Vedanta Dipa · Section 7 of 17
||atha dvithi:ya:dhya:ye: dvithi:yah pa:dah||
Original Sanskrit · click to toggle
१७५। रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च॥२।२।१॥
Link copiedसाङ्ख्य-तन्त्र-सिद्धः प्रधान-कारण-वादः किं समीचीन-युक्ति-मूल, उत नेति संशयः। समीचीन-युक्ति-मूल इति पूर्वः पक्षः। घटादिवद् विचित्र-सन्निवेशं जगत् कार्यं तद्वद् एव स्व-सरूप-कारण-विशेषारब्धम्। सुख-दुःख-मोहाद्य्-आत्मकतया सत्त्वाद्य्-आत्मकं जगत् सत्त्व-रजस्-तमो-मूलकम्। तत्र महद्-आदि-पृथिव्य्-अन्तानां घटादिवत् परिणामित्वेन कारणापेक्षित्वाविशेषात् ते जगद्-उत्पत्तौ कारण-काष्ठा न भवन्ति; तेषां परिमितत्वेन अपरिमित-जगद्-उत्पादनाशक्तेः। अन्यूनानतिरिक्तानि साम्यावस्थान्य् अपरिमितानि सत्त्व-रजस्-तमांस्य् अव्यक्त-प्रधानादि-शब्दाभिधेयानि जगत्-कारणम्। राद्धान्तस् तु--- रथ-प्रासादादि-हेतु-भूत-दार्वादिवद् अचेतनं प्रधानं स्व-स्वभावाद्य्-अभिज्ञ-चेतनानधिष्ठितं विचित्र-जगद्-रचना-समर्थम् इति न केवलं प्रधानं कारणम्। सूत्रार्थस् तु--- रचनानुपपत्तेश् च नानुमानम्--- अनुमीयत इत्य् अनुमानं प्रधानम्; तस्याचेतनस्य प्राज्ञानधिष्ठितस्य विचित्र-सन्निवेश-जगद्-रचनानुपपत्तेस् तन् न कारणम्। च-कारात् सत्त्वादीनां द्रव्य-गुणत्वेन शौक्ल्यादेर् इवोपादान-कारणत्वासम्भवं समुच्चिनोति। सत्त्वादयो हि कार्य-गत-लाघव-प्रकाशादि-हेतु-भूताः कारण-भूत-पृथिव्य्-आदि-गतास् तत्-स्वभाव-विशेषाः। प्रवृत्तेश् च--- अनुपपत्तेर् इति वर्तते; प्राज्ञानधिष्ठितस्य प्रधानस्य विचित्र-जगद्-रचनानुगुणाद्य्-अपरिस्पन्द-रूप-प्रवृत्त्य्-अनुपपत्तेश् च न प्रधानं कारणम्॥१॥
Link copied१७६। पयोऽम्बुवच् चेत् तत्रापि॥२।२।२॥
Link copiedपयसः अम्बुनश् च यथा प्राज्ञानधिष्ठितस्यैव दधि-भावेन नारिकेल-चूतादि-विचित्र-रस-रूपेण च परिणामो दृश्यते; तद्वत् प्रधानस्यापि केवलस्यैव जगद्-आकारेण परिणाम उपपद्यत इति चेत् परिहरति तत्रापीति। तद् अपि पक्षीकृतम् इत्य् अर्थः। यत्र रथादिष्व् अचेतनस्य प्राज्ञाधिष्ठितत्वं दृष्टम्, तद्-व्यतिरिक्तं हि सर्वं पक्षीकृतम् एव। योऽप्सु तिष्ठन्न् इत्य् आदि श्रुतेस् तद् अपि प्राज्ञाधिष्ठितम्॥२॥
Link copied१७७। व्यतिरेकानवस्थितेश् चानपेक्षत्वात्॥२।२।३॥
Link copiedसर्ग-व्यतिरेकेण प्रतिसर्गावस्थयानवस्थिति-प्रसङ्गाच् च केवलं प्रधानं न कारणम्; अन्यानपेक्षत्वात् प्रधानस्य सर्वदैव सृष्टिः प्रसज्यते॥३॥
Link copied१७८। अन्यत्राभावाच् च न तृणादिवत्॥२।२।४॥
Link copiedधेन्व्-आदिनोपयुक्तं हि तृणोदकादि स्वयम् एव क्षीराकारेण परिणमते; तद्वत् प्रधानम् अपीति च वक्तुं न शक्यते; धेन्व्-आदिनोपयुक्तस्यापि तृणादेः क्षीराकारेण परिणामः प्राज्ञाधिष्ठितत्वाद् एव भवतीत्य् अभ्युपेतव्यम्। कुतः। अन्यत्राभावात्--- अनडुहाद्य्-उपयुक्तस्य प्रहीणस्य वा तृणादेः क्षीराकारेण परिणामाभावात्॥४॥
Link copied१७९। पुरुषाश्मवद् इति चेत् तथापि॥२।२।५॥
Link copiedप्राज्ञानधिष्ठितम् अपि प्रधानं चैतन्य-मात्र-वपुर् निष्क्रियः पुरुषः स्व-सन्निधि-मात्रेण सर्गादौ प्रवर्तयति। यथा दृक्-शक्ति-युक्तो गमन-शक्ति-विकलः पङ्गुः पुरुषः, अन्धं दृक्-शक्ति-विकलं प्रवृत्ति-शक्ति-युक्तं पुरुषं स्व-सन्निधानात् प्रवर्तयति; यथा चायस्कान्ताश्मा स्व-सन्निधानादयः प्रवर्तयति तद्वद् इति चेत्; परिहरति--- तथापीति। तद्वद् अपि प्रधानस्य प्रवृत्तिर् नोपपद्यते; तत्र हिं पङ्गोः पुरुषस्य गमन-शक्ति-विकलस्यापि मार्गोपदेशादि-व्यापारः कादाचित्को दृश्यते; अन्धस्य चाक्षुष-व्यापार-विरहेऽपि पङ्गूपदेश-ग्रहणादिश् चेतन-धर्मोऽस्ति। अयस्कान्त-मणेर् अप्य् अयः-प्रवृत्तौ कादाचित्कम् अयः-सन्निधानं विद्यते। इह तु सन्निधि-मात्रातिरेकी तादृशः कश्चिद् विशेष उभयत्रापि न विद्यते। पुरुष-सन्निधानस्य नित्यत्वेन नित्य-सर्ग-प्रसक्तिः। तथा सति प्रतिसर्गाभावोऽपवर्गाभाव-प्रसङ्गश् च॥५॥
Link copiedइतश् च---
Link copied१८०। अङ्गित्वानुपपत्तेश् च॥२।२।६॥
Link copiedगुणानाम् उत्कर्षापकर्ष-रूपाङ्गाङ्गि-भावेन जगत्-प्रवृत्तिः प्रतिसर्गावस्थायां साम्यावस्थानाम् एकस्योत्कर्ष-रूपाङ्गित्वानुपपत्तेश् च न सम्भवति। तत्राप्य् उत्कर्षोऽस्ति चेत्, सर्वदा सर्ग-प्रसङ्गः॥६॥
Link copied१८१। अन्यथानुमितौ च ज्ञ-शक्ति-वियोगात्॥२।२।७॥
Link copiedउक्त-प्रकाराद् व्यतिरिक्त-प्रकारेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्व-शक्ति-वियोगाद् रचनानुपपत्त्य्-आदयो दोषास् तद्-अवस्थाः॥७॥
Link copied१८२। अभ्युपगमेऽप्य् अर्थाभावात्॥२।२।८॥
Link copiedप्रधानाभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान् न तद्-अनुमेयम्। पुरुषस्य भोगापवर्गार्थतया हि प्रधान-प्रवृत्तेः सप्रयोजनत्वम्। चैतन्य-मात्र-वपुषो निष्क्रियस्य नित्य-निर्विकारस्य पुरुषस्य इतरेतराध्यास-कृत-प्रकृति-दर्शन-रूप-भोगः, तद्-विवेक-रूपापवर्गश् च न सम्भवति। निर्विकारस्यैव प्रकृति-सन्निधानेन भोगः सम्भवति चेत्; उभयोर् नित्यत्वेन च सन्निधानस्य नित्यत्वाद् अपवर्गासिद्धिः; तथाविध-सन्निधेर् एवापवर्ग-हेतुत्वे भोगासिद्धिश् च॥८॥
Link copied१८३। विप्रतिषेधाच् चासमञ्जसम्॥२।२।९॥
Link copiedविप्रतिषिद्धं चेदं साङ्ख्य-दर्शनम्; प्रकृतेः परार्थतया पुरुषो द्रष्टा भोक्ता अधिष्ठाता चेत्य् आहुः; प्रकृतेश् च पुरुषस्य भोगापवर्गार्थतया सप्रयोजनत्वं च, प्रकृत्यैव साधन-भूतया पुरुषो भोगम् अपवर्गं चाश्नुत इति चोक्तेः। स च पुरुषश् चैतन्य-मात्र-वपुर् नित्यो निर्विकारो न द्रष्टा न भोक्ता न कर्तेति च; अत एव पुरुषो न बध्यते, न च मोक्ष-साधनम् अनुतिष्ठति, न च मुच्यत इति च वदन्ति। प्रकृतिर् अचेतन-भूतैव पुरुष-सन्निधानात् पुरुष-धर्मं चैतन्यं स्वस्मिन् स्व-धर्मं कर्तृत्वं पुरुषे चानुसन्धाय बध्यते; मोक्ष-साधनम् अनुतिष्ठति, मुच्यते इति चाहुः। अध्यास-रूपम् अनुसन्धानं हि चेतन-धर्मः; तथा प्रकृतिर् अनुपकारिणः पुरुषस्य भोगापवर्ग-स्वरूपं प्रयोजनं साधयतीत्य् उपकारिणीति चाहुः। अध्यास-रूप-बन्धादयः पुरुषस्य न सन्तीति चेत्, कस् तस्योपकारः। एवम् आद्य् अन्योन्य-विरुद्ध-भाषणाद् असमञ्जसम्॥१॥ इति रचनानुपपत्त्य्-अधिकरणम्॥१॥
Link copied१८४। महद् दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम्॥२।२।१०॥
Link copiedकिं काणादाभ्युपगतः परमाणु-कारण-वादः समीचीन-युक्ति-मूलः, उत नेति संशयः। समीचीन-युक्ति-मूल इति पूर्व-पक्षः, अवयव-संयोगाद् अवयव-व्युत्पत्तेर् दर्शनात्, अवयवाल्पत्व-प्राचुर्याभ्यां सर्षप-महीधर-वैषम्य-दर्शनाच् च अवयवाल्पत्व-काष्ठावश्याभ्युपगमनीयेति परमाणु-सिद्धिः। ते चतुर्-विधाः परमाणवो विपाक-दशापन्न-क्षेत्रज्ञादृष्ट-सचिवाः परमेश्वराधिष्ठिताः द्व्य्-अणुकादि-क्रमेण जगद्-आरम्भका इति।
Link copiedराद्धान्तस् तु--- अवयवाः स्वकीयैः षड्भिः पार्श्वैर् असंयुज्यमानाः स्वस्मान् महान्तम् अवयविनम् उत्पादयन्तीति परमाणुष्व् अपि तथैवोत्पादकत्वम् अभ्युपेतव्यम्। तथा सति परमाणवोऽपि सांशाः स्वकीयैर् अवयवैः, ते च स्वकीयैर् इति न क्वचित् कारणस्य व्यवस्थितिः। सूत्रार्थस् तु--- महद् दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम्; असमञ्जसम् इति वर्तते; वा-शब्दश् चार्थे। ह्रस्व-परिमण्डलाभ्यां--- द्व्य्-अणुक-परमाणुभ्यां महद् दीर्घवत्--- त्र्य्-अणुक-द्व्य्-अणुकोत्पत्तिवद् अन्यच् च तद्-अभ्युपगतं सर्वम् असमञ्जसम्॥१०॥
Link copiedद्व्य्-अणुकादि-क्रमेणारम्भकत्वं कारणानवस्थितेर् असमञ्जसम्। किम् अत्रान्यद् असमञ्जसम् इत्य् अत्राह---
Link copied१८५। उभयथापि न कर्मातस् तद्-अभावः॥२।२।११॥
Link copiedपरमाणूनाम् आद्यं कर्म अदृष्ट-कारितम् इत्य् अभ्युपगम्यते; तद् अदृष्टं किम् अणु-गतम्। उत क्षेत्रज्ञ-गतम्। उभयथाप्य् अदृष्टस्य अकादाचित्कत्वेन सदोत्पादकत्व-प्रसङ्गात् कादाचित्कं कर्म न सम्भवति। अतः कर्मणा परमाणुसंयोगाभावः। विपाकापेक्षत्वेऽपि नाना-विधानन्तादृष्टानाम् एक-दैवैक-रूप-विपाकश् च न सम्भवति। आनुमानिकेश्वरासिद्धेर् ईश्वरेच्छयापि नियमो न सम्भवति॥११॥
Link copied१८६। समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः॥२।२।१२॥
Link copiedसमवायाभ्युपगमाच् चासमञ्जसम्; समवायो हि जाति-गुणादीनां द्रव्य-विशेषापृथक्-सिद्धि-हेतुतयाभ्युपगम्यते; समवायस्यापि तथाभावे हेत्व्-अपेक्षासाम्याद् अनवस्थितेः। समवायस्य तथाभावः स्वाभाविक इति चेत्; जाति-गुणादीनाम् एवैष स्वभाव इति युक्तम्॥
Link copiedइतश् च---
Link copied१८७। नित्यमेव च भावात्॥२।२।१३॥
Link copiedसमवाय-सम्बन्धस्य नित्यत्वाभ्युपगमात्, सम्बन्धि-नित्यत्वम् अन्तरेण तद्-अनुपपत्तेः, अवयवावयविनोर् उभयोर् अपि नित्यम् एव भावात् कार्य-कारण-भाव एव न सिद्ध्यति॥१३॥
Link copied१८८। रूपादिमत्वाच् च विपर्ययो दर्शनात्॥२।२।१४॥
Link copiedपरमाणूनां नित्यत्व-निरवयवत्वादि-विपर्ययश् च स्यात्, रूपादिमत्त्वात् तेषाम्, घटादिषु रूपादिमत्सु तथा दर्शनात्; दर्शनाद् एव हि त्वद्-अभिमतं परिकल्प्यते॥१४॥
Link copied१८९। उभयथा च दोषात्॥२।२।१५॥
Link copiedअनित्यत्वादि-भयात् परमाणूनां रूपादि-शून्यत्वे कार्य-गुणस्य कारण-गुण-पूर्वकत्वासिद्धिः, तत्-सिद्धये रूपादिमत्त्वे चानित्यत्वादि-दोष-प्रसक्तिर् इति, उभयथा च दोषाद् असमञ्जसम् एव॥१५॥
Link copied१९०। अपरिग्रहाच् चात्यन्तम् अनपेक्षा॥२।२।१६॥
Link copiedकापिल-पक्षे हि श्रुति-न्याय-विरुद्धेऽपि सत्कार्यवादादि किञ्चिद् वैदिकैः परिगृह्यते; काणादे तु कस्यचिद् अप्य् अंशस्य वैदिकैः परिग्रहाभावाद् अनुपपन्नत्वाच् च निःश्रेयसार्थिभिर् अत्यन्तम् अनपेक्षा कार्या॥१६॥ इति महद्-दीर्घाधिकरणम्॥२॥
Link copied१९१। समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः॥२।२।१७॥
Link copiedसौगताश् चतुर्विधाः--- प्रत्यक्ष-सिद्ध-स्थूल-द्रव्य-वादिनः केचिद् वैभाषिकाः; अन्ये विज्ञानानुमेय-स्थूल-द्रव्य-वादिनः। ते च सौत्रान्तिकाः। अपरे निरालम्बन-विज्ञान-मात्र-सद्-भावं वदन्ति योगाचाराः। त्रयोऽप्य् एते स्वाभ्युपगत-वस्तुनः क्षणिकत्वं वदन्ति। अन्ये तु सर्व-शून्य-वादिनो माध्यमिकाः। तत्राद्ययोर् बाह्य-सद्-भावम् अभ्युपगच्छतोर् जगद्-उत्पत्ति-प्रकारो लोक-व्यवहारश् च सूपपादः, उत दुरुपपाद इति संशयः। सूपपाद इति पूर्वः पक्षः। तथा हि--- पर्थिवाप्य-तैजस-वायवीया गन्धादि-युक्ताः परमाणवो हि पृथिव्य्-आदि-रूपेण संहता भवन्ति; भूतेभ्यश् च शरीरेन्द्रिय-विषय-लक्षण-सङ्घाताः। तत्र आन्तरो विज्ञान-सन्तानो ग्राहकाभिमानारूढ आत्मत्वेनावतिष्ठते। एषु क्षणिकेष्व् अपि स्थिरत्वादि-गोचर-बुद्ध्य्-आख्या-विद्यया सर्वम् उपपद्यत इति जगद्-उत्पत्तिर् लोक-व्यवहारश् च युज्यते। राद्धान्तस् तु--- क्षण-ध्वंसिनः परमाणवः कदा संहतौ व्याप्रियन्ते। कदा संहन्यन्ते। संहतौ व्यापृतास् तस्मिन्न् एव क्षणे विनष्टाश् चेत्, के पुनः संहन्यन्ते। कश् च विज्ञानात्मा कदा कं विषयं स्पृशति। कश् च कदा कं जानाति। कश् च कदा कम् अर्थम् उपादत्ते। स्प्रष्टा नष्टः, स्पृष्टं च नष्टम्, वेदिता नष्टः, वेद्यं च नष्टम्। कथम् अन्येन स्पृष्टम् अन्यो विजानाति। कथं वान्येन विदितम् अन्य उपादत्ते। सन्तानैकत्वे सिद्धेऽपि सन्तानिभ्यः सन्तानस्य परमार्थतो वस्त्व्-अन्तरत्वानभ्युपगमात्, सन्तानैक्यम् अपारमार्थिकम् अकिञ्चित्करम्। स्थिरत्वाद्य्-अविद्ययापि सङ्घातोत्पत्तिर् न सम्भवति; न हि शुक्तिकादिषु रजताविद्यया रजताद्य्-उत्पत्ति-सम्भवः। विदुषश् च पूर्वस्य नष्टत्वेन उत्तरेणाविदुषापूर्व-विनष्टेन विदुषानुसंहितार्थोपादानं न सम्भवति; संस्काराश्रयत्वेन चैकोऽर्थः स्थिरो नाभ्युपगम्यते। अतो जगद्-उत्पत्तिर् लोक-व्यवहारश् च दुरुपपाद एव। सूत्रार्थस् तु--- समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः--- उभय-हेतुकेऽपि समुदाये समुदायत्वाप्राप्तिः; परमाणु-हेतुकः पृथिव्य्-आदि-समुदायः; पृथिव्य्-आदि-हेतुकः शरीरेन्द्रिय-समुदायः--- इत्य् उभय-हेतुकोऽपि समुदायः क्षणिकत्वाभ्युपगमाद् उक्तेन न्यायेन न सिद्ध्यतीत्य् अर्थः॥१७॥
