద్యా-మాహాత్మ్యం చోచ్యతే। ద్వితీయే తు బ్రహ్మోపాసీనానాం బ్రహ్మ-ప్రాప్తి-గత్య్-ఉపక్రమ-ప్రకారశ్ చిన్తితః। తృతీయే త్వ్ అర్చిరాది-గతి-స్వరూపమ్ అర్చిరాదినైవ బ్రహ్మ-ప్రాప్తిర్ ఇతి చ ప్రతిపాద్యతే। చతుర్థే తు ముక్తస్య బ్రహ్మానుభవ-ప్రకారశ్ చిన్త్యతే। అతో ముముక్షుభిర్ జ్ఞాతవ్యం నిరస్త-నిఖిల-దోష-గన్ధమ్ అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణాకరం నిఖిల-జగద్-ఏక-కారణం పరం బ్రహ్మ, తజ్-జ్ఞానం చ మోక్ష-సాధనమ్ అసకృద్-ఆవృత్త-స్మృతి-సన్తాన-రూపమ్ ఉపాసనాత్మకమ్, ఉపాసన-ఫలం చార్చిరాదినా పరం బ్రహ్మోపసమ్పద్య స్వ-స్వరూప-భూత-జ్ఞానాది-గుణావిర్భావ-పూర్వకానన్త-మహా-విభూత్య్-అనవధికాతిశయానన్ద-బ్రహ్మానుభవోఽపునర్-ఆవృత్తి-రూప ఇతి శారీరక-శాస్త్రేణోక్తం భవతి।
Link copied౧।౧।౧
Link copied౧ ఓమ్ అథాతో బ్రహ్మ-జిజ్ఞాసా॥౧।౧।౧॥
Link copiedబ్రహ్మ-మీమాంసా-విషయః। సా కిమ్ ఆరమ్భణీయా, ఉత అనారమ్భణీయేతి సంశయః। తద్-అర్థం పరీక్ష్యతే--- వేదాన్తాః కిం బ్రహ్మణి ప్రమాణమ్ ఉత నేతి। తద్-అర్థం పరినిష్పన్నేఽర్థే శబ్దస్య బోధన-సామర్థ్యావధారణం సమ్భవతి, నేతి। న సమ్భవతి ఇతి పూర్వ-పక్షః। సమ్భవతీతి రాద్ధాన్తః। యదా న సమ్భవతి తదా పరినిష్పన్నేఽర్థే శబ్దస్య బోధన-సామర్థ్యాభావాత్ సిద్ధ-రూపే బ్రహ్మణి న వేదాన్తాః ప్రమాణమ్ ఇతి తద్-విచారాకారా బ్రహ్మ-మీమాంసా నారమ్భణీయా। యదా సమ్భవతి తదా సిద్ధ్యేఽప్య్ అర్థే శబ్దస్య బోధన-సామర్థ్య-సమ్భవాద్ వేదాన్తాః బ్రహ్మణి ప్రమాణమ్ ఇతి సా చారమ్భణీయా స్యాత్। అత్ర పూర్వ-పక్ష-వాదీ మన్యతే--- వృద్ధ-వ్యవహారాద్ అన్యత్ర వ్యుత్పత్త్య్-అసమ్భవాద్ వ్యవహారస్య చ కార్య-బుద్ధి-పూర్వకత్వేన కార్య ఏవార్థే శబ్ద-శక్త్య్-అధారణాత్ పరినిష్పన్నేఽర్థే బ్రహ్మణి న వేదాన్తాః ప్రమాణమ్ ఇతి తద్-విచార-రూపా బ్రహ్మ-మీమాంసా నారమ్భణీయేతి। సిద్ధాన్తస్ తు--- బాలానాం మాతా-పితృ-ప్రభృతిభిర్ అమ్బా-తాత-మాతుల-శిశు-పశు-పక్షి-మృగాదిష్వ్ అఙ్గుల్యా నిర్దిశ్య తత్-తద్-అభిధాయినః శబ్దాన్ ప్రయుఞ్జానైః క్రమేణ బహుశః శిక్షితానాం తత్-తచ్-ఛబ్ద-శ్రవణ-సమనన్తరం స్వాత్మనామ్ ఏవ తద్-అర్థ-బుద్ధ్య్-ఉత్పత్తి-దర్శనాత్, శబ్దార్థయోః సమ్బన్ధాన్తరాదర్శనాత్ సఙ్కేతయితృ-పురుషాజ్ఞానాచ్ చ బోధ్య-బోధక-భావ ఏవ శబ్దార్థయోః సమ్బన్ధ ఇతి నిశ్చిన్వానానాం పరినిష్పన్నేఽర్థే శబ్దస్య బోధకత్వావధారణం సమ్భవతీతి బ్రహ్మణి వేదాన్త-వాక్యానాం ప్రామాణ్యాత్ తద్-అర్థ-విచారాకారా బ్రహ్మ-మీమాంసా ఆరమ్భణీయేతి। సూత్రార్థస్ తు--- అథాతో బ్రహ్మ-జిజ్ఞాసా--- అథ ఇత్య్ ఆనన్తర్యే। అత ఇతి చ వృత్తస్య హేతు-భావే। బ్రహ్మణో జిజ్ఞాసా బ్రహ్మ-జిజ్ఞాసా, జ్ఞాతుమ్ ఇచ్ఛా జిజ్ఞాసా। ఇచ్ఛాయా ఇష్యమాణ-ప్రధానత్వాద్ ఇష్యమాణం జ్ఞానమ్ ఇహాభిప్రేతమ్। పూర్వ-వృత్తాద్ అల్పాస్థిర-ఫల-కేవల-కర్మాధిగమాద్ అనన్తరం తత ఏవ హేతోర్ అనన్త-స్థిర-ఫల-బ్రహ్మాధిగమః కర్తవ్యః॥౧॥ఇతి జిజ్ఞాసాధికరణమ్॥౧॥
Link copied౧।౧।౨
Link copied౨ జన్మాద్య్ అస్య యతః॥౧।౧।౨॥
Link copiedతైత్తరీయకే--- యతో వా ఇమాని భూతాని జాయన్తే యేన జాతాని జీవన్తి యత్ ప్రయన్త్య్ అభిసంవిశన్తి తద్ విజిజ్ఞాసస్వ తద్ బ్రహ్మ ఇత్య్ ఏతద్ వాక్యం విషయః। కిమ్ ఏతజ్-జిజ్ఞాస్యతయా ప్రతిజ్ఞాతం బ్రహ్మ జగజ్-జన్మాది-కారణతయా లక్షణతః ప్రతిపాదయితుం శక్నోతి న వేతి సంశయః। న శక్నోతీతి పూర్వ-పక్షః। కుతః। జగజ్-జన్మాదీనామ్ ఉపలక్షణతయా విశేషణతయా వా బ్రహ్మ-లక్షణత్వాసమ్భవాత్। ఉపలక్షణత్వే హ్య్ ఉపలక్ష్యస్యాకారాన్తర-యోగోఽపేక్షితః। న చేహ తద్ అస్తి। అత ఉపలక్షణత్వం న సమ్భవతి। విశేషణత్వేఽప్య్ అనేక-విశేషణ-విశిష్టతయాపూర్వస్యైకస్య ప్రతిపాదకత్వం న సమ్భవతి, విశేషణానాం వ్యావర్తకత్వేన విశేషణ-బహుత్వే బ్రహ్మ-బహుత్వ-ప్రసక్తేః। రాద్ధాన్తస్ తు--- ఏకస్మిన్న్ అవిరుద్ధానాం విశేషణానామ్ అనేకత్వేఽపి శ్యామత్వ-యువత్వాది-విశిష్ట-దేవదత్తవజ్ జగజ్-జన్మాది-విశిష్టం బ్రహ్మైకమ్ ఏవ విశేష్యం భవతి। ఉపలక్షణత్వే జన్మాదిభిర్ ఉపలక్ష్యస్య బ్రహ్మ-శబ్దావగత-బృహత్త్వాద్య్-ఆకారాశ్ చ సన్తీతి జగజ్-జన్మాది-కారణం బ్రహ్మేతి లక్షణతః ప్రతిపాదయితుం శక్నోతీతి। సూత్రార్థః--- అస్య వివిధ-విచిత్ర-భోక్తృ-భోగ్య-పూర్ణస్య జగతో యతో జన్మాది, తద్ బ్రహ్మేతి ప్రతిపాదయితుం శక్నోత్య్ ఏతద్ వాక్యమ్ ఇతి॥౨॥ఇతి జన్మాద్య్-అధికరణమ్॥౨॥
Link copied౧।౧।౩
Link copied౩ శాస్త్ర-యోనిత్వాత్॥౧।౧।౩॥
Link copiedయతో వా ఇమాని ఇత్య్ ఆది వాక్యమ్ ఏవ విషయః। తత్ కిం జగత్-కారణే బ్రహ్మణి ప్రమాణమ్ ఉత నేతి సంశయః। నైతత్ ప్రమాణమ్ ఇతి పూర్వ-పక్షః, అనుమాన-సిద్ధ-బ్రహ్మ-విషయత్వాత్। ప్రమాణాన్తరావిషయే హి శాస్త్రం ప్రమాణమ్। జగతః సావయవత్వేన కార్యత్వాత్। కార్యస్య స్వోపాదానోపకరణ-సమ్ప్రదాన-ప్రయోజనాద్య్-అభిజ్ఞ-కర్తృకత్వాత్, జగన్-నిర్మాణ-కార్య-చతురః కర్మ-పరవశ-పరిమిత-శక్త్య్-ఆది-క్షేత్రజ్ఞ-విలక్షణః సర్వజ్ఞః సర్వ-శక్తః సర్వేశ్వరః అనుమాన-సిద్ధ ఇతి తస్మిన్ యతో వా ఇమాని భూతాని ఇత్య్ ఆది వాక్యం ప్రమాణమ్ ఇతి। రాద్ధాన్తస్ తు--- జగతః కార్యత్వేఽప్య్ ఏకదైవైకేనైవ కృత్స్నం జగన్ నిర్మితమ్ ఇత్య్ అత్ర ప్రమాణాభావాత్। క్షేత్రజ్ఞానామ్ ఏవ విలక్షణ-పుణ్యానాం జ్ఞాన-శక్తి-వైచిత్ర్య-సమ్భావనయా కదాచిత్ కస్యచిజ్ జగద్-ఏకదేశ-నిర్మాణ-సామర్థ్య-సమ్భవాత్ తద్-అతిరిక్త-పురుషానుమానం న సమ్భవతీతి శాస్త్రైక-ప్రమాణకత్వాద్ బ్రహ్మణస్ తత్-ప్రతిపాదకత్వేన తస్మిన్, యతో వా ఇమాని భూతాని ఇత్య్ ఆది వాక్యం ప్రమాణమ్ ఇతి। శాస్త్రం యోనిః యస్య కారణమ్। ప్రమాణం తద్ బ్రహ్మ శాస్త్ర-యోని; ప్రమాణాన్తరావిషయత్వేన శాస్త్రైక-ప్రమాణకత్వాద్ బ్రహ్మణస్ తస్మిన్, యతో వా ఇమాని ఇత్య్ ఆది వాక్యం ప్రమాణమ్ ఇతి సూత్రార్థః॥౩॥ఇతి శాస్త్ర-యోనిత్వాధికరణమ్॥౩॥
Link copied౧।౧।౪
Link copied౪ తత్ తు సమన్వయాత్॥౧।౧।౪॥
Link copiedబ్రహ్మణః శాస్త్ర-ప్రమాణకత్వం సమ్భవతి, నేతి విచార్యతే। న సమ్భవతీతి పూర్వః పక్షః। కుతః ప్రవృత్తి-నివృత్త్య్-అన్వయ-విరహిణో బ్రహ్మణః స్వరూపేణా పురుషార్థత్వాత్, పురుషార్థావబోధకత్వేన చ శాస్త్రస్య ప్రామాణ్యాత్, మోక్ష-సాధన-బ్రహ్మ-ధ్యాన-విధి-పరత్వేఽప్య్ అసత్య్ అపి బ్రహ్మణి తద్-ధ్యాన-విధాన-సమ్భవాత్, న బ్రహ్మ-సద్-భావే తాత్పర్యమ్ ఇతి బ్రహ్మణః శాస్త్ర-ప్రమాణకత్వం న సమ్భవతి। రాద్ధాన్తస్ త్వ్ అతిశయిత-గుణ-పితృ పుత్రాది-జీవన-జ్ఞానవద్-అనవధికాతిశయానన్ద-స్వరూప-బ్రహ్మ-జ్ఞానస్య నిరతిశయ-పురుషార్థత్వాత్ తస్య శాస్త్ర-ప్రమాణకత్వం సమ్భవతి, ఆనన్దో బ్రహ్మ, యద్ ఏష ఆకాశ ఆనన్దో న స్యాత్, యతో వాచో నివర్తన్తే అప్రాప్య మనసా సహ, ఆనన్దం బ్రహ్మణో విద్వాన్ ఇత్య్ ఆదిభిర్ అనవధికాతిశయానన్ద-స్వరూపం బ్రహ్మేతి హి ప్రతిపాద్యతే। అతో బ్రహ్మ స్వేన పరేణ వాప్య్ అనుభూయమానం నిరతిశయానన్ద-స్వరూపమ్ ఏవేతి తత్-ప్రతిపాదన-పరస్యైవ సాక్షాత్ పురుషార్థాన్వయః। ప్రవృత్తి-నివృత్తి-పరస్య తు తత్-సాధ్య-ఫల-సమ్బన్ధాత్ పురుషార్థాన్వయ ఇతి। సూత్రార్థః--- తు-శబ్దః ప్రసక్తాశఙ్కా-నివృత్త్య్-అర్థః। తత్--- పూర్వస్-ఊత్రోదితం బ్రహ్మణః శాస్త్ర-యోనిత్వం సమన్వయాత్ సిద్ధ్యతి। సమ్యక్ పురుషార్థతయా అన్వయః సమన్వయః। వేదితుర్ నిరతిశయానన్ద-స్వరూపత్వేన పరమ-పురుషార్థ-రూపే పరే బ్రహ్మణి వేదకతయా శాస్త్రస్యాన్వయాద్ బ్రహ్మణః శాస్త్ర-ప్రమాణకత్వం సిద్ధ్యత్య్ ఏవేతి॥౪॥ ఇతి సమన్వయాధికరణమ్॥౪॥
Link copied౧।౧।౫
Link copied౫ ఈక్షతేర్ నాశబ్దమ్॥౧।౧।౫॥
Link copiedయేనాశ్రుతం శ్రుతం భవతి ఇత్య్ ఆది జగత్-కారణ-వాది-వేదాన్త-వేద్యం విషయః। తత్ కిం సాఙ్ఖ్యోక్తం ప్రధానమ్ ఉత అనవతికాతిశయానన్దం బ్రహ్మేతి సంశయః। ప్రధానమ్ ఇతి పూర్వ-పక్షః। కుతః ప్రతిజ్ఞా-దృష్టాన్తాన్వయేనానుమానాకార-వాక్య-వేద్యత్వాత్। యేనాశ్రుతం శ్రుతం భవతి ఇత్య్ ఆదినా ఏక-విజ్ఞానేన సర్వ-విజ్ఞానం ప్రతిజ్ఞాయ, యథా సోమ్యైకేన మృత్-పిణ్డేన ఇతి దృష్టాన్తేన హ్య్ ఉపపాద్యతే। ఏవమ్ ఆనుమానికమ్ ఏవ ఏతద్-వాక్య-వేద్యమ్ ఇతి నిశ్చీయతే। సద్ ఏవ సోమ్యేదమ్ ఇతి సచ్-ఛబ్దః ప్రధాన-విషయః। తద్ ఐక్షత బహు స్యామ్ ఇతి చ గౌణమ్ ఈక్షణం భవితుమ్ అర్హతి; తత్ తేజ ఐక్షత ఇత్య్ ఆది గౌణేక్షణ-సాహచర్యాచ్ చ। రాద్ధాన్తస్ తు--- తద్ ఐక్షత బహు స్యామ్ ఇతి బహు-భవన-సఙ్కల్ప-రూపేక్షణాన్వయాత్, సద్ ఏవ సోమ్య ఇతి కారణ-వాచి-సచ్-ఛబ్ద-విషయో నాచేతనం ప్రధానమ్ అపి తు సార్వజ్ఞ్య-సత్య-సఙ్కల్పాది-యుక్తం పరబ్రహ్మైవేతి నిశ్చీయతే। న చానుమానాకారమ్ ఏతద్ వాక్యమ్, హేత్వ్-అనుపాదానాత్। అన్య-జ్ఞానేనాన్య-జ్ఞానాసమ్భవ-పరిజిహీర్షయా తు దృష్టాన్తోపపాదానమ్। న చ ముఖ్యేక్షణ-సమ్భవే గౌణ-పరిగ్రహ-సమ్భవః। తేజః ప్రభృతి-శరీరకస్యాన్తర్యామిణో వాచకత్వాద్ ఇతి పరమ్ ఏవ బ్రహ్మ జగత్-కారణ-వాది-వేదాన్త-వేద్యమ్ ఇతి। సూత్రార్థశ్ చ--- ఈక్షతేర్ ఇతి ఈక్షతి-ధాత్వ్-అర్థః ఈక్షణమ్। శబ్దః ప్రమాణం యస్య న భవతి తద్ అశబ్దం--- పరోక్తమ్ ఆనుమానికం ప్రధానమ్। సద్ ఏవ సోమ్యేదమ్ ఇతి జగత్-కారణతయా ప్రతిపాదితాన్వయినః ఈక్షణ-వ్యాపారాన్ నాచేతనమ్ అశబ్దం తద్ అపి తు సర్వజ్ఞం సత్య-సఙ్కల్పం బ్రహ్మైవ జగత్-కారణమ్ ఇతి నిశ్చీయతే ఇతి॥౫॥
Link copied౬ గౌణశ్ చేన్ నాత్మ-శబ్దాత్॥౧।౧।౬॥
Link copiedతత్ తేజ ఐక్షత ఇత్య్ అచేతన-గత-గౌణేక్షణ-సాహచర్యాత్, తద్ ఐక్షత ఇత్య్ అత్ర ఈక్షతిర్ గౌణ ఇతి చేన్ న, ఆత్మ-శబ్దాత్। సచ్-ఛబ్దాభిహితే ఈక్షితరి, ఐతదాత్మ్యమ్ ఇదం సర్వం తత్ సత్యం స ఆత్మా ఇతి శ్రూయమాణాచ్ చేతన-వాచినః ఆత్మ-శబ్దాద్ అయమ్ ఈక్షతిర్ ముఖ్య ఏవేతి ప్రతీయతే। ఐతదాత్మ్యమ్ ఇదం సర్వమ్ ఇతి తేజః-ప్రభృతీనామ్ అపి తద్-ఆత్మకత్వావగమాత్ తేజః-ప్రభృతీక్షణమ్ అపి ముఖ్యమ్ ఏవేత్య్ అభిప్రాయః॥౬॥
Link copied౭ తన్-నిష్ఠస్య మోక్షోపదేశాత్॥౧।౧।౭॥
Link copiedఇతశ్ చ సచ్-ఛబ్దాభిహితం న ప్రధానమ్ అపి తు పరమ్ ఏవ బ్రహ్మ। తత్ త్వమ్ అసి ఇతి సద్-ఆత్మకతయా ప్రత్యగ్-ఆత్మానుసన్ధాన-నిష్ఠస్య, తస్య తావద్ ఏవ చిరం యావన్ న విమోక్ష్యే అథ సమ్పత్స్య ఇతి మోక్షోపదేశాత్ తత్-కారణం పరమ్ ఏవ బ్రహ్మ॥౭॥
Link copied౮ హేయత్వావచనాచ్ చ॥౧।౧।౮॥
