Vedanta Dipa · Section 3 of 17
||atha prathama:dhya:ye: dvithi:yah pa:dah||
Original Sanskrit · click to toggle
१।२।१
Link copied३३ सर्वत्र प्रसिद्धोपदेशात्॥१।२।१॥
Link copiedछान्दोग्ये श्रूयते सर्वं खल्व् इदं ब्रह्म तज् जलान् इति शान्त उपासीत, अथ खलु क्रतु-मयोऽयं पुरुषो यथा क्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनो-मयः प्राण-शरीरः इति। अत्र सर्वं खल्व् इदं ब्रह्म इति सर्वात्मकत्वेन निर्दिष्टं ब्रह्म किं प्रत्यग्-आत्मा, उत परमात्मेति संशयः। प्रत्यग्-आत्मेति पूर्वः पक्षः। सर्वत्र तादात्म्योपदेशो हि तस्यैवोपपद्यते। परस्य तु ब्रह्मणः सकल-हेय-प्रत्यनीक-कल्याणैकतानस्य समस्त-हेयाकर-सर्व-तादात्म्यं विरोधाद् एव न सम्भवति। प्रत्यग्-आत्मनो हि कर्म-निमित्तो ब्रह्मादि-स्तम्ब-पर्यन्त-सर्व-भाव उपपद्यते। सृष्ट्य्-आदि-हेतुकत्वं च तत्-तत्-कर्म-निमित्तत्त्वेन सृष्ट्य्-आदेर् उपपद्यते। ब्रह्म-शब्दोऽपि बृहत्व-गुण-योगेन तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते इतिवत् तत्रैव वर्तते। राद्धान्तस् तु तज् जलान् इति सर्वं खल्व् इदं ब्रह्म इति तज्-जन्म-स्थितिल्-अय-हेतुकं तद्-आत्मकत्वं प्रसिद्धवन् निर्दिश्यमानं परस्यैव ब्रह्मण उपपद्यते। परस्माद् ब्रह्मण एव हि जगज्-जन्म-स्थिति-लयाः प्रसिद्धाः सोऽकामयत बहु स्यां प्रजायेयेति, इदं सर्वम् असृजत इत्य् आदिषु। तथा सर्वात्मकत्वं च जन्मादि-हेतुकं परस्यैव ब्रह्मणः प्रसिद्धं सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः, ऐतदात्म्यम् इदं सर्वम् इति। हेय-प्रत्यनीक-कल्याणैकतानात्मनश् च परस्य हेयाकर-सर्व-भूतात्मत्वम् अविरुद्धम्। यः पृथिव्यां तिष्ठन्--- यस्य पृथिवी-शरीरम्। य आत्मनि तिष्ठन्। यस्यात्मा शरीरं स त आत्मान्तर्याम्य् अमृत इत्य् आदिना शरीरात्म-भावेन सर्वात्मत्वोपपादनात्। शरीरात्मनोश् च स्वभाव व्यवस्थापनात्। सर्वं ब्रह्मेति सामानाधिकरण्य् अनिर्देशश् च सर्व-शब्दस्य सर्व-शरीरके ब्रह्मण्य् एव प्रवृत्तेर् उपपद्यते। शरीर-वाची हि शब्दः शरीरिण्य् आत्मन्य् एव पर्यवस्यति। देव-मनुष्यादि-शब्दवत्। सूत्रार्थस् तु--- सर्वत्र सर्वं खल्व् इदं ब्रह्म इति निर्दिष्टे वस्तुनि सर्व-शब्द-वाच्ये सामानाधिकरण्येन तदात्मतया निर्दिष्टं परं ब्रह्मैव। कुतः प्रसिद्धोपदेशात्। तज् जलान् इति, सर्वम् इदं ब्रह्म खलु इति प्रसिद्धवत् तस्योपदेशात्। तद् एव हि जगज्-जन्म-स्थिति-लय-हेतुत्वेन वेदान्तेषु प्रसिद्धम्॥१॥
Link copied३४ विवक्षित-गुणोपपत्तेश् च॥१।२।२॥
Link copiedमनो-मयत्वादिकाः सत्य-सङ्कल्पत्व-मिश्रा विवक्षिताः गुणाः परस्मिन्न् एवोपपद्यन्ते॥२॥
Link copied३५ अनुपपत्तेस् तु न शारीरः॥१।२।३॥
Link copiedएतेषां गुणानाम् अनन्त-दुःख-मिश्र-परिमित-सुख-लव-भागिन्य् अज्ञे कर्म-परवशे शारीरे प्रत्यग्-आत्मन्य् अनुपपत्तेश् चायं न शारीरः। अपि तु परम् एव ब्रह्म॥३॥
Link copied३६ कर्म-कर्तृ-व्यपदेशाच् च॥१।२।४॥
Link copiedएतम् इतः प्रेत्याभिसम्भवितास्मि इति प्राप्यतयोपास्यो निर्दिश्यते, प्राप्तृतया च जीवः। अतश् च जीवाद् अन्यद् एवेदं परं ब्रह्म॥४॥
Link copied३७ शब्द-विशेषात्॥१।२।५॥
Link copiedएष म आत्मान्तर्-हृदय इति शारीरः षष्ट्या निर्दिष्टः, उपास्यः प्रथमया। अतश् च जीवाद् अन्यः॥५॥
Link copied३८ स्मृतेश् च॥१।२।६॥
Link copiedसर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च इति स्मृतेश् च। अतश् च जीवाद् अन्य उपास्यः परमात्मा॥६॥
Link copied३९ अर्भकौकस्त्वात् तद्-व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च॥१।२।७॥
Link copiedएष म आत्मान्तर्-हृदय इत्य् अल्प-स्थानत्वाद् अणीयान् व्रीहेर् वा यवाद् वा इत्य् अल्पत्व-व्यपदेशाच् च न परं ब्रह्मेति चेन् न। निचाय्यत्वाद् एवम्--- एवम् उपास्यत्वाद् धेतोर् अल्पायतनत्वाल्पत्व-व्यपदेशः। न स्वरूपाल्पत्वेन। ज्यायान् पृथिव्याः इत्य् आदिना सर्वस्माज् ज्यायस्त्वोपदेशात्। ज्यायसोऽप्य् अस्य हृदयायतनावच्छेदेन अल्पत्वानुसन्धानम् उपपद्यते। व्योमवत् यथा महतोऽपि व्योम्नः सूचि-पथादिष्व् अल्पत्वानुसन्धानम्। च-शब्दोऽवधारणे तद्वद् एवेत्य् अर्थः। स्वाभाविकं चास्य महत्त्वम् अत्राभिधीयत इत्य् अर्थः। ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षाज् ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः इति ह्य् अनन्तरम् एव व्यपदिश्यते॥७॥
Link copied४० सम्भोग-प्राप्तिर् इति चेन् न वैशेष्यात्॥१।२।८॥
Link copiedयद्य् उपासक-शरीरे हृदयेऽयम् अपि वर्तते ततस् तद्वद् एवास्यापि शरीर-प्रयुक्त-सुख-दुःख-सम्भोग-प्राप्तिर् इति चेन् न, हेतु-वैशेष्यात्। न हि शरीरान्तर्वर्तित्वम् एव सुख-दुःखोप-भोग-हेतुः। अपि तु कर्म-परवशत्वम्। तत् त्व् अपहत-पाप्मनः परमात्मनो न सम्भवति॥८॥इति सर्वत्र प्रसिद्ध्य्-अधिकरणम्॥१॥
Link copied१।२।२
Link copied४१ अत्ता चराचर-ग्रहणात्॥१।२।९॥
Link copiedकठ-वल्लीष्व् आम्नायते यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः मृत्युर् यस्योपसेचनं क इत्था वेद यत्र स इति। अत्रोदनोपसेचन-सूचितोऽत्ता किं जीव उत परमात्मेति संशयः। जीव इति पूर्वः पक्षः। कुतः भोक्तृत्त्वस्य कर्म-निमित्तत्त्वाज् जीवस्यैव तत्-सम्भावात्। राद्धान्तस् तु--- सर्वोपसंहारे मृत्यूपसेचनम् अदनीयं चराचरात्मकं कृत्स्नं जगद् इति तस्यैतस्यात्ता परमात्मैव। न चेदं कर्म-निमित्तं भोक्तृत्वम्। अपि तु जगत्-सृष्टि-स्थिति-लय-लीलस्य परमात्मनो जगद्-उपसंहारित्व-रूपं भोक्तृत्वम्। सूत्रार्थः--- ब्रह्म-क्षत्रौदनस्यात्ता परमात्मा। ब्रह्म-क्षत्र-शब्देन चराचरस्य कृत्स्नस्य जगतो ग्रहणात्। मृत्यूपसेचनो ह्य् ओदनो न ब्रह्म-क्षत्र-मात्रम्। अपि तु तद्-उपलक्षितं चराचरात्मकं कृत्स्नं जगद् एव॥९॥
Link copied४२ प्रकरणाच् च॥१।२।१०॥
Link copiedमहान्तं विभुम् आत्मानं मत्वा धीरो न शोचति नायम् आत्मा प्रवचनेन लभ्यो न मेधया इति परस्यैव हीदं प्रकरणम्। अतश् चायं परमात्मा॥१०॥
Link copiedनन्व् अनन्तरम् ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये इति द्वयोः कर्म-फलादनादन-श्रवणात्, परमात्मनश् च कर्म-फलादनान्वयात्, अन्तःकरण-द्वितीयो जीव एव तत्रात्तेति प्रतीयते, अतोऽत्रापि स एव जीवोऽत्ता भवितुम् अर्हतीत्य् आशङ्क्याह---
Link copied४३ गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात्॥१।२।११॥
Link copiedगुहां प्रविष्टौ जीवात्म-परमात्मानौ। जीवद् वितीयः परमात्मैव तत्र प्रतीयत इत्य् अर्थः। स्वयम् अनश्नतोऽपि परमात्मनः प्रयोजकतया पानेऽन्वयो विद्यते। जीवद् वितीयः परमात्मेति कथम् अवगम्यतं तद्-दर्शनात्--- तयोर् एव ह्य् अस्मिन् प्रकरणे गुहा-प्रवेश-व्यपदेशो दृश्यते तं दुर्दर्शं गूढम् अनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम्, अध्यात्म-योगाधिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति इति परमात्मनः या प्राणेन सम्भवत्य् अदितिर् देवता-मयी, गुहां प्रविश्य तिष्ठन्ती या भूतेभिर् व्यजायत इति जीवस्य। कर्म-फलान्य् अत्तीत्य् अदितिर् जीवः॥११॥
Link copied४४ विशेषणाच् च॥१।२।१२॥
Link copiedअस्मिन् प्रकरणे ह्य् उपक्रम-प्रभृत्योपसंहाराज् जीव-परमात्मानाव् एवोपास्यत्वोपासकत्व-प्राप्तृत्वादिभिर् विशिष्येते महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति। विज्ञान-सारथिर् यस् तु मनः प्रग्रहवान् नरः, सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् इत्य् आदिषु। अतश् चात्ता परमात्मा॥१२॥इत्य् अत्त्रधिकरणम्॥२॥
Link copied१।२।३
Link copied४५ अन्तर उपपत्तेः॥१।२।१३॥
