Vedanta Dipa · Section 4 of 17
||atha prathama:dhya:ye: thruthi:yah pa:dah||
Original Sanskrit · click to toggle
१।३।१
Link copied६६ द्यु-भ्व्-आद्य्-आयतनं स्व-शब्दात्॥१।३।१॥
Link copiedआथर्वणे यस्मिन् द्यौः पृथिवी चान्तरिक्षम् ओतं मनः सह प्राणैश् च सर्वैस् तम् एवैकं जानथात्मानम् अन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः इत्य् अत्र द्यु-पृथिव्य्-आदीनाम् आयतनं किं जीवः, उत परमात्मेति संशयः। जीव इति पूर्वः पक्षः, मनः प्रभृतीन्द्रियाधारत्व-श्रुतेः, उत्तरत्र नाडी-सम्बन्धात्, जायमानत्व-श्रुतेश् च। राद्धान्तस् तु निरुपाधिकात्मत्वामृत-सेतुत्वयोः परमात्म-धर्मयोः श्रवणात् परमात्मैवायम्। सर्वं नियन्तृतया आप्नोतीति ह्य् आत्मा। अमृतस्य प्रापकतया सेतुश् च स एव। नाडी-सम्बन्धः, बहुधा जायमानत्वं च। सन्ततं सिराभिस् तु लम्बत्याकोश-सन्निभम्, अजायमानो बहुधा विजायते इत्य् आदिषु सर्व-समाश्रयणीयत्वाय अजहत्-स्वभावस्यैव परमात्मनोऽपि दृश्यत इति। सूत्रार्थस् तु--- द्यु-पृथिव्य्-आदीनाम् आयतनं परमात्मा, स्व-शब्दात्॥१॥
Link copied६७ मुक्तोपसृप्य व्यपदेशाच् च॥१।३।२॥
Link copiedतदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति। तथा विद्वान् नाम-रूपाद् विमुक्तः परात्परं पुरुषम् उपैति दिव्यम् इति च बन्धान् मुक्तस्य प्राप्यतया व्यपदेशाच् चायं परमात्मा॥२॥
Link copied६८ नानुमानम् अतच्-छब्दात् प्राण-भृच् च॥१।३।३॥
Link copiedआनुमानम्--- अनुमान-गम्यं प्रधानम्। यथा तद्-वाचि-शब्दाभावात् तद् इह न गृह्यते। तथा प्राण-भृद् अपीत्य् अर्थः। अतश् चायं परमात्मा॥३॥
Link copied६९ भेद-व्यपदेशात्॥१।३।४॥
Link copiedअनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्य् अन्यम् ईशम् इत्य् आदिना जीवाद् भेदेन व्यपदेशाच् चायं परमात्मा॥४॥
Link copied७० प्रकरणात्॥१।३।५॥
Link copiedअथ परा यया तद् अक्षरम् अधिगम्यत इत्य् आदिना परमात्मन एव प्रकृतत्वात्॥५॥
Link copied७१ स्थित्य्-अदनाभ्यां च॥१।३।६॥
Link copiedतयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति इति कर्म-फलम् अनश्नतः परमात्मनो दीप्यमानतया स्थितेः, जीवस्य कर्म-परवशतया तत्-फलादनाच् च परमात्मनो जीवाद् भेदावगमाद् अमृत-सेतुर् द्यु-भ्व्-आद्य्-आयतनं न जीवः। अदृश्यत्वादि-गुणक इत्य् अनेन परमात्मत्वे स्थापितेऽपि, नाडी-सम्बन्ध-बहुधा-जायमानत्व-लिङ्गात्, यावान्तर-प्रकरण-विच्छेदाशङ्का, सा निराकृता--- द्यु-भ्व्-आद्य्-आयतनम् इति। वैश्वानरस्य त्रैलोक्य-शरीरत्वादिना परमात्मत्व-निर्णय इति मध्ये वैश्वानर-विद्या निरूपिता॥६॥इति द्यु-भ्व्-आद्य्-अधिकरणम्॥१॥
Link copied१।३।२
Link copied७२ भूमा सम्प्रसादाद् अध्युपदेशात्॥१।३।७॥
Link copiedछान्दोग्ये यत्र नान्यत् पश्यति नान्यच् छृणोति नान्यद् विजानाति स भूमा इत्य् अत्र भूम-शब्द-निर्दिष्टो निरतिशय-वैपुल्य-विशिष्ट-सुख-स्वरूपः किं प्रत्यग्-आत्मा, उत परमात्मेति संशयः। प्रत्यग्-आत्मेति पूर्वः पक्षः। तरति शोकम् आत्मवित् इति प्रक्रम्य नामादि-परम्परयोत्तरोत्तर-भूयस्त्वेन प्रश्न-प्रतिवचनाभ्यां प्रवृत्तस्यात्मोपदेशस्य प्राण-शब्द-निर्दिष्टे प्रत्यग्-आत्मनि समाप्ति-दर्शनात्, प्रत्यग्-आत्मन एव भूम-संशब्दनम् इति निश्चीयते। राद्धान्तस् तु--- यद्य् अपि प्रश्न-प्रतिवचनाभ्याम् उत्तरोत्तरभूयस्त्व-वचनं प्राणे पर्यवस्थितं तथापि प्राण-वेदिनोऽतिवादित्वम् उक्त्वा, एष तु वा अतिवदति यः सत्येनातिवदतीति तु-शब्देनोपासक-भेदं प्रतिपाद्य, तस्य सत्योपासकस्य पूर्वस्माद् आधिक्योपदेशात्, सत्य-शब्दाभिधेयं परं ब्रह्मैव भूम-विशिष्टम् इति। सूत्रार्थस् तु भूम-गुण-विशिष्टं परं ब्रह्मैव, सम्प्रसादाद् अध्युपदेशात्--- सम्प्रसादः--- प्रत्यग्-आत्मा, एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य इत्य् आद्य् उपनिषत्-प्रसिद्धेः। एष तु वा अतिवदति इति प्रत्यग्-आत्मनोऽधिकतयोपदेशात्। अतिवादित्वं हि स्वोपास्याधिक्य-वादित्वम्॥७॥
Link copied७३ धर्मोपपत्तेश् च॥१।३।८॥
Link copiedस्वाभाविकामृतत्व-स्व-महिम-प्रतिष्ठितत्व-सर्वात्मत्व-सर्वोत्पत्ति-हेतुत्वादीनां भूम्नि श्रूयमाणानां धर्माणां परस्मिन्न् एव ब्रह्मण्य् उपपत्तेश् च भूमा परं ब्रह्मैव॥८॥इति भूमाधिकरणम्॥२॥
Link copied१।३।३
Link copied७४ अक्षरम् अम्बरान्त-धृतेः॥१।३।९॥
Link copiedवाजिनां गार्गि-प्रश्ने। स होवाचैतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् इत्य् अत्राक्षर-शब्द-निर्दिष्टं प्रधानं जीवो वा, उत परमात्मा इति संशयः। प्रधानं जीवो वा, न परमात्मेति पूर्वः पक्षः। कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् च इत्य् उक्ते आकाशाधारतयोच्यमानम् अक्षरं प्रधानम्, जीवो वा, प्रधानस्य विकाराधारत्वाज् जीवस्याचिद्-वस्त्व्-आधारत्वान् न परमात्मेति। राद्धन्तस् तु--- यद् ऊर्ध्वं गार्गि दिव इत्य् आरभ्य, काल-त्रय-वर्तिनः कृत्स्नस्याधारतया निर्दिष्ट आकाशोऽव्याकृतम् एव, न वायुमानाकाशः। ततः पश्चात् कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् च इति पृष्टे तद्-आधारतयोच्यमानम् एतद् अक्षरं न प्रधानं भवितुम् अर्हति। नापि जीवः। एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्य् आरभ्य प्रशासनात् सर्वाधारत्व-श्रुतेः। सूत्रार्थस् तु--- एतद् वै तद् अक्षरं गार्गि इति निर्दिष्टम् अक्षरं परमात्मा, अम्बरान्त-धृतेः--- अम्बरं--- वायुमानाकाशः, अम्बरान्तः--- अम्बर-पारभूतम्, अम्बर-कारणम् इति यावत्; कारणापत्तिर् एव हि कार्यस्यान्तः। स चाम्बरान्तः अव्याकृतं प्रधानम्, तस्य धृतेः--- धारणात्। अव्याकृतस्यापि धृतेर् अक्षरं परमात्मैवेत्य् अर्थः॥९॥
Link copiedएवं तर्हि जीवो भवितुम् अर्हति, तस्य प्रधान-धृत्य्-उपपत्तेर् इत्य् आशङ्क्याह---
Link copied७५ सा च प्रशासनात्॥१।३।१०॥
Link copiedसा च अम्बरान्त-धृतिः। एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ इति प्रशासनाच् छ्रूयते। प्रशासनम्--- प्रकृष्टं शासनम्, अप्रतिहताज्ञा। न चाप्रतिहताज्ञया कृत्स्नस्य चिद्-अचिद्-आत्मकस्य जगतो धृतिर् जीवे उपपद्यते; अतो न जीवः॥१०॥
Link copied७६ अन्य-भाव-व्यावृत्तेश् च॥१।३।११॥
Link copiedअन्य-भावः--- अन्यत्वम्। अस्याक्षरस्य परम-पुरुषाद् अन्यत्वं व्यावर्तयति वाक्य-शेषः। अदृष्टं द्रष्टृ इत्य् आदिना सर्वैर् अदृष्टम् एतद् अक्षरं सर्वस्य द्रष्ट्रित्य् आदि प्रधान-जीवासम्भावनीयार्थ-प्रतिपादनात्॥११॥इत्य् अक्षराधिकरणम्॥३॥
Link copied१।३।४
Link copied७७ ईक्षति-कर्म-व्यपदेशात् सः॥१।३।१२॥
Link copiedआथर्वणिकानां सत्य-काम-प्रश्ने यः पुनर् एतं त्रि-मात्रेणौम् इत्य् अनेनैवाक्षरेण परं पुरुषम् अभिध्यायीत इत्य् आरभ्य। स सामभिर् उन्नीयते ब्रह्म-लोकं, स एतस्माज् जीव-घनात् परात्परं पुरिशयं पुरुषम् ईक्षत इत्य् अत्र, ध्यायतीक्षति-कर्मतया व्यपदिष्टः परम-पुरुषः किं हिरण्यगर्भः, उत परब्रह्म-भूतः पुरुषोत्तम इति संशयः। हिरण्यगर्भ इति पूर्वः पक्षः। पूर्वत्रैक-मात्रं प्रणवम् उपासीनस्य मनुष्य-लोक-प्राप्तिं फलं, द्वि-मात्रम् उपासीनस्यान्तरिक्ष-लोक-प्राप्तिं च फलम् अभिधायानन्तरं यः पुनर् एतं त्रि-मात्रेण इति त्रि-मात्रं प्रणवम् उपासीनस्य फलत्वेनोच्यमान-ब्रह्म-लोक-स्थ-पुरुषेक्षण-कर्म-भूतश् चतुर्मुख एवेति विज्ञायते, मनुष्य-लोकान्तरिक्ष-लोक-साहचर्यात् ब्रह्म-लोकोऽपि क्षेत्रज्ञ-लोक इति निश्चयात्।
Link copiedराद्धान्तस् तु--- परात्परं पुरिशयं पुरुषम् ईक्षते इतीक्षति-कर्मतया निर्दिष्ट-पुरुष-विषये श्लोके। तम् ओङ्कारेणैवायतनेनान्वेति विद्वान् यत् तच् छान्तम् अजरम् अमृतम् अभयं परं च इति निरुपाधिक-शान्तत्वामृतत्वादि-व्यपदेशात् परमात्मैवायम् इति निश्चीयते। एवं परमात्मत्वे निश्चिते ब्रह्म-लोक-शब्दश् च तत्-स्थानम् एवाभिदधाति इत्य् अवगम्यते। तद् विषयतयोदाहृते च श्लोके यत् तत् कवयो वेदयन्ते। तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः। इत्य् एवम् आदिभिः सूरिभिर् दृश्यत्व-वचनं तद् एव द्रढयति। सूत्रार्थस् तु--- ईक्षति-कर्म सः--- परमात्मा, ध्यायतीक्षत्योर् एक-विषयत्वेन ध्यायति-कर्मापि स एवेत्य् अर्थः, व्यपदेशात्--- तद्-विषयकतया शान्तम् अजरम् अमृतम् अभयं परं चेति परमात्म-धर्माणां व्यपदेशात्॥१२॥इति ईक्षति-कर्माधिकरणम्॥४॥
Link copied१।३।५
Link copied७८ दहर उत्तरेभ्यः॥१।३।१३॥
Link copiedछान्दोग्ये अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इत्य् अत्र हृदय-पुण्डरीक-मध्य-वर्ती दहराकाशः श्रूयमाणः किं भूताकाशः, उत जीवः, अथ परमात्मेति संशयः। प्रथमं तावद् भूताकाश इति युक्तम् आश्रयितुम् इति पूर्व-पक्षः, आकाश-शब्दस्य भूताकाशे प्रसिद्धि-प्राचुर्यात् आकाशान्तर्-वर्तिनोऽन्यस्य अन्वेष्टव्यता-प्रतीतेश् च। राद्धान्तस् तु--- किं तद् अत्र विद्यते यद् अन्वेष्टव्यम् इति चोदिते यावान् वा अयम् आकाशः इत्य् आरभ्य एतत् सत्यं ब्रह्म-पुरम् इत्य् अन्तेन दहराकाशस्यातिमहत्त्व-सर्वाश्रयत्वाजरत्व-सत्यत्वाद्य् अभिधाय अस्मिन् कामाः समाहिता इत्य् आकाशान्तर्-वर्तिनोऽन्वेष्टव्याः कामा इति प्रतिपाद्य, कोऽयं दहराकाश-शब्द-निर्दिष्टके तद्-आश्रयाः कामा इत्य् अपेक्षायाम् एष आत्मापहत-पाप्मा इत्य् आरभ्य, सत्य-सङ्कल्पः इत्य् अन्तेन आकाश-शब्द-निर्दिष्टः आत्मा, कामाश् चापहत-पाप्मत्वादयस् तद्-विशेषण-भूता इति प्रतिपादयद् वाक्यम् अपहत-पाप्मत्वादि-विशिष्ट-परमात्मानम् आह। उपक्रमे चान्वेष्टव्यतया प्रतिज्ञातः आकाशः आत्मा, एतद्-विशेषण-भूताः अपहत-पाप्मत्वादयः कामा इति वाक्यं ज्ञापयद् अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामान् तेषां सर्वेषु लोकेषु काम-चारो भवति इत्य् उपसंहरति। अतोऽयं दहराकाशः अपहत-पाप्मत्वादि-विशिष्टः परमात्मेति निश्चीयते, न भूताकाशादिर् इति। एवं तर्ह्य् अस्मिन् वाक्ये, अथ य एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय इति प्रत्यग्-आत्म-प्रतीतेः, तस्य चोत्तरत्र प्रजापति-वाक्ये अपहत-पाप्मत्वादि-गुणकत्वावगमात् प्रत्यग्-आत्मैव दहराकाश इति पूर्व-पक्षी मन्यते। राद्धान्ती तु प्रत्यग्-आत्मा कर्म-परवशतया जागरित-स्वप्न-सुषुप्त्य्-आद्य्-अवस्थाभिः तिरोहितापहत-पाप्मत्वादिकः परमात्मानम् उपसम्पन्नः तत्-प्रसादाद् आविर्भूत-गुणकः प्रजापति-वाक्ये प्रतिपादितः। दहराकाशस् त्व् अतिरोहित-निरुपाधिकापहत-पाप्मत्वादिकः प्रत्यग्-आत्मन्य् असम्भावनीय-जगद्-विधरण-समस्त-चिद्-अचिद्-वस्तु-नियमनाद्य्-अनन्त-गुणकः प्रतिपन्न इति नायं प्रत्यग्-आत्मा दहराकाशः, अपि तु परमात्मैवेति मन्यते। सूत्रार्थस् तु--- दहराकाशः परं ब्रह्म, उत्तरेभ्यः--- उत्तर-वाक्य-गतेभ्यः अपहत-पाप्मत्वादि-परमात्मासाधारण-धर्मेभ्यो हेतुभ्यः॥१३॥
Link copied७९ गति-शब्दाभ्यां तथा हि दृष्टं लिङ्गं च॥१।३।१४॥
Link copiedअस्मिन् दहराकाशे सर्वासां प्रजानाम् अजानतीनाम् अहर् अहर् या गतिः श्रूयते, यश् च दहराकाशावमर्श-रूपैतच्-छब्द-समानाधिकरणतया प्रयुक्तो ब्रह्म-लोक-शब्दः, ताभ्यां दहराकाशः परं ब्रह्मेत्य् अवगम्यते। तद् यथा हिरण्य-निधिं निहितम् अक्षेत्रज्ञा उपर्य् उपरि सञ्चरन्तो न विन्देयुर् एवम् एवेमाः सर्वाः प्रजा अहर् अहर् गच्छन्त्य एतं ब्रह्म-लोकं न विन्दन्त्य् अनृतेन हि प्रत्यूढाः इति। तथा हि दृष्टम्--- तथा ह्य् अन्यत्र परस्मिन् ब्रह्मण्य् एवं रूपं गमनं दृष्टम्--- एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति। तथा ब्रह्म-लोक-शब्दश् च परस्मिन् ब्रह्मण्य् एव दृष्टः--- एष ब्रह्म-लोकः सम्राडिति होवाच इति लिङ्गं च--- मा भूद् अन्यत्र दर्शनम्, अस्मिन् प्रकरणे सर्वासां प्रजानां श्रूयमाणम् अहर् अहर् गमनं, ब्रह्म-लोक-शब्दश् च दहराकाशस्य परमात्मत्वे पर्याप्तं लिङ्गम्। च-शब्दोऽवधारणे। एतद् एव पर्याप्तम् इत्य् अर्थः॥१४॥
Link copied८० धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः॥१।३।१५॥
Link copiedअस्य धृत्य्-आख्यस्य परमात्मनो महिम्नोऽस्मिन् दहराकाशे उपलब्धेर् अयं परमात्मा। धृतिः--- जगद्-विधरणं परमात्मनो महिमेत्य् अन्यत्रावगम्यते। एष सर्वेश्वर एष भूताधिपतिर् एष भूत-पाल एष सेतुर् विधरण एषां लोकानाम् असम्भेदाय इति। सा च अस्मिन् दहराकाश उपलभ्यते। अथ य आत्मा स सेतुर् विधृतिर् एषां लोकानाम् असम्भेदाय इति॥१५॥
Link copied८१ प्रसिद्धेश् च॥१।३।१६॥
Link copiedको ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात्, सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते इत्य् आदिष्व् आकाश-शब्दस्य परस्मिन् ब्रह्मणि प्रसिद्धेर् आकाश-शब्द एव परमात्म-धर्म-विशेषितो भूताकाश-शङ्कां निवर्तयतीत्य् अर्थः॥१६॥
Link copied८२ इतर परामर्शात् स इति चेन् नासम्भवात्॥१।३।१७॥
Link copiedपरमात्मन इतरः जीवः; अथ य एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय इति जीवस्य परामर्शात् स एव दहराकाश इति चेत् तन् न, पूर्वोक्तानां गुणानां तस्मिन्न् असम्भवात्॥१७॥