Link copiedయది ప్రధానమ్ ఇహ కారణతయా వివక్షితమ్, తదా తస్య మోక్ష-విరోధిత్వాద్ ధేయత్వమ్ ఉచ్యేత। న చోచ్యతే। అతశ్ చ న ప్రధానమ్॥౮॥
Link copied౯ ప్రతిజ్ఞా-విరోధాత్॥౧।౧।౯॥
Link copiedప్రధాన-వాదే ప్రతిజ్ఞా చ విరుధ్యతే, యేనాశ్రుతం శ్రుతమ్ ఇతి వక్ష్యమాణ-కారణ-విజ్ఞానేన చేతనాచేతన-మిశ్ర-కృత్స్న-ప్రపఞ్చ-జ్ఞానం హి ప్రతిజ్ఞాతమ్। చేతనాంశం ప్రతి ప్రధానస్యాకారణత్వాత్, తజ్-జ్ఞానేన చేతనాంశో న జ్ఞాయత ఇతి న ప్రధానం కారణమ్॥౯॥
Link copied౧౦ స్వాప్యయాత్॥౧।౧।౧౦॥
Link copiedస్వమ్ అపీతో భవతి। సతా సోమ్య తదా సమ్పన్నో భవతి ఇతి జీవస్య సుషుప్తస్య స్వాప్యయః శ్రూయతే। స్వ-కారణే హ్య్ అప్యయః స్వాప్యయః। జీవం ప్రతి ప్రధానస్యాకారణత్వాత్ స్వాప్యయ-శ్రుతిః విరుధ్యతే। అతశ్ చ న ప్రధానమ్ అపి తు బ్రహ్మైవ॥౧౦॥
Link copied౧౧ గతి-సామాన్యాత్॥౧।౧।౧౧॥
Link copiedఇతరోపనిషద్-గతి-సామాన్యాద్ అస్యాం చోపనిషది న ప్రధానం కారణం వివక్షితమ్। ఇతరాసు చోపనిషత్సు, యః సర్వజ్ఞః సర్వవిత్। తస్మాద్ ఏతద్ బ్రహ్మ నామ-రూపమ్ అన్నం చ జాయతే, పరాస్య శక్తిర్ వివిధైవ శ్రూయతే స్వాభావికీ జ్ఞాన-బల-క్రియా చ, స కారణం కరణాధిపాధిపః, ఆత్మని ఖల్వ్ అరే విదితే సర్వమ్ ఇదం విదితం, తస్య హ వా ఏతస్య మహతో భూతస్య విశ్వసితమ్ ఏతద్ యద్ ఋగ్-వేదః, పురుష ఏవేదం సర్వం యద్ భూతం యచ్ చ భవ్యమ్, తస్మాద్ విరాడ్ అజాయత, ఆత్మా వా ఇదమ్ ఏక ఏవాగ్ర ఆసీత్। స ఇమాన్ లోకాన్ అసృజత, తస్మాద్ వా ఏతస్మాద్ ఆత్మన ఆకాశః సమ్భూతః, ఏకో హ వై నారాయణ ఆసీత్। స ఏకాకీ న రమేత ఇతి సర్వజ్ఞః పురుషోత్తమ ఏవ కారణతయా ప్రతిపాద్యతే। అస్యాశ్ చ తద్-గతి-సామాన్యాద్ అత్రాపి స ఏవ కారణతయా ప్రతిపాదనమ్ అర్హతీతి న ప్రధానమ్॥౧౧॥
Link copied౧౨ శ్రుతత్వాశ్ చ॥౧।౧।౧౨॥
Link copiedశ్రుతమ్ ఏవాస్యామ్ ఉపనిషద్య్ ఆత్మత ఏవేదం సర్వమ్ ఇతి। అతశ్ చ సద్ ఏవ సోమ్య ఇత్య్ ఆది జగత్-కారణ-వాది-వేదాన్త-వేద్యం న ప్రధానమ్। సర్వజ్ఞం సత్య-సఙ్కల్పం పరమ్ ఏవ బ్రహ్మ ఇతి స్థితమ్॥౧౨॥ఇతి ఈక్షత్య్-అధికరణమ్॥౫॥
Link copied౧।౧।౬
Link copied౧౩ ఆనన్ద-మయోఽభ్యాసాత్॥౧।౧।౧౩॥
Link copiedతైత్తిరీయకే --- తస్మాద్ వా ఏతస్మాద్ ఆత్మన ఆకాశః సమ్భూతః ఇతి ప్రకృత్య, తస్మాద్ వా ఏతస్మాద్ విజ్ఞాన-మయాత్। అన్యోఽన్తర ఆత్మానన్ద-మయ ఇత్య్ అత్ర జగత్-కారణతయావగతః ఆనన్ద-మయః కిం ప్రత్యగ్-ఆత్మా, ఉత పరమాత్మేతి సంశయః। ప్రత్యగ్-ఆత్మేతి పూర్వః పక్షః। కుతః। తస్యైష ఏవ శారీర ఆత్మా ఇత్య్ ఆనన్ద-మయస్య శారీరత్వ-శ్రవణాత్। శారీరో హి శరీర-సమ్బన్ధీ। స చ ప్రత్యగ్-ఆత్మైవ। తస్య చేతనత్వేనేక్షా-పూర్వికా సృష్టిర్ ఉపపద్యత ఇతి। రాద్ధాన్తస్ తు --- సైషానన్దస్య మీమాంసా భవతి ఇత్య్ ఆరభ్య, యతో వాచో నివర్తన్తే, అప్రాప్య మనసా సహ, ఆనన్దం బ్రహ్మణో విద్వాన్ ఇతి నిరతిశయ-దశాశిరస్కోఽభ్యస్యమాన ఆనన్దః ప్రత్యగ్-ఆత్మనోఽర్థాన్తర-భూతస్య పరస్యైవ బ్రహ్మణ ఇతి నిశ్చీయతే। శారీరాత్మత్వం చ పరమాత్మన ఏవ, తస్మాద్ వా ఏతస్మాద్ ఆత్మన ఆకాశః సమ్భూతః ఇత్య్ ఆకాశాది-జగత్-కారణతయావగత ఏవాన్న-మయస్య శారీర ఆత్మేతి ప్రతీయతే, ఆత్మాన్తరానిర్దేశాత్। శ్రుత్య్-అన్తరేషు పృథివ్య్-అక్షరాదీనాం శరీరత్వం, పరమాత్మన ఆత్మత్వం చ శ్రూయతే యస్య పృథివీ శరీరమ్ ఇత్య్ ఆరభ్య, ఏష సర్వ-భూతాన్తరాత్మాపహత-పాప్మా దివ్యో దేవ ఏకో నారాయణ ఇతి। అన్న-మయస్యాత్మైవ ప్రాణ-మయాదిషు, తస్యైష ఏవ శారీర ఆత్మా యః పూర్వస్య ఇత్య్ అనుకృష్యత ఇతి ప్రత్యగ్-ఆత్మనో విజ్ఞాన-మయస్య చ స ఏవ శారీర ఆత్మా। ఆనన్ద-మయే తు, తస్యైష ఏవ శారీర ఆత్మా యః పూర్వస్య ఇతి నిర్దేశః ఆనన్ద-మయస్యానన్యాత్మత్వ-ప్రదర్శనార్థః। అతో జగత్-కారణతయా నిర్దిష్టమ్ ఆనన్ద-మయః పరమాత్మైవేతి। సూత్రార్థస్ తు ఆనన్ద-మయ-శబ్ద-నిర్దిష్టః ఆకాశాది-జగత్-కారణ-భూతః ప్రత్యగ్-ఆత్మనోఽర్థాన్తర-భూతః పరమాత్మా। కుతః। తస్యానన్దస్య నిరతిశయ-ప్రతీతి-బలాత్। స ఏకో మానుష ఆనన్దః। తే యే శతమ్ ఇత్య్ ఆద్య్ అభ్యాసాత్, తస్య చ ప్రత్యగ్-ఆత్మన్య్ అసమ్భావితస్య తద్-అతిరిక్తే పరమాత్మన్య్ ఏవ సమ్భవాత్॥౧౩॥
Link copied౧౪ వికార-శబ్దాన్ నేతి చేన్ న ప్రాచుర్యాత్॥౧।౧।౧౪॥
Link copiedఆనన్ద-మయః ఇతి వికారార్థాన్ మయట్-ఛబ్దాన్ నాయమ్ అవికృతః పరమాత్మా। అస్య చ వికారార్థత్వమ్ ఏవ యుక్తమ్, అన్న-మయః ఇతి వికారోపక్రమాద్ ఇతి చేన్ న, ప్రత్యగ్-ఆత్మనోఽపి, న జాయతే మ్రియతే వా ఇత్య్ ఆది వికార-ప్రతిషేధాత్ ప్రాచుర్యార్థ ఏవాయం మయడ్ ఇతి నిశ్చయాత్। అస్మింశ్ చానన్దే, యతో వాచో నివర్తన్తే ఇత్య్ ఆది వక్ష్యమాణాత్ ప్రాచుర్యాద్ అయమ్ ఆనన్ద-ప్రచురః పరమాత్మైవ। న హ్య్ అనవధికాతిశయ-రూపః ప్రభూతానన్దః ప్రత్యగ్-ఆత్మని సమ్భవతి॥౧౪॥
Link copied౧౫ తద్ ధేతు-వ్యపదేశాచ్ చ॥౧।౧।౧౫॥
Link copiedఏష హ్య్ ఏవానన్దయాతి ఇతి జీవాన్ ప్రత్య్ ఆనన్దయితృత్వ-వ్యపదేశాద్ అయం పరమాత్మైవ॥౧౫॥
Link copied౧౬ మాన్త్ర-వర్ణికమ్ ఏవ చ గీయతే॥౧।౧।౧౬॥
Link copiedసత్యం జ్ఞానమ్ అనన్తం బ్రహ్మ ఇతి మన్త్ర-వర్ణోదితం బ్రహ్మైవ, తస్మాద్ వా ఏతస్మాద్ ఆత్మన ఇత్య్ ఆరభ్య, ఆనన్ద-మయః ఇతి చ గీయతే। తతశ్ చానన్ద-మయో బ్రహ్మ॥౧౬॥
Link copiedప్రత్యగ్-ఆత్మనః పరిశుద్ధం స్వరూపం మన్త్ర-వర్ణోదితమ్ ఇత్య్ ఆశఙ్క్యాహ---
Link copied౧౭ నేతరోఽనుపపత్తేః॥౧।౧।౧౭॥
Link copiedపరస్మాద్ బ్రహ్మణః ఇతరః ప్రత్యగ్-ఆత్మా న మన్త్ర-వర్ణోదితః, తస్య, విపశ్చితా బ్రహ్మణా ఇతి విపశ్చిత్త్వానుపపత్తేః। వివిధం పశ్యచ్ చిత్త్వం హి విపశ్చిత్త్వమ్। తచ్ చ, సోఽకామయత బహు స్యాం ప్రజాయేయ ఇత్య్ ఆది వాక్యోదిత-నిరుపాధిక-బహు-భవన-సఙ్కల్ప-రూపం సర్వజ్ఞత్వమ్। తత్ తు ప్రత్యగ్-ఆత్మనః పరిశుద్ధస్యాపి న సమ్భవతి, జగద్-వ్యాపార-వర్జం ప్రకరణాద్ అసన్నిహితత్వాచ్ చ ఇతి వక్ష్యమాణత్వాత్। అతః పరం బ్రహ్మైవ మాన్త్ర-వర్ణికమ్॥౧౭॥
Link copied౧౮ భేద-వ్యపదేశాశ్ చ॥౧।౧।౧౮॥
Link copiedభీషాస్మాద్ వాతః పవతే ఇత్య్ ఆదినా అగ్ని-వాయు-సూర్యాది-జీవ-వర్గస్య ఆనన్ద-మయాత్ ప్రశాసితుః ప్రశాసితవ్యత్వేన భేదో వ్యపదిశ్యతే। అతశ్ చానన్ద-మయః పరమాత్మేతి। యోజనాన్తరమ్--- తస్మాద్ వా ఏతస్మాద్ విజ్ఞాన-మయాత్। అన్యోఽన్తర ఆత్మానన్ద-మయ ఇతి విజ్ఞాన-మయాజ్ జీవాద్ ఆనన్ద-మయస్య భేదో వ్యపదిశ్యతి। విజ్ఞాన-మయో హి జీవ ఏవ న బుద్ధి-మాత్రమ్, మయట్-చ్ఛ్రుతేః। అతశ్ చానన్ద-మయః పరమాత్మా॥౧౮॥
Link copied౧౯ కామాచ్ చ నానుమానాపేక్షా॥౧।౧।౧౯॥
Link copiedసోఽకామయత ఇత్య్ ఆరభ్య, ఇదం సర్వమ్ అసృజత ఇతి కామాద్ ఏవ జగత్-సర్గ-శ్రవణాద్ అస్యానన్ద-మయస్య జగత్-సర్గే నానుమాన-గమ్య-ప్రకృత్య్-అపేక్షా ప్రతీయతే। ప్రత్యగ్-ఆత్మనో యస్య కస్యచిద్ అపి సర్గే ప్రకృత్య్-అపేక్షాస్తి। అతశ్ చాయం ప్రత్యగ్-ఆత్మనోఽన్యః పరమాత్మా॥౧౯॥
Link copied౨౦ అస్మిన్న్ అస్య చ తద్ యోగం శాస్తి॥౧।౧।౨౦॥
Link copiedరసో వై సః। రసం హ్య్ ఏవాయం లబ్ధ్వానన్దీ భవతి ఇత్య్ అస్మిన్--- ఆనన్ద-మయే రస-శబ్ద-నిర్దిష్టే, అస్య అయం-శబ్ద-నిర్దిష్టస్య, జీవస్య తల్-లబ్ధాదానన్ద-యోగం శాస్తి శాస్త్రమ్। ప్రత్యగ్-ఆత్మనో యల్-లబ్ధాదానన్ద-యోగః, స తస్మాద్ అన్యః పరమాత్మైవేత్య్ ఆనన్ద-మయః పరం బ్రహ్మ॥౨౦॥ఇత్య్ ఆనన్ద-మయాధికరణమ్॥౬॥
Link copied౧।౧।౭
Link copied౨౧ అన్తస్ తద్-ధర్మోపదేశాత్॥౧।౧।౨౧॥
Link copiedఛాన్దోగ్యే య ఏషోఽన్తర్ ఆదిత్యే హిరణ్మయః పురుషో దృశ్యతే, య ఏషోఽన్తర్-అక్షిణి పురుషో దృశ్యతే ఇత్య్ అక్ష్యాదిత్యాధారతయా శ్రూయమాణః పురుషః కిం జీవ-విశేషః, ఉత పరమ-పురుష ఇతి సంశయః। జీవ-విశేష ఇతి పూర్వ-పక్షః। కుతః। సశరీరత్వాత్। శరీర-సంయోగో హి కర్మ-వశ్యస్య జీవస్య స్వ-కర్మ-ఫల-భోగాయేతి। రాద్ధాన్తస్ తు--- స ఏష సర్వేభ్యః పాప్మభ్య ఉదితః ఇత్య్ ఆదినా అపహత-పాప్మత్వ-పూర్వక-సర్వ-లోక-కామేశత్వోపదేశాత్, తేషాం చ జీవేష్వ్ అసమ్భవాత్, అయమ్ అక్ష్యాదిత్యాధారః పురుషోత్తమ ఏవ। స్వాసాధారణ-విలక్షణ-రూపవత్త్వం చ జ్ఞాన-బలైశ్వర్య్-ఆది-కల్యాణ-గుణవత్తస్య సమ్భవతి। శ్రూయతే చ తద్-రూపస్య అప్రాకృతత్వమ్। ఆదిత్య-వర్ణం తమసస్ తు పారే ఇత్య్ ఆదౌ। సూత్రార్థస్ తు--- ఆదిత్యాద్య్-అన్తః శ్రూయమాణః పురుషః పరం బ్రహ్మ। తద్-అసాధారణాపహత-పాప్మత్వాది-ధర్మోపదేశాత్॥౨౧॥
Link copied౨౨ భేద-వ్యపదేశాచ్ చాన్యః॥౧।౧।౨౨॥
Link copiedయ ఆదిత్యే తిష్ఠన్న్ ఆదిత్యాద్ అన్తరః, య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరః ఇత్య్ ఆదిభిః జీవాద్ భేద-వ్యపదేశాచ్ చాయం జీవాద్ అన్యః పరమాత్మైవ॥౨౨॥ఇత్య్ అన్తర్-అధికరణమ్॥౭॥
Link copied౧।౧।౮
Link copied౨౩ ఆకాశస్ తల్-లిఙ్గాత్॥౧।౧।౨౩॥
Link copied(ఛాన్దోగ్యే)--- అస్య లోకస్య కా గతిః ఇత్య్ ఆకాశ ఇతి హోవాచ సర్వాణి హ వా ఇమాని భూతాన్య్ ఆకాశాద్ ఏవ సముత్పద్యన్తే ఆకాశం ప్రత్యస్తం యన్తి ఇత్య్ అత్ర ఆకాశ-శబ్ద-నిర్దిష్టం జగత్-కారణం కిం ప్రసిద్ధాకాశః ఉత సమస్త-చిద్-అచిద్-వస్తు-విలక్షణం బ్రహ్మేతి సంశయః। ప్రసిద్ధాకాశః ఇతి పూర్వ-పక్షః। కుతః। ఆకాశ-శబ్దస్య లోకే తత్రైవ వ్యుత్పత్తేః, యతో వా ఇమాని భూతాని ఇత్య్ ఆది సామాన్య-లక్షణస్య సద్-ఆది-శబ్దానామ్ అపి సాధారణత్వేన, ఆకాశద్ ఏవ సముత్పద్యన్తే, ఇతి విశేషే పర్యవసానాత్। ఈక్షణాదయోఽప్య్ ఆకాశ ఏవ జగత్-కారణమ్ ఇతి నిశ్చితే సతి గౌణా వర్ణనీయా ఇతి। రాద్ధాన్తస్ తు--- సర్వాణి హ వా ఇమాని భూతాని ఇతి ప్రసిద్ధవన్ నిర్దేశాత్, ప్రసిద్ధేశ్ చేక్షా-పూర్వకత్వాత్ చిద్-అచిద్-వస్తు-విలక్షణం సర్వజ్ఞం బ్రహ్మాకాశ-శబ్ద-నిర్దిష్టమ్ ఇతి। సూత్రార్థస్ తు--- ఆకాశ-శబ్ద-నిర్దిష్టం పరమ్ ఏవ బ్రహ్మ, ప్రసిద్ధవన్ నిర్దిశ్యమానాజ్ జగత్-కారణత్వాది-లిఙ్గాత్॥౨౩॥ఇత్య్ ఆకాశాధికరణమ్॥౮॥
Link copied౧।౧।౯
Link copied౨౪ అత ఏవ ప్రాణః॥౧।౧।౨౪॥
Link copiedఛాన్దోగ్యే--- ప్రస్తోతర్యా దేవతా ప్రస్తావమ్ అన్వాయత్తా ఇతి ప్రస్తుత్య, కతమా సా దేవతేతి। ప్రాణ ఇతి హోవాచ, సర్వాణి హ వా ఇమాని భూతాని ప్రాణమ్ ఏవాభిసంవిశన్తి; ప్రాణమ్ అభ్యుజ్జిహతే, సైషా దేవతా ప్రస్తావమ్ అన్వాయత్తా ఇత్య్ అత్ర నిఖిల-జగత్-కారణతయా ప్రాణ-శబ్ద-నిర్దిష్టః కిం ప్రసిద్ధః ప్రాణః, ఉతోక్త-లక్షణం బ్రహ్మేతి సంశయః। ప్రసిద్ధ-ప్రాణ ఇతి పూర్వ-పక్షః। కుతః సర్వస్య జగతః ప్రాణాయత్త-స్థితి-దర్శనాత్, స ఏవ నిఖిల-జగద్-ఏక-కారణతయా నిర్దేశమ్ అర్హతీతి। రాద్ధాన్తస్ తు--- శిలా-కాష్టాదిష్వ్ అచేతనేషు చేతన-స్వరూపేషు చ ప్రాణాయత్త-స్థిత్య్-అభావత్, సర్వాణి హ వా ఇమాని భూతాని ఇతి ప్రసిద్ధవన్ నిర్దేశాద్ ఏవ హేతోః ప్రాణ-శబ్ద-నిర్దిష్టం పరమ్ ఏవ బ్రహ్మ। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౨౪॥ఇతి ప్రాణాధికరణమ్॥౯॥
