Vedanta Dipa · Section 6 of 17
||atha dvithi:ya:dhya:ye: prathamah pa:dah||
Original Sanskrit · click to toggle
१३९। स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेन् नान्य-स्मृत्य्-अनवकाश-दोष-प्रसङ्गात्॥२।१।१॥
Link copiedवेदान्तानां समस्त-चिद्-अचिद्-वस्तु-विलक्षणास्पृष्ट-हेय-गन्ध-सर्वज्ञताद्य्-अनन्त-कल्याण-गुणाकर-ब्रह्मैक-परत्वं प्रतिपादितं कपिल-स्मृति-विरोधेन चालयितुं शक्यम्, उत नेति संशयः। शक्यम् इति पूर्वः पक्षः, श्रुति-विरुद्धायाः स्मृतेर् अनादरणीयत्वे स्थितेऽपि वेदान्त-वेद्यार्थस्य दुर्ग्रहत्वेन अल्प-श्रुतैर् मन्द-मतिभिर् आप्त-प्रणीत-स्मृत्य्-उपबृंहणेन विना तेषां निश्चयो नोपपद्यते। कपिल-स्मृतिः केवल-तत्त्व-परेति तयैव ह्य् उपबृंहणं न्याय्यम्। अन्यथा आप्त-प्रणीतायाः केवल-तत्त्व-परायास् तस्या अनवकाश-प्रसङ्ग इति वेदान्त-वेद्यं जगत्-कारणं प्रधानम्। राद्धान्तस् तु--- वेदान्तस्योपबृंहणापेक्षत्वेऽप्य् आप्ततम-मन्व्-आदि-स्मृतिभिर् वेदान्ताविरोधिनीभिर् एवोपबृंहणं न्याय्यम्, अन्यथा तासां बह्वीनाम् अनवकाश-प्रसङ्गो महान् अयं दोषः स्यात्। न च तासां धर्म-प्रतिपादनांशोपबृंहणत्वेन सावकाशत्वम्, यतो धर्माणाम् अपि स्वरूपं परब्रह्म-भूत-परम-पुरुषाराधनत्वम्, इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः। तद् एधाग्निस् तद् वायुस् तत् सूर्यस् तद् उ चन्द्रमाः, यज्ञैस् त्वम् इज्यसे नित्यं सर्व-देव-मयाच्युत, इत्य् आदि श्रुति-स्मृतिभिः। सूत्रम् अपि व्याख्यातम्॥१॥
Link copiedअतीन्द्रियार्थ-साक्षात्कार-समर्थस्य कपिलस्य वेदान्तानां ब्रह्म-परत्वानुपलब्धेः प्रधान-परत्वम् एवाश्रयणीयम् इत्य् अत उत्तरं पठति---
Link copied१४०। इतरेषां चानुपलब्धः॥२।१।२॥
Link copiedइतरेषां मन्व्-आदीनां वेद-विद्-अग्रेसराणां सर्वातीन्द्रियार्थ-साक्षात्कार-समर्थानां प्रधान-परत्वानुपलब्धेर् ब्रह्म-परत्वोपलब्धेश् च ब्रह्म-परत्व-मेघाश्रयणीयम्; वेदान्त-प्रतिपन्नार्थ-विरुद्धायास् तु कपिलोपलब्धेर् भ्रान्ति-मूलत्वं कल्पयितव्यम्॥२॥ इति स्मृत्य्-अधिकरणम्॥१॥
Link copied१४१। एतेन योगः प्रत्युक्तः॥२।१।३॥
Link copiedकिं वेदान्तानां योग-स्मृत्योपबृंहणं न्याय्यम्, उत नेति संशयः। न्याय्यम् इति पूर्वः पक्षः, कृत्स्न-वेद-प्रवर्तनाधिकृत-हिरण्यगर्भ-प्रणीतत्वाद् योगस्य, ईश्वर-सद्-भावाभ्युपगमाच् च। अतो योग-स्मृत्योपबृंहितत्वेन वेदान्तानाम् अब्रह्मात्मक-प्रधानोपादान-प्रतिपादन-परत्वम्। राद्धान्तस् तु--- कपिल-स्मृतिवद् वेद-विरुद्ध्त्वाविशेषाद् अनादरणीयैव योग-स्मृतिः; हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन भ्रम-सम्भवात् योग-स्मृतेर् अपि भ्रान्ति-मूलकत्वम्। सूत्रम् अपि व्याख्यातम्॥३॥ इति योग-प्रत्युक्ताधिकरणम्॥२॥
Link copied१४२। न विलक्षणत्वाद् अस्य तथात्वं च शब्दात्॥२।१।४॥
Link copiedकिं वेदान्तानां जगत्-कारणतया प्रधान-परत्वम्, उत ब्रह्म-परत्वम् इति संशयः। प्रधान-परत्वम् इति पूर्वः पक्षः, अज्ञत्वादिना जगतो ब्रह्म-विलक्षणत्वेन ब्रह्म-कार्यत्व-प्रतिपादनासम्भवात्, सालक्षण्येन प्रधान-कार्यत्व-प्रतिपादन-परत्वस्य च सम्भवात्। राद्धान्तस् तु--- माक्षिकादिभ्यः क्रिम्यादीनां विलक्षणानाम् उत्पत्ति-दर्शनात् ब्रह्म-विलक्षणस्य जगतः तत्-कार्यत्वं सम्भवत्येव इति। सूत्रार्थस् तु --- अज्ञत्वेनासुखत्वेन चोपलब्धस्य चास्य चिद्-अचिन्-मिश्रस्य जगतः सर्व-ज्ञाद् धेय-प्रत्यनीकान् निरतिशयानन्दाद् ब्रह्मणो विलक्षणत्वेन जगतो ब्रह्म-कार्यत्व-प्रतिपादनं वेदान्तानां न सम्भवति। तथात्वं--- विलक्षणत्वं च शब्दाद् अवगम्यते, न केवलं प्रत्यक्षाद्य्-उपलब्द्ध्या, विज्ञानं चाविज्ञानं च, अनीशया शोचति मुह्यमानः, अनीशश् चात्मा बध्यते भोक्तृ-भावात्, इत्य् आदेः॥४॥
Link copiedआपो वा अकामयन्त, तं पृथिव्य् अब्रवीत्, इत्य् आदौ पृथिव्य्-आदेर् अपि ज्ञान-कार्यं व्यपदिश्यते; तस्मात्--- अविज्ञानं चेत्य् एतद् अन्य-परम् इत्य् अत उत्तरं पठति---
Link copied१४३। अभिमानि-व्यपदेशस् तु विशेषानुगतिभ्याम्॥२।१।५॥
Link copiedतु-शब्दश् चोद्यं व्यावर्तयति; पृथिव्य्-आद्य्-अभिमानि-देवतानाम् अयं व्यपदेशः। कुतोऽवगम्यते, विशेषानुगतिभ्यां--- विशेषः, विशेषणम्, हन्ताहम् इमास् तिस्रो देवताः, इति पृथिव्य्-आदेर् देवता-शब्देन विशेषणं दृश्यते, सर्वा ह वै देवता अहं श्रेयसे विवदमानाः, इति च वाग्-आदि-प्राण-पर्यन्तस्य च। तथानुगतिः--- अनुप्रवेशः, अग्न्य्-आदीनां वाग्-आद्य्-अनुप्रवेशो दृश्यते, अग्निर् वाग् भूत्वा मुखं प्राविशत् आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् वायुः प्राणो भूत्वा नासिके प्राविशद् इत्य् आदौ॥५॥
Link copied१४४। दृश्यते तु॥२।१।६॥
Link copiedतु-शब्दः पक्षं व्यावर्तयति, माक्षिकादिभ्यो विलक्षणानां क्रिम्य्-आदीनाम् उत्पत्तिर् दृश्यते; अतो ब्रह्म-विलक्षणस्यापि जगतस् तत्-कार्यत्वं सम्भवति॥६॥
Link copied१४५। असद् इति चेन् न प्रतिषेध-मात्रत्वात्॥२।१।७॥
Link copiedयदि कार्यस्य कारणाद् विलक्षण-द्रव्यत्वम् अभ्युपगम्यते, तर्हि कारणे कार्यं न सद् भवतीत्य् असत्-कार्य-वादोऽभ्युपगतः स्यात्; तथा सति--- सर्वं खल्व् इदं ब्रह्मेति सामानाधि-करण्य-व्यपदेशो न घटत इति चेत् तन् न, कार्य-कारणयोः सालक्षण्य-नियम-प्रतिषेध-मात्रत्वाद् अस्माभिः पूर्वम् अभिहितस्य। कार्य-कारणयोर् एक-द्रव्यत्वं स्वीकृतम् एव। एकम् एव कारणावस्थं द्रव्यं कार्यावस्थां भजमानं सलक्षणावस्थाम् अपि भजते, विलक्षणावस्थाम् अपीत्य् अर्थः॥७॥
Link copied१४६। अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम्॥२।१।८॥
Link copiedयदि ब्रह्मैव सर्व-ज्ञं सत्य-सङ्कल्पं निरतिशयानन्दम् अपहत-पाप्मत्वादि-स्वरूपं तद्-विपरीत-जगद्-अवस्थां भजते तर्हि पिण्डत्व-घटत्वावस्थ-मृद्-द्रव्यवत् सर्व-ज्ञत्वम् अपहत-पाप्मत्वम् अज्ञत्वं कर्म-वश्यत्वं च ब्रह्मणः प्रसज्येतेति विरुद्धार्थाभिधानाद् वेदान्त-वाक्यम् असमञ्जसं स्यात्। अपीताव् इति सृष्ट्य्-आदेः प्रदर्शनार्थम्। जगतो ब्रह्मण्य् अपीतौ ब्रह्मण उत्पत्ताव् अपीत्य् अर्थः। अपीतिर् अप्ययः॥८॥
Link copied१४७। न तु दृष्टान्त-भावात्॥२।१।९॥
Link copiedन ब्रह्मण्य् अज्ञत्वादयः प्रसज्येरन्; अत एव न वेदान्तानाम् असामञ्जस्यम्। तु-शब्दः प्रसक्तस्यासम्भावनीयतां द्योतयति। एकस्यैवावस्था-द्वयान्वयेऽपि गुण-दोष-व्यवस्थायां दृष्टान्त-सद्-भावात्, यथा मनुष्यो जातो बालो युवा स्थविरो भवतीत्य् अत्र मनुष्य-शरीरकस्य चेतनस्यैव सर्वावस्थान्वयेऽपि जन्म-बालत्व-युवत्व-स्थविरत्वादीनि नात्मनि सङ्गच्छन्ते; तथा ज्ञान-सुख-दुःखादयश् च न शरीरे। एवं चिद्-अचिद्-वस्तु-शरीरकस्य परस्य ब्रह्मणः कार्य-कारणोभयावस्थान्वयेऽपि कर्म-वश्यत्वाज्ञत्वादयः शरीर-भूत-चिद्-अचिद्-वस्तु-गताः। अपहत-पाप्मत्व-सर्वज्ञत्वादयः परमात्मन्य् आत्म-भूतेऽवतिष्ठन्ते। सर्वावस्थस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरत्वम्, ब्रह्मणश् च तद्-आत्मत्वम्, यस्य पृथिवी शरीरम् इत्य् आद्य् अन्तर्यामि-ब्राह्मणादिष्व् अवगतम् इति न कश्चिद् विरोधः॥९॥
Link copied१४८। स्व-पक्ष-दोषाच् च॥२।१।१०॥
Link copiedन केवलं ब्रह्म-कारण-वादस्य निर्दोषतया तत्-समाश्रयणम्, प्रधान-कारण-वादे दोषाच् चैतत् परित्यज्य स एव समाश्रयणीयः। प्रधान-कारण-वादे हि निर्विकारस्य चिन्-मात्रस्य पुरुषस्य प्रकृति-सन्निधान-कृत-तद्-धर्माध्यास-मूला जगत्-प्रवृत्तिर् अभ्युपगम्यते; तत्र प्रकृति-सद्-भाव-मात्रे सन्निधाने सति मुक्तस्यापि तद्-धर्माध्यास-प्रसङ्गः; विकार-विशेषे सति सन्निधाने कृत्स्नस्य विकारस्याध्यास-पूर्वकत्वान् नाध्यासस्य विकारो हेतुर् इति विरुद्धार्थाभिधानाद् असामञ्जस्य दोष इति न तत्-पक्ष-सम्भव-गन्धः॥१०॥
Link copied१४९। तर्काप्रतिष्ठानाद् अपि॥२।१।११॥
Link copiedकापिल-तन्त्रस्य तर्क-मूलत्वेन शाक्यादि-तर्क-प्रतिहततयास्य तर्कस्याप्रतिष्ठितत्वाच् च न तत्-पक्ष-सम्भवः॥११॥
Link copied१५०। अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्ष-प्रसङ्गः॥२।१।१२॥
Link copiedइतः पूर्वं विद्यमानैस् तर्कैर् अप्रतिहतत्वं यथा सम्भवति, तथा प्रधान-कारणवादम् अनुमास्यामह इति चेत् तथापि तर्काप्रतिष्ठान-दोषाद् अनिर्मोक्ष-प्रसङ्गो दुर्वारः; त्वद्-अधिक-कुतर्क-कुशल-सद्-भाव-सम्भवात्॥१२॥ इति विलक्षणत्वाधिकरणम्॥३॥
Link copied१५१। एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥२।१।१३॥
Link copiedन परिगृह्यन्ते वैदिकैर् इत्य् अपरिग्रहाः; शिष्टाश् च ते अपरिग्रहाश् च शिष्टापरिग्रहाः। एतेन--- तर्काप्रतिष्ठान-लक्षण-कपिल-स्मृति-निरसन-हेतुना, परिशिष्टाः कणभक्षादि-स्मृतयोऽपि निरस्ता व्याख्याताः। परमाणु-कारण-वादः सर्व-सम्मत इति न तेषां तर्कस्याप्रतिष्ठितत्वम् इत्य् अधिकाशङ्का। तर्क-मूलत्वाविशेषात् परमाणूनां शून्यत्वाद् द्रव्यत्वादि-विवादाच् च, तर्कस्याप्रतिष्ठितत्वम् एवेति परिहारः॥१३॥ इति शिष्टापरिग्रहाधिकरणम्॥४॥
Link copied१५२। भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्॥२।१।१४॥
Link copiedसर्वात्म-भूतस्य परस्य ब्रह्मणः स्व-शरीर-भूताज् जीवान् निरतिशयानन्द-स्वभावतया यो विभाग उक्तः, स किं विभागस् सम्भवति, उत नेति संशयः। न सम्भवतीति पूर्वः पक्षः। सर्व-चिद्-अचिद्-वस्तु-शरीरतया सशरीरत्वाद् ब्रह्मणः, सशरीरस्य च सुख-दुःखयोर् भोक्तृत्वापत्तेः। तद्-आपत्तिश् च--- न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्त्य् अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः, इति श्रुतेः। राद्धान्तस् तु--- स्याद् एव विभागो जीवात् परस्याकर्म-वश्यतया। न सशरीरत्व-प्रयुक्तः सुख-दुःख-योगः, अपि तु शास्त्र-वश्यतया तद्-अतिवृत्ति-कृतः; स एकधा भवति त्रिधा भवतीत्य् आदिनावगत-शरीरस्य मुक्तस्य सशरीरस्याप्य् अशास्त्र-वश्यतया निरस्त-निखिल-दुःखत्व-दर्शनात्। यथा लोके राज-शासन-वश्यानां तच्-छासनातिवृत्ति-निमित्त-दुःखान्वयेऽपि राज्ञः सशरीरस्यापि प्रकारान्तरेण साधर्म्येऽपि स्व-शासनावश्यतया न तद्-अतिवृत्ति-कृत-दुःखान्वयः। विभागः वैलक्षण्यम्। सूत्रम् अपि व्याख्यातम्॥१४॥ इति भोक्त्रापत्त्य्-अधिकरणम्॥५॥
Link copied१५३। तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः॥२।१।१५॥