Link copied८३ उत्तराच् चेद् आविर्भूत-स्वरूपस् तु॥१।३।१८॥
Link copiedउत्तरात्--- प्रजापति-वाक्याद् अपहत-पाप्मत्वादि-गुणको जीवोऽवगम्यत इति चेत् तन् न; जागरिताद्य्-अवस्थाभिर् अनादि-काल-प्रवृत्ताभिः पुण्य-पाप-रूप-कर्म-मूलाभिस् तिरोहित-गुणकः परब्रह्मोपासन-जनित-तद्-उपसम्पत्त्या आविर्भूत-स्वरूपोऽसौ जीवस् तत्र प्रजापतिवाक्येऽपहत--- पाप्मत्वादिगुणकः कीर्तितः। दहराकाशस्त्वतिरोहितस्वरूपः अपहत-पाप्मत्वादि-गुणक इत्य् अस्मिन् दहराकाशे न जीव-शङ्का॥१८॥
Link copiedदहर-वाक्ये जीव-परामर्शः किम् अर्थम् इति चेत्, तत्राह---
Link copied८४ अन्यार्थश् च परामर्शः॥१।३।१९॥
Link copiedअस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति परञ्ज्योतिः-स्वरूप-दहराकाशोपसम्पत्त्यास्य जीवस्यानृत-तिरोहित-स्वरूपस्य स्वरूपाविर्भावो भवतीति दहराकाशस्य जगद्-विधरणादिवज् जीव-स्वरूपाविर्भावापादन-रूप-सम्पद्-विशेष-प्रतिपादनार्थो जीव-परामर्शः॥१९॥
Link copied८५ अल्प-श्रुतेर् इति चेत् तद् उक्तम्॥१।३।२०॥
Link copiedदहरोऽस्मिन्न् इत्य् अल्प-परिमाण-श्रुतिर् आराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज् ज्यायसो ब्रह्मण इति चेत्, तत्र यद् उत्तरं वक्तव्यम्, तत् पूर्वम् एवोक्तम्। निचाय्यत्वाद् इत्य् अनेन॥२०॥
Link copied८६ अनुकृतेस्तस्य च॥१।३।२१॥
Link copiedअनुकृतिः--- अनुकारः; तस्य परमात्मनोऽनुकाराद् धि जीवस्याविर्भूत-स्वरूपस्यापहत-पाप्मत्वादि-गुणकत्वम्। अतोऽनुकर्तुः जीवाद् अनुकार्यः परब्रह्म-भूतो दहराकाशः अर्थान्तर-भूत एव। तद्-अनुकारश् च तत्-साम्यापत्तिः श्रूयते यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिम्। तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति इति॥२१॥
Link copied८७ अपि स्मर्यते॥१।३।२२॥
Link copiedस्मर्यते च तद्-उपासनात् तत्-साम्यापत्ति-रूपानुकृतिर् जीवस्य, इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च इति॥२२॥इति दहराधिकरणम्॥५॥
Link copied१।३।६
Link copied८८ शब्दाद् एव प्रमितः॥१।३।२३॥
Link copiedकठवल्लीष्व् आम्नायते। अङ्गुष्ठ-मात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूत-भव्यस्य न ततो विजुगुप्सते। एतद् वैतत्। उत्तरत्र च अङ्गुष्ठ-मात्रः पुरुषो ज्योतिर् इवाधूमकः। तथोपरिष्टाद् अङ्गुष्ठ-मात्रः पुरुषोऽन्तर्-आत्मा सदा जनानां हृदये सन्निविष्टः इति। अत्राङ्गुष्ठ-प्रमितो जीवात्मा, उत परमात्मेति संशयः। जीवात्मेति पूर्वः पक्षः--- अन्यत्र स्वीकृत-स्पष्ट-जीव-भावे पुरुषे अङ्गुष्ठ-प्रमितत्व-श्रुतेः प्राणाधिपः सञ्चरति स्व-कर्मभिर् अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः इति। राद्धान्तस् तु--- तत्र स्व-कर्मभिर् इति जीव-भाव-निश्चयवद् अत्रापि, ईशानो भूत-भव्यस्येति भूत-भव्येशितृत्व-दर्शनात् परमात्मैवेति। सूत्रार्थस् तु--- शब्दाद् एव प्रमितः--- अङ्गुष्ठ-प्रमितः परमात्मैव। ईशानो भूत-भव्यस्येति परमात्म-वाचि-शब्दात्॥२३॥
Link copiedकथम् अनवच्छिन्नस्य परमात्मनोऽङ्गुष्ठ-प्रमितत्वम् इत्य् आशङ्क्याह---
Link copied८९ हृद्य् अपेक्षया तु मनुष्याधिकारत्वात्॥१।३।२४॥
Link copiedउपासनार्थम् उपासक-हृदये वर्तमानत्वात्, उपासक-हृदयस्याङ्गुष्ठ-मात्रत्वात् तद्-अपेक्षयेदम् अङ्गुष्ठ-प्रमितत्वम्। मनुष्याणाम् एवोपासकत्व-सम्भावनया मनुष्यान् अधिकृत्य प्रवृत्तत्वाच् छास्त्रस्य मनुष्य-हृदयापेक्षयेदम् उक्तम्। स्थितं तावद् उत्तरत्र समापयिष्यते॥२४॥इति प्रमिताधिकरण-पूर्व-भागः॥
Link copied१।३।७
Link copied९० तद्-उपर्य् अपि बादरायणः सम्भवात्॥१।३।२५॥
Link copiedमनुष्याधिकारं ब्रह्मोपासन-शास्त्रम् इत्य् उक्तम्। तत्-प्रसङ्गेन देवादीनाम् अपि ब्रह्म-विद्यायाम् अधिकारोऽस्ति नवेति चिन्त्यते। न देवादीनाम् अधिकारः अस्तीति पूर्वः पक्षः--- परिनिष्पन्ने ब्रह्मणि शब्दस्य प्रामाण्य-सम्भवेऽपि देवादीनां विग्रहादिमत्त्वे प्रमाणाभावात्, मन्त्रार्थ-वादानाम् अपि विधि-शेषतया विग्रहादि-सद्-भाव-परत्वाभावात्, विग्रहवन् निर्वर्त्याहर् अहर् अनुष्ठीयमान-विवेकादि-साधन-सप्तक-संस्कृत-मनो-निष्पाद्योपासन-निर्वृत्तौ तेषां सामर्थ्याभावात्।
Link copiedराद्धान्तस् तु--- जगत्-सृष्टि-प्रकरणेषु नाम-रूप-व्याकरण-श्रुत्यैव देवादीनां विग्रहादिमत्त्वं सिध्यति। देवादीनां देहेन्द्रियादि-करणम् एव हि नाम-रूप-व्याकरणम्, मन्त्रार्थ-वादयोश् च तद्-उपलब्धेः, तयोर् अनुष्ठेय---प्रकाशन-स्तुति-परत्वेऽपि तद्-उपपत्तये तत्-सद्-भावे प्रमाणत्वाद् देवादीनां विग्रहादिमत्त्व-सिद्धिः, न हि विग्रहादिमत्तया स्तुतिः प्रकाशनं च तद्-अभावे सम्भवति। अतः सामर्थ्य-सम्भवाद् अस्त्य् एवाधिकारः। सूत्रार्थस् तु--- तद्-उपर्य् अपि तेभ्यः--- मनुष्येभ्य उपरि वर्तमानानां देवादीनाम् अप्य् अधिकारोऽस्ति, यद्वा, तत्--- ब्रह्मोपासनम् उपरि देवादिष्व् अपि सम्भवति, तेषाम् अपि ब्रह्म-स्वरूप-तद्-उपासन-प्रकार-ज्ञान-तद्-अर्थित्व-तद्-उपादान-सामर्थ्य-सम्भवात्। पूर्वोपार्जित-ज्ञानाविस्मरणाज् ज्ञान-सम्भवः ताप-त्रयाभिहति-पूर्वक-ब्रह्म-गुण-ज्ञानाच् चार्थित्व-सम्भवः; सृष्टि-वाक्य-मन्त्रार्थ-वादेषु विग्रहवत्त्वादि-दर्शनात् सामर्थ्य-सम्भवश् चेति भगवान् बादरायणो मन्यते॥२५॥
Link copied९१ विरोधः कर्मणीति चेन् नानेक-प्रतिपत्तेर् दर्शनात्॥१।३।२६॥
Link copiedकर्मणि--- यागादौ, विग्रहवत्त्वे सत्य् एकस्य युगपद्-अनेक-यागेषु सन्निधानानुपपत्तेर् विरोधः प्रसज्यत इति चेत् तन् न, शक्तिमतां सौभरि-प्रभृतीनां युगप्-अदनेक-शरीर-प्रतिपत्ति-दर्शनात्॥२६॥
Link copied९२ शब्द इति चेन् नातः प्रभवात् प्रयक्षानुमानाभ्याम्॥१।३।२७॥
Link copiedविरोध इति वर्तते। माभूत् कर्मणि विरोधः, शब्दे तु वैदिके विरोधः प्रसज्यते--- विग्रहवत्त्वे हि तेषां सावयवत्वेनोत्पत्ति-विनाश-योगाद् उत्पत्तेः प्राग्विनाशाद् ऊर्ध्वं च वैदिकानाम् इन्द्रादि-शब्दानाम् अर्थ-शून्यत्वम् अनित्यत्वं वा स्याद् इति चेत् तन् न, अतः प्रभवात् अतः--- वैदिकाद् एव शब्दाद् इन्द्रादेः प्रभवात्। पूर्व-पूर्वेन्द्रादौ विनष्टे वैदिकाद् इन्द्राद्याकृति-विशेष-वाचिनः शब्दाद् इन्द्राद्य्-आकृति-विशेषं स्मृत्वा तद्-आकारम् अपरम् इन्द्रादिकं सृजति प्रजापतिर् इति वैदिकस्य शब्दस्य न कश्चिद् विरोधः। न हि देवदत्तादि-शब्दवद् इन्द्रादि-शब्दा व्यक्ति-विशेषे सङ्केत-पूर्वकाः प्रवृत्ताः; अपि तु गवादि-शब्दवद् आकृति-विशेष-वाचिन इति तेषाम् अपि नित्य एव वाच्य-वाचक-भावः। वैदिकाद् इन्द्रादि-शब्दात् तद्-अर्थ-विशेषं स्मृत्वा कुलालादिर् इव घटादिकं प्रजापतिः सृजतीति कुतोऽवगम्यतें प्रत्यक्षानुमानाभ्यां--- श्रुति-स्मृतिभ्याम् इत्य् अर्थः। श्रुतिस् तावत् वेदेन रूपे व्याकरोत् सता सती प्रजापतिः, तथा स भूर् इति व्याहरत् स भूमिम् असृजत इत्य् आदिका। स्मृतिर् अपि सर्वेषां च स नामानि कर्माणि च पृथक् पृथक्। वेद-शब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे। नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम्। वेद-शब्देभ्य एवादौ देवादीनां चकार सः इत्य् आदिका॥२७॥
Link copied९३ अत एव च नित्यत्वम्॥१।३।२८॥
Link copiedयतः प्रजापतिः वैदिकाच् छब्दाद् अर्थाकारं स्मृत्वा तद्-आकारं सर्वं सृजति, अतश् च वसिष्ठ-विश्वामित्रादीनां मन्त्र-सूक्तादि-कृत्त्वेऽपि मन्त्रादि-मयस्य वेदस्य नित्यत्वं तिष्ठत्य् एव। प्रजापतिर् हि नैमित्तिक-प्रलयानन्तरं मन्त्र-कृतो वृणीते। विश्वामित्रस्य सूक्तं भवतीत्य् आदि वेद-शब्देभ्योऽनधीत-मन्त्रादि-दर्शन-शक्त-वसिष्ठाद्य्-आकृति-विशेषं स्मृत्वा, वसिष्ठत्वादि-पद-प्राप्तये अनुष्ठित-कर्म-विशेषांश् चानुस्मृत्य, तद्-आकार-विशेषान् तान् वसिष्ठादीन् सृजति; ते चानधीत्यैव वेदैक-देश-भूत-मन्त्रादीन् स्वरतो वर्णतश् चास्खलितान् पठन्ति। तद् एषां मन्त्रादि-कृत्वेऽपि वेद-नित्यत्वम् उपपद्यते॥२८॥
Link copiedप्रजापति-प्रभृतिषु सर्वेषु तत्त्वेष्व् अव्याकृत-पर्यन्तेषु अव्याकृत-परिणाम-रूपेषु शब्द-मयेषु वेदेषु च विनष्टेष्व् अव्याकृत-सृष्ट्य्-आवृत्तौ कथं वेदस्य नित्यत्वम् इत्यत आह---
Link copied९४ समान-नाम-रूपत्वाच् चावृत्ताव् अप्य् अविरोधो दर्शनात् स्मृतेश् च॥१।३।२९॥
Link copiedअव्याकृत-सृष्ट्य्-आवृत्ताव् अपि सृज्यानां समान-नाम-रूपत्वाद् एव न कश्चिद् विरोधः। आदि-सर्गेऽपि हि परम-पुरुषः पूर्व-संस्थानं जगत् स्मरन् तथैव सृजति, वेदांश् च पूर्वानुपूर्वी-विशिष्टान् आविष्कृत्य हिरण्यगर्भाय ददातीति। पूर्व-संस्थानम् एव जगत् सृजतीति कथम् अवगम्यते। दर्शनात् स्मृतेश् च। दर्शनं--- श्रुतिः। अहो-रात्राणि विदधद् विश्वस्य मिषतो वशी, सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत्, दिवं च पृथिवीं चान्तरिक्षम् अथो सुवर् इति, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै इति च, स्मृतिर् अपि--- यथर्तुष्व् ऋतु-लिङ्गानि नाना-रूपाणि पर्यये। दृश्यन्ते तानि तान्य् एव तथा भावा युगादिषु। इति। एतद् एव वेदस्य नित्यत्वं यत् पूर्व-पूर्वोच्चारण-क्रम-विशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम्। परम-पुरुषोऽपि स्वरूप-स्वाराधन-तत्-फल-याथात्म्यावबोधि-वेदं स्व-स्वरूपवन् नित्यम् एव पूर्वानुपूर्वी-विशिष्टं स्मृत्वा आविष्करोति। अतो देवादीनां ब्रह्म-विद्याधिकारे न कश्चिद् विरोधः॥२९॥इति देवताधिकरणम्॥७॥
Link copied१।३।८
Link copied९५ मध्व्-आदिष्व् असम्भवाद् अनधिकारं जैमिनिः॥१।३।३०॥
Link copiedछान्दोग्ये असौ वा आदित्यो देव-मधु इत्य् उपक्रम्य। तद् यत् प्रथमम् अमृतं तद्-वसव उपजीवन्ति इत्य् उक्त्वा, स य एतद् एवम् अमृतं वेद वसूनाम् एवैको भूत्वाग्निनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति इत्य् आदिना ऋग्-यजुः-सामादि-वेदोदित-कर्म सम्पाद्य रसाधारतया मधुम् अयस्याद् इत्य् अस्य पूर्व-दक्षिण-पश्चिमोत्तरोर्ध्वांशान् वसु-रुद्रादित्य-मरुत्-साध्य-नाम्नां देव-गणानां भोग्यत्वेनाभिधाय, तैर् भुज्यमानाकारेणादित्यांशानुपास्यान् उपदिश्य, तान् एवादित्यांशांस् तथा भूतान् प्राप्यान् उपदिशति। एवम् आदिषूपासनेषु वस्व्-आदित्यादीनाम् अधिकारोऽस्ति, नेति संशयः। नास्त्य् अधिकार इति पूर्वः पक्षः, वस्व्-आदीनाम् उपास्यान्तर्-गतत्वेन कर्म-कर्तृ-भाव-विरोधात्, प्राप्यस्य वसुत्वादेः प्राप्तत्वाच् च। राद्धान्तस् तु--- ब्रह्मण एव तद्-अवस्थस्योपास्यादीनां सतां स्वावस्थ-ब्रह्मानुसन्धानाविरोधात् कल्पान्तरे वसुत्वादेः प्राप्तत्वाविरोधाच् च वस्व्-आदीनाम् अधिकारः सम्भवतीति। सूत्रार्थस् तु मधु-विद्यादिषु वस्व्-आदीनाम् अनधिकारं जैमिनिर् मन्यते। असम्भवात्--- वस्व्-आदीनाम् एव उपास्यानाम् उपासकत्वासम्भवात्, वसुत्वादेः प्राप्तत्वाद् एव प्राप्यत्वासम्भवाच् च॥३०॥
Link copied९६ ज्योतिषि भावाच् च॥१।३।३१॥
Link copiedतं देवा ज्योतिषां ज्योतिर् आयुर् होपासतेऽमृतम् इति ज्योतिषि--- परस्मिन् ब्रह्मणि देव-मनुष्ययोर् अधिकार-साधारण्ये सत्य् अपि, ज्योतिषां ज्योतिः--- परं ब्रह्म देवा उपासते इति विशेष-वचनं वस्वादीनां कर्मकर्तृभावविरोधात्तेषु तेषामनधिकारं द्योतयति। देवा इति सामान्य-वचनं च वस्व्-आदि-विशेष-विषयम् इत्य् अवगम्यते, अन्येषाम् अविरोधात्॥३१॥
Link copied९७ भावं तु बादरायणोऽस्ति हि॥१।३।३२॥
Link copiedतु-शब्दः पक्षं व्यावर्तयति। वस्व्-आदीनां मधु-विद्यादिष्व् अधिकार-सद्-भावं भगवान् बादरायणो मन्यते। अस्ति हि वस्व्-आदीनाम् एवोपास्यत्वं प्राप्यत्वं च। इदानीं वसूनाम् एव सतां कल्पान्तरे वसुत्वस्य प्राप्यत्व-सम्भवात् प्राप्यत्वं सम्भवति। स्वात्मनां ब्रह्म-भावानुसन्धान-सम्भवाद् उपास्यत्वं च सम्भवति। य एताम् एवं ब्रह्मोपनिषदं वेद इति हि कृत्स्नाया मधु-विद्यायाः ब्रह्म-विद्यात्वम् अवगम्यते॥३२॥इति मध्व्-अधिकरणम्॥८॥
Link copied१।३।९
Link copied९८ शुग् अस्य तद्-अनादर-श्रवणात् तद्-आद्रवणात् सूच्यते हि॥१।३।३३॥
Link copiedब्रह्म-विद्यायां शूद्रस्याप्य् अधिकारोऽस्ति, नेति संशयः। अस्तीति पूर्वः पक्षः,--- अर्थित्व-सामर्थ्य-सम्भवात्। शूद्रस्यानग्नि-विद्यत्वेऽपि मनोवृत्ति-मात्रत्वात् उपासनस्य सम्भवति हि सामर्थ्यम्। ब्रह्म-स्वरूप-तद्-उपासन-प्रकार-ज्ञानं चेतिहास-पुराण-श्रवणाद् एव निष्पद्यते। अस्ति हि शूद्रस्यापीतिहास-पुराण-श्रवणानुज्ञा। श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रत इति। तथा तत्रैव विदुरादीनां ब्रह्म-निष्ठत्वं दृश्यते। उपनिषत्स्व् अपि। आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति शूद्र-शब्देनामन्त्र्य ब्रह्म-विद्योपदेश-दर्शनाच् छूद्रस्यापीहाधिकारः सूच्यते। राद्धान्तस् तु--- उपासनस्य मनोवृत्ति-मात्रत्वेऽप्य् अनधीत-वेदस्य शूद्रस्य उपासनोपाय-भूत-ज्ञानासम्भवात्, न सार्मथ्य-सम्भवः। कर्म-विधिवद् उपासना-विधयोऽपि त्रैवर्णिक-विषयाध्ययन-गृहीतस्वाध्यायोत्पन्न-ज्ञानम् एव उपासनोपायतया स्वीकुर्वते। इतिहासादयोऽपि स्वाध्याय-सिद्धम् एव ज्ञानम् उपबृंहयन्तीति ततोऽपि नास्य ज्ञान-लाभः। श्रवणानुज्ञा तु पाप-क्षयादि-फला। विदुरादीनां तु भवान्तर-वासनया ज्ञान-लाभाद् ब्रह्म-निष्ठत्वम्। शूद्रेत्य् आमन्त्रणम् अपि न चतुर्थ-वर्णत्वेन, अपि तु ब्रह्म-विद्या-वैकल्याच् छुग् अस्य सञ्जातेति। अतो न शूद्रस्याधिकारः। सूत्रार्थस् तु--- ब्रह्म-विद्या-वैकल्येन हंसोक्तानादर-वाक्य-श्रवणात् तदैवाचार्यं प्रत्य् आद्रवणाच् चाचार्येण तस्य शुश्रूषोर् विद्या-लाभ-कृता शुक् सूच्यते। हि-शब्दो हेतौ। यस्माद् अस्य शुक् सूच्यते, अतः शोचनाच् छूद्र इति कृत्वा, आचार्यो रैक्वो जानश्रुतिं शूद्रेत्य् आमन्त्रयते, न जाति-योगेनेत्य् अर्थः॥३३॥