Link copied౧।౧।౧౦
Link copied౨౫ జ్యోతిశ్ చరణాభిధానాత్॥౧।౧।౨౫॥
Link copiedఛాన్దోగ్యే అథ యద్ అతః పరో దివో జ్యోతిర్ దీప్యతే విశ్వతః పృష్టేషు సర్వతః పృష్ఠేష్వ్ అనుత్తమేషూత్తమేషు లోకేషు ఇదం వా వ తద్ యద్ ఇదమ్ అస్మిన్న్ అన్తః పురుషే జ్యోతిః ఇత్య్ అత్ర జగత్-కారణత్వ-వ్యాప్త-నిరతిశయ-దీప్తి-యుక్తతయా జ్యోతిః-శబ్ద-నిర్దిష్టం కిం ప్రసిద్ధాద్ ఇత్య్ ఆది జ్యోతిః, ఉత పరమ్ ఏవ బ్రహ్మేతి సంశయః। ప్రసిద్ధ-జ్యోతిర్ ఇతి పూర్వ-పక్షః। కుతః। ఇదం వావ తద్ యద్ ఇదమ్ అస్మిన్న్ అన్తః పురుషే జ్యోతిః ఇతి కౌక్షేయ-జ్యోతిషా ప్రసిద్ధేనైక్యావగమాత్, స్వ-వాక్యే తద్-అతిరిక్త-పరబ్రహ్మాసాధారణ-లిఙ్గాదర్శనాచ్ చ। రాద్ధాన్తస్ తు--- ప్రసిద్ధ-జ్యోతిషోఽన్యద్ ఏవ పరం బ్రహ్మేహ నిరతిశయ-దీప్తి-యుక్తం జ్యోతిః-శబ్ద-నిర్దిష్టమ్। కుతః। పాదోఽస్య సర్వా భూతాని త్రి-పాదస్యామృతం దివి ఇతి పూర్వ-వాక్యే ద్యు-సమ్బన్ధితయా నిర్దిష్టస్యైవ చతుష్పదో బ్రహ్మణః, అథ యద్ అతః పరో దివో జ్యోతిః ఇత్య్ అత్ర ప్రత్యభిజ్ఞానాత్। తచ్ చ పరమ్ ఏవ బ్రహ్మేతి విజ్ఞాతమ్, సర్వేషాం భూతానాం తస్య పాదత్వేన వ్యపదేశాత్। ఏవం పరబ్రహ్మత్వే నిశ్చితే కౌక్షేయ-జ్యోతిషః తద్-ఆత్మకత్వానుసన్ధానం ఫలయోపదిశ్యత ఇతి జ్ఞాయతే। సూత్రార్థస్ తు--- జ్యోతిః-శబ్ద-నిర్దిష్టం పరం బ్రహ్మ, అస్య జ్యోతిషః పూర్వ-వాక్యే సర్వ-భూత-చరణత్వాభిధానాత్। సర్వ-భూత-పాదత్వం చ పరస్యైవ బ్రహ్మణ ఉపపద్యతే॥౨౫॥
Link copied౨౬ ఛన్దోఽభిధానాన్ నేతి చేన్ న తథా చేతోఽర్పణ-నిగమాత్ తథా హి దర్శనమ్॥౧।౧।౨౬॥
Link copiedగాయత్రీ వా ఇదం సర్వమ్ ఇతి గాయత్ర్య్-ఆఖ్య-చ్ఛన్దసః ప్రకృతత్వాత్ సర్వ-భూత-పాదత్వేన గాయత్ర్యా ఏవాభిధానాన్ న బ్రహ్మేతి చేత్, నైతత్। తథా చేతోఽర్పణ-నిగమాత్--- గాయత్రీ యథా భవతి తథా బ్రహ్మణి చేతోఽర్పణోపదేశాత్। గాయత్రీ-సాదృశ్యం చతుష్పాత్త్వం బ్రహ్మణ్య్ అనుసన్ధేయమ్ ఇత్య్ ఉపదిశ్యతే। గాయత్ర్యాః సర్వాత్మకత్వానుపపత్తేర్ ఇత్య్ అర్థః। తథా హి దర్శనం తథా హ్య్ అన్యత్రాప్య్ అఛన్దస ఏవ సాదృశ్యాచ్ ఛన్దః-శబ్దేనాభిధానం దృశ్యతే తే వా ఏతే పఞ్చాన్యే పఞ్చాన్యే దశ సమ్పద్యన్త ఇత్య్ ఆరభ్య సైషా విరాడ్ అన్నాత్ ఇతి॥౨౬॥
Link copied౨౭ భూతాది-పాద-వ్యపదేశోపపత్తైశ్ చైవమ్॥౧।౧।౨౭॥
Link copiedభూత-పృథివీ-శరీర-హృదయాని నిర్దిశ్య సైషా చతుష్పదా ఇతి భూతాదీనాం పాదత్వ-వ్యపదేశో బ్రహ్మణ్య్ ఏవోపపద్యత ఇతి బ్రహ్మైవ గాయత్రీ-శబ్ద-నిర్దిష్టమ్ ఇతి గమ్యతే॥౨౭॥
Link copied౨౮ ఉపదేశ-భేదాన్ నేతి చేన్ నోభయస్మిన్న్ అప్య్ అవిరోధాత్॥౧।౧।౨౮॥
Link copiedపాదోఽస్య సర్వా భూతాని త్రి-పాదస్యామృతం దివి ఇతి పూర్వ-వాక్యోదితం పరం బ్రహ్మైవాస్తు; తథాప్య్ అథ యద్ అతః పరో దివో జ్యోతిః ఇతి ద్యు-సమ్బన్ధ-మాత్రేణ నేహ తత్ ప్రత్యభిజ్ఞాయతే; తత్ర చాత్ర చోపదేశ-ప్రకార-భేదాత్; తత్ర హి దివి ఇతి ద్యాః సప్తమ్యా నిర్దిశ్యతే, ఇహ చ దివః పరో జ్యోతిః ఇతి పఞ్చమ్యా, తతో న ప్రతిసన్ధానమ్ ఇతి చేన్ న, ఉభయస్మిన్న్ అపి వ్యపదేశ ఉపరి-స్థితి-రూపార్థైక్యేన ప్రతిసన్ధానావిరోధాత్। యథా వృక్షాగ్రే శ్యేనః, వృక్షాగ్రాత్ పరతః శ్యేన ఇతి॥౨౮॥ఇతి జ్యోతిర్-అధికరణమ్॥౧౦॥
Link copied౧।౧।౧౧
Link copied౨౯ ప్రాణస్ తథానుగమాత్॥౧।౧।౨౯॥
Link copiedకౌషీతకీ-బ్రాహ్మణే ప్రతర్దన-విద్యాయాం త్వమ్ ఏవ వరం వృణీష్వ యం త్వం మనుష్యాయ హితతమం మన్యసే ఇతి ప్రతర్దేనోక్త ఇన్ద్రః ప్రాణోఽస్మి ప్రజ్ఞాత్మా తం మామ్ ఆయుర్ అమృతమ్ ఇత్య్ ఉపాస్స్వ ఇత్య్ ఆహ। అత్ర హితతమోపాసన-కర్మతయా నిర్దిష్ట ఇన్ద్ర-ప్రాణ-శబ్దాభిధేయః కిం జీవః। ఉత పరమాత్మేతి సంశయః। జీవ ఇతి పూర్వః పక్షః। కుతః। ఇన్ద్ర-శబ్దస్య జీవ-విశేషే ప్రసిద్ధేః, ప్రాణ-శబ్దస్యాపి తత్-సమానాధికరణస్య స ఏవార్థ ఇతి తం మామ్ ఆయుర్ అమృతమ్ ఇత్య్ ఉపాస్వ ఇతి తస్యైవోపాస్యత్వోపదేశాద్ ఇతి। రాద్ధాన్తస్ తు--- ఇన్ద్ర-ప్రాణ-శబ్ద-నిర్దిష్టం జీవాద్ అర్థాన్తర-భూతం పరం బ్రహ్మ స ఏష ప్రాణ ఏవ ప్రజ్ఞాత్మానన్దోఽజరోఽమృత ఇతీన్ద్ర-ప్రాణ-శబ్ద-నిర్దిష్టస్యైవ జీవేష్వ్ అసమ్భావితానన్దత్వాజరత్వామృతత్వ-శ్రవణాత్। సూత్రార్థస్ తు--- ఉపాస్యతయోపదిష్టమ్ ఇన్ద్ర-ప్రాణ-శబ్దాభిధేయం పరం బ్రహ్మ। తథేతి ప్రకార-వచనః పరబ్రహ్మ-ప్రకార-భూతేష్వ్ ఆనన్దాదిష్వ్ అస్యానుగమాత్॥౨౯॥
Link copied౩౦ న వక్తురాత్మోపదేశాద్ ఇతి చేద్ అధ్యాత్మ-సమ్బన్ధ-భూమా హ్య్ అస్మిన్॥౧।౧।౩౦॥
Link copiedనాయమ్ ఉపాస్యః పరమాత్మా, మామ్ ఏవ విజానీహి తం మామ్ ఆయుర్ అమృతమ్ ఇత్య్ ఉపాస్వ ఇతి ప్రజ్ఞాత-జీవస్యేన్ద్రస్య వక్తుః స్వాత్మన ఉపాస్యత్వోపదేశాత్, ఉపక్రమే జీవ-భావ-నిశ్చయే సత్య్ ఉపసంహారస్య తద్-అనుగుణతయా నేయత్వాద్ ఇతి చేన్ న। అధ్యాత్మసమ్బన్ధభూమా హ్యస్మిన్ ఆత్మని సమ్బన్ధః--- అధ్యాత్మసమ్బన్ధః తస్య భూమా బహుత్వమ్। జీవాద్ అర్థాన్తర-భూతాత్మాసాధారణ-ధర్మ-సమ్బన్ధ-బహుత్వమ్ అస్మిన్ ప్రకరణే ఉపక్రమ-ప్రభృత్యోపసంహారాద్ ఉపలభ్యతే। ఉపక్రమే తావద్ యం త్వం మనుష్యాయ హితతమం మన్యసే ఇతి హ్య్ అనేనోచ్యమానమ్ ఉపాసనం పరమాత్మోపాసనమ్ ఏవ, తస్యైవ హితతమత్వాత్। తథా ఏష ఏవ సాధు కర్మ కారయతి ఇత్య్ ఆది సాధ్వ్-అసాధు-కర్మణోః కారయితృత్వం పరమాత్మాన ఏవ ధర్మః। తద్య్ అథా రథస్యారేషు నేమిర్ అర్పితా నాభావరా అర్పితాః ఏవమ్ ఏవైతా భూత-మాత్రాః ప్రజ్ఞా-మాత్రాస్వ్ అర్పితాః ప్రజ్ఞామాత్రాః ప్రాణేఽర్పితాః ఇతి సర్వాధారత్వం చ తస్యైవ ధర్మః। ఆనన్దాదయశ్ చ। ఏష లోకాధిపతిర్ ఏష సర్వేశ ఇతి చ। హీతి హేతౌ। అతః పరబ్రహ్మైవాయమ్ ఇత్య్ అర్థః॥౩౦॥
Link copiedపరమాత్మైవోపాస్యశ్ చేత్ కథమ్ ఇన్ద్రో మామ్ ఉపాస్వ ఇత్య్ ఉపాదిదేశేత్య్ అత ఆహ---
Link copied౩౧ శాస్త్ర-దృష్ట్యా తూపదేశో వామదేవవత్॥౧।౧।౩౧॥
Link copiedఇన్ద్రస్య జీవస్యైవ సతః స్వాత్మత్వేనోపాస్య-భూత-పరమాత్మోపదేశోఽయం శాస్త్ర-దృష్ట్యా। అన్తః ప్రవిష్టః శాస్తా జనానాం సర్వాత్మా। తత్ త్వమ్ అసి। య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద యస్యాత్మా శరీరం య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః। ఏష సర్వ-భూతాన్తరాత్మాపహత-పాప్మా దివ్యో దేవ ఏకో నారాయణః ఇత్య్ ఆదీని హి శాస్త్రాణి పరమాత్మానం జీవాత్మన ఆత్మతయోపదిదిశుః। అతో జీవాత్మ-వాచినః శబ్దాః జీవాత్మ-శరీరకం పరమాత్మానమ్ ఏవ వదన్తీతి శాస్త్ర-దృష్టార్థస్య తస్య మామ్ ఏవ విజానీహి। మామ్ ఉపాస్స్వ ఇతి స్వాత్మ-శబ్దేన పరమాత్మోపదేశోఽయం న విరుద్ధ్యతే। యథా వామదేవః శాస్త్ర-దృష్ట్యా స్వాత్మ-శరీరకం పరమాత్మానం పశ్యన్న్ అహమ్ ఇతి పరమాత్మానమ్ అవోచత్। తద్ ధైతత్ పశ్యన్న్ ఋషిర్ వామదేవః ప్రతిపేదే అహం మనుర్ అభవం సూర్యశ్ చాహం కక్షీవాన్ ఋషిర్ అస్మి విప్రః ఇతి॥౩౧॥
Link copied౩౨ జీవ-ముఖ్య-ప్రాణ-లిఙ్గాన్ నేతి చేన్ నోపాసా-త్రైవిధ్యాద్ ఆశ్రితత్వాద్ ఇహ తద్-యోగాత్॥౧।౧।౩౨॥
Link copiedత్రిశిర్షాణం త్వాష్ట్రమహనమరున్ముఖాన్యతీన్సాలావృకేభ్యః ప్రాయచ్ఛమ్। యావద్ ధ్య్ అస్మిఞ్ శరీరే ప్రాణో వసతి తావద్ ఆయుః ఇతి జీవ-ముఖ్య-ప్రాణ-లిఙ్గాత్ నాధ్యాత్మ-సమ్బన్ధ-భూమ్నా పరమాత్మత్వ-నిశ్చయ ఇతి చేన్ న। పరమాత్మన ఏవ స్వాకారేణ జీవ-శరీరకత్వేన, ప్రాణ-శరీరకత్వేన చోపాసా-త్రైవిధ్యాద్ ధేతోః తత్-తచ్-ఛబ్దేనాభిధానమ్ ఇతి నిశ్చీయతే। అన్యత్రాపి బ్రహ్మోపాసనే త్రైవిధ్యస్యాశ్రితత్వాత్ సత్యం జ్ఞానమ్ అనన్తం బ్రహ్మ। ఆనన్దో బ్రహ్మ ఇతి స్వాకారేణోపాస్యత్వం సచ్ చ త్యచ్ చాభవత్ ఇత్య్ ఆదినా భోక్తృ-శరీరకత్వేన భోగ్య-శరీరకత్వేన చ। ఇహ ప్రతర్దన-విద్యాయామ్ అపి తస్య త్రైవిధ్యస్య సమ్భవాత్। అత ఇన్ద్ర-ప్రాణ-శబ్ద-నిర్దిష్టః పరమాత్మా॥౩౨॥ఇతి ఇన్ద్ర-ప్రాణాధికరణమ్॥౧౧॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-రచితే శ్రీ-వేదాన్తదీపే ప్రథమస్యాధ్యాయస్య ప్రథమః పాదః॥
Link copiedsriyah ka:ntho:'nantho: vara guna ganaika:spada vapuh
Link copiedhatha:se:sha:vadyah parama khapado: va:n manasayo:h|
Link copiedabhu:mir bhu:mir yo: natha jana drusa:m a:di purusho:
Link copiedmanas thath pa:da:bje: paricharana saktham bhavathu me:||
Link copiedpranamya sirasa:cha:rya:ms thad a:dishte:na varthmana:|
Link copiedbrahmasu:thra pada:ntha stha ve:da:ntha:rthah praka:syathe:||
Link copiedathre:yam e:va hi ve:da vida:m prakriya: achid vasthunah svaru:pathah svabha:vathas cha:thyantha vilakshanah thad a:thma bhu:thah che:thanah prathyaga:thma:| thasma:d baddha:n muktha:n nithya:ch cha nikhila he:ya prathyani:kathaya:, kalya:na gunaikatha:nathaya: cha, sarva:vastha chid achid vya:pakathaya: dha:rakathaya: niyanthruthaya: se:shithaya: cha:thyantha vilakshanah parama:thma:| yatho:ktham bhagavatha:--- dva:v imau purushau lo:ke: ksharas cha:kshara e:va cha| ksharah sarva:ni bhu:tha:ni ku:tastho:'kshara uchyathe:| uththamah purushas thv anyah parama:thme:thy uda:hruthah| yo: lo:ka thrayam a:visya bibharthy avyaya i:svarah| yasma:th ksharam athi:tho:'ham akshara:d api cho:ththamah| atho:'smi lo:ke: ve:de: cha prathithah purusho:ththama ithi|
