Vedanta Dipa · Section 9 of 17
||atha dvithi:ya:dhya:ye: chathurthah pa:dah||
Original Sanskrit · click to toggle
२६९। तथा प्राणाः॥२।४।१॥
Link copiedकिं जीववद् इन्द्रियाण्य् अपि नोत्पद्यन्ते, उत वियद्-आदिवद् उत्पद्यन्त इति संशयः। नोत्पद्यन्त इति पूर्वः पक्षः। प्रलय-काले अवस्थान-श्रुतेः; उत्पत्ति-वादाः जीवोत्पत्ति-वादवन् नेयाः। असद् वा इदम् अग्र आसीत्\॥॥ ऋषयो वा व तेऽग्रे सद् आसीत् के ते ऋषय इति प्राणा वा व ऋषयः, इतीन्द्रियाणां तदानीं स्थितिः श्रूयते। राद्धान्तस् तु--- प्राक्सृष्टेर् एकत्वावधारणात्, इन्द्रियाणाम्, एतस्माज् जायते, इत्य् उत्पत्ति-वादात्, उत्पत्ति-निषेध-नित्यत्व-वचनाभावाच् च, वियद्-आदिवद् उत्पद्यन्ते। प्राणा वा व ऋषयः, इति। प्राणाशब्द-निर्दिष्टः परमात्मा। सूत्रार्थस् तु--- तथा प्राणाः--- यथा जीवा नोत्पद्यन्ते तथा प्राणा अपि॥१॥ बहुत्वासम्भवाद् बहु-वचन-श्रुतिर् गौणीत्य् आह---
Link copied२७०। गौण्य्-असम्भवात् तत्-प्राक् श्रुतेश् च॥२।४।२॥
Link copiedप्राणा वा, इति बहु-वचन-श्रुतिर् गौणी, तदानीं बहुत्वासम्भवात्, तस्य परमात्मन एव प्राग् अवस्थान-श्रुतेश् च॥२॥
Link copied[अत्र पाठान्तरम्]
Link copiedचस् त्व्-अर्थः; तु-शब्दात् पक्षो व्यावृत्तः। इन्द्रियाण्य् उत्पद्यन्त एव। कुतः। तत्-प्राक् श्रुतेः--- तस्य परमात्मन एव प्राग् अवस्थान-श्रुतेः, सद् एव सोम्येदम् अग्र आसीत्, आत्मा वा इदम् एक एवाग्र आसीत्, एको ह वै नारायण आसीत्, इति। प्राण-शब्दस्य, प्राणम् अभिसंविशन्ति, इति परमात्मन्य् अपि प्रसिद्धेः, प्राणा वा व ऋषयः, इति तस्यैव द्रष्टृत्व-सम्भवात्॥२॥
Link copied२७१। तत्-पूर्वकत्वाद् वाचः॥२।४।३॥
Link copiedइतश् च; वाचः परमात्म-व्यतिरिक्तनाम् अधेयस्य तत्-पूर्वकत्वात्--- वियद्-आदि-सृष्टि-पूर्वकत्वाद् इत्य् अर्थः; तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्यां व्याक्रियत, इत्य् आदि श्रुतेः। अतः परमात्मैव प्राण-शब्द-निर्दिष्टः॥३॥ इति प्राणोत्पत्त्य्-अधिकरणम्॥१॥
Link copied२७२। सप्त गतेर् विशेषितत्वाच् च॥२।४।४॥
Link copiedकिम् इन्द्रियाणि सप्तैव, उतैकादशेति संशयः। सप्तैवेति पूर्वः पक्षः। सप्त प्राणाः प्रभवन्ति, इत्य् आदिषु सप्तानाम् एव जीवेन सह सञ्चार-श्रवणात्, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश् च, इति सप्तानाम् एव योग-काले ज्ञानानीति विशेषितत्वाच् च; श्रोत्रादीनि ज्ञानेन्द्रियाणि मनो बुद्धिश् चेति सप्तैव। राद्धान्तस् तु--- श्रोत्रादीनि ज्ञानेन्द्रियाणि वाग्-आदीनि च कर्मेन्द्रियाणि मन इत्य् एकादश। कथम्। वाग्-घस्तादीनाम् अपि श्रोत्रादिवत् कार्य-भेदेन जीवोपकरणत्वाविशेषात्, दशेमे पुरुष प्राणा आत्मैकादशः, इन्द्रियाणि दशैकं च, इत्य् आदि श्रुति-स्मृतिभ्यः। वाग्-आदीनां जीवेन सह गमनाभावात् सप्तानाम् एव प्रयाण-काले गति-श्रवणम्; योग-काले विशेषितत्वं च ज्ञानेन्द्रियाणां मनसस् तद्-वृत्ति-रूप-बुद्धेश् च प्राधान्यात्। सूत्रार्थस् तु--- सप्त-गतेर् विशेषितत्वाच् च--- सप्तानाम् एव गति-श्रवणात्, ज्ञानानि पञ्च मनो बुद्धिश् चेति विशेषितत्वाच् च तानि सप्तैव॥४॥