Link copied९९ क्षत्रियत्व-गतेश् च॥१।३।३४॥
Link copiedअस्य शुश्रूषोः क्षत्रियत्वावगतेश् च न जाति-योगेन शूद्रेत्य् आमन्त्रणम्। प्रकरण-प्रक्रमे हि बहु-दायी इत्य् आदिना दान-पतित्व-बहुतर-पक्वान्न-दायित्व-क्षत्तृ-प्रेषण-बहु-ग्रामादि-प्रदानैर् अस्य जानश्रुतेः शुश्रूषोः क्षत्रियत्वं प्रतीतम्॥३४॥
Link copied१०० उत्तरत्र चैत्ररथेन लिङ्गात्॥१।३।३५॥
Link copiedउपरिष्टाच् चास्यां विद्यायां ब्राह्मण-क्षत्रिययोर् एवान्वयो दृश्यते। अथ ह शौनकं च कापेयम् अभिप्रतारिणं च इत्य् आदिना। अभिप्रतारी हि चैत्ररथः क्षत्रियः। अभिप्रतारिणश् चैत्ररथत्वं क्षत्रियत्वं च कापेय-साहचर्याल् लिङ्गाद् अवगम्यते। प्रकरणान्तरे हि कापेय-सहचारिणः चैत्ररथत्वं क्षत्रियत्वं चावगतम्। एतेन वै चैत्ररथं कापेया अयाजयन् इति, तस्माच् चैत्ररथो नामैकः क्षत्र-पतिर् अजायतेति च। अतोऽस्यां विद्यायाम् अन्वितो ब्राह्मणाद् इतरो जानश्रुतिर् अपि क्षत्रियो भवितुम् अर्हति॥३५॥
Link copied१०१ संस्कार-परामर्शात् तद्-अभावाभिलापाच् च॥१।३।३६॥
Link copiedविद्योपदेशे उप त्वा नेष्ये इत्य् उपनयन--- संस्कार-परामर्शात् शूद्रस्य तद्-अभाव-वचनाच् चानधिकारः। न शूद्रे पातकं किञ्चिन् न च संस्कारम् अर्हति। इति हि निषिध्यते॥३६॥
Link copied१०२ तद्-अभाव-निर्धारणे च प्रवृत्तेः॥१।३।३७॥
Link copiedनैतद् अब्राह्मणो विवक्तुम् अर्हति समिधं सौम्याहर इति शुश्रूषोर् जाबालेः शूद्रत्वाभाव-निश्चय एवोपदेशे प्रवृत्तेर् नाधिकारः॥३७॥
Link copied१०३ श्रवणाध्ययनार्थ-प्रतिषेधात्॥१।३।३८॥
Link copiedशूद्रस्य श्रवणाध्ययनादीनि हि प्रतिषिध्यन्ते। तस्माच् छूद्र-समीपे नाध्येतव्यम् इति। अनुपशृण्वतोऽध्ययनादिर् न सम्भवति॥३८॥
Link copied१०४ स्मृतेश् च॥१।३।३९॥
Link copiedस्मर्यते च शूद्रस्य वेद-श्रवणादौ दण्डः। अथ हास्य वेदम् उपशृण्वतः त्रपु-जतुभ्यां श्रोत्र-प्रतिपूरणम् उदाहरणे जिह्वाच्छेदो धारणे शरीर-भेद इति॥३९॥इत्य् अपशूद्राधिकरणम्॥९॥
Link copied[प्रमिताधिकरण-शेषः]
Link copiedप्रासङ्गिकं परिसमाप्य प्रकृतं परिसमापयति---
Link copied१०५ कम्पनात्॥१।३।४०॥
Link copiedअङ्गुष्ठ-प्रमित-प्रकरण-मध्ये। यद् इदं किं च जगत् सर्वं प्राण एजति निःसृतम्। महद् भयं वज्रम् उद्यतं भयाद् अस्याग्निस् तपति इत्य् आदौ प्राण-शब्द-निर्दिष्टाङ्गुष्ठ-प्रमित-जनित-भय-निमित्ताद् अग्नि-वायु-सूर्य-प्रभृति-कृत्स्न-जगत्-कम्पनात् श्रूयमाणाद् अङ्गुष्ठ-प्रमितः परमात्मैवेति निश्चीयते॥४०॥
Link copied१०६ ज्योतिर्-दर्शनात्॥१।३।४१॥
Link copiedअस्मिन्न् एव प्रकरणे तत्-सम्बन्धितया न तत्र सूर्यो भाति इत्य् आरभ्य तस्य भासा सर्वम् इदं विभाति इति सर्वेषां छादकस्यानवधिकातिशयस्य भाः-शब्दाभिहितस्य ब्रह्म-भूतस्य परस्य ज्योतिषो दर्शनाच् च अङ्गुष्ठ-प्रमितः परमात्मा॥४१॥इति प्रमिताधिकरण-शेषः॥
Link copied१।३।१०
Link copied१०७ आकाशोऽर्थान्तरत्वादि-व्यपदेशात्॥१।३।४२॥
Link copiedछान्दोग्ये आकाशो ह वै नाम-रूपयोर् निर्वहिता ते यद् अन्तरा तद् ब्रह्म तद् अमृतं स आत्मा इत्य् अत्राकाश-शब्द-निर्दिष्टः किं मुक्तात्मा, उत परमात्मेति संशयः। मुक्त इति पूर्वः पक्षः। धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्म-लोकम् अभिसम्भवामि इति मुक्तस्यानन्तर-प्रकृतत्वात्। राद्धान्तस् तु--- नाम-रूपयोर् निर्वहिता ते यद् अन्तरा इति स्वयम् अस्पृष्ट-नाम-रूपतया नाम-रूपयोर् निर्वोढृत्वेन श्रूयमाणोऽयम् आकाशो बद्ध-मुक्तोभयावस्थात् प्रत्यग्-आत्मनः अर्थान्तरत्वात् परमात्मैव।
Link copiedसूत्रार्थस् तु--- आकाशः परमात्मा, तस्य नाम-रूपयोर् निर्वोढृत्व-तद्-अस्पर्श-लक्षणार्थान्तरत्व-व्यपदेशात्। प्रत्यग्-आत्मनो ह्य् अर्थान्तर-भूत एव नाम-रूपयोर् निर्वोढा। बद्धावस्थस्तावन् नाम-रूपाभ्यां स्पृष्टस् तत्-परवशश् चेति न निर्वोढा; मुक्तस्यापि जगद्-व्यापारर-हितत्वान् न निर्वोढृत्वम्। आदि-शब्देन निरुपाधिक-ब्रह्मत्वामृतत्वात्मत्वादीनि गृह्यन्ते। तानि निरुपाधिकानि मुक्तस्यापि न सम्भवन्ति॥४२॥
Link copiedननु तत् त्वम् अस्यादिनैक्य-व्यपदेशात्, नेह नानास्तीति भेद-प्रतिषेधाच् च न प्रत्यग्-आत्मनोऽर्थान्तर-भूतः परमात्मेत्य् आशङ्क्याह---
Link copied१०८ सुषुप्त्य्-उत्क्रान्त्योर् भेदेन॥१।३।४३॥
Link copiedव्यपदेशाद् इति वर्तते। प्राज्ञेनात्मना सम्परिष्वक्तः, प्राज्ञेनात्मनान्वारूढः इति सुषुप्त्य्-उत्क्रान्त्योर् लुप्त-सकल-विशेष-विज्ञानात् प्रत्यग्-आत्मनस् तदानीम् एव सर्वज्ञतया भेद-व्यपदेशात् प्रत्यग्-आत्मनोऽर्थान्तर-भूत एव परमात्मा॥४३॥
Link copied१०९ पत्य्-आदि-शब्देभ्यः॥१।३।४४॥
Link copiedपरिष्वञ्जके प्राज्ञे श्रूयमाणेभ्यः पत्य्-आदि-शब्देभ्यश् चायं प्रत्यग्-आत्मनोऽर्थान्तर-भूतः परमात्मा, सर्वस्याधिपतिः सर्वस्य वशी सर्वस्येशानः इत्य् आदौ। ऐक्योपदेश---भेद-प्रतिषेधौ तु ब्रह्म-कार्यत्व-निबन्धनाव् इति। तज् जलान् इति, सर्वं खल्व् इदं ब्रह्म इत्य् आदि श्रुतिभिर् एव व्यक्तौ॥४४॥इत्य् अर्थान्तरत्वादि-व्यपदेशाधिकरणम्॥१०॥
Link copiedइति श्री-रामानुजाचार्य-रचिते श्री-वेदान्तदीपे प्रथमस्याध्यायस्य तृतीयः पादः
Link copied౧।౩।౧
Link copied౬౬ ద్యు-భ్వ్-ఆద్య్-ఆయతనం స్వ-శబ్దాత్॥౧।౩।౧॥
Link copiedఆథర్వణే యస్మిన్ ద్యౌః పృథివీ చాన్తరిక్షమ్ ఓతం మనః సహ ప్రాణైశ్ చ సర్వైస్ తమ్ ఏవైకం జానథాత్మానమ్ అన్యా వాచో విముఞ్చథ అమృతస్యైష సేతుః ఇత్య్ అత్ర ద్యు-పృథివ్య్-ఆదీనామ్ ఆయతనం కిం జీవః, ఉత పరమాత్మేతి సంశయః। జీవ ఇతి పూర్వః పక్షః, మనః ప్రభృతీన్ద్రియాధారత్వ-శ్రుతేః, ఉత్తరత్ర నాడీ-సమ్బన్ధాత్, జాయమానత్వ-శ్రుతేశ్ చ। రాద్ధాన్తస్ తు నిరుపాధికాత్మత్వామృత-సేతుత్వయోః పరమాత్మ-ధర్మయోః శ్రవణాత్ పరమాత్మైవాయమ్। సర్వం నియన్తృతయా ఆప్నోతీతి హ్య్ ఆత్మా। అమృతస్య ప్రాపకతయా సేతుశ్ చ స ఏవ। నాడీ-సమ్బన్ధః, బహుధా జాయమానత్వం చ। సన్తతం సిరాభిస్ తు లమ్బత్యాకోశ-సన్నిభమ్, అజాయమానో బహుధా విజాయతే ఇత్య్ ఆదిషు సర్వ-సమాశ్రయణీయత్వాయ అజహత్-స్వభావస్యైవ పరమాత్మనోఽపి దృశ్యత ఇతి। సూత్రార్థస్ తు--- ద్యు-పృథివ్య్-ఆదీనామ్ ఆయతనం పరమాత్మా, స్వ-శబ్దాత్॥౧॥
Link copied౬౭ ముక్తోపసృప్య వ్యపదేశాచ్ చ॥౧।౩।౨॥
Link copiedతదా విద్వాన్ పుణ్య-పాపే విధూయ నిరఞ్జనః పరమం సామ్యమ్ ఉపైతి। తథా విద్వాన్ నామ-రూపాద్ విముక్తః పరాత్పరం పురుషమ్ ఉపైతి దివ్యమ్ ఇతి చ బన్ధాన్ ముక్తస్య ప్రాప్యతయా వ్యపదేశాచ్ చాయం పరమాత్మా॥౨॥
Link copied౬౮ నానుమానమ్ అతచ్-ఛబ్దాత్ ప్రాణ-భృచ్ చ॥౧।౩।౩॥
Link copiedఆనుమానమ్--- అనుమాన-గమ్యం ప్రధానమ్। యథా తద్-వాచి-శబ్దాభావాత్ తద్ ఇహ న గృహ్యతే। తథా ప్రాణ-భృద్ అపీత్య్ అర్థః। అతశ్ చాయం పరమాత్మా॥౩॥
Link copied౬౯ భేద-వ్యపదేశాత్॥౧।౩।౪॥
Link copiedఅనీశయా శోచతి ముహ్యమానః। జుష్టం యదా పశ్యత్య్ అన్యమ్ ఈశమ్ ఇత్య్ ఆదినా జీవాద్ భేదేన వ్యపదేశాచ్ చాయం పరమాత్మా॥౪॥
Link copied౭౦ ప్రకరణాత్॥౧।౩।౫॥
Link copiedఅథ పరా యయా తద్ అక్షరమ్ అధిగమ్యత ఇత్య్ ఆదినా పరమాత్మన ఏవ ప్రకృతత్వాత్॥౫॥
Link copied౭౧ స్థిత్య్-అదనాభ్యాం చ॥౧।౩।౬॥
Link copiedతయోర్ అన్యః పిప్పలం స్వాద్వ్ అత్త్య్ అనశ్నన్న్ అన్యో అభిచాకశీతి ఇతి కర్మ-ఫలమ్ అనశ్నతః పరమాత్మనో దీప్యమానతయా స్థితేః, జీవస్య కర్మ-పరవశతయా తత్-ఫలాదనాచ్ చ పరమాత్మనో జీవాద్ భేదావగమాద్ అమృత-సేతుర్ ద్యు-భ్వ్-ఆద్య్-ఆయతనం న జీవః। అదృశ్యత్వాది-గుణక ఇత్య్ అనేన పరమాత్మత్వే స్థాపితేఽపి, నాడీ-సమ్బన్ధ-బహుధా-జాయమానత్వ-లిఙ్గాత్, యావాన్తర-ప్రకరణ-విచ్ఛేదాశఙ్కా, సా నిరాకృతా--- ద్యు-భ్వ్-ఆద్య్-ఆయతనమ్ ఇతి। వైశ్వానరస్య త్రైలోక్య-శరీరత్వాదినా పరమాత్మత్వ-నిర్ణయ ఇతి మధ్యే వైశ్వానర-విద్యా నిరూపితా॥౬॥ఇతి ద్యు-భ్వ్-ఆద్య్-అధికరణమ్॥౧॥
Link copied౧।౩।౨
Link copied౭౨ భూమా సమ్ప్రసాదాద్ అధ్యుపదేశాత్॥౧।౩।౭॥
Link copiedఛాన్దోగ్యే యత్ర నాన్యత్ పశ్యతి నాన్యచ్ ఛృణోతి నాన్యద్ విజానాతి స భూమా ఇత్య్ అత్ర భూమ-శబ్ద-నిర్దిష్టో నిరతిశయ-వైపుల్య-విశిష్ట-సుఖ-స్వరూపః కిం ప్రత్యగ్-ఆత్మా, ఉత పరమాత్మేతి సంశయః। ప్రత్యగ్-ఆత్మేతి పూర్వః పక్షః। తరతి శోకమ్ ఆత్మవిత్ ఇతి ప్రక్రమ్య నామాది-పరమ్పరయోత్తరోత్తర-భూయస్త్వేన ప్రశ్న-ప్రతివచనాభ్యాం ప్రవృత్తస్యాత్మోపదేశస్య ప్రాణ-శబ్ద-నిర్దిష్టే ప్రత్యగ్-ఆత్మని సమాప్తి-దర్శనాత్, ప్రత్యగ్-ఆత్మన ఏవ భూమ-సంశబ్దనమ్ ఇతి నిశ్చీయతే। రాద్ధాన్తస్ తు--- యద్య్ అపి ప్రశ్న-ప్రతివచనాభ్యామ్ ఉత్తరోత్తరభూయస్త్వ-వచనం ప్రాణే పర్యవస్థితం తథాపి ప్రాణ-వేదినోఽతివాదిత్వమ్ ఉక్త్వా, ఏష తు వా అతివదతి యః సత్యేనాతివదతీతి తు-శబ్దేనోపాసక-భేదం ప్రతిపాద్య, తస్య సత్యోపాసకస్య పూర్వస్మాద్ ఆధిక్యోపదేశాత్, సత్య-శబ్దాభిధేయం పరం బ్రహ్మైవ భూమ-విశిష్టమ్ ఇతి। సూత్రార్థస్ తు భూమ-గుణ-విశిష్టం పరం బ్రహ్మైవ, సమ్ప్రసాదాద్ అధ్యుపదేశాత్--- సమ్ప్రసాదః--- ప్రత్యగ్-ఆత్మా, ఏష సమ్ప్రసాదోఽస్మాచ్ ఛరీరాత్ సముత్థాయ పరం జ్యోతిర్ ఉపసమ్పద్య ఇత్య్ ఆద్య్ ఉపనిషత్-ప్రసిద్ధేః। ఏష తు వా అతివదతి ఇతి ప్రత్యగ్-ఆత్మనోఽధికతయోపదేశాత్। అతివాదిత్వం హి స్వోపాస్యాధిక్య-వాదిత్వమ్॥౭॥
Link copied౭౩ ధర్మోపపత్తేశ్ చ॥౧।౩।౮॥
Link copiedస్వాభావికామృతత్వ-స్వ-మహిమ-ప్రతిష్ఠితత్వ-సర్వాత్మత్వ-సర్వోత్పత్తి-హేతుత్వాదీనాం భూమ్ని శ్రూయమాణానాం ధర్మాణాం పరస్మిన్న్ ఏవ బ్రహ్మణ్య్ ఉపపత్తేశ్ చ భూమా పరం బ్రహ్మైవ॥౮॥ఇతి భూమాధికరణమ్॥౨॥
Link copied౧।౩।౩
Link copied౭౪ అక్షరమ్ అమ్బరాన్త-ధృతేః॥౧।౩।౯॥
Link copiedవాజినాం గార్గి-ప్రశ్నే। స హోవాచైతద్ వై తద్ అక్షరం గార్గి బ్రాహ్మణా అభివదన్త్య్ అస్థూలమ్ అనణ్వ్ అహ్రస్వమ్ అదీర్ఘమ్ అలోహితమ్ అస్నేహమ్ అచ్ఛాయమ్ ఇత్య్ అత్రాక్షర-శబ్ద-నిర్దిష్టం ప్రధానం జీవో వా, ఉత పరమాత్మా ఇతి సంశయః। ప్రధానం జీవో వా, న పరమాత్మేతి పూర్వః పక్షః। కస్మిన్ ను ఖల్వ్ ఆకాశ ఓతశ్ చ ప్రోతశ్ చ ఇత్య్ ఉక్తే ఆకాశాధారతయోచ్యమానమ్ అక్షరం ప్రధానమ్, జీవో వా, ప్రధానస్య వికారాధారత్వాజ్ జీవస్యాచిద్-వస్త్వ్-ఆధారత్వాన్ న పరమాత్మేతి। రాద్ధన్తస్ తు--- యద్ ఊర్ధ్వం గార్గి దివ ఇత్య్ ఆరభ్య, కాల-త్రయ-వర్తినః కృత్స్నస్యాధారతయా నిర్దిష్ట ఆకాశోఽవ్యాకృతమ్ ఏవ, న వాయుమానాకాశః। తతః పశ్చాత్ కస్మిన్ ను ఖల్వ్ ఆకాశ ఓతశ్ చ ప్రోతశ్ చ ఇతి పృష్టే తద్-ఆధారతయోచ్యమానమ్ ఏతద్ అక్షరం న ప్రధానం భవితుమ్ అర్హతి। నాపి జీవః। ఏతస్య వా అక్షరస్య ప్రశాసనే గార్గి సూర్యాచన్ద్రమసౌ విధృతౌ తిష్ఠత ఇత్య్ ఆరభ్య ప్రశాసనాత్ సర్వాధారత్వ-శ్రుతేః। సూత్రార్థస్ తు--- ఏతద్ వై తద్ అక్షరం గార్గి ఇతి నిర్దిష్టమ్ అక్షరం పరమాత్మా, అమ్బరాన్త-ధృతేః--- అమ్బరం--- వాయుమానాకాశః, అమ్బరాన్తః--- అమ్బర-పారభూతమ్, అమ్బర-కారణమ్ ఇతి యావత్; కారణాపత్తిర్ ఏవ హి కార్యస్యాన్తః। స చామ్బరాన్తః అవ్యాకృతం ప్రధానమ్, తస్య ధృతేః--- ధారణాత్। అవ్యాకృతస్యాపి ధృతేర్ అక్షరం పరమాత్మైవేత్య్ అర్థః॥౯॥
Link copiedఏవం తర్హి జీవో భవితుమ్ అర్హతి, తస్య ప్రధాన-ధృత్య్-ఉపపత్తేర్ ఇత్య్ ఆశఙ్క్యాహ---
Link copied౭౫ సా చ ప్రశాసనాత్॥౧।౩।౧౦॥
Link copiedసా చ అమ్బరాన్త-ధృతిః। ఏతస్య వా అక్షరస్య ప్రశాసనే గార్గి సూర్యాచన్ద్రమసౌ ఇతి ప్రశాసనాచ్ ఛ్రూయతే। ప్రశాసనమ్--- ప్రకృష్టం శాసనమ్, అప్రతిహతాజ్ఞా। న చాప్రతిహతాజ్ఞయా కృత్స్నస్య చిద్-అచిద్-ఆత్మకస్య జగతో ధృతిర్ జీవే ఉపపద్యతే; అతో న జీవః॥౧౦॥
Link copied౭౬ అన్య-భావ-వ్యావృత్తేశ్ చ॥౧।౩।౧౧॥
Link copiedఅన్య-భావః--- అన్యత్వమ్। అస్యాక్షరస్య పరమ-పురుషాద్ అన్యత్వం వ్యావర్తయతి వాక్య-శేషః। అదృష్టం ద్రష్టృ ఇత్య్ ఆదినా సర్వైర్ అదృష్టమ్ ఏతద్ అక్షరం సర్వస్య ద్రష్ట్రిత్య్ ఆది ప్రధాన-జీవాసమ్భావనీయార్థ-ప్రతిపాదనాత్॥౧౧॥ఇత్య్ అక్షరాధికరణమ్॥౩॥
Link copied౧।౩।౪
Link copied౭౭ ఈక్షతి-కర్మ-వ్యపదేశాత్ సః॥౧।౩।౧౨॥
Link copiedఆథర్వణికానాం సత్య-కామ-ప్రశ్నే యః పునర్ ఏతం త్రి-మాత్రేణౌమ్ ఇత్య్ అనేనైవాక్షరేణ పరం పురుషమ్ అభిధ్యాయీత ఇత్య్ ఆరభ్య। స సామభిర్ ఉన్నీయతే బ్రహ్మ-లోకం, స ఏతస్మాజ్ జీవ-ఘనాత్ పరాత్పరం పురిశయం పురుషమ్ ఈక్షత ఇత్య్ అత్ర, ధ్యాయతీక్షతి-కర్మతయా వ్యపదిష్టః పరమ-పురుషః కిం హిరణ్యగర్భః, ఉత పరబ్రహ్మ-భూతః పురుషోత్తమ ఇతి సంశయః। హిరణ్యగర్భ ఇతి పూర్వః పక్షః। పూర్వత్రైక-మాత్రం ప్రణవమ్ ఉపాసీనస్య మనుష్య-లోక-ప్రాప్తిం ఫలం, ద్వి-మాత్రమ్ ఉపాసీనస్యాన్తరిక్ష-లోక-ప్రాప్తిం చ ఫలమ్ అభిధాయానన్తరం యః పునర్ ఏతం త్రి-మాత్రేణ ఇతి త్రి-మాత్రం ప్రణవమ్ ఉపాసీనస్య ఫలత్వేనోచ్యమాన-బ్రహ్మ-లోక-స్థ-పురుషేక్షణ-కర్మ-భూతశ్ చతుర్ముఖ ఏవేతి విజ్ఞాయతే, మనుష్య-లోకాన్తరిక్ష-లోక-సాహచర్యాత్ బ్రహ్మ-లోకోఽపి క్షేత్రజ్ఞ-లోక ఇతి నిశ్చయాత్।