Link copiedकिं ब्रह्म-कार्यं जगद् ब्रह्मणोऽन्यत्, उतानन्यद् इति संशयः। अन्यद् इति पूर्वः पक्षः, तथोपलब्धेः। न हि बुद्धि-शब्दान्तरादयः कारणात् कार्यस्यानन्यत्वे कथञ्चिद् उपपद्यन्ते; कारक-व्यापार-वैयर्थ्यं चानन्यत्वे। अतो वस्तु-विरोधाद् अनन्यत्व-श्रुतयो लक्षणया नेयाः। राद्धान्तस् तु--- वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम्, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं तद् ऐक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजत, ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेतकेतो, सर्वं खल्व् इदं ब्रह्म तज् जलान् इति, तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्यां व्याक्रियत, इत्य् आदि श्रुति-शत-सिद्धं कार्यस्य जगतः कारणाद् ब्रह्मणोऽनन्यत्वम्। न चात्र वस्तु-विरोध-गन्धः; कारणीभूत-मृद्-आदि-द्रव्यस्यैव पृथु-बुध्नोदराद्य्-अवस्थान्तरापत्त्या बुद्धि-शब्दान्तरादयोऽप्य् उपपद्यन्ते। तत एव कारक-व्यापाराद्य्-अर्थवत्त्वं च। एवं कारणस्यैव कार्यावस्थायाम् अपि प्रत्यभिज्ञायमानस्यावस्थान्तरापत्त्यैव सर्वेषूपपन्नेष्व् अनुपलब्ध-द्रव्यान्तर-कल्पना न सम्भवति। तस्माद् ब्रह्म-कार्यं जगद् ब्रह्मणोऽनन्यद् एव। सूत्रार्थस् तु--- तस्माद् ब्रह्मणः, अनन्यत्वं कार्यस्य जगत आरम्भण-शब्दादिभ्यो वाक्येभ्यस् तद्-उपपादयद्भ्योऽवगम्यते, आरम्भणम् इति शब्द आदिर् येषां पूर्वोक्तानां वाक्यानाम्, तान्य् आरम्भण-शब्दादीनि; तान्य् अनन्यत्वम् उपपादयन्ति॥१५॥
Link copied१५४। भावे चोपलब्धेः॥२।१।१६॥
Link copiedघटादि-कार्यं भावे च तद् एवेदं मृद्-द्रव्यम् इत्थम् अवस्थितम् इति कारणस्य उपलब्धेश् च कारणाद् अनन्यत्वं कार्यस्य। यथा देवदत्तस्य बालत्व-युवत्वाद्य्-अवस्था-विशिष्टस्यानन्यत्वम्॥१६॥
Link copied१५५। सत्त्वाच् चापरस्य॥२।१।१७॥
Link copiedअपरस्य कार्यस्य कारणे सत्त्वाच् च कारणाद् अनन्यत् कार्यम्। सर्वम् इदं वट-शरावादि-कार्यं पूर्वाह्ने मृद् एवासीद् इति हि कारणे कार्यम् उपलभ्यते। घट-शरावादि-संस्थान-संस्थितम् एव मृद्-द्रव्यं पूर्व-काले पिण्डाकारम् उपलब्धम् इत्य् अर्थः॥१७॥
Link copied१५६। असद्-व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्य-शेषाद्य्-उक्तेश् शब्दान्तराच् च॥२।१।१८॥
Link copiedअसद् एवेदम् अग्र आसीत्, इदं वा अग्रे नैव किञ्चनासीत्, इत्य् आदिषु कारणावस्थायां कार्यस्यासत्त्व-व्यपदेशात् कारणे कार्यं सद् इत्य् एतन् नोपपद्यत इति चेन् न, सद् इति व्यपदेश-हेतु-भूत-नाम-रूपावस्था-विरोधि-सूक्ष्मावस्थाख्य-धर्मान्तरेण योगाद् असद् इति न्यपदिश्यते। कथम् इदम् अवगम्यते। वाक्य-शेषाद्य्-उक्तेश् शब्दान्तराच् च। वाक्य-शेषस् तावत्--- तद् असद् एव सन् मनोऽकुरुत स्याम् इति। असद् इति व्यपदिष्टस्यैव मनस्कार-प्रतिपादनेन असद्-व्यपदेशो धर्मान्तर-योगाद् इत्य् अवगम्यते। युक्तिश् च धर्मान्तर-योगम् एवासद्-व्यपदेश-हेतुम् अवगमयति। घटोऽस्ति घटो नास्तीति सद्-असद्-व्यपदेशयोर् घटत्व-कपालत्वयोः परस्पर-विरोधि-धर्मयोर् एव हेतुत्वे सिद्धे तद्-अतिरिक्तानुपलब्ध-तुच्छत्वस्य हेतुत्व-कल्पनानुपपत्तेः। तथा शब्दान्तरं च--- सद् एव सोम्येदम् अग्र आसीद् इति समान-प्रकरण-स्थम् असच्-छब्दं धर्मान्तर-योग-निमित्तम् अवगमयति॥१८॥
Link copied१५७। पटवच् च॥२।१।१९॥
Link copiedयथा तन्तव एव व्यतिषङ्ग-विशेष-भाजः पट इति नाम-रूपाभ्यां कार्यान्तरादिकं भजन्ते, तद् ब्रह्मापि॥१९॥
Link copied१५८। यथा च प्राणादिः॥२।१।२०॥
Link copiedयथा च वायुर् एक एव शरीरे वृत्ति-विशेषं भजमानः प्राणापानादि-नाम-रूप-कार्यान्तराणि भजते, तद् ब्रह्मापीति तद् अनन्यत्वं जगतस् सिद्धम्॥२०॥ इत्य् आरम्भणाधिकरणम्॥६॥
Link copied१५९। इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः॥२।१।२१॥
Link copiedब्रह्मणो जगत्-कारणत्वं सम्भवति नेति संशयः। न सम्भवतीति पूर्वः पक्षः, अयम् आत्मा ब्रह्म, तत् त्वम् असीति सामानाधिकरण्येन जीवो ब्रह्मेत्य् अवगमात्, जगत्-सर्गस्य च जीव-दुःख-हेतुत्वात्, आत्म-हिताकरणादि-दोष-प्रसक्तेः सर्व-ज्ञस्य सत्य-सङ्कल्पस्य ब्रह्मणो जगत्-कारणत्वानुपपत्तेः। जीव-परयोर् भेद-वादिन्यः श्रुतयः, जगद्-ब्रह्मणोर् अनन्यत्वं वदता त्वयैव परित्यक्ताः, भेदे सत्य् अनन्यत्वासिद्धेः। औपाधिक-भेद-विषया भेद-श्रुतयः, स्वाभाविकाभेद-विषया अभेद-श्रुतय इति चेत्; तत्रेदं वक्तव्यम्--- स्वभावतः स्वस्माद् अभिन्नं जीवं किम् अनुपहितं जगत्-कारणं ब्रह्म जानाति न वा। न जानाति चेत्, सर्व-ज्ञत्व-हानिः। जानाति चेत्, स्वस्माद् अभिन्नस्य जीवस्य दुःखं स्व-दुःखम् इति जानतो ब्रह्मणो हिताकरणाहित-करणादि-दोष-प्रसक्तिर् अनिवार्या। जीव-ब्रह्मणोर् अज्ञान-कृतो भेदः, तद्-विषया भेद-श्रुतिर् इति चेत्; तत्रापि जीवाज्ञान-पक्षे पूर्वोक्तो दोषस् तत्-फलं च तद्-अवस्थम् एव। ब्रह्माज्ञान-पक्षे स्व-प्रकाश-स्वरूपस्य ब्रह्मणोऽज्ञान-साक्षित्वं तत्-कृत-जगत्-सृष्टिश् च न सम्भवति; अज्ञानेन प्रकाशस् तिरोहितश् चेत्, तिरोधानस्य प्रकाश-निवृत्ति-करत्वेन प्रकाशस्यैव स्वरूपत्वात् स्वरूप-निवृत्तिर् एवेति स्वरूप-नाशादि-दोषाः भाष्ये प्रपञ्चिताः। राद्धान्तस् तु--- अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः, तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति, प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः, पृथग् आत्मानं प्रेरितारं च मत्वा, इत्य् आदिभिः प्रत्यगात्मनोऽर्थान्तर-भूतं ब्रह्मेत्य् अवगमात्, जीव-कर्मानुगुणतया जगत्-सर्गस्य च ब्रह्मणो लीला-प्रयोजनत्वात्, जगत्-कारणत्वं सम्भवत्य् एव। तत् त्वम् अस्य् आदि सामानाधिकरण्य-निर्देशः, यस्यात्मा शरीरम् इत्य् आदि श्रुतेर् जीवस्य ब्रह्म-शरीरत्वात् तच्-छरीरतया जीव-प्रकारक-ब्रह्म-प्रतिपादन-परः। सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कारणावस्थम्, स्थूल-चिद्-अचिद्-वस्तु-शरीरं ब्रह्मैव कार्यावस्थम् इति कार्य-कारणयोर् अनन्यत्वम्। एवम् अपि शरीर-भूतयोश् चिद्-अचिद्-वस्तुनोः शरीरिणो ब्रह्मणश् च दुःखित्व-परिणामित्व-हेय-प्रत्यनीकत्व-कल्याण-गुणाकरत्व-स्वभावास्वरूप-विवेक-विषय-श्रुति-सिद्धास् तथैव व्यवस्थिता इति ब्रह्मणो जगत्-कारणत्वं सम्भवत्य् एव। सूत्रार्थस् तु--- इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः--- ब्रह्मण इतरः जीवः, ब्रह्मणो जीवतया व्यपदेशात्, जीवस्य च दुःखित्वात्, हित-रूप-जगद्-अकरणम् अहित-रूप-जगत्-करणम् इत्य् आदि दोष-प्रसक्तिर् ब्रह्मणः। अतो ब्रह्मणो जगत्-कारणत्वं न सम्भवतीति॥२१॥
Link copiedअत उत्तरं पठति---
Link copied१६०। अधिकं तु भेद-निर्देशात्॥२।१।२२॥
Link copiedतु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। प्रत्यगात्मनः अधिकम्--- अर्थान्तर-भूतं ब्रह्म। कुतः। भेद-निर्देशात्--- स कारणं करणाधिपाधिपः, प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः, पृथग् आत्मानं प्रेरितारं च मत्वा, इत्य् आदिभ्यः प्रत्यगात्मनो जीवाद् ब्रह्मणो हि भेदो निर्दिश्यते॥२२॥
Link copied१६१। अश्मादिवच् च तद्-अनुपपत्तिः॥२।१।२३॥
Link copiedअश्म-काष्ठ-लोष्ठ-तृणादेर् अचेतनस्येवानन्त-दुःखाकर-जीवस्य निरतिशयानन्द-सत्य-सङ्कल्प-ब्रह्म-भावानुपपत्तिश् च। न केवलं भेद-श्रुत्यार्थान्तरत्वम् अवगम्यते, वस्त्व्-अनुपपत्त्या चेत्य् अर्थः। जीव-सामानाधिकरण्य-निर्देशः, यस्यात्मा शरीरम् इत्य् आदि श्रुति-शत-सिद्ध-जीव-प्रकारक-ब्रह्म-प्रतिपादन-पर इति, अवस्थितेर् इति काशकृत्स्न इत्य् अत्रैव प्रतिपादितः॥२३॥ इतीतर-व्यपदेशाधिकरणम्॥७॥
Link copied१६२। उपसंहार-दर्शनान् नेति चेन् न क्षीरवद् धि॥२।१।२४॥
Link copiedब्रह्मणो जगत्-कारणत्वं सम्भवति, न वेति संशयः। न सम्भवतीति पूर्वः पक्षः; लोके कार्य-जनन-समर्थस्यापि वस्तुनस् तत्-तत्-कार्य-जनने अनेक-कारकोपसंहार-दर्शनाद् विचित्र-जगज्-जनन-समर्थस्यापि ब्रह्मणोऽसहायस्य जनयितृत्वानुपपत्तेः। राद्धान्तस् तु--- क्षीरस्य दधि-भावेऽनन्यापेक्षत्व-दर्शनान् नानेक-कारकोपसंहार-नियमो दृश्यत इति ब्रह्मणोऽनन्यापेक्षस्यैव कारणत्वं सम्भवत्य् एव। सूत्रम् अपि व्याख्यातम्। क्षीरवद् धीति प्रसिद्धवन् निर्देशश् चोद्य-मान्द्य-परः॥२४॥
Link copied१६३। देवादिवद् अपि लोके॥२।१।२५॥
Link copiedयथा देवादयः स्वे स्वे लोके स्वापेक्षितानि स्व-सङ्कल्पाद् एव सृजन्ति; तथा ब्रह्मापि--- देवादेः शास्त्रावसेय-शक्तितया ब्रह्म-तुल्यत्वेऽपि देवादि-ग्रहणं ब्रह्मणो विचित्र-शक्तित्वस्य सुग्रहणायेति मन्तव्यम्॥२५॥ इत्य् उपसंहार-दर्शनाधिकरणम्॥८॥
Link copied१६४। कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-कोपो वा॥२।१।२६॥
Link copiedब्रह्मणो जगत्-कारणत्वं सम्भवति, नेति संशयः। न सम्भवतीति पूर्वः पक्षः; निरवयवस्य ब्रह्मणो जगद्-उपादानत्वे कृत्स्नस्य ब्रह्मणो जगद्-आकारेणोपयोग-प्रसङ्गात्; तत्-परिजिहीर्षया सावयवाभ्युपगमे, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इत्य् आदि कारणावस्थायां निरवयवत्व-वाचि-शब्दो बाध्येत। यद्य् अपि सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कारणम्, स्थूल-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कार्यम् इत्य् अभ्युपगम्यते; तथापि शरीर्य्-अंशस्यापि कार्यत्वाभ्युपगमात् कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-बाधो वा। राद्धान्तस् तु--- सकलेतर-विसजातीयं श्रुत्य्-ऐक-समधिगम्यं सर्व-शक्ति-युक्तं ब्रह्म निरवयवम् अपि कार्यं च भवति, अन्यच् च भवतीति परिमित-शक्ति-वस्तु-चोद्यं न तत्र प्रसज्यते। यथा जाति-वादिनो जातिर् एकैवामूर्ता खण्ड-मुण्डादिष्व् अत्यन्त-विलक्षणेष्व् अनन्तेष्व् अपि परिसमाप्यैव वर्तते; न तत्रेतर-वस्तु-चोद्यम् इति। अतो ब्रह्मणो जगत्-कारणत्वं सम्भवत्य् एव। सूत्रार्थस् तु--- कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-कोपो वा--- ब्रह्म-कारणत्वे कृत्स्नस्य ब्रह्मणः कार्यत्वेनोपयोग-प्रसङ्गः, निरवयवत्वात्। सावयवत्वे निरवयवत्व-शब्द-कोपो वा--- निरवयवत्व-वादि-शब्द-बाध-प्रसङ्ग इत्य् अर्थः॥२६॥
Link copied१६५। श्रुतेस् तु शब्द-मूलत्वात्॥२।१।२७॥
Link copiedतु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। श्रुतेः--- श्रुति-प्रामाण्यान् नैवं प्रसज्यते; शब्द-मूलत्वात्--- शब्दैक-मूलत्वेन सकलेतर-विजातीयत्वाद् इत्य् अर्थः॥२७॥
Link copied१६६। आत्मनि चैवं विचित्राश् च हि॥२।१।२८॥
Link copiedआत्मनि चैवं--- जीवात्मन्य् अचेतन-धर्माप्रसक्तिश् चैवम्--- अचेतन-विजातीयत्वाद् एवेत्य् अर्थः। विचित्राश् च हि--- अचेतनेषु च विसजातीयेष्व् अग्नि-जलादिषु विचित्रा हि शक्तयो दृश्यन्ते। एवं परमात्मनश् चेतनाचेतन-विसजातीयस्य विचित्राः शक्तय उपपद्यन्ते॥२८॥
Link copied१६७। स्व-पक्ष-दोषाच् च॥२।१।२९॥
Link copiedप्रधानादि-कारण-पक्षे दोषाच् च ब्रह्मैव जगत्-कारणम्। तत्र हि लौकिक-वस्तु-सजातीयत्वेन प्रधानादेर् उक्त-दोषोऽन्ये च प्रसज्येरन्॥२९॥
Link copied१६८। सर्वोपेता च तद्-दर्शनात्॥२।१।३०॥