Link copiedछान्दोग्ये य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतद् अमृतम् अभयम् एतद् ब्रह्म इत्य् अत्राक्ष्य्-आधारः पुरुषः किं प्रतिबिम्बात्म-जीव-देवता-विशेषान्यतमः उत परमात्मेति संशयः। एष्व् अन्यतम इति पूर्व-पक्षः। कुतः। य एष दृश्यते इति प्रसिद्धवत् साक्षात्कार-निर्देशात्। राद्धान्तस् तु--- परमात्मैवायम् अक्ष्य्-आधारः पुरुषः अक्षि-पुरुष-सम्बन्धितया श्रूयमाणा निरुपाधिकात्मत्वामृतत्वाभयत्व-ब्रह्मत्व-संयद्-वामत्वादयः परमात्मन्य् एवोपपद्यन्ते। प्रसिद्धवन् निर्देशश् च यश् चक्षुषि तिष्ठन् इत्य् आदि श्रुत्य्-अन्तर-प्रसिद्धेर् उपपद्यते। साक्षात्कारश् च तद्-उपासन-निष्ठानां योगिनाम्। सूत्रार्थस् तु--- अक्ष्य्-अन्तरः परमात्मा। संयद्-वामत्वादीनां गुणानाम् अत्रैवोपपत्तेः॥१३॥
Link copied४६ स्थानादि-व्यपदेशाच् च॥१।२।१४॥
Link copiedस्थानं स्थितिः। परमात्मन एव यश् चक्षुषि तिष्ठन् इत्य् आदौ चक्षुषि स्थिति-नियमनादीनां व्यपदेशाच् चायं परमात्मा॥१४॥
Link copied४७ सुख-विशिष्टाभिधानाद् एव च॥१।२।१५॥
Link copiedप्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इति सुख-विशिष्टतया प्रकृतस्यैव परस्यैव ब्रह्मणोऽक्ष्य्-आधारतया उपास्यत्वाभिधानाच् चायं परमात्मा। एवकारोऽस्यैव हेतोर् नैरपेक्ष्यावगमाय॥१५॥
Link copiedप्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इत्य् अत्र सुख-विशिष्टं परम् एव ब्रह्माभिहितम् इति कथम् इदम् अवगम्यते, यावता नामादिवत् प्रतीकोपासनम् एवेत्य् आशङ्क्याह---
Link copied४८ अत एव च स ब्रह्म॥१।२।१६॥
Link copiedयतस् तत्र भव-भय-भीतायोपकोसलाय ब्रह्म-स्वरूप-जिज्ञासवे कं च तु खं च न विजानामि इति पृच्छते यद् एव कं तद् एव खं तद् एव खं यद् एव कम् इत्य् अन्योन्य-व्यवच्छेदकतया अपरिछिन्न-सुख-स्वरूपं ब्रह्मेत्य् अभिधाय प्राणं च हास्मै तद्-आकाशं चोचुः इत्य् उक्तम्। अत एव ख-शब्दाभिधेयः स आकाशोऽपरिछिन्न-सुख-विशिष्टं परं ब्रह्मैव॥१६॥
Link copied४९ श्रुतोपनिषत्क-गत्य्-अभिधानाच् च॥१।२।१७॥
Link copiedश्रुतोपनिषत्कैः--- अधिगत-ब्रह्म-याथात्म्यैर् ब्रह्म-प्राप्तये या गतिर् अर्चिरादिर् अधिगन्तव्यतयावगता श्रुत्य्-अन्तरे तस्याश् चेहाक्षि-पुरुषं श्रुतवतोऽधिगन्तव्यतया तेऽर्चिषम् एवाभिसम्भवन्ति इत्य् आदिनाभिधानाद् अक्षि-पुरुषः परमात्मा॥१७॥
Link copied५० अनवस्थितेर् असम्भवाच् च नेतरः॥१।२।१८॥
Link copiedपरमात्मन इतरः जीवादिकः, तस्याक्ष्णि नियमेन अनवस्थितेः, अमृतत्व-संयद्-वामत्वादीनां चासम्भवान् न सोऽक्ष्य्-आधारः॥१८॥इत्य् अन्तराधिकरणम्॥३॥
Link copied१।२।४
Link copied५१ अन्तर्याम्य्-अधिदैवाधिलोकादिषु तद्-धर्म-व्यपदेशात्॥१।२।१९॥
Link copiedबृहदारण्यके यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः इत्य् आदिषु सर्वेषु पर्यायेषु श्रूयमाणोऽन्तर्यामी किं प्रत्यग्-आत्मा उत परमात्मेति संशयः। प्रत्यग्-आत्मेति पूर्व-पक्षः। वाक्य-शेषे द्रष्टा श्रोता मन्ता इति द्रष्टृत्वादि श्रुतेः। नान्योऽतोऽस्ति द्रष्टा इति द्रष्ट्रन्तर-निषेधाच् च। राद्धान्तस् तु--- पृथिव्याद्य्-आत्म-पर्यन्त-सर्व-तत्त्वानां सर्वैस् तैर् अदृष्टेनैकेन नियमनं निरुपाधिकामृतत्वादिकं च परमात्मन एव धर्म इत्य् अन्तर्यामी परमात्मा। द्रष्टृत्वादिश् च रूपादि-साक्षात्कारः। स च पश्यत्य् अचक्षुः इत्य् आदिना परमात्मानोऽप्य् अस्ति। नान्योऽतोऽस्ति द्रष्टा इति च जीवेनादृष्टान्तर्यामि-द्रष्टृवद् अन्तर्यामिणाप्य् अदृष्ट-द्रष्ट्रन्तर-निषेध-परः। सूत्रार्थः--- अधिदैवाधिलोकादि-पद-चिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्यामी परमात्मा। सर्वान्तरत्व-सर्वाविदितत्व-सर्व-शरीरकत्व-सर्व-नियमन-सर्वात्मत्वामृतत्वादि-परमात्म-धर्माणां व्यपदेशात्॥१९॥
Link copied५२ न च स्मार्तम् अतद्-धर्माभिलापाच् छारीरश् च॥१।२।२०॥
Link copiedस्मार्तं प्रधानम्। शारीरः प्रत्यग्-आत्मा। स्मार्तं च शारीरश् च नान्तर्यामी। तयोर् असम्भावितोक्त-धर्माभिलापात्। यथा स्मार्तस्याचेतनस्यासम्भावनया नान्तर्यामित्व-प्रसक्तिस् तथा प्रत्यग्-आत्मनोऽपीत्य् अर्थः॥२०॥
Link copied५३ उभयेऽपि हि भेदेनैनम् अधीयते॥१।२।२१॥
Link copiedउभये काण्वा माध्यन्दिना अपि यो विज्ञाने तिष्ठन्। य आत्मनि तिष्ठन् इति यतः प्रत्यग्-आत्मनो भेदेनैनम्--- अन्तर्यामिणम् अधीयते अतोऽयं तद्-अतिरिक्तः परमात्मा॥२१॥इत्य् अन्तर्याम्य्-अधिकरणम्॥४॥
Link copied१।२।५
Link copied५४ अदृश्यत्वादि-गुणको धर्मोक्तेः॥१।२।२२॥
Link copiedआथर्वणे अथ परा यया तद् अक्षरम् अधिगम्यते यत् तद् अद्रेश्यम् इत्य् आरभ्य यद् भूत-योनिं परिपश्यन्ति धीराः, अक्षरात् परतः परः इत्य् आदौ किं प्रधान-पुरुषौ प्रतिपाद्येते उत परमात्मैवेति संशयः। प्रधान-पुरुषाव् इति पूर्वः पक्षः। पृथिव्य्-आद्य्-अचेतन-गत-दृश्यत्वादीनां प्रतिषेधात् तज्-जातीय-चेतनं प्रधानम् एव भूत-योन्य्-अक्षरम् इति प्रतीयते। तथा अक्षरात् परतः पर इति च तस्याधिष्ठाता पुरुष एवेति। राद्धान्तस् तु--- उत्तरत्र यः सर्वज्ञः सर्ववित् इति प्रधान-पुरुषयोर् असम्भावितं सार्वज्ञ्यम् अभिधाय तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते इति सर्वज्ञात् सत्य-सङ्कल्पाज् जगद्-उत्पत्ति-श्रवणात् पूर्वोक्तम् अदृश्यत्वादि-गुणकं भूत-योन्य्-अक्षरम्, अक्षरात् परतः परः इति च निर्दिष्टं तद् अक्षरं परं ब्रह्मैवेति विज्ञायते। सूत्रार्थस् तु--- अदृश्यत्वादि-गुणकः परमात्मा। सर्वज्ञत्वादि तद्-धर्मोक्तेः॥२२॥
Link copied५५ विशेषण-भेद-व्यपदेशाभ्यां च नेतरौ॥१।२।२३॥
Link copiedविशिनष्टि हि प्रकरणं प्रधानाद् भूत-योन्य्-अक्षरम् एक-विज्ञानेन सर्व-विज्ञानादिना। तथा अक्षरात् परतः पर इति, अक्षराद् अव्याकृतात् परतोऽवस्थितात् पुरुषात् पर इति पुरुषाच् चास्य भूत-योन्य्-अक्षरस्य भेदो व्यपदिश्यते। अतश् च न प्रधान-पुरुषौ। अपि तु परमात्मैवात्र निर्दिष्टः॥२३॥
Link copied५६ रूपोपन्यासाच् च॥१।२।२४॥
Link copiedअग्निर् मूर्धा इत्य् आदिना समस्तस्य चिद्-अचिद्-आत्मक-प्रपञ्चस्य भूत-योन्य्-अक्षर-रूपत्वेनोपन्यासाच् चायम् अदृश्यत्वादि-गुणकः परमात्मा॥२४॥इत्य् अदृश्यत्वादि-गुणकाधिकरणम्॥५॥
Link copied१।२।६
Link copied५७ वैश्वानरः साधारण-शब्द-विशेषात्॥१।२।२५॥
Link copiedछान्दोग्ये आत्मानम् एवेमं वैश्वानरं सम्प्रत्यध्येषि। तम् एव नो ब्रूहि इत्य् आरभ्य यस् त्व् एतम् एवं प्रादेश-मात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते इत्य् अत्र किम् अयं वैश्वानरः परमात्मेति शक्य-निर्णयः, उत नेति संशयः। अशक्य-निर्णय इति पूर्वः पक्षः। वैश्वानर-शब्दस्य जाठराग्नौ, भूत-तृतीये देवता-विशेषे परमात्मनि च वैदिक-प्रयोग-दर्शनात्, अस्मिन् प्रकरणे सर्वेषां लिङ्गोपलब्धेश् च। राद्धान्तस् तु को न आत्मा किं ब्रह्म इति सर्वेषां जीवानाम् आत्म-भूतं ब्रह्म किम् इति प्रक्रमात्, उत्तरत्र च आत्मानं वैश्वानरम् इति ब्रह्म-शब्द-स्थाने सर्वत्र वैश्वानर-शब्द-प्रयोगाच् च, वैश्वानरात्मा सर्वेषां जीवानाम् आत्म-भूतं परं ब्रह्मेति विज्ञायते। सूत्रार्थः--- वैश्वानर-शब्द-निर्दिष्टः परमात्मा, वैश्वानर-शब्दस्यानेकार्थ-साधारणस्याप्य् अस्मिन् प्रकरणे परमात्मासाधारण-विशेषणैः सर्वात्मत्वादिभिः विशेष्यमाणत्वात्। विशेष्यत इति विशेषः॥२५॥
Link copied५८ स्मर्यमाणम् अनुमानं स्याद् इति॥१।२।२६॥
Link copiedस्मर्यमाणं--- प्रत्यभिज्ञायमानम्, अनुमीयते अनेनेत्य् अनुमानम्। इति-शब्दः प्रकार-वचनः, इत्थं रूपं स्मर्यमाणं वैश्वानरस्य परमात्मत्वे अनुमानं स्याद् द्यु-प्रभृति-पृथिव्य्-अन्तम् अवयव-विभागेन वैश्वानरस्य रूपम् इहोपदिष्टम्। अग्निर् मूर्धा चक्षुषी चन्द्र-सूर्यौ, द्यां मूर्धां यस्य विप्रा वदन्ति इति श्रुतिस्-मृति-प्रसिद्धं परम-पुरुष-रूपम् इह प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वे लिङ्गं स्याद् इत्य् अर्थः ॥२६॥
Link copied५९ शब्दादिभ्योऽन्तः प्रतिष्ठानाच् च नेति चेन् न॥१।२।२७॥