Link copiedsruthis cha--- pradha:na kshe:thrajna pathir gune:sah, pathim visvasya:thme:svaram, anthar bahis cha thath sarvam vya:pya na:ra:yanah sthithah ithy a:dika:| ku:tasthah--- muktha svaru:pam| ye: thv aksharam anirde:syam avyaktham paryupa:sathe:| sarvathragam achinthyam cha ku:tastham achalam dhruvam ithy a:di vyapade:sa:th| su:thra ka:ras chaivam e:va vadathi ne:tharo:'nupapaththe:h, bhe:davyapade:sa:th| anupapaththe:s thu na sa:ri:rah, karma karthru vyapade:sa:ch cha, sabda vise:sha:th, sambho:ga pra:pthir ithi che:n na vaise:shya:th, na cha sma:rtha matha dharma:bhila:pa:ch chha:ri:ras cha, ubhaye:'pi hi bhe:de:nainam adhi:yathe:, vise:shana bhe:da vyapade:sa:bhya:m cha ne:tharau, muktho:pasrupyavyapade:sa:ch cha, sthithy adana:bhya:m cha, ithara para:marsa:th sa ithi che:n na:sambhava:th, uththara:ch che:d a:virbhu:tha svaru:pas thu, sushupthy uthkra:nthyo:r bhe:de:na, pathy a:di sabde:bhyah| adhikam thu bhe:da nirde:sa:th| adhiko:pade:sa:th thu ba:dara:yanasyaiva thad darsana:th| jagad vya:pa:ra varjam prakarana:d asannihithathva:ch cha, bho:ga ma:thra sa:mya linga:ch cha ithy a:dibhih| na cha:vidya: krutham upa:dhikrutham va: bhe:dam a:srithyaithe: nirde:sa:h| idam jna:nam upa:srithya mama sa:dharmyam a:gatha:h sarge:'pi no:paja:yanthe: pralaye: na vyathanthi cha, thada: vidva:n punya pa:pe: vidhu:ya niranjanah paramam sa:myam upaithi, muktho:pasrupya vyapada:sa:ch cha, uththara:ch che:d a:virbhu:tha svaru:pas thu, sampadya:virbha:vah sve:na sabda:th, jagad vya:pa:ra varjam prakarana:d asannihithathva:ch cha, bho:ga ma:thra sa:mya linga:ch cha, ithi sarva:vidyo:pa:dhi vinirmuktham adhikruthyaiva bhe:do:papa:dana:th| sruthi smruthi su:thre:shu sarvathra bhe:de: nirdishte: chid achid i:svara svaru:pa bhe:dah sva:bha:viko: vivakshitha ithi nischi:yathe:| sarvam khalv idam brahma thaj jala:n ithi sa:ntha upa:si:tha, va:cha:rambhanam vika:ro: na:madhe:yam mruththike:thy e:va sathyam, sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam thad aikshatha bahu sya:m praja:ye:ye:thi thath the:jo:'srujatha, san mu:la:h so:mye:ma:h sarva:h praja:h sad a:yathana:h sath prathishtha:h, aithada:thmyam idam sarvam thath sathyam sa a:thma: thath thvam asi sve:thake:tho:, kshe:thrajnam cha:pi ma:m viddhi, thad ananyathvam a:rambhana sabda:dibhya ithi parasya brahmanah ka:ranathvam, kruthsnasya chid achid a:thmaka prapanchasya ka:ryathvam, ka:rana:th ka:ryasya:nanyathvam cho:chyama:nam e:vam e:vo:papadyathe:| sarva:vasthasya chid achid vasthunah parama:thma sari:rathvam, parama:thmanas cha:thmathvam, yah pruthivya:m thishthan yasya pruthivi: sari:ram, ya a:thmani thishthan yasya:thma: sari:ram ya a:thma:nam antharo: yamayathi, yasya:vyaktham sari:ram yasya:ksharam sari:ram yasya mruthyuh sari:ram, e:sha sarva bhu:tha:nthara:thma:pahatha pa:pma: divyo: de:va e:ko: na:ra:yanah, anthah pravishtah sa:stha: jana:na:m sarva:thma: ithy a:di sruthyaivo:padishtam ithi su:kshma chid achid vasthu visishtah parama:thma: ka:ranam, sa e:va parama:thma: sthu:la chid achid vasthu sari:rah ka:ryam ithi, ka:rana:vastha:ya:m ka:rya:vastha:ya:m cha chid achid vasthu sari:rakathaya: thath praka:rah parama:thmaiva sarva sabda va:chya ithi parama:thma sabde:na sarva sabda sa:ma:na:dhikaranyam mukhyam e:vo:papannatharam| ane:na ji:ve:na:thmana:nupravisya na:ma ru:pe: vya:karava:ni, thath srushtva: thad e:va:nupra:visath thad anupravisya sach cha thyach cha:bhavath ithy a:di sruthir e:ve:mam artham upapa:dayathi| sarvam a:thmathaya:nupravisya thach chhari:rathve:na sarva praka:rathaya: sa e:va sarva sabda va:chyo: bhavathi:thy arthah| bahu sya:m ithi bahu bhavana sankalpo:'pi na:ma ru:pa vibha:ga:narha:thisu:kshma chid achid vasthu sari:rakathayaikadha:vasthithasya vibhaktha na:ma ru:pa chid achith sari:rakathaya: bahu praka:ratha: vishayah, ithi ve:davith prakriya:|
Link copiedye: punar nirvise:sha ku:tastha sva praka:sa nithya chaithanya ma:thram brahma jna:tha vyathayo:ktham ithi vadanthi, the:sha:m, janma:dyasya yathah, sa:sthra yo:nithva:th, thath thu samanvaya:th, i:kshathe:r na:sabdam ithy a:de:h--- jagad vya:pa:ra varjam, prakarana:d asanannihithathva:ch cha, bho:ga ma:thra sa:mya linga:ch cha, ana:vruththih sabda:d ana:vruththih sabda:th ithy anthasya su:thra ganasya brahmano: jagath ka:ranathva bahu bhavana sankalpa ru:pe:kshana:dy anantha vise:sha prathipa:dana parathva:thsarvam su:thra ja:tham, su:thra ka:ro:da:hrutha:h, yatho: va: ima:ni bhu:tha:ni ja:yanthe:, thad aikshatha bahu sya:m praja:ye:ye:thi ithy a:dya:h sarva sruthayas cha na sangachchhanthe:| atho:chye:tha ye:na:srutham srutham ithy e:ka vijna:ne:na sarva vijna:nam prathijna:ya, yatha: so:myaike:na mruth pinde:na ithy e:ka mruth pinda:rabdha ghata sara:va:di:na:m than mruth pinda:d ananya dravyathaya: thaj jna:ne:na the:sha:m jna:thathe:va, brahma jna:ne:na thad a:rabdhasya kruthsnasya chid achid a:thmakasya jagathas thasma:d anathiriktha vasthuthaya: jna:thatha: sambhavathi:thy upapa:dya, sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam ithi:dam sabda va:chyasya chid achid a:thmaka prapanchasya srushte:h pra:n nikhila bhe:da praha:ne:na sach chhabda va:chye:naikatha:paththim ghata sara:va:dy uthpaththe:h pra:g uthpa:daka mruth pindaikatha:paththivath abhidha:ya, thad aikshatha bahu sya:m ithi thad e:va sach chhabda va:chyam brahma chid achid a:thmaka prapancha ru:pe:na:thmano: bahu bhavanam e:ka mruth pindasya ghata sara:va:di ru:pe:na bahu bhavanavath sankalpya a:thma:nam e:va the:jah prabhruthi jagad a:ka:re:na asrujathe:thi cha:bhidha:ya, aithada:thmyam idam sarvam thath sathyam sa a:thma: thath thvam asi ithy abhidha:na:th brahmaiva:vidya:kruthe:na pa:rama:rthike:na vo:pa:dhina: sambaddham de:va:di ru:pe:na bahu bhu:tham ithi ve:davidbhir abhyupaganthavyam ithi| thad ayuktham, jna:jnau dva:v aja:v i:sani:sau, nithyo: nithya:na:m che:thanas che:thana:na:m e:ko: bahu:na:m yo: vidadha:thi ka:ma:n ithy a:di sruthibhir ji:va:na:m ajathva nithyathva bahuthva vachana:th| yadi ghata sara:va:de:r uthpaththe:h pra:g e:ki:bhu:thasya mrud dravyasya uthpaththy uththara ka:la bha:vi bahuthvavath srushte:h pra:g e:ki:bhu:thasyaiva brahmanah srushty uththara ka:li:nam na:na: vidha ji:va ru:pe:na bahuthvam uchyathe:, thada: ji:va:na:m ajathva nithyathva bahuthva:di virudhye:tha| su:thra viro:dhas cha ithara vyapade:sa:d hitha:karana:di do:sha prasakthih ithi brahmaiva de:va manushya:di ji:va svaru:pe:na bahu bhu:tham che:d a:thmano: hitha:karana:di do:sha prasakthir ithy ukthva:, adhikam thu bhe:da nirde:sa:d ithi ji:va:d brahmano:'rtha:ntharathvam uktham| thatha: cha vaishamya nairghrunye: na sa:pe:kshathva:d ithi de:va:di vishama srushti prayuktha paksha pa:tha nairghrunye:, ji:va:na:m pu:rva pu:rva karma:pe:kshathva:d vishama srushte:h ithi parihruthe:| thatha: na karma:vibha:ga:d ithi che:n na:na:dithva:d upapadyathe: cha:pyupalabhyathe: cha ithi, sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam ithi srushte:h pra:g avibha:ga vachana:th srushte:h pra:g ji:va:na:m abha:va:th thath karma na sambhavathi:thi paricho:dya, ji:va:na:m thath karma prava:ha:na:m cha:na:dithva:d ithi parihrutham| na:thma: sruthe:r nithyathva:ch cha tha:bhyah ithy a:thmana uthpaththy abha:vas cho:ktho: nithyathvam cha sva:bhyupagama viro:dhascha| a:mo:ksha:j ji:va bhe:dasya:na:dithvam sarvair e:va hi ve:da:nthibhir abhyupagamyathe:| athah sruthi viro:dha:th su:thra viro:dha:th sva:bhyupaga viro:dha:ch cha srushte:h pra:g e:kathva:vadha:ranam na:ma ru:pa vibha:ga:bha:va:bhipra:yam, na:ma ru:pa vibha:ga:narha:su:kshma chid achid vasthu sakthi bhe:da saham che:thi sarvair abhyupagamyathe:| iya:ms thu vise:shah--- avidya: parikalpane:'py upa:dhipari kalpane:'pi brahma vyathirikthasya:vidya: sambandhinas cho:pa:dhisambandhinah che:thanasya:bha:va:d avidyo:pa:dhi sambandhau thath krutha:s cha do:sha: brahmana e:va bhave:yur ithi|
