Skip to content

Vedanta Dipa · Section 4 of 17

||atha prathama:dhya:ye: thruthi:yah pa:dah||

Original Sanskrit · click to toggle

१।३।१

Link copied

६६ द्यु-भ्व्-आद्य्-आयतनं स्व-शब्दात्॥१।३।१॥

Link copied

आथर्वणे यस्मिन् द्यौः पृथिवी चान्तरिक्षम् ओतं मनः सह प्राणैश् च सर्वैस् तम् एवैकं जानथात्मानम् अन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः इत्य् अत्र द्यु-पृथिव्य्-आदीनाम् आयतनं किं जीवः, उत परमात्मेति संशयः। जीव इति पूर्वः पक्षः, मनः प्रभृतीन्द्रियाधारत्व-श्रुतेः, उत्तरत्र नाडी-सम्बन्धात्, जायमानत्व-श्रुतेश् च। राद्धान्तस् तु निरुपाधिकात्मत्वामृत-सेतुत्वयोः परमात्म-धर्मयोः श्रवणात् परमात्मैवायम्। सर्वं नियन्तृतया आप्नोतीति ह्य् आत्मा। अमृतस्य प्रापकतया सेतुश् च स एव। नाडी-सम्बन्धः, बहुधा जायमानत्वं च। सन्ततं सिराभिस् तु लम्बत्याकोश-सन्निभम्, अजायमानो बहुधा विजायते इत्य् आदिषु सर्व-समाश्रयणीयत्वाय अजहत्-स्वभावस्यैव परमात्मनोऽपि दृश्यत इति। सूत्रार्थस् तु--- द्यु-पृथिव्य्-आदीनाम् आयतनं परमात्मा, स्व-शब्दात्॥१॥

Link copied

६७ मुक्तोपसृप्य व्यपदेशाच् च॥१।३।२॥

Link copied

तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति। तथा विद्वान् नाम-रूपाद् विमुक्तः परात्परं पुरुषम् उपैति दिव्यम् इति च बन्धान् मुक्तस्य प्राप्यतया व्यपदेशाच् चायं परमात्मा॥२॥

Link copied

६८ नानुमानम् अतच्-छब्दात् प्राण-भृच् च॥१।३।३॥

Link copied

आनुमानम्--- अनुमान-गम्यं प्रधानम्। यथा तद्-वाचि-शब्दाभावात् तद् इह न गृह्यते। तथा प्राण-भृद् अपीत्य् अर्थः। अतश् चायं परमात्मा॥३॥

Link copied

६९ भेद-व्यपदेशात्॥१।३।४॥

Link copied

अनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्य् अन्यम् ईशम् इत्य् आदिना जीवाद् भेदेन व्यपदेशाच् चायं परमात्मा॥४॥

Link copied

७० प्रकरणात्॥१।३।५॥

Link copied

अथ परा यया तद् अक्षरम् अधिगम्यत इत्य् आदिना परमात्मन एव प्रकृतत्वात्॥५॥

Link copied

७१ स्थित्य्-अदनाभ्यां च॥१।३।६॥

Link copied

तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति इति कर्म-फलम् अनश्नतः परमात्मनो दीप्यमानतया स्थितेः, जीवस्य कर्म-परवशतया तत्-फलादनाच् च परमात्मनो जीवाद् भेदावगमाद् अमृत-सेतुर् द्यु-भ्व्-आद्य्-आयतनं न जीवः। अदृश्यत्वादि-गुणक इत्य् अनेन परमात्मत्वे स्थापितेऽपि, नाडी-सम्बन्ध-बहुधा-जायमानत्व-लिङ्गात्, यावान्तर-प्रकरण-विच्छेदाशङ्का, सा निराकृता--- द्यु-भ्व्-आद्य्-आयतनम् इति। वैश्वानरस्य त्रैलोक्य-शरीरत्वादिना परमात्मत्व-निर्णय इति मध्ये वैश्वानर-विद्या निरूपिता॥६॥इति द्यु-भ्व्-आद्य्-अधिकरणम्॥१॥

Link copied

१।३।२

Link copied

७२ भूमा सम्प्रसादाद् अध्युपदेशात्॥१।३।७॥

Link copied

छान्दोग्ये यत्र नान्यत् पश्यति नान्यच् छृणोति नान्यद् विजानाति स भूमा इत्य् अत्र भूम-शब्द-निर्दिष्टो निरतिशय-वैपुल्य-विशिष्ट-सुख-स्वरूपः किं प्रत्यग्-आत्मा, उत परमात्मेति संशयः। प्रत्यग्-आत्मेति पूर्वः पक्षः। तरति शोकम् आत्मवित् इति प्रक्रम्य नामादि-परम्परयोत्तरोत्तर-भूयस्त्वेन प्रश्न-प्रतिवचनाभ्यां प्रवृत्तस्यात्मोपदेशस्य प्राण-शब्द-निर्दिष्टे प्रत्यग्-आत्मनि समाप्ति-दर्शनात्, प्रत्यग्-आत्मन एव भूम-संशब्दनम् इति निश्चीयते। राद्धान्तस् तु--- यद्य् अपि प्रश्न-प्रतिवचनाभ्याम् उत्तरोत्तरभूयस्त्व-वचनं प्राणे पर्यवस्थितं तथापि प्राण-वेदिनोऽतिवादित्वम् उक्त्वा, एष तु वा अतिवदति यः सत्येनातिवदतीति तु-शब्देनोपासक-भेदं प्रतिपाद्य, तस्य सत्योपासकस्य पूर्वस्माद् आधिक्योपदेशात्, सत्य-शब्दाभिधेयं परं ब्रह्मैव भूम-विशिष्टम् इति। सूत्रार्थस् तु भूम-गुण-विशिष्टं परं ब्रह्मैव, सम्प्रसादाद् अध्युपदेशात्--- सम्प्रसादः--- प्रत्यग्-आत्मा, एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य इत्य् आद्य् उपनिषत्-प्रसिद्धेः। एष तु वा अतिवदति इति प्रत्यग्-आत्मनोऽधिकतयोपदेशात्। अतिवादित्वं हि स्वोपास्याधिक्य-वादित्वम्॥७॥