Link copied१९२। इतरेतर-प्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घात-भावानिमित्तत्वात्॥२।२।१८॥
Link copiedयद्य् अपि क्षणिकाः सर्वे भावाः, तथाप्य् अविद्यादीनाम् इतरेतर-हेतुकत्वाद् उपपन्नं लोक-व्यवहारादिकम्। अस्थिरेषु स्थिरत्व-बुद्धि-रूपया अविद्यया तत्र तत्र राग-द्वेषादयो जायन्ते; इत्य् एवम् आदि परम्परया पुनर् अप्य् अविद्येति चक्रवत् परिवर्तत इति चेन् नैतद् उपपद्यते, सङ्घात-भावानिमित्तत्वाद् अविद्यायाः--- यद्य् अप्य् अविद्याख्या विपरीत-बुद्धिः क्षणिकं स्थिरत्वेन विषयीकरोति, तथापि तन् न वस्तुतः स्थिरं भवतीति वस्तुतः स्थिर-कार्यं न करोति; अतः सङ्घात-भावो न सिध्यतीत्य् अर्थः। अस्थिरे स्थिरत्व-बुद्धि-युक्तस्य विज्ञानात्मनस् तदैव नष्टत्वात् कस्य राग-द्वेषादयो जायन्त इति, राग-द्वेषादि-परम्परा च न सिध्यतीत्य् अभिप्रायः॥१८॥
Link copiedइतश् च---
Link copied१९३। उत्तरोत्पादे च पूर्व-निरोधात्॥२।२।१९॥
Link copiedउत्तर-घट-क्षणोत्पत्ति-वेलायां पूर्वस्य विनष्टत्वाद् अभावस्यैव हेतुत्वेनाविशेषात् सर्वेषां सर्वदोत्पत्तिः प्रसज्येत। पूर्व-क्षण-वर्तिनो हेतुत्वोपगमेऽपि देशादेर् विशेषकस्य स्थिरस्यैकस्यानभ्युपगमाद् अविशेषेणोत्तर-क्षण-वर्तिनः सर्वस्य हेतुः स्यात्॥१९॥
Link copied१९४। असति प्रतिज्ञोपरोधो योग-पद्यम् अन्यथा॥२।२।२०॥
Link copiedअसत उत्पत्तौ प्रतिज्ञा-विरोधश् च भवताम्; अधिपति-सहकार्यादीनां विज्ञानोत्पत्ति-हेतुत्व-प्रतिज्ञानात्। अथैतत्-परिजिहीर्षया पूर्वो घट-क्षणस् तिष्ठतीत्य् उच्येत, तदा युगपद् घट-क्षण-द्वयोपलब्धि-प्रसङ्गः; न चोपलभ्यते। उपरोधो विरोधः॥२०॥
Link copiedसतो निरन्वय-विनाशोऽपि न सम्भवतीत्य् आह---
Link copied१९५। प्रतिसङ्ख्याप्रतिसङ्ख्या निरोधाप्राप्तिर् अविच्छेदात्॥२।२।२१॥
Link copiedप्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः--- स्थूल-सूक्ष्म-विनाशयोर् अप्राप्तिर् इत्य् अर्थः। स्थूल-विनाशो मुद्गराभिघाताद्य्-अनन्तर-भाव्य्-उपलब्धि-योग्यः; सूक्ष्मस् तु, प्रतिक्षण-भाव्य्-उपलब्ध्य्-अनर्हः। तौ निरन्वयौ न भवतः, उत्पत्ति-विनाश-धर्म-भागिनो द्रव्यस्याविच्छेदात्। तद्-अनन्यत्वम् इति सत्कार्यवादस्योपपादितत्वाद् इत्य् अभिप्रायः। घटादौ कपालादि-रूपावस्थया निरन्वय-विनाशादर्शनात् प्रदीपनिर्वाणेऽपि सूक्ष्मावस्थाप्राप्तिर् इत्य् अविरोधः॥२१॥
Link copied१९६। उभयथा च दोषात्॥२।२।२२॥
Link copiedउत्पन्नस्य तुच्छतापत्तौ, तुच्छाद् उत्पत्तौ च, इत्य् उभय-प्रकारे च दोषापत्तेः, ते न सम्भवतः। उत्पन्नस्य तुच्छतापत्तौ हि पश्चात् तुच्छाद् उत्पद्यमानं जगत्-तुच्छात्मकम् एव स्यात्; मृत्-सुवर्णादेर् उत्पद्यमान-मृत्-सुवर्णाद्य्-आत्मक-घट-मुकुटादिवत्। अतस् तुच्छाद् उत्पत्तिस् तुच्छतापत्तिश् च न सम्भवतः॥२२॥
Link copied१९७। आकाशे चाविशेषात्॥२।२।२३॥
Link copiedआकाशे तुच्छ-स्वरूपता न सम्भवति, अबाधित-प्रतीति-सिद्ध-पृथिव्य्-आदिवद् आकाशेऽप्य् अबाधित-प्रतीतेर् अविशेषात्। प्रतीयते ह्य् आकाशः, अत्र श्येनः पतत्य् अत्र गृध्र इति श्येनादेः पतन-देशत्वेन॥२३॥
Link copied१९८। अनुस्मृतेश् च॥२।२।२४॥
Link copiedप्रत्यभिज्ञानां च न घटादेः क्षणिकत्वम्। तद् एवेदम् इति हि प्रत्यभिज्ञायते। (प्रत्यभिज्ञानं हि नाम, अतीत-वर्तमान-काल-वर्त्य्-एक-वस्तु-विषयम् एकं प्रत्यक्ष-ज्ञानम्। तस्य काल-द्वय-सम्बन्ध-विशिष्टम् एव वस्तु विषयः। न च तद् इत्य् अंशः स्मरणम्, इदम् इत्य् अंशश् च ग्रहणम्, अतीत-काल-सम्बन्धिनीन्द्रिय-सम्प्रयोगाभावाद् इति वाच्यम्, तद् इदम् इति सामानाधिकरण्येन ग्रहणस्यैकत्व-स्फुरणात्। पूर्व-कालानुभव-जनित-संस्कार-सहकृतेन्द्रिय-सम्प्रयोग-युक्तस्य पुरुषस्य यथा ग्रहणम् उपपद्यत एव। अन्वय-व्यतिरेकादीनं हि सर्वत्र सामग्रीपरिकल्पनम्)। न च ज्वालादिवत्-सादृश्य-निबन्धना प्रत्यभिज्ञेति त्वया वक्तुं शक्यम्, काल-द्वय-वर्तिनोर् द्वयोः सादृश्यस्यानुसन्धातुर् ज्ञातुर् एकस्यानभ्युपगमात्॥२४॥
Link copiedपृथिव्य्-आदि-विज्ञानानुमेयार्थ-वादिनं प्रत्याह। स हि ज्ञाने नील-पीतादि-विचित्राकारं दृष्त्वा ज्ञानात् पूर्व-क्षण-वर्तिनं ज्ञाने स्वाकारं समर्प्य विनष्टम् अर्थम् अनुमिनोति। तत्रोत्तरम्---
Link copied१९९। नासतोऽदृष्टत्वात्॥२।२।२५॥
Link copiedअसतो धर्मिणो धर्मस्यान्यत्र सङ्क्रमणं न सम्भवति। कुतः। अदृष्टत्वात्। न हि धर्मिणि विनष्टे तद्-धर्मस्यान्यत्र सङ्क्रमणं क्वचिद् दृष्टम्॥२५॥
Link copied२००। उदासीनानाम् अपि चैवं सिद्धिः॥२।२।२६॥
Link copiedवैभाषिक-सौत्रान्तिकयोर् द्वयोर् अपि साधारणम् इदं दूषणम्। एवं सर्व-भावानां क्षणिकत्वाभ्युपगमे सति, उदासीनानां--- निष्प्रयत्नानाम् अप्य् ऐहिकामुष्मिक-सर्वार्थ-सिद्धिः स्यात्, प्रयत्नाद्य् अनुतिष्ठतस् तदानीम् एव विनष्टत्वात्, तत्-तत्-संस्कारादेर् अपि कस्यचित् स्थिरस्यानुवर्तमानस्यानभ्युपगमाच् च, पश्चाद् आगता सिद्धिर् अहैतुकीति निष्प्रयत्नानाम् अप्य् ऐहिकामुष्मिक-सर्वार्थ-सिद्धिः स्यात्॥२६॥ इति समुदायाधिकरणम्॥३॥
Link copied२०१। नाभाव उपलब्धेः॥२।२।२७॥
Link copiedयोगाचाराभिमतो ज्ञान-मात्र-सद्-भाव-वादः किं समीचीन-युक्ति-मूलः, उत नेति संशयः। समीचीन-युक्ति-मूल इति पूर्वः पक्षः। बाह्यार्थ-सद्-भाव-वादिनापि तत्-तद्-अर्थाकार-ज्ञानस्य प्रकाशमानत्वम् अवश्याश्रयणीयम्। सर्वस्य वस्तुनः प्रकाशमानस्य स्वासाधारणेनाकारेण प्रकाश इष्यते। तत्र घट-पटादि-ज्ञानस्य घट-पटाद्य्-आकार एवाकारः। अन्यथा घटाद्य्-असाधारण्यं च तत्-तज्-ज्ञानस्य न सम्भवति। एकश् चायम् आकार उपलभ्यते। स तु ज्ञानस्यैवेति तद्-व्यतिरिक्तार्थ-सद्-भाव-वादोऽनुपपन्नः। तावतैव घटोऽयं ज्ञात इति व्यवहारश् चोपपद्यते। तस्य बहिर्वद् अवभासो निर्मूलत्वाद् विभ्रम-कृतः। राद्धान्तस् तु--- घटम् अहं जानामीति सकर्मकस्य सकर्तृकस्य ज्ञा-धात्व्-अर्थस्य च्छेदनादिवत् सर्व-लोक-साक्षिकम् उपलभ्यमानस्य कर्तृ-कर्म-व्यतिरेकेण केवलस्यैव सद्-भावम् अनुन्मत्तः को ब्रवीति। स्वासाधारणाकारश् च छेदनादिवत् तत्-तद्-अर्थ-व्यवहार-योग्यतापादनाकारेणोपलभ्यते। एवं छेदनादेर् अप्य् आकारो द्विधा-भावनादि-हेतुतयैव कर्तृ-गतस्योपलभ्यते। न ह्य् अमूर्तानां क्रियादीनां कर्तृ-कर्म-निरूपणीय-स्वाकाराणां कर्माकारत्वम् आश्रीयते। सूत्रार्थस् तु--- नाभाव उपलब्धेः, ज्ञान-व्यतिरिक्तार्थाभावो न शक्यते वक्तुम्, उपलब्धेः--- घटम् अहं जानामीति जानातेः कर्मतया कर्तृतया चोपलब्धेः॥२७॥
Link copied२०२। वैधर्म्याच् च न स्वप्नादिवत्॥२।२।२८॥
Link copiedस्वप्न-ज्ञानादिवच् च जागरित-ज्ञानानां न मिथ्यार्थत्वम्, तद्-वैधर्म्यात् निद्रादि-कारण-दोष-बाधक-प्रत्यय-रहितत्वाद् इत्य् अर्थः। च-कारात् तान्य् अपि यथार्थानीत्य् अभिप्रायः॥२८॥
Link copied२०३। न भावोऽनुपलब्धेः॥२।२।२९॥
Link copiedन केवलस्यार्थ-शून्यस्य ज्ञानस्य भावः सम्भवति, क्वचिद् अप्य् अनुपलब्धेः। अबाधित-प्रतीति-सिद्धस्यासद्-भावे सति ज्ञान-मात्रस्याप्य् असद्-भावो न शक्यते वारयितुम् इत्य् अभिप्रायः॥२९॥ इत्य् उपलब्ध्य्-अधिकरणम्॥४॥
Link copied२०४। सर्वथानुपपत्तेश् च॥२।२।३०॥
Link copiedमाध्यमिकोक्त-सर्व-शून्यवादः सम्भवति, नेति संशयः। सम्भवतीति पूर्वः पक्षः। विज्ञानं घटादयश् च सर्वे भावा न सन्ति। कुतः। उत्पत्त्य्-अनिरूपणाद् घटादि-भावानाम्। भावात् तावद् उत्पत्तिर् न सम्भवति; न हि घटादिर् उत्पद्यमानः असम्मृदितेन मृत्-पिण्डादिनोत्पद्यते। नाप्य् अभावात्, पश्चाद् अभावाद् उत्पद्यमानो घटादिर् अभावात्मक एव स्याद् इति सर्व-शून्यत्वम् एव युक्तिमत्। राद्धान्तस् तु--- लोके भावाभाव-शब्दयोस् तद्-बुद्धयोश् च प्रमाणेनोपलभ्यमानस्यैव वस्तुनः अवस्था-विशेष एव भाव-रूपो विषयः। वर्तमानतयोपलभ्यमानावस्था-विशेषो भाव-बुद्धि-विषयः। तद्-विरोध्य्-अवस्था-विशेषः अभाव-बुद्धि-विषयः। अतो न कुतश्चित् त्वद्-अभिप्रेतं तुच्छत्वं सिद्ध्यति। सूत्रार्थस् तु--- सर्वथानुपपत्तेश् च, सर्व-शून्यवादी सर्वं सद् इति प्रतिज्ञाय स्वाभिप्रेतं साधयति, उतासद् इति प्रतिज्ञाय। अथ प्रकारान्तरेण प्रतिज्ञाय। सर्वथापि सर्व-शून्यत्वानुपपत्तेः स्वाभिमतासिद्धिः, सद्-असद्-भावयोर् विद्यमान-वस्तु-धर्मतोपपादनात्॥३०॥ इति सर्वथानुपपत्त्य्-अधिकरणम्॥५॥
Link copied२०५। नैकस्मिन्न् असम्भवात्॥२।२।३१॥
Link copiedजैन-मतं युक्तिमद् उत नेति संशयः, युक्तिमद् इति पूर्वः पक्षः; जीवाजीव-शब्दाभिलपनीय-भोक्तृ-भोग्यात्मकं जगत् सत्त्वासत्त्व-नित्यत्वानित्यत्व-भिन्नत्वाभिन्नत्वैर् अनैकान्तिकम्; षड्-द्रव्य-तत्पर्यायात्मनावस्थितत्वात् कृत्स्नस्य जगतो द्रव्यात्मना सत्त्वैकत्व-नित्यत्वान्य् उपपन्नानि; पर्यायात्मना च विपरीतानि। पर्यायाश् च--- घटत्व-पटत्वाद्य्-अवस्था-विशेषाः। द्रव्य-स्वरूपस्यैकत्वात् स्थिरत्वात् सद्-बुद्धि-बोद्धयत्वात् तेन रूपेणैकत्वादि युक्तम्; पर्याय-शब्दाभिधेयावस्था-विशेषाणाम् अनेकत्वाद् अस्थिरत्वाद् असद्-बुद्धि-बोध्यत्वात् तेन रूपेणासत्त्वानित्यत्व-नानात्वानि युक्तानि। प्रतीति-व्यवस्थाप्यत्वात् सर्वस्य वस्तुन उभयाकार-प्रतीतेर् उभयम् उपपन्नम्। राद्धान्तस् तु--- एकस्यास्तित्व-नास्तित्वादिभिर् अनैकान्तिकत्वम् अयुक्तम्, एकस्मिन् वस्तुन्य् अस्तित्व-नास्तित्वादेर् विरुद्धस्य च्छायातपवद् युगपद् असम्भवात्। तथा हि--- द्रव्यस्य तद्-विशेषण-भूत-पर्यायस्य इत्थं-शब्दाभिधेयावस्था-विशेषस्य च इदम् इत्थम् इति प्रतीतेः प्रकार-प्रकारितया पृथक्-पदार्थत्वान् नैकस्मिन् विरुद्ध-प्रकार-भूत-सत्त्वासत्त्व-रूप-धर्म-समावेशो युगपत् सम्भवति। उत्पत्ति-विनाशाख्य-परिणाम-विशेषास्पदत्वं च द्रव्यस्यानित्यत्वं तद्-विपरीतं च नित्यत्वं तस्मिन् कथं समवैति। विरोधि-धर्माश्रयत्वं च भिन्नत्वं तद्-विपरीतं चाभिन्नत्वं कथं वा तस्मिन् समवैति। यथा--- अश्वत्व-महिषस्वयोर् युगपद् एकस्मिन्न् असम्भवः। (एकस्य पृथिवी-द्रव्यस्य घटत्वं शरावत्वं च प्रदेश-भेदेन; न त्व् एकेन प्रदेशेनोभयाश्रयत्वम्; यथैकस्य देवदत्तस्योत्पत्ति-विनाश-योगित्वं काल-भेदेन। न ह्य् एतावता वस्तुनो द्वयात्मकत्वम्, अपि तु परिणाम-शक्ति-योग-मात्रम्) अतो न युक्तिमज् जैन-मतम्। सूत्रार्थस् तु--- नैकस्मिन्न् असम्भवात्, न जैन-मतं युक्तम्। कुतः। एकस्मिन् वस्तुन्य् उक्त-रीत्या युगपद् विरुद्ध-धर्म-समावेशासम्भवात्। अतः सूत्र-विरुद्धं वेदान्त-वादिभिर् अपि भेदाभेद-समाश्रयणम्॥३१॥