Link copiedतथा दृष्ट्य्-उपदेशाद् असम्भवात् पुरुषम् अपि चैनम् अधीयते--- अनिर्णयम् आशङ्क्य परिहरति--- शब्दादिभ्योऽन्तः प्रतिष्ठानाच् चेति। शब्दस् तावत् वाजिनां वैश्वानर-विद्या-प्रकरणे स एषोऽग्निर् वैश्वानर इति वैश्वानर-समानाधिकरणः अग्नि-शब्दः। अस्मिन् प्रकरणे च हृदये गार्हापत्य इत्य् आरभ्य वैश्वानरस्य हृदयादि-स्थानस्याग्नि-त्रय-परिकल्पनं प्राणाहुत्य्-आधारत्वं चेति प्रतीयते। वाजिनाम् अपि स यो ह वै तम् एवम् अग्निं वैश्वानरं पुरुष-विधं पुरुषेऽन्तः प्रतिष्ठितं वेद इति वैश्वानरस्य शरीरान्तः प्रतिष्ठितत्वं प्रतीयते। अतः एतैः लिङ्गैर् वैश्वानरस्य जाठराग्नित्व-प्रतीतेर् नायं परमात्मेति शक्य-निर्णय इति चेत् तन् न। तथा दृष्ट्य्-उपदेशात्। दृष्टिः--- उपासनम्, तथोपासनोपदेशाद् इत्य् अर्थः। जाठराग्नि-शरीरतया वैश्वानरस्य परमात्मानः उपासनं ह्य् अत्रोपदिश्यते। अयम् अग्निर् वैश्वानरः पुरुषेऽन्तः प्रतिष्ठितः इत्य् आदौ। कथम् अवगम्यत इति चेत्, असम्भवात्--- केवल-जाठराग्नेस् त्रैलोक्य-शरीरत्वाद्य्-असम्भवात्। पुरुषम् अपि चैनम् अधीयते--- च-शब्दः प्रसिद्धौ, वाजिनस् तत्रैव स एषोऽग्निर् वैश्वानरो यत् पुरुषः इति, एनं वैश्वानरं पुरुषम् अपि ह्य् अधीयते। पुरुषश् च परमात्मैव पुरुष एवेदं सर्वं, पुरुषान् न परं किञ्चित् इत्य् आदिषु प्रसिद्धेः॥२७॥
Link copied६० अत एव न देवता भूतं च॥१।२।२८॥
Link copiedयतः त्रैलोक्य शरीरः असौ वैश्वानरः, यतश् च निरुपाधिक-पुरुष-शब्द-निर्दिष्टः, अत एव नाग्न्य्-आख्या देवता, महापुरुष-तृतीयश् च वैश्वानरः शङ्कनीयः॥२८॥
Link copied६१ साक्षाद् अप्य् अविरोधं जैमिनिः॥१।२।२९॥
Link copiedअग्नि-शरीरतया वैश्वानरस्य उपासनार्थम् अग्नि-शब्द-सामानाधिकरण्य-निर्देश इत्य् उक्तम्। विश्वेषां नराणां नेतृत्वादिना सम्बन्धेन यथा वैश्वानर-शब्दः परमात्मनि वर्तते, यथैव अग्नि-शब्दस्याप्य् अग्रनयनादिना योगेन साक्षात् परमात्मनि वृत्तौ न कश्चिद् विरोध इति जैमिनिराचार्यो मन्यते॥२९॥
Link copiedयस् त्व् एतम् एवं प्रादेश-मात्रम् अभिविमानम् आत्मानं वैश्वानरम् इति द्यु-प्रभृति-पृथिव्य्-अन्त-प्रदेश-सम्बन्धिन्या मात्रया परिच्छिन्नत्वम् अनवच्छिन्नस्य परमात्मनः वैश्वानरस्य कथम् उपपद्यत इत्य् अत्राह---
Link copied६२ अभिव्यक्तेर् इत्य् आश्मरथ्यः॥१।२।३०॥
Link copiedअनवच्छिन्नस्यैव परमात्मनः उपासनाभिव्यक्त्यर्थं द्यु-प्रभृति-पृथिव्य्-अन्त-प्रदेश-परिच्छिन्नत्वम् इत्य् आश्मरथ्य आचार्यो मन्यते॥३०॥
Link copiedद्यु-प्रभृति-प्रदेशावच्छेदेनाभिव्यक्तस्य परमात्मनः द्यु-भ्व्-आदित्यादीनां मूर्धाद्य्-अवयव-कल्पनं किम् अर्थम् इति चेत् तत्राह---
Link copied६३ अनुस्मृतेर् बादरिः॥१।२।३१॥
Link copiedअनुस्मृतिः उपासनम्। ब्रह्म-प्राप्तये व्रतोपासनार्थं मूर्ध-प्रभृति-पादान्त-देह-परिकल्पनम् इति बादरिराचार्यो मन्यते॥३१॥
Link copiedअयं वैश्वानरः परमात्मा। त्रैलोक्य-शरीरः उपास्य उपदिश्यते चेत्, उर एव वेदिर् लोमानिबर्हिर् हृदयं गार्हापत्यः इत्य् आदिना उपासक-शरीरावयवानां गार्हापत्यादि-परिकल्पनं किम् अर्थम् इत्य् अत्राह---
Link copied६४ सम्पत्तेर् इति जैमिनिस् तथा हि दर्शयति॥१।२।३२॥
Link copiedवैश्वानर-विद्याङ्ग-भूतायाः उपासकैर् अहर् अहः क्रियमाणायाः प्राणाहुतेर् अग्निहोत्रत्व-सम्पादनाय गार्हापत्यादि-परिकल्पनम् इति जैमिनिर् आचार्यो मन्यते। तथा ह्य् अग्निहोत्र-सम्पत्तिम् एव दर्शयतीयं श्रुतिः प्राणाहुतिं विधाय, अथ य एवं विद्वान् अग्निहोत्रं जुहोति इति। उक्तानाम् अर्थानां पूजितत्व-ख्यापनायाचार्य-ग्रहणम्॥३२॥
Link copied६५ आमनन्ति चैनम् अस्मिन्॥१।२।३३॥
Link copiedएनं परम-पुरुषं वैश्वानरं द्यु-भ्व्-आदि-देहम्, अस्मिन्--- उपासक-देहे प्राणाग्निहोत्रेणाराध्यत्वायामनन्ति हि--- तस्य ह वा एतस्य वैश्वानरस्य मूर्धैव सुतेजा इत्य् आदिना। उपासक-मूर्धादि-पादान्ता एव द्यु-प्रभृतयः परम-पुरुषस्य मूर्धादय इति प्राणाग्निहोत्र-वेलायाम् अनुसन्धेया इत्य् अर्थः॥३३॥इति वैश्वानराधिकरणम्॥६॥
Link copiedइति श्री-रामानुजाचार्य-रचिते श्री-वेदान्तदीपे प्रथमस्याध्यायस्य द्वितीयः पादः॥
Link copied౧।౨।౧
Link copied౩౩ సర్వత్ర ప్రసిద్ధోపదేశాత్॥౧।౨।౧॥
Link copiedఛాన్దోగ్యే శ్రూయతే సర్వం ఖల్వ్ ఇదం బ్రహ్మ తజ్ జలాన్ ఇతి శాన్త ఉపాసీత, అథ ఖలు క్రతు-మయోఽయం పురుషో యథా క్రతుర్ అస్మింల్ లోకే పురుషో భవతి తథేతః ప్రేత్య భవతి స క్రతుం కుర్వీత మనో-మయః ప్రాణ-శరీరః ఇతి। అత్ర సర్వం ఖల్వ్ ఇదం బ్రహ్మ ఇతి సర్వాత్మకత్వేన నిర్దిష్టం బ్రహ్మ కిం ప్రత్యగ్-ఆత్మా, ఉత పరమాత్మేతి సంశయః। ప్రత్యగ్-ఆత్మేతి పూర్వః పక్షః। సర్వత్ర తాదాత్మ్యోపదేశో హి తస్యైవోపపద్యతే। పరస్య తు బ్రహ్మణః సకల-హేయ-ప్రత్యనీక-కల్యాణైకతానస్య సమస్త-హేయాకర-సర్వ-తాదాత్మ్యం విరోధాద్ ఏవ న సమ్భవతి। ప్రత్యగ్-ఆత్మనో హి కర్మ-నిమిత్తో బ్రహ్మాది-స్తమ్బ-పర్యన్త-సర్వ-భావ ఉపపద్యతే। సృష్ట్య్-ఆది-హేతుకత్వం చ తత్-తత్-కర్మ-నిమిత్తత్త్వేన సృష్ట్య్-ఆదేర్ ఉపపద్యతే। బ్రహ్మ-శబ్దోఽపి బృహత్వ-గుణ-యోగేన తస్మాద్ ఏతద్ బ్రహ్మ నామ-రూపమ్ అన్నం చ జాయతే ఇతివత్ తత్రైవ వర్తతే। రాద్ధాన్తస్ తు తజ్ జలాన్ ఇతి సర్వం ఖల్వ్ ఇదం బ్రహ్మ ఇతి తజ్-జన్మ-స్థితిల్-అయ-హేతుకం తద్-ఆత్మకత్వం ప్రసిద్ధవన్ నిర్దిశ్యమానం పరస్యైవ బ్రహ్మణ ఉపపద్యతే। పరస్మాద్ బ్రహ్మణ ఏవ హి జగజ్-జన్మ-స్థితి-లయాః ప్రసిద్ధాః సోఽకామయత బహు స్యాం ప్రజాయేయేతి, ఇదం సర్వమ్ అసృజత ఇత్య్ ఆదిషు। తథా సర్వాత్మకత్వం చ జన్మాది-హేతుకం పరస్యైవ బ్రహ్మణః ప్రసిద్ధం సన్-మూలాః సోమ్యేమాః సర్వాః ప్రజాః సద్-ఆయతనాః సత్-ప్రతిష్ఠాః, ఐతదాత్మ్యమ్ ఇదం సర్వమ్ ఇతి। హేయ-ప్రత్యనీక-కల్యాణైకతానాత్మనశ్ చ పరస్య హేయాకర-సర్వ-భూతాత్మత్వమ్ అవిరుద్ధమ్। యః పృథివ్యాం తిష్ఠన్--- యస్య పృథివీ-శరీరమ్। య ఆత్మని తిష్ఠన్। యస్యాత్మా శరీరం స త ఆత్మాన్తర్యామ్య్ అమృత ఇత్య్ ఆదినా శరీరాత్మ-భావేన సర్వాత్మత్వోపపాదనాత్। శరీరాత్మనోశ్ చ స్వభావ వ్యవస్థాపనాత్। సర్వం బ్రహ్మేతి సామానాధికరణ్య్ అనిర్దేశశ్ చ సర్వ-శబ్దస్య సర్వ-శరీరకే బ్రహ్మణ్య్ ఏవ ప్రవృత్తేర్ ఉపపద్యతే। శరీర-వాచీ హి శబ్దః శరీరిణ్య్ ఆత్మన్య్ ఏవ పర్యవస్యతి। దేవ-మనుష్యాది-శబ్దవత్। సూత్రార్థస్ తు--- సర్వత్ర సర్వం ఖల్వ్ ఇదం బ్రహ్మ ఇతి నిర్దిష్టే వస్తుని సర్వ-శబ్ద-వాచ్యే సామానాధికరణ్యేన తదాత్మతయా నిర్దిష్టం పరం బ్రహ్మైవ। కుతః ప్రసిద్ధోపదేశాత్। తజ్ జలాన్ ఇతి, సర్వమ్ ఇదం బ్రహ్మ ఖలు ఇతి ప్రసిద్ధవత్ తస్యోపదేశాత్। తద్ ఏవ హి జగజ్-జన్మ-స్థితి-లయ-హేతుత్వేన వేదాన్తేషు ప్రసిద్ధమ్॥౧॥
Link copied౩౪ వివక్షిత-గుణోపపత్తేశ్ చ॥౧।౨।౨॥
Link copiedమనో-మయత్వాదికాః సత్య-సఙ్కల్పత్వ-మిశ్రా వివక్షితాః గుణాః పరస్మిన్న్ ఏవోపపద్యన్తే॥౨॥
Link copied౩౫ అనుపపత్తేస్ తు న శారీరః॥౧।౨।౩॥
Link copiedఏతేషాం గుణానామ్ అనన్త-దుఃఖ-మిశ్ర-పరిమిత-సుఖ-లవ-భాగిన్య్ అజ్ఞే కర్మ-పరవశే శారీరే ప్రత్యగ్-ఆత్మన్య్ అనుపపత్తేశ్ చాయం న శారీరః। అపి తు పరమ్ ఏవ బ్రహ్మ॥౩॥
Link copied౩౬ కర్మ-కర్తృ-వ్యపదేశాచ్ చ॥౧।౨।౪॥
Link copiedఏతమ్ ఇతః ప్రేత్యాభిసమ్భవితాస్మి ఇతి ప్రాప్యతయోపాస్యో నిర్దిశ్యతే, ప్రాప్తృతయా చ జీవః। అతశ్ చ జీవాద్ అన్యద్ ఏవేదం పరం బ్రహ్మ॥౪॥
Link copied౩౭ శబ్ద-విశేషాత్॥౧।౨।౫॥
Link copiedఏష మ ఆత్మాన్తర్-హృదయ ఇతి శారీరః షష్ట్యా నిర్దిష్టః, ఉపాస్యః ప్రథమయా। అతశ్ చ జీవాద్ అన్యః॥౫॥
Link copied౩౮ స్మృతేశ్ చ॥౧।౨।౬॥
Link copiedసర్వస్య చాహం హృది సన్నివిష్టో మత్తః స్మృతిర్ జ్ఞానమ్ అపోహనం చ ఇతి స్మృతేశ్ చ। అతశ్ చ జీవాద్ అన్య ఉపాస్యః పరమాత్మా॥౬॥
Link copied౩౯ అర్భకౌకస్త్వాత్ తద్-వ్యపదేశాచ్ చ నేతి చేన్ న నిచాయ్యత్వాద్ ఏవం వ్యోమవచ్ చ॥౧।౨।౭॥
Link copiedఏష మ ఆత్మాన్తర్-హృదయ ఇత్య్ అల్ప-స్థానత్వాద్ అణీయాన్ వ్రీహేర్ వా యవాద్ వా ఇత్య్ అల్పత్వ-వ్యపదేశాచ్ చ న పరం బ్రహ్మేతి చేన్ న। నిచాయ్యత్వాద్ ఏవమ్--- ఏవమ్ ఉపాస్యత్వాద్ ధేతోర్ అల్పాయతనత్వాల్పత్వ-వ్యపదేశః। న స్వరూపాల్పత్వేన। జ్యాయాన్ పృథివ్యాః ఇత్య్ ఆదినా సర్వస్మాజ్ జ్యాయస్త్వోపదేశాత్। జ్యాయసోఽప్య్ అస్య హృదయాయతనావచ్ఛేదేన అల్పత్వానుసన్ధానమ్ ఉపపద్యతే। వ్యోమవత్ యథా మహతోఽపి వ్యోమ్నః సూచి-పథాదిష్వ్ అల్పత్వానుసన్ధానమ్। చ-శబ్దోఽవధారణే తద్వద్ ఏవేత్య్ అర్థః। స్వాభావికం చాస్య మహత్త్వమ్ అత్రాభిధీయత ఇత్య్ అర్థః। జ్యాయాన్ పృథివ్యా జ్యాయాన్ అన్తరిక్షాజ్ జ్యాయాన్ దివో జ్యాయానేభ్యో లోకేభ్యః ఇతి హ్య్ అనన్తరమ్ ఏవ వ్యపదిశ్యతే॥౭॥