Link copied

७३ धर्मोपपत्तेश् च॥१।३।८॥

Link copied

स्वाभाविकामृतत्व-स्व-महिम-प्रतिष्ठितत्व-सर्वात्मत्व-सर्वोत्पत्ति-हेतुत्वादीनां भूम्नि श्रूयमाणानां धर्माणां परस्मिन्न् एव ब्रह्मण्य् उपपत्तेश् च भूमा परं ब्रह्मैव॥८॥इति भूमाधिकरणम्॥२॥

Link copied

१।३।३

Link copied

७४ अक्षरम् अम्बरान्त-धृतेः॥१।३।९॥

Link copied

वाजिनां गार्गि-प्रश्ने। स होवाचैतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् इत्य् अत्राक्षर-शब्द-निर्दिष्टं प्रधानं जीवो वा, उत परमात्मा इति संशयः। प्रधानं जीवो वा, न परमात्मेति पूर्वः पक्षः। कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् च इत्य् उक्ते आकाशाधारतयोच्यमानम् अक्षरं प्रधानम्, जीवो वा, प्रधानस्य विकाराधारत्वाज् जीवस्याचिद्-वस्त्व्-आधारत्वान् न परमात्मेति। राद्धन्तस् तु--- यद् ऊर्ध्वं गार्गि दिव इत्य् आरभ्य, काल-त्रय-वर्तिनः कृत्स्नस्याधारतया निर्दिष्ट आकाशोऽव्याकृतम् एव, न वायुमानाकाशः। ततः पश्चात् कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् च इति पृष्टे तद्-आधारतयोच्यमानम् एतद् अक्षरं न प्रधानं भवितुम् अर्हति। नापि जीवः। एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्य् आरभ्य प्रशासनात् सर्वाधारत्व-श्रुतेः। सूत्रार्थस् तु--- एतद् वै तद् अक्षरं गार्गि इति निर्दिष्टम् अक्षरं परमात्मा, अम्बरान्त-धृतेः--- अम्बरं--- वायुमानाकाशः, अम्बरान्तः--- अम्बर-पारभूतम्, अम्बर-कारणम् इति यावत्; कारणापत्तिर् एव हि कार्यस्यान्तः। स चाम्बरान्तः अव्याकृतं प्रधानम्, तस्य धृतेः--- धारणात्। अव्याकृतस्यापि धृतेर् अक्षरं परमात्मैवेत्य् अर्थः॥९॥

Link copied

एवं तर्हि जीवो भवितुम् अर्हति, तस्य प्रधान-धृत्य्-उपपत्तेर् इत्य् आशङ्क्याह---

Link copied

७५ सा च प्रशासनात्॥१।३।१०॥

Link copied

सा च अम्बरान्त-धृतिः। एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ इति प्रशासनाच् छ्रूयते। प्रशासनम्--- प्रकृष्टं शासनम्, अप्रतिहताज्ञा। न चाप्रतिहताज्ञया कृत्स्नस्य चिद्-अचिद्-आत्मकस्य जगतो धृतिर् जीवे उपपद्यते; अतो न जीवः॥१०॥

Link copied

७६ अन्य-भाव-व्यावृत्तेश् च॥१।३।११॥

Link copied

अन्य-भावः--- अन्यत्वम्। अस्याक्षरस्य परम-पुरुषाद् अन्यत्वं व्यावर्तयति वाक्य-शेषः। अदृष्टं द्रष्टृ इत्य् आदिना सर्वैर् अदृष्टम् एतद् अक्षरं सर्वस्य द्रष्ट्रित्य् आदि प्रधान-जीवासम्भावनीयार्थ-प्रतिपादनात्॥११॥इत्य् अक्षराधिकरणम्॥३॥

Link copied

१।३।४

Link copied

७७ ईक्षति-कर्म-व्यपदेशात् सः॥१।३।१२॥

Link copied

आथर्वणिकानां सत्य-काम-प्रश्ने यः पुनर् एतं त्रि-मात्रेणौम् इत्य् अनेनैवाक्षरेण परं पुरुषम् अभिध्यायीत इत्य् आरभ्य। स सामभिर् उन्नीयते ब्रह्म-लोकं, स एतस्माज् जीव-घनात् परात्परं पुरिशयं पुरुषम् ईक्षत इत्य् अत्र, ध्यायतीक्षति-कर्मतया व्यपदिष्टः परम-पुरुषः किं हिरण्यगर्भः, उत परब्रह्म-भूतः पुरुषोत्तम इति संशयः। हिरण्यगर्भ इति पूर्वः पक्षः। पूर्वत्रैक-मात्रं प्रणवम् उपासीनस्य मनुष्य-लोक-प्राप्तिं फलं, द्वि-मात्रम् उपासीनस्यान्तरिक्ष-लोक-प्राप्तिं च फलम् अभिधायानन्तरं यः पुनर् एतं त्रि-मात्रेण इति त्रि-मात्रं प्रणवम् उपासीनस्य फलत्वेनोच्यमान-ब्रह्म-लोक-स्थ-पुरुषेक्षण-कर्म-भूतश् चतुर्मुख एवेति विज्ञायते, मनुष्य-लोकान्तरिक्ष-लोक-साहचर्यात् ब्रह्म-लोकोऽपि क्षेत्रज्ञ-लोक इति निश्चयात्।

Link copied

राद्धान्तस् तु--- परात्परं पुरिशयं पुरुषम् ईक्षते इतीक्षति-कर्मतया निर्दिष्ट-पुरुष-विषये श्लोके। तम् ओङ्कारेणैवायतनेनान्वेति विद्वान् यत् तच् छान्तम् अजरम् अमृतम् अभयं परं च इति निरुपाधिक-शान्तत्वामृतत्वादि-व्यपदेशात् परमात्मैवायम् इति निश्चीयते। एवं परमात्मत्वे निश्चिते ब्रह्म-लोक-शब्दश् च तत्-स्थानम् एवाभिदधाति इत्य् अवगम्यते। तद् विषयतयोदाहृते च श्लोके यत् तत् कवयो वेदयन्ते। तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः। इत्य् एवम् आदिभिः सूरिभिर् दृश्यत्व-वचनं तद् एव द्रढयति। सूत्रार्थस् तु--- ईक्षति-कर्म सः--- परमात्मा, ध्यायतीक्षत्योर् एक-विषयत्वेन ध्यायति-कर्मापि स एवेत्य् अर्थः, व्यपदेशात्--- तद्-विषयकतया शान्तम् अजरम् अमृतम् अभयं परं चेति परमात्म-धर्माणां व्यपदेशात्॥१२॥इति ईक्षति-कर्माधिकरणम्॥४॥