Link copied२०६। एवं चात्माकार्त्स्न्यम्॥२।२।३२॥
Link copiedएवम् आत्माकार्त्स्न्यं चानुपपन्नम्; शरीर-परिमाणत्वे ह्य् आत्मनो बृहतः शरीराद् अल्पीयसि शरीरे प्रविशत अकार्त्स्न्यम्--- अपरिपूर्णत्वं प्रसज्येत। तदानीम् अल्प-परिमाणत्वात्॥३२॥
Link copied२०७। न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः॥२।२।३३॥
Link copiedतथाविधाल्पत्वावस्था-योगेनाप्य् अविरोधो न सम्भवति। घट-पटादेर् इव विकार-तत्-प्रयुक्त-दोषास्पदत्व-प्रसङ्गात्॥३३॥
Link copied२०८। अन्त्यावस्थितेश् चोभय-नित्यत्वाद् अविशेषः॥२।२।३४॥
Link copiedजीवस्य यद् अन्त्यं परिमाणं मोक्षावस्थम्, तस्य पश्चाद् एक-रूपेणावस्थितेस् तद् एव स्वाभाविकं परिमाणम् इति, आत्मनश् च तत्-परिमाणस्य चोभयोर् नित्यत्वात् पूर्वम् अपि न शरीर-परिमाणत्व-सिद्धिर् इति पूर्वावस्थायां न विशेषः; अतः असङ्गतम् एवेदं जैन-मतम्॥३४॥ इत्य् एकस्मिन्न् असम्भवाधिकरणम्॥६॥
Link copied२०९। पत्युर् असामञ्जस्यात्॥२।२।३५॥
Link copiedपशुपति-मतं निःश्रेयसार्थिभिर् आदरणीयम्, उत नेति संशयः। आदरणीयम् इति पूर्वः पक्षः। परम-पुरुषार्थ-साधनावबोधित्वेन निखिल-वस्तु-साक्षात्कार-समर्थ-पशुपति-प्रणीतत्वात्। राद्धान्तस् तु--- अनादि-निधनाविच्छिन्न-पाठ-सम्प्रदाय-निरस्त-प्रमादादि-निखिल-दोष-गन्ध-वेद-सिद्ध-परावर-तत्त्व-व्यत्यय-प्रतिपादनात्, निमित्तोपादानभेदाभिधानात्, सुरा-कुम्भ-स्थापन-तत्-स्थ-देवतार्चन-मुद्रिका-षट्क-विज्ञान-तद्-धारणादि-वेद-विरुद्धाचार-प्रतिपादन-परत्वाच् च, असामञ्जस्याद् अनादरणीयम् इति। सूत्रार्थस् तु--- पत्युर् असामञ्जस्यात्, नैकस्मिन्न् असम्भवाद् इत्य् अतो नेत्य् अनुवर्तते। पत्युः--- पशुपतेर् मतम् अनादरणीयम्। कुतः। वेद-विरुद्ध-तत्त्वाचारावबोधित्वेनासामञ्जस्यात्॥३५॥
Link copied२१०। अधिष्ठानानुपपत्तेश् च॥२।२।३६॥
Link copiedअनुमेयेश्वराभ्युपगमेन हि प्रधानस्याधिष्ठानम् ईश्वरस्योच्यते। सशरीरस्यैव कुलालादेर् अधिष्ठान-दर्शनाद् अशरीरस्येश्वरस्य प्रधानाधिष्ठानानुपपत्तेश् चासामञ्जस्यम्। सशरीरत्वाभ्युपगमेऽपि तच्-छरीरस्य सावयवस्य नित्यत्वेऽनित्यत्वे च दोषः पूर्वोक्त इत्य् अभिप्रायः॥३६॥
Link copied२११। करणवच् चेन् न भोगादिभ्यः॥२।२।३७॥
Link copiedक्षेत्रज्ञस्य स्व-करण-कलेवराद्य्-अधिष्ठानवद् उपपद्यत इति चेन् न, पुण्यापुण्य-रूप-कर्म-निमित्तत्वात् क्षेत्रज्ञाधिष्ठानस्य; ईश्वरस्यापि तद्वत्तया तत्-फल-भोगादि-निखिल-तत्-स्वभाव-प्रसक्तेः॥३७॥
Link copied२१२। अन्तवत्त्वम् असर्वज्ञता वा॥२।२।३८॥
Link copiedवा-शब्दश् चार्थे। पुण्यापुण्यवत्त्वे त्व् अन्तवत्त्वं सृष्टि-संहारास्पदत्वम् असर्वज्ञता च प्रसज्यत इत्य् असमञ्जसम् एवेदम्॥३८॥ इति पशुपत्य्-अधिकरणम्॥७॥
Link copied२१३। उत्पत्त्य्-असम्भवात्॥२।२।३९॥
Link copiedसाङ्ख्यादि-तन्त्रवत् पाञ्चरात्र-तन्त्रम् अप्य् अप्रमाणम्, उत नेति संशयः। अप्रमाणम् इति पूर्वः पक्षः। वासुदेवात् सङ्कर्षणो नाम जीवो जायते, इति श्रुति-विरुद्ध-जीवोत्पत्त्य्-आदि-प्रतिपादनात्, चतुर्षु वेदेषु पुरुषार्थम् अलभमानः, इति वेद-गणानादर-वचनाच् च। राद्धान्तस् तु--- सङ्कर्षण-प्रद्युम्नानिरुद्धानां परब्रह्म-भावानाम्, अजायमानो बहुधा विजायते, इति श्रुति-प्रसिद्ध-स्वेच्छावतार-प्रतिपादनान् न क्वचिच् छ्रुति-विरोधः। जीवाहङ्कार-मनः-शब्दाश् च तत्-तच्-छरीरकाणां सङ्कर्षणादीनाम् एवाभिधायकाः, तत् तेज ऐक्षत, इति तेजः-प्रभृति-शब्दवत्। चतुर्षु वेदेषु पुरुषार्थम् अलभमानः, इति चानुदित-होम-निन्दावत्; यथा--- ऋग्-वेदं भगवोऽध्येमि, इत्य् आरभ्य, इतिहास-पुराणं पञ्चमम्, इत्य् आदिना सर्वेषु विद्या-स्थानेषु चात्मनो वेदनाभाव-वचनं वक्ष्यमाण-प्रशंसार्थम्। तन्त्रेऽस्मिन् वेदान्तोदित-ब्रह्मोपासन-विधानाद् वेदाविरुद्ध-तद्-अर्चनादि-विधानाच् चावगम्यते इति प्रमाणम् एव। सूत्रार्थस् तु--- उत्पत्त्य्-असम्भवात्, न जायते म्रियते वा, इत्य् आदि श्रुतेर् जीवस्योत्पत्त्य्-असम्भवाज् जीवोत्पत्ति-वचनाच् च न प्रमाणम्॥३९॥
Link copied२१४। न च कर्तुः करणम्॥२।२।४०॥
Link copiedसङ्कर्षणात् प्रद्युम्न-संज्ञं मन उत्पद्यते, इति मनसः करणस्य कर्तुर् जीवाद् उत्पत्तिश् च श्रुति-विरुद्धत्वान् न सम्भवति; एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, इति मनसो ब्रह्मण उत्पत्तिश् श्रूयते॥४०॥
Link copied२१५। विज्ञानादि-भावे वा तद्-अप्रतिषेधः॥२।२।४१॥
Link copiedवा-शब्दात् पक्षो विपरिवर्तते। विज्ञानं चादि च विज्ञानादि ब्रह्म। सङ्कर्षणादीनां ब्रह्म-भावे सति, अजायमानो बहुधा विजायते, इति श्रुति-प्रसिद्ध-स्वेच्छावतारस्यैवात्राभिधानात्, तद्-अप्रतिषेधः, प्रामाण्याप्रतिषेधः। सङ्कर्षणादीनां जीवादि-समानाधिकरणतया निर्देशस् तेषाम् अधिष्ठातृतयोपपद्यते॥४१॥
Link copied२१६। विप्रतिषेधाच् च॥२।२।४२॥
Link copiedअस्मिन्न् अपि तन्त्रे जीवोत्पत्ति-विप्रतिषेधाच् चाविरुद्धम् इदं तन्त्रम्; व्याप्ति-रूपेण सम्बन्धस् तस्याश् च पुरुषस्य च। स ह्य् अनादिर् अनन्तश् च परमार्थेन निश्चितः, इति हि पुरुषस्योत्पत्तिः प्रतिषिध्यते॥४२॥ इत्य् उत्पत्त्य्-असम्भवाधिकरणम्॥८॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे द्वितीयस्याध्यायस्य द्वितीयः पादः॥
Link copied౧౭౫। రచనానుపపత్తేశ్ చ నానుమానం ప్రవృత్తేశ్ చ॥౨।౨।౧॥
Link copiedసాఙ్ఖ్య-తన్త్ర-సిద్ధః ప్రధాన-కారణ-వాదః కిం సమీచీన-యుక్తి-మూల, ఉత నేతి సంశయః। సమీచీన-యుక్తి-మూల ఇతి పూర్వః పక్షః। ఘటాదివద్ విచిత్ర-సన్నివేశం జగత్ కార్యం తద్వద్ ఏవ స్వ-సరూప-కారణ-విశేషారబ్ధమ్। సుఖ-దుఃఖ-మోహాద్య్-ఆత్మకతయా సత్త్వాద్య్-ఆత్మకం జగత్ సత్త్వ-రజస్-తమో-మూలకమ్। తత్ర మహద్-ఆది-పృథివ్య్-అన్తానాం ఘటాదివత్ పరిణామిత్వేన కారణాపేక్షిత్వావిశేషాత్ తే జగద్-ఉత్పత్తౌ కారణ-కాష్ఠా న భవన్తి; తేషాం పరిమితత్వేన అపరిమిత-జగద్-ఉత్పాదనాశక్తేః। అన్యూనానతిరిక్తాని సామ్యావస్థాన్య్ అపరిమితాని సత్త్వ-రజస్-తమాంస్య్ అవ్యక్త-ప్రధానాది-శబ్దాభిధేయాని జగత్-కారణమ్। రాద్ధాన్తస్ తు--- రథ-ప్రాసాదాది-హేతు-భూత-దార్వాదివద్ అచేతనం ప్రధానం స్వ-స్వభావాద్య్-అభిజ్ఞ-చేతనానధిష్ఠితం విచిత్ర-జగద్-రచనా-సమర్థమ్ ఇతి న కేవలం ప్రధానం కారణమ్। సూత్రార్థస్ తు--- రచనానుపపత్తేశ్ చ నానుమానమ్--- అనుమీయత ఇత్య్ అనుమానం ప్రధానమ్; తస్యాచేతనస్య ప్రాజ్ఞానధిష్ఠితస్య విచిత్ర-సన్నివేశ-జగద్-రచనానుపపత్తేస్ తన్ న కారణమ్। చ-కారాత్ సత్త్వాదీనాం ద్రవ్య-గుణత్వేన శౌక్ల్యాదేర్ ఇవోపాదాన-కారణత్వాసమ్భవం సముచ్చినోతి। సత్త్వాదయో హి కార్య-గత-లాఘవ-ప్రకాశాది-హేతు-భూతాః కారణ-భూత-పృథివ్య్-ఆది-గతాస్ తత్-స్వభావ-విశేషాః। ప్రవృత్తేశ్ చ--- అనుపపత్తేర్ ఇతి వర్తతే; ప్రాజ్ఞానధిష్ఠితస్య ప్రధానస్య విచిత్ర-జగద్-రచనానుగుణాద్య్-అపరిస్పన్ద-రూప-ప్రవృత్త్య్-అనుపపత్తేశ్ చ న ప్రధానం కారణమ్॥౧॥
Link copied౧౭౬। పయోఽమ్బువచ్ చేత్ తత్రాపి॥౨।౨।౨॥
Link copiedపయసః అమ్బునశ్ చ యథా ప్రాజ్ఞానధిష్ఠితస్యైవ దధి-భావేన నారికేల-చూతాది-విచిత్ర-రస-రూపేణ చ పరిణామో దృశ్యతే; తద్వత్ ప్రధానస్యాపి కేవలస్యైవ జగద్-ఆకారేణ పరిణామ ఉపపద్యత ఇతి చేత్ పరిహరతి తత్రాపీతి। తద్ అపి పక్షీకృతమ్ ఇత్య్ అర్థః। యత్ర రథాదిష్వ్ అచేతనస్య ప్రాజ్ఞాధిష్ఠితత్వం దృష్టమ్, తద్-వ్యతిరిక్తం హి సర్వం పక్షీకృతమ్ ఏవ। యోఽప్సు తిష్ఠన్న్ ఇత్య్ ఆది శ్రుతేస్ తద్ అపి ప్రాజ్ఞాధిష్ఠితమ్॥౨॥
Link copied౧౭౭। వ్యతిరేకానవస్థితేశ్ చానపేక్షత్వాత్॥౨।౨।౩॥
Link copiedసర్గ-వ్యతిరేకేణ ప్రతిసర్గావస్థయానవస్థితి-ప్రసఙ్గాచ్ చ కేవలం ప్రధానం న కారణమ్; అన్యానపేక్షత్వాత్ ప్రధానస్య సర్వదైవ సృష్టిః ప్రసజ్యతే॥౩॥
Link copied౧౭౮। అన్యత్రాభావాచ్ చ న తృణాదివత్॥౨।౨।౪॥
Link copiedధేన్వ్-ఆదినోపయుక్తం హి తృణోదకాది స్వయమ్ ఏవ క్షీరాకారేణ పరిణమతే; తద్వత్ ప్రధానమ్ అపీతి చ వక్తుం న శక్యతే; ధేన్వ్-ఆదినోపయుక్తస్యాపి తృణాదేః క్షీరాకారేణ పరిణామః ప్రాజ్ఞాధిష్ఠితత్వాద్ ఏవ భవతీత్య్ అభ్యుపేతవ్యమ్। కుతః। అన్యత్రాభావాత్--- అనడుహాద్య్-ఉపయుక్తస్య ప్రహీణస్య వా తృణాదేః క్షీరాకారేణ పరిణామాభావాత్॥౪॥
Link copied౧౭౯। పురుషాశ్మవద్ ఇతి చేత్ తథాపి॥౨।౨।౫॥
Link copiedప్రాజ్ఞానధిష్ఠితమ్ అపి ప్రధానం చైతన్య-మాత్ర-వపుర్ నిష్క్రియః పురుషః స్వ-సన్నిధి-మాత్రేణ సర్గాదౌ ప్రవర్తయతి। యథా దృక్-శక్తి-యుక్తో గమన-శక్తి-వికలః పఙ్గుః పురుషః, అన్ధం దృక్-శక్తి-వికలం ప్రవృత్తి-శక్తి-యుక్తం పురుషం స్వ-సన్నిధానాత్ ప్రవర్తయతి; యథా చాయస్కాన్తాశ్మా స్వ-సన్నిధానాదయః ప్రవర్తయతి తద్వద్ ఇతి చేత్; పరిహరతి--- తథాపీతి। తద్వద్ అపి ప్రధానస్య ప్రవృత్తిర్ నోపపద్యతే; తత్ర హిం పఙ్గోః పురుషస్య గమన-శక్తి-వికలస్యాపి మార్గోపదేశాది-వ్యాపారః కాదాచిత్కో దృశ్యతే; అన్ధస్య చాక్షుష-వ్యాపార-విరహేఽపి పఙ్గూపదేశ-గ్రహణాదిశ్ చేతన-ధర్మోఽస్తి। అయస్కాన్త-మణేర్ అప్య్ అయః-ప్రవృత్తౌ కాదాచిత్కమ్ అయః-సన్నిధానం విద్యతే। ఇహ తు సన్నిధి-మాత్రాతిరేకీ తాదృశః కశ్చిద్ విశేష ఉభయత్రాపి న విద్యతే। పురుష-సన్నిధానస్య నిత్యత్వేన నిత్య-సర్గ-ప్రసక్తిః। తథా సతి ప్రతిసర్గాభావోఽపవర్గాభావ-ప్రసఙ్గశ్ చ॥౫॥
Link copiedఇతశ్ చ---
Link copied౧౮౦। అఙ్గిత్వానుపపత్తేశ్ చ॥౨।౨।౬॥
Link copiedగుణానామ్ ఉత్కర్షాపకర్ష-రూపాఙ్గాఙ్గి-భావేన జగత్-ప్రవృత్తిః ప్రతిసర్గావస్థాయాం సామ్యావస్థానామ్ ఏకస్యోత్కర్ష-రూపాఙ్గిత్వానుపపత్తేశ్ చ న సమ్భవతి। తత్రాప్య్ ఉత్కర్షోఽస్తి చేత్, సర్వదా సర్గ-ప్రసఙ్గః॥౬॥
Link copied౧౮౧। అన్యథానుమితౌ చ జ్ఞ-శక్తి-వియోగాత్॥౨।౨।౭॥
Link copiedఉక్త-ప్రకారాద్ వ్యతిరిక్త-ప్రకారేణ ప్రధానానుమితౌ చ ప్రధానస్య జ్ఞాతృత్వ-శక్తి-వియోగాద్ రచనానుపపత్త్య్-ఆదయో దోషాస్ తద్-అవస్థాః॥౭॥
Link copied౧౮౨। అభ్యుపగమేఽప్య్ అర్థాభావాత్॥౨।౨।౮॥
Link copiedప్రధానాభ్యుపగమేఽపి ప్రధానేన ప్రయోజనాభావాన్ న తద్-అనుమేయమ్। పురుషస్య భోగాపవర్గార్థతయా హి ప్రధాన-ప్రవృత్తేః సప్రయోజనత్వమ్। చైతన్య-మాత్ర-వపుషో నిష్క్రియస్య నిత్య-నిర్వికారస్య పురుషస్య ఇతరేతరాధ్యాస-కృత-ప్రకృతి-దర్శన-రూప-భోగః, తద్-వివేక-రూపాపవర్గశ్ చ న సమ్భవతి। నిర్వికారస్యైవ ప్రకృతి-సన్నిధానేన భోగః సమ్భవతి చేత్; ఉభయోర్ నిత్యత్వేన చ సన్నిధానస్య నిత్యత్వాద్ అపవర్గాసిద్ధిః; తథావిధ-సన్నిధేర్ ఏవాపవర్గ-హేతుత్వే భోగాసిద్ధిశ్ చ॥౮॥
Link copied౧౮౩। విప్రతిషేధాచ్ చాసమఞ్జసమ్॥౨।౨।౯॥
Link copiedవిప్రతిషిద్ధం చేదం సాఙ్ఖ్య-దర్శనమ్; ప్రకృతేః పరార్థతయా పురుషో ద్రష్టా భోక్తా అధిష్ఠాతా చేత్య్ ఆహుః; ప్రకృతేశ్ చ పురుషస్య భోగాపవర్గార్థతయా సప్రయోజనత్వం చ, ప్రకృత్యైవ సాధన-భూతయా పురుషో భోగమ్ అపవర్గం చాశ్నుత ఇతి చోక్తేః। స చ పురుషశ్ చైతన్య-మాత్ర-వపుర్ నిత్యో నిర్వికారో న ద్రష్టా న భోక్తా న కర్తేతి చ; అత ఏవ పురుషో న బధ్యతే, న చ మోక్ష-సాధనమ్ అనుతిష్ఠతి, న చ ముచ్యత ఇతి చ వదన్తి। ప్రకృతిర్ అచేతన-భూతైవ పురుష-సన్నిధానాత్ పురుష-ధర్మం చైతన్యం స్వస్మిన్ స్వ-ధర్మం కర్తృత్వం పురుషే చానుసన్ధాయ బధ్యతే; మోక్ష-సాధనమ్ అనుతిష్ఠతి, ముచ్యతే ఇతి చాహుః। అధ్యాస-రూపమ్ అనుసన్ధానం హి చేతన-ధర్మః; తథా ప్రకృతిర్ అనుపకారిణః పురుషస్య భోగాపవర్గ-స్వరూపం ప్రయోజనం సాధయతీత్య్ ఉపకారిణీతి చాహుః। అధ్యాస-రూప-బన్ధాదయః పురుషస్య న సన్తీతి చేత్, కస్ తస్యోపకారః। ఏవమ్ ఆద్య్ అన్యోన్య-విరుద్ధ-భాషణాద్ అసమఞ్జసమ్॥౧॥ ఇతి రచనానుపపత్త్య్-అధికరణమ్॥౧॥