Link copiedరాద్ధాన్తస్ తు--- పరాత్పరం పురిశయం పురుషమ్ ఈక్షతే ఇతీక్షతి-కర్మతయా నిర్దిష్ట-పురుష-విషయే శ్లోకే। తమ్ ఓఙ్కారేణైవాయతనేనాన్వేతి విద్వాన్ యత్ తచ్ ఛాన్తమ్ అజరమ్ అమృతమ్ అభయం పరం చ ఇతి నిరుపాధిక-శాన్తత్వామృతత్వాది-వ్యపదేశాత్ పరమాత్మైవాయమ్ ఇతి నిశ్చీయతే। ఏవం పరమాత్మత్వే నిశ్చితే బ్రహ్మ-లోక-శబ్దశ్ చ తత్-స్థానమ్ ఏవాభిదధాతి ఇత్య్ అవగమ్యతే। తద్ విషయతయోదాహృతే చ శ్లోకే యత్ తత్ కవయో వేదయన్తే। తద్ విష్ణోః పరమం పదం సదా పశ్యన్తి సూరయః। ఇత్య్ ఏవమ్ ఆదిభిః సూరిభిర్ దృశ్యత్వ-వచనం తద్ ఏవ ద్రఢయతి। సూత్రార్థస్ తు--- ఈక్షతి-కర్మ సః--- పరమాత్మా, ధ్యాయతీక్షత్యోర్ ఏక-విషయత్వేన ధ్యాయతి-కర్మాపి స ఏవేత్య్ అర్థః, వ్యపదేశాత్--- తద్-విషయకతయా శాన్తమ్ అజరమ్ అమృతమ్ అభయం పరం చేతి పరమాత్మ-ధర్మాణాం వ్యపదేశాత్॥౧౨॥ఇతి ఈక్షతి-కర్మాధికరణమ్॥౪॥
Link copied౧।౩।౫
Link copied౭౮ దహర ఉత్తరేభ్యః॥౧।౩।౧౩॥
Link copiedఛాన్దోగ్యే అథ యద్ ఇదమ్ అస్మిన్ బ్రహ్మ-పురే దహరం పుణ్డరీకం వేశ్మ దహరోఽస్మిన్ అన్తరాకాశస్ తస్మిన్ యద్ అన్తస్ తద్ అన్వేష్టవ్యం తద్ వావ విజిజ్ఞాసితవ్యమ్ ఇత్య్ అత్ర హృదయ-పుణ్డరీక-మధ్య-వర్తీ దహరాకాశః శ్రూయమాణః కిం భూతాకాశః, ఉత జీవః, అథ పరమాత్మేతి సంశయః। ప్రథమం తావద్ భూతాకాశ ఇతి యుక్తమ్ ఆశ్రయితుమ్ ఇతి పూర్వ-పక్షః, ఆకాశ-శబ్దస్య భూతాకాశే ప్రసిద్ధి-ప్రాచుర్యాత్ ఆకాశాన్తర్-వర్తినోఽన్యస్య అన్వేష్టవ్యతా-ప్రతీతేశ్ చ। రాద్ధాన్తస్ తు--- కిం తద్ అత్ర విద్యతే యద్ అన్వేష్టవ్యమ్ ఇతి చోదితే యావాన్ వా అయమ్ ఆకాశః ఇత్య్ ఆరభ్య ఏతత్ సత్యం బ్రహ్మ-పురమ్ ఇత్య్ అన్తేన దహరాకాశస్యాతిమహత్త్వ-సర్వాశ్రయత్వాజరత్వ-సత్యత్వాద్య్ అభిధాయ అస్మిన్ కామాః సమాహితా ఇత్య్ ఆకాశాన్తర్-వర్తినోఽన్వేష్టవ్యాః కామా ఇతి ప్రతిపాద్య, కోఽయం దహరాకాశ-శబ్ద-నిర్దిష్టకే తద్-ఆశ్రయాః కామా ఇత్య్ అపేక్షాయామ్ ఏష ఆత్మాపహత-పాప్మా ఇత్య్ ఆరభ్య, సత్య-సఙ్కల్పః ఇత్య్ అన్తేన ఆకాశ-శబ్ద-నిర్దిష్టః ఆత్మా, కామాశ్ చాపహత-పాప్మత్వాదయస్ తద్-విశేషణ-భూతా ఇతి ప్రతిపాదయద్ వాక్యమ్ అపహత-పాప్మత్వాది-విశిష్ట-పరమాత్మానమ్ ఆహ। ఉపక్రమే చాన్వేష్టవ్యతయా ప్రతిజ్ఞాతః ఆకాశః ఆత్మా, ఏతద్-విశేషణ-భూతాః అపహత-పాప్మత్వాదయః కామా ఇతి వాక్యం జ్ఞాపయద్ అథ య ఇహాత్మానమ్ అనువిద్య వ్రజన్త్య్ ఏతాంశ్ చ సత్యాన్ కామాన్ తేషాం సర్వేషు లోకేషు కామ-చారో భవతి ఇత్య్ ఉపసంహరతి। అతోఽయం దహరాకాశః అపహత-పాప్మత్వాది-విశిష్టః పరమాత్మేతి నిశ్చీయతే, న భూతాకాశాదిర్ ఇతి। ఏవం తర్హ్య్ అస్మిన్ వాక్యే, అథ య ఏష సమ్ప్రసాదోఽస్మాచ్ ఛరీరాత్ సముత్థాయ ఇతి ప్రత్యగ్-ఆత్మ-ప్రతీతేః, తస్య చోత్తరత్ర ప్రజాపతి-వాక్యే అపహత-పాప్మత్వాది-గుణకత్వావగమాత్ ప్రత్యగ్-ఆత్మైవ దహరాకాశ ఇతి పూర్వ-పక్షీ మన్యతే। రాద్ధాన్తీ తు ప్రత్యగ్-ఆత్మా కర్మ-పరవశతయా జాగరిత-స్వప్న-సుషుప్త్య్-ఆద్య్-అవస్థాభిః తిరోహితాపహత-పాప్మత్వాదికః పరమాత్మానమ్ ఉపసమ్పన్నః తత్-ప్రసాదాద్ ఆవిర్భూత-గుణకః ప్రజాపతి-వాక్యే ప్రతిపాదితః। దహరాకాశస్ త్వ్ అతిరోహిత-నిరుపాధికాపహత-పాప్మత్వాదికః ప్రత్యగ్-ఆత్మన్య్ అసమ్భావనీయ-జగద్-విధరణ-సమస్త-చిద్-అచిద్-వస్తు-నియమనాద్య్-అనన్త-గుణకః ప్రతిపన్న ఇతి నాయం ప్రత్యగ్-ఆత్మా దహరాకాశః, అపి తు పరమాత్మైవేతి మన్యతే। సూత్రార్థస్ తు--- దహరాకాశః పరం బ్రహ్మ, ఉత్తరేభ్యః--- ఉత్తర-వాక్య-గతేభ్యః అపహత-పాప్మత్వాది-పరమాత్మాసాధారణ-ధర్మేభ్యో హేతుభ్యః॥౧౩॥
Link copied౭౯ గతి-శబ్దాభ్యాం తథా హి దృష్టం లిఙ్గం చ॥౧।౩।౧౪॥
Link copiedఅస్మిన్ దహరాకాశే సర్వాసాం ప్రజానామ్ అజానతీనామ్ అహర్ అహర్ యా గతిః శ్రూయతే, యశ్ చ దహరాకాశావమర్శ-రూపైతచ్-ఛబ్ద-సమానాధికరణతయా ప్రయుక్తో బ్రహ్మ-లోక-శబ్దః, తాభ్యాం దహరాకాశః పరం బ్రహ్మేత్య్ అవగమ్యతే। తద్ యథా హిరణ్య-నిధిం నిహితమ్ అక్షేత్రజ్ఞా ఉపర్య్ ఉపరి సఞ్చరన్తో న విన్దేయుర్ ఏవమ్ ఏవేమాః సర్వాః ప్రజా అహర్ అహర్ గచ్ఛన్త్య ఏతం బ్రహ్మ-లోకం న విన్దన్త్య్ అనృతేన హి ప్రత్యూఢాః ఇతి। తథా హి దృష్టమ్--- తథా హ్య్ అన్యత్ర పరస్మిన్ బ్రహ్మణ్య్ ఏవం రూపం గమనం దృష్టమ్--- ఏవమ్ ఏవ ఖలు సోమ్యేమాః సర్వాః ప్రజాః సతి సమ్పద్య న విదుః సతి సమ్పత్స్యామహ ఇతి। తథా బ్రహ్మ-లోక-శబ్దశ్ చ పరస్మిన్ బ్రహ్మణ్య్ ఏవ దృష్టః--- ఏష బ్రహ్మ-లోకః సమ్రాడితి హోవాచ ఇతి లిఙ్గం చ--- మా భూద్ అన్యత్ర దర్శనమ్, అస్మిన్ ప్రకరణే సర్వాసాం ప్రజానాం శ్రూయమాణమ్ అహర్ అహర్ గమనం, బ్రహ్మ-లోక-శబ్దశ్ చ దహరాకాశస్య పరమాత్మత్వే పర్యాప్తం లిఙ్గమ్। చ-శబ్దోఽవధారణే। ఏతద్ ఏవ పర్యాప్తమ్ ఇత్య్ అర్థః॥౧౪॥
Link copied౮౦ ధృతేశ్ చ మహిమ్నోఽస్యాస్మిన్న్ ఉపలబ్ధేః॥౧।౩।౧౫॥
Link copiedఅస్య ధృత్య్-ఆఖ్యస్య పరమాత్మనో మహిమ్నోఽస్మిన్ దహరాకాశే ఉపలబ్ధేర్ అయం పరమాత్మా। ధృతిః--- జగద్-విధరణం పరమాత్మనో మహిమేత్య్ అన్యత్రావగమ్యతే। ఏష సర్వేశ్వర ఏష భూతాధిపతిర్ ఏష భూత-పాల ఏష సేతుర్ విధరణ ఏషాం లోకానామ్ అసమ్భేదాయ ఇతి। సా చ అస్మిన్ దహరాకాశ ఉపలభ్యతే। అథ య ఆత్మా స సేతుర్ విధృతిర్ ఏషాం లోకానామ్ అసమ్భేదాయ ఇతి॥౧౫॥
Link copied౮౧ ప్రసిద్ధేశ్ చ॥౧।౩।౧౬॥
Link copiedకో హ్య్ ఏవాన్యాత్ కః ప్రాణ్యాత్ యద్ ఏష ఆకాశ ఆనన్దో న స్యాత్, సర్వాణి హ వా ఇమాని భూతాన్య్ ఆకాశాద్ ఏవ సముత్పద్యన్తే ఇత్య్ ఆదిష్వ్ ఆకాశ-శబ్దస్య పరస్మిన్ బ్రహ్మణి ప్రసిద్ధేర్ ఆకాశ-శబ్ద ఏవ పరమాత్మ-ధర్మ-విశేషితో భూతాకాశ-శఙ్కాం నివర్తయతీత్య్ అర్థః॥౧౬॥
Link copied౮౨ ఇతర పరామర్శాత్ స ఇతి చేన్ నాసమ్భవాత్॥౧।౩।౧౭॥
Link copiedపరమాత్మన ఇతరః జీవః; అథ య ఏష సమ్ప్రసాదోఽస్మాచ్ ఛరీరాత్ సముత్థాయ ఇతి జీవస్య పరామర్శాత్ స ఏవ దహరాకాశ ఇతి చేత్ తన్ న, పూర్వోక్తానాం గుణానాం తస్మిన్న్ అసమ్భవాత్॥౧౭॥
Link copied౮౩ ఉత్తరాచ్ చేద్ ఆవిర్భూత-స్వరూపస్ తు॥౧।౩।౧౮॥
Link copiedఉత్తరాత్--- ప్రజాపతి-వాక్యాద్ అపహత-పాప్మత్వాది-గుణకో జీవోఽవగమ్యత ఇతి చేత్ తన్ న; జాగరితాద్య్-అవస్థాభిర్ అనాది-కాల-ప్రవృత్తాభిః పుణ్య-పాప-రూప-కర్మ-మూలాభిస్ తిరోహిత-గుణకః పరబ్రహ్మోపాసన-జనిత-తద్-ఉపసమ్పత్త్యా ఆవిర్భూత-స్వరూపోఽసౌ జీవస్ తత్ర ప్రజాపతివాక్యేఽపహత--- పాప్మత్వాదిగుణకః కీర్తితః। దహరాకాశస్త్వతిరోహితస్వరూపః అపహత-పాప్మత్వాది-గుణక ఇత్య్ అస్మిన్ దహరాకాశే న జీవ-శఙ్కా॥౧౮॥
Link copiedదహర-వాక్యే జీవ-పరామర్శః కిమ్ అర్థమ్ ఇతి చేత్, తత్రాహ---
Link copied౮౪ అన్యార్థశ్ చ పరామర్శః॥౧।౩।౧౯॥
Link copiedఅస్మాచ్ ఛరీరాత్ సముత్థాయ పరం జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యత ఇతి పరఞ్జ్యోతిః-స్వరూప-దహరాకాశోపసమ్పత్త్యాస్య జీవస్యానృత-తిరోహిత-స్వరూపస్య స్వరూపావిర్భావో భవతీతి దహరాకాశస్య జగద్-విధరణాదివజ్ జీవ-స్వరూపావిర్భావాపాదన-రూప-సమ్పద్-విశేష-ప్రతిపాదనార్థో జీవ-పరామర్శః॥౧౯॥
Link copied౮౫ అల్ప-శ్రుతేర్ ఇతి చేత్ తద్ ఉక్తమ్॥౧।౩।౨౦॥
Link copiedదహరోఽస్మిన్న్ ఇత్య్ అల్ప-పరిమాణ-శ్రుతిర్ ఆరాగ్రోపమితస్య జీవస్యైవోపపద్యతే, న తు సర్వస్మాజ్ జ్యాయసో బ్రహ్మణ ఇతి చేత్, తత్ర యద్ ఉత్తరం వక్తవ్యమ్, తత్ పూర్వమ్ ఏవోక్తమ్। నిచాయ్యత్వాద్ ఇత్య్ అనేన॥౨౦॥
Link copied౮౬ అనుకృతేస్తస్య చ॥౧।౩।౨౧॥
Link copiedఅనుకృతిః--- అనుకారః; తస్య పరమాత్మనోఽనుకారాద్ ధి జీవస్యావిర్భూత-స్వరూపస్యాపహత-పాప్మత్వాది-గుణకత్వమ్। అతోఽనుకర్తుః జీవాద్ అనుకార్యః పరబ్రహ్మ-భూతో దహరాకాశః అర్థాన్తర-భూత ఏవ। తద్-అనుకారశ్ చ తత్-సామ్యాపత్తిః శ్రూయతే యదా పశ్యః పశ్యతే రుక్మ-వర్ణం కర్తారమ్ ఈశం పురుషం బ్రహ్మ-యోనిమ్। తదా విద్వాన్ పుణ్య-పాపే విధూయ నిరఞ్జనః పరమం సామ్యమ్ ఉపైతి ఇతి॥౨౧॥
Link copied౮౭ అపి స్మర్యతే॥౧।౩।౨౨॥
Link copiedస్మర్యతే చ తద్-ఉపాసనాత్ తత్-సామ్యాపత్తి-రూపానుకృతిర్ జీవస్య, ఇదం జ్ఞానమ్ ఉపాశ్రిత్య మమ సాధర్మ్యమ్ ఆగతాః। సర్గేఽపి నోపజాయన్తే ప్రలయే న వ్యథన్తి చ ఇతి॥౨౨॥ఇతి దహరాధికరణమ్॥౫॥
Link copied౧।౩।౬
Link copied౮౮ శబ్దాద్ ఏవ ప్రమితః॥౧।౩।౨౩॥
Link copiedకఠవల్లీష్వ్ ఆమ్నాయతే। అఙ్గుష్ఠ-మాత్రః పురుషో మధ్య ఆత్మని తిష్ఠతి। ఈశానో భూత-భవ్యస్య న తతో విజుగుప్సతే। ఏతద్ వైతత్। ఉత్తరత్ర చ అఙ్గుష్ఠ-మాత్రః పురుషో జ్యోతిర్ ఇవాధూమకః। తథోపరిష్టాద్ అఙ్గుష్ఠ-మాత్రః పురుషోఽన్తర్-ఆత్మా సదా జనానాం హృదయే సన్నివిష్టః ఇతి। అత్రాఙ్గుష్ఠ-ప్రమితో జీవాత్మా, ఉత పరమాత్మేతి సంశయః। జీవాత్మేతి పూర్వః పక్షః--- అన్యత్ర స్వీకృత-స్పష్ట-జీవ-భావే పురుషే అఙ్గుష్ఠ-ప్రమితత్వ-శ్రుతేః ప్రాణాధిపః సఞ్చరతి స్వ-కర్మభిర్ అఙ్గుష్ఠ-మాత్రో రవి-తుల్య-రూపః ఇతి। రాద్ధాన్తస్ తు--- తత్ర స్వ-కర్మభిర్ ఇతి జీవ-భావ-నిశ్చయవద్ అత్రాపి, ఈశానో భూత-భవ్యస్యేతి భూత-భవ్యేశితృత్వ-దర్శనాత్ పరమాత్మైవేతి। సూత్రార్థస్ తు--- శబ్దాద్ ఏవ ప్రమితః--- అఙ్గుష్ఠ-ప్రమితః పరమాత్మైవ। ఈశానో భూత-భవ్యస్యేతి పరమాత్మ-వాచి-శబ్దాత్॥౨౩॥
Link copiedకథమ్ అనవచ్ఛిన్నస్య పరమాత్మనోఽఙ్గుష్ఠ-ప్రమితత్వమ్ ఇత్య్ ఆశఙ్క్యాహ---
Link copied౮౯ హృద్య్ అపేక్షయా తు మనుష్యాధికారత్వాత్॥౧।౩।౨౪॥
Link copiedఉపాసనార్థమ్ ఉపాసక-హృదయే వర్తమానత్వాత్, ఉపాసక-హృదయస్యాఙ్గుష్ఠ-మాత్రత్వాత్ తద్-అపేక్షయేదమ్ అఙ్గుష్ఠ-ప్రమితత్వమ్। మనుష్యాణామ్ ఏవోపాసకత్వ-సమ్భావనయా మనుష్యాన్ అధికృత్య ప్రవృత్తత్వాచ్ ఛాస్త్రస్య మనుష్య-హృదయాపేక్షయేదమ్ ఉక్తమ్। స్థితం తావద్ ఉత్తరత్ర సమాపయిష్యతే॥౨౪॥ఇతి ప్రమితాధికరణ-పూర్వ-భాగః॥
Link copied౧।౩।౭
Link copied౯౦ తద్-ఉపర్య్ అపి బాదరాయణః సమ్భవాత్॥౧।౩।౨౫॥
Link copiedమనుష్యాధికారం బ్రహ్మోపాసన-శాస్త్రమ్ ఇత్య్ ఉక్తమ్। తత్-ప్రసఙ్గేన దేవాదీనామ్ అపి బ్రహ్మ-విద్యాయామ్ అధికారోఽస్తి నవేతి చిన్త్యతే। న దేవాదీనామ్ అధికారః అస్తీతి పూర్వః పక్షః--- పరినిష్పన్నే బ్రహ్మణి శబ్దస్య ప్రామాణ్య-సమ్భవేఽపి దేవాదీనాం విగ్రహాదిమత్త్వే ప్రమాణాభావాత్, మన్త్రార్థ-వాదానామ్ అపి విధి-శేషతయా విగ్రహాది-సద్-భావ-పరత్వాభావాత్, విగ్రహవన్ నిర్వర్త్యాహర్ అహర్ అనుష్ఠీయమాన-వివేకాది-సాధన-సప్తక-సంస్కృత-మనో-నిష్పాద్యోపాసన-నిర్వృత్తౌ తేషాం సామర్థ్యాభావాత్।
Link copiedరాద్ధాన్తస్ తు--- జగత్-సృష్టి-ప్రకరణేషు నామ-రూప-వ్యాకరణ-శ్రుత్యైవ దేవాదీనాం విగ్రహాదిమత్త్వం సిధ్యతి। దేవాదీనాం దేహేన్ద్రియాది-కరణమ్ ఏవ హి నామ-రూప-వ్యాకరణమ్, మన్త్రార్థ-వాదయోశ్ చ తద్-ఉపలబ్ధేః, తయోర్ అనుష్ఠేయ---ప్రకాశన-స్తుతి-పరత్వేఽపి తద్-ఉపపత్తయే తత్-సద్-భావే ప్రమాణత్వాద్ దేవాదీనాం విగ్రహాదిమత్త్వ-సిద్ధిః, న హి విగ్రహాదిమత్తయా స్తుతిః ప్రకాశనం చ తద్-అభావే సమ్భవతి। అతః సామర్థ్య-సమ్భవాద్ అస్త్య్ ఏవాధికారః। సూత్రార్థస్ తు--- తద్-ఉపర్య్ అపి తేభ్యః--- మనుష్యేభ్య ఉపరి వర్తమానానాం దేవాదీనామ్ అప్య్ అధికారోఽస్తి, యద్వా, తత్--- బ్రహ్మోపాసనమ్ ఉపరి దేవాదిష్వ్ అపి సమ్భవతి, తేషామ్ అపి బ్రహ్మ-స్వరూప-తద్-ఉపాసన-ప్రకార-జ్ఞాన-తద్-అర్థిత్వ-తద్-ఉపాదాన-సామర్థ్య-సమ్భవాత్। పూర్వోపార్జిత-జ్ఞానావిస్మరణాజ్ జ్ఞాన-సమ్భవః తాప-త్రయాభిహతి-పూర్వక-బ్రహ్మ-గుణ-జ్ఞానాచ్ చార్థిత్వ-సమ్భవః; సృష్టి-వాక్య-మన్త్రార్థ-వాదేషు విగ్రహవత్త్వాది-దర్శనాత్ సామర్థ్య-సమ్భవశ్ చేతి భగవాన్ బాదరాయణో మన్యతే॥౨౫॥
Link copied౯౧ విరోధః కర్మణీతి చేన్ నానేక-ప్రతిపత్తేర్ దర్శనాత్॥౧।౩।౨౬॥
Link copiedకర్మణి--- యాగాదౌ, విగ్రహవత్త్వే సత్య్ ఏకస్య యుగపద్-అనేక-యాగేషు సన్నిధానానుపపత్తేర్ విరోధః ప్రసజ్యత ఇతి చేత్ తన్ న, శక్తిమతాం సౌభరి-ప్రభృతీనాం యుగప్-అదనేక-శరీర-ప్రతిపత్తి-దర్శనాత్॥౨౬॥
Link copied౯౨ శబ్ద ఇతి చేన్ నాతః ప్రభవాత్ ప్రయక్షానుమానాభ్యామ్॥౧।౩।౨౭॥
Link copiedవిరోధ ఇతి వర్తతే। మాభూత్ కర్మణి విరోధః, శబ్దే తు వైదికే విరోధః ప్రసజ్యతే--- విగ్రహవత్త్వే హి తేషాం సావయవత్వేనోత్పత్తి-వినాశ-యోగాద్ ఉత్పత్తేః ప్రాగ్వినాశాద్ ఊర్ధ్వం చ వైదికానామ్ ఇన్ద్రాది-శబ్దానామ్ అర్థ-శూన్యత్వమ్ అనిత్యత్వం వా స్యాద్ ఇతి చేత్ తన్ న, అతః ప్రభవాత్ అతః--- వైదికాద్ ఏవ శబ్దాద్ ఇన్ద్రాదేః ప్రభవాత్। పూర్వ-పూర్వేన్ద్రాదౌ వినష్టే వైదికాద్ ఇన్ద్రాద్యాకృతి-విశేష-వాచినః శబ్దాద్ ఇన్ద్రాద్య్-ఆకృతి-విశేషం స్మృత్వా తద్-ఆకారమ్ అపరమ్ ఇన్ద్రాదికం సృజతి ప్రజాపతిర్ ఇతి వైదికస్య శబ్దస్య న కశ్చిద్ విరోధః। న హి దేవదత్తాది-శబ్దవద్ ఇన్ద్రాది-శబ్దా వ్యక్తి-విశేషే సఙ్కేత-పూర్వకాః ప్రవృత్తాః; అపి తు గవాది-శబ్దవద్ ఆకృతి-విశేష-వాచిన ఇతి తేషామ్ అపి నిత్య ఏవ వాచ్య-వాచక-భావః। వైదికాద్ ఇన్ద్రాది-శబ్దాత్ తద్-అర్థ-విశేషం స్మృత్వా కులాలాదిర్ ఇవ ఘటాదికం ప్రజాపతిః సృజతీతి కుతోఽవగమ్యతేం ప్రత్యక్షానుమానాభ్యాం--- శ్రుతి-స్మృతిభ్యామ్ ఇత్య్ అర్థః। శ్రుతిస్ తావత్ వేదేన రూపే వ్యాకరోత్ సతా సతీ ప్రజాపతిః, తథా స భూర్ ఇతి వ్యాహరత్ స భూమిమ్ అసృజత ఇత్య్ ఆదికా। స్మృతిర్ అపి సర్వేషాం చ స నామాని కర్మాణి చ పృథక్ పృథక్। వేద-శబ్దేభ్య ఏవాదౌ పృథక్ సంస్థాశ్ చ నిర్మమే। నామ రూపం చ భూతానాం కృత్యానాం చ ప్రపఞ్చనమ్। వేద-శబ్దేభ్య ఏవాదౌ దేవాదీనాం చకార సః ఇత్య్ ఆదికా॥౨౭॥