Link copied२७३। हस्तादयस् तु स्थितेऽतो नैवम्॥२।४।५॥
Link copiedनैवम्--- न सप्तैवेन्द्रियाणीत्य् अर्थः; श्रोत्रादीनि ज्ञानेन्द्रियाणि पञ्च वाग्-घस्तादीनि च कर्मेन्द्रियाणि पञ्च मनश् चेत्य् एकादश; तत्र श्रोत्रादीनि जीवेन सह शरीरान्तर-गमनेऽपि गच्छन्ति; वाग्-घस्तादीनि कर्मेन्द्रियाणि तु स्थिते शरीरे तेनैव सहोत्पत्ति-विनाश-योगीन्य् उपकारकाणि; अतो नैवम् इत्य् अन्वयः; एषां जीवोपकारकत्वाविशेषात्, दशेमे पुरुषे प्राणा आत्मैकादशः, इत्य् आदि वचनाच् चेत्य् अभिप्रायः॥५॥ इति सप्त-गत्य्-अधिकरणम्॥२॥
Link copied२७४। अणवश् च॥२।४।६॥
Link copiedइन्द्रियाणि किं सर्व-गतानि, उताणु-परिमाणानीति संशयः। सर्व-गतानीति पूर्वः पक्षः; त एते सर्व एव समाः सर्वेऽनन्ताः, इति प्राणानाम् आनन्त्य-श्रवणात्। राद्धान्तस् तु--- प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति, इति श्रवणात्, परिमितत्वे सत्य् अप्रत्यक्षत्वाद् अणवः। आनन्त्य-श्रुतिस्तु--- अथ यो हैताननन्तानुपास्ते, इत्य् उपासन-विधानाद् उपासन-फल-बाहुल्य-विषया॥६॥
Link copied२७५। श्रेष्ठश् च॥२।४।७॥
Link copiedश्रेष्ठः प्राणश् चोत्पद्यते। नात्र न्यायातिदेशः, अधिकाशङ्काभावात्। पृथग्-योग-करणम् उत्तर-चिन्तार्थम्। श्रेष्ठः पञ्च-वृत्तिः प्राणः। प्राण-श्रैष्ठ्यं तु प्राण-संवादे तस्य श्रेष्ठ्याभिधानात्॥७॥ इति प्राणाणुत्वाधिकरणम्॥३॥
Link copied२७६। न वायु-क्रिये पृथग् उपदेशात्॥२।४।८॥
Link copiedकिम् अयं श्रेष्ठ-प्राणो वायु-मात्रम्, उत तत्-क्रिया, अथ वायुर् एव कञ्चन विशेषम् आपन्नः। इति संशयः। वायु-मात्रम् इति प्रथमः पक्षः, यः प्राणः स वायुः, इति व्यपदेशात्। वायु-मात्रे प्राण-प्रसिद्ध्य्-अभावात्, उच्छ्वास-निश्वास-रूप-वायु-क्रियायां प्राण-प्रसिद्धेः, वायोः, क्रिया-विशेष एव प्राण इति द्वितीयः पक्षः। राद्धान्तस् तु--- न वायु-मात्रं तत्-क्रिया वा प्राणः; अपि तु देह-धारण-योग्यतादि-रूप-विशेषम् आपन्नो वायुः, एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, खं वायुः, इति वायु-प्राणयोः पृथग्-उत्पत्त्य्-उपदेशात्। क्रियायाश् च पृथग्-उपदेशो न सम्भवति, तेजः-प्रभृतिष्व् अदर्शनात्। चक्षुर्-आदि-करणैः सह जीवोपकरणतयोपदेशात्, देहेन्द्रिय-धारण-रूपोपकाराधिक्याच् चक्षुर्-आदिभ्यः प्राधान्य-वचनाच् च न क्रिया-मात्रम्। सूत्रार्थस् तु--- न वायु-क्रिये पृथग् उपदेशात्--- वायु-मात्रं तत्-क्रिया वा न प्राणः; पृथग् उपदेशात्--- प्राणो जायते, स्वं वायुर् इति हि पृथग् उत्पत्तिर् उपदिश्यते॥८॥
Link copiedवायोः पृथग्-उपदिष्टतया तस्माद् अन्योऽयं प्राणः किम् अग्न्य्-आदिवद् भूतान्तरम् इत्य् आशङ्क्याह---