Link copied౧౮౪। మహద్ దీర్ఘవద్ వా హ్రస్వ-పరిమణ్డలాభ్యామ్॥౨।౨।౧౦॥
Link copiedకిం కాణాదాభ్యుపగతః పరమాణు-కారణ-వాదః సమీచీన-యుక్తి-మూలః, ఉత నేతి సంశయః। సమీచీన-యుక్తి-మూల ఇతి పూర్వ-పక్షః, అవయవ-సంయోగాద్ అవయవ-వ్యుత్పత్తేర్ దర్శనాత్, అవయవాల్పత్వ-ప్రాచుర్యాభ్యాం సర్షప-మహీధర-వైషమ్య-దర్శనాచ్ చ అవయవాల్పత్వ-కాష్ఠావశ్యాభ్యుపగమనీయేతి పరమాణు-సిద్ధిః। తే చతుర్-విధాః పరమాణవో విపాక-దశాపన్న-క్షేత్రజ్ఞాదృష్ట-సచివాః పరమేశ్వరాధిష్ఠితాః ద్వ్య్-అణుకాది-క్రమేణ జగద్-ఆరమ్భకా ఇతి।
Link copiedరాద్ధాన్తస్ తు--- అవయవాః స్వకీయైః షడ్భిః పార్శ్వైర్ అసంయుజ్యమానాః స్వస్మాన్ మహాన్తమ్ అవయవినమ్ ఉత్పాదయన్తీతి పరమాణుష్వ్ అపి తథైవోత్పాదకత్వమ్ అభ్యుపేతవ్యమ్। తథా సతి పరమాణవోఽపి సాంశాః స్వకీయైర్ అవయవైః, తే చ స్వకీయైర్ ఇతి న క్వచిత్ కారణస్య వ్యవస్థితిః। సూత్రార్థస్ తు--- మహద్ దీర్ఘవద్ వా హ్రస్వ-పరిమణ్డలాభ్యామ్; అసమఞ్జసమ్ ఇతి వర్తతే; వా-శబ్దశ్ చార్థే। హ్రస్వ-పరిమణ్డలాభ్యాం--- ద్వ్య్-అణుక-పరమాణుభ్యాం మహద్ దీర్ఘవత్--- త్ర్య్-అణుక-ద్వ్య్-అణుకోత్పత్తివద్ అన్యచ్ చ తద్-అభ్యుపగతం సర్వమ్ అసమఞ్జసమ్॥౧౦॥
Link copiedద్వ్య్-అణుకాది-క్రమేణారమ్భకత్వం కారణానవస్థితేర్ అసమఞ్జసమ్। కిమ్ అత్రాన్యద్ అసమఞ్జసమ్ ఇత్య్ అత్రాహ---
Link copied౧౮౫। ఉభయథాపి న కర్మాతస్ తద్-అభావః॥౨।౨।౧౧॥
Link copiedపరమాణూనామ్ ఆద్యం కర్మ అదృష్ట-కారితమ్ ఇత్య్ అభ్యుపగమ్యతే; తద్ అదృష్టం కిమ్ అణు-గతమ్। ఉత క్షేత్రజ్ఞ-గతమ్। ఉభయథాప్య్ అదృష్టస్య అకాదాచిత్కత్వేన సదోత్పాదకత్వ-ప్రసఙ్గాత్ కాదాచిత్కం కర్మ న సమ్భవతి। అతః కర్మణా పరమాణుసంయోగాభావః। విపాకాపేక్షత్వేఽపి నానా-విధానన్తాదృష్టానామ్ ఏక-దైవైక-రూప-విపాకశ్ చ న సమ్భవతి। ఆనుమానికేశ్వరాసిద్ధేర్ ఈశ్వరేచ్ఛయాపి నియమో న సమ్భవతి॥౧౧॥
Link copied౧౮౬। సమవాయాభ్యుపగమాచ్ చ సామ్యాద్ అనవస్థితేః॥౨।౨।౧౨॥
Link copiedసమవాయాభ్యుపగమాచ్ చాసమఞ్జసమ్; సమవాయో హి జాతి-గుణాదీనాం ద్రవ్య-విశేషాపృథక్-సిద్ధి-హేతుతయాభ్యుపగమ్యతే; సమవాయస్యాపి తథాభావే హేత్వ్-అపేక్షాసామ్యాద్ అనవస్థితేః। సమవాయస్య తథాభావః స్వాభావిక ఇతి చేత్; జాతి-గుణాదీనామ్ ఏవైష స్వభావ ఇతి యుక్తమ్॥
Link copiedఇతశ్ చ---
Link copied౧౮౭। నిత్యమేవ చ భావాత్॥౨।౨।౧౩॥
Link copiedసమవాయ-సమ్బన్ధస్య నిత్యత్వాభ్యుపగమాత్, సమ్బన్ధి-నిత్యత్వమ్ అన్తరేణ తద్-అనుపపత్తేః, అవయవావయవినోర్ ఉభయోర్ అపి నిత్యమ్ ఏవ భావాత్ కార్య-కారణ-భావ ఏవ న సిద్ధ్యతి॥౧౩॥
Link copied౧౮౮। రూపాదిమత్వాచ్ చ విపర్యయో దర్శనాత్॥౨।౨।౧౪॥
Link copiedపరమాణూనాం నిత్యత్వ-నిరవయవత్వాది-విపర్యయశ్ చ స్యాత్, రూపాదిమత్త్వాత్ తేషామ్, ఘటాదిషు రూపాదిమత్సు తథా దర్శనాత్; దర్శనాద్ ఏవ హి త్వద్-అభిమతం పరికల్ప్యతే॥౧౪॥
Link copied౧౮౯। ఉభయథా చ దోషాత్॥౨।౨।౧౫॥
Link copiedఅనిత్యత్వాది-భయాత్ పరమాణూనాం రూపాది-శూన్యత్వే కార్య-గుణస్య కారణ-గుణ-పూర్వకత్వాసిద్ధిః, తత్-సిద్ధయే రూపాదిమత్త్వే చానిత్యత్వాది-దోష-ప్రసక్తిర్ ఇతి, ఉభయథా చ దోషాద్ అసమఞ్జసమ్ ఏవ॥౧౫॥
Link copied౧౯౦। అపరిగ్రహాచ్ చాత్యన్తమ్ అనపేక్షా॥౨।౨।౧౬॥
Link copiedకాపిల-పక్షే హి శ్రుతి-న్యాయ-విరుద్ధేఽపి సత్కార్యవాదాది కిఞ్చిద్ వైదికైః పరిగృహ్యతే; కాణాదే తు కస్యచిద్ అప్య్ అంశస్య వైదికైః పరిగ్రహాభావాద్ అనుపపన్నత్వాచ్ చ నిఃశ్రేయసార్థిభిర్ అత్యన్తమ్ అనపేక్షా కార్యా॥౧౬॥ ఇతి మహద్-దీర్ఘాధికరణమ్॥౨॥
Link copied౧౯౧। సముదాయ ఉభయ-హేతుకేఽపి తద్-అప్రాప్తిః॥౨।౨।౧౭॥
Link copiedసౌగతాశ్ చతుర్విధాః--- ప్రత్యక్ష-సిద్ధ-స్థూల-ద్రవ్య-వాదినః కేచిద్ వైభాషికాః; అన్యే విజ్ఞానానుమేయ-స్థూల-ద్రవ్య-వాదినః। తే చ సౌత్రాన్తికాః। అపరే నిరాలమ్బన-విజ్ఞాన-మాత్ర-సద్-భావం వదన్తి యోగాచారాః। త్రయోఽప్య్ ఏతే స్వాభ్యుపగత-వస్తునః క్షణికత్వం వదన్తి। అన్యే తు సర్వ-శూన్య-వాదినో మాధ్యమికాః। తత్రాద్యయోర్ బాహ్య-సద్-భావమ్ అభ్యుపగచ్ఛతోర్ జగద్-ఉత్పత్తి-ప్రకారో లోక-వ్యవహారశ్ చ సూపపాదః, ఉత దురుపపాద ఇతి సంశయః। సూపపాద ఇతి పూర్వః పక్షః। తథా హి--- పర్థివాప్య-తైజస-వాయవీయా గన్ధాది-యుక్తాః పరమాణవో హి పృథివ్య్-ఆది-రూపేణ సంహతా భవన్తి; భూతేభ్యశ్ చ శరీరేన్ద్రియ-విషయ-లక్షణ-సఙ్ఘాతాః। తత్ర ఆన్తరో విజ్ఞాన-సన్తానో గ్రాహకాభిమానారూఢ ఆత్మత్వేనావతిష్ఠతే। ఏషు క్షణికేష్వ్ అపి స్థిరత్వాది-గోచర-బుద్ధ్య్-ఆఖ్యా-విద్యయా సర్వమ్ ఉపపద్యత ఇతి జగద్-ఉత్పత్తిర్ లోక-వ్యవహారశ్ చ యుజ్యతే। రాద్ధాన్తస్ తు--- క్షణ-ధ్వంసినః పరమాణవః కదా సంహతౌ వ్యాప్రియన్తే। కదా సంహన్యన్తే। సంహతౌ వ్యాపృతాస్ తస్మిన్న్ ఏవ క్షణే వినష్టాశ్ చేత్, కే పునః సంహన్యన్తే। కశ్ చ విజ్ఞానాత్మా కదా కం విషయం స్పృశతి। కశ్ చ కదా కం జానాతి। కశ్ చ కదా కమ్ అర్థమ్ ఉపాదత్తే। స్ప్రష్టా నష్టః, స్పృష్టం చ నష్టమ్, వేదితా నష్టః, వేద్యం చ నష్టమ్। కథమ్ అన్యేన స్పృష్టమ్ అన్యో విజానాతి। కథం వాన్యేన విదితమ్ అన్య ఉపాదత్తే। సన్తానైకత్వే సిద్ధేఽపి సన్తానిభ్యః సన్తానస్య పరమార్థతో వస్త్వ్-అన్తరత్వానభ్యుపగమాత్, సన్తానైక్యమ్ అపారమార్థికమ్ అకిఞ్చిత్కరమ్। స్థిరత్వాద్య్-అవిద్యయాపి సఙ్ఘాతోత్పత్తిర్ న సమ్భవతి; న హి శుక్తికాదిషు రజతావిద్యయా రజతాద్య్-ఉత్పత్తి-సమ్భవః। విదుషశ్ చ పూర్వస్య నష్టత్వేన ఉత్తరేణావిదుషాపూర్వ-వినష్టేన విదుషానుసంహితార్థోపాదానం న సమ్భవతి; సంస్కారాశ్రయత్వేన చైకోఽర్థః స్థిరో నాభ్యుపగమ్యతే। అతో జగద్-ఉత్పత్తిర్ లోక-వ్యవహారశ్ చ దురుపపాద ఏవ। సూత్రార్థస్ తు--- సముదాయ ఉభయ-హేతుకేఽపి తద్-అప్రాప్తిః--- ఉభయ-హేతుకేఽపి సముదాయే సముదాయత్వాప్రాప్తిః; పరమాణు-హేతుకః పృథివ్య్-ఆది-సముదాయః; పృథివ్య్-ఆది-హేతుకః శరీరేన్ద్రియ-సముదాయః--- ఇత్య్ ఉభయ-హేతుకోఽపి సముదాయః క్షణికత్వాభ్యుపగమాద్ ఉక్తేన న్యాయేన న సిద్ధ్యతీత్య్ అర్థః॥౧౭॥
Link copied౧౯౨। ఇతరేతర-ప్రత్యయత్వాద్ ఉపపన్నమ్ ఇతి చేన్ న సఙ్ఘాత-భావానిమిత్తత్వాత్॥౨।౨।౧౮॥
Link copiedయద్య్ అపి క్షణికాః సర్వే భావాః, తథాప్య్ అవిద్యాదీనామ్ ఇతరేతర-హేతుకత్వాద్ ఉపపన్నం లోక-వ్యవహారాదికమ్। అస్థిరేషు స్థిరత్వ-బుద్ధి-రూపయా అవిద్యయా తత్ర తత్ర రాగ-ద్వేషాదయో జాయన్తే; ఇత్య్ ఏవమ్ ఆది పరమ్పరయా పునర్ అప్య్ అవిద్యేతి చక్రవత్ పరివర్తత ఇతి చేన్ నైతద్ ఉపపద్యతే, సఙ్ఘాత-భావానిమిత్తత్వాద్ అవిద్యాయాః--- యద్య్ అప్య్ అవిద్యాఖ్యా విపరీత-బుద్ధిః క్షణికం స్థిరత్వేన విషయీకరోతి, తథాపి తన్ న వస్తుతః స్థిరం భవతీతి వస్తుతః స్థిర-కార్యం న కరోతి; అతః సఙ్ఘాత-భావో న సిధ్యతీత్య్ అర్థః। అస్థిరే స్థిరత్వ-బుద్ధి-యుక్తస్య విజ్ఞానాత్మనస్ తదైవ నష్టత్వాత్ కస్య రాగ-ద్వేషాదయో జాయన్త ఇతి, రాగ-ద్వేషాది-పరమ్పరా చ న సిధ్యతీత్య్ అభిప్రాయః॥౧౮॥
Link copiedఇతశ్ చ---
Link copied౧౯౩। ఉత్తరోత్పాదే చ పూర్వ-నిరోధాత్॥౨।౨।౧౯॥
Link copiedఉత్తర-ఘట-క్షణోత్పత్తి-వేలాయాం పూర్వస్య వినష్టత్వాద్ అభావస్యైవ హేతుత్వేనావిశేషాత్ సర్వేషాం సర్వదోత్పత్తిః ప్రసజ్యేత। పూర్వ-క్షణ-వర్తినో హేతుత్వోపగమేఽపి దేశాదేర్ విశేషకస్య స్థిరస్యైకస్యానభ్యుపగమాద్ అవిశేషేణోత్తర-క్షణ-వర్తినః సర్వస్య హేతుః స్యాత్॥౧౯॥
Link copied౧౯౪। అసతి ప్రతిజ్ఞోపరోధో యోగ-పద్యమ్ అన్యథా॥౨।౨।౨౦॥
Link copiedఅసత ఉత్పత్తౌ ప్రతిజ్ఞా-విరోధశ్ చ భవతామ్; అధిపతి-సహకార్యాదీనాం విజ్ఞానోత్పత్తి-హేతుత్వ-ప్రతిజ్ఞానాత్। అథైతత్-పరిజిహీర్షయా పూర్వో ఘట-క్షణస్ తిష్ఠతీత్య్ ఉచ్యేత, తదా యుగపద్ ఘట-క్షణ-ద్వయోపలబ్ధి-ప్రసఙ్గః; న చోపలభ్యతే। ఉపరోధో విరోధః॥౨౦॥
Link copiedసతో నిరన్వయ-వినాశోఽపి న సమ్భవతీత్య్ ఆహ---
Link copied౧౯౫। ప్రతిసఙ్ఖ్యాప్రతిసఙ్ఖ్యా నిరోధాప్రాప్తిర్ అవిచ్ఛేదాత్॥౨।౨।౨౧॥
Link copiedప్రతిసఙ్ఖ్యాప్రతిసఙ్ఖ్యానిరోధాప్రాప్తిః--- స్థూల-సూక్ష్మ-వినాశయోర్ అప్రాప్తిర్ ఇత్య్ అర్థః। స్థూల-వినాశో ముద్గరాభిఘాతాద్య్-అనన్తర-భావ్య్-ఉపలబ్ధి-యోగ్యః; సూక్ష్మస్ తు, ప్రతిక్షణ-భావ్య్-ఉపలబ్ధ్య్-అనర్హః। తౌ నిరన్వయౌ న భవతః, ఉత్పత్తి-వినాశ-ధర్మ-భాగినో ద్రవ్యస్యావిచ్ఛేదాత్। తద్-అనన్యత్వమ్ ఇతి సత్కార్యవాదస్యోపపాదితత్వాద్ ఇత్య్ అభిప్రాయః। ఘటాదౌ కపాలాది-రూపావస్థయా నిరన్వయ-వినాశాదర్శనాత్ ప్రదీపనిర్వాణేఽపి సూక్ష్మావస్థాప్రాప్తిర్ ఇత్య్ అవిరోధః॥౨౧॥
Link copied౧౯౬। ఉభయథా చ దోషాత్॥౨।౨।౨౨॥
Link copiedఉత్పన్నస్య తుచ్ఛతాపత్తౌ, తుచ్ఛాద్ ఉత్పత్తౌ చ, ఇత్య్ ఉభయ-ప్రకారే చ దోషాపత్తేః, తే న సమ్భవతః। ఉత్పన్నస్య తుచ్ఛతాపత్తౌ హి పశ్చాత్ తుచ్ఛాద్ ఉత్పద్యమానం జగత్-తుచ్ఛాత్మకమ్ ఏవ స్యాత్; మృత్-సువర్ణాదేర్ ఉత్పద్యమాన-మృత్-సువర్ణాద్య్-ఆత్మక-ఘట-ముకుటాదివత్। అతస్ తుచ్ఛాద్ ఉత్పత్తిస్ తుచ్ఛతాపత్తిశ్ చ న సమ్భవతః॥౨౨॥
Link copied౧౯౭। ఆకాశే చావిశేషాత్॥౨।౨।౨౩॥
Link copiedఆకాశే తుచ్ఛ-స్వరూపతా న సమ్భవతి, అబాధిత-ప్రతీతి-సిద్ధ-పృథివ్య్-ఆదివద్ ఆకాశేఽప్య్ అబాధిత-ప్రతీతేర్ అవిశేషాత్। ప్రతీయతే హ్య్ ఆకాశః, అత్ర శ్యేనః పతత్య్ అత్ర గృధ్ర ఇతి శ్యేనాదేః పతన-దేశత్వేన॥౨౩॥
Link copied౧౯౮। అనుస్మృతేశ్ చ॥౨।౨।౨౪॥
Link copiedప్రత్యభిజ్ఞానాం చ న ఘటాదేః క్షణికత్వమ్। తద్ ఏవేదమ్ ఇతి హి ప్రత్యభిజ్ఞాయతే। (ప్రత్యభిజ్ఞానం హి నామ, అతీత-వర్తమాన-కాల-వర్త్య్-ఏక-వస్తు-విషయమ్ ఏకం ప్రత్యక్ష-జ్ఞానమ్। తస్య కాల-ద్వయ-సమ్బన్ధ-విశిష్టమ్ ఏవ వస్తు విషయః। న చ తద్ ఇత్య్ అంశః స్మరణమ్, ఇదమ్ ఇత్య్ అంశశ్ చ గ్రహణమ్, అతీత-కాల-సమ్బన్ధినీన్ద్రియ-సమ్ప్రయోగాభావాద్ ఇతి వాచ్యమ్, తద్ ఇదమ్ ఇతి సామానాధికరణ్యేన గ్రహణస్యైకత్వ-స్ఫురణాత్। పూర్వ-కాలానుభవ-జనిత-సంస్కార-సహకృతేన్ద్రియ-సమ్ప్రయోగ-యుక్తస్య పురుషస్య యథా గ్రహణమ్ ఉపపద్యత ఏవ। అన్వయ-వ్యతిరేకాదీనం హి సర్వత్ర సామగ్రీపరికల్పనమ్)। న చ జ్వాలాదివత్-సాదృశ్య-నిబన్ధనా ప్రత్యభిజ్ఞేతి త్వయా వక్తుం శక్యమ్, కాల-ద్వయ-వర్తినోర్ ద్వయోః సాదృశ్యస్యానుసన్ధాతుర్ జ్ఞాతుర్ ఏకస్యానభ్యుపగమాత్॥౨౪॥
Link copiedపృథివ్య్-ఆది-విజ్ఞానానుమేయార్థ-వాదినం ప్రత్యాహ। స హి జ్ఞానే నీల-పీతాది-విచిత్రాకారం దృష్త్వా జ్ఞానాత్ పూర్వ-క్షణ-వర్తినం జ్ఞానే స్వాకారం సమర్ప్య వినష్టమ్ అర్థమ్ అనుమినోతి। తత్రోత్తరమ్---
Link copied౧౯౯। నాసతోఽదృష్టత్వాత్॥౨।౨।౨౫॥
Link copiedఅసతో ధర్మిణో ధర్మస్యాన్యత్ర సఙ్క్రమణం న సమ్భవతి। కుతః। అదృష్టత్వాత్। న హి ధర్మిణి వినష్టే తద్-ధర్మస్యాన్యత్ర సఙ్క్రమణం క్వచిద్ దృష్టమ్॥౨౫॥
Link copied౨౦౦। ఉదాసీనానామ్ అపి చైవం సిద్ధిః॥౨।౨।౨౬॥
Link copiedవైభాషిక-సౌత్రాన్తికయోర్ ద్వయోర్ అపి సాధారణమ్ ఇదం దూషణమ్। ఏవం సర్వ-భావానాం క్షణికత్వాభ్యుపగమే సతి, ఉదాసీనానాం--- నిష్ప్రయత్నానామ్ అప్య్ ఐహికాముష్మిక-సర్వార్థ-సిద్ధిః స్యాత్, ప్రయత్నాద్య్ అనుతిష్ఠతస్ తదానీమ్ ఏవ వినష్టత్వాత్, తత్-తత్-సంస్కారాదేర్ అపి కస్యచిత్ స్థిరస్యానువర్తమానస్యానభ్యుపగమాచ్ చ, పశ్చాద్ ఆగతా సిద్ధిర్ అహైతుకీతి నిష్ప్రయత్నానామ్ అప్య్ ఐహికాముష్మిక-సర్వార్థ-సిద్ధిః స్యాత్॥౨౬॥ ఇతి సముదాయాధికరణమ్॥౩॥
Link copied౨౦౧। నాభావ ఉపలబ్ధేః॥౨।౨।౨౭॥