Link copied

१।३।५

Link copied

७८ दहर उत्तरेभ्यः॥१।३।१३॥

Link copied

छान्दोग्ये अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इत्य् अत्र हृदय-पुण्डरीक-मध्य-वर्ती दहराकाशः श्रूयमाणः किं भूताकाशः, उत जीवः, अथ परमात्मेति संशयः। प्रथमं तावद् भूताकाश इति युक्तम् आश्रयितुम् इति पूर्व-पक्षः, आकाश-शब्दस्य भूताकाशे प्रसिद्धि-प्राचुर्यात् आकाशान्तर्-वर्तिनोऽन्यस्य अन्वेष्टव्यता-प्रतीतेश् च। राद्धान्तस् तु--- किं तद् अत्र विद्यते यद् अन्वेष्टव्यम् इति चोदिते यावान् वा अयम् आकाशः इत्य् आरभ्य एतत् सत्यं ब्रह्म-पुरम् इत्य् अन्तेन दहराकाशस्यातिमहत्त्व-सर्वाश्रयत्वाजरत्व-सत्यत्वाद्य् अभिधाय अस्मिन् कामाः समाहिता इत्य् आकाशान्तर्-वर्तिनोऽन्वेष्टव्याः कामा इति प्रतिपाद्य, कोऽयं दहराकाश-शब्द-निर्दिष्टके तद्-आश्रयाः कामा इत्य् अपेक्षायाम् एष आत्मापहत-पाप्मा इत्य् आरभ्य, सत्य-सङ्कल्पः इत्य् अन्तेन आकाश-शब्द-निर्दिष्टः आत्मा, कामाश् चापहत-पाप्मत्वादयस् तद्-विशेषण-भूता इति प्रतिपादयद् वाक्यम् अपहत-पाप्मत्वादि-विशिष्ट-परमात्मानम् आह। उपक्रमे चान्वेष्टव्यतया प्रतिज्ञातः आकाशः आत्मा, एतद्-विशेषण-भूताः अपहत-पाप्मत्वादयः कामा इति वाक्यं ज्ञापयद् अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामान् तेषां सर्वेषु लोकेषु काम-चारो भवति इत्य् उपसंहरति। अतोऽयं दहराकाशः अपहत-पाप्मत्वादि-विशिष्टः परमात्मेति निश्चीयते, न भूताकाशादिर् इति। एवं तर्ह्य् अस्मिन् वाक्ये, अथ य एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय इति प्रत्यग्-आत्म-प्रतीतेः, तस्य चोत्तरत्र प्रजापति-वाक्ये अपहत-पाप्मत्वादि-गुणकत्वावगमात् प्रत्यग्-आत्मैव दहराकाश इति पूर्व-पक्षी मन्यते। राद्धान्ती तु प्रत्यग्-आत्मा कर्म-परवशतया जागरित-स्वप्न-सुषुप्त्य्-आद्य्-अवस्थाभिः तिरोहितापहत-पाप्मत्वादिकः परमात्मानम् उपसम्पन्नः तत्-प्रसादाद् आविर्भूत-गुणकः प्रजापति-वाक्ये प्रतिपादितः। दहराकाशस् त्व् अतिरोहित-निरुपाधिकापहत-पाप्मत्वादिकः प्रत्यग्-आत्मन्य् असम्भावनीय-जगद्-विधरण-समस्त-चिद्-अचिद्-वस्तु-नियमनाद्य्-अनन्त-गुणकः प्रतिपन्न इति नायं प्रत्यग्-आत्मा दहराकाशः, अपि तु परमात्मैवेति मन्यते। सूत्रार्थस् तु--- दहराकाशः परं ब्रह्म, उत्तरेभ्यः--- उत्तर-वाक्य-गतेभ्यः अपहत-पाप्मत्वादि-परमात्मासाधारण-धर्मेभ्यो हेतुभ्यः॥१३॥

Link copied

७९ गति-शब्दाभ्यां तथा हि दृष्टं लिङ्गं च॥१।३।१४॥

Link copied

अस्मिन् दहराकाशे सर्वासां प्रजानाम् अजानतीनाम् अहर् अहर् या गतिः श्रूयते, यश् च दहराकाशावमर्श-रूपैतच्-छब्द-समानाधिकरणतया प्रयुक्तो ब्रह्म-लोक-शब्दः, ताभ्यां दहराकाशः परं ब्रह्मेत्य् अवगम्यते। तद् यथा हिरण्य-निधिं निहितम् अक्षेत्रज्ञा उपर्य् उपरि सञ्चरन्तो न विन्देयुर् एवम् एवेमाः सर्वाः प्रजा अहर् अहर् गच्छन्त्य एतं ब्रह्म-लोकं न विन्दन्त्य् अनृतेन हि प्रत्यूढाः इति। तथा हि दृष्टम्--- तथा ह्य् अन्यत्र परस्मिन् ब्रह्मण्य् एवं रूपं गमनं दृष्टम्--- एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति। तथा ब्रह्म-लोक-शब्दश् च परस्मिन् ब्रह्मण्य् एव दृष्टः--- एष ब्रह्म-लोकः सम्राडिति होवाच इति लिङ्गं च--- मा भूद् अन्यत्र दर्शनम्, अस्मिन् प्रकरणे सर्वासां प्रजानां श्रूयमाणम् अहर् अहर् गमनं, ब्रह्म-लोक-शब्दश् च दहराकाशस्य परमात्मत्वे पर्याप्तं लिङ्गम्। च-शब्दोऽवधारणे। एतद् एव पर्याप्तम् इत्य् अर्थः॥१४॥

Link copied

८० धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः॥१।३।१५॥

Link copied

अस्य धृत्य्-आख्यस्य परमात्मनो महिम्नोऽस्मिन् दहराकाशे उपलब्धेर् अयं परमात्मा। धृतिः--- जगद्-विधरणं परमात्मनो महिमेत्य् अन्यत्रावगम्यते। एष सर्वेश्वर एष भूताधिपतिर् एष भूत-पाल एष सेतुर् विधरण एषां लोकानाम् असम्भेदाय इति। सा च अस्मिन् दहराकाश उपलभ्यते। अथ य आत्मा स सेतुर् विधृतिर् एषां लोकानाम् असम्भेदाय इति॥१५॥