Link copied౯౩ అత ఏవ చ నిత్యత్వమ్॥౧।౩।౨౮॥
Link copiedయతః ప్రజాపతిః వైదికాచ్ ఛబ్దాద్ అర్థాకారం స్మృత్వా తద్-ఆకారం సర్వం సృజతి, అతశ్ చ వసిష్ఠ-విశ్వామిత్రాదీనాం మన్త్ర-సూక్తాది-కృత్త్వేఽపి మన్త్రాది-మయస్య వేదస్య నిత్యత్వం తిష్ఠత్య్ ఏవ। ప్రజాపతిర్ హి నైమిత్తిక-ప్రలయానన్తరం మన్త్ర-కృతో వృణీతే। విశ్వామిత్రస్య సూక్తం భవతీత్య్ ఆది వేద-శబ్దేభ్యోఽనధీత-మన్త్రాది-దర్శన-శక్త-వసిష్ఠాద్య్-ఆకృతి-విశేషం స్మృత్వా, వసిష్ఠత్వాది-పద-ప్రాప్తయే అనుష్ఠిత-కర్మ-విశేషాంశ్ చానుస్మృత్య, తద్-ఆకార-విశేషాన్ తాన్ వసిష్ఠాదీన్ సృజతి; తే చానధీత్యైవ వేదైక-దేశ-భూత-మన్త్రాదీన్ స్వరతో వర్ణతశ్ చాస్ఖలితాన్ పఠన్తి। తద్ ఏషాం మన్త్రాది-కృత్వేఽపి వేద-నిత్యత్వమ్ ఉపపద్యతే॥౨౮॥
Link copiedప్రజాపతి-ప్రభృతిషు సర్వేషు తత్త్వేష్వ్ అవ్యాకృత-పర్యన్తేషు అవ్యాకృత-పరిణామ-రూపేషు శబ్ద-మయేషు వేదేషు చ వినష్టేష్వ్ అవ్యాకృత-సృష్ట్య్-ఆవృత్తౌ కథం వేదస్య నిత్యత్వమ్ ఇత్యత ఆహ---
Link copied౯౪ సమాన-నామ-రూపత్వాచ్ చావృత్తావ్ అప్య్ అవిరోధో దర్శనాత్ స్మృతేశ్ చ॥౧।౩।౨౯॥
Link copiedఅవ్యాకృత-సృష్ట్య్-ఆవృత్తావ్ అపి సృజ్యానాం సమాన-నామ-రూపత్వాద్ ఏవ న కశ్చిద్ విరోధః। ఆది-సర్గేఽపి హి పరమ-పురుషః పూర్వ-సంస్థానం జగత్ స్మరన్ తథైవ సృజతి, వేదాంశ్ చ పూర్వానుపూర్వీ-విశిష్టాన్ ఆవిష్కృత్య హిరణ్యగర్భాయ దదాతీతి। పూర్వ-సంస్థానమ్ ఏవ జగత్ సృజతీతి కథమ్ అవగమ్యతే। దర్శనాత్ స్మృతేశ్ చ। దర్శనం--- శ్రుతిః। అహో-రాత్రాణి విదధద్ విశ్వస్య మిషతో వశీ, సూర్యాచన్ద్రమసౌ ధాతా యథాపూర్వమ్ అకల్పయత్, దివం చ పృథివీం చాన్తరిక్షమ్ అథో సువర్ ఇతి, యో బ్రహ్మాణం విదధాతి పూర్వం యో వై వేదాంశ్ చ ప్రహిణోతి తస్మై ఇతి చ, స్మృతిర్ అపి--- యథర్తుష్వ్ ఋతు-లిఙ్గాని నానా-రూపాణి పర్యయే। దృశ్యన్తే తాని తాన్య్ ఏవ తథా భావా యుగాదిషు। ఇతి। ఏతద్ ఏవ వేదస్య నిత్యత్వం యత్ పూర్వ-పూర్వోచ్చారణ-క్రమ-విశేషం స్మృత్వా తేనైవ క్రమేణోచ్చార్యత్వమ్। పరమ-పురుషోఽపి స్వరూప-స్వారాధన-తత్-ఫల-యాథాత్మ్యావబోధి-వేదం స్వ-స్వరూపవన్ నిత్యమ్ ఏవ పూర్వానుపూర్వీ-విశిష్టం స్మృత్వా ఆవిష్కరోతి। అతో దేవాదీనాం బ్రహ్మ-విద్యాధికారే న కశ్చిద్ విరోధః॥౨౯॥ఇతి దేవతాధికరణమ్॥౭॥
Link copied౧।౩।౮
Link copied౯౫ మధ్వ్-ఆదిష్వ్ అసమ్భవాద్ అనధికారం జైమినిః॥౧।౩।౩౦॥
Link copiedఛాన్దోగ్యే అసౌ వా ఆదిత్యో దేవ-మధు ఇత్య్ ఉపక్రమ్య। తద్ యత్ ప్రథమమ్ అమృతం తద్-వసవ ఉపజీవన్తి ఇత్య్ ఉక్త్వా, స య ఏతద్ ఏవమ్ అమృతం వేద వసూనామ్ ఏవైకో భూత్వాగ్నినైవ ముఖేనైతద్ ఏవామృతం దృష్ట్వా తృప్యతి ఇత్య్ ఆదినా ఋగ్-యజుః-సామాది-వేదోదిత-కర్మ సమ్పాద్య రసాధారతయా మధుమ్ అయస్యాద్ ఇత్య్ అస్య పూర్వ-దక్షిణ-పశ్చిమోత్తరోర్ధ్వాంశాన్ వసు-రుద్రాదిత్య-మరుత్-సాధ్య-నామ్నాం దేవ-గణానాం భోగ్యత్వేనాభిధాయ, తైర్ భుజ్యమానాకారేణాదిత్యాంశానుపాస్యాన్ ఉపదిశ్య, తాన్ ఏవాదిత్యాంశాంస్ తథా భూతాన్ ప్రాప్యాన్ ఉపదిశతి। ఏవమ్ ఆదిషూపాసనేషు వస్వ్-ఆదిత్యాదీనామ్ అధికారోఽస్తి, నేతి సంశయః। నాస్త్య్ అధికార ఇతి పూర్వః పక్షః, వస్వ్-ఆదీనామ్ ఉపాస్యాన్తర్-గతత్వేన కర్మ-కర్తృ-భావ-విరోధాత్, ప్రాప్యస్య వసుత్వాదేః ప్రాప్తత్వాచ్ చ। రాద్ధాన్తస్ తు--- బ్రహ్మణ ఏవ తద్-అవస్థస్యోపాస్యాదీనాం సతాం స్వావస్థ-బ్రహ్మానుసన్ధానావిరోధాత్ కల్పాన్తరే వసుత్వాదేః ప్రాప్తత్వావిరోధాచ్ చ వస్వ్-ఆదీనామ్ అధికారః సమ్భవతీతి। సూత్రార్థస్ తు మధు-విద్యాదిషు వస్వ్-ఆదీనామ్ అనధికారం జైమినిర్ మన్యతే। అసమ్భవాత్--- వస్వ్-ఆదీనామ్ ఏవ ఉపాస్యానామ్ ఉపాసకత్వాసమ్భవాత్, వసుత్వాదేః ప్రాప్తత్వాద్ ఏవ ప్రాప్యత్వాసమ్భవాచ్ చ॥౩౦॥
Link copied౯౬ జ్యోతిషి భావాచ్ చ॥౧।౩।౩౧॥
Link copiedతం దేవా జ్యోతిషాం జ్యోతిర్ ఆయుర్ హోపాసతేఽమృతమ్ ఇతి జ్యోతిషి--- పరస్మిన్ బ్రహ్మణి దేవ-మనుష్యయోర్ అధికార-సాధారణ్యే సత్య్ అపి, జ్యోతిషాం జ్యోతిః--- పరం బ్రహ్మ దేవా ఉపాసతే ఇతి విశేష-వచనం వస్వాదీనాం కర్మకర్తృభావవిరోధాత్తేషు తేషామనధికారం ద్యోతయతి। దేవా ఇతి సామాన్య-వచనం చ వస్వ్-ఆది-విశేష-విషయమ్ ఇత్య్ అవగమ్యతే, అన్యేషామ్ అవిరోధాత్॥౩౧॥
Link copied౯౭ భావం తు బాదరాయణోఽస్తి హి॥౧।౩।౩౨॥
Link copiedతు-శబ్దః పక్షం వ్యావర్తయతి। వస్వ్-ఆదీనాం మధు-విద్యాదిష్వ్ అధికార-సద్-భావం భగవాన్ బాదరాయణో మన్యతే। అస్తి హి వస్వ్-ఆదీనామ్ ఏవోపాస్యత్వం ప్రాప్యత్వం చ। ఇదానీం వసూనామ్ ఏవ సతాం కల్పాన్తరే వసుత్వస్య ప్రాప్యత్వ-సమ్భవాత్ ప్రాప్యత్వం సమ్భవతి। స్వాత్మనాం బ్రహ్మ-భావానుసన్ధాన-సమ్భవాద్ ఉపాస్యత్వం చ సమ్భవతి। య ఏతామ్ ఏవం బ్రహ్మోపనిషదం వేద ఇతి హి కృత్స్నాయా మధు-విద్యాయాః బ్రహ్మ-విద్యాత్వమ్ అవగమ్యతే॥౩౨॥ఇతి మధ్వ్-అధికరణమ్॥౮॥
Link copied౧।౩।౯
Link copied౯౮ శుగ్ అస్య తద్-అనాదర-శ్రవణాత్ తద్-ఆద్రవణాత్ సూచ్యతే హి॥౧।౩।౩౩॥
Link copiedబ్రహ్మ-విద్యాయాం శూద్రస్యాప్య్ అధికారోఽస్తి, నేతి సంశయః। అస్తీతి పూర్వః పక్షః,--- అర్థిత్వ-సామర్థ్య-సమ్భవాత్। శూద్రస్యానగ్ని-విద్యత్వేఽపి మనోవృత్తి-మాత్రత్వాత్ ఉపాసనస్య సమ్భవతి హి సామర్థ్యమ్। బ్రహ్మ-స్వరూప-తద్-ఉపాసన-ప్రకార-జ్ఞానం చేతిహాస-పురాణ-శ్రవణాద్ ఏవ నిష్పద్యతే। అస్తి హి శూద్రస్యాపీతిహాస-పురాణ-శ్రవణానుజ్ఞా। శ్రావయేచ్ చతురో వర్ణాన్ కృత్వా బ్రాహ్మణమ్ అగ్రత ఇతి। తథా తత్రైవ విదురాదీనాం బ్రహ్మ-నిష్ఠత్వం దృశ్యతే। ఉపనిషత్స్వ్ అపి। ఆజహారేమాః శూద్రానేనైవ ముఖేనాలాపయిష్యథా ఇతి శూద్ర-శబ్దేనామన్త్ర్య బ్రహ్మ-విద్యోపదేశ-దర్శనాచ్ ఛూద్రస్యాపీహాధికారః సూచ్యతే। రాద్ధాన్తస్ తు--- ఉపాసనస్య మనోవృత్తి-మాత్రత్వేఽప్య్ అనధీత-వేదస్య శూద్రస్య ఉపాసనోపాయ-భూత-జ్ఞానాసమ్భవాత్, న సార్మథ్య-సమ్భవః। కర్మ-విధివద్ ఉపాసనా-విధయోఽపి త్రైవర్ణిక-విషయాధ్యయన-గృహీతస్వాధ్యాయోత్పన్న-జ్ఞానమ్ ఏవ ఉపాసనోపాయతయా స్వీకుర్వతే। ఇతిహాసాదయోఽపి స్వాధ్యాయ-సిద్ధమ్ ఏవ జ్ఞానమ్ ఉపబృంహయన్తీతి తతోఽపి నాస్య జ్ఞాన-లాభః। శ్రవణానుజ్ఞా తు పాప-క్షయాది-ఫలా। విదురాదీనాం తు భవాన్తర-వాసనయా జ్ఞాన-లాభాద్ బ్రహ్మ-నిష్ఠత్వమ్। శూద్రేత్య్ ఆమన్త్రణమ్ అపి న చతుర్థ-వర్ణత్వేన, అపి తు బ్రహ్మ-విద్యా-వైకల్యాచ్ ఛుగ్ అస్య సఞ్జాతేతి। అతో న శూద్రస్యాధికారః। సూత్రార్థస్ తు--- బ్రహ్మ-విద్యా-వైకల్యేన హంసోక్తానాదర-వాక్య-శ్రవణాత్ తదైవాచార్యం ప్రత్య్ ఆద్రవణాచ్ చాచార్యేణ తస్య శుశ్రూషోర్ విద్యా-లాభ-కృతా శుక్ సూచ్యతే। హి-శబ్దో హేతౌ। యస్మాద్ అస్య శుక్ సూచ్యతే, అతః శోచనాచ్ ఛూద్ర ఇతి కృత్వా, ఆచార్యో రైక్వో జానశ్రుతిం శూద్రేత్య్ ఆమన్త్రయతే, న జాతి-యోగేనేత్య్ అర్థః॥౩౩॥
Link copied౯౯ క్షత్రియత్వ-గతేశ్ చ॥౧।౩।౩౪॥
Link copiedఅస్య శుశ్రూషోః క్షత్రియత్వావగతేశ్ చ న జాతి-యోగేన శూద్రేత్య్ ఆమన్త్రణమ్। ప్రకరణ-ప్రక్రమే హి బహు-దాయీ ఇత్య్ ఆదినా దాన-పతిత్వ-బహుతర-పక్వాన్న-దాయిత్వ-క్షత్తృ-ప్రేషణ-బహు-గ్రామాది-ప్రదానైర్ అస్య జానశ్రుతేః శుశ్రూషోః క్షత్రియత్వం ప్రతీతమ్॥౩౪॥
Link copied౧౦౦ ఉత్తరత్ర చైత్రరథేన లిఙ్గాత్॥౧।౩।౩౫॥
Link copiedఉపరిష్టాచ్ చాస్యాం విద్యాయాం బ్రాహ్మణ-క్షత్రియయోర్ ఏవాన్వయో దృశ్యతే। అథ హ శౌనకం చ కాపేయమ్ అభిప్రతారిణం చ ఇత్య్ ఆదినా। అభిప్రతారీ హి చైత్రరథః క్షత్రియః। అభిప్రతారిణశ్ చైత్రరథత్వం క్షత్రియత్వం చ కాపేయ-సాహచర్యాల్ లిఙ్గాద్ అవగమ్యతే। ప్రకరణాన్తరే హి కాపేయ-సహచారిణః చైత్రరథత్వం క్షత్రియత్వం చావగతమ్। ఏతేన వై చైత్రరథం కాపేయా అయాజయన్ ఇతి, తస్మాచ్ చైత్రరథో నామైకః క్షత్ర-పతిర్ అజాయతేతి చ। అతోఽస్యాం విద్యాయామ్ అన్వితో బ్రాహ్మణాద్ ఇతరో జానశ్రుతిర్ అపి క్షత్రియో భవితుమ్ అర్హతి॥౩౫॥
Link copied౧౦౧ సంస్కార-పరామర్శాత్ తద్-అభావాభిలాపాచ్ చ॥౧।౩।౩౬॥
Link copiedవిద్యోపదేశే ఉప త్వా నేష్యే ఇత్య్ ఉపనయన--- సంస్కార-పరామర్శాత్ శూద్రస్య తద్-అభావ-వచనాచ్ చానధికారః। న శూద్రే పాతకం కిఞ్చిన్ న చ సంస్కారమ్ అర్హతి। ఇతి హి నిషిధ్యతే॥౩౬॥
Link copied౧౦౨ తద్-అభావ-నిర్ధారణే చ ప్రవృత్తేః॥౧।౩।౩౭॥
Link copiedనైతద్ అబ్రాహ్మణో వివక్తుమ్ అర్హతి సమిధం సౌమ్యాహర ఇతి శుశ్రూషోర్ జాబాలేః శూద్రత్వాభావ-నిశ్చయ ఏవోపదేశే ప్రవృత్తేర్ నాధికారః॥౩౭॥
Link copied౧౦౩ శ్రవణాధ్యయనార్థ-ప్రతిషేధాత్॥౧।౩।౩౮॥
Link copiedశూద్రస్య శ్రవణాధ్యయనాదీని హి ప్రతిషిధ్యన్తే। తస్మాచ్ ఛూద్ర-సమీపే నాధ్యేతవ్యమ్ ఇతి। అనుపశృణ్వతోఽధ్యయనాదిర్ న సమ్భవతి॥౩౮॥
Link copied౧౦౪ స్మృతేశ్ చ॥౧।౩।౩౯॥
Link copiedస్మర్యతే చ శూద్రస్య వేద-శ్రవణాదౌ దణ్డః। అథ హాస్య వేదమ్ ఉపశృణ్వతః త్రపు-జతుభ్యాం శ్రోత్ర-ప్రతిపూరణమ్ ఉదాహరణే జిహ్వాచ్ఛేదో ధారణే శరీర-భేద ఇతి॥౩౯॥ఇత్య్ అపశూద్రాధికరణమ్॥౯॥
Link copied[ప్రమితాధికరణ-శేషః]
Link copiedప్రాసఙ్గికం పరిసమాప్య ప్రకృతం పరిసమాపయతి---
Link copied౧౦౫ కమ్పనాత్॥౧।౩।౪౦॥
Link copiedఅఙ్గుష్ఠ-ప్రమిత-ప్రకరణ-మధ్యే। యద్ ఇదం కిం చ జగత్ సర్వం ప్రాణ ఏజతి నిఃసృతమ్। మహద్ భయం వజ్రమ్ ఉద్యతం భయాద్ అస్యాగ్నిస్ తపతి ఇత్య్ ఆదౌ ప్రాణ-శబ్ద-నిర్దిష్టాఙ్గుష్ఠ-ప్రమిత-జనిత-భయ-నిమిత్తాద్ అగ్ని-వాయు-సూర్య-ప్రభృతి-కృత్స్న-జగత్-కమ్పనాత్ శ్రూయమాణాద్ అఙ్గుష్ఠ-ప్రమితః పరమాత్మైవేతి నిశ్చీయతే॥౪౦॥
Link copied౧౦౬ జ్యోతిర్-దర్శనాత్॥౧।౩।౪౧॥
Link copiedఅస్మిన్న్ ఏవ ప్రకరణే తత్-సమ్బన్ధితయా న తత్ర సూర్యో భాతి ఇత్య్ ఆరభ్య తస్య భాసా సర్వమ్ ఇదం విభాతి ఇతి సర్వేషాం ఛాదకస్యానవధికాతిశయస్య భాః-శబ్దాభిహితస్య బ్రహ్మ-భూతస్య పరస్య జ్యోతిషో దర్శనాచ్ చ అఙ్గుష్ఠ-ప్రమితః పరమాత్మా॥౪౧॥ఇతి ప్రమితాధికరణ-శేషః॥
Link copied౧।౩।౧౦
Link copied౧౦౭ ఆకాశోఽర్థాన్తరత్వాది-వ్యపదేశాత్॥౧।౩।౪౨॥
Link copiedఛాన్దోగ్యే ఆకాశో హ వై నామ-రూపయోర్ నిర్వహితా తే యద్ అన్తరా తద్ బ్రహ్మ తద్ అమృతం స ఆత్మా ఇత్య్ అత్రాకాశ-శబ్ద-నిర్దిష్టః కిం ముక్తాత్మా, ఉత పరమాత్మేతి సంశయః। ముక్త ఇతి పూర్వః పక్షః। ధూత్వా శరీరమ్ అకృతం కృతాత్మా బ్రహ్మ-లోకమ్ అభిసమ్భవామి ఇతి ముక్తస్యానన్తర-ప్రకృతత్వాత్। రాద్ధాన్తస్ తు--- నామ-రూపయోర్ నిర్వహితా తే యద్ అన్తరా ఇతి స్వయమ్ అస్పృష్ట-నామ-రూపతయా నామ-రూపయోర్ నిర్వోఢృత్వేన శ్రూయమాణోఽయమ్ ఆకాశో బద్ధ-ముక్తోభయావస్థాత్ ప్రత్యగ్-ఆత్మనః అర్థాన్తరత్వాత్ పరమాత్మైవ।
Link copiedసూత్రార్థస్ తు--- ఆకాశః పరమాత్మా, తస్య నామ-రూపయోర్ నిర్వోఢృత్వ-తద్-అస్పర్శ-లక్షణార్థాన్తరత్వ-వ్యపదేశాత్। ప్రత్యగ్-ఆత్మనో హ్య్ అర్థాన్తర-భూత ఏవ నామ-రూపయోర్ నిర్వోఢా। బద్ధావస్థస్తావన్ నామ-రూపాభ్యాం స్పృష్టస్ తత్-పరవశశ్ చేతి న నిర్వోఢా; ముక్తస్యాపి జగద్-వ్యాపారర-హితత్వాన్ న నిర్వోఢృత్వమ్। ఆది-శబ్దేన నిరుపాధిక-బ్రహ్మత్వామృతత్వాత్మత్వాదీని గృహ్యన్తే। తాని నిరుపాధికాని ముక్తస్యాపి న సమ్భవన్తి॥౪౨॥
Link copiedనను తత్ త్వమ్ అస్యాదినైక్య-వ్యపదేశాత్, నేహ నానాస్తీతి భేద-ప్రతిషేధాచ్ చ న ప్రత్యగ్-ఆత్మనోఽర్థాన్తర-భూతః పరమాత్మేత్య్ ఆశఙ్క్యాహ---
Link copied౧౦౮ సుషుప్త్య్-ఉత్క్రాన్త్యోర్ భేదేన॥౧।౩।౪౩॥
Link copiedవ్యపదేశాద్ ఇతి వర్తతే। ప్రాజ్ఞేనాత్మనా సమ్పరిష్వక్తః, ప్రాజ్ఞేనాత్మనాన్వారూఢః ఇతి సుషుప్త్య్-ఉత్క్రాన్త్యోర్ లుప్త-సకల-విశేష-విజ్ఞానాత్ ప్రత్యగ్-ఆత్మనస్ తదానీమ్ ఏవ సర్వజ్ఞతయా భేద-వ్యపదేశాత్ ప్రత్యగ్-ఆత్మనోఽర్థాన్తర-భూత ఏవ పరమాత్మా॥౪౩॥
Link copied౧౦౯ పత్య్-ఆది-శబ్దేభ్యః॥౧।౩।౪౪॥
Link copiedపరిష్వఞ్జకే ప్రాజ్ఞే శ్రూయమాణేభ్యః పత్య్-ఆది-శబ్దేభ్యశ్ చాయం ప్రత్యగ్-ఆత్మనోఽర్థాన్తర-భూతః పరమాత్మా, సర్వస్యాధిపతిః సర్వస్య వశీ సర్వస్యేశానః ఇత్య్ ఆదౌ। ఐక్యోపదేశ---భేద-ప్రతిషేధౌ తు బ్రహ్మ-కార్యత్వ-నిబన్ధనావ్ ఇతి। తజ్ జలాన్ ఇతి, సర్వం ఖల్వ్ ఇదం బ్రహ్మ ఇత్య్ ఆది శ్రుతిభిర్ ఏవ వ్యక్తౌ॥౪౪॥ఇత్య్ అర్థాన్తరత్వాది-వ్యపదేశాధికరణమ్॥౧౦॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-రచితే శ్రీ-వేదాన్తదీపే ప్రథమస్యాధ్యాయస్య తృతీయః పాదః
Link copied1.3.1
Link copied66 dyu bhv a:dy a:yathanam sva sabda:th||1|3|1||
Link copieda:tharvane: yasmin dyauh pruthivi: cha:nthariksham o:tham manah saha pra:nais cha sarvais tham e:vaikam ja:natha:thma:nam anya: va:cho: vimunchatha amruthasyaisha se:thuh ithy athra dyu pruthivy a:di:na:m a:yathanam kim ji:vah, utha parama:thme:thi samsayah| ji:va ithi pu:rvah pakshah, manah prabhruthi:ndriya:dha:rathva sruthe:h, uththarathra na:di: sambandha:th, ja:yama:nathva sruthe:s cha| ra:ddha:nthas thu nirupa:dhika:thmathva:mrutha se:thuthvayo:h parama:thma dharmayo:h sravana:th parama:thmaiva:yam| sarvam niyanthruthaya: a:pno:thi:thi hy a:thma:| amruthasya pra:pakathaya: se:thus cha sa e:va| na:di: sambandhah, bahudha: ja:yama:nathvam cha| santhatham sira:bhis thu lambathya:ko:sa sannibham, aja:yama:no: bahudha: vija:yathe: ithy a:dishu sarva sama:srayani:yathva:ya ajahath svabha:vasyaiva parama:thmano:'pi drusyatha ithi| su:thra:rthas thu--- dyu pruthivy a:di:na:m a:yathanam parama:thma:, sva sabda:th||1||