Link copiedయోగాచారాభిమతో జ్ఞాన-మాత్ర-సద్-భావ-వాదః కిం సమీచీన-యుక్తి-మూలః, ఉత నేతి సంశయః। సమీచీన-యుక్తి-మూల ఇతి పూర్వః పక్షః। బాహ్యార్థ-సద్-భావ-వాదినాపి తత్-తద్-అర్థాకార-జ్ఞానస్య ప్రకాశమానత్వమ్ అవశ్యాశ్రయణీయమ్। సర్వస్య వస్తునః ప్రకాశమానస్య స్వాసాధారణేనాకారేణ ప్రకాశ ఇష్యతే। తత్ర ఘట-పటాది-జ్ఞానస్య ఘట-పటాద్య్-ఆకార ఏవాకారః। అన్యథా ఘటాద్య్-అసాధారణ్యం చ తత్-తజ్-జ్ఞానస్య న సమ్భవతి। ఏకశ్ చాయమ్ ఆకార ఉపలభ్యతే। స తు జ్ఞానస్యైవేతి తద్-వ్యతిరిక్తార్థ-సద్-భావ-వాదోఽనుపపన్నః। తావతైవ ఘటోఽయం జ్ఞాత ఇతి వ్యవహారశ్ చోపపద్యతే। తస్య బహిర్వద్ అవభాసో నిర్మూలత్వాద్ విభ్రమ-కృతః। రాద్ధాన్తస్ తు--- ఘటమ్ అహం జానామీతి సకర్మకస్య సకర్తృకస్య జ్ఞా-ధాత్వ్-అర్థస్య చ్ఛేదనాదివత్ సర్వ-లోక-సాక్షికమ్ ఉపలభ్యమానస్య కర్తృ-కర్మ-వ్యతిరేకేణ కేవలస్యైవ సద్-భావమ్ అనున్మత్తః కో బ్రవీతి। స్వాసాధారణాకారశ్ చ ఛేదనాదివత్ తత్-తద్-అర్థ-వ్యవహార-యోగ్యతాపాదనాకారేణోపలభ్యతే। ఏవం ఛేదనాదేర్ అప్య్ ఆకారో ద్విధా-భావనాది-హేతుతయైవ కర్తృ-గతస్యోపలభ్యతే। న హ్య్ అమూర్తానాం క్రియాదీనాం కర్తృ-కర్మ-నిరూపణీయ-స్వాకారాణాం కర్మాకారత్వమ్ ఆశ్రీయతే। సూత్రార్థస్ తు--- నాభావ ఉపలబ్ధేః, జ్ఞాన-వ్యతిరిక్తార్థాభావో న శక్యతే వక్తుమ్, ఉపలబ్ధేః--- ఘటమ్ అహం జానామీతి జానాతేః కర్మతయా కర్తృతయా చోపలబ్ధేః॥౨౭॥
Link copied౨౦౨। వైధర్మ్యాచ్ చ న స్వప్నాదివత్॥౨।౨।౨౮॥
Link copiedస్వప్న-జ్ఞానాదివచ్ చ జాగరిత-జ్ఞానానాం న మిథ్యార్థత్వమ్, తద్-వైధర్మ్యాత్ నిద్రాది-కారణ-దోష-బాధక-ప్రత్యయ-రహితత్వాద్ ఇత్య్ అర్థః। చ-కారాత్ తాన్య్ అపి యథార్థానీత్య్ అభిప్రాయః॥౨౮॥
Link copied౨౦౩। న భావోఽనుపలబ్ధేః॥౨।౨।౨౯॥
Link copiedన కేవలస్యార్థ-శూన్యస్య జ్ఞానస్య భావః సమ్భవతి, క్వచిద్ అప్య్ అనుపలబ్ధేః। అబాధిత-ప్రతీతి-సిద్ధస్యాసద్-భావే సతి జ్ఞాన-మాత్రస్యాప్య్ అసద్-భావో న శక్యతే వారయితుమ్ ఇత్య్ అభిప్రాయః॥౨౯॥ ఇత్య్ ఉపలబ్ధ్య్-అధికరణమ్॥౪॥
Link copied౨౦౪। సర్వథానుపపత్తేశ్ చ॥౨।౨।౩౦॥
Link copiedమాధ్యమికోక్త-సర్వ-శూన్యవాదః సమ్భవతి, నేతి సంశయః। సమ్భవతీతి పూర్వః పక్షః। విజ్ఞానం ఘటాదయశ్ చ సర్వే భావా న సన్తి। కుతః। ఉత్పత్త్య్-అనిరూపణాద్ ఘటాది-భావానామ్। భావాత్ తావద్ ఉత్పత్తిర్ న సమ్భవతి; న హి ఘటాదిర్ ఉత్పద్యమానః అసమ్మృదితేన మృత్-పిణ్డాదినోత్పద్యతే। నాప్య్ అభావాత్, పశ్చాద్ అభావాద్ ఉత్పద్యమానో ఘటాదిర్ అభావాత్మక ఏవ స్యాద్ ఇతి సర్వ-శూన్యత్వమ్ ఏవ యుక్తిమత్। రాద్ధాన్తస్ తు--- లోకే భావాభావ-శబ్దయోస్ తద్-బుద్ధయోశ్ చ ప్రమాణేనోపలభ్యమానస్యైవ వస్తునః అవస్థా-విశేష ఏవ భావ-రూపో విషయః। వర్తమానతయోపలభ్యమానావస్థా-విశేషో భావ-బుద్ధి-విషయః। తద్-విరోధ్య్-అవస్థా-విశేషః అభావ-బుద్ధి-విషయః। అతో న కుతశ్చిత్ త్వద్-అభిప్రేతం తుచ్ఛత్వం సిద్ధ్యతి। సూత్రార్థస్ తు--- సర్వథానుపపత్తేశ్ చ, సర్వ-శూన్యవాదీ సర్వం సద్ ఇతి ప్రతిజ్ఞాయ స్వాభిప్రేతం సాధయతి, ఉతాసద్ ఇతి ప్రతిజ్ఞాయ। అథ ప్రకారాన్తరేణ ప్రతిజ్ఞాయ। సర్వథాపి సర్వ-శూన్యత్వానుపపత్తేః స్వాభిమతాసిద్ధిః, సద్-అసద్-భావయోర్ విద్యమాన-వస్తు-ధర్మతోపపాదనాత్॥౩౦॥ ఇతి సర్వథానుపపత్త్య్-అధికరణమ్॥౫॥
Link copied౨౦౫। నైకస్మిన్న్ అసమ్భవాత్॥౨।౨।౩౧॥
Link copiedజైన-మతం యుక్తిమద్ ఉత నేతి సంశయః, యుక్తిమద్ ఇతి పూర్వః పక్షః; జీవాజీవ-శబ్దాభిలపనీయ-భోక్తృ-భోగ్యాత్మకం జగత్ సత్త్వాసత్త్వ-నిత్యత్వానిత్యత్వ-భిన్నత్వాభిన్నత్వైర్ అనైకాన్తికమ్; షడ్-ద్రవ్య-తత్పర్యాయాత్మనావస్థితత్వాత్ కృత్స్నస్య జగతో ద్రవ్యాత్మనా సత్త్వైకత్వ-నిత్యత్వాన్య్ ఉపపన్నాని; పర్యాయాత్మనా చ విపరీతాని। పర్యాయాశ్ చ--- ఘటత్వ-పటత్వాద్య్-అవస్థా-విశేషాః। ద్రవ్య-స్వరూపస్యైకత్వాత్ స్థిరత్వాత్ సద్-బుద్ధి-బోద్ధయత్వాత్ తేన రూపేణైకత్వాది యుక్తమ్; పర్యాయ-శబ్దాభిధేయావస్థా-విశేషాణామ్ అనేకత్వాద్ అస్థిరత్వాద్ అసద్-బుద్ధి-బోధ్యత్వాత్ తేన రూపేణాసత్త్వానిత్యత్వ-నానాత్వాని యుక్తాని। ప్రతీతి-వ్యవస్థాప్యత్వాత్ సర్వస్య వస్తున ఉభయాకార-ప్రతీతేర్ ఉభయమ్ ఉపపన్నమ్। రాద్ధాన్తస్ తు--- ఏకస్యాస్తిత్వ-నాస్తిత్వాదిభిర్ అనైకాన్తికత్వమ్ అయుక్తమ్, ఏకస్మిన్ వస్తున్య్ అస్తిత్వ-నాస్తిత్వాదేర్ విరుద్ధస్య చ్ఛాయాతపవద్ యుగపద్ అసమ్భవాత్। తథా హి--- ద్రవ్యస్య తద్-విశేషణ-భూత-పర్యాయస్య ఇత్థం-శబ్దాభిధేయావస్థా-విశేషస్య చ ఇదమ్ ఇత్థమ్ ఇతి ప్రతీతేః ప్రకార-ప్రకారితయా పృథక్-పదార్థత్వాన్ నైకస్మిన్ విరుద్ధ-ప్రకార-భూత-సత్త్వాసత్త్వ-రూప-ధర్మ-సమావేశో యుగపత్ సమ్భవతి। ఉత్పత్తి-వినాశాఖ్య-పరిణామ-విశేషాస్పదత్వం చ ద్రవ్యస్యానిత్యత్వం తద్-విపరీతం చ నిత్యత్వం తస్మిన్ కథం సమవైతి। విరోధి-ధర్మాశ్రయత్వం చ భిన్నత్వం తద్-విపరీతం చాభిన్నత్వం కథం వా తస్మిన్ సమవైతి। యథా--- అశ్వత్వ-మహిషస్వయోర్ యుగపద్ ఏకస్మిన్న్ అసమ్భవః। (ఏకస్య పృథివీ-ద్రవ్యస్య ఘటత్వం శరావత్వం చ ప్రదేశ-భేదేన; న త్వ్ ఏకేన ప్రదేశేనోభయాశ్రయత్వమ్; యథైకస్య దేవదత్తస్యోత్పత్తి-వినాశ-యోగిత్వం కాల-భేదేన। న హ్య్ ఏతావతా వస్తునో ద్వయాత్మకత్వమ్, అపి తు పరిణామ-శక్తి-యోగ-మాత్రమ్) అతో న యుక్తిమజ్ జైన-మతమ్। సూత్రార్థస్ తు--- నైకస్మిన్న్ అసమ్భవాత్, న జైన-మతం యుక్తమ్। కుతః। ఏకస్మిన్ వస్తున్య్ ఉక్త-రీత్యా యుగపద్ విరుద్ధ-ధర్మ-సమావేశాసమ్భవాత్। అతః సూత్ర-విరుద్ధం వేదాన్త-వాదిభిర్ అపి భేదాభేద-సమాశ్రయణమ్॥౩౧॥
Link copied౨౦౬। ఏవం చాత్మాకార్త్స్న్యమ్॥౨।౨।౩౨॥
Link copiedఏవమ్ ఆత్మాకార్త్స్న్యం చానుపపన్నమ్; శరీర-పరిమాణత్వే హ్య్ ఆత్మనో బృహతః శరీరాద్ అల్పీయసి శరీరే ప్రవిశత అకార్త్స్న్యమ్--- అపరిపూర్ణత్వం ప్రసజ్యేత। తదానీమ్ అల్ప-పరిమాణత్వాత్॥౩౨॥
Link copied౨౦౭। న చ పర్యాయాద్ అప్య్ అవిరోధో వికారాదిభ్యః॥౨।౨।౩౩॥
Link copiedతథావిధాల్పత్వావస్థా-యోగేనాప్య్ అవిరోధో న సమ్భవతి। ఘట-పటాదేర్ ఇవ వికార-తత్-ప్రయుక్త-దోషాస్పదత్వ-ప్రసఙ్గాత్॥౩౩॥
Link copied౨౦౮। అన్త్యావస్థితేశ్ చోభయ-నిత్యత్వాద్ అవిశేషః॥౨।౨।౩౪॥
Link copiedజీవస్య యద్ అన్త్యం పరిమాణం మోక్షావస్థమ్, తస్య పశ్చాద్ ఏక-రూపేణావస్థితేస్ తద్ ఏవ స్వాభావికం పరిమాణమ్ ఇతి, ఆత్మనశ్ చ తత్-పరిమాణస్య చోభయోర్ నిత్యత్వాత్ పూర్వమ్ అపి న శరీర-పరిమాణత్వ-సిద్ధిర్ ఇతి పూర్వావస్థాయాం న విశేషః; అతః అసఙ్గతమ్ ఏవేదం జైన-మతమ్॥౩౪॥ ఇత్య్ ఏకస్మిన్న్ అసమ్భవాధికరణమ్॥౬॥
Link copied౨౦౯। పత్యుర్ అసామఞ్జస్యాత్॥౨।౨।౩౫॥
Link copiedపశుపతి-మతం నిఃశ్రేయసార్థిభిర్ ఆదరణీయమ్, ఉత నేతి సంశయః। ఆదరణీయమ్ ఇతి పూర్వః పక్షః। పరమ-పురుషార్థ-సాధనావబోధిత్వేన నిఖిల-వస్తు-సాక్షాత్కార-సమర్థ-పశుపతి-ప్రణీతత్వాత్। రాద్ధాన్తస్ తు--- అనాది-నిధనావిచ్ఛిన్న-పాఠ-సమ్ప్రదాయ-నిరస్త-ప్రమాదాది-నిఖిల-దోష-గన్ధ-వేద-సిద్ధ-పరావర-తత్త్వ-వ్యత్యయ-ప్రతిపాదనాత్, నిమిత్తోపాదానభేదాభిధానాత్, సురా-కుమ్భ-స్థాపన-తత్-స్థ-దేవతార్చన-ముద్రికా-షట్క-విజ్ఞాన-తద్-ధారణాది-వేద-విరుద్ధాచార-ప్రతిపాదన-పరత్వాచ్ చ, అసామఞ్జస్యాద్ అనాదరణీయమ్ ఇతి। సూత్రార్థస్ తు--- పత్యుర్ అసామఞ్జస్యాత్, నైకస్మిన్న్ అసమ్భవాద్ ఇత్య్ అతో నేత్య్ అనువర్తతే। పత్యుః--- పశుపతేర్ మతమ్ అనాదరణీయమ్। కుతః। వేద-విరుద్ధ-తత్త్వాచారావబోధిత్వేనాసామఞ్జస్యాత్॥౩౫॥
Link copied౨౧౦। అధిష్ఠానానుపపత్తేశ్ చ॥౨।౨।౩౬॥
Link copiedఅనుమేయేశ్వరాభ్యుపగమేన హి ప్రధానస్యాధిష్ఠానమ్ ఈశ్వరస్యోచ్యతే। సశరీరస్యైవ కులాలాదేర్ అధిష్ఠాన-దర్శనాద్ అశరీరస్యేశ్వరస్య ప్రధానాధిష్ఠానానుపపత్తేశ్ చాసామఞ్జస్యమ్। సశరీరత్వాభ్యుపగమేఽపి తచ్-ఛరీరస్య సావయవస్య నిత్యత్వేఽనిత్యత్వే చ దోషః పూర్వోక్త ఇత్య్ అభిప్రాయః॥౩౬॥
Link copied౨౧౧। కరణవచ్ చేన్ న భోగాదిభ్యః॥౨।౨।౩౭॥
Link copiedక్షేత్రజ్ఞస్య స్వ-కరణ-కలేవరాద్య్-అధిష్ఠానవద్ ఉపపద్యత ఇతి చేన్ న, పుణ్యాపుణ్య-రూప-కర్మ-నిమిత్తత్వాత్ క్షేత్రజ్ఞాధిష్ఠానస్య; ఈశ్వరస్యాపి తద్వత్తయా తత్-ఫల-భోగాది-నిఖిల-తత్-స్వభావ-ప్రసక్తేః॥౩౭॥
Link copied౨౧౨। అన్తవత్త్వమ్ అసర్వజ్ఞతా వా॥౨।౨।౩౮॥
Link copiedవా-శబ్దశ్ చార్థే। పుణ్యాపుణ్యవత్త్వే త్వ్ అన్తవత్త్వం సృష్టి-సంహారాస్పదత్వమ్ అసర్వజ్ఞతా చ ప్రసజ్యత ఇత్య్ అసమఞ్జసమ్ ఏవేదమ్॥౩౮॥ ఇతి పశుపత్య్-అధికరణమ్॥౭॥
Link copied౨౧౩। ఉత్పత్త్య్-అసమ్భవాత్॥౨।౨।౩౯॥
Link copiedసాఙ్ఖ్యాది-తన్త్రవత్ పాఞ్చరాత్ర-తన్త్రమ్ అప్య్ అప్రమాణమ్, ఉత నేతి సంశయః। అప్రమాణమ్ ఇతి పూర్వః పక్షః। వాసుదేవాత్ సఙ్కర్షణో నామ జీవో జాయతే, ఇతి శ్రుతి-విరుద్ధ-జీవోత్పత్త్య్-ఆది-ప్రతిపాదనాత్, చతుర్షు వేదేషు పురుషార్థమ్ అలభమానః, ఇతి వేద-గణానాదర-వచనాచ్ చ। రాద్ధాన్తస్ తు--- సఙ్కర్షణ-ప్రద్యుమ్నానిరుద్ధానాం పరబ్రహ్మ-భావానామ్, అజాయమానో బహుధా విజాయతే, ఇతి శ్రుతి-ప్రసిద్ధ-స్వేచ్ఛావతార-ప్రతిపాదనాన్ న క్వచిచ్ ఛ్రుతి-విరోధః। జీవాహఙ్కార-మనః-శబ్దాశ్ చ తత్-తచ్-ఛరీరకాణాం సఙ్కర్షణాదీనామ్ ఏవాభిధాయకాః, తత్ తేజ ఐక్షత, ఇతి తేజః-ప్రభృతి-శబ్దవత్। చతుర్షు వేదేషు పురుషార్థమ్ అలభమానః, ఇతి చానుదిత-హోమ-నిన్దావత్; యథా--- ఋగ్-వేదం భగవోఽధ్యేమి, ఇత్య్ ఆరభ్య, ఇతిహాస-పురాణం పఞ్చమమ్, ఇత్య్ ఆదినా సర్వేషు విద్యా-స్థానేషు చాత్మనో వేదనాభావ-వచనం వక్ష్యమాణ-ప్రశంసార్థమ్। తన్త్రేఽస్మిన్ వేదాన్తోదిత-బ్రహ్మోపాసన-విధానాద్ వేదావిరుద్ధ-తద్-అర్చనాది-విధానాచ్ చావగమ్యతే ఇతి ప్రమాణమ్ ఏవ। సూత్రార్థస్ తు--- ఉత్పత్త్య్-అసమ్భవాత్, న జాయతే మ్రియతే వా, ఇత్య్ ఆది శ్రుతేర్ జీవస్యోత్పత్త్య్-అసమ్భవాజ్ జీవోత్పత్తి-వచనాచ్ చ న ప్రమాణమ్॥౩౯॥
Link copied౨౧౪। న చ కర్తుః కరణమ్॥౨।౨।౪౦॥
Link copiedసఙ్కర్షణాత్ ప్రద్యుమ్న-సంజ్ఞం మన ఉత్పద్యతే, ఇతి మనసః కరణస్య కర్తుర్ జీవాద్ ఉత్పత్తిశ్ చ శ్రుతి-విరుద్ధత్వాన్ న సమ్భవతి; ఏతస్మాజ్ జాయతే ప్రాణో మనః సర్వేన్ద్రియాణి చ, ఇతి మనసో బ్రహ్మణ ఉత్పత్తిశ్ శ్రూయతే॥౪౦॥
Link copied౨౧౫। విజ్ఞానాది-భావే వా తద్-అప్రతిషేధః॥౨।౨।౪౧॥
Link copiedవా-శబ్దాత్ పక్షో విపరివర్తతే। విజ్ఞానం చాది చ విజ్ఞానాది బ్రహ్మ। సఙ్కర్షణాదీనాం బ్రహ్మ-భావే సతి, అజాయమానో బహుధా విజాయతే, ఇతి శ్రుతి-ప్రసిద్ధ-స్వేచ్ఛావతారస్యైవాత్రాభిధానాత్, తద్-అప్రతిషేధః, ప్రామాణ్యాప్రతిషేధః। సఙ్కర్షణాదీనాం జీవాది-సమానాధికరణతయా నిర్దేశస్ తేషామ్ అధిష్ఠాతృతయోపపద్యతే॥౪౧॥
Link copied౨౧౬। విప్రతిషేధాచ్ చ॥౨।౨।౪౨॥
Link copiedఅస్మిన్న్ అపి తన్త్రే జీవోత్పత్తి-విప్రతిషేధాచ్ చావిరుద్ధమ్ ఇదం తన్త్రమ్; వ్యాప్తి-రూపేణ సమ్బన్ధస్ తస్యాశ్ చ పురుషస్య చ। స హ్య్ అనాదిర్ అనన్తశ్ చ పరమార్థేన నిశ్చితః, ఇతి హి పురుషస్యోత్పత్తిః ప్రతిషిధ్యతే॥౪౨॥ ఇత్య్ ఉత్పత్త్య్-అసమ్భవాధికరణమ్॥౮॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే ద్వితీయస్యాధ్యాయస్య ద్వితీయః పాదః॥
Link copied175. rachana:nupapaththe:s cha na:numa:nam pravruththe:s cha||2|2|1||