Link copiedन केवलं सकलेतर-विसजातीयत्वेन सर्व-शक्त्य्-उपेता परा देवतेत्य् उच्यते; तद्-दर्शनात्--- सर्व-शक्ति-योग-श्रुतेर् इत्य् अर्थः। दर्शयतीति दर्शनं श्रुतिः, परास्य शक्तिर् विविधैव श्रूयते, इत्य् आदिका॥३०॥
Link copied१६९। विकरणत्वान् नेति चेत् तद् उक्तम्॥२।१।३१॥
Link copiedउक्तस्यार्थस्य द्रढिम्ने चोद्य-पूर्वकं पूर्वोक्तं स्मारयति--- विकरणत्वात्, करण-विरहितत्वाद् ब्रह्म न कारणम् इति चेत्, न तस्य कार्यं करणं च विद्यते, इति हि श्रूयते। तद् उक्तम्--- अत्र यद् वक्तव्यम्, तत् पूर्वम् एवोक्तम्, शब्द-मूलत्वात्, विचित्राश् च हीति। अयम् एव परिहारः--- शब्दैक-मूलत्वेन सकलेतर-विसजातीयत्वाद् ब्रह्मणः, विसजातीयानां च शक्ति-वैचित्र्यस्य लोक-दृष्टत्वात् सर्वम् उपपन्नम् इत्य् अर्थः॥३१॥ इति कृत्स्न-प्रसक्त्य्-अधिकरणम्॥९॥
Link copied१७०। न प्रयोजनवत्वात्॥२।१।३२॥
Link copiedब्रह्मणो जगत्-कारणत्वं सम्भवति, नेति संशयः। न सम्भवतीति पूर्वः पक्षः; बुद्धि-पूर्वारम्भाणां सप्रयोजनत्वात्, ईश्वरस्य च स्वत एवावाप्त-समस्त-कामस्य जगत्-सृष्ट्य्-आरम्भे प्रयोजन-भावाद् गर्भवासादि-दुःख-रूपत्वात् सृष्टेः, परानुग्रहेणापि न सप्रयोजनत्वम् इति। राद्धान्तस् तु--- परिपूर्णस्यापीश्वरस्य केवल-लीला-प्रयोजनाय जगत्-सृष्ट्य्-आद्य्-आरम्भः सम्भवति। यथा लोके सप्त-द्वीपवतीं मेदिनीम् अधितिष्ठतो महाराजस्य परिपूर्णस्यापि केवल-लीलैक-फलाः कन्दुकाद्य्-आरम्भा दृश्यन्ते, तद्वद् ईश्वरस्यापि प्रयोजनाय जगत्-सृष्ट्य्-आरम्भः सम्भवति। सूत्रार्थस् तु--- न प्रयोजनवत्त्वात्--- प्रयोजनवत्त्वात् सृष्टेर् ईश्वरस्य स्वतः परिपूर्णस्य प्रयोजनाभावान् न स्रष्टृत्वम्॥३२॥
Link copied१७१। लोकवत् तु लीला-कैवल्यम्॥२।१।३३॥
Link copiedलीला-कैवल्यं--- लीलायाः प्रयोजनत्वे कैवल्यं सम्भवति; केवलाया लीलायाः सृष्ट्य्-आरम्भ-प्रयोजनत्वं सम्भवतीत्य् अर्थः। लोकवत्--- यथा लोके राज्ञः कन्दुकाद्य्-आरम्भे॥३३॥
Link copiedदेव-मनुष्यादि-विषम-सृष्ट्या पक्ष-पात-प्रसङ्गाद् दुर्विषह-दुःख-गर्भत्वेन नैर्घृण्य-प्रसङ्गाच् च, परम-कारुणिकस्य परम-पुरुषस्य परिपूर्णस्य लीलार्थम् अपि जगत्-सर्गो न सम्भवतीत्य् आशङ्क्याह---
Link copied१७२। वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति॥२।१।३४॥
Link copiedईश्वरस्य विचित्र-जगत्-सृष्टौ देवादि-वैषम्य-प्रयुक्त-पक्ष-पातः, दुःख-प्रद-जगत्-सर्गे नैर्घृण्यं च न सम्भवतः; वैषम्यादाव् ईश्वरस्य क्षेत्रज्ञ-कर्म-सापेक्षत्वात्। क्षेत्रज्ञानां पूर्व-पूर्व-कर्म पर्यालोच्य, तत्-तत्-कर्मानुगुणं विषमं जगत् सृजतीति तत्-कर्मैव वैषम्यादि-हेतुर् इत्य् अर्थः। तथा देवादि-देह-योगं क्षेत्रज्ञानां तत्-कर्म-सापेक्षं दर्शयति हि श्रुतिः, साधु-कारी साधुर् भवति पाप-कारी पापो भवतीति॥३४॥
Link copied१७३। न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च॥२।१।३५॥
Link copiedसृष्टेः प्राक् कर्म न विद्यते क्षेत्रज्ञाभावात्; तद्-अभावश् च, सद् एव सोम्येदम् इत्य् अवधारणावगताद् अविभागाद् इति चेत् तन् न, अनादित्वात् क्षेत्रज्ञानां तत्-तत्-कर्म-प्रवाहाणां च। उपपद्यते च क्षेत्रज्ञ-स्वरूपानादित्वेऽपि नाम-रूप-विभागाभावाद् अविभाग-श्रुतिः। अन्यथा अकृताभ्यागम-कृत-विप्रणाश-प्रसङ्गात्। उपलभ्यते च श्रुति-स्मृत्योः क्षेत्रज्ञानाम् अनादित्वम्--- तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्यां व्याक्रियत, इति नाम-रूप-व्याकरण-मात्र-श्रवणात् क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम्; ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ। नित्यो नित्यानाम्, प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि, इति। अविभाग-श्रुतिर् अपि नाम-रूप-विभागाभावाद् एवोपपद्यत इत्य् अभिप्रायः॥
Link copied[अत्र पाठान्तरम्]
Link copiedसृष्टेः प्राक् कर्म न विद्यते, क्षेत्रज्ञाभावात्। तद्-अभावश् च--- सद् एव सोम्येदम् इत्य् अवधारणावगताद् अविभागाद् इति चेत् तन् न, अनादित्वात् क्षेत्रज्ञानां तत्-तत्-कर्म-प्रवाहाणां च। तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्यां व्याक्रियतेति नाम-रूप-व्याकरण-मात्र-श्रवणात् क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम्। उपपद्यते क्षेत्रज्ञ-स्वरूपानादित्वेऽपि नाम-रूप-विभागाभावाद् अविभाग-श्रुतिः; अन्यथा अकृताभ्यागम-कृत-विप्रणाश-प्रसङ्गात्। उपलभ्यते च श्रुति-स्मृत्योः क्षेत्रज्ञानाम् अनादित्वम्, ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ, नित्यो नित्यानाम्, प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि, न जायते, इत्य् आदिभिः॥३५॥
Link copied१७४। सर्व-धर्मोपपत्तेश् च॥२।१।३६॥
Link copiedप्रधान-परमाण्व्-आदिष्व् अनुपपन्नानां स्व-पक्ष-दोषाद् इत्य् आदिषूक्तानां सर्वेषां धर्माणां कारणत्वोपपादकानां ब्रह्मण्य् उपपत्तेश् च ब्रह्मैव कारणम्। प्रधान-परमाण्व्-आदीनां परिमित-शक्तिकत्वाल् लोक-दृष्ट-वस्तु-सजातीयत्वाच् च अनुपपत्तयः सहस्त्रशः सन्ति। ब्रह्मणः शास्त्रैक-समधिगम्यतया सकलेतर-विसजातीयत्वेनाचिन्त्य-शक्तित्वात् सर्व-शक्तित्व-श्रुतेश् च सर्वम् उपपन्नम् इत्य् अर्थः॥३६॥ इति प्रयोजनवत्त्वाधिकरणम्॥१०॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे द्वितीयस्याध्यायस्य प्रथमः पादः॥
Link copied౧౩౯। స్మృత్య్-అనవకాశ-దోష-ప్రసఙ్గ ఇతి చేన్ నాన్య-స్మృత్య్-అనవకాశ-దోష-ప్రసఙ్గాత్॥౨।౧।౧॥
Link copiedవేదాన్తానాం సమస్త-చిద్-అచిద్-వస్తు-విలక్షణాస్పృష్ట-హేయ-గన్ధ-సర్వజ్ఞతాద్య్-అనన్త-కల్యాణ-గుణాకర-బ్రహ్మైక-పరత్వం ప్రతిపాదితం కపిల-స్మృతి-విరోధేన చాలయితుం శక్యమ్, ఉత నేతి సంశయః। శక్యమ్ ఇతి పూర్వః పక్షః, శ్రుతి-విరుద్ధాయాః స్మృతేర్ అనాదరణీయత్వే స్థితేఽపి వేదాన్త-వేద్యార్థస్య దుర్గ్రహత్వేన అల్ప-శ్రుతైర్ మన్ద-మతిభిర్ ఆప్త-ప్రణీత-స్మృత్య్-ఉపబృంహణేన వినా తేషాం నిశ్చయో నోపపద్యతే। కపిల-స్మృతిః కేవల-తత్త్వ-పరేతి తయైవ హ్య్ ఉపబృంహణం న్యాయ్యమ్। అన్యథా ఆప్త-ప్రణీతాయాః కేవల-తత్త్వ-పరాయాస్ తస్యా అనవకాశ-ప్రసఙ్గ ఇతి వేదాన్త-వేద్యం జగత్-కారణం ప్రధానమ్। రాద్ధాన్తస్ తు--- వేదాన్తస్యోపబృంహణాపేక్షత్వేఽప్య్ ఆప్తతమ-మన్వ్-ఆది-స్మృతిభిర్ వేదాన్తావిరోధినీభిర్ ఏవోపబృంహణం న్యాయ్యమ్, అన్యథా తాసాం బహ్వీనామ్ అనవకాశ-ప్రసఙ్గో మహాన్ అయం దోషః స్యాత్। న చ తాసాం ధర్మ-ప్రతిపాదనాంశోపబృంహణత్వేన సావకాశత్వమ్, యతో ధర్మాణామ్ అపి స్వరూపం పరబ్రహ్మ-భూత-పరమ-పురుషారాధనత్వమ్, ఇష్టాపూర్తం బహుధా జాతం జాయమానం విశ్వం బిభర్తి భువనస్య నాభిః। తద్ ఏధాగ్నిస్ తద్ వాయుస్ తత్ సూర్యస్ తద్ ఉ చన్ద్రమాః, యజ్ఞైస్ త్వమ్ ఇజ్యసే నిత్యం సర్వ-దేవ-మయాచ్యుత, ఇత్య్ ఆది శ్రుతి-స్మృతిభిః। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧॥
Link copiedఅతీన్ద్రియార్థ-సాక్షాత్కార-సమర్థస్య కపిలస్య వేదాన్తానాం బ్రహ్మ-పరత్వానుపలబ్ధేః ప్రధాన-పరత్వమ్ ఏవాశ్రయణీయమ్ ఇత్య్ అత ఉత్తరం పఠతి---
Link copied౧౪౦। ఇతరేషాం చానుపలబ్ధః॥౨।౧।౨॥
Link copiedఇతరేషాం మన్వ్-ఆదీనాం వేద-విద్-అగ్రేసరాణాం సర్వాతీన్ద్రియార్థ-సాక్షాత్కార-సమర్థానాం ప్రధాన-పరత్వానుపలబ్ధేర్ బ్రహ్మ-పరత్వోపలబ్ధేశ్ చ బ్రహ్మ-పరత్వ-మేఘాశ్రయణీయమ్; వేదాన్త-ప్రతిపన్నార్థ-విరుద్ధాయాస్ తు కపిలోపలబ్ధేర్ భ్రాన్తి-మూలత్వం కల్పయితవ్యమ్॥౨॥ ఇతి స్మృత్య్-అధికరణమ్॥౧॥
Link copied౧౪౧। ఏతేన యోగః ప్రత్యుక్తః॥౨।౧।౩॥
Link copiedకిం వేదాన్తానాం యోగ-స్మృత్యోపబృంహణం న్యాయ్యమ్, ఉత నేతి సంశయః। న్యాయ్యమ్ ఇతి పూర్వః పక్షః, కృత్స్న-వేద-ప్రవర్తనాధికృత-హిరణ్యగర్భ-ప్రణీతత్వాద్ యోగస్య, ఈశ్వర-సద్-భావాభ్యుపగమాచ్ చ। అతో యోగ-స్మృత్యోపబృంహితత్వేన వేదాన్తానామ్ అబ్రహ్మాత్మక-ప్రధానోపాదాన-ప్రతిపాదన-పరత్వమ్। రాద్ధాన్తస్ తు--- కపిల-స్మృతివద్ వేద-విరుద్ధ్త్వావిశేషాద్ అనాదరణీయైవ యోగ-స్మృతిః; హిరణ్యగర్భస్యాపి క్షేత్రజ్ఞత్వేన భ్రమ-సమ్భవాత్ యోగ-స్మృతేర్ అపి భ్రాన్తి-మూలకత్వమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౩॥ ఇతి యోగ-ప్రత్యుక్తాధికరణమ్॥౨॥
Link copied౧౪౨। న విలక్షణత్వాద్ అస్య తథాత్వం చ శబ్దాత్॥౨।౧।౪॥
Link copiedకిం వేదాన్తానాం జగత్-కారణతయా ప్రధాన-పరత్వమ్, ఉత బ్రహ్మ-పరత్వమ్ ఇతి సంశయః। ప్రధాన-పరత్వమ్ ఇతి పూర్వః పక్షః, అజ్ఞత్వాదినా జగతో బ్రహ్మ-విలక్షణత్వేన బ్రహ్మ-కార్యత్వ-ప్రతిపాదనాసమ్భవాత్, సాలక్షణ్యేన ప్రధాన-కార్యత్వ-ప్రతిపాదన-పరత్వస్య చ సమ్భవాత్। రాద్ధాన్తస్ తు--- మాక్షికాదిభ్యః క్రిమ్యాదీనాం విలక్షణానామ్ ఉత్పత్తి-దర్శనాత్ బ్రహ్మ-విలక్షణస్య జగతః తత్-కార్యత్వం సమ్భవత్యేవ ఇతి। సూత్రార్థస్ తు --- అజ్ఞత్వేనాసుఖత్వేన చోపలబ్ధస్య చాస్య చిద్-అచిన్-మిశ్రస్య జగతః సర్వ-జ్ఞాద్ ధేయ-ప్రత్యనీకాన్ నిరతిశయానన్దాద్ బ్రహ్మణో విలక్షణత్వేన జగతో బ్రహ్మ-కార్యత్వ-ప్రతిపాదనం వేదాన్తానాం న సమ్భవతి। తథాత్వం--- విలక్షణత్వం చ శబ్దాద్ అవగమ్యతే, న కేవలం ప్రత్యక్షాద్య్-ఉపలబ్ద్ధ్యా, విజ్ఞానం చావిజ్ఞానం చ, అనీశయా శోచతి ముహ్యమానః, అనీశశ్ చాత్మా బధ్యతే భోక్తృ-భావాత్, ఇత్య్ ఆదేః॥౪॥
Link copiedఆపో వా అకామయన్త, తం పృథివ్య్ అబ్రవీత్, ఇత్య్ ఆదౌ పృథివ్య్-ఆదేర్ అపి జ్ఞాన-కార్యం వ్యపదిశ్యతే; తస్మాత్--- అవిజ్ఞానం చేత్య్ ఏతద్ అన్య-పరమ్ ఇత్య్ అత ఉత్తరం పఠతి---
Link copied౧౪౩। అభిమాని-వ్యపదేశస్ తు విశేషానుగతిభ్యామ్॥౨।౧।౫॥
Link copiedతు-శబ్దశ్ చోద్యం వ్యావర్తయతి; పృథివ్య్-ఆద్య్-అభిమాని-దేవతానామ్ అయం వ్యపదేశః। కుతోఽవగమ్యతే, విశేషానుగతిభ్యాం--- విశేషః, విశేషణమ్, హన్తాహమ్ ఇమాస్ తిస్రో దేవతాః, ఇతి పృథివ్య్-ఆదేర్ దేవతా-శబ్దేన విశేషణం దృశ్యతే, సర్వా హ వై దేవతా అహం శ్రేయసే వివదమానాః, ఇతి చ వాగ్-ఆది-ప్రాణ-పర్యన్తస్య చ। తథానుగతిః--- అనుప్రవేశః, అగ్న్య్-ఆదీనాం వాగ్-ఆద్య్-అనుప్రవేశో దృశ్యతే, అగ్నిర్ వాగ్ భూత్వా ముఖం ప్రావిశత్ ఆదిత్యశ్ చక్షుర్ భూత్వాక్షిణీ ప్రావిశత్ వాయుః ప్రాణో భూత్వా నాసికే ప్రావిశద్ ఇత్య్ ఆదౌ॥౫॥
Link copied౧౪౪। దృశ్యతే తు॥౨।౧।౬॥
Link copiedతు-శబ్దః పక్షం వ్యావర్తయతి, మాక్షికాదిభ్యో విలక్షణానాం క్రిమ్య్-ఆదీనామ్ ఉత్పత్తిర్ దృశ్యతే; అతో బ్రహ్మ-విలక్షణస్యాపి జగతస్ తత్-కార్యత్వం సమ్భవతి॥౬॥
Link copied౧౪౫। అసద్ ఇతి చేన్ న ప్రతిషేధ-మాత్రత్వాత్॥౨।౧।౭॥
Link copiedయది కార్యస్య కారణాద్ విలక్షణ-ద్రవ్యత్వమ్ అభ్యుపగమ్యతే, తర్హి కారణే కార్యం న సద్ భవతీత్య్ అసత్-కార్య-వాదోఽభ్యుపగతః స్యాత్; తథా సతి--- సర్వం ఖల్వ్ ఇదం బ్రహ్మేతి సామానాధి-కరణ్య-వ్యపదేశో న ఘటత ఇతి చేత్ తన్ న, కార్య-కారణయోః సాలక్షణ్య-నియమ-ప్రతిషేధ-మాత్రత్వాద్ అస్మాభిః పూర్వమ్ అభిహితస్య। కార్య-కారణయోర్ ఏక-ద్రవ్యత్వం స్వీకృతమ్ ఏవ। ఏకమ్ ఏవ కారణావస్థం ద్రవ్యం కార్యావస్థాం భజమానం సలక్షణావస్థామ్ అపి భజతే, విలక్షణావస్థామ్ అపీత్య్ అర్థః॥౭॥