Link copied౪౦ సమ్భోగ-ప్రాప్తిర్ ఇతి చేన్ న వైశేష్యాత్॥౧।౨।౮॥
Link copiedయద్య్ ఉపాసక-శరీరే హృదయేఽయమ్ అపి వర్తతే తతస్ తద్వద్ ఏవాస్యాపి శరీర-ప్రయుక్త-సుఖ-దుఃఖ-సమ్భోగ-ప్రాప్తిర్ ఇతి చేన్ న, హేతు-వైశేష్యాత్। న హి శరీరాన్తర్వర్తిత్వమ్ ఏవ సుఖ-దుఃఖోప-భోగ-హేతుః। అపి తు కర్మ-పరవశత్వమ్। తత్ త్వ్ అపహత-పాప్మనః పరమాత్మనో న సమ్భవతి॥౮॥ఇతి సర్వత్ర ప్రసిద్ధ్య్-అధికరణమ్॥౧॥
Link copied౧।౨।౨
Link copied౪౧ అత్తా చరాచర-గ్రహణాత్॥౧।౨।౯॥
Link copiedకఠ-వల్లీష్వ్ ఆమ్నాయతే యస్య బ్రహ్మ చ క్షత్రం చోభే భవత ఓదనః మృత్యుర్ యస్యోపసేచనం క ఇత్థా వేద యత్ర స ఇతి। అత్రోదనోపసేచన-సూచితోఽత్తా కిం జీవ ఉత పరమాత్మేతి సంశయః। జీవ ఇతి పూర్వః పక్షః। కుతః భోక్తృత్త్వస్య కర్మ-నిమిత్తత్త్వాజ్ జీవస్యైవ తత్-సమ్భావాత్। రాద్ధాన్తస్ తు--- సర్వోపసంహారే మృత్యూపసేచనమ్ అదనీయం చరాచరాత్మకం కృత్స్నం జగద్ ఇతి తస్యైతస్యాత్తా పరమాత్మైవ। న చేదం కర్మ-నిమిత్తం భోక్తృత్వమ్। అపి తు జగత్-సృష్టి-స్థితి-లయ-లీలస్య పరమాత్మనో జగద్-ఉపసంహారిత్వ-రూపం భోక్తృత్వమ్। సూత్రార్థః--- బ్రహ్మ-క్షత్రౌదనస్యాత్తా పరమాత్మా। బ్రహ్మ-క్షత్ర-శబ్దేన చరాచరస్య కృత్స్నస్య జగతో గ్రహణాత్। మృత్యూపసేచనో హ్య్ ఓదనో న బ్రహ్మ-క్షత్ర-మాత్రమ్। అపి తు తద్-ఉపలక్షితం చరాచరాత్మకం కృత్స్నం జగద్ ఏవ॥౯॥
Link copied౪౨ ప్రకరణాచ్ చ॥౧।౨।౧౦॥
Link copiedమహాన్తం విభుమ్ ఆత్మానం మత్వా ధీరో న శోచతి నాయమ్ ఆత్మా ప్రవచనేన లభ్యో న మేధయా ఇతి పరస్యైవ హీదం ప్రకరణమ్। అతశ్ చాయం పరమాత్మా॥౧౦॥
Link copiedనన్వ్ అనన్తరమ్ ఋతం పిబన్తౌ సుకృతస్య లోకే గుహాం ప్రవిష్టౌ పరమే పరార్ధ్యే ఇతి ద్వయోః కర్మ-ఫలాదనాదన-శ్రవణాత్, పరమాత్మనశ్ చ కర్మ-ఫలాదనాన్వయాత్, అన్తఃకరణ-ద్వితీయో జీవ ఏవ తత్రాత్తేతి ప్రతీయతే, అతోఽత్రాపి స ఏవ జీవోఽత్తా భవితుమ్ అర్హతీత్య్ ఆశఙ్క్యాహ---
Link copied౪౩ గుహాం ప్రవిష్టావ్ ఆత్మానౌ హి తద్-దర్శనాత్॥౧।౨।౧౧॥
Link copiedగుహాం ప్రవిష్టౌ జీవాత్మ-పరమాత్మానౌ। జీవద్ వితీయః పరమాత్మైవ తత్ర ప్రతీయత ఇత్య్ అర్థః। స్వయమ్ అనశ్నతోఽపి పరమాత్మనః ప్రయోజకతయా పానేఽన్వయో విద్యతే। జీవద్ వితీయః పరమాత్మేతి కథమ్ అవగమ్యతం తద్-దర్శనాత్--- తయోర్ ఏవ హ్య్ అస్మిన్ ప్రకరణే గుహా-ప్రవేశ-వ్యపదేశో దృశ్యతే తం దుర్దర్శం గూఢమ్ అనుప్రవిష్టం గుహాహితం గహ్వరేష్టం పురాణమ్, అధ్యాత్మ-యోగాధిగమేన దేవం మత్వా ధీరో హర్ష-శోకౌ జహాతి ఇతి పరమాత్మనః యా ప్రాణేన సమ్భవత్య్ అదితిర్ దేవతా-మయీ, గుహాం ప్రవిశ్య తిష్ఠన్తీ యా భూతేభిర్ వ్యజాయత ఇతి జీవస్య। కర్మ-ఫలాన్య్ అత్తీత్య్ అదితిర్ జీవః॥౧౧॥
Link copied౪౪ విశేషణాచ్ చ॥౧।౨।౧౨॥
Link copiedఅస్మిన్ ప్రకరణే హ్య్ ఉపక్రమ-ప్రభృత్యోపసంహారాజ్ జీవ-పరమాత్మానావ్ ఏవోపాస్యత్వోపాసకత్వ-ప్రాప్తృత్వాదిభిర్ విశిష్యేతే మహాన్తం విభుమ్ ఆత్మానం మత్వా ధీరో న శోచతి। విజ్ఞాన-సారథిర్ యస్ తు మనః ప్రగ్రహవాన్ నరః, సోఽధ్వనః పారమాప్నోతి తద్ విష్ణోః పరమం పదమ్ ఇత్య్ ఆదిషు। అతశ్ చాత్తా పరమాత్మా॥౧౨॥ఇత్య్ అత్త్రధికరణమ్॥౨॥
Link copied౧।౨।౩
Link copied౪౫ అన్తర ఉపపత్తేః॥౧।౨।౧౩॥
Link copiedఛాన్దోగ్యే య ఏషోఽన్తరక్షిణి పురుషో దృశ్యతే ఏష ఆత్మేతి హోవాచైతద్ అమృతమ్ అభయమ్ ఏతద్ బ్రహ్మ ఇత్య్ అత్రాక్ష్య్-ఆధారః పురుషః కిం ప్రతిబిమ్బాత్మ-జీవ-దేవతా-విశేషాన్యతమః ఉత పరమాత్మేతి సంశయః। ఏష్వ్ అన్యతమ ఇతి పూర్వ-పక్షః। కుతః। య ఏష దృశ్యతే ఇతి ప్రసిద్ధవత్ సాక్షాత్కార-నిర్దేశాత్। రాద్ధాన్తస్ తు--- పరమాత్మైవాయమ్ అక్ష్య్-ఆధారః పురుషః అక్షి-పురుష-సమ్బన్ధితయా శ్రూయమాణా నిరుపాధికాత్మత్వామృతత్వాభయత్వ-బ్రహ్మత్వ-సంయద్-వామత్వాదయః పరమాత్మన్య్ ఏవోపపద్యన్తే। ప్రసిద్ధవన్ నిర్దేశశ్ చ యశ్ చక్షుషి తిష్ఠన్ ఇత్య్ ఆది శ్రుత్య్-అన్తర-ప్రసిద్ధేర్ ఉపపద్యతే। సాక్షాత్కారశ్ చ తద్-ఉపాసన-నిష్ఠానాం యోగినామ్। సూత్రార్థస్ తు--- అక్ష్య్-అన్తరః పరమాత్మా। సంయద్-వామత్వాదీనాం గుణానామ్ అత్రైవోపపత్తేః॥౧౩॥
Link copied౪౬ స్థానాది-వ్యపదేశాచ్ చ॥౧।౨।౧౪॥
Link copiedస్థానం స్థితిః। పరమాత్మన ఏవ యశ్ చక్షుషి తిష్ఠన్ ఇత్య్ ఆదౌ చక్షుషి స్థితి-నియమనాదీనాం వ్యపదేశాచ్ చాయం పరమాత్మా॥౧౪॥
Link copied౪౭ సుఖ-విశిష్టాభిధానాద్ ఏవ చ॥౧।౨।౧౫॥
Link copiedప్రాణో బ్రహ్మ కం బ్రహ్మ ఖం బ్రహ్మ ఇతి సుఖ-విశిష్టతయా ప్రకృతస్యైవ పరస్యైవ బ్రహ్మణోఽక్ష్య్-ఆధారతయా ఉపాస్యత్వాభిధానాచ్ చాయం పరమాత్మా। ఏవకారోఽస్యైవ హేతోర్ నైరపేక్ష్యావగమాయ॥౧౫॥
Link copiedప్రాణో బ్రహ్మ కం బ్రహ్మ ఖం బ్రహ్మ ఇత్య్ అత్ర సుఖ-విశిష్టం పరమ్ ఏవ బ్రహ్మాభిహితమ్ ఇతి కథమ్ ఇదమ్ అవగమ్యతే, యావతా నామాదివత్ ప్రతీకోపాసనమ్ ఏవేత్య్ ఆశఙ్క్యాహ---
Link copied౪౮ అత ఏవ చ స బ్రహ్మ॥౧।౨।౧౬॥
Link copiedయతస్ తత్ర భవ-భయ-భీతాయోపకోసలాయ బ్రహ్మ-స్వరూప-జిజ్ఞాసవే కం చ తు ఖం చ న విజానామి ఇతి పృచ్ఛతే యద్ ఏవ కం తద్ ఏవ ఖం తద్ ఏవ ఖం యద్ ఏవ కమ్ ఇత్య్ అన్యోన్య-వ్యవచ్ఛేదకతయా అపరిఛిన్న-సుఖ-స్వరూపం బ్రహ్మేత్య్ అభిధాయ ప్రాణం చ హాస్మై తద్-ఆకాశం చోచుః ఇత్య్ ఉక్తమ్। అత ఏవ ఖ-శబ్దాభిధేయః స ఆకాశోఽపరిఛిన్న-సుఖ-విశిష్టం పరం బ్రహ్మైవ॥౧౬॥
Link copied౪౯ శ్రుతోపనిషత్క-గత్య్-అభిధానాచ్ చ॥౧।౨।౧౭॥
Link copiedశ్రుతోపనిషత్కైః--- అధిగత-బ్రహ్మ-యాథాత్మ్యైర్ బ్రహ్మ-ప్రాప్తయే యా గతిర్ అర్చిరాదిర్ అధిగన్తవ్యతయావగతా శ్రుత్య్-అన్తరే తస్యాశ్ చేహాక్షి-పురుషం శ్రుతవతోఽధిగన్తవ్యతయా తేఽర్చిషమ్ ఏవాభిసమ్భవన్తి ఇత్య్ ఆదినాభిధానాద్ అక్షి-పురుషః పరమాత్మా॥౧౭॥
Link copied౫౦ అనవస్థితేర్ అసమ్భవాచ్ చ నేతరః॥౧।౨।౧౮॥
Link copiedపరమాత్మన ఇతరః జీవాదికః, తస్యాక్ష్ణి నియమేన అనవస్థితేః, అమృతత్వ-సంయద్-వామత్వాదీనాం చాసమ్భవాన్ న సోఽక్ష్య్-ఆధారః॥౧౮॥ఇత్య్ అన్తరాధికరణమ్॥౩॥
Link copied౧।౨।౪
Link copied౫౧ అన్తర్యామ్య్-అధిదైవాధిలోకాదిషు తద్-ధర్మ-వ్యపదేశాత్॥౧।౨।౧౯॥
Link copiedబృహదారణ్యకే యః పృథివ్యాం తిష్ఠన్ పృథివ్యా అన్తరో యం పృథివీ న వేద యస్య పృథివీ శరీరం యః పృథివీమ్ అన్తరో యమయత్య్ ఏష త ఆత్మాన్తర్యామ్య్ అమృతః ఇత్య్ ఆదిషు సర్వేషు పర్యాయేషు శ్రూయమాణోఽన్తర్యామీ కిం ప్రత్యగ్-ఆత్మా ఉత పరమాత్మేతి సంశయః। ప్రత్యగ్-ఆత్మేతి పూర్వ-పక్షః। వాక్య-శేషే ద్రష్టా శ్రోతా మన్తా ఇతి ద్రష్టృత్వాది శ్రుతేః। నాన్యోఽతోఽస్తి ద్రష్టా ఇతి ద్రష్ట్రన్తర-నిషేధాచ్ చ। రాద్ధాన్తస్ తు--- పృథివ్యాద్య్-ఆత్మ-పర్యన్త-సర్వ-తత్త్వానాం సర్వైస్ తైర్ అదృష్టేనైకేన నియమనం నిరుపాధికామృతత్వాదికం చ పరమాత్మన ఏవ ధర్మ ఇత్య్ అన్తర్యామీ పరమాత్మా। ద్రష్టృత్వాదిశ్ చ రూపాది-సాక్షాత్కారః। స చ పశ్యత్య్ అచక్షుః ఇత్య్ ఆదినా పరమాత్మానోఽప్య్ అస్తి। నాన్యోఽతోఽస్తి ద్రష్టా ఇతి చ జీవేనాదృష్టాన్తర్యామి-ద్రష్టృవద్ అన్తర్యామిణాప్య్ అదృష్ట-ద్రష్ట్రన్తర-నిషేధ-పరః। సూత్రార్థః--- అధిదైవాధిలోకాది-పద-చిహ్నితేషు వాక్యేషు శ్రూయమాణోఽన్తర్యామీ పరమాత్మా। సర్వాన్తరత్వ-సర్వావిదితత్వ-సర్వ-శరీరకత్వ-సర్వ-నియమన-సర్వాత్మత్వామృతత్వాది-పరమాత్మ-ధర్మాణాం వ్యపదేశాత్॥౧౯॥
Link copied౫౨ న చ స్మార్తమ్ అతద్-ధర్మాభిలాపాచ్ ఛారీరశ్ చ॥౧।౨।౨౦॥
Link copiedస్మార్తం ప్రధానమ్। శారీరః ప్రత్యగ్-ఆత్మా। స్మార్తం చ శారీరశ్ చ నాన్తర్యామీ। తయోర్ అసమ్భావితోక్త-ధర్మాభిలాపాత్। యథా స్మార్తస్యాచేతనస్యాసమ్భావనయా నాన్తర్యామిత్వ-ప్రసక్తిస్ తథా ప్రత్యగ్-ఆత్మనోఽపీత్య్ అర్థః॥౨౦॥
Link copied౫౩ ఉభయేఽపి హి భేదేనైనమ్ అధీయతే॥౧।౨।౨౧॥
Link copiedఉభయే కాణ్వా మాధ్యన్దినా అపి యో విజ్ఞానే తిష్ఠన్। య ఆత్మని తిష్ఠన్ ఇతి యతః ప్రత్యగ్-ఆత్మనో భేదేనైనమ్--- అన్తర్యామిణమ్ అధీయతే అతోఽయం తద్-అతిరిక్తః పరమాత్మా॥౨౧॥ఇత్య్ అన్తర్యామ్య్-అధికరణమ్॥౪॥
Link copied౧।౨।౫
Link copied౫౪ అదృశ్యత్వాది-గుణకో ధర్మోక్తేః॥౧।౨।౨౨॥