Link copiedsa:nkhya thanthra siddhah pradha:na ka:rana va:dah kim sami:chi:na yukthi mu:la, utha ne:thi samsayah| sami:chi:na yukthi mu:la ithi pu:rvah pakshah| ghata:divad vichithra sannive:sam jagath ka:ryam thadvad e:va sva saru:pa ka:rana vise:sha:rabdham| sukha duhkha mo:ha:dy a:thmakathaya: saththva:dy a:thmakam jagath saththva rajas thamo: mu:lakam| thathra mahad a:di pruthivy antha:na:m ghata:divath parina:mithve:na ka:rana:pe:kshithva:vise:sha:th the: jagad uthpaththau ka:rana ka:shtha: na bhavanthi; the:sha:m parimithathve:na aparimitha jagad uthpa:dana:sakthe:h| anyu:na:nathiriktha:ni sa:mya:vastha:ny aparimitha:ni saththva rajas thama:msy avyaktha pradha:na:di sabda:bhidhe:ya:ni jagath ka:ranam| ra:ddha:nthas thu--- ratha pra:sa:da:di he:thu bhu:tha da:rva:divad ache:thanam pradha:nam sva svabha:va:dy abhijna che:thana:nadhishthitham vichithra jagad rachana: samartham ithi na ke:valam pradha:nam ka:ranam| su:thra:rthas thu--- rachana:nupapaththe:s cha na:numa:nam--- anumi:yatha ithy anuma:nam pradha:nam; thasya:che:thanasya pra:jna:nadhishthithasya vichithra sannive:sa jagad rachana:nupapaththe:s than na ka:ranam| cha ka:ra:th saththva:di:na:m dravya gunathve:na sauklya:de:r ivo:pa:da:na ka:ranathva:sambhavam samuchchino:thi| saththva:dayo: hi ka:rya gatha la:ghava praka:sa:di he:thu bhu:tha:h ka:rana bhu:tha pruthivy a:di gatha:s thath svabha:va vise:sha:h| pravruththe:s cha--- anupapaththe:r ithi varthathe:; pra:jna:nadhishthithasya pradha:nasya vichithra jagad rachana:nuguna:dy aparispanda ru:pa pravruththy anupapaththe:s cha na pradha:nam ka:ranam||1||
Link copied176. payo:'mbuvach che:th thathra:pi||2|2|2||
Link copiedpayasah ambunas cha yatha: pra:jna:nadhishthithasyaiva dadhi bha:ve:na na:rike:la chu:tha:di vichithra rasa ru:pe:na cha parina:mo: drusyathe:; thadvath pradha:nasya:pi ke:valasyaiva jagad a:ka:re:na parina:ma upapadyatha ithi che:th pariharathi thathra:pi:thi| thad api pakshi:krutham ithy arthah| yathra ratha:dishv ache:thanasya pra:jna:dhishthithathvam drushtam, thad vyathiriktham hi sarvam pakshi:krutham e:va| yo:'psu thishthann ithy a:di sruthe:s thad api pra:jna:dhishthitham||2||
Link copied177. vyathire:ka:navasthithe:s cha:nape:kshathva:th||2|2|3||
Link copiedsarga vyathire:ke:na prathisarga:vasthaya:navasthithi prasanga:ch cha ke:valam pradha:nam na ka:ranam; anya:nape:kshathva:th pradha:nasya sarvadaiva srushtih prasajyathe:||3||
Link copied178. anyathra:bha:va:ch cha na thruna:divath||2|2|4||
Link copieddhe:nv a:dino:payuktham hi thruno:daka:di svayam e:va kshi:ra:ka:re:na parinamathe:; thadvath pradha:nam api:thi cha vakthum na sakyathe:; dhe:nv a:dino:payukthasya:pi thruna:de:h kshi:ra:ka:re:na parina:mah pra:jna:dhishthithathva:d e:va bhavathi:thy abhyupe:thavyam| kuthah| anyathra:bha:va:th--- anaduha:dy upayukthasya prahi:nasya va: thruna:de:h kshi:ra:ka:re:na parina:ma:bha:va:th||4||
Link copied179. purusha:smavad ithi che:th thatha:pi||2|2|5||
Link copiedpra:jna:nadhishthitham api pradha:nam chaithanya ma:thra vapur nishkriyah purushah sva sannidhi ma:thre:na sarga:dau pravarthayathi| yatha: druk sakthi yuktho: gamana sakthi vikalah panguh purushah, andham druk sakthi vikalam pravruththi sakthi yuktham purusham sva sannidha:na:th pravarthayathi; yatha: cha:yaska:ntha:sma: sva sannidha:na:dayah pravarthayathi thadvad ithi che:th; pariharathi--- thatha:pi:thi| thadvad api pradha:nasya pravruththir no:papadyathe:; thathra him pango:h purushasya gamana sakthi vikalasya:pi ma:rgo:pade:sa:di vya:pa:rah ka:da:chithko: drusyathe:; andhasya cha:kshusha vya:pa:ra virahe:'pi pangu:pade:sa grahana:dis che:thana dharmo:'sthi| ayaska:ntha mane:r apy ayah pravruththau ka:da:chithkam ayah sannidha:nam vidyathe:| iha thu sannidhi ma:thra:thire:ki: tha:drusah kaschid vise:sha ubhayathra:pi na vidyathe:| purusha sannidha:nasya nithyathve:na nithya sarga prasakthih| thatha: sathi prathisarga:bha:vo:'pavarga:bha:va prasangas cha||5||
Link copiedithas cha---
Link copied180. angithva:nupapaththe:s cha||2|2|6||
Link copiedguna:na:m uthkarsha:pakarsha ru:pa:nga:ngi bha:ve:na jagath pravruththih prathisarga:vastha:ya:m sa:mya:vastha:na:m e:kasyo:thkarsha ru:pa:ngithva:nupapaththe:s cha na sambhavathi| thathra:py uthkarsho:'sthi che:th, sarvada: sarga prasangah||6||
Link copied181. anyatha:numithau cha jna sakthi viyo:ga:th||2|2|7||
Link copieduktha praka:ra:d vyathiriktha praka:re:na pradha:na:numithau cha pradha:nasya jna:thruthva sakthi viyo:ga:d rachana:nupapaththy a:dayo: do:sha:s thad avastha:h||7||
Link copied182. abhyupagame:'py artha:bha:va:th||2|2|8||
Link copiedpradha:na:bhyupagame:'pi pradha:ne:na prayo:jana:bha:va:n na thad anume:yam| purushasya bho:ga:pavarga:rthathaya: hi pradha:na pravruththe:h saprayo:janathvam| chaithanya ma:thra vapusho: nishkriyasya nithya nirvika:rasya purushasya ithare:thara:dhya:sa krutha prakruthi darsana ru:pa bho:gah, thad vive:ka ru:pa:pavargas cha na sambhavathi| nirvika:rasyaiva prakruthi sannidha:ne:na bho:gah sambhavathi che:th; ubhayo:r nithyathve:na cha sannidha:nasya nithyathva:d apavarga:siddhih; thatha:vidha sannidhe:r e:va:pavarga he:thuthve: bho:ga:siddhis cha||8||
Link copied183. viprathishe:dha:ch cha:samanjasam||2|2|9||
Link copiedviprathishiddham che:dam sa:nkhya darsanam; prakruthe:h para:rthathaya: purusho: drashta: bho:ktha: adhishtha:tha: che:thy a:huh; prakruthe:s cha purushasya bho:ga:pavarga:rthathaya: saprayo:janathvam cha, prakruthyaiva sa:dhana bhu:thaya: purusho: bho:gam apavargam cha:snutha ithi cho:kthe:h| sa cha purushas chaithanya ma:thra vapur nithyo: nirvika:ro: na drashta: na bho:ktha: na karthe:thi cha; atha e:va purusho: na badhyathe:, na cha mo:ksha sa:dhanam anuthishthathi, na cha muchyatha ithi cha vadanthi| prakruthir ache:thana bhu:thaiva purusha sannidha:na:th purusha dharmam chaithanyam svasmin sva dharmam karthruthvam purushe: cha:nusandha:ya badhyathe:; mo:ksha sa:dhanam anuthishthathi, muchyathe: ithi cha:huh| adhya:sa ru:pam anusandha:nam hi che:thana dharmah; thatha: prakruthir anupaka:rinah purushasya bho:ga:pavarga svaru:pam prayo:janam sa:dhayathi:thy upaka:rini:thi cha:huh| adhya:sa ru:pa bandha:dayah purushasya na santhi:thi che:th, kas thasyo:paka:rah| e:vam a:dy anyo:nya viruddha bha:shana:d asamanjasam||1|| ithi rachana:nupapaththy adhikaranam||1||
Link copied184. mahad di:rghavad va: hrasva parimandala:bhya:m||2|2|10||
Link copiedkim ka:na:da:bhyupagathah parama:nu ka:rana va:dah sami:chi:na yukthi mu:lah, utha ne:thi samsayah| sami:chi:na yukthi mu:la ithi pu:rva pakshah, avayava samyo:ga:d avayava vyuthpaththe:r darsana:th, avayava:lpathva pra:churya:bhya:m sarshapa mahi:dhara vaishamya darsana:ch cha avayava:lpathva ka:shtha:vasya:bhyupagamani:ye:thi parama:nu siddhih| the: chathur vidha:h parama:navo: vipa:ka dasa:panna kshe:thrajna:drushta sachiva:h parame:svara:dhishthitha:h dvy anuka:di krame:na jagad a:rambhaka: ithi|
Link copiedra:ddha:nthas thu--- avayava:h svaki:yaih shadbhih pa:rsvair asamyujyama:na:h svasma:n maha:ntham avayavinam uthpa:dayanthi:thi parama:nushv api thathaivo:thpa:dakathvam abhyupe:thavyam| thatha: sathi parama:navo:'pi sa:msa:h svaki:yair avayavaih, the: cha svaki:yair ithi na kvachith ka:ranasya vyavasthithih| su:thra:rthas thu--- mahad di:rghavad va: hrasva parimandala:bhya:m; asamanjasam ithi varthathe:; va: sabdas cha:rthe:| hrasva parimandala:bhya:m--- dvy anuka parama:nubhya:m mahad di:rghavath--- thry anuka dvy anuko:thpaththivad anyach cha thad abhyupagatham sarvam asamanjasam||10||
Link copieddvy anuka:di krame:na:rambhakathvam ka:rana:navasthithe:r asamanjasam| kim athra:nyad asamanjasam ithy athra:ha---
Link copied185. ubhayatha:pi na karma:thas thad abha:vah||2|2|11||
Link copiedparama:nu:na:m a:dyam karma adrushta ka:ritham ithy abhyupagamyathe:; thad adrushtam kim anu gatham| utha kshe:thrajna gatham| ubhayatha:py adrushtasya aka:da:chithkathve:na sado:thpa:dakathva prasanga:th ka:da:chithkam karma na sambhavathi| athah karmana: parama:nusamyo:ga:bha:vah| vipa:ka:pe:kshathve:'pi na:na: vidha:nantha:drushta:na:m e:ka daivaika ru:pa vipa:kas cha na sambhavathi| a:numa:nike:svara:siddhe:r i:svare:chchhaya:pi niyamo: na sambhavathi||11||
Link copied186. samava:ya:bhyupagama:ch cha sa:mya:d anavasthithe:h||2|2|12||
Link copiedsamava:ya:bhyupagama:ch cha:samanjasam; samava:yo: hi ja:thi guna:di:na:m dravya vise:sha:pruthak siddhi he:thuthaya:bhyupagamyathe:; samava:yasya:pi thatha:bha:ve: he:thv ape:ksha:sa:mya:d anavasthithe:h| samava:yasya thatha:bha:vah sva:bha:vika ithi che:th; ja:thi guna:di:na:m e:vaisha svabha:va ithi yuktham||
Link copiedithas cha---
Link copied187. nithyame:va cha bha:va:th||2|2|13||
Link copiedsamava:ya sambandhasya nithyathva:bhyupagama:th, sambandhi nithyathvam anthare:na thad anupapaththe:h, avayava:vayavino:r ubhayo:r api nithyam e:va bha:va:th ka:rya ka:rana bha:va e:va na siddhyathi||13||
Link copied188. ru:pa:dimathva:ch cha viparyayo: darsana:th||2|2|14||
Link copiedparama:nu:na:m nithyathva niravayavathva:di viparyayas cha sya:th, ru:pa:dimaththva:th the:sha:m, ghata:dishu ru:pa:dimathsu thatha: darsana:th; darsana:d e:va hi thvad abhimatham parikalpyathe:||14||
Link copied189. ubhayatha: cha do:sha:th||2|2|15||
Link copiedanithyathva:di bhaya:th parama:nu:na:m ru:pa:di su:nyathve: ka:rya gunasya ka:rana guna pu:rvakathva:siddhih, thath siddhaye: ru:pa:dimaththve: cha:nithyathva:di do:sha prasakthir ithi, ubhayatha: cha do:sha:d asamanjasam e:va||15||
Link copied190. aparigraha:ch cha:thyantham anape:ksha:||2|2|16||
Link copiedka:pila pakshe: hi sruthi nya:ya viruddhe:'pi sathka:ryava:da:di kinchid vaidikaih parigruhyathe:; ka:na:de: thu kasyachid apy amsasya vaidikaih parigraha:bha:va:d anupapannathva:ch cha nihsre:yasa:rthibhir athyantham anape:ksha: ka:rya:||16|| ithi mahad di:rgha:dhikaranam||2||
Link copied191. samuda:ya ubhaya he:thuke:'pi thad apra:pthih||2|2|17||