Link copied67 muktho:pasrupya vyapade:sa:ch cha||1|3|2||
Link copiedthada: vidva:n punya pa:pe: vidhu:ya niranjanah paramam sa:myam upaithi| thatha: vidva:n na:ma ru:pa:d vimukthah para:thparam purusham upaithi divyam ithi cha bandha:n mukthasya pra:pyathaya: vyapade:sa:ch cha:yam parama:thma:||2||
Link copied68 na:numa:nam athach chhabda:th pra:na bhruch cha||1|3|3||
Link copieda:numa:nam--- anuma:na gamyam pradha:nam| yatha: thad va:chi sabda:bha:va:th thad iha na gruhyathe:| thatha: pra:na bhrud api:thy arthah| athas cha:yam parama:thma:||3||
Link copied69 bhe:da vyapade:sa:th||1|3|4||
Link copiedani:saya: so:chathi muhyama:nah| jushtam yada: pasyathy anyam i:sam ithy a:dina: ji:va:d bhe:de:na vyapade:sa:ch cha:yam parama:thma:||4||
Link copied70 prakarana:th||1|3|5||
Link copiedatha para: yaya: thad aksharam adhigamyatha ithy a:dina: parama:thmana e:va prakruthathva:th||5||
Link copied71 sthithy adana:bhya:m cha||1|3|6||
Link copiedthayo:r anyah pippalam sva:dv aththy anasnann anyo: abhicha:kasi:thi ithi karma phalam anasnathah parama:thmano: di:pyama:nathaya: sthithe:h, ji:vasya karma paravasathaya: thath phala:dana:ch cha parama:thmano: ji:va:d bhe:da:vagama:d amrutha se:thur dyu bhv a:dy a:yathanam na ji:vah| adrusyathva:di gunaka ithy ane:na parama:thmathve: stha:pithe:'pi, na:di: sambandha bahudha: ja:yama:nathva linga:th, ya:va:nthara prakarana vichchhe:da:sanka:, sa: nira:krutha:--- dyu bhv a:dy a:yathanam ithi| vaisva:narasya thrailo:kya sari:rathva:dina: parama:thmathva nirnaya ithi madhye: vaisva:nara vidya: niru:pitha:||6||ithi dyu bhv a:dy adhikaranam||1||
Link copied1.3.2
Link copied72 bhu:ma: samprasa:da:d adhyupade:sa:th||1|3|7||
Link copiedchha:ndo:gye: yathra na:nyath pasyathi na:nyach chhruno:thi na:nyad vija:na:thi sa bhu:ma: ithy athra bhu:ma sabda nirdishto: nirathisaya vaipulya visishta sukha svaru:pah kim prathyag a:thma:, utha parama:thme:thi samsayah| prathyag a:thme:thi pu:rvah pakshah| tharathi so:kam a:thmavith ithi prakramya na:ma:di paramparayo:ththaro:ththara bhu:yasthve:na prasna prathivachana:bhya:m pravruththasya:thmo:pade:sasya pra:na sabda nirdishte: prathyag a:thmani sama:pthi darsana:th, prathyag a:thmana e:va bhu:ma samsabdanam ithi nischi:yathe:| ra:ddha:nthas thu--- yady api prasna prathivachana:bhya:m uththaro:ththarabhu:yasthva vachanam pra:ne: paryavasthitham thatha:pi pra:na ve:dino:'thiva:dithvam ukthva:, e:sha thu va: athivadathi yah sathye:na:thivadathi:thi thu sabde:no:pa:saka bhe:dam prathipa:dya, thasya sathyo:pa:sakasya pu:rvasma:d a:dhikyo:pade:sa:th, sathya sabda:bhidhe:yam param brahmaiva bhu:ma visishtam ithi| su:thra:rthas thu bhu:ma guna visishtam param brahmaiva, samprasa:da:d adhyupade:sa:th--- samprasa:dah--- prathyag a:thma:, e:sha samprasa:do:'sma:ch chhari:ra:th samuththa:ya param jyo:thir upasampadya ithy a:dy upanishath prasiddhe:h| e:sha thu va: athivadathi ithi prathyag a:thmano:'dhikathayo:pade:sa:th| athiva:dithvam hi svo:pa:sya:dhikya va:dithvam||7||
Link copied73 dharmo:papaththe:s cha||1|3|8||
Link copiedsva:bha:vika:mruthathva sva mahima prathishthithathva sarva:thmathva sarvo:thpaththi he:thuthva:di:na:m bhu:mni sru:yama:na:na:m dharma:na:m parasminn e:va brahmany upapaththe:s cha bhu:ma: param brahmaiva||8||ithi bhu:ma:dhikaranam||2||
Link copied1.3.3
Link copied74 aksharam ambara:ntha dhruthe:h||1|3|9||
Link copiedva:jina:m ga:rgi prasne:| sa ho:va:chaithad vai thad aksharam ga:rgi bra:hmana: abhivadanthy asthu:lam ananv ahrasvam adi:rgham alo:hitham asne:ham achchha:yam ithy athra:kshara sabda nirdishtam pradha:nam ji:vo: va:, utha parama:thma: ithi samsayah| pradha:nam ji:vo: va:, na parama:thme:thi pu:rvah pakshah| kasmin nu khalv a:ka:sa o:thas cha pro:thas cha ithy ukthe: a:ka:sa:dha:rathayo:chyama:nam aksharam pradha:nam, ji:vo: va:, pradha:nasya vika:ra:dha:rathva:j ji:vasya:chid vasthv a:dha:rathva:n na parama:thme:thi| ra:ddhanthas thu--- yad u:rdhvam ga:rgi diva ithy a:rabhya, ka:la thraya varthinah kruthsnasya:dha:rathaya: nirdishta a:ka:so:'vya:krutham e:va, na va:yuma:na:ka:sah| thathah pascha:th kasmin nu khalv a:ka:sa o:thas cha pro:thas cha ithi prushte: thad a:dha:rathayo:chyama:nam e:thad aksharam na pradha:nam bhavithum arhathi| na:pi ji:vah| e:thasya va: aksharasya prasa:sane: ga:rgi su:rya:chandramasau vidhruthau thishthatha ithy a:rabhya prasa:sana:th sarva:dha:rathva sruthe:h| su:thra:rthas thu--- e:thad vai thad aksharam ga:rgi ithi nirdishtam aksharam parama:thma:, ambara:ntha dhruthe:h--- ambaram--- va:yuma:na:ka:sah, ambara:nthah--- ambara pa:rabhu:tham, ambara ka:ranam ithi ya:vath; ka:rana:paththir e:va hi ka:ryasya:nthah| sa cha:mbara:nthah avya:krutham pradha:nam, thasya dhruthe:h--- dha:rana:th| avya:kruthasya:pi dhruthe:r aksharam parama:thmaive:thy arthah||9||
Link copiede:vam tharhi ji:vo: bhavithum arhathi, thasya pradha:na dhruthy upapaththe:r ithy a:sankya:ha---
Link copied75 sa: cha prasa:sana:th||1|3|10||
Link copiedsa: cha ambara:ntha dhruthih| e:thasya va: aksharasya prasa:sane: ga:rgi su:rya:chandramasau ithi prasa:sana:ch chhru:yathe:| prasa:sanam--- prakrushtam sa:sanam, aprathihatha:jna:| na cha:prathihatha:jnaya: kruthsnasya chid achid a:thmakasya jagatho: dhruthir ji:ve: upapadyathe:; atho: na ji:vah||10||
Link copied76 anya bha:va vya:vruththe:s cha||1|3|11||
Link copiedanya bha:vah--- anyathvam| asya:ksharasya parama purusha:d anyathvam vya:varthayathi va:kya se:shah| adrushtam drashtru ithy a:dina: sarvair adrushtam e:thad aksharam sarvasya drashtrithy a:di pradha:na ji:va:sambha:vani:ya:rtha prathipa:dana:th||11||ithy akshara:dhikaranam||3||
Link copied1.3.4
Link copied77 i:kshathi karma vyapade:sa:th sah||1|3|12||
Link copieda:tharvanika:na:m sathya ka:ma prasne: yah punar e:tham thri ma:thre:naum ithy ane:naiva:kshare:na param purusham abhidhya:yi:tha ithy a:rabhya| sa sa:mabhir unni:yathe: brahma lo:kam, sa e:thasma:j ji:va ghana:th para:thparam purisayam purusham i:kshatha ithy athra, dhya:yathi:kshathi karmathaya: vyapadishtah parama purushah kim hiranyagarbhah, utha parabrahma bhu:thah purusho:ththama ithi samsayah| hiranyagarbha ithi pu:rvah pakshah| pu:rvathraika ma:thram pranavam upa:si:nasya manushya lo:ka pra:pthim phalam, dvi ma:thram upa:si:nasya:nthariksha lo:ka pra:pthim cha phalam abhidha:ya:nantharam yah punar e:tham thri ma:thre:na ithi thri ma:thram pranavam upa:si:nasya phalathve:no:chyama:na brahma lo:ka stha purushe:kshana karma bhu:thas chathurmukha e:ve:thi vijna:yathe:, manushya lo:ka:nthariksha lo:ka sa:hacharya:th brahma lo:ko:'pi kshe:thrajna lo:ka ithi nischaya:th|
Link copiedra:ddha:nthas thu--- para:thparam purisayam purusham i:kshathe: ithi:kshathi karmathaya: nirdishta purusha vishaye: slo:ke:| tham o:nka:re:naiva:yathane:na:nve:thi vidva:n yath thach chha:ntham ajaram amrutham abhayam param cha ithi nirupa:dhika sa:nthathva:mruthathva:di vyapade:sa:th parama:thmaiva:yam ithi nischi:yathe:| e:vam parama:thmathve: nischithe: brahma lo:ka sabdas cha thath stha:nam e:va:bhidadha:thi ithy avagamyathe:| thad vishayathayo:da:hruthe: cha slo:ke: yath thath kavayo: ve:dayanthe:| thad vishno:h paramam padam sada: pasyanthi su:rayah| ithy e:vam a:dibhih su:ribhir drusyathva vachanam thad e:va dradhayathi| su:thra:rthas thu--- i:kshathi karma sah--- parama:thma:, dhya:yathi:kshathyo:r e:ka vishayathve:na dhya:yathi karma:pi sa e:ve:thy arthah, vyapade:sa:th--- thad vishayakathaya: sa:ntham ajaram amrutham abhayam param che:thi parama:thma dharma:na:m vyapade:sa:th||12||ithi i:kshathi karma:dhikaranam||4||
Link copied1.3.5
Link copied78 dahara uththare:bhyah||1|3|13||
Link copiedchha:ndo:gye: atha yad idam asmin brahma pure: daharam pundari:kam ve:sma daharo:'smin anthara:ka:sas thasmin yad anthas thad anve:shtavyam thad va:va vijijna:sithavyam ithy athra hrudaya pundari:ka madhya varthi: dahara:ka:sah sru:yama:nah kim bhu:tha:ka:sah, utha ji:vah, atha parama:thme:thi samsayah| prathamam tha:vad bhu:tha:ka:sa ithi yuktham a:srayithum ithi pu:rva pakshah, a:ka:sa sabdasya bhu:tha:ka:se: prasiddhi pra:churya:th a:ka:sa:nthar varthino:'nyasya anve:shtavyatha: prathi:the:s cha| ra:ddha:nthas thu--- kim thad athra vidyathe: yad anve:shtavyam ithi cho:dithe: ya:va:n va: ayam a:ka:sah ithy a:rabhya e:thath sathyam brahma puram ithy anthe:na dahara:ka:sasya:thimahaththva sarva:srayathva:jarathva sathyathva:dy abhidha:ya asmin ka:ma:h sama:hitha: ithy a:ka:sa:nthar varthino:'nve:shtavya:h ka:ma: ithi prathipa:dya, ko:'yam dahara:ka:sa sabda nirdishtake: thad a:sraya:h ka:ma: ithy ape:ksha:ya:m e:sha a:thma:pahatha pa:pma: ithy a:rabhya, sathya sankalpah ithy anthe:na a:ka:sa sabda nirdishtah a:thma:, ka:ma:s cha:pahatha pa:pmathva:dayas thad vise:shana bhu:tha: ithi prathipa:dayad va:kyam apahatha pa:pmathva:di visishta parama:thma:nam a:ha| upakrame: cha:nve:shtavyathaya: prathijna:thah a:ka:sah a:thma:, e:thad vise:shana bhu:tha:h apahatha pa:pmathva:dayah ka:ma: ithi va:kyam jna:payad atha ya iha:thma:nam anuvidya vrajanthy e:tha:ms cha sathya:n ka:ma:n the:sha:m sarve:shu lo:ke:shu ka:ma cha:ro: bhavathi ithy upasamharathi| atho:'yam dahara:ka:sah apahatha pa:pmathva:di visishtah parama:thme:thi nischi:yathe:, na bhu:tha:ka:sa:dir ithi| e:vam tharhy asmin va:kye:, atha ya e:sha samprasa:do:'sma:ch chhari:ra:th samuththa:ya ithi prathyag a:thma prathi:the:h, thasya cho:ththarathra praja:pathi va:kye: apahatha pa:pmathva:di gunakathva:vagama:th prathyag a:thmaiva dahara:ka:sa ithi pu:rva pakshi: manyathe:| ra:ddha:nthi: thu prathyag a:thma: karma paravasathaya: ja:garitha svapna sushupthy a:dy avastha:bhih thiro:hitha:pahatha pa:pmathva:dikah parama:thma:nam upasampannah thath prasa:da:d a:virbhu:tha gunakah praja:pathi va:kye: prathipa:dithah| dahara:ka:sas thv athiro:hitha nirupa:dhika:pahatha pa:pmathva:dikah prathyag a:thmany asambha:vani:ya jagad vidharana samastha chid achid vasthu niyamana:dy anantha gunakah prathipanna ithi na:yam prathyag a:thma: dahara:ka:sah, api thu parama:thmaive:thi manyathe:| su:thra:rthas thu--- dahara:ka:sah param brahma, uththare:bhyah--- uththara va:kya gathe:bhyah apahatha pa:pmathva:di parama:thma:sa:dha:rana dharme:bhyo: he:thubhyah||13||
Link copied79 gathi sabda:bhya:m thatha: hi drushtam lingam cha||1|3|14||