Link copied౧౪౬। అపీతౌ తద్వత్ ప్రసఙ్గాద్ అసమఞ్జసమ్॥౨।౧।౮॥
Link copiedయది బ్రహ్మైవ సర్వ-జ్ఞం సత్య-సఙ్కల్పం నిరతిశయానన్దమ్ అపహత-పాప్మత్వాది-స్వరూపం తద్-విపరీత-జగద్-అవస్థాం భజతే తర్హి పిణ్డత్వ-ఘటత్వావస్థ-మృద్-ద్రవ్యవత్ సర్వ-జ్ఞత్వమ్ అపహత-పాప్మత్వమ్ అజ్ఞత్వం కర్మ-వశ్యత్వం చ బ్రహ్మణః ప్రసజ్యేతేతి విరుద్ధార్థాభిధానాద్ వేదాన్త-వాక్యమ్ అసమఞ్జసం స్యాత్। అపీతావ్ ఇతి సృష్ట్య్-ఆదేః ప్రదర్శనార్థమ్। జగతో బ్రహ్మణ్య్ అపీతౌ బ్రహ్మణ ఉత్పత్తావ్ అపీత్య్ అర్థః। అపీతిర్ అప్యయః॥౮॥
Link copied౧౪౭। న తు దృష్టాన్త-భావాత్॥౨।౧।౯॥
Link copiedన బ్రహ్మణ్య్ అజ్ఞత్వాదయః ప్రసజ్యేరన్; అత ఏవ న వేదాన్తానామ్ అసామఞ్జస్యమ్। తు-శబ్దః ప్రసక్తస్యాసమ్భావనీయతాం ద్యోతయతి। ఏకస్యైవావస్థా-ద్వయాన్వయేఽపి గుణ-దోష-వ్యవస్థాయాం దృష్టాన్త-సద్-భావాత్, యథా మనుష్యో జాతో బాలో యువా స్థవిరో భవతీత్య్ అత్ర మనుష్య-శరీరకస్య చేతనస్యైవ సర్వావస్థాన్వయేఽపి జన్మ-బాలత్వ-యువత్వ-స్థవిరత్వాదీని నాత్మని సఙ్గచ్ఛన్తే; తథా జ్ఞాన-సుఖ-దుఃఖాదయశ్ చ న శరీరే। ఏవం చిద్-అచిద్-వస్తు-శరీరకస్య పరస్య బ్రహ్మణః కార్య-కారణోభయావస్థాన్వయేఽపి కర్మ-వశ్యత్వాజ్ఞత్వాదయః శరీర-భూత-చిద్-అచిద్-వస్తు-గతాః। అపహత-పాప్మత్వ-సర్వజ్ఞత్వాదయః పరమాత్మన్య్ ఆత్మ-భూతేఽవతిష్ఠన్తే। సర్వావస్థస్య చిద్-అచిద్-వస్తునో బ్రహ్మ-శరీరత్వమ్, బ్రహ్మణశ్ చ తద్-ఆత్మత్వమ్, యస్య పృథివీ శరీరమ్ ఇత్య్ ఆద్య్ అన్తర్యామి-బ్రాహ్మణాదిష్వ్ అవగతమ్ ఇతి న కశ్చిద్ విరోధః॥౯॥
Link copied౧౪౮। స్వ-పక్ష-దోషాచ్ చ॥౨।౧।౧౦॥
Link copiedన కేవలం బ్రహ్మ-కారణ-వాదస్య నిర్దోషతయా తత్-సమాశ్రయణమ్, ప్రధాన-కారణ-వాదే దోషాచ్ చైతత్ పరిత్యజ్య స ఏవ సమాశ్రయణీయః। ప్రధాన-కారణ-వాదే హి నిర్వికారస్య చిన్-మాత్రస్య పురుషస్య ప్రకృతి-సన్నిధాన-కృత-తద్-ధర్మాధ్యాస-మూలా జగత్-ప్రవృత్తిర్ అభ్యుపగమ్యతే; తత్ర ప్రకృతి-సద్-భావ-మాత్రే సన్నిధానే సతి ముక్తస్యాపి తద్-ధర్మాధ్యాస-ప్రసఙ్గః; వికార-విశేషే సతి సన్నిధానే కృత్స్నస్య వికారస్యాధ్యాస-పూర్వకత్వాన్ నాధ్యాసస్య వికారో హేతుర్ ఇతి విరుద్ధార్థాభిధానాద్ అసామఞ్జస్య దోష ఇతి న తత్-పక్ష-సమ్భవ-గన్ధః॥౧౦॥
Link copied౧౪౯। తర్కాప్రతిష్ఠానాద్ అపి॥౨।౧।౧౧॥
Link copiedకాపిల-తన్త్రస్య తర్క-మూలత్వేన శాక్యాది-తర్క-ప్రతిహతతయాస్య తర్కస్యాప్రతిష్ఠితత్వాచ్ చ న తత్-పక్ష-సమ్భవః॥౧౧॥
Link copied౧౫౦। అన్యథానుమేయమ్ ఇతి చేద్ ఏవమ్ అప్య్ అనిర్మోక్ష-ప్రసఙ్గః॥౨।౧।౧౨॥
Link copiedఇతః పూర్వం విద్యమానైస్ తర్కైర్ అప్రతిహతత్వం యథా సమ్భవతి, తథా ప్రధాన-కారణవాదమ్ అనుమాస్యామహ ఇతి చేత్ తథాపి తర్కాప్రతిష్ఠాన-దోషాద్ అనిర్మోక్ష-ప్రసఙ్గో దుర్వారః; త్వద్-అధిక-కుతర్క-కుశల-సద్-భావ-సమ్భవాత్॥౧౨॥ ఇతి విలక్షణత్వాధికరణమ్॥౩॥
Link copied౧౫౧। ఏతేన శిష్టాపరిగ్రహా అపి వ్యాఖ్యాతాః॥౨।౧।౧౩॥
Link copiedన పరిగృహ్యన్తే వైదికైర్ ఇత్య్ అపరిగ్రహాః; శిష్టాశ్ చ తే అపరిగ్రహాశ్ చ శిష్టాపరిగ్రహాః। ఏతేన--- తర్కాప్రతిష్ఠాన-లక్షణ-కపిల-స్మృతి-నిరసన-హేతునా, పరిశిష్టాః కణభక్షాది-స్మృతయోఽపి నిరస్తా వ్యాఖ్యాతాః। పరమాణు-కారణ-వాదః సర్వ-సమ్మత ఇతి న తేషాం తర్కస్యాప్రతిష్ఠితత్వమ్ ఇత్య్ అధికాశఙ్కా। తర్క-మూలత్వావిశేషాత్ పరమాణూనాం శూన్యత్వాద్ ద్రవ్యత్వాది-వివాదాచ్ చ, తర్కస్యాప్రతిష్ఠితత్వమ్ ఏవేతి పరిహారః॥౧౩॥ ఇతి శిష్టాపరిగ్రహాధికరణమ్॥౪॥
Link copied౧౫౨। భోక్త్రాపత్తేర్ అవిభాగశ్ చేత్ స్యాల్ లోకవత్॥౨।౧।౧౪॥
Link copiedసర్వాత్మ-భూతస్య పరస్య బ్రహ్మణః స్వ-శరీర-భూతాజ్ జీవాన్ నిరతిశయానన్ద-స్వభావతయా యో విభాగ ఉక్తః, స కిం విభాగస్ సమ్భవతి, ఉత నేతి సంశయః। న సమ్భవతీతి పూర్వః పక్షః। సర్వ-చిద్-అచిద్-వస్తు-శరీరతయా సశరీరత్వాద్ బ్రహ్మణః, సశరీరస్య చ సుఖ-దుఃఖయోర్ భోక్తృత్వాపత్తేః। తద్-ఆపత్తిశ్ చ--- న హ వై సశరీరస్య సతః ప్రియాప్రియయోర్ అపహతిర్ అస్త్య్ అశరీరం వావ సన్తం న ప్రియాప్రియే స్పృశతః, ఇతి శ్రుతేః। రాద్ధాన్తస్ తు--- స్యాద్ ఏవ విభాగో జీవాత్ పరస్యాకర్మ-వశ్యతయా। న సశరీరత్వ-ప్రయుక్తః సుఖ-దుఃఖ-యోగః, అపి తు శాస్త్ర-వశ్యతయా తద్-అతివృత్తి-కృతః; స ఏకధా భవతి త్రిధా భవతీత్య్ ఆదినావగత-శరీరస్య ముక్తస్య సశరీరస్యాప్య్ అశాస్త్ర-వశ్యతయా నిరస్త-నిఖిల-దుఃఖత్వ-దర్శనాత్। యథా లోకే రాజ-శాసన-వశ్యానాం తచ్-ఛాసనాతివృత్తి-నిమిత్త-దుఃఖాన్వయేఽపి రాజ్ఞః సశరీరస్యాపి ప్రకారాన్తరేణ సాధర్మ్యేఽపి స్వ-శాసనావశ్యతయా న తద్-అతివృత్తి-కృత-దుఃఖాన్వయః। విభాగః వైలక్షణ్యమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧౪॥ ఇతి భోక్త్రాపత్త్య్-అధికరణమ్॥౫॥
Link copied౧౫౩। తద్-అనన్యత్వమ్ ఆరమ్భణ-శబ్దాదిభ్యః॥౨।౧।౧౫॥
Link copiedకిం బ్రహ్మ-కార్యం జగద్ బ్రహ్మణోఽన్యత్, ఉతానన్యద్ ఇతి సంశయః। అన్యద్ ఇతి పూర్వః పక్షః, తథోపలబ్ధేః। న హి బుద్ధి-శబ్దాన్తరాదయః కారణాత్ కార్యస్యానన్యత్వే కథఞ్చిద్ ఉపపద్యన్తే; కారక-వ్యాపార-వైయర్థ్యం చానన్యత్వే। అతో వస్తు-విరోధాద్ అనన్యత్వ-శ్రుతయో లక్షణయా నేయాః। రాద్ధాన్తస్ తు--- వాచారమ్భణం వికారో నామధేయం మృత్తికేత్య్ ఏవ సత్యమ్, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయం తద్ ఐక్షత బహు స్యాం ప్రజాయేయేతి తత్ తేజోఽసృజత, ఐతదాత్మ్యమ్ ఇదం సర్వం తత్ సత్యం స ఆత్మా తత్ త్వమ్ అసి శ్వేతకేతో, సర్వం ఖల్వ్ ఇదం బ్రహ్మ తజ్ జలాన్ ఇతి, తద్ ధేదం తర్హ్య్ అవ్యాకృతమ్ ఆసీత్ తన్ నామ-రూపాభ్యాం వ్యాక్రియత, ఇత్య్ ఆది శ్రుతి-శత-సిద్ధం కార్యస్య జగతః కారణాద్ బ్రహ్మణోఽనన్యత్వమ్। న చాత్ర వస్తు-విరోధ-గన్ధః; కారణీభూత-మృద్-ఆది-ద్రవ్యస్యైవ పృథు-బుధ్నోదరాద్య్-అవస్థాన్తరాపత్త్యా బుద్ధి-శబ్దాన్తరాదయోఽప్య్ ఉపపద్యన్తే। తత ఏవ కారక-వ్యాపారాద్య్-అర్థవత్త్వం చ। ఏవం కారణస్యైవ కార్యావస్థాయామ్ అపి ప్రత్యభిజ్ఞాయమానస్యావస్థాన్తరాపత్త్యైవ సర్వేషూపపన్నేష్వ్ అనుపలబ్ధ-ద్రవ్యాన్తర-కల్పనా న సమ్భవతి। తస్మాద్ బ్రహ్మ-కార్యం జగద్ బ్రహ్మణోఽనన్యద్ ఏవ। సూత్రార్థస్ తు--- తస్మాద్ బ్రహ్మణః, అనన్యత్వం కార్యస్య జగత ఆరమ్భణ-శబ్దాదిభ్యో వాక్యేభ్యస్ తద్-ఉపపాదయద్భ్యోఽవగమ్యతే, ఆరమ్భణమ్ ఇతి శబ్ద ఆదిర్ యేషాం పూర్వోక్తానాం వాక్యానామ్, తాన్య్ ఆరమ్భణ-శబ్దాదీని; తాన్య్ అనన్యత్వమ్ ఉపపాదయన్తి॥౧౫॥
Link copied౧౫౪। భావే చోపలబ్ధేః॥౨।౧।౧౬॥
Link copiedఘటాది-కార్యం భావే చ తద్ ఏవేదం మృద్-ద్రవ్యమ్ ఇత్థమ్ అవస్థితమ్ ఇతి కారణస్య ఉపలబ్ధేశ్ చ కారణాద్ అనన్యత్వం కార్యస్య। యథా దేవదత్తస్య బాలత్వ-యువత్వాద్య్-అవస్థా-విశిష్టస్యానన్యత్వమ్॥౧౬॥
Link copied౧౫౫। సత్త్వాచ్ చాపరస్య॥౨।౧।౧౭॥
Link copiedఅపరస్య కార్యస్య కారణే సత్త్వాచ్ చ కారణాద్ అనన్యత్ కార్యమ్। సర్వమ్ ఇదం వట-శరావాది-కార్యం పూర్వాహ్నే మృద్ ఏవాసీద్ ఇతి హి కారణే కార్యమ్ ఉపలభ్యతే। ఘట-శరావాది-సంస్థాన-సంస్థితమ్ ఏవ మృద్-ద్రవ్యం పూర్వ-కాలే పిణ్డాకారమ్ ఉపలబ్ధమ్ ఇత్య్ అర్థః॥౧౭॥
Link copied౧౫౬। అసద్-వ్యపదేశాన్ నేతి చేన్ న ధర్మాన్తరేణ వాక్య-శేషాద్య్-ఉక్తేశ్ శబ్దాన్తరాచ్ చ॥౨।౧।౧౮॥
Link copiedఅసద్ ఏవేదమ్ అగ్ర ఆసీత్, ఇదం వా అగ్రే నైవ కిఞ్చనాసీత్, ఇత్య్ ఆదిషు కారణావస్థాయాం కార్యస్యాసత్త్వ-వ్యపదేశాత్ కారణే కార్యం సద్ ఇత్య్ ఏతన్ నోపపద్యత ఇతి చేన్ న, సద్ ఇతి వ్యపదేశ-హేతు-భూత-నామ-రూపావస్థా-విరోధి-సూక్ష్మావస్థాఖ్య-ధర్మాన్తరేణ యోగాద్ అసద్ ఇతి న్యపదిశ్యతే। కథమ్ ఇదమ్ అవగమ్యతే। వాక్య-శేషాద్య్-ఉక్తేశ్ శబ్దాన్తరాచ్ చ। వాక్య-శేషస్ తావత్--- తద్ అసద్ ఏవ సన్ మనోఽకురుత స్యామ్ ఇతి। అసద్ ఇతి వ్యపదిష్టస్యైవ మనస్కార-ప్రతిపాదనేన అసద్-వ్యపదేశో ధర్మాన్తర-యోగాద్ ఇత్య్ అవగమ్యతే। యుక్తిశ్ చ ధర్మాన్తర-యోగమ్ ఏవాసద్-వ్యపదేశ-హేతుమ్ అవగమయతి। ఘటోఽస్తి ఘటో నాస్తీతి సద్-అసద్-వ్యపదేశయోర్ ఘటత్వ-కపాలత్వయోః పరస్పర-విరోధి-ధర్మయోర్ ఏవ హేతుత్వే సిద్ధే తద్-అతిరిక్తానుపలబ్ధ-తుచ్ఛత్వస్య హేతుత్వ-కల్పనానుపపత్తేః। తథా శబ్దాన్తరం చ--- సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఇతి సమాన-ప్రకరణ-స్థమ్ అసచ్-ఛబ్దం ధర్మాన్తర-యోగ-నిమిత్తమ్ అవగమయతి॥౧౮॥
Link copied౧౫౭। పటవచ్ చ॥౨।౧।౧౯॥
Link copiedయథా తన్తవ ఏవ వ్యతిషఙ్గ-విశేష-భాజః పట ఇతి నామ-రూపాభ్యాం కార్యాన్తరాదికం భజన్తే, తద్ బ్రహ్మాపి॥౧౯॥
Link copied౧౫౮। యథా చ ప్రాణాదిః॥౨।౧।౨౦॥
Link copiedయథా చ వాయుర్ ఏక ఏవ శరీరే వృత్తి-విశేషం భజమానః ప్రాణాపానాది-నామ-రూప-కార్యాన్తరాణి భజతే, తద్ బ్రహ్మాపీతి తద్ అనన్యత్వం జగతస్ సిద్ధమ్॥౨౦॥ ఇత్య్ ఆరమ్భణాధికరణమ్॥౬॥
Link copied౧౫౯। ఇతర-వ్యపదేశాద్ ధితాకరణాది-దోష-ప్రసక్తిః॥౨।౧।౨౧॥
Link copiedబ్రహ్మణో జగత్-కారణత్వం సమ్భవతి నేతి సంశయః। న సమ్భవతీతి పూర్వః పక్షః, అయమ్ ఆత్మా బ్రహ్మ, తత్ త్వమ్ అసీతి సామానాధికరణ్యేన జీవో బ్రహ్మేత్య్ అవగమాత్, జగత్-సర్గస్య చ జీవ-దుఃఖ-హేతుత్వాత్, ఆత్మ-హితాకరణాది-దోష-ప్రసక్తేః సర్వ-జ్ఞస్య సత్య-సఙ్కల్పస్య బ్రహ్మణో జగత్-కారణత్వానుపపత్తేః। జీవ-పరయోర్ భేద-వాదిన్యః శ్రుతయః, జగద్-బ్రహ్మణోర్ అనన్యత్వం వదతా త్వయైవ పరిత్యక్తాః, భేదే సత్య్ అనన్యత్వాసిద్ధేః। ఔపాధిక-భేద-విషయా భేద-శ్రుతయః, స్వాభావికాభేద-విషయా అభేద-శ్రుతయ ఇతి చేత్; తత్రేదం వక్తవ్యమ్--- స్వభావతః స్వస్మాద్ అభిన్నం జీవం కిమ్ అనుపహితం జగత్-కారణం బ్రహ్మ జానాతి న వా। న జానాతి చేత్, సర్వ-జ్ఞత్వ-హానిః। జానాతి చేత్, స్వస్మాద్ అభిన్నస్య జీవస్య దుఃఖం స్వ-దుఃఖమ్ ఇతి జానతో బ్రహ్మణో హితాకరణాహిత-కరణాది-దోష-ప్రసక్తిర్ అనివార్యా। జీవ-బ్రహ్మణోర్ అజ్ఞాన-కృతో భేదః, తద్-విషయా భేద-శ్రుతిర్ ఇతి చేత్; తత్రాపి జీవాజ్ఞాన-పక్షే పూర్వోక్తో దోషస్ తత్-ఫలం చ తద్-అవస్థమ్ ఏవ। బ్రహ్మాజ్ఞాన-పక్షే స్వ-ప్రకాశ-స్వరూపస్య బ్రహ్మణోఽజ్ఞాన-సాక్షిత్వం తత్-కృత-జగత్-సృష్టిశ్ చ న సమ్భవతి; అజ్ఞానేన ప్రకాశస్ తిరోహితశ్ చేత్, తిరోధానస్య ప్రకాశ-నివృత్తి-కరత్వేన ప్రకాశస్యైవ స్వరూపత్వాత్ స్వరూప-నివృత్తిర్ ఏవేతి స్వరూప-నాశాది-దోషాః భాష్యే ప్రపఞ్చితాః। రాద్ధాన్తస్ తు--- అస్మాన్ మాయీ సృజతే విశ్వమ్ ఏతత్ తస్మింశ్ చాన్యో మాయయా సన్నిరుద్ధః, తయోర్ అన్యః పిప్పలం స్వాద్వ్ అత్త్య్ అనశ్నన్న్ అన్యో అభిచాకశీతి, ప్రధాన-క్షేత్రజ్ఞ-పతిర్ గుణేశః, పృథగ్ ఆత్మానం ప్రేరితారం చ మత్వా, ఇత్య్ ఆదిభిః ప్రత్యగాత్మనోఽర్థాన్తర-భూతం బ్రహ్మేత్య్ అవగమాత్, జీవ-కర్మానుగుణతయా జగత్-సర్గస్య చ బ్రహ్మణో లీలా-ప్రయోజనత్వాత్, జగత్-కారణత్వం సమ్భవత్య్ ఏవ। తత్ త్వమ్ అస్య్ ఆది సామానాధికరణ్య-నిర్దేశః, యస్యాత్మా శరీరమ్ ఇత్య్ ఆది శ్రుతేర్ జీవస్య బ్రహ్మ-శరీరత్వాత్ తచ్-ఛరీరతయా జీవ-ప్రకారక-బ్రహ్మ-ప్రతిపాదన-పరః। సూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరం బ్రహ్మ కారణావస్థమ్, స్థూల-చిద్-అచిద్-వస్తు-శరీరం బ్రహ్మైవ కార్యావస్థమ్ ఇతి కార్య-కారణయోర్ అనన్యత్వమ్। ఏవమ్ అపి శరీర-భూతయోశ్ చిద్-అచిద్-వస్తునోః శరీరిణో బ్రహ్మణశ్ చ దుఃఖిత్వ-పరిణామిత్వ-హేయ-ప్రత్యనీకత్వ-కల్యాణ-గుణాకరత్వ-స్వభావాస్వరూప-వివేక-విషయ-శ్రుతి-సిద్ధాస్ తథైవ వ్యవస్థితా ఇతి బ్రహ్మణో జగత్-కారణత్వం సమ్భవత్య్ ఏవ। సూత్రార్థస్ తు--- ఇతర-వ్యపదేశాద్ ధితాకరణాది-దోష-ప్రసక్తిః--- బ్రహ్మణ ఇతరః జీవః, బ్రహ్మణో జీవతయా వ్యపదేశాత్, జీవస్య చ దుఃఖిత్వాత్, హిత-రూప-జగద్-అకరణమ్ అహిత-రూప-జగత్-కరణమ్ ఇత్య్ ఆది దోష-ప్రసక్తిర్ బ్రహ్మణః। అతో బ్రహ్మణో జగత్-కారణత్వం న సమ్భవతీతి॥౨౧॥