Link copiedsaugatha:s chathurvidha:h--- prathyaksha siddha sthu:la dravya va:dinah ke:chid vaibha:shika:h; anye: vijna:na:nume:ya sthu:la dravya va:dinah| the: cha sauthra:nthika:h| apare: nira:lambana vijna:na ma:thra sad bha:vam vadanthi yo:ga:cha:ra:h| thrayo:'py e:the: sva:bhyupagatha vasthunah kshanikathvam vadanthi| anye: thu sarva su:nya va:dino: ma:dhyamika:h| thathra:dyayo:r ba:hya sad bha:vam abhyupagachchhatho:r jagad uthpaththi praka:ro: lo:ka vyavaha:ras cha su:papa:dah, utha durupapa:da ithi samsayah| su:papa:da ithi pu:rvah pakshah| thatha: hi--- parthiva:pya thaijasa va:yavi:ya: gandha:di yuktha:h parama:navo: hi pruthivy a:di ru:pe:na samhatha: bhavanthi; bhu:the:bhyas cha sari:re:ndriya vishaya lakshana sangha:tha:h| thathra a:ntharo: vijna:na santha:no: gra:haka:bhima:na:ru:dha a:thmathve:na:vathishthathe:| e:shu kshanike:shv api sthirathva:di go:chara buddhy a:khya: vidyaya: sarvam upapadyatha ithi jagad uthpaththir lo:ka vyavaha:ras cha yujyathe:| ra:ddha:nthas thu--- kshana dhvamsinah parama:navah kada: samhathau vya:priyanthe:| kada: samhanyanthe:| samhathau vya:prutha:s thasminn e:va kshane: vinashta:s che:th, ke: punah samhanyanthe:| kas cha vijna:na:thma: kada: kam vishayam sprusathi| kas cha kada: kam ja:na:thi| kas cha kada: kam artham upa:daththe:| sprashta: nashtah, sprushtam cha nashtam, ve:ditha: nashtah, ve:dyam cha nashtam| katham anye:na sprushtam anyo: vija:na:thi| katham va:nye:na viditham anya upa:daththe:| santha:naikathve: siddhe:'pi santha:nibhyah santha:nasya parama:rthatho: vasthv antharathva:nabhyupagama:th, santha:naikyam apa:rama:rthikam akinchithkaram| sthirathva:dy avidyaya:pi sangha:tho:thpaththir na sambhavathi; na hi sukthika:dishu rajatha:vidyaya: rajatha:dy uthpaththi sambhavah| vidushas cha pu:rvasya nashtathve:na uththare:na:vidusha:pu:rva vinashte:na vidusha:nusamhitha:rtho:pa:da:nam na sambhavathi; samska:ra:srayathve:na chaiko:'rthah sthiro: na:bhyupagamyathe:| atho: jagad uthpaththir lo:ka vyavaha:ras cha durupapa:da e:va| su:thra:rthas thu--- samuda:ya ubhaya he:thuke:'pi thad apra:pthih--- ubhaya he:thuke:'pi samuda:ye: samuda:yathva:pra:pthih; parama:nu he:thukah pruthivy a:di samuda:yah; pruthivy a:di he:thukah sari:re:ndriya samuda:yah--- ithy ubhaya he:thuko:'pi samuda:yah kshanikathva:bhyupagama:d ukthe:na nya:ye:na na siddhyathi:thy arthah||17||
Link copied192. ithare:thara prathyayathva:d upapannam ithi che:n na sangha:tha bha:va:nimiththathva:th||2|2|18||
Link copiedyady api kshanika:h sarve: bha:va:h, thatha:py avidya:di:na:m ithare:thara he:thukathva:d upapannam lo:ka vyavaha:ra:dikam| asthire:shu sthirathva buddhi ru:paya: avidyaya: thathra thathra ra:ga dve:sha:dayo: ja:yanthe:; ithy e:vam a:di paramparaya: punar apy avidye:thi chakravath parivarthatha ithi che:n naithad upapadyathe:, sangha:tha bha:va:nimiththathva:d avidya:ya:h--- yady apy avidya:khya: vipari:tha buddhih kshanikam sthirathve:na vishayi:karo:thi, thatha:pi than na vasthuthah sthiram bhavathi:thi vasthuthah sthira ka:ryam na karo:thi; athah sangha:tha bha:vo: na sidhyathi:thy arthah| asthire: sthirathva buddhi yukthasya vijna:na:thmanas thadaiva nashtathva:th kasya ra:ga dve:sha:dayo: ja:yantha ithi, ra:ga dve:sha:di parampara: cha na sidhyathi:thy abhipra:yah||18||
Link copiedithas cha---
Link copied193. uththaro:thpa:de: cha pu:rva niro:dha:th||2|2|19||
Link copieduththara ghata kshano:thpaththi ve:la:ya:m pu:rvasya vinashtathva:d abha:vasyaiva he:thuthve:na:vise:sha:th sarve:sha:m sarvado:thpaththih prasajye:tha| pu:rva kshana varthino: he:thuthvo:pagame:'pi de:sa:de:r vise:shakasya sthirasyaikasya:nabhyupagama:d avise:she:no:ththara kshana varthinah sarvasya he:thuh sya:th||19||
Link copied194. asathi prathijno:paro:dho: yo:ga padyam anyatha:||2|2|20||
Link copiedasatha uthpaththau prathijna: viro:dhas cha bhavatha:m; adhipathi sahaka:rya:di:na:m vijna:no:thpaththi he:thuthva prathijna:na:th| athaithath parijihi:rshaya: pu:rvo: ghata kshanas thishthathi:thy uchye:tha, thada: yugapad ghata kshana dvayo:palabdhi prasangah; na cho:palabhyathe:| uparo:dho: viro:dhah||20||
Link copiedsatho: niranvaya vina:so:'pi na sambhavathi:thy a:ha---
Link copied195. prathisankhya:prathisankhya: niro:dha:pra:pthir avichchhe:da:th||2|2|21||
Link copiedprathisankhya:prathisankhya:niro:dha:pra:pthih--- sthu:la su:kshma vina:sayo:r apra:pthir ithy arthah| sthu:la vina:so: mudgara:bhigha:tha:dy ananthara bha:vy upalabdhi yo:gyah; su:kshmas thu, prathikshana bha:vy upalabdhy anarhah| thau niranvayau na bhavathah, uthpaththi vina:sa dharma bha:gino: dravyasya:vichchhe:da:th| thad ananyathvam ithi sathka:ryava:dasyo:papa:dithathva:d ithy abhipra:yah| ghata:dau kapa:la:di ru:pa:vasthaya: niranvaya vina:sa:darsana:th pradi:panirva:ne:'pi su:kshma:vastha:pra:pthir ithy aviro:dhah||21||
Link copied196. ubhayatha: cha do:sha:th||2|2|22||
Link copieduthpannasya thuchchhatha:paththau, thuchchha:d uthpaththau cha, ithy ubhaya praka:re: cha do:sha:paththe:h, the: na sambhavathah| uthpannasya thuchchhatha:paththau hi pascha:th thuchchha:d uthpadyama:nam jagath thuchchha:thmakam e:va sya:th; mruth suvarna:de:r uthpadyama:na mruth suvarna:dy a:thmaka ghata mukuta:divath| athas thuchchha:d uthpaththis thuchchhatha:paththis cha na sambhavathah||22||
Link copied197. a:ka:se: cha:vise:sha:th||2|2|23||
Link copieda:ka:se: thuchchha svaru:patha: na sambhavathi, aba:dhitha prathi:thi siddha pruthivy a:divad a:ka:se:'py aba:dhitha prathi:the:r avise:sha:th| prathi:yathe: hy a:ka:sah, athra sye:nah pathathy athra grudhra ithi sye:na:de:h pathana de:sathve:na||23||
Link copied198. anusmruthe:s cha||2|2|24||
Link copiedprathyabhijna:na:m cha na ghata:de:h kshanikathvam| thad e:ve:dam ithi hi prathyabhijna:yathe:| (prathyabhijna:nam hi na:ma, athi:tha varthama:na ka:la varthy e:ka vasthu vishayam e:kam prathyaksha jna:nam| thasya ka:la dvaya sambandha visishtam e:va vasthu vishayah| na cha thad ithy amsah smaranam, idam ithy amsas cha grahanam, athi:tha ka:la sambandhini:ndriya samprayo:ga:bha:va:d ithi va:chyam, thad idam ithi sa:ma:na:dhikaranye:na grahanasyaikathva sphurana:th| pu:rva ka:la:nubhava janitha samska:ra sahakruthe:ndriya samprayo:ga yukthasya purushasya yatha: grahanam upapadyatha e:va| anvaya vyathire:ka:di:nam hi sarvathra sa:magri:parikalpanam)| na cha jva:la:divath sa:drusya nibandhana: prathyabhijne:thi thvaya: vakthum sakyam, ka:la dvaya varthino:r dvayo:h sa:drusyasya:nusandha:thur jna:thur e:kasya:nabhyupagama:th||24||
Link copiedpruthivy a:di vijna:na:nume:ya:rtha va:dinam prathya:ha| sa hi jna:ne: ni:la pi:tha:di vichithra:ka:ram drushthva: jna:na:th pu:rva kshana varthinam jna:ne: sva:ka:ram samarpya vinashtam artham anumino:thi| thathro:ththaram---
Link copied199. na:satho:'drushtathva:th||2|2|25||
Link copiedasatho: dharmino: dharmasya:nyathra sankramanam na sambhavathi| kuthah| adrushtathva:th| na hi dharmini vinashte: thad dharmasya:nyathra sankramanam kvachid drushtam||25||
Link copied200. uda:si:na:na:m api chaivam siddhih||2|2|26||
Link copiedvaibha:shika sauthra:nthikayo:r dvayo:r api sa:dha:ranam idam du:shanam| e:vam sarva bha:va:na:m kshanikathva:bhyupagame: sathi, uda:si:na:na:m--- nishprayathna:na:m apy aihika:mushmika sarva:rtha siddhih sya:th, prayathna:dy anuthishthathas thada:ni:m e:va vinashtathva:th, thath thath samska:ra:de:r api kasyachith sthirasya:nuvarthama:nasya:nabhyupagama:ch cha, pascha:d a:gatha: siddhir ahaithuki:thi nishprayathna:na:m apy aihika:mushmika sarva:rtha siddhih sya:th||26|| ithi samuda:ya:dhikaranam||3||
Link copied201. na:bha:va upalabdhe:h||2|2|27||
Link copiedyo:ga:cha:ra:bhimatho: jna:na ma:thra sad bha:va va:dah kim sami:chi:na yukthi mu:lah, utha ne:thi samsayah| sami:chi:na yukthi mu:la ithi pu:rvah pakshah| ba:hya:rtha sad bha:va va:dina:pi thath thad artha:ka:ra jna:nasya praka:sama:nathvam avasya:srayani:yam| sarvasya vasthunah praka:sama:nasya sva:sa:dha:rane:na:ka:re:na praka:sa ishyathe:| thathra ghata pata:di jna:nasya ghata pata:dy a:ka:ra e:va:ka:rah| anyatha: ghata:dy asa:dha:ranyam cha thath thaj jna:nasya na sambhavathi| e:kas cha:yam a:ka:ra upalabhyathe:| sa thu jna:nasyaive:thi thad vyathiriktha:rtha sad bha:va va:do:'nupapannah| tha:vathaiva ghato:'yam jna:tha ithi vyavaha:ras cho:papadyathe:| thasya bahirvad avabha:so: nirmu:lathva:d vibhrama kruthah| ra:ddha:nthas thu--- ghatam aham ja:na:mi:thi sakarmakasya sakarthrukasya jna: dha:thv arthasya chchhe:dana:divath sarva lo:ka sa:kshikam upalabhyama:nasya karthru karma vyathire:ke:na ke:valasyaiva sad bha:vam anunmaththah ko: bravi:thi| sva:sa:dha:rana:ka:ras cha chhe:dana:divath thath thad artha vyavaha:ra yo:gyatha:pa:dana:ka:re:no:palabhyathe:| e:vam chhe:dana:de:r apy a:ka:ro: dvidha: bha:vana:di he:thuthayaiva karthru gathasyo:palabhyathe:| na hy amu:rtha:na:m kriya:di:na:m karthru karma niru:pani:ya sva:ka:ra:na:m karma:ka:rathvam a:sri:yathe:| su:thra:rthas thu--- na:bha:va upalabdhe:h, jna:na vyathiriktha:rtha:bha:vo: na sakyathe: vakthum, upalabdhe:h--- ghatam aham ja:na:mi:thi ja:na:the:h karmathaya: karthruthaya: cho:palabdhe:h||27||
Link copied202. vaidharmya:ch cha na svapna:divath||2|2|28||
Link copiedsvapna jna:na:divach cha ja:garitha jna:na:na:m na mithya:rthathvam, thad vaidharmya:th nidra:di ka:rana do:sha ba:dhaka prathyaya rahithathva:d ithy arthah| cha ka:ra:th tha:ny api yatha:rtha:ni:thy abhipra:yah||28||