Link copiedsan ma:thra brahma va:de:'pi pra:ksrushte:h san ma:thram brahmaikam e:va srushty uththara ka:lam bho:kthru bho:gya niyanthru ru:pe:na thridha: bhu:tham che:d ghata sara:va manikavaj ji:ve:svarayo:r uthpaththimaththvam anithyathvam cha sya:th| athaikathva:paththi ve:la:ya:m api bho:kthru bho:gya niyanthru sakthi thrayam avasthitham ithi che:th, kim idam sakthi thraya sabda va:chyam ithi vive:chani:yam| yadi san ma:thrasyaikasyaiva bho:kthru bho:gya niyanthru ru:pe:na parina:ma sa:marthyam sakthi thraya sabda va:chyam, e:vam tharhi mruth pindasya ghata sara:va:di parina:ma samarthasya thad uthpa:dakathvam iva brahmana i:svara:di:na:m uthpa:dakathvam ithi the:sha:m anithyathvam e:va| athe:svara:di:na:m su:kshma ru:pe:na:vasthithir e:va sakthir ithy uchye:tha, tharhi thad athirikthasya san ma:thrasya brahmanah prama:na:bha:va:th thad abhyupagame: cha thad uthpa:dyathaye:svara:di:na:m anithyathva prasanga:ch cha thraya:na:m na:ma ru:pa vibha:ga:narha su:kshma dasa:paththir e:va pra:ksrushte:r e:kathva:vadha:rana:vase:ye:thi vakthavyam| na thada: the:sha:m brahma:thmakathva:vadha:ranam virudhyathe:| athah sarva:vastha:vasthithasya chid achid vasthunah brahma sari:rathva sruthe:h sarvada: sarva sabdair brahmaiva thath thach chhari:rakathaya: thath thad visishtam e:va:bhidhi:yatha ithi sthu:la chid achid vasthu visishtam brahmaiva ka:rya bhu:tham jagath, na:ma ru:pa vibha:ga:narha su:kshma chid achid vasthu visishtam brahma ka:ranam ithi thad e:va mruth pinda stha:ni:yam, sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam ithy uchyathe:, thad e:va vibhaktha na:ma ru:pa chid achid vasthu visishtam brahma ka:ryam ithi sarvam samanjasam| sruthi nya:ya viro:dhas thu the:sha:m bha:shye: prapanchitha ithi ne:ha prathanyathe:| bha:shyo:dithah adhikarana:rthah sasu:thra:rtha vivaranah sukha grahana:ya sankshe:pe:no:panyasyathe:|
Link copiedsa:ri:raka:dhya:ya pa:da:rtha sangrahah
Link copiedthathra prathame: pa:de: pradha:na purusha:v e:va jagath ka:ranathaya: ve:da:ntha:h prathipa:dayanthi:thy a:sankya sarvajnam sathya sankalpam niravadyam samastha kalya:na guna:karam brahmaiva jagath ka:ranathaya: prathipa:dayanthi:thy uktham| dvithi:ya thruthi:ya chathurtha pa:de:shu ka:nichid ve:da:ntha va:kya:ni pradha:na:di prathipa:dana para:ni:thi than mukhe:na sarva:kshe:pam a:sankya tha:ny api brahma para:ni:thy uktham| thathra:spashta ji:va:di lingaka:ni va:kya:ni dvithi:ye: niru:pitha:ni, spashta lingaka:ni thruthi:ye:| chathurthe: thu pradha:na:di prathipa:dana chchha:ya:nusa:ri:ni:thi vise:shah| athah prathame:'dhya:ye: sarvam ve:da:ntha va:kya ja:tham sa:rvajnya sathya sankalpathva:di yuktham brahmaiva jagath ka:ranathaya: prathipa:dayathi:thi stha:pitham| dvithi:ye:'dhya:ye: thasya:rthasya durdharshanathva prathipa:dane:na dradhimo:chyathe:| thathra prathame: pa:de: sa:nkhya:di smruthi viro:dha:n nya:ya viro:dha:ch cha prasaktho: do:shah parihruthah| dvithi:ye: thu sa:nkhya:di ve:da ba:hya paksha prathikshe:pa mukhe:na thasyaiva:darani:yatha: sthiri:krutha:| thruthi:ya chathurthayo:r ve:da:ntha va:kya:na:m anyo:nya viprathishe:dha:di do:sha gandha:bha:va khya:pana:ya viyad a:di:na:m brahma ka:ryatha: praka:ro: viso:dhyathe:| thathra thruthi:ye: pa:de: cha chid achith prapanchasya brahma ka:ryathve: sathy apy achid amsasya svaru:pa:ny atha:bha:ve:na ka:ryathvam, chid amsasya svabha:va:n yatha:bha:ve:na jna:na sanko:cha vika:sa ru:pe:na ka:ryatho:ditha:| chathurthe: thu ji:vo:pakarana:na:m indriya:di:na:m uthpaththi praka:rah ithi prathame:na:dhya:ya dvaye:na mumukshubhir upa:syam nirastha nikhila do:sha gandha manavadhika:thisaya:sankhye:ya kalya:na guna ganam nikhila jagad e:ka ka:ranam brahme:thi prathipa:ditham| uththare:na dvaye:na brahmo:pa:sana praka:ras thath phala bhu:tha mo:ksha svaru:pam cha chinthyathe:| thathra thruthi:yasya prathame: pa:de: brahmo:pa:sisisho:thpaththaye: ji:vasya samsaratho: do:sha:h ki:rthitha:h| dvithi:ye: cho:pa:sisisho:thpaththaya e:va brahmano: nirastha nikhila do:shatha: kalya:na guna:karatha: ru:po:bhaya lingatha: prathipa:dyathe:| thruthi:ye: thu brahmo:pa:sanaikathva na:na:thva vicha:ra pu:rvakam upa:sane:shu upasamha:rya:nupasamha:rya guna vise:sha:h prapanchitha:h| chathurthe: thu upa:sanasya varna:srama dharme:thi karthavyatha:kathvam uktham| chathurthe:'dhya:ye: brahmo:pa:sana phala chintha: kriyathe:| thathra prathame: pa:de: brahmo:pa:sana phalam vakthum upa:sana svaru:pa pu:rvako:pa:sana:nushtha:na praka:ro: vidya: ma:ha:thmyam cho:chyathe:| dvithi:ye: thu brahmo:pa:si:na:na:m brahma pra:pthi gathy upakrama praka:ras chinthithah| thruthi:ye: thv archira:di gathi svaru:pam archira:dinaiva brahma pra:pthir ithi cha prathipa:dyathe:| chathurthe: thu mukthasya brahma:nubhava praka:ras chinthyathe:| atho: mumukshubhir jna:thavyam nirastha nikhila do:sha gandham anavadhika:thisaya:sankhye:ya kalya:na guna gana:karam nikhila jagad e:ka ka:ranam param brahma, thaj jna:nam cha mo:ksha sa:dhanam asakrud a:vruththa smruthi santha:na ru:pam upa:sana:thmakam, upa:sana phalam cha:rchira:dina: param brahmo:pasampadya sva svaru:pa bhu:tha jna:na:di guna:virbha:va pu:rvaka:nantha maha: vibhu:thy anavadhika:thisaya:nanda brahma:nubhavo:'punar a:vruththi ru:pa ithi sa:ri:raka sa:sthre:no:ktham bhavathi|
Link copied1.1.1
Link copied1 o:m atha:tho: brahma jijna:sa:||1|1|1||
Link copiedbrahma mi:ma:msa: vishayah| sa: kim a:rambhani:ya:, utha ana:rambhani:ye:thi samsayah| thad artham pari:kshyathe:--- ve:da:ntha:h kim brahmani prama:nam utha ne:thi| thad artham parinishpanne:'rthe: sabdasya bo:dhana sa:marthya:vadha:ranam sambhavathi, ne:thi| na sambhavathi ithi pu:rva pakshah| sambhavathi:thi ra:ddha:nthah| yada: na sambhavathi thada: parinishpanne:'rthe: sabdasya bo:dhana sa:marthya:bha:va:th siddha ru:pe: brahmani na ve:da:ntha:h prama:nam ithi thad vicha:ra:ka:ra: brahma mi:ma:msa: na:rambhani:ya:| yada: sambhavathi thada: siddhye:'py arthe: sabdasya bo:dhana sa:marthya sambhava:d ve:da:ntha:h brahmani prama:nam ithi sa: cha:rambhani:ya: sya:th| athra pu:rva paksha va:di: manyathe:--- vruddha vyavaha:ra:d anyathra vyuthpaththy asambhava:d vyavaha:rasya cha ka:rya buddhi pu:rvakathve:na ka:rya e:va:rthe: sabda sakthy adha:rana:th parinishpanne:'rthe: brahmani na ve:da:ntha:h prama:nam ithi thad vicha:ra ru:pa: brahma mi:ma:msa: na:rambhani:ye:thi| siddha:nthas thu--- ba:la:na:m ma:tha: pithru prabhruthibhir amba: tha:tha ma:thula sisu pasu pakshi mruga:dishv angulya: nirdisya thath thad abhidha:yinah sabda:n prayunja:naih krame:na bahusah sikshitha:na:m thath thach chhabda sravana samanantharam sva:thmana:m e:va thad artha buddhy uthpaththi darsana:th, sabda:rthayo:h sambandha:nthara:darsana:th sanke:thayithru purusha:jna:na:ch cha bo:dhya bo:dhaka bha:va e:va sabda:rthayo:h sambandha ithi nischinva:na:na:m parinishpanne:'rthe: sabdasya bo:dhakathva:vadha:ranam sambhavathi:thi brahmani ve:da:ntha va:kya:na:m pra:ma:nya:th thad artha vicha:ra:ka:ra: brahma mi:ma:msa: a:rambhani:ye:thi| su:thra:rthas thu--- atha:tho: brahma jijna:sa:--- atha ithy a:nantharye:| atha ithi cha vruththasya he:thu bha:ve:| brahmano: jijna:sa: brahma jijna:sa:, jna:thum ichchha: jijna:sa:| ichchha:ya: ishyama:na pradha:nathva:d ishyama:nam jna:nam iha:bhipre:tham| pu:rva vruththa:d alpa:sthira phala ke:vala karma:dhigama:d anantharam thatha e:va he:tho:r anantha sthira phala brahma:dhigamah karthavyah||1||ithi jijna:sa:dhikaranam||1||
Link copied1.1.2
Link copied2 janma:dy asya yathah||1|1|2||
Link copiedthaiththari:yake:--- yatho: va: ima:ni bhu:tha:ni ja:yanthe: ye:na ja:tha:ni ji:vanthi yath prayanthy abhisamvisanthi thad vijijna:sasva thad brahma ithy e:thad va:kyam vishayah| kim e:thaj jijna:syathaya: prathijna:tham brahma jagaj janma:di ka:ranathaya: lakshanathah prathipa:dayithum sakno:thi na ve:thi samsayah| na sakno:thi:thi pu:rva pakshah| kuthah| jagaj janma:di:na:m upalakshanathaya: vise:shanathaya: va: brahma lakshanathva:sambhava:th| upalakshanathve: hy upalakshyasya:ka:ra:nthara yo:go:'pe:kshithah| na che:ha thad asthi| atha upalakshanathvam na sambhavathi| vise:shanathve:'py ane:ka vise:shana visishtathaya:pu:rvasyaikasya prathipa:dakathvam na sambhavathi, vise:shana:na:m vya:varthakathve:na vise:shana bahuthve: brahma bahuthva prasakthe:h| ra:ddha:nthas thu--- e:kasminn aviruddha:na:m vise:shana:na:m ane:kathve:'pi sya:mathva yuvathva:di visishta de:vadaththavaj jagaj janma:di visishtam brahmaikam e:va vise:shyam bhavathi| upalakshanathve: janma:dibhir upalakshyasya brahma sabda:vagatha bruhaththva:dy a:ka:ra:s cha santhi:thi jagaj janma:di ka:ranam brahme:thi lakshanathah prathipa:dayithum sakno:thi:thi| su:thra:rthah--- asya vividha vichithra bho:kthru bho:gya pu:rnasya jagatho: yatho: janma:di, thad brahme:thi prathipa:dayithum sakno:thy e:thad va:kyam ithi||2||ithi janma:dy adhikaranam||2||