Link copied

८१ प्रसिद्धेश् च॥१।३।१६॥

Link copied

को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात्, सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते इत्य् आदिष्व् आकाश-शब्दस्य परस्मिन् ब्रह्मणि प्रसिद्धेर् आकाश-शब्द एव परमात्म-धर्म-विशेषितो भूताकाश-शङ्कां निवर्तयतीत्य् अर्थः॥१६॥

Link copied

८२ इतर परामर्शात् स इति चेन् नासम्भवात्॥१।३।१७॥

Link copied

परमात्मन इतरः जीवः; अथ य एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय इति जीवस्य परामर्शात् स एव दहराकाश इति चेत् तन् न, पूर्वोक्तानां गुणानां तस्मिन्न् असम्भवात्॥१७॥

Link copied

८३ उत्तराच् चेद् आविर्भूत-स्वरूपस् तु॥१।३।१८॥

Link copied

उत्तरात्--- प्रजापति-वाक्याद् अपहत-पाप्मत्वादि-गुणको जीवोऽवगम्यत इति चेत् तन् न; जागरिताद्य्-अवस्थाभिर् अनादि-काल-प्रवृत्ताभिः पुण्य-पाप-रूप-कर्म-मूलाभिस् तिरोहित-गुणकः परब्रह्मोपासन-जनित-तद्-उपसम्पत्त्या आविर्भूत-स्वरूपोऽसौ जीवस् तत्र प्रजापतिवाक्येऽपहत--- पाप्मत्वादिगुणकः कीर्तितः। दहराकाशस्त्वतिरोहितस्वरूपः अपहत-पाप्मत्वादि-गुणक इत्य् अस्मिन् दहराकाशे न जीव-शङ्का॥१८॥

Link copied

दहर-वाक्ये जीव-परामर्शः किम् अर्थम् इति चेत्, तत्राह---

Link copied

८४ अन्यार्थश् च परामर्शः॥१।३।१९॥

Link copied

अस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति परञ्ज्योतिः-स्वरूप-दहराकाशोपसम्पत्त्यास्य जीवस्यानृत-तिरोहित-स्वरूपस्य स्वरूपाविर्भावो भवतीति दहराकाशस्य जगद्-विधरणादिवज् जीव-स्वरूपाविर्भावापादन-रूप-सम्पद्-विशेष-प्रतिपादनार्थो जीव-परामर्शः॥१९॥

Link copied

८५ अल्प-श्रुतेर् इति चेत् तद् उक्तम्॥१।३।२०॥

Link copied

दहरोऽस्मिन्न् इत्य् अल्प-परिमाण-श्रुतिर् आराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज् ज्यायसो ब्रह्मण इति चेत्, तत्र यद् उत्तरं वक्तव्यम्, तत् पूर्वम् एवोक्तम्। निचाय्यत्वाद् इत्य् अनेन॥२०॥

Link copied

८६ अनुकृतेस्तस्य च॥१।३।२१॥

Link copied

अनुकृतिः--- अनुकारः; तस्य परमात्मनोऽनुकाराद् धि जीवस्याविर्भूत-स्वरूपस्यापहत-पाप्मत्वादि-गुणकत्वम्। अतोऽनुकर्तुः जीवाद् अनुकार्यः परब्रह्म-भूतो दहराकाशः अर्थान्तर-भूत एव। तद्-अनुकारश् च तत्-साम्यापत्तिः श्रूयते यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिम्। तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति इति॥२१॥

Link copied

८७ अपि स्मर्यते॥१।३।२२॥

Link copied

स्मर्यते च तद्-उपासनात् तत्-साम्यापत्ति-रूपानुकृतिर् जीवस्य, इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च इति॥२२॥इति दहराधिकरणम्॥५॥

Link copied

१।३।६

Link copied

८८ शब्दाद् एव प्रमितः॥१।३।२३॥

Link copied

कठवल्लीष्व् आम्नायते। अङ्गुष्ठ-मात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूत-भव्यस्य न ततो विजुगुप्सते। एतद् वैतत्। उत्तरत्र च अङ्गुष्ठ-मात्रः पुरुषो ज्योतिर् इवाधूमकः। तथोपरिष्टाद् अङ्गुष्ठ-मात्रः पुरुषोऽन्तर्-आत्मा सदा जनानां हृदये सन्निविष्टः इति। अत्राङ्गुष्ठ-प्रमितो जीवात्मा, उत परमात्मेति संशयः। जीवात्मेति पूर्वः पक्षः--- अन्यत्र स्वीकृत-स्पष्ट-जीव-भावे पुरुषे अङ्गुष्ठ-प्रमितत्व-श्रुतेः प्राणाधिपः सञ्चरति स्व-कर्मभिर् अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः इति। राद्धान्तस् तु--- तत्र स्व-कर्मभिर् इति जीव-भाव-निश्चयवद् अत्रापि, ईशानो भूत-भव्यस्येति भूत-भव्येशितृत्व-दर्शनात् परमात्मैवेति। सूत्रार्थस् तु--- शब्दाद् एव प्रमितः--- अङ्गुष्ठ-प्रमितः परमात्मैव। ईशानो भूत-भव्यस्येति परमात्म-वाचि-शब्दात्॥२३॥

Link copied

कथम् अनवच्छिन्नस्य परमात्मनोऽङ्गुष्ठ-प्रमितत्वम् इत्य् आशङ्क्याह---

Link copied

८९ हृद्य् अपेक्षया तु मनुष्याधिकारत्वात्॥१।३।२४॥

Link copied

उपासनार्थम् उपासक-हृदये वर्तमानत्वात्, उपासक-हृदयस्याङ्गुष्ठ-मात्रत्वात् तद्-अपेक्षयेदम् अङ्गुष्ठ-प्रमितत्वम्। मनुष्याणाम् एवोपासकत्व-सम्भावनया मनुष्यान् अधिकृत्य प्रवृत्तत्वाच् छास्त्रस्य मनुष्य-हृदयापेक्षयेदम् उक्तम्। स्थितं तावद् उत्तरत्र समापयिष्यते॥२४॥इति प्रमिताधिकरण-पूर्व-भागः॥