Link copiedasmin dahara:ka:se: sarva:sa:m praja:na:m aja:nathi:na:m ahar ahar ya: gathih sru:yathe:, yas cha dahara:ka:sa:vamarsa ru:paithach chhabda sama:na:dhikaranathaya: prayuktho: brahma lo:ka sabdah, tha:bhya:m dahara:ka:sah param brahme:thy avagamyathe:| thad yatha: hiranya nidhim nihitham akshe:thrajna: upary upari sancharantho: na vinde:yur e:vam e:ve:ma:h sarva:h praja: ahar ahar gachchhanthya e:tham brahma lo:kam na vindanthy anruthe:na hi prathyu:dha:h ithi| thatha: hi drushtam--- thatha: hy anyathra parasmin brahmany e:vam ru:pam gamanam drushtam--- e:vam e:va khalu so:mye:ma:h sarva:h praja:h sathi sampadya na viduh sathi sampathsya:maha ithi| thatha: brahma lo:ka sabdas cha parasmin brahmany e:va drushtah--- e:sha brahma lo:kah samra:dithi ho:va:cha ithi lingam cha--- ma: bhu:d anyathra darsanam, asmin prakarane: sarva:sa:m praja:na:m sru:yama:nam ahar ahar gamanam, brahma lo:ka sabdas cha dahara:ka:sasya parama:thmathve: parya:ptham lingam| cha sabdo:'vadha:rane:| e:thad e:va parya:ptham ithy arthah||14||
Link copied80 dhruthe:s cha mahimno:'sya:sminn upalabdhe:h||1|3|15||
Link copiedasya dhruthy a:khyasya parama:thmano: mahimno:'smin dahara:ka:se: upalabdhe:r ayam parama:thma:| dhruthih--- jagad vidharanam parama:thmano: mahime:thy anyathra:vagamyathe:| e:sha sarve:svara e:sha bhu:tha:dhipathir e:sha bhu:tha pa:la e:sha se:thur vidharana e:sha:m lo:ka:na:m asambhe:da:ya ithi| sa: cha asmin dahara:ka:sa upalabhyathe:| atha ya a:thma: sa se:thur vidhruthir e:sha:m lo:ka:na:m asambhe:da:ya ithi||15||
Link copied81 prasiddhe:s cha||1|3|16||
Link copiedko: hy e:va:nya:th kah pra:nya:th yad e:sha a:ka:sa a:nando: na sya:th, sarva:ni ha va: ima:ni bhu:tha:ny a:ka:sa:d e:va samuthpadyanthe: ithy a:dishv a:ka:sa sabdasya parasmin brahmani prasiddhe:r a:ka:sa sabda e:va parama:thma dharma vise:shitho: bhu:tha:ka:sa sanka:m nivarthayathi:thy arthah||16||
Link copied82 ithara para:marsa:th sa ithi che:n na:sambhava:th||1|3|17||
Link copiedparama:thmana itharah ji:vah; atha ya e:sha samprasa:do:'sma:ch chhari:ra:th samuththa:ya ithi ji:vasya para:marsa:th sa e:va dahara:ka:sa ithi che:th than na, pu:rvo:ktha:na:m guna:na:m thasminn asambhava:th||17||
Link copied83 uththara:ch che:d a:virbhu:tha svaru:pas thu||1|3|18||
Link copieduththara:th--- praja:pathi va:kya:d apahatha pa:pmathva:di gunako: ji:vo:'vagamyatha ithi che:th than na; ja:garitha:dy avastha:bhir ana:di ka:la pravruththa:bhih punya pa:pa ru:pa karma mu:la:bhis thiro:hitha gunakah parabrahmo:pa:sana janitha thad upasampaththya: a:virbhu:tha svaru:po:'sau ji:vas thathra praja:pathiva:kye:'pahatha--- pa:pmathva:digunakah ki:rthithah| dahara:ka:sasthvathiro:hithasvaru:pah apahatha pa:pmathva:di gunaka ithy asmin dahara:ka:se: na ji:va sanka:||18||
Link copieddahara va:kye: ji:va para:marsah kim artham ithi che:th, thathra:ha---
Link copied84 anya:rthas cha para:marsah||1|3|19||
Link copiedasma:ch chhari:ra:th samuththa:ya param jyo:thir upasampadya sve:na ru:pe:na:bhinishpadyatha ithi paranjyo:thih svaru:pa dahara:ka:so:pasampaththya:sya ji:vasya:nrutha thiro:hitha svaru:pasya svaru:pa:virbha:vo: bhavathi:thi dahara:ka:sasya jagad vidharana:divaj ji:va svaru:pa:virbha:va:pa:dana ru:pa sampad vise:sha prathipa:dana:rtho: ji:va para:marsah||19||
Link copied85 alpa sruthe:r ithi che:th thad uktham||1|3|20||
Link copieddaharo:'sminn ithy alpa parima:na sruthir a:ra:gro:pamithasya ji:vasyaivo:papadyathe:, na thu sarvasma:j jya:yaso: brahmana ithi che:th, thathra yad uththaram vakthavyam, thath pu:rvam e:vo:ktham| nicha:yyathva:d ithy ane:na||20||
Link copied86 anukruthe:sthasya cha||1|3|21||
Link copiedanukruthih--- anuka:rah; thasya parama:thmano:'nuka:ra:d dhi ji:vasya:virbhu:tha svaru:pasya:pahatha pa:pmathva:di gunakathvam| atho:'nukarthuh ji:va:d anuka:ryah parabrahma bhu:tho: dahara:ka:sah artha:nthara bhu:tha e:va| thad anuka:ras cha thath sa:mya:paththih sru:yathe: yada: pasyah pasyathe: rukma varnam kartha:ram i:sam purusham brahma yo:nim| thada: vidva:n punya pa:pe: vidhu:ya niranjanah paramam sa:myam upaithi ithi||21||
Link copied87 api smaryathe:||1|3|22||
Link copiedsmaryathe: cha thad upa:sana:th thath sa:mya:paththi ru:pa:nukruthir ji:vasya, idam jna:nam upa:srithya mama sa:dharmyam a:gatha:h| sarge:'pi no:paja:yanthe: pralaye: na vyathanthi cha ithi||22||ithi dahara:dhikaranam||5||
Link copied1.3.6
Link copied88 sabda:d e:va pramithah||1|3|23||
Link copiedkathavalli:shv a:mna:yathe:| angushtha ma:thrah purusho: madhya a:thmani thishthathi| i:sa:no: bhu:tha bhavyasya na thatho: vijugupsathe:| e:thad vaithath| uththarathra cha angushtha ma:thrah purusho: jyo:thir iva:dhu:makah| thatho:parishta:d angushtha ma:thrah purusho:'nthar a:thma: sada: jana:na:m hrudaye: sannivishtah ithi| athra:ngushtha pramitho: ji:va:thma:, utha parama:thme:thi samsayah| ji:va:thme:thi pu:rvah pakshah--- anyathra svi:krutha spashta ji:va bha:ve: purushe: angushtha pramithathva sruthe:h pra:na:dhipah sancharathi sva karmabhir angushtha ma:thro: ravi thulya ru:pah ithi| ra:ddha:nthas thu--- thathra sva karmabhir ithi ji:va bha:va nischayavad athra:pi, i:sa:no: bhu:tha bhavyasye:thi bhu:tha bhavye:sithruthva darsana:th parama:thmaive:thi| su:thra:rthas thu--- sabda:d e:va pramithah--- angushtha pramithah parama:thmaiva| i:sa:no: bhu:tha bhavyasye:thi parama:thma va:chi sabda:th||23||
Link copiedkatham anavachchhinnasya parama:thmano:'ngushtha pramithathvam ithy a:sankya:ha---
Link copied89 hrudy ape:kshaya: thu manushya:dhika:rathva:th||1|3|24||
Link copiedupa:sana:rtham upa:saka hrudaye: varthama:nathva:th, upa:saka hrudayasya:ngushtha ma:thrathva:th thad ape:kshaye:dam angushtha pramithathvam| manushya:na:m e:vo:pa:sakathva sambha:vanaya: manushya:n adhikruthya pravruththathva:ch chha:sthrasya manushya hrudaya:pe:kshaye:dam uktham| sthitham tha:vad uththarathra sama:payishyathe:||24||ithi pramitha:dhikarana pu:rva bha:gah||
Link copied1.3.7
Link copied90 thad upary api ba:dara:yanah sambhava:th||1|3|25||
Link copiedmanushya:dhika:ram brahmo:pa:sana sa:sthram ithy uktham| thath prasange:na de:va:di:na:m api brahma vidya:ya:m adhika:ro:'sthi nave:thi chinthyathe:| na de:va:di:na:m adhika:rah asthi:thi pu:rvah pakshah--- parinishpanne: brahmani sabdasya pra:ma:nya sambhave:'pi de:va:di:na:m vigraha:dimaththve: prama:na:bha:va:th, manthra:rtha va:da:na:m api vidhi se:shathaya: vigraha:di sad bha:va parathva:bha:va:th, vigrahavan nirvarthya:har ahar anushthi:yama:na vive:ka:di sa:dhana sapthaka samskrutha mano: nishpa:dyo:pa:sana nirvruththau the:sha:m sa:marthya:bha:va:th|
Link copiedra:ddha:nthas thu--- jagath srushti prakarane:shu na:ma ru:pa vya:karana sruthyaiva de:va:di:na:m vigraha:dimaththvam sidhyathi| de:va:di:na:m de:he:ndriya:di karanam e:va hi na:ma ru:pa vya:karanam, manthra:rtha va:dayo:s cha thad upalabdhe:h, thayo:r anushthe:ya---praka:sana sthuthi parathve:'pi thad upapaththaye: thath sad bha:ve: prama:nathva:d de:va:di:na:m vigraha:dimaththva siddhih, na hi vigraha:dimaththaya: sthuthih praka:sanam cha thad abha:ve: sambhavathi| athah sa:marthya sambhava:d asthy e:va:dhika:rah| su:thra:rthas thu--- thad upary api the:bhyah--- manushye:bhya upari varthama:na:na:m de:va:di:na:m apy adhika:ro:'sthi, yadva:, thath--- brahmo:pa:sanam upari de:va:dishv api sambhavathi, the:sha:m api brahma svaru:pa thad upa:sana praka:ra jna:na thad arthithva thad upa:da:na sa:marthya sambhava:th| pu:rvo:pa:rjitha jna:na:vismarana:j jna:na sambhavah tha:pa thraya:bhihathi pu:rvaka brahma guna jna:na:ch cha:rthithva sambhavah; srushti va:kya manthra:rtha va:de:shu vigrahavaththva:di darsana:th sa:marthya sambhavas che:thi bhagava:n ba:dara:yano: manyathe:||25||
Link copied91 viro:dhah karmani:thi che:n na:ne:ka prathipaththe:r darsana:th||1|3|26||
Link copiedkarmani--- ya:ga:dau, vigrahavaththve: sathy e:kasya yugapad ane:ka ya:ge:shu sannidha:na:nupapaththe:r viro:dhah prasajyatha ithi che:th than na, sakthimatha:m saubhari prabhruthi:na:m yugap adane:ka sari:ra prathipaththi darsana:th||26||
Link copied92 sabda ithi che:n na:thah prabhava:th prayaksha:numa:na:bhya:m||1|3|27||
Link copiedviro:dha ithi varthathe:| ma:bhu:th karmani viro:dhah, sabde: thu vaidike: viro:dhah prasajyathe:--- vigrahavaththve: hi the:sha:m sa:vayavathve:no:thpaththi vina:sa yo:ga:d uthpaththe:h pra:gvina:sa:d u:rdhvam cha vaidika:na:m indra:di sabda:na:m artha su:nyathvam anithyathvam va: sya:d ithi che:th than na, athah prabhava:th athah--- vaidika:d e:va sabda:d indra:de:h prabhava:th| pu:rva pu:rve:ndra:dau vinashte: vaidika:d indra:dya:kruthi vise:sha va:chinah sabda:d indra:dy a:kruthi vise:sham smruthva: thad a:ka:ram aparam indra:dikam srujathi praja:pathir ithi vaidikasya sabdasya na kaschid viro:dhah| na hi de:vadaththa:di sabdavad indra:di sabda: vyakthi vise:she: sanke:tha pu:rvaka:h pravruththa:h; api thu gava:di sabdavad a:kruthi vise:sha va:china ithi the:sha:m api nithya e:va va:chya va:chaka bha:vah| vaidika:d indra:di sabda:th thad artha vise:sham smruthva: kula:la:dir iva ghata:dikam praja:pathih srujathi:thi kutho:'vagamyathe:m prathyaksha:numa:na:bhya:m--- sruthi smruthibhya:m ithy arthah| sruthis tha:vath ve:de:na ru:pe: vya:karo:th satha: sathi: praja:pathih, thatha: sa bhu:r ithi vya:harath sa bhu:mim asrujatha ithy a:dika:| smruthir api sarve:sha:m cha sa na:ma:ni karma:ni cha pruthak pruthak| ve:da sabde:bhya e:va:dau pruthak samstha:s cha nirmame:| na:ma ru:pam cha bhu:tha:na:m kruthya:na:m cha prapanchanam| ve:da sabde:bhya e:va:dau de:va:di:na:m chaka:ra sah ithy a:dika:||27||
Link copied93 atha e:va cha nithyathvam||1|3|28||
Link copiedyathah praja:pathih vaidika:ch chhabda:d artha:ka:ram smruthva: thad a:ka:ram sarvam srujathi, athas cha vasishtha visva:mithra:di:na:m manthra su:ktha:di kruththve:'pi manthra:di mayasya ve:dasya nithyathvam thishthathy e:va| praja:pathir hi naimiththika pralaya:nantharam manthra krutho: vruni:the:| visva:mithrasya su:ktham bhavathi:thy a:di ve:da sabde:bhyo:'nadhi:tha manthra:di darsana saktha vasishtha:dy a:kruthi vise:sham smruthva:, vasishthathva:di pada pra:pthaye: anushthitha karma vise:sha:ms cha:nusmruthya, thad a:ka:ra vise:sha:n tha:n vasishtha:di:n srujathi; the: cha:nadhi:thyaiva ve:daika de:sa bhu:tha manthra:di:n svaratho: varnathas cha:skhalitha:n pathanthi| thad e:sha:m manthra:di kruthve:'pi ve:da nithyathvam upapadyathe:||28||
Link copiedpraja:pathi prabhruthishu sarve:shu thaththve:shv avya:krutha paryanthe:shu avya:krutha parina:ma ru:pe:shu sabda maye:shu ve:de:shu cha vinashte:shv avya:krutha srushty a:vruththau katham ve:dasya nithyathvam ithyatha a:ha---
Link copied94 sama:na na:ma ru:pathva:ch cha:vruththa:v apy aviro:dho: darsana:th smruthe:s cha||1|3|29||