Link copied1.1.3
Link copied3 sa:sthra yo:nithva:th||1|1|3||
Link copiedyatho: va: ima:ni ithy a:di va:kyam e:va vishayah| thath kim jagath ka:rane: brahmani prama:nam utha ne:thi samsayah| naithath prama:nam ithi pu:rva pakshah, anuma:na siddha brahma vishayathva:th| prama:na:nthara:vishaye: hi sa:sthram prama:nam| jagathah sa:vayavathve:na ka:ryathva:th| ka:ryasya svo:pa:da:no:pakarana samprada:na prayo:jana:dy abhijna karthrukathva:th, jagan nirma:na ka:rya chathurah karma paravasa parimitha sakthy a:di kshe:thrajna vilakshanah sarvajnah sarva sakthah sarve:svarah anuma:na siddha ithi thasmin yatho: va: ima:ni bhu:tha:ni ithy a:di va:kyam prama:nam ithi| ra:ddha:nthas thu--- jagathah ka:ryathve:'py e:kadaivaike:naiva kruthsnam jagan nirmitham ithy athra prama:na:bha:va:th| kshe:thrajna:na:m e:va vilakshana punya:na:m jna:na sakthi vaichithrya sambha:vanaya: kada:chith kasyachij jagad e:kade:sa nirma:na sa:marthya sambhava:th thad athiriktha purusha:numa:nam na sambhavathi:thi sa:sthraika prama:nakathva:d brahmanas thath prathipa:dakathve:na thasmin, yatho: va: ima:ni bhu:tha:ni ithy a:di va:kyam prama:nam ithi| sa:sthram yo:nih yasya ka:ranam| prama:nam thad brahma sa:sthra yo:ni; prama:na:nthara:vishayathve:na sa:sthraika prama:nakathva:d brahmanas thasmin, yatho: va: ima:ni ithy a:di va:kyam prama:nam ithi su:thra:rthah||3||ithi sa:sthra yo:nithva:dhikaranam||3||
Link copied1.1.4
Link copied4 thath thu samanvaya:th||1|1|4||
Link copiedbrahmanah sa:sthra prama:nakathvam sambhavathi, ne:thi vicha:ryathe:| na sambhavathi:thi pu:rvah pakshah| kuthah pravruththi nivruththy anvaya virahino: brahmanah svaru:pe:na: purusha:rthathva:th, purusha:rtha:vabo:dhakathve:na cha sa:sthrasya pra:ma:nya:th, mo:ksha sa:dhana brahma dhya:na vidhi parathve:'py asathy api brahmani thad dhya:na vidha:na sambhava:th, na brahma sad bha:ve: tha:thparyam ithi brahmanah sa:sthra prama:nakathvam na sambhavathi| ra:ddha:nthas thv athisayitha guna pithru puthra:di ji:vana jna:navad anavadhika:thisaya:nanda svaru:pa brahma jna:nasya nirathisaya purusha:rthathva:th thasya sa:sthra prama:nakathvam sambhavathi, a:nando: brahma, yad e:sha a:ka:sa a:nando: na sya:th, yatho: va:cho: nivarthanthe: apra:pya manasa: saha, a:nandam brahmano: vidva:n ithy a:dibhir anavadhika:thisaya:nanda svaru:pam brahme:thi hi prathipa:dyathe:| atho: brahma sve:na pare:na va:py anubhu:yama:nam nirathisaya:nanda svaru:pam e:ve:thi thath prathipa:dana parasyaiva sa:ksha:th purusha:rtha:nvayah| pravruththi nivruththi parasya thu thath sa:dhya phala sambandha:th purusha:rtha:nvaya ithi| su:thra:rthah--- thu sabdah prasaktha:sanka: nivruththy arthah| thath--- pu:rvas u:thro:ditham brahmanah sa:sthra yo:nithvam samanvaya:th siddhyathi| samyak purusha:rthathaya: anvayah samanvayah| ve:dithur nirathisaya:nanda svaru:pathve:na parama purusha:rtha ru:pe: pare: brahmani ve:dakathaya: sa:sthrasya:nvaya:d brahmanah sa:sthra prama:nakathvam siddhyathy e:ve:thi||4|| ithi samanvaya:dhikaranam||4||
Link copied1.1.5
Link copied5 i:kshathe:r na:sabdam||1|1|5||
Link copiedye:na:srutham srutham bhavathi ithy a:di jagath ka:rana va:di ve:da:ntha ve:dyam vishayah| thath kim sa:nkhyo:ktham pradha:nam utha anavathika:thisaya:nandam brahme:thi samsayah| pradha:nam ithi pu:rva pakshah| kuthah prathijna: drushta:ntha:nvaye:na:numa:na:ka:ra va:kya ve:dyathva:th| ye:na:srutham srutham bhavathi ithy a:dina: e:ka vijna:ne:na sarva vijna:nam prathijna:ya, yatha: so:myaike:na mruth pinde:na ithi drushta:nthe:na hy upapa:dyathe:| e:vam a:numa:nikam e:va e:thad va:kya ve:dyam ithi nischi:yathe:| sad e:va so:mye:dam ithi sach chhabdah pradha:na vishayah| thad aikshatha bahu sya:m ithi cha gaunam i:kshanam bhavithum arhathi; thath the:ja aikshatha ithy a:di gaune:kshana sa:hacharya:ch cha| ra:ddha:nthas thu--- thad aikshatha bahu sya:m ithi bahu bhavana sankalpa ru:pe:kshana:nvaya:th, sad e:va so:mya ithi ka:rana va:chi sach chhabda vishayo: na:che:thanam pradha:nam api thu sa:rvajnya sathya sankalpa:di yuktham parabrahmaive:thi nischi:yathe:| na cha:numa:na:ka:ram e:thad va:kyam, he:thv anupa:da:na:th| anya jna:ne:na:nya jna:na:sambhava parijihi:rshaya: thu drushta:ntho:papa:da:nam| na cha mukhye:kshana sambhave: gauna parigraha sambhavah| the:jah prabhruthi sari:rakasya:ntharya:mino: va:chakathva:d ithi param e:va brahma jagath ka:rana va:di ve:da:ntha ve:dyam ithi| su:thra:rthas cha--- i:kshathe:r ithi i:kshathi dha:thv arthah i:kshanam| sabdah prama:nam yasya na bhavathi thad asabdam--- paro:ktham a:numa:nikam pradha:nam| sad e:va so:mye:dam ithi jagath ka:ranathaya: prathipa:ditha:nvayinah i:kshana vya:pa:ra:n na:che:thanam asabdam thad api thu sarvajnam sathya sankalpam brahmaiva jagath ka:ranam ithi nischi:yathe: ithi||5||
Link copied6 gaunas che:n na:thma sabda:th||1|1|6||
Link copiedthath the:ja aikshatha ithy ache:thana gatha gaune:kshana sa:hacharya:th, thad aikshatha ithy athra i:kshathir gauna ithi che:n na, a:thma sabda:th| sach chhabda:bhihithe: i:kshithari, aithada:thmyam idam sarvam thath sathyam sa a:thma: ithi sru:yama:na:ch che:thana va:chinah a:thma sabda:d ayam i:kshathir mukhya e:ve:thi prathi:yathe:| aithada:thmyam idam sarvam ithi the:jah prabhruthi:na:m api thad a:thmakathva:vagama:th the:jah prabhruthi:kshanam api mukhyam e:ve:thy abhipra:yah||6||
Link copied7 than nishthasya mo:ksho:pade:sa:th||1|1|7||
Link copiedithas cha sach chhabda:bhihitham na pradha:nam api thu param e:va brahma| thath thvam asi ithi sad a:thmakathaya: prathyag a:thma:nusandha:na nishthasya, thasya tha:vad e:va chiram ya:van na vimo:kshye: atha sampathsya ithi mo:ksho:pade:sa:th thath ka:ranam param e:va brahma||7||
Link copied8 he:yathva:vachana:ch cha||1|1|8||
Link copiedyadi pradha:nam iha ka:ranathaya: vivakshitham, thada: thasya mo:ksha viro:dhithva:d dhe:yathvam uchye:tha| na cho:chyathe:| athas cha na pradha:nam||8||
Link copied9 prathijna: viro:dha:th||1|1|9||
Link copiedpradha:na va:de: prathijna: cha virudhyathe:, ye:na:srutham srutham ithi vakshyama:na ka:rana vijna:ne:na che:thana:che:thana misra kruthsna prapancha jna:nam hi prathijna:tham| che:thana:msam prathi pradha:nasya:ka:ranathva:th, thaj jna:ne:na che:thana:mso: na jna:yatha ithi na pradha:nam ka:ranam||9||
Link copied10 sva:pyaya:th||1|1|10||
Link copiedsvam api:tho: bhavathi| satha: so:mya thada: sampanno: bhavathi ithi ji:vasya sushupthasya sva:pyayah sru:yathe:| sva ka:rane: hy apyayah sva:pyayah| ji:vam prathi pradha:nasya:ka:ranathva:th sva:pyaya sruthih virudhyathe:| athas cha na pradha:nam api thu brahmaiva||10||
Link copied11 gathi sa:ma:nya:th||1|1|11||
Link copieditharo:panishad gathi sa:ma:nya:d asya:m cho:panishadi na pradha:nam ka:ranam vivakshitham| ithara:su cho:panishathsu, yah sarvajnah sarvavith| thasma:d e:thad brahma na:ma ru:pam annam cha ja:yathe:, para:sya sakthir vividhaiva sru:yathe: sva:bha:viki: jna:na bala kriya: cha, sa ka:ranam karana:dhipa:dhipah, a:thmani khalv are: vidithe: sarvam idam viditham, thasya ha va: e:thasya mahatho: bhu:thasya visvasitham e:thad yad rug ve:dah, purusha e:ve:dam sarvam yad bhu:tham yach cha bhavyam, thasma:d vira:d aja:yatha, a:thma: va: idam e:ka e:va:gra a:si:th| sa ima:n lo:ka:n asrujatha, thasma:d va: e:thasma:d a:thmana a:ka:sah sambhu:thah, e:ko: ha vai na:ra:yana a:si:th| sa e:ka:ki: na rame:tha ithi sarvajnah purusho:ththama e:va ka:ranathaya: prathipa:dyathe:| asya:s cha thad gathi sa:ma:nya:d athra:pi sa e:va ka:ranathaya: prathipa:danam arhathi:thi na pradha:nam||11||
Link copied12 sruthathva:s cha||1|1|12||
Link copiedsrutham e:va:sya:m upanishady a:thmatha e:ve:dam sarvam ithi| athas cha sad e:va so:mya ithy a:di jagath ka:rana va:di ve:da:ntha ve:dyam na pradha:nam| sarvajnam sathya sankalpam param e:va brahma ithi sthitham||12||ithi i:kshathy adhikaranam||5||
Link copied1.1.6
Link copied13 a:nanda mayo:'bhya:sa:th||1|1|13||