Link copied

१।३।७

Link copied

९० तद्-उपर्य् अपि बादरायणः सम्भवात्॥१।३।२५॥

Link copied

मनुष्याधिकारं ब्रह्मोपासन-शास्त्रम् इत्य् उक्तम्। तत्-प्रसङ्गेन देवादीनाम् अपि ब्रह्म-विद्यायाम् अधिकारोऽस्ति नवेति चिन्त्यते। न देवादीनाम् अधिकारः अस्तीति पूर्वः पक्षः--- परिनिष्पन्ने ब्रह्मणि शब्दस्य प्रामाण्य-सम्भवेऽपि देवादीनां विग्रहादिमत्त्वे प्रमाणाभावात्, मन्त्रार्थ-वादानाम् अपि विधि-शेषतया विग्रहादि-सद्-भाव-परत्वाभावात्, विग्रहवन् निर्वर्त्याहर् अहर् अनुष्ठीयमान-विवेकादि-साधन-सप्तक-संस्कृत-मनो-निष्पाद्योपासन-निर्वृत्तौ तेषां सामर्थ्याभावात्।

Link copied

राद्धान्तस् तु--- जगत्-सृष्टि-प्रकरणेषु नाम-रूप-व्याकरण-श्रुत्यैव देवादीनां विग्रहादिमत्त्वं सिध्यति। देवादीनां देहेन्द्रियादि-करणम् एव हि नाम-रूप-व्याकरणम्, मन्त्रार्थ-वादयोश् च तद्-उपलब्धेः, तयोर् अनुष्ठेय---प्रकाशन-स्तुति-परत्वेऽपि तद्-उपपत्तये तत्-सद्-भावे प्रमाणत्वाद् देवादीनां विग्रहादिमत्त्व-सिद्धिः, न हि विग्रहादिमत्तया स्तुतिः प्रकाशनं च तद्-अभावे सम्भवति। अतः सामर्थ्य-सम्भवाद् अस्त्य् एवाधिकारः। सूत्रार्थस् तु--- तद्-उपर्य् अपि तेभ्यः--- मनुष्येभ्य उपरि वर्तमानानां देवादीनाम् अप्य् अधिकारोऽस्ति, यद्वा, तत्--- ब्रह्मोपासनम् उपरि देवादिष्व् अपि सम्भवति, तेषाम् अपि ब्रह्म-स्वरूप-तद्-उपासन-प्रकार-ज्ञान-तद्-अर्थित्व-तद्-उपादान-सामर्थ्य-सम्भवात्। पूर्वोपार्जित-ज्ञानाविस्मरणाज् ज्ञान-सम्भवः ताप-त्रयाभिहति-पूर्वक-ब्रह्म-गुण-ज्ञानाच् चार्थित्व-सम्भवः; सृष्टि-वाक्य-मन्त्रार्थ-वादेषु विग्रहवत्त्वादि-दर्शनात् सामर्थ्य-सम्भवश् चेति भगवान् बादरायणो मन्यते॥२५॥

Link copied

९१ विरोधः कर्मणीति चेन् नानेक-प्रतिपत्तेर् दर्शनात्॥१।३।२६॥

Link copied

कर्मणि--- यागादौ, विग्रहवत्त्वे सत्य् एकस्य युगपद्-अनेक-यागेषु सन्निधानानुपपत्तेर् विरोधः प्रसज्यत इति चेत् तन् न, शक्तिमतां सौभरि-प्रभृतीनां युगप्-अदनेक-शरीर-प्रतिपत्ति-दर्शनात्॥२६॥

Link copied

९२ शब्द इति चेन् नातः प्रभवात् प्रयक्षानुमानाभ्याम्॥१।३।२७॥

Link copied

विरोध इति वर्तते। माभूत् कर्मणि विरोधः, शब्दे तु वैदिके विरोधः प्रसज्यते--- विग्रहवत्त्वे हि तेषां सावयवत्वेनोत्पत्ति-विनाश-योगाद् उत्पत्तेः प्राग्विनाशाद् ऊर्ध्वं च वैदिकानाम् इन्द्रादि-शब्दानाम् अर्थ-शून्यत्वम् अनित्यत्वं वा स्याद् इति चेत् तन् न, अतः प्रभवात् अतः--- वैदिकाद् एव शब्दाद् इन्द्रादेः प्रभवात्। पूर्व-पूर्वेन्द्रादौ विनष्टे वैदिकाद् इन्द्राद्याकृति-विशेष-वाचिनः शब्दाद् इन्द्राद्य्-आकृति-विशेषं स्मृत्वा तद्-आकारम् अपरम् इन्द्रादिकं सृजति प्रजापतिर् इति वैदिकस्य शब्दस्य न कश्चिद् विरोधः। न हि देवदत्तादि-शब्दवद् इन्द्रादि-शब्दा व्यक्ति-विशेषे सङ्केत-पूर्वकाः प्रवृत्ताः; अपि तु गवादि-शब्दवद् आकृति-विशेष-वाचिन इति तेषाम् अपि नित्य एव वाच्य-वाचक-भावः। वैदिकाद् इन्द्रादि-शब्दात् तद्-अर्थ-विशेषं स्मृत्वा कुलालादिर् इव घटादिकं प्रजापतिः सृजतीति कुतोऽवगम्यतें प्रत्यक्षानुमानाभ्यां--- श्रुति-स्मृतिभ्याम् इत्य् अर्थः। श्रुतिस् तावत् वेदेन रूपे व्याकरोत् सता सती प्रजापतिः, तथा स भूर् इति व्याहरत् स भूमिम् असृजत इत्य् आदिका। स्मृतिर् अपि सर्वेषां च स नामानि कर्माणि च पृथक् पृथक्। वेद-शब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे। नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम्। वेद-शब्देभ्य एवादौ देवादीनां चकार सः इत्य् आदिका॥२७॥