Link copiedఅత ఉత్తరం పఠతి---
Link copied౧౬౦। అధికం తు భేద-నిర్దేశాత్॥౨।౧।౨౨॥
Link copiedతు-శబ్దః పక్ష-వ్యావృత్త్య్-అర్థః। ప్రత్యగాత్మనః అధికమ్--- అర్థాన్తర-భూతం బ్రహ్మ। కుతః। భేద-నిర్దేశాత్--- స కారణం కరణాధిపాధిపః, ప్రధాన-క్షేత్రజ్ఞ-పతిర్ గుణేశః, పృథగ్ ఆత్మానం ప్రేరితారం చ మత్వా, ఇత్య్ ఆదిభ్యః ప్రత్యగాత్మనో జీవాద్ బ్రహ్మణో హి భేదో నిర్దిశ్యతే॥౨౨॥
Link copied౧౬౧। అశ్మాదివచ్ చ తద్-అనుపపత్తిః॥౨।౧।౨౩॥
Link copiedఅశ్మ-కాష్ఠ-లోష్ఠ-తృణాదేర్ అచేతనస్యేవానన్త-దుఃఖాకర-జీవస్య నిరతిశయానన్ద-సత్య-సఙ్కల్ప-బ్రహ్మ-భావానుపపత్తిశ్ చ। న కేవలం భేద-శ్రుత్యార్థాన్తరత్వమ్ అవగమ్యతే, వస్త్వ్-అనుపపత్త్యా చేత్య్ అర్థః। జీవ-సామానాధికరణ్య-నిర్దేశః, యస్యాత్మా శరీరమ్ ఇత్య్ ఆది శ్రుతి-శత-సిద్ధ-జీవ-ప్రకారక-బ్రహ్మ-ప్రతిపాదన-పర ఇతి, అవస్థితేర్ ఇతి కాశకృత్స్న ఇత్య్ అత్రైవ ప్రతిపాదితః॥౨౩॥ ఇతీతర-వ్యపదేశాధికరణమ్॥౭॥
Link copied౧౬౨। ఉపసంహార-దర్శనాన్ నేతి చేన్ న క్షీరవద్ ధి॥౨।౧।౨౪॥
Link copiedబ్రహ్మణో జగత్-కారణత్వం సమ్భవతి, న వేతి సంశయః। న సమ్భవతీతి పూర్వః పక్షః; లోకే కార్య-జనన-సమర్థస్యాపి వస్తునస్ తత్-తత్-కార్య-జననే అనేక-కారకోపసంహార-దర్శనాద్ విచిత్ర-జగజ్-జనన-సమర్థస్యాపి బ్రహ్మణోఽసహాయస్య జనయితృత్వానుపపత్తేః। రాద్ధాన్తస్ తు--- క్షీరస్య దధి-భావేఽనన్యాపేక్షత్వ-దర్శనాన్ నానేక-కారకోపసంహార-నియమో దృశ్యత ఇతి బ్రహ్మణోఽనన్యాపేక్షస్యైవ కారణత్వం సమ్భవత్య్ ఏవ। సూత్రమ్ అపి వ్యాఖ్యాతమ్। క్షీరవద్ ధీతి ప్రసిద్ధవన్ నిర్దేశశ్ చోద్య-మాన్ద్య-పరః॥౨౪॥
Link copied౧౬౩। దేవాదివద్ అపి లోకే॥౨।౧।౨౫॥
Link copiedయథా దేవాదయః స్వే స్వే లోకే స్వాపేక్షితాని స్వ-సఙ్కల్పాద్ ఏవ సృజన్తి; తథా బ్రహ్మాపి--- దేవాదేః శాస్త్రావసేయ-శక్తితయా బ్రహ్మ-తుల్యత్వేఽపి దేవాది-గ్రహణం బ్రహ్మణో విచిత్ర-శక్తిత్వస్య సుగ్రహణాయేతి మన్తవ్యమ్॥౨౫॥ ఇత్య్ ఉపసంహార-దర్శనాధికరణమ్॥౮॥
Link copied౧౬౪। కృత్స్న-ప్రసక్తిర్ నిరవయవత్వ-శబ్ద-కోపో వా॥౨।౧।౨౬॥
Link copiedబ్రహ్మణో జగత్-కారణత్వం సమ్భవతి, నేతి సంశయః। న సమ్భవతీతి పూర్వః పక్షః; నిరవయవస్య బ్రహ్మణో జగద్-ఉపాదానత్వే కృత్స్నస్య బ్రహ్మణో జగద్-ఆకారేణోపయోగ-ప్రసఙ్గాత్; తత్-పరిజిహీర్షయా సావయవాభ్యుపగమే, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ ఇత్య్ ఆది కారణావస్థాయాం నిరవయవత్వ-వాచి-శబ్దో బాధ్యేత। యద్య్ అపి సూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరం బ్రహ్మ కారణమ్, స్థూల-చిద్-అచిద్-వస్తు-శరీరం బ్రహ్మ కార్యమ్ ఇత్య్ అభ్యుపగమ్యతే; తథాపి శరీర్య్-అంశస్యాపి కార్యత్వాభ్యుపగమాత్ కృత్స్న-ప్రసక్తిర్ నిరవయవత్వ-శబ్ద-బాధో వా। రాద్ధాన్తస్ తు--- సకలేతర-విసజాతీయం శ్రుత్య్-ఐక-సమధిగమ్యం సర్వ-శక్తి-యుక్తం బ్రహ్మ నిరవయవమ్ అపి కార్యం చ భవతి, అన్యచ్ చ భవతీతి పరిమిత-శక్తి-వస్తు-చోద్యం న తత్ర ప్రసజ్యతే। యథా జాతి-వాదినో జాతిర్ ఏకైవామూర్తా ఖణ్డ-ముణ్డాదిష్వ్ అత్యన్త-విలక్షణేష్వ్ అనన్తేష్వ్ అపి పరిసమాప్యైవ వర్తతే; న తత్రేతర-వస్తు-చోద్యమ్ ఇతి। అతో బ్రహ్మణో జగత్-కారణత్వం సమ్భవత్య్ ఏవ। సూత్రార్థస్ తు--- కృత్స్న-ప్రసక్తిర్ నిరవయవత్వ-శబ్ద-కోపో వా--- బ్రహ్మ-కారణత్వే కృత్స్నస్య బ్రహ్మణః కార్యత్వేనోపయోగ-ప్రసఙ్గః, నిరవయవత్వాత్। సావయవత్వే నిరవయవత్వ-శబ్ద-కోపో వా--- నిరవయవత్వ-వాది-శబ్ద-బాధ-ప్రసఙ్గ ఇత్య్ అర్థః॥౨౬॥
Link copied౧౬౫। శ్రుతేస్ తు శబ్ద-మూలత్వాత్॥౨।౧।౨౭॥
Link copiedతు-శబ్దః పక్ష-వ్యావృత్త్య్-అర్థః। శ్రుతేః--- శ్రుతి-ప్రామాణ్యాన్ నైవం ప్రసజ్యతే; శబ్ద-మూలత్వాత్--- శబ్దైక-మూలత్వేన సకలేతర-విజాతీయత్వాద్ ఇత్య్ అర్థః॥౨౭॥
Link copied౧౬౬। ఆత్మని చైవం విచిత్రాశ్ చ హి॥౨।౧।౨౮॥
Link copiedఆత్మని చైవం--- జీవాత్మన్య్ అచేతన-ధర్మాప్రసక్తిశ్ చైవమ్--- అచేతన-విజాతీయత్వాద్ ఏవేత్య్ అర్థః। విచిత్రాశ్ చ హి--- అచేతనేషు చ విసజాతీయేష్వ్ అగ్ని-జలాదిషు విచిత్రా హి శక్తయో దృశ్యన్తే। ఏవం పరమాత్మనశ్ చేతనాచేతన-విసజాతీయస్య విచిత్రాః శక్తయ ఉపపద్యన్తే॥౨౮॥
Link copied౧౬౭। స్వ-పక్ష-దోషాచ్ చ॥౨।౧।౨౯॥
Link copiedప్రధానాది-కారణ-పక్షే దోషాచ్ చ బ్రహ్మైవ జగత్-కారణమ్। తత్ర హి లౌకిక-వస్తు-సజాతీయత్వేన ప్రధానాదేర్ ఉక్త-దోషోఽన్యే చ ప్రసజ్యేరన్॥౨౯॥
Link copied౧౬౮। సర్వోపేతా చ తద్-దర్శనాత్॥౨।౧।౩౦॥
Link copiedన కేవలం సకలేతర-విసజాతీయత్వేన సర్వ-శక్త్య్-ఉపేతా పరా దేవతేత్య్ ఉచ్యతే; తద్-దర్శనాత్--- సర్వ-శక్తి-యోగ-శ్రుతేర్ ఇత్య్ అర్థః। దర్శయతీతి దర్శనం శ్రుతిః, పరాస్య శక్తిర్ వివిధైవ శ్రూయతే, ఇత్య్ ఆదికా॥౩౦॥
Link copied౧౬౯। వికరణత్వాన్ నేతి చేత్ తద్ ఉక్తమ్॥౨।౧।౩౧॥
Link copiedఉక్తస్యార్థస్య ద్రఢిమ్నే చోద్య-పూర్వకం పూర్వోక్తం స్మారయతి--- వికరణత్వాత్, కరణ-విరహితత్వాద్ బ్రహ్మ న కారణమ్ ఇతి చేత్, న తస్య కార్యం కరణం చ విద్యతే, ఇతి హి శ్రూయతే। తద్ ఉక్తమ్--- అత్ర యద్ వక్తవ్యమ్, తత్ పూర్వమ్ ఏవోక్తమ్, శబ్ద-మూలత్వాత్, విచిత్రాశ్ చ హీతి। అయమ్ ఏవ పరిహారః--- శబ్దైక-మూలత్వేన సకలేతర-విసజాతీయత్వాద్ బ్రహ్మణః, విసజాతీయానాం చ శక్తి-వైచిత్ర్యస్య లోక-దృష్టత్వాత్ సర్వమ్ ఉపపన్నమ్ ఇత్య్ అర్థః॥౩౧॥ ఇతి కృత్స్న-ప్రసక్త్య్-అధికరణమ్॥౯॥
Link copied౧౭౦। న ప్రయోజనవత్వాత్॥౨।౧।౩౨॥
Link copiedబ్రహ్మణో జగత్-కారణత్వం సమ్భవతి, నేతి సంశయః। న సమ్భవతీతి పూర్వః పక్షః; బుద్ధి-పూర్వారమ్భాణాం సప్రయోజనత్వాత్, ఈశ్వరస్య చ స్వత ఏవావాప్త-సమస్త-కామస్య జగత్-సృష్ట్య్-ఆరమ్భే ప్రయోజన-భావాద్ గర్భవాసాది-దుఃఖ-రూపత్వాత్ సృష్టేః, పరానుగ్రహేణాపి న సప్రయోజనత్వమ్ ఇతి। రాద్ధాన్తస్ తు--- పరిపూర్ణస్యాపీశ్వరస్య కేవల-లీలా-ప్రయోజనాయ జగత్-సృష్ట్య్-ఆద్య్-ఆరమ్భః సమ్భవతి। యథా లోకే సప్త-ద్వీపవతీం మేదినీమ్ అధితిష్ఠతో మహారాజస్య పరిపూర్ణస్యాపి కేవల-లీలైక-ఫలాః కన్దుకాద్య్-ఆరమ్భా దృశ్యన్తే, తద్వద్ ఈశ్వరస్యాపి ప్రయోజనాయ జగత్-సృష్ట్య్-ఆరమ్భః సమ్భవతి। సూత్రార్థస్ తు--- న ప్రయోజనవత్త్వాత్--- ప్రయోజనవత్త్వాత్ సృష్టేర్ ఈశ్వరస్య స్వతః పరిపూర్ణస్య ప్రయోజనాభావాన్ న స్రష్టృత్వమ్॥౩౨॥
Link copied౧౭౧। లోకవత్ తు లీలా-కైవల్యమ్॥౨।౧।౩౩॥
Link copiedలీలా-కైవల్యం--- లీలాయాః ప్రయోజనత్వే కైవల్యం సమ్భవతి; కేవలాయా లీలాయాః సృష్ట్య్-ఆరమ్భ-ప్రయోజనత్వం సమ్భవతీత్య్ అర్థః। లోకవత్--- యథా లోకే రాజ్ఞః కన్దుకాద్య్-ఆరమ్భే॥౩౩॥
Link copiedదేవ-మనుష్యాది-విషమ-సృష్ట్యా పక్ష-పాత-ప్రసఙ్గాద్ దుర్విషహ-దుఃఖ-గర్భత్వేన నైర్ఘృణ్య-ప్రసఙ్గాచ్ చ, పరమ-కారుణికస్య పరమ-పురుషస్య పరిపూర్ణస్య లీలార్థమ్ అపి జగత్-సర్గో న సమ్భవతీత్య్ ఆశఙ్క్యాహ---
Link copied౧౭౨। వైషమ్య-నైర్ఘృణ్యే న సాపేక్షత్వాత్ తథా హి దర్శయతి॥౨।౧।౩౪॥
Link copiedఈశ్వరస్య విచిత్ర-జగత్-సృష్టౌ దేవాది-వైషమ్య-ప్రయుక్త-పక్ష-పాతః, దుఃఖ-ప్రద-జగత్-సర్గే నైర్ఘృణ్యం చ న సమ్భవతః; వైషమ్యాదావ్ ఈశ్వరస్య క్షేత్రజ్ఞ-కర్మ-సాపేక్షత్వాత్। క్షేత్రజ్ఞానాం పూర్వ-పూర్వ-కర్మ పర్యాలోచ్య, తత్-తత్-కర్మానుగుణం విషమం జగత్ సృజతీతి తత్-కర్మైవ వైషమ్యాది-హేతుర్ ఇత్య్ అర్థః। తథా దేవాది-దేహ-యోగం క్షేత్రజ్ఞానాం తత్-కర్మ-సాపేక్షం దర్శయతి హి శ్రుతిః, సాధు-కారీ సాధుర్ భవతి పాప-కారీ పాపో భవతీతి॥౩౪॥
Link copied౧౭౩। న కర్మావిభాగాద్ ఇతి చేన్ నానాదిత్వాద్ ఉపపద్యతే చాప్య్ ఉపలభ్యతే చ॥౨।౧।౩౫॥
Link copiedసృష్టేః ప్రాక్ కర్మ న విద్యతే క్షేత్రజ్ఞాభావాత్; తద్-అభావశ్ చ, సద్ ఏవ సోమ్యేదమ్ ఇత్య్ అవధారణావగతాద్ అవిభాగాద్ ఇతి చేత్ తన్ న, అనాదిత్వాత్ క్షేత్రజ్ఞానాం తత్-తత్-కర్మ-ప్రవాహాణాం చ। ఉపపద్యతే చ క్షేత్రజ్ఞ-స్వరూపానాదిత్వేఽపి నామ-రూప-విభాగాభావాద్ అవిభాగ-శ్రుతిః। అన్యథా అకృతాభ్యాగమ-కృత-విప్రణాశ-ప్రసఙ్గాత్। ఉపలభ్యతే చ శ్రుతి-స్మృత్యోః క్షేత్రజ్ఞానామ్ అనాదిత్వమ్--- తద్ ధేదం తర్హ్య్ అవ్యాకృతమ్ ఆసీత్ తన్ నామ-రూపాభ్యాం వ్యాక్రియత, ఇతి నామ-రూప-వ్యాకరణ-మాత్ర-శ్రవణాత్ క్షేత్రజ్ఞానాం స్వరూపానాదిత్వం సిద్ధమ్; జ్ఞాజ్ఞౌ ద్వావ్ అజావ్ ఈశనీశౌ। నిత్యో నిత్యానామ్, ప్రకృతిం పురుషం చైవ విద్ధ్య్ అనాదీ ఉభావ్ అపి, ఇతి। అవిభాగ-శ్రుతిర్ అపి నామ-రూప-విభాగాభావాద్ ఏవోపపద్యత ఇత్య్ అభిప్రాయః॥
Link copied[అత్ర పాఠాన్తరమ్]
Link copiedసృష్టేః ప్రాక్ కర్మ న విద్యతే, క్షేత్రజ్ఞాభావాత్। తద్-అభావశ్ చ--- సద్ ఏవ సోమ్యేదమ్ ఇత్య్ అవధారణావగతాద్ అవిభాగాద్ ఇతి చేత్ తన్ న, అనాదిత్వాత్ క్షేత్రజ్ఞానాం తత్-తత్-కర్మ-ప్రవాహాణాం చ। తద్ ధేదం తర్హ్య్ అవ్యాకృతమ్ ఆసీత్ తన్ నామ-రూపాభ్యాం వ్యాక్రియతేతి నామ-రూప-వ్యాకరణ-మాత్ర-శ్రవణాత్ క్షేత్రజ్ఞానాం స్వరూపానాదిత్వం సిద్ధమ్। ఉపపద్యతే క్షేత్రజ్ఞ-స్వరూపానాదిత్వేఽపి నామ-రూప-విభాగాభావాద్ అవిభాగ-శ్రుతిః; అన్యథా అకృతాభ్యాగమ-కృత-విప్రణాశ-ప్రసఙ్గాత్। ఉపలభ్యతే చ శ్రుతి-స్మృత్యోః క్షేత్రజ్ఞానామ్ అనాదిత్వమ్, జ్ఞాజ్ఞౌ ద్వావ్ అజావ్ ఈశనీశౌ, నిత్యో నిత్యానామ్, ప్రకృతిం పురుషం చైవ విద్ధ్య్ అనాదీ ఉభావ్ అపి, న జాయతే, ఇత్య్ ఆదిభిః॥౩౫॥
Link copied౧౭౪। సర్వ-ధర్మోపపత్తేశ్ చ॥౨।౧।౩౬॥
Link copiedప్రధాన-పరమాణ్వ్-ఆదిష్వ్ అనుపపన్నానాం స్వ-పక్ష-దోషాద్ ఇత్య్ ఆదిషూక్తానాం సర్వేషాం ధర్మాణాం కారణత్వోపపాదకానాం బ్రహ్మణ్య్ ఉపపత్తేశ్ చ బ్రహ్మైవ కారణమ్। ప్రధాన-పరమాణ్వ్-ఆదీనాం పరిమిత-శక్తికత్వాల్ లోక-దృష్ట-వస్తు-సజాతీయత్వాచ్ చ అనుపపత్తయః సహస్త్రశః సన్తి। బ్రహ్మణః శాస్త్రైక-సమధిగమ్యతయా సకలేతర-విసజాతీయత్వేనాచిన్త్య-శక్తిత్వాత్ సర్వ-శక్తిత్వ-శ్రుతేశ్ చ సర్వమ్ ఉపపన్నమ్ ఇత్య్ అర్థః॥౩౬॥ ఇతి ప్రయోజనవత్త్వాధికరణమ్॥౧౦॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే ద్వితీయస్యాధ్యాయస్య ప్రథమః పాదః॥
Link copied139. smruthy anavaka:sa do:sha prasanga ithi che:n na:nya smruthy anavaka:sa do:sha prasanga:th||2|1|1||