Link copiedthaiththiri:yake: --- thasma:d va: e:thasma:d a:thmana a:ka:sah sambhu:thah ithi prakruthya, thasma:d va: e:thasma:d vijna:na maya:th| anyo:'nthara a:thma:nanda maya ithy athra jagath ka:ranathaya:vagathah a:nanda mayah kim prathyag a:thma:, utha parama:thme:thi samsayah| prathyag a:thme:thi pu:rvah pakshah| kuthah| thasyaisha e:va sa:ri:ra a:thma: ithy a:nanda mayasya sa:ri:rathva sravana:th| sa:ri:ro: hi sari:ra sambandhi:| sa cha prathyag a:thmaiva| thasya che:thanathve:ne:ksha: pu:rvika: srushtir upapadyatha ithi| ra:ddha:nthas thu --- saisha:nandasya mi:ma:msa: bhavathi ithy a:rabhya, yatho: va:cho: nivarthanthe:, apra:pya manasa: saha, a:nandam brahmano: vidva:n ithi nirathisaya dasa:sirasko:'bhyasyama:na a:nandah prathyag a:thmano:'rtha:nthara bhu:thasya parasyaiva brahmana ithi nischi:yathe:| sa:ri:ra:thmathvam cha parama:thmana e:va, thasma:d va: e:thasma:d a:thmana a:ka:sah sambhu:thah ithy a:ka:sa:di jagath ka:ranathaya:vagatha e:va:nna mayasya sa:ri:ra a:thme:thi prathi:yathe:, a:thma:nthara:nirde:sa:th| sruthy anthare:shu pruthivy akshara:di:na:m sari:rathvam, parama:thmana a:thmathvam cha sru:yathe: yasya pruthivi: sari:ram ithy a:rabhya, e:sha sarva bhu:tha:nthara:thma:pahatha pa:pma: divyo: de:va e:ko: na:ra:yana ithi| anna mayasya:thmaiva pra:na maya:dishu, thasyaisha e:va sa:ri:ra a:thma: yah pu:rvasya ithy anukrushyatha ithi prathyag a:thmano: vijna:na mayasya cha sa e:va sa:ri:ra a:thma:| a:nanda maye: thu, thasyaisha e:va sa:ri:ra a:thma: yah pu:rvasya ithi nirde:sah a:nanda mayasya:nanya:thmathva pradarsana:rthah| atho: jagath ka:ranathaya: nirdishtam a:nanda mayah parama:thmaive:thi| su:thra:rthas thu a:nanda maya sabda nirdishtah a:ka:sa:di jagath ka:rana bhu:thah prathyag a:thmano:'rtha:nthara bhu:thah parama:thma:| kuthah| thasya:nandasya nirathisaya prathi:thi bala:th| sa e:ko: ma:nusha a:nandah| the: ye: satham ithy a:dy abhya:sa:th, thasya cha prathyag a:thmany asambha:vithasya thad athirikthe: parama:thmany e:va sambhava:th||13||
Link copied14 vika:ra sabda:n ne:thi che:n na pra:churya:th||1|1|14||
Link copieda:nanda mayah ithi vika:ra:rtha:n mayat chhabda:n na:yam avikruthah parama:thma:| asya cha vika:ra:rthathvam e:va yuktham, anna mayah ithi vika:ro:pakrama:d ithi che:n na, prathyag a:thmano:'pi, na ja:yathe: mriyathe: va: ithy a:di vika:ra prathishe:dha:th pra:churya:rtha e:va:yam mayad ithi nischaya:th| asmims cha:nande:, yatho: va:cho: nivarthanthe: ithy a:di vakshyama:na:th pra:churya:d ayam a:nanda prachurah parama:thmaiva| na hy anavadhika:thisaya ru:pah prabhu:tha:nandah prathyag a:thmani sambhavathi||14||
Link copied15 thad dhe:thu vyapade:sa:ch cha||1|1|15||
Link copiede:sha hy e:va:nandaya:thi ithi ji:va:n prathy a:nandayithruthva vyapade:sa:d ayam parama:thmaiva||15||
Link copied16 ma:nthra varnikam e:va cha gi:yathe:||1|1|16||
Link copiedsathyam jna:nam anantham brahma ithi manthra varno:ditham brahmaiva, thasma:d va: e:thasma:d a:thmana ithy a:rabhya, a:nanda mayah ithi cha gi:yathe:| thathas cha:nanda mayo: brahma||16||
Link copiedprathyag a:thmanah parisuddham svaru:pam manthra varno:ditham ithy a:sankya:ha---
Link copied17 ne:tharo:'nupapaththe:h||1|1|17||
Link copiedparasma:d brahmanah itharah prathyag a:thma: na manthra varno:dithah, thasya, vipaschitha: brahmana: ithi vipaschiththva:nupapaththe:h| vividham pasyach chiththvam hi vipaschiththvam| thach cha, so:'ka:mayatha bahu sya:m praja:ye:ya ithy a:di va:kyo:ditha nirupa:dhika bahu bhavana sankalpa ru:pam sarvajnathvam| thath thu prathyag a:thmanah parisuddhasya:pi na sambhavathi, jagad vya:pa:ra varjam prakarana:d asannihithathva:ch cha ithi vakshyama:nathva:th| athah param brahmaiva ma:nthra varnikam||17||
Link copied18 bhe:da vyapade:sa:s cha||1|1|18||
Link copiedbhi:sha:sma:d va:thah pavathe: ithy a:dina: agni va:yu su:rya:di ji:va vargasya a:nanda maya:th prasa:sithuh prasa:sithavyathve:na bhe:do: vyapadisyathe:| athas cha:nanda mayah parama:thme:thi| yo:jana:ntharam--- thasma:d va: e:thasma:d vijna:na maya:th| anyo:'nthara a:thma:nanda maya ithi vijna:na maya:j ji:va:d a:nanda mayasya bhe:do: vyapadisyathi| vijna:na mayo: hi ji:va e:va na buddhi ma:thram, mayat chchhruthe:h| athas cha:nanda mayah parama:thma:||18||
Link copied19 ka:ma:ch cha na:numa:na:pe:ksha:||1|1|19||
Link copiedso:'ka:mayatha ithy a:rabhya, idam sarvam asrujatha ithi ka:ma:d e:va jagath sarga sravana:d asya:nanda mayasya jagath sarge: na:numa:na gamya prakruthy ape:ksha: prathi:yathe:| prathyag a:thmano: yasya kasyachid api sarge: prakruthy ape:ksha:sthi| athas cha:yam prathyag a:thmano:'nyah parama:thma:||19||
Link copied20 asminn asya cha thad yo:gam sa:sthi||1|1|20||
Link copiedraso: vai sah| rasam hy e:va:yam labdhva:nandi: bhavathi ithy asmin--- a:nanda maye: rasa sabda nirdishte:, asya ayam sabda nirdishtasya, ji:vasya thal labdha:da:nanda yo:gam sa:sthi sa:sthram| prathyag a:thmano: yal labdha:da:nanda yo:gah, sa thasma:d anyah parama:thmaive:thy a:nanda mayah param brahma||20||ithy a:nanda maya:dhikaranam||6||
Link copied1.1.7
Link copied21 anthas thad dharmo:pade:sa:th||1|1|21||
Link copiedchha:ndo:gye: ya e:sho:'nthar a:dithye: hiranmayah purusho: drusyathe:, ya e:sho:'nthar akshini purusho: drusyathe: ithy akshya:dithya:dha:rathaya: sru:yama:nah purushah kim ji:va vise:shah, utha parama purusha ithi samsayah| ji:va vise:sha ithi pu:rva pakshah| kuthah| sasari:rathva:th| sari:ra samyo:go: hi karma vasyasya ji:vasya sva karma phala bho:ga:ye:thi| ra:ddha:nthas thu--- sa e:sha sarve:bhyah pa:pmabhya udithah ithy a:dina: apahatha pa:pmathva pu:rvaka sarva lo:ka ka:me:sathvo:pade:sa:th, the:sha:m cha ji:ve:shv asambhava:th, ayam akshya:dithya:dha:rah purusho:ththama e:va| sva:sa:dha:rana vilakshana ru:pavaththvam cha jna:na balaisvary a:di kalya:na gunavaththasya sambhavathi| sru:yathe: cha thad ru:pasya apra:kruthathvam| a:dithya varnam thamasas thu pa:re: ithy a:dau| su:thra:rthas thu--- a:dithya:dy anthah sru:yama:nah purushah param brahma| thad asa:dha:rana:pahatha pa:pmathva:di dharmo:pade:sa:th||21||
Link copied22 bhe:da vyapade:sa:ch cha:nyah||1|1|22||
Link copiedya a:dithye: thishthann a:dithya:d antharah, ya a:thmani thishthann a:thmano:'ntharah ithy a:dibhih ji:va:d bhe:da vyapade:sa:ch cha:yam ji:va:d anyah parama:thmaiva||22||ithy anthar adhikaranam||7||
Link copied1.1.8
Link copied23 a:ka:sas thal linga:th||1|1|23||
Link copied(chha:ndo:gye:)--- asya lo:kasya ka: gathih ithy a:ka:sa ithi ho:va:cha sarva:ni ha va: ima:ni bhu:tha:ny a:ka:sa:d e:va samuthpadyanthe: a:ka:sam prathyastham yanthi ithy athra a:ka:sa sabda nirdishtam jagath ka:ranam kim prasiddha:ka:sah utha samastha chid achid vasthu vilakshanam brahme:thi samsayah| prasiddha:ka:sah ithi pu:rva pakshah| kuthah| a:ka:sa sabdasya lo:ke: thathraiva vyuthpaththe:h, yatho: va: ima:ni bhu:tha:ni ithy a:di sa:ma:nya lakshanasya sad a:di sabda:na:m api sa:dha:ranathve:na, a:ka:sad e:va samuthpadyanthe:, ithi vise:she: paryavasa:na:th| i:kshana:dayo:'py a:ka:sa e:va jagath ka:ranam ithi nischithe: sathi gauna: varnani:ya: ithi| ra:ddha:nthas thu--- sarva:ni ha va: ima:ni bhu:tha:ni ithi prasiddhavan nirde:sa:th, prasiddhe:s che:ksha: pu:rvakathva:th chid achid vasthu vilakshanam sarvajnam brahma:ka:sa sabda nirdishtam ithi| su:thra:rthas thu--- a:ka:sa sabda nirdishtam param e:va brahma, prasiddhavan nirdisyama:na:j jagath ka:ranathva:di linga:th||23||ithy a:ka:sa:dhikaranam||8||
Link copied1.1.9
Link copied24 atha e:va pra:nah||1|1|24||
Link copiedchha:ndo:gye:--- prastho:tharya: de:vatha: prastha:vam anva:yaththa: ithi prasthuthya, kathama: sa: de:vathe:thi| pra:na ithi ho:va:cha, sarva:ni ha va: ima:ni bhu:tha:ni pra:nam e:va:bhisamvisanthi; pra:nam abhyujjihathe:, saisha: de:vatha: prastha:vam anva:yaththa: ithy athra nikhila jagath ka:ranathaya: pra:na sabda nirdishtah kim prasiddhah pra:nah, utho:ktha lakshanam brahme:thi samsayah| prasiddha pra:na ithi pu:rva pakshah| kuthah sarvasya jagathah pra:na:yaththa sthithi darsana:th, sa e:va nikhila jagad e:ka ka:ranathaya: nirde:sam arhathi:thi| ra:ddha:nthas thu--- sila: ka:shta:dishv ache:thane:shu che:thana svaru:pe:shu cha pra:na:yaththa sthithy abha:vath, sarva:ni ha va: ima:ni bhu:tha:ni ithi prasiddhavan nirde:sa:d e:va he:tho:h pra:na sabda nirdishtam param e:va brahma| su:thram api vya:khya:tham||24||ithi pra:na:dhikaranam||9||