Link copied

९३ अत एव च नित्यत्वम्॥१।३।२८॥

Link copied

यतः प्रजापतिः वैदिकाच् छब्दाद् अर्थाकारं स्मृत्वा तद्-आकारं सर्वं सृजति, अतश् च वसिष्ठ-विश्वामित्रादीनां मन्त्र-सूक्तादि-कृत्त्वेऽपि मन्त्रादि-मयस्य वेदस्य नित्यत्वं तिष्ठत्य् एव। प्रजापतिर् हि नैमित्तिक-प्रलयानन्तरं मन्त्र-कृतो वृणीते। विश्वामित्रस्य सूक्तं भवतीत्य् आदि वेद-शब्देभ्योऽनधीत-मन्त्रादि-दर्शन-शक्त-वसिष्ठाद्य्-आकृति-विशेषं स्मृत्वा, वसिष्ठत्वादि-पद-प्राप्तये अनुष्ठित-कर्म-विशेषांश् चानुस्मृत्य, तद्-आकार-विशेषान् तान् वसिष्ठादीन् सृजति; ते चानधीत्यैव वेदैक-देश-भूत-मन्त्रादीन् स्वरतो वर्णतश् चास्खलितान् पठन्ति। तद् एषां मन्त्रादि-कृत्वेऽपि वेद-नित्यत्वम् उपपद्यते॥२८॥

Link copied

प्रजापति-प्रभृतिषु सर्वेषु तत्त्वेष्व् अव्याकृत-पर्यन्तेषु अव्याकृत-परिणाम-रूपेषु शब्द-मयेषु वेदेषु च विनष्टेष्व् अव्याकृत-सृष्ट्य्-आवृत्तौ कथं वेदस्य नित्यत्वम् इत्यत आह---

Link copied

९४ समान-नाम-रूपत्वाच् चावृत्ताव् अप्य् अविरोधो दर्शनात् स्मृतेश् च॥१।३।२९॥

Link copied

अव्याकृत-सृष्ट्य्-आवृत्ताव् अपि सृज्यानां समान-नाम-रूपत्वाद् एव न कश्चिद् विरोधः। आदि-सर्गेऽपि हि परम-पुरुषः पूर्व-संस्थानं जगत् स्मरन् तथैव सृजति, वेदांश् च पूर्वानुपूर्वी-विशिष्टान् आविष्कृत्य हिरण्यगर्भाय ददातीति। पूर्व-संस्थानम् एव जगत् सृजतीति कथम् अवगम्यते। दर्शनात् स्मृतेश् च। दर्शनं--- श्रुतिः। अहो-रात्राणि विदधद् विश्वस्य मिषतो वशी, सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत्, दिवं च पृथिवीं चान्तरिक्षम् अथो सुवर् इति, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै इति च, स्मृतिर् अपि--- यथर्तुष्व् ऋतु-लिङ्गानि नाना-रूपाणि पर्यये। दृश्यन्ते तानि तान्य् एव तथा भावा युगादिषु। इति। एतद् एव वेदस्य नित्यत्वं यत् पूर्व-पूर्वोच्चारण-क्रम-विशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम्। परम-पुरुषोऽपि स्वरूप-स्वाराधन-तत्-फल-याथात्म्यावबोधि-वेदं स्व-स्वरूपवन् नित्यम् एव पूर्वानुपूर्वी-विशिष्टं स्मृत्वा आविष्करोति। अतो देवादीनां ब्रह्म-विद्याधिकारे न कश्चिद् विरोधः॥२९॥इति देवताधिकरणम्॥७॥

Link copied

१।३।८

Link copied

९५ मध्व्-आदिष्व् असम्भवाद् अनधिकारं जैमिनिः॥१।३।३०॥

Link copied

छान्दोग्ये असौ वा आदित्यो देव-मधु इत्य् उपक्रम्य। तद् यत् प्रथमम् अमृतं तद्-वसव उपजीवन्ति इत्य् उक्त्वा, स य एतद् एवम् अमृतं वेद वसूनाम् एवैको भूत्वाग्निनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति इत्य् आदिना ऋग्-यजुः-सामादि-वेदोदित-कर्म सम्पाद्य रसाधारतया मधुम् अयस्याद् इत्य् अस्य पूर्व-दक्षिण-पश्चिमोत्तरोर्ध्वांशान् वसु-रुद्रादित्य-मरुत्-साध्य-नाम्नां देव-गणानां भोग्यत्वेनाभिधाय, तैर् भुज्यमानाकारेणादित्यांशानुपास्यान् उपदिश्य, तान् एवादित्यांशांस् तथा भूतान् प्राप्यान् उपदिशति। एवम् आदिषूपासनेषु वस्व्-आदित्यादीनाम् अधिकारोऽस्ति, नेति संशयः। नास्त्य् अधिकार इति पूर्वः पक्षः, वस्व्-आदीनाम् उपास्यान्तर्-गतत्वेन कर्म-कर्तृ-भाव-विरोधात्, प्राप्यस्य वसुत्वादेः प्राप्तत्वाच् च। राद्धान्तस् तु--- ब्रह्मण एव तद्-अवस्थस्योपास्यादीनां सतां स्वावस्थ-ब्रह्मानुसन्धानाविरोधात् कल्पान्तरे वसुत्वादेः प्राप्तत्वाविरोधाच् च वस्व्-आदीनाम् अधिकारः सम्भवतीति। सूत्रार्थस् तु मधु-विद्यादिषु वस्व्-आदीनाम् अनधिकारं जैमिनिर् मन्यते। असम्भवात्--- वस्व्-आदीनाम् एव उपास्यानाम् उपासकत्वासम्भवात्, वसुत्वादेः प्राप्तत्वाद् एव प्राप्यत्वासम्भवाच् च॥३०॥

Link copied

९६ ज्योतिषि भावाच् च॥१।३।३१॥

Link copied

तं देवा ज्योतिषां ज्योतिर् आयुर् होपासतेऽमृतम् इति ज्योतिषि--- परस्मिन् ब्रह्मणि देव-मनुष्ययोर् अधिकार-साधारण्ये सत्य् अपि, ज्योतिषां ज्योतिः--- परं ब्रह्म देवा उपासते इति विशेष-वचनं वस्वादीनां कर्मकर्तृभावविरोधात्तेषु तेषामनधिकारं द्योतयति। देवा इति सामान्य-वचनं च वस्व्-आदि-विशेष-विषयम् इत्य् अवगम्यते, अन्येषाम् अविरोधात्॥३१॥