Link copiedve:da:ntha:na:m samastha chid achid vasthu vilakshana:sprushta he:ya gandha sarvajnatha:dy anantha kalya:na guna:kara brahmaika parathvam prathipa:ditham kapila smruthi viro:dhe:na cha:layithum sakyam, utha ne:thi samsayah| sakyam ithi pu:rvah pakshah, sruthi viruddha:ya:h smruthe:r ana:darani:yathve: sthithe:'pi ve:da:ntha ve:dya:rthasya durgrahathve:na alpa sruthair manda mathibhir a:ptha prani:tha smruthy upabrumhane:na vina: the:sha:m nischayo: no:papadyathe:| kapila smruthih ke:vala thaththva pare:thi thayaiva hy upabrumhanam nya:yyam| anyatha: a:ptha prani:tha:ya:h ke:vala thaththva para:ya:s thasya: anavaka:sa prasanga ithi ve:da:ntha ve:dyam jagath ka:ranam pradha:nam| ra:ddha:nthas thu--- ve:da:nthasyo:pabrumhana:pe:kshathve:'py a:pthathama manv a:di smruthibhir ve:da:ntha:viro:dhini:bhir e:vo:pabrumhanam nya:yyam, anyatha: tha:sa:m bahvi:na:m anavaka:sa prasango: maha:n ayam do:shah sya:th| na cha tha:sa:m dharma prathipa:dana:mso:pabrumhanathve:na sa:vaka:sathvam, yatho: dharma:na:m api svaru:pam parabrahma bhu:tha parama purusha:ra:dhanathvam, ishta:pu:rtham bahudha: ja:tham ja:yama:nam visvam bibharthi bhuvanasya na:bhih| thad e:dha:gnis thad va:yus thath su:ryas thad u chandrama:h, yajnais thvam ijyase: nithyam sarva de:va maya:chyutha, ithy a:di sruthi smruthibhih| su:thram api vya:khya:tham||1||
Link copiedathi:ndriya:rtha sa:ksha:thka:ra samarthasya kapilasya ve:da:ntha:na:m brahma parathva:nupalabdhe:h pradha:na parathvam e:va:srayani:yam ithy atha uththaram pathathi---
Link copied140. ithare:sha:m cha:nupalabdhah||2|1|2||
Link copiedithare:sha:m manv a:di:na:m ve:da vid agre:sara:na:m sarva:thi:ndriya:rtha sa:ksha:thka:ra samartha:na:m pradha:na parathva:nupalabdhe:r brahma parathvo:palabdhe:s cha brahma parathva me:gha:srayani:yam; ve:da:ntha prathipanna:rtha viruddha:ya:s thu kapilo:palabdhe:r bhra:nthi mu:lathvam kalpayithavyam||2|| ithi smruthy adhikaranam||1||
Link copied141. e:the:na yo:gah prathyukthah||2|1|3||
Link copiedkim ve:da:ntha:na:m yo:ga smruthyo:pabrumhanam nya:yyam, utha ne:thi samsayah| nya:yyam ithi pu:rvah pakshah, kruthsna ve:da pravarthana:dhikrutha hiranyagarbha prani:thathva:d yo:gasya, i:svara sad bha:va:bhyupagama:ch cha| atho: yo:ga smruthyo:pabrumhithathve:na ve:da:ntha:na:m abrahma:thmaka pradha:no:pa:da:na prathipa:dana parathvam| ra:ddha:nthas thu--- kapila smruthivad ve:da viruddhthva:vise:sha:d ana:darani:yaiva yo:ga smruthih; hiranyagarbhasya:pi kshe:thrajnathve:na bhrama sambhava:th yo:ga smruthe:r api bhra:nthi mu:lakathvam| su:thram api vya:khya:tham||3|| ithi yo:ga prathyuktha:dhikaranam||2||
Link copied142. na vilakshanathva:d asya thatha:thvam cha sabda:th||2|1|4||
Link copiedkim ve:da:ntha:na:m jagath ka:ranathaya: pradha:na parathvam, utha brahma parathvam ithi samsayah| pradha:na parathvam ithi pu:rvah pakshah, ajnathva:dina: jagatho: brahma vilakshanathve:na brahma ka:ryathva prathipa:dana:sambhava:th, sa:lakshanye:na pradha:na ka:ryathva prathipa:dana parathvasya cha sambhava:th| ra:ddha:nthas thu--- ma:kshika:dibhyah krimya:di:na:m vilakshana:na:m uthpaththi darsana:th brahma vilakshanasya jagathah thath ka:ryathvam sambhavathye:va ithi| su:thra:rthas thu --- ajnathve:na:sukhathve:na cho:palabdhasya cha:sya chid achin misrasya jagathah sarva jna:d dhe:ya prathyani:ka:n nirathisaya:nanda:d brahmano: vilakshanathve:na jagatho: brahma ka:ryathva prathipa:danam ve:da:ntha:na:m na sambhavathi| thatha:thvam--- vilakshanathvam cha sabda:d avagamyathe:, na ke:valam prathyaksha:dy upalabddhya:, vijna:nam cha:vijna:nam cha, ani:saya: so:chathi muhyama:nah, ani:sas cha:thma: badhyathe: bho:kthru bha:va:th, ithy a:de:h||4||
Link copieda:po: va: aka:mayantha, tham pruthivy abravi:th, ithy a:dau pruthivy a:de:r api jna:na ka:ryam vyapadisyathe:; thasma:th--- avijna:nam che:thy e:thad anya param ithy atha uththaram pathathi---
Link copied143. abhima:ni vyapade:sas thu vise:sha:nugathibhya:m||2|1|5||
Link copiedthu sabdas cho:dyam vya:varthayathi; pruthivy a:dy abhima:ni de:vatha:na:m ayam vyapade:sah| kutho:'vagamyathe:, vise:sha:nugathibhya:m--- vise:shah, vise:shanam, hantha:ham ima:s thisro: de:vatha:h, ithi pruthivy a:de:r de:vatha: sabde:na vise:shanam drusyathe:, sarva: ha vai de:vatha: aham sre:yase: vivadama:na:h, ithi cha va:g a:di pra:na paryanthasya cha| thatha:nugathih--- anuprave:sah, agny a:di:na:m va:g a:dy anuprave:so: drusyathe:, agnir va:g bhu:thva: mukham pra:visath a:dithyas chakshur bhu:thva:kshini: pra:visath va:yuh pra:no: bhu:thva: na:sike: pra:visad ithy a:dau||5||
Link copied144. drusyathe: thu||2|1|6||
Link copiedthu sabdah paksham vya:varthayathi, ma:kshika:dibhyo: vilakshana:na:m krimy a:di:na:m uthpaththir drusyathe:; atho: brahma vilakshanasya:pi jagathas thath ka:ryathvam sambhavathi||6||
Link copied145. asad ithi che:n na prathishe:dha ma:thrathva:th||2|1|7||
Link copiedyadi ka:ryasya ka:rana:d vilakshana dravyathvam abhyupagamyathe:, tharhi ka:rane: ka:ryam na sad bhavathi:thy asath ka:rya va:do:'bhyupagathah sya:th; thatha: sathi--- sarvam khalv idam brahme:thi sa:ma:na:dhi karanya vyapade:so: na ghatatha ithi che:th than na, ka:rya ka:ranayo:h sa:lakshanya niyama prathishe:dha ma:thrathva:d asma:bhih pu:rvam abhihithasya| ka:rya ka:ranayo:r e:ka dravyathvam svi:krutham e:va| e:kam e:va ka:rana:vastham dravyam ka:rya:vastha:m bhajama:nam salakshana:vastha:m api bhajathe:, vilakshana:vastha:m api:thy arthah||7||
Link copied146. api:thau thadvath prasanga:d asamanjasam||2|1|8||
Link copiedyadi brahmaiva sarva jnam sathya sankalpam nirathisaya:nandam apahatha pa:pmathva:di svaru:pam thad vipari:tha jagad avastha:m bhajathe: tharhi pindathva ghatathva:vastha mrud dravyavath sarva jnathvam apahatha pa:pmathvam ajnathvam karma vasyathvam cha brahmanah prasajye:the:thi viruddha:rtha:bhidha:na:d ve:da:ntha va:kyam asamanjasam sya:th| api:tha:v ithi srushty a:de:h pradarsana:rtham| jagatho: brahmany api:thau brahmana uthpaththa:v api:thy arthah| api:thir apyayah||8||
Link copied147. na thu drushta:ntha bha:va:th||2|1|9||
Link copiedna brahmany ajnathva:dayah prasajye:ran; atha e:va na ve:da:ntha:na:m asa:manjasyam| thu sabdah prasakthasya:sambha:vani:yatha:m dyo:thayathi| e:kasyaiva:vastha: dvaya:nvaye:'pi guna do:sha vyavastha:ya:m drushta:ntha sad bha:va:th, yatha: manushyo: ja:tho: ba:lo: yuva: sthaviro: bhavathi:thy athra manushya sari:rakasya che:thanasyaiva sarva:vastha:nvaye:'pi janma ba:lathva yuvathva sthavirathva:di:ni na:thmani sangachchhanthe:; thatha: jna:na sukha duhkha:dayas cha na sari:re:| e:vam chid achid vasthu sari:rakasya parasya brahmanah ka:rya ka:rano:bhaya:vastha:nvaye:'pi karma vasyathva:jnathva:dayah sari:ra bhu:tha chid achid vasthu gatha:h| apahatha pa:pmathva sarvajnathva:dayah parama:thmany a:thma bhu:the:'vathishthanthe:| sarva:vasthasya chid achid vasthuno: brahma sari:rathvam, brahmanas cha thad a:thmathvam, yasya pruthivi: sari:ram ithy a:dy antharya:mi bra:hmana:dishv avagatham ithi na kaschid viro:dhah||9||
Link copied148. sva paksha do:sha:ch cha||2|1|10||
Link copiedna ke:valam brahma ka:rana va:dasya nirdo:shathaya: thath sama:srayanam, pradha:na ka:rana va:de: do:sha:ch chaithath parithyajya sa e:va sama:srayani:yah| pradha:na ka:rana va:de: hi nirvika:rasya chin ma:thrasya purushasya prakruthi sannidha:na krutha thad dharma:dhya:sa mu:la: jagath pravruththir abhyupagamyathe:; thathra prakruthi sad bha:va ma:thre: sannidha:ne: sathi mukthasya:pi thad dharma:dhya:sa prasangah; vika:ra vise:she: sathi sannidha:ne: kruthsnasya vika:rasya:dhya:sa pu:rvakathva:n na:dhya:sasya vika:ro: he:thur ithi viruddha:rtha:bhidha:na:d asa:manjasya do:sha ithi na thath paksha sambhava gandhah||10||
Link copied149. tharka:prathishtha:na:d api||2|1|11||
Link copiedka:pila thanthrasya tharka mu:lathve:na sa:kya:di tharka prathihathathaya:sya tharkasya:prathishthithathva:ch cha na thath paksha sambhavah||11||
Link copied150. anyatha:nume:yam ithi che:d e:vam apy anirmo:ksha prasangah||2|1|12||
Link copiedithah pu:rvam vidyama:nais tharkair aprathihathathvam yatha: sambhavathi, thatha: pradha:na ka:ranava:dam anuma:sya:maha ithi che:th thatha:pi tharka:prathishtha:na do:sha:d anirmo:ksha prasango: durva:rah; thvad adhika kutharka kusala sad bha:va sambhava:th||12|| ithi vilakshanathva:dhikaranam||3||
Link copied151. e:the:na sishta:parigraha: api vya:khya:tha:h||2|1|13||
Link copiedna parigruhyanthe: vaidikair ithy aparigraha:h; sishta:s cha the: aparigraha:s cha sishta:parigraha:h| e:the:na--- tharka:prathishtha:na lakshana kapila smruthi nirasana he:thuna:, parisishta:h kanabhaksha:di smruthayo:'pi nirastha: vya:khya:tha:h| parama:nu ka:rana va:dah sarva sammatha ithi na the:sha:m tharkasya:prathishthithathvam ithy adhika:sanka:| tharka mu:lathva:vise:sha:th parama:nu:na:m su:nyathva:d dravyathva:di viva:da:ch cha, tharkasya:prathishthithathvam e:ve:thi pariha:rah||13|| ithi sishta:parigraha:dhikaranam||4||
Link copied152. bho:kthra:paththe:r avibha:gas che:th sya:l lo:kavath||2|1|14||