Link copiedavya:krutha srushty a:vruththa:v api srujya:na:m sama:na na:ma ru:pathva:d e:va na kaschid viro:dhah| a:di sarge:'pi hi parama purushah pu:rva samstha:nam jagath smaran thathaiva srujathi, ve:da:ms cha pu:rva:nupu:rvi: visishta:n a:vishkruthya hiranyagarbha:ya dada:thi:thi| pu:rva samstha:nam e:va jagath srujathi:thi katham avagamyathe:| darsana:th smruthe:s cha| darsanam--- sruthih| aho: ra:thra:ni vidadhad visvasya mishatho: vasi:, su:rya:chandramasau dha:tha: yatha:pu:rvam akalpayath, divam cha pruthivi:m cha:nthariksham atho: suvar ithi, yo: brahma:nam vidadha:thi pu:rvam yo: vai ve:da:ms cha prahino:thi thasmai ithi cha, smruthir api--- yatharthushv ruthu linga:ni na:na: ru:pa:ni paryaye:| drusyanthe: tha:ni tha:ny e:va thatha: bha:va: yuga:dishu| ithi| e:thad e:va ve:dasya nithyathvam yath pu:rva pu:rvo:chcha:rana krama vise:sham smruthva: the:naiva krame:no:chcha:ryathvam| parama purusho:'pi svaru:pa sva:ra:dhana thath phala ya:tha:thmya:vabo:dhi ve:dam sva svaru:pavan nithyam e:va pu:rva:nupu:rvi: visishtam smruthva: a:vishkaro:thi| atho: de:va:di:na:m brahma vidya:dhika:re: na kaschid viro:dhah||29||ithi de:vatha:dhikaranam||7||
Link copied1.3.8
Link copied95 madhv a:dishv asambhava:d anadhika:ram jaiminih||1|3|30||
Link copiedchha:ndo:gye: asau va: a:dithyo: de:va madhu ithy upakramya| thad yath prathamam amrutham thad vasava upaji:vanthi ithy ukthva:, sa ya e:thad e:vam amrutham ve:da vasu:na:m e:vaiko: bhu:thva:gninaiva mukhe:naithad e:va:mrutham drushtva: thrupyathi ithy a:dina: rug yajuh sa:ma:di ve:do:ditha karma sampa:dya rasa:dha:rathaya: madhum ayasya:d ithy asya pu:rva dakshina paschimo:ththaro:rdhva:msa:n vasu rudra:dithya maruth sa:dhya na:mna:m de:va gana:na:m bho:gyathve:na:bhidha:ya, thair bhujyama:na:ka:re:na:dithya:msa:nupa:sya:n upadisya, tha:n e:va:dithya:msa:ms thatha: bhu:tha:n pra:pya:n upadisathi| e:vam a:dishu:pa:sane:shu vasv a:dithya:di:na:m adhika:ro:'sthi, ne:thi samsayah| na:sthy adhika:ra ithi pu:rvah pakshah, vasv a:di:na:m upa:sya:nthar gathathve:na karma karthru bha:va viro:dha:th, pra:pyasya vasuthva:de:h pra:pthathva:ch cha| ra:ddha:nthas thu--- brahmana e:va thad avasthasyo:pa:sya:di:na:m satha:m sva:vastha brahma:nusandha:na:viro:dha:th kalpa:nthare: vasuthva:de:h pra:pthathva:viro:dha:ch cha vasv a:di:na:m adhika:rah sambhavathi:thi| su:thra:rthas thu madhu vidya:dishu vasv a:di:na:m anadhika:ram jaiminir manyathe:| asambhava:th--- vasv a:di:na:m e:va upa:sya:na:m upa:sakathva:sambhava:th, vasuthva:de:h pra:pthathva:d e:va pra:pyathva:sambhava:ch cha||30||
Link copied96 jyo:thishi bha:va:ch cha||1|3|31||
Link copiedtham de:va: jyo:thisha:m jyo:thir a:yur ho:pa:sathe:'mrutham ithi jyo:thishi--- parasmin brahmani de:va manushyayo:r adhika:ra sa:dha:ranye: sathy api, jyo:thisha:m jyo:thih--- param brahma de:va: upa:sathe: ithi vise:sha vachanam vasva:di:na:m karmakarthrubha:vaviro:dha:ththe:shu the:sha:manadhika:ram dyo:thayathi| de:va: ithi sa:ma:nya vachanam cha vasv a:di vise:sha vishayam ithy avagamyathe:, anye:sha:m aviro:dha:th||31||
Link copied97 bha:vam thu ba:dara:yano:'sthi hi||1|3|32||
Link copiedthu sabdah paksham vya:varthayathi| vasv a:di:na:m madhu vidya:dishv adhika:ra sad bha:vam bhagava:n ba:dara:yano: manyathe:| asthi hi vasv a:di:na:m e:vo:pa:syathvam pra:pyathvam cha| ida:ni:m vasu:na:m e:va satha:m kalpa:nthare: vasuthvasya pra:pyathva sambhava:th pra:pyathvam sambhavathi| sva:thmana:m brahma bha:va:nusandha:na sambhava:d upa:syathvam cha sambhavathi| ya e:tha:m e:vam brahmo:panishadam ve:da ithi hi kruthsna:ya: madhu vidya:ya:h brahma vidya:thvam avagamyathe:||32||ithi madhv adhikaranam||8||
Link copied1.3.9
Link copied98 sug asya thad ana:dara sravana:th thad a:dravana:th su:chyathe: hi||1|3|33||
Link copiedbrahma vidya:ya:m su:drasya:py adhika:ro:'sthi, ne:thi samsayah| asthi:thi pu:rvah pakshah,--- arthithva sa:marthya sambhava:th| su:drasya:nagni vidyathve:'pi mano:vruththi ma:thrathva:th upa:sanasya sambhavathi hi sa:marthyam| brahma svaru:pa thad upa:sana praka:ra jna:nam che:thiha:sa pura:na sravana:d e:va nishpadyathe:| asthi hi su:drasya:pi:thiha:sa pura:na sravana:nujna:| sra:vaye:ch chathuro: varna:n kruthva: bra:hmanam agratha ithi| thatha: thathraiva vidura:di:na:m brahma nishthathvam drusyathe:| upanishathsv api| a:jaha:re:ma:h su:dra:ne:naiva mukhe:na:la:payishyatha: ithi su:dra sabde:na:manthrya brahma vidyo:pade:sa darsana:ch chhu:drasya:pi:ha:dhika:rah su:chyathe:| ra:ddha:nthas thu--- upa:sanasya mano:vruththi ma:thrathve:'py anadhi:tha ve:dasya su:drasya upa:sano:pa:ya bhu:tha jna:na:sambhava:th, na sa:rmathya sambhavah| karma vidhivad upa:sana: vidhayo:'pi thraivarnika vishaya:dhyayana gruhi:thasva:dhya:yo:thpanna jna:nam e:va upa:sano:pa:yathaya: svi:kurvathe:| ithiha:sa:dayo:'pi sva:dhya:ya siddham e:va jna:nam upabrumhayanthi:thi thatho:'pi na:sya jna:na la:bhah| sravana:nujna: thu pa:pa kshaya:di phala:| vidura:di:na:m thu bhava:nthara va:sanaya: jna:na la:bha:d brahma nishthathvam| su:dre:thy a:manthranam api na chathurtha varnathve:na, api thu brahma vidya: vaikalya:ch chhug asya sanja:the:thi| atho: na su:drasya:dhika:rah| su:thra:rthas thu--- brahma vidya: vaikalye:na hamso:ktha:na:dara va:kya sravana:th thadaiva:cha:ryam prathy a:dravana:ch cha:cha:rye:na thasya susru:sho:r vidya: la:bha krutha: suk su:chyathe:| hi sabdo: he:thau| yasma:d asya suk su:chyathe:, athah so:chana:ch chhu:dra ithi kruthva:, a:cha:ryo: raikvo: ja:nasruthim su:dre:thy a:manthrayathe:, na ja:thi yo:ge:ne:thy arthah||33||
Link copied99 kshathriyathva gathe:s cha||1|3|34||
Link copiedasya susru:sho:h kshathriyathva:vagathe:s cha na ja:thi yo:ge:na su:dre:thy a:manthranam| prakarana prakrame: hi bahu da:yi: ithy a:dina: da:na pathithva bahuthara pakva:nna da:yithva kshaththru pre:shana bahu gra:ma:di prada:nair asya ja:nasruthe:h susru:sho:h kshathriyathvam prathi:tham||34||
Link copied100 uththarathra chaithrarathe:na linga:th||1|3|35||
Link copieduparishta:ch cha:sya:m vidya:ya:m bra:hmana kshathriyayo:r e:va:nvayo: drusyathe:| atha ha saunakam cha ka:pe:yam abhipratha:rinam cha ithy a:dina:| abhipratha:ri: hi chaithrarathah kshathriyah| abhipratha:rinas chaithrarathathvam kshathriyathvam cha ka:pe:ya sa:hacharya:l linga:d avagamyathe:| prakarana:nthare: hi ka:pe:ya sahacha:rinah chaithrarathathvam kshathriyathvam cha:vagatham| e:the:na vai chaithraratham ka:pe:ya: aya:jayan ithi, thasma:ch chaithraratho: na:maikah kshathra pathir aja:yathe:thi cha| atho:'sya:m vidya:ya:m anvitho: bra:hmana:d itharo: ja:nasruthir api kshathriyo: bhavithum arhathi||35||
Link copied101 samska:ra para:marsa:th thad abha:va:bhila:pa:ch cha||1|3|36||
Link copiedvidyo:pade:se: upa thva: ne:shye: ithy upanayana--- samska:ra para:marsa:th su:drasya thad abha:va vachana:ch cha:nadhika:rah| na su:dre: pa:thakam kinchin na cha samska:ram arhathi| ithi hi nishidhyathe:||36||
Link copied102 thad abha:va nirdha:rane: cha pravruththe:h||1|3|37||
Link copiednaithad abra:hmano: vivakthum arhathi samidham saumya:hara ithi susru:sho:r ja:ba:le:h su:drathva:bha:va nischaya e:vo:pade:se: pravruththe:r na:dhika:rah||37||
Link copied103 sravana:dhyayana:rtha prathishe:dha:th||1|3|38||
Link copiedsu:drasya sravana:dhyayana:di:ni hi prathishidhyanthe:| thasma:ch chhu:dra sami:pe: na:dhye:thavyam ithi| anupasrunvatho:'dhyayana:dir na sambhavathi||38||
Link copied104 smruthe:s cha||1|3|39||
Link copiedsmaryathe: cha su:drasya ve:da sravana:dau dandah| atha ha:sya ve:dam upasrunvathah thrapu jathubhya:m sro:thra prathipu:ranam uda:harane: jihva:chchhe:do: dha:rane: sari:ra bhe:da ithi||39||ithy apasu:dra:dhikaranam||9||
Link copied[pramitha:dhikarana se:shah]
Link copiedpra:sangikam parisama:pya prakrutham parisama:payathi---
Link copied105 kampana:th||1|3|40||
Link copiedangushtha pramitha prakarana madhye:| yad idam kim cha jagath sarvam pra:na e:jathi nihsrutham| mahad bhayam vajram udyatham bhaya:d asya:gnis thapathi ithy a:dau pra:na sabda nirdishta:ngushtha pramitha janitha bhaya nimiththa:d agni va:yu su:rya prabhruthi kruthsna jagath kampana:th sru:yama:na:d angushtha pramithah parama:thmaive:thi nischi:yathe:||40||
Link copied106 jyo:thir darsana:th||1|3|41||
Link copiedasminn e:va prakarane: thath sambandhithaya: na thathra su:ryo: bha:thi ithy a:rabhya thasya bha:sa: sarvam idam vibha:thi ithi sarve:sha:m chha:dakasya:navadhika:thisayasya bha:h sabda:bhihithasya brahma bhu:thasya parasya jyo:thisho: darsana:ch cha angushtha pramithah parama:thma:||41||ithi pramitha:dhikarana se:shah||
Link copied1.3.10
Link copied107 a:ka:so:'rtha:ntharathva:di vyapade:sa:th||1|3|42||
Link copiedchha:ndo:gye: a:ka:so: ha vai na:ma ru:payo:r nirvahitha: the: yad anthara: thad brahma thad amrutham sa a:thma: ithy athra:ka:sa sabda nirdishtah kim muktha:thma:, utha parama:thme:thi samsayah| muktha ithi pu:rvah pakshah| dhu:thva: sari:ram akrutham krutha:thma: brahma lo:kam abhisambhava:mi ithi mukthasya:nanthara prakruthathva:th| ra:ddha:nthas thu--- na:ma ru:payo:r nirvahitha: the: yad anthara: ithi svayam asprushta na:ma ru:pathaya: na:ma ru:payo:r nirvo:dhruthve:na sru:yama:no:'yam a:ka:so: baddha muktho:bhaya:vastha:th prathyag a:thmanah artha:ntharathva:th parama:thmaiva|
Link copiedsu:thra:rthas thu--- a:ka:sah parama:thma:, thasya na:ma ru:payo:r nirvo:dhruthva thad asparsa lakshana:rtha:ntharathva vyapade:sa:th| prathyag a:thmano: hy artha:nthara bhu:tha e:va na:ma ru:payo:r nirvo:dha:| baddha:vasthastha:van na:ma ru:pa:bhya:m sprushtas thath paravasas che:thi na nirvo:dha:; mukthasya:pi jagad vya:pa:rara hithathva:n na nirvo:dhruthvam| a:di sabde:na nirupa:dhika brahmathva:mruthathva:thmathva:di:ni gruhyanthe:| tha:ni nirupa:dhika:ni mukthasya:pi na sambhavanthi||42||
Link copiednanu thath thvam asya:dinaikya vyapade:sa:th, ne:ha na:na:sthi:thi bhe:da prathishe:dha:ch cha na prathyag a:thmano:'rtha:nthara bhu:thah parama:thme:thy a:sankya:ha---
Link copied108 sushupthy uthkra:nthyo:r bhe:de:na||1|3|43||
Link copiedvyapade:sa:d ithi varthathe:| pra:jne:na:thmana: samparishvakthah, pra:jne:na:thmana:nva:ru:dhah ithi sushupthy uthkra:nthyo:r luptha sakala vise:sha vijna:na:th prathyag a:thmanas thada:ni:m e:va sarvajnathaya: bhe:da vyapade:sa:th prathyag a:thmano:'rtha:nthara bhu:tha e:va parama:thma:||43||
Link copied109 pathy a:di sabde:bhyah||1|3|44||
Link copiedparishvanjake: pra:jne: sru:yama:ne:bhyah pathy a:di sabde:bhyas cha:yam prathyag a:thmano:'rtha:nthara bhu:thah parama:thma:, sarvasya:dhipathih sarvasya vasi: sarvasye:sa:nah ithy a:dau| aikyo:pade:sa---bhe:da prathishe:dhau thu brahma ka:ryathva nibandhana:v ithi| thaj jala:n ithi, sarvam khalv idam brahma ithy a:di sruthibhir e:va vyakthau||44||ithy artha:ntharathva:di vyapade:sa:dhikaranam||10||
Link copiedithi sri: ra:ma:nuja:cha:rya rachithe: sri: ve:da:nthadi:pe: prathamasya:dhya:yasya thruthi:yah pa:dah
Link copied