Link copied

९७ भावं तु बादरायणोऽस्ति हि॥१।३।३२॥

Link copied

तु-शब्दः पक्षं व्यावर्तयति। वस्व्-आदीनां मधु-विद्यादिष्व् अधिकार-सद्-भावं भगवान् बादरायणो मन्यते। अस्ति हि वस्व्-आदीनाम् एवोपास्यत्वं प्राप्यत्वं च। इदानीं वसूनाम् एव सतां कल्पान्तरे वसुत्वस्य प्राप्यत्व-सम्भवात् प्राप्यत्वं सम्भवति। स्वात्मनां ब्रह्म-भावानुसन्धान-सम्भवाद् उपास्यत्वं च सम्भवति। य एताम् एवं ब्रह्मोपनिषदं वेद इति हि कृत्स्नाया मधु-विद्यायाः ब्रह्म-विद्यात्वम् अवगम्यते॥३२॥इति मध्व्-अधिकरणम्॥८॥

Link copied

१।३।९

Link copied

९८ शुग् अस्य तद्-अनादर-श्रवणात् तद्-आद्रवणात् सूच्यते हि॥१।३।३३॥

Link copied

ब्रह्म-विद्यायां शूद्रस्याप्य् अधिकारोऽस्ति, नेति संशयः। अस्तीति पूर्वः पक्षः,--- अर्थित्व-सामर्थ्य-सम्भवात्। शूद्रस्यानग्नि-विद्यत्वेऽपि मनोवृत्ति-मात्रत्वात् उपासनस्य सम्भवति हि सामर्थ्यम्। ब्रह्म-स्वरूप-तद्-उपासन-प्रकार-ज्ञानं चेतिहास-पुराण-श्रवणाद् एव निष्पद्यते। अस्ति हि शूद्रस्यापीतिहास-पुराण-श्रवणानुज्ञा। श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रत इति। तथा तत्रैव विदुरादीनां ब्रह्म-निष्ठत्वं दृश्यते। उपनिषत्स्व् अपि। आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति शूद्र-शब्देनामन्त्र्य ब्रह्म-विद्योपदेश-दर्शनाच् छूद्रस्यापीहाधिकारः सूच्यते। राद्धान्तस् तु--- उपासनस्य मनोवृत्ति-मात्रत्वेऽप्य् अनधीत-वेदस्य शूद्रस्य उपासनोपाय-भूत-ज्ञानासम्भवात्, न सार्मथ्य-सम्भवः। कर्म-विधिवद् उपासना-विधयोऽपि त्रैवर्णिक-विषयाध्ययन-गृहीतस्वाध्यायोत्पन्न-ज्ञानम् एव उपासनोपायतया स्वीकुर्वते। इतिहासादयोऽपि स्वाध्याय-सिद्धम् एव ज्ञानम् उपबृंहयन्तीति ततोऽपि नास्य ज्ञान-लाभः। श्रवणानुज्ञा तु पाप-क्षयादि-फला। विदुरादीनां तु भवान्तर-वासनया ज्ञान-लाभाद् ब्रह्म-निष्ठत्वम्। शूद्रेत्य् आमन्त्रणम् अपि न चतुर्थ-वर्णत्वेन, अपि तु ब्रह्म-विद्या-वैकल्याच् छुग् अस्य सञ्जातेति। अतो न शूद्रस्याधिकारः। सूत्रार्थस् तु--- ब्रह्म-विद्या-वैकल्येन हंसोक्तानादर-वाक्य-श्रवणात् तदैवाचार्यं प्रत्य् आद्रवणाच् चाचार्येण तस्य शुश्रूषोर् विद्या-लाभ-कृता शुक् सूच्यते। हि-शब्दो हेतौ। यस्माद् अस्य शुक् सूच्यते, अतः शोचनाच् छूद्र इति कृत्वा, आचार्यो रैक्वो जानश्रुतिं शूद्रेत्य् आमन्त्रयते, न जाति-योगेनेत्य् अर्थः॥३३॥

Link copied

९९ क्षत्रियत्व-गतेश् च॥१।३।३४॥

Link copied

अस्य शुश्रूषोः क्षत्रियत्वावगतेश् च न जाति-योगेन शूद्रेत्य् आमन्त्रणम्। प्रकरण-प्रक्रमे हि बहु-दायी इत्य् आदिना दान-पतित्व-बहुतर-पक्वान्न-दायित्व-क्षत्तृ-प्रेषण-बहु-ग्रामादि-प्रदानैर् अस्य जानश्रुतेः शुश्रूषोः क्षत्रियत्वं प्रतीतम्॥३४॥

Link copied

१०० उत्तरत्र चैत्ररथेन लिङ्गात्॥१।३।३५॥

Link copied

उपरिष्टाच् चास्यां विद्यायां ब्राह्मण-क्षत्रिययोर् एवान्वयो दृश्यते। अथ ह शौनकं च कापेयम् अभिप्रतारिणं च इत्य् आदिना। अभिप्रतारी हि चैत्ररथः क्षत्रियः। अभिप्रतारिणश् चैत्ररथत्वं क्षत्रियत्वं च कापेय-साहचर्याल् लिङ्गाद् अवगम्यते। प्रकरणान्तरे हि कापेय-सहचारिणः चैत्ररथत्वं क्षत्रियत्वं चावगतम्। एतेन वै चैत्ररथं कापेया अयाजयन् इति, तस्माच् चैत्ररथो नामैकः क्षत्र-पतिर् अजायतेति च। अतोऽस्यां विद्यायाम् अन्वितो ब्राह्मणाद् इतरो जानश्रुतिर् अपि क्षत्रियो भवितुम् अर्हति॥३५॥

Link copied

१०१ संस्कार-परामर्शात् तद्-अभावाभिलापाच् च॥१।३।३६॥

Link copied

विद्योपदेशे उप त्वा नेष्ये इत्य् उपनयन--- संस्कार-परामर्शात् शूद्रस्य तद्-अभाव-वचनाच् चानधिकारः। न शूद्रे पातकं किञ्चिन् न च संस्कारम् अर्हति। इति हि निषिध्यते॥३६॥

Link copied

१०२ तद्-अभाव-निर्धारणे च प्रवृत्तेः॥१।३।३७॥

Link copied

नैतद् अब्राह्मणो विवक्तुम् अर्हति समिधं सौम्याहर इति शुश्रूषोर् जाबालेः शूद्रत्वाभाव-निश्चय एवोपदेशे प्रवृत्तेर् नाधिकारः॥३७॥