Link copiedఆథర్వణే అథ పరా యయా తద్ అక్షరమ్ అధిగమ్యతే యత్ తద్ అద్రేశ్యమ్ ఇత్య్ ఆరభ్య యద్ భూత-యోనిం పరిపశ్యన్తి ధీరాః, అక్షరాత్ పరతః పరః ఇత్య్ ఆదౌ కిం ప్రధాన-పురుషౌ ప్రతిపాద్యేతే ఉత పరమాత్మైవేతి సంశయః। ప్రధాన-పురుషావ్ ఇతి పూర్వః పక్షః। పృథివ్య్-ఆద్య్-అచేతన-గత-దృశ్యత్వాదీనాం ప్రతిషేధాత్ తజ్-జాతీయ-చేతనం ప్రధానమ్ ఏవ భూత-యోన్య్-అక్షరమ్ ఇతి ప్రతీయతే। తథా అక్షరాత్ పరతః పర ఇతి చ తస్యాధిష్ఠాతా పురుష ఏవేతి। రాద్ధాన్తస్ తు--- ఉత్తరత్ర యః సర్వజ్ఞః సర్వవిత్ ఇతి ప్రధాన-పురుషయోర్ అసమ్భావితం సార్వజ్ఞ్యమ్ అభిధాయ తస్మాద్ ఏతద్ బ్రహ్మ నామ-రూపమ్ అన్నం చ జాయతే ఇతి సర్వజ్ఞాత్ సత్య-సఙ్కల్పాజ్ జగద్-ఉత్పత్తి-శ్రవణాత్ పూర్వోక్తమ్ అదృశ్యత్వాది-గుణకం భూత-యోన్య్-అక్షరమ్, అక్షరాత్ పరతః పరః ఇతి చ నిర్దిష్టం తద్ అక్షరం పరం బ్రహ్మైవేతి విజ్ఞాయతే। సూత్రార్థస్ తు--- అదృశ్యత్వాది-గుణకః పరమాత్మా। సర్వజ్ఞత్వాది తద్-ధర్మోక్తేః॥౨౨॥
Link copied౫౫ విశేషణ-భేద-వ్యపదేశాభ్యాం చ నేతరౌ॥౧।౨।౨౩॥
Link copiedవిశినష్టి హి ప్రకరణం ప్రధానాద్ భూత-యోన్య్-అక్షరమ్ ఏక-విజ్ఞానేన సర్వ-విజ్ఞానాదినా। తథా అక్షరాత్ పరతః పర ఇతి, అక్షరాద్ అవ్యాకృతాత్ పరతోఽవస్థితాత్ పురుషాత్ పర ఇతి పురుషాచ్ చాస్య భూత-యోన్య్-అక్షరస్య భేదో వ్యపదిశ్యతే। అతశ్ చ న ప్రధాన-పురుషౌ। అపి తు పరమాత్మైవాత్ర నిర్దిష్టః॥౨౩॥
Link copied౫౬ రూపోపన్యాసాచ్ చ॥౧।౨।౨౪॥
Link copiedఅగ్నిర్ మూర్ధా ఇత్య్ ఆదినా సమస్తస్య చిద్-అచిద్-ఆత్మక-ప్రపఞ్చస్య భూత-యోన్య్-అక్షర-రూపత్వేనోపన్యాసాచ్ చాయమ్ అదృశ్యత్వాది-గుణకః పరమాత్మా॥౨౪॥ఇత్య్ అదృశ్యత్వాది-గుణకాధికరణమ్॥౫॥
Link copied౧।౨।౬
Link copied౫౭ వైశ్వానరః సాధారణ-శబ్ద-విశేషాత్॥౧।౨।౨౫॥
Link copiedఛాన్దోగ్యే ఆత్మానమ్ ఏవేమం వైశ్వానరం సమ్ప్రత్యధ్యేషి। తమ్ ఏవ నో బ్రూహి ఇత్య్ ఆరభ్య యస్ త్వ్ ఏతమ్ ఏవం ప్రాదేశ-మాత్రమ్ అభివిమానమ్ ఆత్మానం వైశ్వానరమ్ ఉపాస్తే ఇత్య్ అత్ర కిమ్ అయం వైశ్వానరః పరమాత్మేతి శక్య-నిర్ణయః, ఉత నేతి సంశయః। అశక్య-నిర్ణయ ఇతి పూర్వః పక్షః। వైశ్వానర-శబ్దస్య జాఠరాగ్నౌ, భూత-తృతీయే దేవతా-విశేషే పరమాత్మని చ వైదిక-ప్రయోగ-దర్శనాత్, అస్మిన్ ప్రకరణే సర్వేషాం లిఙ్గోపలబ్ధేశ్ చ। రాద్ధాన్తస్ తు కో న ఆత్మా కిం బ్రహ్మ ఇతి సర్వేషాం జీవానామ్ ఆత్మ-భూతం బ్రహ్మ కిమ్ ఇతి ప్రక్రమాత్, ఉత్తరత్ర చ ఆత్మానం వైశ్వానరమ్ ఇతి బ్రహ్మ-శబ్ద-స్థానే సర్వత్ర వైశ్వానర-శబ్ద-ప్రయోగాచ్ చ, వైశ్వానరాత్మా సర్వేషాం జీవానామ్ ఆత్మ-భూతం పరం బ్రహ్మేతి విజ్ఞాయతే। సూత్రార్థః--- వైశ్వానర-శబ్ద-నిర్దిష్టః పరమాత్మా, వైశ్వానర-శబ్దస్యానేకార్థ-సాధారణస్యాప్య్ అస్మిన్ ప్రకరణే పరమాత్మాసాధారణ-విశేషణైః సర్వాత్మత్వాదిభిః విశేష్యమాణత్వాత్। విశేష్యత ఇతి విశేషః॥౨౫॥
Link copied౫౮ స్మర్యమాణమ్ అనుమానం స్యాద్ ఇతి॥౧।౨।౨౬॥
Link copiedస్మర్యమాణం--- ప్రత్యభిజ్ఞాయమానమ్, అనుమీయతే అనేనేత్య్ అనుమానమ్। ఇతి-శబ్దః ప్రకార-వచనః, ఇత్థం రూపం స్మర్యమాణం వైశ్వానరస్య పరమాత్మత్వే అనుమానం స్యాద్ ద్యు-ప్రభృతి-పృథివ్య్-అన్తమ్ అవయవ-విభాగేన వైశ్వానరస్య రూపమ్ ఇహోపదిష్టమ్। అగ్నిర్ మూర్ధా చక్షుషీ చన్ద్ర-సూర్యౌ, ద్యాం మూర్ధాం యస్య విప్రా వదన్తి ఇతి శ్రుతిస్-మృతి-ప్రసిద్ధం పరమ-పురుష-రూపమ్ ఇహ ప్రత్యభిజ్ఞాయమానం వైశ్వానరస్య పరమాత్మత్వే లిఙ్గం స్యాద్ ఇత్య్ అర్థః ॥౨౬॥
Link copied౫౯ శబ్దాదిభ్యోఽన్తః ప్రతిష్ఠానాచ్ చ నేతి చేన్ న॥౧।౨।౨౭॥
Link copiedతథా దృష్ట్య్-ఉపదేశాద్ అసమ్భవాత్ పురుషమ్ అపి చైనమ్ అధీయతే--- అనిర్ణయమ్ ఆశఙ్క్య పరిహరతి--- శబ్దాదిభ్యోఽన్తః ప్రతిష్ఠానాచ్ చేతి। శబ్దస్ తావత్ వాజినాం వైశ్వానర-విద్యా-ప్రకరణే స ఏషోఽగ్నిర్ వైశ్వానర ఇతి వైశ్వానర-సమానాధికరణః అగ్ని-శబ్దః। అస్మిన్ ప్రకరణే చ హృదయే గార్హాపత్య ఇత్య్ ఆరభ్య వైశ్వానరస్య హృదయాది-స్థానస్యాగ్ని-త్రయ-పరికల్పనం ప్రాణాహుత్య్-ఆధారత్వం చేతి ప్రతీయతే। వాజినామ్ అపి స యో హ వై తమ్ ఏవమ్ అగ్నిం వైశ్వానరం పురుష-విధం పురుషేఽన్తః ప్రతిష్ఠితం వేద ఇతి వైశ్వానరస్య శరీరాన్తః ప్రతిష్ఠితత్వం ప్రతీయతే। అతః ఏతైః లిఙ్గైర్ వైశ్వానరస్య జాఠరాగ్నిత్వ-ప్రతీతేర్ నాయం పరమాత్మేతి శక్య-నిర్ణయ ఇతి చేత్ తన్ న। తథా దృష్ట్య్-ఉపదేశాత్। దృష్టిః--- ఉపాసనమ్, తథోపాసనోపదేశాద్ ఇత్య్ అర్థః। జాఠరాగ్ని-శరీరతయా వైశ్వానరస్య పరమాత్మానః ఉపాసనం హ్య్ అత్రోపదిశ్యతే। అయమ్ అగ్నిర్ వైశ్వానరః పురుషేఽన్తః ప్రతిష్ఠితః ఇత్య్ ఆదౌ। కథమ్ అవగమ్యత ఇతి చేత్, అసమ్భవాత్--- కేవల-జాఠరాగ్నేస్ త్రైలోక్య-శరీరత్వాద్య్-అసమ్భవాత్। పురుషమ్ అపి చైనమ్ అధీయతే--- చ-శబ్దః ప్రసిద్ధౌ, వాజినస్ తత్రైవ స ఏషోఽగ్నిర్ వైశ్వానరో యత్ పురుషః ఇతి, ఏనం వైశ్వానరం పురుషమ్ అపి హ్య్ అధీయతే। పురుషశ్ చ పరమాత్మైవ పురుష ఏవేదం సర్వం, పురుషాన్ న పరం కిఞ్చిత్ ఇత్య్ ఆదిషు ప్రసిద్ధేః॥౨౭॥
Link copied౬౦ అత ఏవ న దేవతా భూతం చ॥౧।౨।౨౮॥
Link copiedయతః త్రైలోక్య శరీరః అసౌ వైశ్వానరః, యతశ్ చ నిరుపాధిక-పురుష-శబ్ద-నిర్దిష్టః, అత ఏవ నాగ్న్య్-ఆఖ్యా దేవతా, మహాపురుష-తృతీయశ్ చ వైశ్వానరః శఙ్కనీయః॥౨౮॥
Link copied౬౧ సాక్షాద్ అప్య్ అవిరోధం జైమినిః॥౧।౨।౨౯॥
Link copiedఅగ్ని-శరీరతయా వైశ్వానరస్య ఉపాసనార్థమ్ అగ్ని-శబ్ద-సామానాధికరణ్య-నిర్దేశ ఇత్య్ ఉక్తమ్। విశ్వేషాం నరాణాం నేతృత్వాదినా సమ్బన్ధేన యథా వైశ్వానర-శబ్దః పరమాత్మని వర్తతే, యథైవ అగ్ని-శబ్దస్యాప్య్ అగ్రనయనాదినా యోగేన సాక్షాత్ పరమాత్మని వృత్తౌ న కశ్చిద్ విరోధ ఇతి జైమినిరాచార్యో మన్యతే॥౨౯॥
Link copiedయస్ త్వ్ ఏతమ్ ఏవం ప్రాదేశ-మాత్రమ్ అభివిమానమ్ ఆత్మానం వైశ్వానరమ్ ఇతి ద్యు-ప్రభృతి-పృథివ్య్-అన్త-ప్రదేశ-సమ్బన్ధిన్యా మాత్రయా పరిచ్ఛిన్నత్వమ్ అనవచ్ఛిన్నస్య పరమాత్మనః వైశ్వానరస్య కథమ్ ఉపపద్యత ఇత్య్ అత్రాహ---
Link copied౬౨ అభివ్యక్తేర్ ఇత్య్ ఆశ్మరథ్యః॥౧।౨।౩౦॥
Link copiedఅనవచ్ఛిన్నస్యైవ పరమాత్మనః ఉపాసనాభివ్యక్త్యర్థం ద్యు-ప్రభృతి-పృథివ్య్-అన్త-ప్రదేశ-పరిచ్ఛిన్నత్వమ్ ఇత్య్ ఆశ్మరథ్య ఆచార్యో మన్యతే॥౩౦॥
Link copiedద్యు-ప్రభృతి-ప్రదేశావచ్ఛేదేనాభివ్యక్తస్య పరమాత్మనః ద్యు-భ్వ్-ఆదిత్యాదీనాం మూర్ధాద్య్-అవయవ-కల్పనం కిమ్ అర్థమ్ ఇతి చేత్ తత్రాహ---
Link copied౬౩ అనుస్మృతేర్ బాదరిః॥౧।౨।౩౧॥
Link copiedఅనుస్మృతిః ఉపాసనమ్। బ్రహ్మ-ప్రాప్తయే వ్రతోపాసనార్థం మూర్ధ-ప్రభృతి-పాదాన్త-దేహ-పరికల్పనమ్ ఇతి బాదరిరాచార్యో మన్యతే॥౩౧॥
Link copiedఅయం వైశ్వానరః పరమాత్మా। త్రైలోక్య-శరీరః ఉపాస్య ఉపదిశ్యతే చేత్, ఉర ఏవ వేదిర్ లోమానిబర్హిర్ హృదయం గార్హాపత్యః ఇత్య్ ఆదినా ఉపాసక-శరీరావయవానాం గార్హాపత్యాది-పరికల్పనం కిమ్ అర్థమ్ ఇత్య్ అత్రాహ---
Link copied౬౪ సమ్పత్తేర్ ఇతి జైమినిస్ తథా హి దర్శయతి॥౧।౨।౩౨॥
Link copiedవైశ్వానర-విద్యాఙ్గ-భూతాయాః ఉపాసకైర్ అహర్ అహః క్రియమాణాయాః ప్రాణాహుతేర్ అగ్నిహోత్రత్వ-సమ్పాదనాయ గార్హాపత్యాది-పరికల్పనమ్ ఇతి జైమినిర్ ఆచార్యో మన్యతే। తథా హ్య్ అగ్నిహోత్ర-సమ్పత్తిమ్ ఏవ దర్శయతీయం శ్రుతిః ప్రాణాహుతిం విధాయ, అథ య ఏవం విద్వాన్ అగ్నిహోత్రం జుహోతి ఇతి। ఉక్తానామ్ అర్థానాం పూజితత్వ-ఖ్యాపనాయాచార్య-గ్రహణమ్॥౩౨॥
Link copied౬౫ ఆమనన్తి చైనమ్ అస్మిన్॥౧।౨।౩౩॥
Link copiedఏనం పరమ-పురుషం వైశ్వానరం ద్యు-భ్వ్-ఆది-దేహమ్, అస్మిన్--- ఉపాసక-దేహే ప్రాణాగ్నిహోత్రేణారాధ్యత్వాయామనన్తి హి--- తస్య హ వా ఏతస్య వైశ్వానరస్య మూర్ధైవ సుతేజా ఇత్య్ ఆదినా। ఉపాసక-మూర్ధాది-పాదాన్తా ఏవ ద్యు-ప్రభృతయః పరమ-పురుషస్య మూర్ధాదయ ఇతి ప్రాణాగ్నిహోత్ర-వేలాయామ్ అనుసన్ధేయా ఇత్య్ అర్థః॥౩౩॥ఇతి వైశ్వానరాధికరణమ్॥౬॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-రచితే శ్రీ-వేదాన్తదీపే ప్రథమస్యాధ్యాయస్య ద్వితీయః పాదః॥
Link copied1.2.1
Link copied33 sarvathra prasiddho:pade:sa:th||1|2|1||