Link copiedsarva:thma bhu:thasya parasya brahmanah sva sari:ra bhu:tha:j ji:va:n nirathisaya:nanda svabha:vathaya: yo: vibha:ga ukthah, sa kim vibha:gas sambhavathi, utha ne:thi samsayah| na sambhavathi:thi pu:rvah pakshah| sarva chid achid vasthu sari:rathaya: sasari:rathva:d brahmanah, sasari:rasya cha sukha duhkhayo:r bho:kthruthva:paththe:h| thad a:paththis cha--- na ha vai sasari:rasya sathah priya:priyayo:r apahathir asthy asari:ram va:va santham na priya:priye: sprusathah, ithi sruthe:h| ra:ddha:nthas thu--- sya:d e:va vibha:go: ji:va:th parasya:karma vasyathaya:| na sasari:rathva prayukthah sukha duhkha yo:gah, api thu sa:sthra vasyathaya: thad athivruththi kruthah; sa e:kadha: bhavathi thridha: bhavathi:thy a:dina:vagatha sari:rasya mukthasya sasari:rasya:py asa:sthra vasyathaya: nirastha nikhila duhkhathva darsana:th| yatha: lo:ke: ra:ja sa:sana vasya:na:m thach chha:sana:thivruththi nimiththa duhkha:nvaye:'pi ra:jnah sasari:rasya:pi praka:ra:nthare:na sa:dharmye:'pi sva sa:sana:vasyathaya: na thad athivruththi krutha duhkha:nvayah| vibha:gah vailakshanyam| su:thram api vya:khya:tham||14|| ithi bho:kthra:paththy adhikaranam||5||
Link copied153. thad ananyathvam a:rambhana sabda:dibhyah||2|1|15||
Link copiedkim brahma ka:ryam jagad brahmano:'nyath, utha:nanyad ithi samsayah| anyad ithi pu:rvah pakshah, thatho:palabdhe:h| na hi buddhi sabda:nthara:dayah ka:rana:th ka:ryasya:nanyathve: kathanchid upapadyanthe:; ka:raka vya:pa:ra vaiyarthyam cha:nanyathve:| atho: vasthu viro:dha:d ananyathva sruthayo: lakshanaya: ne:ya:h| ra:ddha:nthas thu--- va:cha:rambhanam vika:ro: na:madhe:yam mruththike:thy e:va sathyam, sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam thad aikshatha bahu sya:m praja:ye:ye:thi thath the:jo:'srujatha, aithada:thmyam idam sarvam thath sathyam sa a:thma: thath thvam asi sve:thake:tho:, sarvam khalv idam brahma thaj jala:n ithi, thad dhe:dam tharhy avya:krutham a:si:th than na:ma ru:pa:bhya:m vya:kriyatha, ithy a:di sruthi satha siddham ka:ryasya jagathah ka:rana:d brahmano:'nanyathvam| na cha:thra vasthu viro:dha gandhah; ka:rani:bhu:tha mrud a:di dravyasyaiva pruthu budhno:dara:dy avastha:nthara:paththya: buddhi sabda:nthara:dayo:'py upapadyanthe:| thatha e:va ka:raka vya:pa:ra:dy arthavaththvam cha| e:vam ka:ranasyaiva ka:rya:vastha:ya:m api prathyabhijna:yama:nasya:vastha:nthara:paththyaiva sarve:shu:papanne:shv anupalabdha dravya:nthara kalpana: na sambhavathi| thasma:d brahma ka:ryam jagad brahmano:'nanyad e:va| su:thra:rthas thu--- thasma:d brahmanah, ananyathvam ka:ryasya jagatha a:rambhana sabda:dibhyo: va:kye:bhyas thad upapa:dayadbhyo:'vagamyathe:, a:rambhanam ithi sabda a:dir ye:sha:m pu:rvo:ktha:na:m va:kya:na:m, tha:ny a:rambhana sabda:di:ni; tha:ny ananyathvam upapa:dayanthi||15||
Link copied154. bha:ve: cho:palabdhe:h||2|1|16||
Link copiedghata:di ka:ryam bha:ve: cha thad e:ve:dam mrud dravyam iththam avasthitham ithi ka:ranasya upalabdhe:s cha ka:rana:d ananyathvam ka:ryasya| yatha: de:vadaththasya ba:lathva yuvathva:dy avastha: visishtasya:nanyathvam||16||
Link copied155. saththva:ch cha:parasya||2|1|17||
Link copiedaparasya ka:ryasya ka:rane: saththva:ch cha ka:rana:d ananyath ka:ryam| sarvam idam vata sara:va:di ka:ryam pu:rva:hne: mrud e:va:si:d ithi hi ka:rane: ka:ryam upalabhyathe:| ghata sara:va:di samstha:na samsthitham e:va mrud dravyam pu:rva ka:le: pinda:ka:ram upalabdham ithy arthah||17||
Link copied156. asad vyapade:sa:n ne:thi che:n na dharma:nthare:na va:kya se:sha:dy ukthe:s sabda:nthara:ch cha||2|1|18||
Link copiedasad e:ve:dam agra a:si:th, idam va: agre: naiva kinchana:si:th, ithy a:dishu ka:rana:vastha:ya:m ka:ryasya:saththva vyapade:sa:th ka:rane: ka:ryam sad ithy e:than no:papadyatha ithi che:n na, sad ithi vyapade:sa he:thu bhu:tha na:ma ru:pa:vastha: viro:dhi su:kshma:vastha:khya dharma:nthare:na yo:ga:d asad ithi nyapadisyathe:| katham idam avagamyathe:| va:kya se:sha:dy ukthe:s sabda:nthara:ch cha| va:kya se:shas tha:vath--- thad asad e:va san mano:'kurutha sya:m ithi| asad ithi vyapadishtasyaiva manaska:ra prathipa:dane:na asad vyapade:so: dharma:nthara yo:ga:d ithy avagamyathe:| yukthis cha dharma:nthara yo:gam e:va:sad vyapade:sa he:thum avagamayathi| ghato:'sthi ghato: na:sthi:thi sad asad vyapade:sayo:r ghatathva kapa:lathvayo:h paraspara viro:dhi dharmayo:r e:va he:thuthve: siddhe: thad athiriktha:nupalabdha thuchchhathvasya he:thuthva kalpana:nupapaththe:h| thatha: sabda:ntharam cha--- sad e:va so:mye:dam agra a:si:d ithi sama:na prakarana stham asach chhabdam dharma:nthara yo:ga nimiththam avagamayathi||18||
Link copied157. patavach cha||2|1|19||
Link copiedyatha: thanthava e:va vyathishanga vise:sha bha:jah pata ithi na:ma ru:pa:bhya:m ka:rya:nthara:dikam bhajanthe:, thad brahma:pi||19||
Link copied158. yatha: cha pra:na:dih||2|1|20||
Link copiedyatha: cha va:yur e:ka e:va sari:re: vruththi vise:sham bhajama:nah pra:na:pa:na:di na:ma ru:pa ka:rya:nthara:ni bhajathe:, thad brahma:pi:thi thad ananyathvam jagathas siddham||20|| ithy a:rambhana:dhikaranam||6||
Link copied159. ithara vyapade:sa:d dhitha:karana:di do:sha prasakthih||2|1|21||
Link copiedbrahmano: jagath ka:ranathvam sambhavathi ne:thi samsayah| na sambhavathi:thi pu:rvah pakshah, ayam a:thma: brahma, thath thvam asi:thi sa:ma:na:dhikaranye:na ji:vo: brahme:thy avagama:th, jagath sargasya cha ji:va duhkha he:thuthva:th, a:thma hitha:karana:di do:sha prasakthe:h sarva jnasya sathya sankalpasya brahmano: jagath ka:ranathva:nupapaththe:h| ji:va parayo:r bhe:da va:dinyah sruthayah, jagad brahmano:r ananyathvam vadatha: thvayaiva parithyaktha:h, bhe:de: sathy ananyathva:siddhe:h| aupa:dhika bhe:da vishaya: bhe:da sruthayah, sva:bha:vika:bhe:da vishaya: abhe:da sruthaya ithi che:th; thathre:dam vakthavyam--- svabha:vathah svasma:d abhinnam ji:vam kim anupahitham jagath ka:ranam brahma ja:na:thi na va:| na ja:na:thi che:th, sarva jnathva ha:nih| ja:na:thi che:th, svasma:d abhinnasya ji:vasya duhkham sva duhkham ithi ja:natho: brahmano: hitha:karana:hitha karana:di do:sha prasakthir aniva:rya:| ji:va brahmano:r ajna:na krutho: bhe:dah, thad vishaya: bhe:da sruthir ithi che:th; thathra:pi ji:va:jna:na pakshe: pu:rvo:ktho: do:shas thath phalam cha thad avastham e:va| brahma:jna:na pakshe: sva praka:sa svaru:pasya brahmano:'jna:na sa:kshithvam thath krutha jagath srushtis cha na sambhavathi; ajna:ne:na praka:sas thiro:hithas che:th, thiro:dha:nasya praka:sa nivruththi karathve:na praka:sasyaiva svaru:pathva:th svaru:pa nivruththir e:ve:thi svaru:pa na:sa:di do:sha:h bha:shye: prapanchitha:h| ra:ddha:nthas thu--- asma:n ma:yi: srujathe: visvam e:thath thasmims cha:nyo: ma:yaya: sanniruddhah, thayo:r anyah pippalam sva:dv aththy anasnann anyo: abhicha:kasi:thi, pradha:na kshe:thrajna pathir gune:sah, pruthag a:thma:nam pre:ritha:ram cha mathva:, ithy a:dibhih prathyaga:thmano:'rtha:nthara bhu:tham brahme:thy avagama:th, ji:va karma:nugunathaya: jagath sargasya cha brahmano: li:la: prayo:janathva:th, jagath ka:ranathvam sambhavathy e:va| thath thvam asy a:di sa:ma:na:dhikaranya nirde:sah, yasya:thma: sari:ram ithy a:di sruthe:r ji:vasya brahma sari:rathva:th thach chhari:rathaya: ji:va praka:raka brahma prathipa:dana parah| su:kshma chid achid vasthu sari:ram brahma ka:rana:vastham, sthu:la chid achid vasthu sari:ram brahmaiva ka:rya:vastham ithi ka:rya ka:ranayo:r ananyathvam| e:vam api sari:ra bhu:thayo:s chid achid vasthuno:h sari:rino: brahmanas cha duhkhithva parina:mithva he:ya prathyani:kathva kalya:na guna:karathva svabha:va:svaru:pa vive:ka vishaya sruthi siddha:s thathaiva vyavasthitha: ithi brahmano: jagath ka:ranathvam sambhavathy e:va| su:thra:rthas thu--- ithara vyapade:sa:d dhitha:karana:di do:sha prasakthih--- brahmana itharah ji:vah, brahmano: ji:vathaya: vyapade:sa:th, ji:vasya cha duhkhithva:th, hitha ru:pa jagad akaranam ahitha ru:pa jagath karanam ithy a:di do:sha prasakthir brahmanah| atho: brahmano: jagath ka:ranathvam na sambhavathi:thi||21||
Link copiedatha uththaram pathathi---
Link copied160. adhikam thu bhe:da nirde:sa:th||2|1|22||
Link copiedthu sabdah paksha vya:vruththy arthah| prathyaga:thmanah adhikam--- artha:nthara bhu:tham brahma| kuthah| bhe:da nirde:sa:th--- sa ka:ranam karana:dhipa:dhipah, pradha:na kshe:thrajna pathir gune:sah, pruthag a:thma:nam pre:ritha:ram cha mathva:, ithy a:dibhyah prathyaga:thmano: ji:va:d brahmano: hi bhe:do: nirdisyathe:||22||
Link copied161. asma:divach cha thad anupapaththih||2|1|23||
Link copiedasma ka:shtha lo:shtha thruna:de:r ache:thanasye:va:nantha duhkha:kara ji:vasya nirathisaya:nanda sathya sankalpa brahma bha:va:nupapaththis cha| na ke:valam bhe:da sruthya:rtha:ntharathvam avagamyathe:, vasthv anupapaththya: che:thy arthah| ji:va sa:ma:na:dhikaranya nirde:sah, yasya:thma: sari:ram ithy a:di sruthi satha siddha ji:va praka:raka brahma prathipa:dana para ithi, avasthithe:r ithi ka:sakruthsna ithy athraiva prathipa:dithah||23|| ithi:thara vyapade:sa:dhikaranam||7||
Link copied162. upasamha:ra darsana:n ne:thi che:n na kshi:ravad dhi||2|1|24||