Link copied203. na bha:vo:'nupalabdhe:h||2|2|29||
Link copiedna ke:valasya:rtha su:nyasya jna:nasya bha:vah sambhavathi, kvachid apy anupalabdhe:h| aba:dhitha prathi:thi siddhasya:sad bha:ve: sathi jna:na ma:thrasya:py asad bha:vo: na sakyathe: va:rayithum ithy abhipra:yah||29|| ithy upalabdhy adhikaranam||4||
Link copied204. sarvatha:nupapaththe:s cha||2|2|30||
Link copiedma:dhyamiko:ktha sarva su:nyava:dah sambhavathi, ne:thi samsayah| sambhavathi:thi pu:rvah pakshah| vijna:nam ghata:dayas cha sarve: bha:va: na santhi| kuthah| uthpaththy aniru:pana:d ghata:di bha:va:na:m| bha:va:th tha:vad uthpaththir na sambhavathi; na hi ghata:dir uthpadyama:nah asammrudithe:na mruth pinda:dino:thpadyathe:| na:py abha:va:th, pascha:d abha:va:d uthpadyama:no: ghata:dir abha:va:thmaka e:va sya:d ithi sarva su:nyathvam e:va yukthimath| ra:ddha:nthas thu--- lo:ke: bha:va:bha:va sabdayo:s thad buddhayo:s cha prama:ne:no:palabhyama:nasyaiva vasthunah avastha: vise:sha e:va bha:va ru:po: vishayah| varthama:nathayo:palabhyama:na:vastha: vise:sho: bha:va buddhi vishayah| thad viro:dhy avastha: vise:shah abha:va buddhi vishayah| atho: na kuthaschith thvad abhipre:tham thuchchhathvam siddhyathi| su:thra:rthas thu--- sarvatha:nupapaththe:s cha, sarva su:nyava:di: sarvam sad ithi prathijna:ya sva:bhipre:tham sa:dhayathi, utha:sad ithi prathijna:ya| atha praka:ra:nthare:na prathijna:ya| sarvatha:pi sarva su:nyathva:nupapaththe:h sva:bhimatha:siddhih, sad asad bha:vayo:r vidyama:na vasthu dharmatho:papa:dana:th||30|| ithi sarvatha:nupapaththy adhikaranam||5||
Link copied205. naikasminn asambhava:th||2|2|31||
Link copiedjaina matham yukthimad utha ne:thi samsayah, yukthimad ithi pu:rvah pakshah; ji:va:ji:va sabda:bhilapani:ya bho:kthru bho:gya:thmakam jagath saththva:saththva nithyathva:nithyathva bhinnathva:bhinnathvair anaika:nthikam; shad dravya thathparya:ya:thmana:vasthithathva:th kruthsnasya jagatho: dravya:thmana: saththvaikathva nithyathva:ny upapanna:ni; parya:ya:thmana: cha vipari:tha:ni| parya:ya:s cha--- ghatathva patathva:dy avastha: vise:sha:h| dravya svaru:pasyaikathva:th sthirathva:th sad buddhi bo:ddhayathva:th the:na ru:pe:naikathva:di yuktham; parya:ya sabda:bhidhe:ya:vastha: vise:sha:na:m ane:kathva:d asthirathva:d asad buddhi bo:dhyathva:th the:na ru:pe:na:saththva:nithyathva na:na:thva:ni yuktha:ni| prathi:thi vyavastha:pyathva:th sarvasya vasthuna ubhaya:ka:ra prathi:the:r ubhayam upapannam| ra:ddha:nthas thu--- e:kasya:sthithva na:sthithva:dibhir anaika:nthikathvam ayuktham, e:kasmin vasthuny asthithva na:sthithva:de:r viruddhasya chchha:ya:thapavad yugapad asambhava:th| thatha: hi--- dravyasya thad vise:shana bhu:tha parya:yasya iththam sabda:bhidhe:ya:vastha: vise:shasya cha idam iththam ithi prathi:the:h praka:ra praka:rithaya: pruthak pada:rthathva:n naikasmin viruddha praka:ra bhu:tha saththva:saththva ru:pa dharma sama:ve:so: yugapath sambhavathi| uthpaththi vina:sa:khya parina:ma vise:sha:spadathvam cha dravyasya:nithyathvam thad vipari:tham cha nithyathvam thasmin katham samavaithi| viro:dhi dharma:srayathvam cha bhinnathvam thad vipari:tham cha:bhinnathvam katham va: thasmin samavaithi| yatha:--- asvathva mahishasvayo:r yugapad e:kasminn asambhavah| (e:kasya pruthivi: dravyasya ghatathvam sara:vathvam cha prade:sa bhe:de:na; na thv e:ke:na prade:se:no:bhaya:srayathvam; yathaikasya de:vadaththasyo:thpaththi vina:sa yo:githvam ka:la bhe:de:na| na hy e:tha:vatha: vasthuno: dvaya:thmakathvam, api thu parina:ma sakthi yo:ga ma:thram) atho: na yukthimaj jaina matham| su:thra:rthas thu--- naikasminn asambhava:th, na jaina matham yuktham| kuthah| e:kasmin vasthuny uktha ri:thya: yugapad viruddha dharma sama:ve:sa:sambhava:th| athah su:thra viruddham ve:da:ntha va:dibhir api bhe:da:bhe:da sama:srayanam||31||
Link copied206. e:vam cha:thma:ka:rthsnyam||2|2|32||
Link copiede:vam a:thma:ka:rthsnyam cha:nupapannam; sari:ra parima:nathve: hy a:thmano: bruhathah sari:ra:d alpi:yasi sari:re: pravisatha aka:rthsnyam--- aparipu:rnathvam prasajye:tha| thada:ni:m alpa parima:nathva:th||32||
Link copied207. na cha parya:ya:d apy aviro:dho: vika:ra:dibhyah||2|2|33||
Link copiedthatha:vidha:lpathva:vastha: yo:ge:na:py aviro:dho: na sambhavathi| ghata pata:de:r iva vika:ra thath prayuktha do:sha:spadathva prasanga:th||33||
Link copied208. anthya:vasthithe:s cho:bhaya nithyathva:d avise:shah||2|2|34||
Link copiedji:vasya yad anthyam parima:nam mo:ksha:vastham, thasya pascha:d e:ka ru:pe:na:vasthithe:s thad e:va sva:bha:vikam parima:nam ithi, a:thmanas cha thath parima:nasya cho:bhayo:r nithyathva:th pu:rvam api na sari:ra parima:nathva siddhir ithi pu:rva:vastha:ya:m na vise:shah; athah asangatham e:ve:dam jaina matham||34|| ithy e:kasminn asambhava:dhikaranam||6||
Link copied209. pathyur asa:manjasya:th||2|2|35||
Link copiedpasupathi matham nihsre:yasa:rthibhir a:darani:yam, utha ne:thi samsayah| a:darani:yam ithi pu:rvah pakshah| parama purusha:rtha sa:dhana:vabo:dhithve:na nikhila vasthu sa:ksha:thka:ra samartha pasupathi prani:thathva:th| ra:ddha:nthas thu--- ana:di nidhana:vichchhinna pa:tha samprada:ya nirastha prama:da:di nikhila do:sha gandha ve:da siddha para:vara thaththva vyathyaya prathipa:dana:th, nimiththo:pa:da:nabhe:da:bhidha:na:th, sura: kumbha stha:pana thath stha de:vatha:rchana mudrika: shatka vijna:na thad dha:rana:di ve:da viruddha:cha:ra prathipa:dana parathva:ch cha, asa:manjasya:d ana:darani:yam ithi| su:thra:rthas thu--- pathyur asa:manjasya:th, naikasminn asambhava:d ithy atho: ne:thy anuvarthathe:| pathyuh--- pasupathe:r matham ana:darani:yam| kuthah| ve:da viruddha thaththva:cha:ra:vabo:dhithve:na:sa:manjasya:th||35||
Link copied210. adhishtha:na:nupapaththe:s cha||2|2|36||
Link copiedanume:ye:svara:bhyupagame:na hi pradha:nasya:dhishtha:nam i:svarasyo:chyathe:| sasari:rasyaiva kula:la:de:r adhishtha:na darsana:d asari:rasye:svarasya pradha:na:dhishtha:na:nupapaththe:s cha:sa:manjasyam| sasari:rathva:bhyupagame:'pi thach chhari:rasya sa:vayavasya nithyathve:'nithyathve: cha do:shah pu:rvo:ktha ithy abhipra:yah||36||
Link copied211. karanavach che:n na bho:ga:dibhyah||2|2|37||
Link copiedkshe:thrajnasya sva karana kale:vara:dy adhishtha:navad upapadyatha ithi che:n na, punya:punya ru:pa karma nimiththathva:th kshe:thrajna:dhishtha:nasya; i:svarasya:pi thadvaththaya: thath phala bho:ga:di nikhila thath svabha:va prasakthe:h||37||
Link copied212. anthavaththvam asarvajnatha: va:||2|2|38||
Link copiedva: sabdas cha:rthe:| punya:punyavaththve: thv anthavaththvam srushti samha:ra:spadathvam asarvajnatha: cha prasajyatha ithy asamanjasam e:ve:dam||38|| ithi pasupathy adhikaranam||7||
Link copied213. uthpaththy asambhava:th||2|2|39||
Link copiedsa:nkhya:di thanthravath pa:nchara:thra thanthram apy aprama:nam, utha ne:thi samsayah| aprama:nam ithi pu:rvah pakshah| va:sude:va:th sankarshano: na:ma ji:vo: ja:yathe:, ithi sruthi viruddha ji:vo:thpaththy a:di prathipa:dana:th, chathurshu ve:de:shu purusha:rtham alabhama:nah, ithi ve:da gana:na:dara vachana:ch cha| ra:ddha:nthas thu--- sankarshana pradyumna:niruddha:na:m parabrahma bha:va:na:m, aja:yama:no: bahudha: vija:yathe:, ithi sruthi prasiddha sve:chchha:vatha:ra prathipa:dana:n na kvachich chhruthi viro:dhah| ji:va:hanka:ra manah sabda:s cha thath thach chhari:raka:na:m sankarshana:di:na:m e:va:bhidha:yaka:h, thath the:ja aikshatha, ithi the:jah prabhruthi sabdavath| chathurshu ve:de:shu purusha:rtham alabhama:nah, ithi cha:nuditha ho:ma ninda:vath; yatha:--- rug ve:dam bhagavo:'dhye:mi, ithy a:rabhya, ithiha:sa pura:nam panchamam, ithy a:dina: sarve:shu vidya: stha:ne:shu cha:thmano: ve:dana:bha:va vachanam vakshyama:na prasamsa:rtham| thanthre:'smin ve:da:ntho:ditha brahmo:pa:sana vidha:na:d ve:da:viruddha thad archana:di vidha:na:ch cha:vagamyathe: ithi prama:nam e:va| su:thra:rthas thu--- uthpaththy asambhava:th, na ja:yathe: mriyathe: va:, ithy a:di sruthe:r ji:vasyo:thpaththy asambhava:j ji:vo:thpaththi vachana:ch cha na prama:nam||39||
Link copied214. na cha karthuh karanam||2|2|40||
Link copiedsankarshana:th pradyumna samjnam mana uthpadyathe:, ithi manasah karanasya karthur ji:va:d uthpaththis cha sruthi viruddhathva:n na sambhavathi; e:thasma:j ja:yathe: pra:no: manah sarve:ndriya:ni cha, ithi manaso: brahmana uthpaththis sru:yathe:||40||
Link copied215. vijna:na:di bha:ve: va: thad aprathishe:dhah||2|2|41||
Link copiedva: sabda:th paksho: viparivarthathe:| vijna:nam cha:di cha vijna:na:di brahma| sankarshana:di:na:m brahma bha:ve: sathi, aja:yama:no: bahudha: vija:yathe:, ithi sruthi prasiddha sve:chchha:vatha:rasyaiva:thra:bhidha:na:th, thad aprathishe:dhah, pra:ma:nya:prathishe:dhah| sankarshana:di:na:m ji:va:di sama:na:dhikaranathaya: nirde:sas the:sha:m adhishtha:thruthayo:papadyathe:||41||
Link copied216. viprathishe:dha:ch cha||2|2|42||
Link copiedasminn api thanthre: ji:vo:thpaththi viprathishe:dha:ch cha:viruddham idam thanthram; vya:pthi ru:pe:na sambandhas thasya:s cha purushasya cha| sa hy ana:dir ananthas cha parama:rthe:na nischithah, ithi hi purushasyo:thpaththih prathishidhyathe:||42|| ithy uthpaththy asambhava:dhikaranam||8||
Link copiedithi sri: ra:ma:nuja:cha:rya virachithe: sri: ve:da:nthadi:pe: dvithi:yasya:dhya:yasya dvithi:yah pa:dah||
Link copied