Link copiedchha:ndo:gye: sru:yathe: sarvam khalv idam brahma thaj jala:n ithi sa:ntha upa:si:tha, atha khalu krathu mayo:'yam purusho: yatha: krathur asmiml lo:ke: purusho: bhavathi thathe:thah pre:thya bhavathi sa krathum kurvi:tha mano: mayah pra:na sari:rah ithi| athra sarvam khalv idam brahma ithi sarva:thmakathve:na nirdishtam brahma kim prathyag a:thma:, utha parama:thme:thi samsayah| prathyag a:thme:thi pu:rvah pakshah| sarvathra tha:da:thmyo:pade:so: hi thasyaivo:papadyathe:| parasya thu brahmanah sakala he:ya prathyani:ka kalya:naikatha:nasya samastha he:ya:kara sarva tha:da:thmyam viro:dha:d e:va na sambhavathi| prathyag a:thmano: hi karma nimiththo: brahma:di sthamba paryantha sarva bha:va upapadyathe:| srushty a:di he:thukathvam cha thath thath karma nimiththaththve:na srushty a:de:r upapadyathe:| brahma sabdo:'pi bruhathva guna yo:ge:na thasma:d e:thad brahma na:ma ru:pam annam cha ja:yathe: ithivath thathraiva varthathe:| ra:ddha:nthas thu thaj jala:n ithi sarvam khalv idam brahma ithi thaj janma sthithil aya he:thukam thad a:thmakathvam prasiddhavan nirdisyama:nam parasyaiva brahmana upapadyathe:| parasma:d brahmana e:va hi jagaj janma sthithi laya:h prasiddha:h so:'ka:mayatha bahu sya:m praja:ye:ye:thi, idam sarvam asrujatha ithy a:dishu| thatha: sarva:thmakathvam cha janma:di he:thukam parasyaiva brahmanah prasiddham san mu:la:h so:mye:ma:h sarva:h praja:h sad a:yathana:h sath prathishtha:h, aithada:thmyam idam sarvam ithi| he:ya prathyani:ka kalya:naikatha:na:thmanas cha parasya he:ya:kara sarva bhu:tha:thmathvam aviruddham| yah pruthivya:m thishthan--- yasya pruthivi: sari:ram| ya a:thmani thishthan| yasya:thma: sari:ram sa tha a:thma:ntharya:my amrutha ithy a:dina: sari:ra:thma bha:ve:na sarva:thmathvo:papa:dana:th| sari:ra:thmano:s cha svabha:va vyavastha:pana:th| sarvam brahme:thi sa:ma:na:dhikarany anirde:sas cha sarva sabdasya sarva sari:rake: brahmany e:va pravruththe:r upapadyathe:| sari:ra va:chi: hi sabdah sari:riny a:thmany e:va paryavasyathi| de:va manushya:di sabdavath| su:thra:rthas thu--- sarvathra sarvam khalv idam brahma ithi nirdishte: vasthuni sarva sabda va:chye: sa:ma:na:dhikaranye:na thada:thmathaya: nirdishtam param brahmaiva| kuthah prasiddho:pade:sa:th| thaj jala:n ithi, sarvam idam brahma khalu ithi prasiddhavath thasyo:pade:sa:th| thad e:va hi jagaj janma sthithi laya he:thuthve:na ve:da:nthe:shu prasiddham||1||
Link copied34 vivakshitha guno:papaththe:s cha||1|2|2||
Link copiedmano: mayathva:dika:h sathya sankalpathva misra: vivakshitha:h guna:h parasminn e:vo:papadyanthe:||2||
Link copied35 anupapaththe:s thu na sa:ri:rah||1|2|3||
Link copiede:the:sha:m guna:na:m anantha duhkha misra parimitha sukha lava bha:giny ajne: karma paravase: sa:ri:re: prathyag a:thmany anupapaththe:s cha:yam na sa:ri:rah| api thu param e:va brahma||3||
Link copied36 karma karthru vyapade:sa:ch cha||1|2|4||
Link copiede:tham ithah pre:thya:bhisambhavitha:smi ithi pra:pyathayo:pa:syo: nirdisyathe:, pra:pthruthaya: cha ji:vah| athas cha ji:va:d anyad e:ve:dam param brahma||4||
Link copied37 sabda vise:sha:th||1|2|5||
Link copiede:sha ma a:thma:nthar hrudaya ithi sa:ri:rah shashtya: nirdishtah, upa:syah prathamaya:| athas cha ji:va:d anyah||5||
Link copied38 smruthe:s cha||1|2|6||
Link copiedsarvasya cha:ham hrudi sannivishto: maththah smruthir jna:nam apo:hanam cha ithi smruthe:s cha| athas cha ji:va:d anya upa:syah parama:thma:||6||
Link copied39 arbhakaukasthva:th thad vyapade:sa:ch cha ne:thi che:n na nicha:yyathva:d e:vam vyo:mavach cha||1|2|7||
Link copiede:sha ma a:thma:nthar hrudaya ithy alpa stha:nathva:d ani:ya:n vri:he:r va: yava:d va: ithy alpathva vyapade:sa:ch cha na param brahme:thi che:n na| nicha:yyathva:d e:vam--- e:vam upa:syathva:d dhe:tho:r alpa:yathanathva:lpathva vyapade:sah| na svaru:pa:lpathve:na| jya:ya:n pruthivya:h ithy a:dina: sarvasma:j jya:yasthvo:pade:sa:th| jya:yaso:'py asya hrudaya:yathana:vachchhe:de:na alpathva:nusandha:nam upapadyathe:| vyo:mavath yatha: mahatho:'pi vyo:mnah su:chi patha:dishv alpathva:nusandha:nam| cha sabdo:'vadha:rane: thadvad e:ve:thy arthah| sva:bha:vikam cha:sya mahaththvam athra:bhidhi:yatha ithy arthah| jya:ya:n pruthivya: jya:ya:n anthariksha:j jya:ya:n divo: jya:ya:ne:bhyo: lo:ke:bhyah ithi hy anantharam e:va vyapadisyathe:||7||
Link copied40 sambho:ga pra:pthir ithi che:n na vaise:shya:th||1|2|8||
Link copiedyady upa:saka sari:re: hrudaye:'yam api varthathe: thathas thadvad e:va:sya:pi sari:ra prayuktha sukha duhkha sambho:ga pra:pthir ithi che:n na, he:thu vaise:shya:th| na hi sari:ra:ntharvarthithvam e:va sukha duhkho:pa bho:ga he:thuh| api thu karma paravasathvam| thath thv apahatha pa:pmanah parama:thmano: na sambhavathi||8||ithi sarvathra prasiddhy adhikaranam||1||
Link copied1.2.2
Link copied41 aththa: chara:chara grahana:th||1|2|9||
Link copiedkatha valli:shv a:mna:yathe: yasya brahma cha kshathram cho:bhe: bhavatha o:danah mruthyur yasyo:pase:chanam ka iththa: ve:da yathra sa ithi| athro:dano:pase:chana su:chitho:'ththa: kim ji:va utha parama:thme:thi samsayah| ji:va ithi pu:rvah pakshah| kuthah bho:kthruththvasya karma nimiththaththva:j ji:vasyaiva thath sambha:va:th| ra:ddha:nthas thu--- sarvo:pasamha:re: mruthyu:pase:chanam adani:yam chara:chara:thmakam kruthsnam jagad ithi thasyaithasya:ththa: parama:thmaiva| na che:dam karma nimiththam bho:kthruthvam| api thu jagath srushti sthithi laya li:lasya parama:thmano: jagad upasamha:rithva ru:pam bho:kthruthvam| su:thra:rthah--- brahma kshathraudanasya:ththa: parama:thma:| brahma kshathra sabde:na chara:charasya kruthsnasya jagatho: grahana:th| mruthyu:pase:chano: hy o:dano: na brahma kshathra ma:thram| api thu thad upalakshitham chara:chara:thmakam kruthsnam jagad e:va||9||
Link copied42 prakarana:ch cha||1|2|10||
Link copiedmaha:ntham vibhum a:thma:nam mathva: dhi:ro: na so:chathi na:yam a:thma: pravachane:na labhyo: na me:dhaya: ithi parasyaiva hi:dam prakaranam| athas cha:yam parama:thma:||10||
Link copiednanv anantharam rutham pibanthau sukruthasya lo:ke: guha:m pravishtau parame: para:rdhye: ithi dvayo:h karma phala:dana:dana sravana:th, parama:thmanas cha karma phala:dana:nvaya:th, anthahkarana dvithi:yo: ji:va e:va thathra:ththe:thi prathi:yathe:, atho:'thra:pi sa e:va ji:vo:'ththa: bhavithum arhathi:thy a:sankya:ha---
Link copied43 guha:m pravishta:v a:thma:nau hi thad darsana:th||1|2|11||
Link copiedguha:m pravishtau ji:va:thma parama:thma:nau| ji:vad vithi:yah parama:thmaiva thathra prathi:yatha ithy arthah| svayam anasnatho:'pi parama:thmanah prayo:jakathaya: pa:ne:'nvayo: vidyathe:| ji:vad vithi:yah parama:thme:thi katham avagamyatham thad darsana:th--- thayo:r e:va hy asmin prakarane: guha: prave:sa vyapade:so: drusyathe: tham durdarsam gu:dham anupravishtam guha:hitham gahvare:shtam pura:nam, adhya:thma yo:ga:dhigame:na de:vam mathva: dhi:ro: harsha so:kau jaha:thi ithi parama:thmanah ya: pra:ne:na sambhavathy adithir de:vatha: mayi:, guha:m pravisya thishthanthi: ya: bhu:the:bhir vyaja:yatha ithi ji:vasya| karma phala:ny aththi:thy adithir ji:vah||11||