Link copied

१०३ श्रवणाध्ययनार्थ-प्रतिषेधात्॥१।३।३८॥

Link copied

शूद्रस्य श्रवणाध्ययनादीनि हि प्रतिषिध्यन्ते। तस्माच् छूद्र-समीपे नाध्येतव्यम् इति। अनुपशृण्वतोऽध्ययनादिर् न सम्भवति॥३८॥

Link copied

१०४ स्मृतेश् च॥१।३।३९॥

Link copied

स्मर्यते च शूद्रस्य वेद-श्रवणादौ दण्डः। अथ हास्य वेदम् उपशृण्वतः त्रपु-जतुभ्यां श्रोत्र-प्रतिपूरणम् उदाहरणे जिह्वाच्छेदो धारणे शरीर-भेद इति॥३९॥इत्य् अपशूद्राधिकरणम्॥९॥

Link copied

[प्रमिताधिकरण-शेषः]

Link copied

प्रासङ्गिकं परिसमाप्य प्रकृतं परिसमापयति---

Link copied

१०५ कम्पनात्॥१।३।४०॥

Link copied

अङ्गुष्ठ-प्रमित-प्रकरण-मध्ये। यद् इदं किं च जगत् सर्वं प्राण एजति निःसृतम्। महद् भयं वज्रम् उद्यतं भयाद् अस्याग्निस् तपति इत्य् आदौ प्राण-शब्द-निर्दिष्टाङ्गुष्ठ-प्रमित-जनित-भय-निमित्ताद् अग्नि-वायु-सूर्य-प्रभृति-कृत्स्न-जगत्-कम्पनात् श्रूयमाणाद् अङ्गुष्ठ-प्रमितः परमात्मैवेति निश्चीयते॥४०॥

Link copied

१०६ ज्योतिर्-दर्शनात्॥१।३।४१॥

Link copied

अस्मिन्न् एव प्रकरणे तत्-सम्बन्धितया न तत्र सूर्यो भाति इत्य् आरभ्य तस्य भासा सर्वम् इदं विभाति इति सर्वेषां छादकस्यानवधिकातिशयस्य भाः-शब्दाभिहितस्य ब्रह्म-भूतस्य परस्य ज्योतिषो दर्शनाच् च अङ्गुष्ठ-प्रमितः परमात्मा॥४१॥इति प्रमिताधिकरण-शेषः॥

Link copied

१।३।१०

Link copied

१०७ आकाशोऽर्थान्तरत्वादि-व्यपदेशात्॥१।३।४२॥

Link copied

छान्दोग्ये आकाशो ह वै नाम-रूपयोर् निर्वहिता ते यद् अन्तरा तद् ब्रह्म तद् अमृतं स आत्मा इत्य् अत्राकाश-शब्द-निर्दिष्टः किं मुक्तात्मा, उत परमात्मेति संशयः। मुक्त इति पूर्वः पक्षः। धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्म-लोकम् अभिसम्भवामि इति मुक्तस्यानन्तर-प्रकृतत्वात्। राद्धान्तस् तु--- नाम-रूपयोर् निर्वहिता ते यद् अन्तरा इति स्वयम् अस्पृष्ट-नाम-रूपतया नाम-रूपयोर् निर्वोढृत्वेन श्रूयमाणोऽयम् आकाशो बद्ध-मुक्तोभयावस्थात् प्रत्यग्-आत्मनः अर्थान्तरत्वात् परमात्मैव।

Link copied

सूत्रार्थस् तु--- आकाशः परमात्मा, तस्य नाम-रूपयोर् निर्वोढृत्व-तद्-अस्पर्श-लक्षणार्थान्तरत्व-व्यपदेशात्। प्रत्यग्-आत्मनो ह्य् अर्थान्तर-भूत एव नाम-रूपयोर् निर्वोढा। बद्धावस्थस्तावन् नाम-रूपाभ्यां स्पृष्टस् तत्-परवशश् चेति न निर्वोढा; मुक्तस्यापि जगद्-व्यापारर-हितत्वान् न निर्वोढृत्वम्। आदि-शब्देन निरुपाधिक-ब्रह्मत्वामृतत्वात्मत्वादीनि गृह्यन्ते। तानि निरुपाधिकानि मुक्तस्यापि न सम्भवन्ति॥४२॥

Link copied

ननु तत् त्वम् अस्यादिनैक्य-व्यपदेशात्, नेह नानास्तीति भेद-प्रतिषेधाच् च न प्रत्यग्-आत्मनोऽर्थान्तर-भूतः परमात्मेत्य् आशङ्क्याह---

Link copied

१०८ सुषुप्त्य्-उत्क्रान्त्योर् भेदेन॥१।३।४३॥

Link copied

व्यपदेशाद् इति वर्तते। प्राज्ञेनात्मना सम्परिष्वक्तः, प्राज्ञेनात्मनान्वारूढः इति सुषुप्त्य्-उत्क्रान्त्योर् लुप्त-सकल-विशेष-विज्ञानात् प्रत्यग्-आत्मनस् तदानीम् एव सर्वज्ञतया भेद-व्यपदेशात् प्रत्यग्-आत्मनोऽर्थान्तर-भूत एव परमात्मा॥४३॥

Link copied

१०९ पत्य्-आदि-शब्देभ्यः॥१।३।४४॥

Link copied

परिष्वञ्जके प्राज्ञे श्रूयमाणेभ्यः पत्य्-आदि-शब्देभ्यश् चायं प्रत्यग्-आत्मनोऽर्थान्तर-भूतः परमात्मा, सर्वस्याधिपतिः सर्वस्य वशी सर्वस्येशानः इत्य् आदौ। ऐक्योपदेश---भेद-प्रतिषेधौ तु ब्रह्म-कार्यत्व-निबन्धनाव् इति। तज् जलान् इति, सर्वं खल्व् इदं ब्रह्म इत्य् आदि श्रुतिभिर् एव व्यक्तौ॥४४॥इत्य् अर्थान्तरत्वादि-व्यपदेशाधिकरणम्॥१०॥

Link copied

इति श्री-रामानुजाचार्य-रचिते श्री-वेदान्तदीपे प्रथमस्याध्यायस्य तृतीयः पादः

Link copied
Join our community