Link copied1.1.10
Link copied25 jyo:this charana:bhidha:na:th||1|1|25||
Link copiedchha:ndo:gye: atha yad athah paro: divo: jyo:thir di:pyathe: visvathah prushte:shu sarvathah prushthe:shv anuththame:shu:ththame:shu lo:ke:shu idam va: va thad yad idam asminn anthah purushe: jyo:thih ithy athra jagath ka:ranathva vya:ptha nirathisaya di:pthi yukthathaya: jyo:thih sabda nirdishtam kim prasiddha:d ithy a:di jyo:thih, utha param e:va brahme:thi samsayah| prasiddha jyo:thir ithi pu:rva pakshah| kuthah| idam va:va thad yad idam asminn anthah purushe: jyo:thih ithi kaukshe:ya jyo:thisha: prasiddhe:naikya:vagama:th, sva va:kye: thad athiriktha parabrahma:sa:dha:rana linga:darsana:ch cha| ra:ddha:nthas thu--- prasiddha jyo:thisho:'nyad e:va param brahme:ha nirathisaya di:pthi yuktham jyo:thih sabda nirdishtam| kuthah| pa:do:'sya sarva: bhu:tha:ni thri pa:dasya:mrutham divi ithi pu:rva va:kye: dyu sambandhithaya: nirdishtasyaiva chathushpado: brahmanah, atha yad athah paro: divo: jyo:thih ithy athra prathyabhijna:na:th| thach cha param e:va brahme:thi vijna:tham, sarve:sha:m bhu:tha:na:m thasya pa:dathve:na vyapade:sa:th| e:vam parabrahmathve: nischithe: kaukshe:ya jyo:thishah thad a:thmakathva:nusandha:nam phalayo:padisyatha ithi jna:yathe:| su:thra:rthas thu--- jyo:thih sabda nirdishtam param brahma, asya jyo:thishah pu:rva va:kye: sarva bhu:tha charanathva:bhidha:na:th| sarva bhu:tha pa:dathvam cha parasyaiva brahmana upapadyathe:||25||
Link copied26 chhando:'bhidha:na:n ne:thi che:n na thatha: che:tho:'rpana nigama:th thatha: hi darsanam||1|1|26||
Link copiedga:yathri: va: idam sarvam ithi ga:yathry a:khya chchhandasah prakruthathva:th sarva bhu:tha pa:dathve:na ga:yathrya: e:va:bhidha:na:n na brahme:thi che:th, naithath| thatha: che:tho:'rpana nigama:th--- ga:yathri: yatha: bhavathi thatha: brahmani che:tho:'rpano:pade:sa:th| ga:yathri: sa:drusyam chathushpa:ththvam brahmany anusandhe:yam ithy upadisyathe:| ga:yathrya:h sarva:thmakathva:nupapaththe:r ithy arthah| thatha: hi darsanam thatha: hy anyathra:py achhandasa e:va sa:drusya:ch chhandah sabde:na:bhidha:nam drusyathe: the: va: e:the: pancha:nye: pancha:nye: dasa sampadyantha ithy a:rabhya saisha: vira:d anna:th ithi||26||
Link copied27 bhu:tha:di pa:da vyapade:so:papaththais chaivam||1|1|27||
Link copiedbhu:tha pruthivi: sari:ra hrudaya:ni nirdisya saisha: chathushpada: ithi bhu:tha:di:na:m pa:dathva vyapade:so: brahmany e:vo:papadyatha ithi brahmaiva ga:yathri: sabda nirdishtam ithi gamyathe:||27||
Link copied28 upade:sa bhe:da:n ne:thi che:n no:bhayasminn apy aviro:dha:th||1|1|28||
Link copiedpa:do:'sya sarva: bhu:tha:ni thri pa:dasya:mrutham divi ithi pu:rva va:kyo:ditham param brahmaiva:sthu; thatha:py atha yad athah paro: divo: jyo:thih ithi dyu sambandha ma:thre:na ne:ha thath prathyabhijna:yathe:; thathra cha:thra cho:pade:sa praka:ra bhe:da:th; thathra hi divi ithi dya:h sapthamya: nirdisyathe:, iha cha divah paro: jyo:thih ithi panchamya:, thatho: na prathisandha:nam ithi che:n na, ubhayasminn api vyapade:sa upari sthithi ru:pa:rthaikye:na prathisandha:na:viro:dha:th| yatha: vruksha:gre: sye:nah, vruksha:gra:th parathah sye:na ithi||28||ithi jyo:thir adhikaranam||10||
Link copied1.1.11
Link copied29 pra:nas thatha:nugama:th||1|1|29||
Link copiedkaushi:thaki: bra:hmane: prathardana vidya:ya:m thvam e:va varam vruni:shva yam thvam manushya:ya hithathamam manyase: ithi pratharde:no:ktha indrah pra:no:'smi prajna:thma: tham ma:m a:yur amrutham ithy upa:ssva ithy a:ha| athra hithathamo:pa:sana karmathaya: nirdishta indra pra:na sabda:bhidhe:yah kim ji:vah| utha parama:thme:thi samsayah| ji:va ithi pu:rvah pakshah| kuthah| indra sabdasya ji:va vise:she: prasiddhe:h, pra:na sabdasya:pi thath sama:na:dhikaranasya sa e:va:rtha ithi tham ma:m a:yur amrutham ithy upa:sva ithi thasyaivo:pa:syathvo:pade:sa:d ithi| ra:ddha:nthas thu--- indra pra:na sabda nirdishtam ji:va:d artha:nthara bhu:tham param brahma sa e:sha pra:na e:va prajna:thma:nando:'jaro:'mrutha ithi:ndra pra:na sabda nirdishtasyaiva ji:ve:shv asambha:vitha:nandathva:jarathva:mruthathva sravana:th| su:thra:rthas thu--- upa:syathayo:padishtam indra pra:na sabda:bhidhe:yam param brahma| thathe:thi praka:ra vachanah parabrahma praka:ra bhu:the:shv a:nanda:dishv asya:nugama:th||29||
Link copied30 na vakthura:thmo:pade:sa:d ithi che:d adhya:thma sambandha bhu:ma: hy asmin||1|1|30||
Link copiedna:yam upa:syah parama:thma:, ma:m e:va vija:ni:hi tham ma:m a:yur amrutham ithy upa:sva ithi prajna:tha ji:vasye:ndrasya vakthuh sva:thmana upa:syathvo:pade:sa:th, upakrame: ji:va bha:va nischaye: sathy upasamha:rasya thad anugunathaya: ne:yathva:d ithi che:n na| adhya:thmasambandhabhu:ma: hyasmin a:thmani sambandhah--- adhya:thmasambandhah thasya bhu:ma: bahuthvam| ji:va:d artha:nthara bhu:tha:thma:sa:dha:rana dharma sambandha bahuthvam asmin prakarane: upakrama prabhruthyo:pasamha:ra:d upalabhyathe:| upakrame: tha:vad yam thvam manushya:ya hithathamam manyase: ithi hy ane:no:chyama:nam upa:sanam parama:thmo:pa:sanam e:va, thasyaiva hithathamathva:th| thatha: e:sha e:va sa:dhu karma ka:rayathi ithy a:di sa:dhv asa:dhu karmano:h ka:rayithruthvam parama:thma:na e:va dharmah| thady atha: rathasya:re:shu ne:mir arpitha: na:bha:vara: arpitha:h e:vam e:vaitha: bhu:tha ma:thra:h prajna: ma:thra:sv arpitha:h prajna:ma:thra:h pra:ne:'rpitha:h ithi sarva:dha:rathvam cha thasyaiva dharmah| a:nanda:dayas cha| e:sha lo:ka:dhipathir e:sha sarve:sa ithi cha| hi:thi he:thau| athah parabrahmaiva:yam ithy arthah||30||
Link copiedparama:thmaivo:pa:syas che:th katham indro: ma:m upa:sva ithy upa:dide:se:thy atha a:ha---
Link copied31 sa:sthra drushtya: thu:pade:so: va:made:vavath||1|1|31||
Link copiedindrasya ji:vasyaiva sathah sva:thmathve:no:pa:sya bhu:tha parama:thmo:pade:so:'yam sa:sthra drushtya:| anthah pravishtah sa:stha: jana:na:m sarva:thma:| thath thvam asi| ya a:thmani thishthann a:thmano:'ntharo: yam a:thma: na ve:da yasya:thma: sari:ram ya a:thma:nam antharo: yamayathi sa tha a:thma:ntharya:my amruthah| e:sha sarva bhu:tha:nthara:thma:pahatha pa:pma: divyo: de:va e:ko: na:ra:yanah ithy a:di:ni hi sa:sthra:ni parama:thma:nam ji:va:thmana a:thmathayo:padidisuh| atho: ji:va:thma va:chinah sabda:h ji:va:thma sari:rakam parama:thma:nam e:va vadanthi:thi sa:sthra drushta:rthasya thasya ma:m e:va vija:ni:hi| ma:m upa:ssva ithi sva:thma sabde:na parama:thmo:pade:so:'yam na viruddhyathe:| yatha: va:made:vah sa:sthra drushtya: sva:thma sari:rakam parama:thma:nam pasyann aham ithi parama:thma:nam avo:chath| thad dhaithath pasyann rushir va:made:vah prathipe:de: aham manur abhavam su:ryas cha:ham kakshi:va:n rushir asmi viprah ithi||31||
Link copied32 ji:va mukhya pra:na linga:n ne:thi che:n no:pa:sa: thraividhya:d a:srithathva:d iha thad yo:ga:th||1|1|32||
Link copiedthrisirsha:nam thva:shtramahanamarunmukha:nyathi:nsa:la:vruke:bhyah pra:yachchham| ya:vad dhy asmin sari:re: pra:no: vasathi tha:vad a:yuh ithi ji:va mukhya pra:na linga:th na:dhya:thma sambandha bhu:mna: parama:thmathva nischaya ithi che:n na| parama:thmana e:va sva:ka:re:na ji:va sari:rakathve:na, pra:na sari:rakathve:na cho:pa:sa: thraividhya:d dhe:tho:h thath thach chhabde:na:bhidha:nam ithi nischi:yathe:| anyathra:pi brahmo:pa:sane: thraividhyasya:srithathva:th sathyam jna:nam anantham brahma| a:nando: brahma ithi sva:ka:re:no:pa:syathvam sach cha thyach cha:bhavath ithy a:dina: bho:kthru sari:rakathve:na bho:gya sari:rakathve:na cha| iha prathardana vidya:ya:m api thasya thraividhyasya sambhava:th| atha indra pra:na sabda nirdishtah parama:thma:||32||ithi indra pra:na:dhikaranam||11||
Link copiedithi sri: ra:ma:nuja:cha:rya rachithe: sri: ve:da:nthadi:pe: prathamasya:dhya:yasya prathamah pa:dah||
Link copied