Link copied44 vise:shana:ch cha||1|2|12||
Link copiedasmin prakarane: hy upakrama prabhruthyo:pasamha:ra:j ji:va parama:thma:na:v e:vo:pa:syathvo:pa:sakathva pra:pthruthva:dibhir visishye:the: maha:ntham vibhum a:thma:nam mathva: dhi:ro: na so:chathi| vijna:na sa:rathir yas thu manah pragrahava:n narah, so:'dhvanah pa:rama:pno:thi thad vishno:h paramam padam ithy a:dishu| athas cha:ththa: parama:thma:||12||ithy aththradhikaranam||2||
Link copied1.2.3
Link copied45 anthara upapaththe:h||1|2|13||
Link copiedchha:ndo:gye: ya e:sho:'ntharakshini purusho: drusyathe: e:sha a:thme:thi ho:va:chaithad amrutham abhayam e:thad brahma ithy athra:kshy a:dha:rah purushah kim prathibimba:thma ji:va de:vatha: vise:sha:nyathamah utha parama:thme:thi samsayah| e:shv anyathama ithi pu:rva pakshah| kuthah| ya e:sha drusyathe: ithi prasiddhavath sa:ksha:thka:ra nirde:sa:th| ra:ddha:nthas thu--- parama:thmaiva:yam akshy a:dha:rah purushah akshi purusha sambandhithaya: sru:yama:na: nirupa:dhika:thmathva:mruthathva:bhayathva brahmathva samyad va:mathva:dayah parama:thmany e:vo:papadyanthe:| prasiddhavan nirde:sas cha yas chakshushi thishthan ithy a:di sruthy anthara prasiddhe:r upapadyathe:| sa:ksha:thka:ras cha thad upa:sana nishtha:na:m yo:gina:m| su:thra:rthas thu--- akshy antharah parama:thma:| samyad va:mathva:di:na:m guna:na:m athraivo:papaththe:h||13||
Link copied46 stha:na:di vyapade:sa:ch cha||1|2|14||
Link copiedstha:nam sthithih| parama:thmana e:va yas chakshushi thishthan ithy a:dau chakshushi sthithi niyamana:di:na:m vyapade:sa:ch cha:yam parama:thma:||14||
Link copied47 sukha visishta:bhidha:na:d e:va cha||1|2|15||
Link copiedpra:no: brahma kam brahma kham brahma ithi sukha visishtathaya: prakruthasyaiva parasyaiva brahmano:'kshy a:dha:rathaya: upa:syathva:bhidha:na:ch cha:yam parama:thma:| e:vaka:ro:'syaiva he:tho:r nairape:kshya:vagama:ya||15||
Link copiedpra:no: brahma kam brahma kham brahma ithy athra sukha visishtam param e:va brahma:bhihitham ithi katham idam avagamyathe:, ya:vatha: na:ma:divath prathi:ko:pa:sanam e:ve:thy a:sankya:ha---
Link copied48 atha e:va cha sa brahma||1|2|16||
Link copiedyathas thathra bhava bhaya bhi:tha:yo:pako:sala:ya brahma svaru:pa jijna:save: kam cha thu kham cha na vija:na:mi ithi pruchchhathe: yad e:va kam thad e:va kham thad e:va kham yad e:va kam ithy anyo:nya vyavachchhe:dakathaya: aparichhinna sukha svaru:pam brahme:thy abhidha:ya pra:nam cha ha:smai thad a:ka:sam cho:chuh ithy uktham| atha e:va kha sabda:bhidhe:yah sa a:ka:so:'parichhinna sukha visishtam param brahmaiva||16||
Link copied49 srutho:panishathka gathy abhidha:na:ch cha||1|2|17||
Link copiedsrutho:panishathkaih--- adhigatha brahma ya:tha:thmyair brahma pra:pthaye: ya: gathir archira:dir adhiganthavyathaya:vagatha: sruthy anthare: thasya:s che:ha:kshi purusham sruthavatho:'dhiganthavyathaya: the:'rchisham e:va:bhisambhavanthi ithy a:dina:bhidha:na:d akshi purushah parama:thma:||17||
Link copied50 anavasthithe:r asambhava:ch cha ne:tharah||1|2|18||
Link copiedparama:thmana itharah ji:va:dikah, thasya:kshni niyame:na anavasthithe:h, amruthathva samyad va:mathva:di:na:m cha:sambhava:n na so:'kshy a:dha:rah||18||ithy anthara:dhikaranam||3||
Link copied1.2.4
Link copied51 antharya:my adhidaiva:dhilo:ka:dishu thad dharma vyapade:sa:th||1|2|19||
Link copiedbruhada:ranyake: yah pruthivya:m thishthan pruthivya: antharo: yam pruthivi: na ve:da yasya pruthivi: sari:ram yah pruthivi:m antharo: yamayathy e:sha tha a:thma:ntharya:my amruthah ithy a:dishu sarve:shu parya:ye:shu sru:yama:no:'ntharya:mi: kim prathyag a:thma: utha parama:thme:thi samsayah| prathyag a:thme:thi pu:rva pakshah| va:kya se:she: drashta: sro:tha: mantha: ithi drashtruthva:di sruthe:h| na:nyo:'tho:'sthi drashta: ithi drashtranthara nishe:dha:ch cha| ra:ddha:nthas thu--- pruthivya:dy a:thma paryantha sarva thaththva:na:m sarvais thair adrushte:naike:na niyamanam nirupa:dhika:mruthathva:dikam cha parama:thmana e:va dharma ithy antharya:mi: parama:thma:| drashtruthva:dis cha ru:pa:di sa:ksha:thka:rah| sa cha pasyathy achakshuh ithy a:dina: parama:thma:no:'py asthi| na:nyo:'tho:'sthi drashta: ithi cha ji:ve:na:drushta:ntharya:mi drashtruvad antharya:mina:py adrushta drashtranthara nishe:dha parah| su:thra:rthah--- adhidaiva:dhilo:ka:di pada chihnithe:shu va:kye:shu sru:yama:no:'ntharya:mi: parama:thma:| sarva:ntharathva sarva:vidithathva sarva sari:rakathva sarva niyamana sarva:thmathva:mruthathva:di parama:thma dharma:na:m vyapade:sa:th||19||
Link copied52 na cha sma:rtham athad dharma:bhila:pa:ch chha:ri:ras cha||1|2|20||
Link copiedsma:rtham pradha:nam| sa:ri:rah prathyag a:thma:| sma:rtham cha sa:ri:ras cha na:ntharya:mi:| thayo:r asambha:vitho:ktha dharma:bhila:pa:th| yatha: sma:rthasya:che:thanasya:sambha:vanaya: na:ntharya:mithva prasakthis thatha: prathyag a:thmano:'pi:thy arthah||20||
Link copied53 ubhaye:'pi hi bhe:de:nainam adhi:yathe:||1|2|21||
Link copiedubhaye: ka:nva: ma:dhyandina: api yo: vijna:ne: thishthan| ya a:thmani thishthan ithi yathah prathyag a:thmano: bhe:de:nainam--- antharya:minam adhi:yathe: atho:'yam thad athirikthah parama:thma:||21||ithy antharya:my adhikaranam||4||
Link copied1.2.5
Link copied54 adrusyathva:di gunako: dharmo:kthe:h||1|2|22||
Link copieda:tharvane: atha para: yaya: thad aksharam adhigamyathe: yath thad adre:syam ithy a:rabhya yad bhu:tha yo:nim paripasyanthi dhi:ra:h, akshara:th parathah parah ithy a:dau kim pradha:na purushau prathipa:dye:the: utha parama:thmaive:thi samsayah| pradha:na purusha:v ithi pu:rvah pakshah| pruthivy a:dy ache:thana gatha drusyathva:di:na:m prathishe:dha:th thaj ja:thi:ya che:thanam pradha:nam e:va bhu:tha yo:ny aksharam ithi prathi:yathe:| thatha: akshara:th parathah para ithi cha thasya:dhishtha:tha: purusha e:ve:thi| ra:ddha:nthas thu--- uththarathra yah sarvajnah sarvavith ithi pradha:na purushayo:r asambha:vitham sa:rvajnyam abhidha:ya thasma:d e:thad brahma na:ma ru:pam annam cha ja:yathe: ithi sarvajna:th sathya sankalpa:j jagad uthpaththi sravana:th pu:rvo:ktham adrusyathva:di gunakam bhu:tha yo:ny aksharam, akshara:th parathah parah ithi cha nirdishtam thad aksharam param brahmaive:thi vijna:yathe:| su:thra:rthas thu--- adrusyathva:di gunakah parama:thma:| sarvajnathva:di thad dharmo:kthe:h||22||
Link copied55 vise:shana bhe:da vyapade:sa:bhya:m cha ne:tharau||1|2|23||