Link copiedbrahmano: jagath ka:ranathvam sambhavathi, na ve:thi samsayah| na sambhavathi:thi pu:rvah pakshah; lo:ke: ka:rya janana samarthasya:pi vasthunas thath thath ka:rya janane: ane:ka ka:rako:pasamha:ra darsana:d vichithra jagaj janana samarthasya:pi brahmano:'saha:yasya janayithruthva:nupapaththe:h| ra:ddha:nthas thu--- kshi:rasya dadhi bha:ve:'nanya:pe:kshathva darsana:n na:ne:ka ka:rako:pasamha:ra niyamo: drusyatha ithi brahmano:'nanya:pe:kshasyaiva ka:ranathvam sambhavathy e:va| su:thram api vya:khya:tham| kshi:ravad dhi:thi prasiddhavan nirde:sas cho:dya ma:ndya parah||24||
Link copied163. de:va:divad api lo:ke:||2|1|25||
Link copiedyatha: de:va:dayah sve: sve: lo:ke: sva:pe:kshitha:ni sva sankalpa:d e:va srujanthi; thatha: brahma:pi--- de:va:de:h sa:sthra:vase:ya sakthithaya: brahma thulyathve:'pi de:va:di grahanam brahmano: vichithra sakthithvasya sugrahana:ye:thi manthavyam||25|| ithy upasamha:ra darsana:dhikaranam||8||
Link copied164. kruthsna prasakthir niravayavathva sabda ko:po: va:||2|1|26||
Link copiedbrahmano: jagath ka:ranathvam sambhavathi, ne:thi samsayah| na sambhavathi:thi pu:rvah pakshah; niravayavasya brahmano: jagad upa:da:nathve: kruthsnasya brahmano: jagad a:ka:re:no:payo:ga prasanga:th; thath parijihi:rshaya: sa:vayava:bhyupagame:, sad e:va so:mye:dam agra a:si:d e:kam e:va:dvithi:yam ithy a:di ka:rana:vastha:ya:m niravayavathva va:chi sabdo: ba:dhye:tha| yady api su:kshma chid achid vasthu sari:ram brahma ka:ranam, sthu:la chid achid vasthu sari:ram brahma ka:ryam ithy abhyupagamyathe:; thatha:pi sari:ry amsasya:pi ka:ryathva:bhyupagama:th kruthsna prasakthir niravayavathva sabda ba:dho: va:| ra:ddha:nthas thu--- sakale:thara visaja:thi:yam sruthy aika samadhigamyam sarva sakthi yuktham brahma niravayavam api ka:ryam cha bhavathi, anyach cha bhavathi:thi parimitha sakthi vasthu cho:dyam na thathra prasajyathe:| yatha: ja:thi va:dino: ja:thir e:kaiva:mu:rtha: khanda munda:dishv athyantha vilakshane:shv ananthe:shv api parisama:pyaiva varthathe:; na thathre:thara vasthu cho:dyam ithi| atho: brahmano: jagath ka:ranathvam sambhavathy e:va| su:thra:rthas thu--- kruthsna prasakthir niravayavathva sabda ko:po: va:--- brahma ka:ranathve: kruthsnasya brahmanah ka:ryathve:no:payo:ga prasangah, niravayavathva:th| sa:vayavathve: niravayavathva sabda ko:po: va:--- niravayavathva va:di sabda ba:dha prasanga ithy arthah||26||
Link copied165. sruthe:s thu sabda mu:lathva:th||2|1|27||
Link copiedthu sabdah paksha vya:vruththy arthah| sruthe:h--- sruthi pra:ma:nya:n naivam prasajyathe:; sabda mu:lathva:th--- sabdaika mu:lathve:na sakale:thara vija:thi:yathva:d ithy arthah||27||
Link copied166. a:thmani chaivam vichithra:s cha hi||2|1|28||
Link copieda:thmani chaivam--- ji:va:thmany ache:thana dharma:prasakthis chaivam--- ache:thana vija:thi:yathva:d e:ve:thy arthah| vichithra:s cha hi--- ache:thane:shu cha visaja:thi:ye:shv agni jala:dishu vichithra: hi sakthayo: drusyanthe:| e:vam parama:thmanas che:thana:che:thana visaja:thi:yasya vichithra:h sakthaya upapadyanthe:||28||
Link copied167. sva paksha do:sha:ch cha||2|1|29||
Link copiedpradha:na:di ka:rana pakshe: do:sha:ch cha brahmaiva jagath ka:ranam| thathra hi laukika vasthu saja:thi:yathve:na pradha:na:de:r uktha do:sho:'nye: cha prasajye:ran||29||
Link copied168. sarvo:pe:tha: cha thad darsana:th||2|1|30||
Link copiedna ke:valam sakale:thara visaja:thi:yathve:na sarva sakthy upe:tha: para: de:vathe:thy uchyathe:; thad darsana:th--- sarva sakthi yo:ga sruthe:r ithy arthah| darsayathi:thi darsanam sruthih, para:sya sakthir vividhaiva sru:yathe:, ithy a:dika:||30||
Link copied169. vikaranathva:n ne:thi che:th thad uktham||2|1|31||
Link copiedukthasya:rthasya dradhimne: cho:dya pu:rvakam pu:rvo:ktham sma:rayathi--- vikaranathva:th, karana virahithathva:d brahma na ka:ranam ithi che:th, na thasya ka:ryam karanam cha vidyathe:, ithi hi sru:yathe:| thad uktham--- athra yad vakthavyam, thath pu:rvam e:vo:ktham, sabda mu:lathva:th, vichithra:s cha hi:thi| ayam e:va pariha:rah--- sabdaika mu:lathve:na sakale:thara visaja:thi:yathva:d brahmanah, visaja:thi:ya:na:m cha sakthi vaichithryasya lo:ka drushtathva:th sarvam upapannam ithy arthah||31|| ithi kruthsna prasakthy adhikaranam||9||
Link copied170. na prayo:janavathva:th||2|1|32||
Link copiedbrahmano: jagath ka:ranathvam sambhavathi, ne:thi samsayah| na sambhavathi:thi pu:rvah pakshah; buddhi pu:rva:rambha:na:m saprayo:janathva:th, i:svarasya cha svatha e:va:va:ptha samastha ka:masya jagath srushty a:rambhe: prayo:jana bha:va:d garbhava:sa:di duhkha ru:pathva:th srushte:h, para:nugrahe:na:pi na saprayo:janathvam ithi| ra:ddha:nthas thu--- paripu:rnasya:pi:svarasya ke:vala li:la: prayo:jana:ya jagath srushty a:dy a:rambhah sambhavathi| yatha: lo:ke: saptha dvi:pavathi:m me:dini:m adhithishthatho: maha:ra:jasya paripu:rnasya:pi ke:vala li:laika phala:h kanduka:dy a:rambha: drusyanthe:, thadvad i:svarasya:pi prayo:jana:ya jagath srushty a:rambhah sambhavathi| su:thra:rthas thu--- na prayo:janavaththva:th--- prayo:janavaththva:th srushte:r i:svarasya svathah paripu:rnasya prayo:jana:bha:va:n na srashtruthvam||32||
Link copied171. lo:kavath thu li:la: kaivalyam||2|1|33||
Link copiedli:la: kaivalyam--- li:la:ya:h prayo:janathve: kaivalyam sambhavathi; ke:vala:ya: li:la:ya:h srushty a:rambha prayo:janathvam sambhavathi:thy arthah| lo:kavath--- yatha: lo:ke: ra:jnah kanduka:dy a:rambhe:||33||
Link copiedde:va manushya:di vishama srushtya: paksha pa:tha prasanga:d durvishaha duhkha garbhathve:na nairghrunya prasanga:ch cha, parama ka:runikasya parama purushasya paripu:rnasya li:la:rtham api jagath sargo: na sambhavathi:thy a:sankya:ha---
Link copied172. vaishamya nairghrunye: na sa:pe:kshathva:th thatha: hi darsayathi||2|1|34||
Link copiedi:svarasya vichithra jagath srushtau de:va:di vaishamya prayuktha paksha pa:thah, duhkha prada jagath sarge: nairghrunyam cha na sambhavathah; vaishamya:da:v i:svarasya kshe:thrajna karma sa:pe:kshathva:th| kshe:thrajna:na:m pu:rva pu:rva karma parya:lo:chya, thath thath karma:nugunam vishamam jagath srujathi:thi thath karmaiva vaishamya:di he:thur ithy arthah| thatha: de:va:di de:ha yo:gam kshe:thrajna:na:m thath karma sa:pe:ksham darsayathi hi sruthih, sa:dhu ka:ri: sa:dhur bhavathi pa:pa ka:ri: pa:po: bhavathi:thi||34||
Link copied173. na karma:vibha:ga:d ithi che:n na:na:dithva:d upapadyathe: cha:py upalabhyathe: cha||2|1|35||
Link copiedsrushte:h pra:k karma na vidyathe: kshe:thrajna:bha:va:th; thad abha:vas cha, sad e:va so:mye:dam ithy avadha:rana:vagatha:d avibha:ga:d ithi che:th than na, ana:dithva:th kshe:thrajna:na:m thath thath karma prava:ha:na:m cha| upapadyathe: cha kshe:thrajna svaru:pa:na:dithve:'pi na:ma ru:pa vibha:ga:bha:va:d avibha:ga sruthih| anyatha: akrutha:bhya:gama krutha viprana:sa prasanga:th| upalabhyathe: cha sruthi smruthyo:h kshe:thrajna:na:m ana:dithvam--- thad dhe:dam tharhy avya:krutham a:si:th than na:ma ru:pa:bhya:m vya:kriyatha, ithi na:ma ru:pa vya:karana ma:thra sravana:th kshe:thrajna:na:m svaru:pa:na:dithvam siddham; jna:jnau dva:v aja:v i:sani:sau| nithyo: nithya:na:m, prakruthim purusham chaiva viddhy ana:di: ubha:v api, ithi| avibha:ga sruthir api na:ma ru:pa vibha:ga:bha:va:d e:vo:papadyatha ithy abhipra:yah||
Link copied[athra pa:tha:ntharam]
Link copiedsrushte:h pra:k karma na vidyathe:, kshe:thrajna:bha:va:th| thad abha:vas cha--- sad e:va so:mye:dam ithy avadha:rana:vagatha:d avibha:ga:d ithi che:th than na, ana:dithva:th kshe:thrajna:na:m thath thath karma prava:ha:na:m cha| thad dhe:dam tharhy avya:krutham a:si:th than na:ma ru:pa:bhya:m vya:kriyathe:thi na:ma ru:pa vya:karana ma:thra sravana:th kshe:thrajna:na:m svaru:pa:na:dithvam siddham| upapadyathe: kshe:thrajna svaru:pa:na:dithve:'pi na:ma ru:pa vibha:ga:bha:va:d avibha:ga sruthih; anyatha: akrutha:bhya:gama krutha viprana:sa prasanga:th| upalabhyathe: cha sruthi smruthyo:h kshe:thrajna:na:m ana:dithvam, jna:jnau dva:v aja:v i:sani:sau, nithyo: nithya:na:m, prakruthim purusham chaiva viddhy ana:di: ubha:v api, na ja:yathe:, ithy a:dibhih||35||
Link copied174. sarva dharmo:papaththe:s cha||2|1|36||
Link copiedpradha:na parama:nv a:dishv anupapanna:na:m sva paksha do:sha:d ithy a:dishu:ktha:na:m sarve:sha:m dharma:na:m ka:ranathvo:papa:daka:na:m brahmany upapaththe:s cha brahmaiva ka:ranam| pradha:na parama:nv a:di:na:m parimitha sakthikathva:l lo:ka drushta vasthu saja:thi:yathva:ch cha anupapaththayah sahasthrasah santhi| brahmanah sa:sthraika samadhigamyathaya: sakale:thara visaja:thi:yathve:na:chinthya sakthithva:th sarva sakthithva sruthe:s cha sarvam upapannam ithy arthah||36|| ithi prayo:janavaththva:dhikaranam||10||
Link copiedithi sri: ra:ma:nuja:cha:rya virachithe: sri: ve:da:nthadi:pe: dvithi:yasya:dhya:yasya prathamah pa:dah||
Link copied