Link copiedvisinashti hi prakaranam pradha:na:d bhu:tha yo:ny aksharam e:ka vijna:ne:na sarva vijna:na:dina:| thatha: akshara:th parathah para ithi, akshara:d avya:krutha:th paratho:'vasthitha:th purusha:th para ithi purusha:ch cha:sya bhu:tha yo:ny aksharasya bhe:do: vyapadisyathe:| athas cha na pradha:na purushau| api thu parama:thmaiva:thra nirdishtah||23||
Link copied56 ru:po:panya:sa:ch cha||1|2|24||
Link copiedagnir mu:rdha: ithy a:dina: samasthasya chid achid a:thmaka prapanchasya bhu:tha yo:ny akshara ru:pathve:no:panya:sa:ch cha:yam adrusyathva:di gunakah parama:thma:||24||ithy adrusyathva:di gunaka:dhikaranam||5||
Link copied1.2.6
Link copied57 vaisva:narah sa:dha:rana sabda vise:sha:th||1|2|25||
Link copiedchha:ndo:gye: a:thma:nam e:ve:mam vaisva:naram samprathyadhye:shi| tham e:va no: bru:hi ithy a:rabhya yas thv e:tham e:vam pra:de:sa ma:thram abhivima:nam a:thma:nam vaisva:naram upa:sthe: ithy athra kim ayam vaisva:narah parama:thme:thi sakya nirnayah, utha ne:thi samsayah| asakya nirnaya ithi pu:rvah pakshah| vaisva:nara sabdasya ja:thara:gnau, bhu:tha thruthi:ye: de:vatha: vise:she: parama:thmani cha vaidika prayo:ga darsana:th, asmin prakarane: sarve:sha:m lingo:palabdhe:s cha| ra:ddha:nthas thu ko: na a:thma: kim brahma ithi sarve:sha:m ji:va:na:m a:thma bhu:tham brahma kim ithi prakrama:th, uththarathra cha a:thma:nam vaisva:naram ithi brahma sabda stha:ne: sarvathra vaisva:nara sabda prayo:ga:ch cha, vaisva:nara:thma: sarve:sha:m ji:va:na:m a:thma bhu:tham param brahme:thi vijna:yathe:| su:thra:rthah--- vaisva:nara sabda nirdishtah parama:thma:, vaisva:nara sabdasya:ne:ka:rtha sa:dha:ranasya:py asmin prakarane: parama:thma:sa:dha:rana vise:shanaih sarva:thmathva:dibhih vise:shyama:nathva:th| vise:shyatha ithi vise:shah||25||
Link copied58 smaryama:nam anuma:nam sya:d ithi||1|2|26||
Link copiedsmaryama:nam--- prathyabhijna:yama:nam, anumi:yathe: ane:ne:thy anuma:nam| ithi sabdah praka:ra vachanah, iththam ru:pam smaryama:nam vaisva:narasya parama:thmathve: anuma:nam sya:d dyu prabhruthi pruthivy antham avayava vibha:ge:na vaisva:narasya ru:pam iho:padishtam| agnir mu:rdha: chakshushi: chandra su:ryau, dya:m mu:rdha:m yasya vipra: vadanthi ithi sruthis mruthi prasiddham parama purusha ru:pam iha prathyabhijna:yama:nam vaisva:narasya parama:thmathve: lingam sya:d ithy arthah ||26||
Link copied59 sabda:dibhyo:'nthah prathishtha:na:ch cha ne:thi che:n na||1|2|27||
Link copiedthatha: drushty upade:sa:d asambhava:th purusham api chainam adhi:yathe:--- anirnayam a:sankya pariharathi--- sabda:dibhyo:'nthah prathishtha:na:ch che:thi| sabdas tha:vath va:jina:m vaisva:nara vidya: prakarane: sa e:sho:'gnir vaisva:nara ithi vaisva:nara sama:na:dhikaranah agni sabdah| asmin prakarane: cha hrudaye: ga:rha:pathya ithy a:rabhya vaisva:narasya hrudaya:di stha:nasya:gni thraya parikalpanam pra:na:huthy a:dha:rathvam che:thi prathi:yathe:| va:jina:m api sa yo: ha vai tham e:vam agnim vaisva:naram purusha vidham purushe:'nthah prathishthitham ve:da ithi vaisva:narasya sari:ra:nthah prathishthithathvam prathi:yathe:| athah e:thaih lingair vaisva:narasya ja:thara:gnithva prathi:the:r na:yam parama:thme:thi sakya nirnaya ithi che:th than na| thatha: drushty upade:sa:th| drushtih--- upa:sanam, thatho:pa:sano:pade:sa:d ithy arthah| ja:thara:gni sari:rathaya: vaisva:narasya parama:thma:nah upa:sanam hy athro:padisyathe:| ayam agnir vaisva:narah purushe:'nthah prathishthithah ithy a:dau| katham avagamyatha ithi che:th, asambhava:th--- ke:vala ja:thara:gne:s thrailo:kya sari:rathva:dy asambhava:th| purusham api chainam adhi:yathe:--- cha sabdah prasiddhau, va:jinas thathraiva sa e:sho:'gnir vaisva:naro: yath purushah ithi, e:nam vaisva:naram purusham api hy adhi:yathe:| purushas cha parama:thmaiva purusha e:ve:dam sarvam, purusha:n na param kinchith ithy a:dishu prasiddhe:h||27||
Link copied60 atha e:va na de:vatha: bhu:tham cha||1|2|28||
Link copiedyathah thrailo:kya sari:rah asau vaisva:narah, yathas cha nirupa:dhika purusha sabda nirdishtah, atha e:va na:gny a:khya: de:vatha:, maha:purusha thruthi:yas cha vaisva:narah sankani:yah||28||
Link copied61 sa:ksha:d apy aviro:dham jaiminih||1|2|29||
Link copiedagni sari:rathaya: vaisva:narasya upa:sana:rtham agni sabda sa:ma:na:dhikaranya nirde:sa ithy uktham| visve:sha:m nara:na:m ne:thruthva:dina: sambandhe:na yatha: vaisva:nara sabdah parama:thmani varthathe:, yathaiva agni sabdasya:py agranayana:dina: yo:ge:na sa:ksha:th parama:thmani vruththau na kaschid viro:dha ithi jaiminira:cha:ryo: manyathe:||29||
Link copiedyas thv e:tham e:vam pra:de:sa ma:thram abhivima:nam a:thma:nam vaisva:naram ithi dyu prabhruthi pruthivy antha prade:sa sambandhinya: ma:thraya: parichchhinnathvam anavachchhinnasya parama:thmanah vaisva:narasya katham upapadyatha ithy athra:ha---
Link copied62 abhivyakthe:r ithy a:smarathyah||1|2|30||
Link copiedanavachchhinnasyaiva parama:thmanah upa:sana:bhivyakthyartham dyu prabhruthi pruthivy antha prade:sa parichchhinnathvam ithy a:smarathya a:cha:ryo: manyathe:||30||
Link copieddyu prabhruthi prade:sa:vachchhe:de:na:bhivyakthasya parama:thmanah dyu bhv a:dithya:di:na:m mu:rdha:dy avayava kalpanam kim artham ithi che:th thathra:ha---
Link copied63 anusmruthe:r ba:darih||1|2|31||
Link copiedanusmruthih upa:sanam| brahma pra:pthaye: vratho:pa:sana:rtham mu:rdha prabhruthi pa:da:ntha de:ha parikalpanam ithi ba:darira:cha:ryo: manyathe:||31||
Link copiedayam vaisva:narah parama:thma:| thrailo:kya sari:rah upa:sya upadisyathe: che:th, ura e:va ve:dir lo:ma:nibarhir hrudayam ga:rha:pathyah ithy a:dina: upa:saka sari:ra:vayava:na:m ga:rha:pathya:di parikalpanam kim artham ithy athra:ha---
Link copied64 sampaththe:r ithi jaiminis thatha: hi darsayathi||1|2|32||
Link copiedvaisva:nara vidya:nga bhu:tha:ya:h upa:sakair ahar ahah kriyama:na:ya:h pra:na:huthe:r agniho:thrathva sampa:dana:ya ga:rha:pathya:di parikalpanam ithi jaiminir a:cha:ryo: manyathe:| thatha: hy agniho:thra sampaththim e:va darsayathi:yam sruthih pra:na:huthim vidha:ya, atha ya e:vam vidva:n agniho:thram juho:thi ithi| uktha:na:m artha:na:m pu:jithathva khya:pana:ya:cha:rya grahanam||32||
Link copied65 a:mananthi chainam asmin||1|2|33||
Link copiede:nam parama purusham vaisva:naram dyu bhv a:di de:ham, asmin--- upa:saka de:he: pra:na:gniho:thre:na:ra:dhyathva:ya:mananthi hi--- thasya ha va: e:thasya vaisva:narasya mu:rdhaiva suthe:ja: ithy a:dina:| upa:saka mu:rdha:di pa:da:ntha: e:va dyu prabhruthayah parama purushasya mu:rdha:daya ithi pra:na:gniho:thra ve:la:ya:m anusandhe:ya: ithy arthah||33||ithi vaisva:nara:dhikaranam||6||
Link copiedithi sri: ra:ma:nuja:cha:rya rachithe: sri: ve:da:nthadi:pe: prathamasya:dhya:yasya dvithi:yah pa:dah||
Link copied