Link copied२७७। चक्षुर्-आदिवत् तु तत्-सहशिष्ट्यादिभ्यः॥२।४।९॥
Link copiedतु-शब्दः शङ्का-निवृत्त्य्-अर्थः; प्राणो नाकाशादिवद् भूतान्तरम्; अपि तु वायुर् एवावस्थान्तरम् आपन्नश् चक्षुर्-आदिवज् जीवोपकरणम्। तच् चोपकरणत्वम् उपकरण-भूतैर् इन्द्रियैः सहशिष्ट्यादिभ्योऽवगम्यते। शिष्टिः--- शासनम्, उपदेशः। उपदिश्यते ह्य् अयं प्राणश् चक्षुर्-आदिभिः सह प्राण-संवादादिषु। तत्-सजातीयत्वे ह्य् एतद् उपपद्यते। प्राण-शब्द-गृहीतेषु करणेष्व् अस्य--- अथ ह य एवायं मुख्यः प्राणः, इति विशिष्याभिधानम् आदि-शब्देनोक्तम्। तद् अपि तत्-सजातीयत्वे हि सम्भवति॥९॥
Link copied२७८। अकरणत्वाच् च न दोषस् तथा हि दर्शयति॥२।४।१०॥
Link copiedअकरणत्वात्--- करणं क्रिया, अकरणत्वं क्रिया-रहितत्वम्। अक्रियत्वाद् अस्य प्राणस्य जीवं प्रत्युपकार-विशेष-रूप-क्रिया-रहितत्वाच् च यो दोष उद्भाव्यते; स नास्ति। यत उपकार-विशेष-रूपां शरीरेन्द्रिय-धारणात्मक-क्रियां दर्शयति श्रुतिः--- यस्मिन्न् उत्क्रान्त इदं शरीरं पापिष्ठतरम् इव दृश्यते स वः श्रेष्ठः, इति वाग्-आदि-मुख्य-प्राण-पर्यन्तानि करणानि प्रत्येकम् अभिधाय प्राणोत्क्रमणे शरीरेन्द्रिय-शैथिल्याभिधानात्॥१०॥
Link copiedप्राणापानादिनाम् अभेदेन पञ्चधावस्थित एक एव प्राण इत्य् आह---
Link copied२७९। पञ्च-वृत्तिर् मनोवद् व्यपदिश्यते॥२।४।११॥
Link copiedप्राणापानादि-वृत्ति-भेदात् प्राण एव पञ्चधा व्यपदिश्यतेः; मनोवत्--- यथैकम् एव मनः कामादि-वृत्ति-भेदेन तैः शब्दैर् अभिधीयत इति श्रुतिर् आह--- कामः सङ्कल्पः, इत्य् आरभ्य, ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव, इति। अपानादि समान-पर्यन्तं व्यपदिश्य, एतत् सर्वं प्राण एव, इति व्यपदेशात् प्राण एव पञ्च-वृत्तिर् इत्य् अवगम्यते॥११॥ इति वायु-क्रियाधिकरणम्॥४॥
Link copied२८०। अणुश् च॥२।४।१२॥
Link copiedकिम् अयं प्राणः सर्व-गतः, उताणुर् इति संशयः। सर्व-गत इति पूर्वः पक्षः; सम एभिस् त्रिभिर् लोकैः समः, इत्य् आदिना प्राणस्यानन्त्य-व्यपदेशात्। राद्धान्तस् तु--- तम् उत्क्रामन्तं प्राणोऽनुत्क्रामति, इत्य् उत्क्रान्ति-वचनाद् इन्द्रियवत् प्राणश् चाणुः। एवम् अणुत्वे निश्चिते सति सर्वस्य प्राणायत्त-स्थितित्वेन वैभव-वादः। सूत्रम् अपि व्याख्यातम्॥१२॥ इति श्रेष्ठाणुत्वाधिकरणम्॥५॥
Link copied२८१। ज्योतिर्-आद्य्-अधिष्ठानं तु तद्-आमननात् प्राणवता शब्दात्॥२।४।१३॥
Link copiedअग्न्य्-आदीनां जीवस्य चेन्द्रियाधिष्ठानं परमात्मायत्तम् इति, परात् तु तच्-छ्रुतेर् इत्य् उक्तम् एव स्मारयति विषम-व्याप्ति-ज्ञापनाय। प्राणवता--- जीवेन सह, ज्योतिरादेः--- अग्न्य्-आदेर् वाग्-आद्य्-अधिष्ठानम्, तद्-आमननात्--- परमात्मामननाद् भवति। आमननम्--- आभिमुख्येन मननम्; तत्-सङ्कल्पाद् एव भवतीत्य् अर्थः; योऽग्नौ तिष्ठन्\॥॥ योऽग्निम् अन्तरो यमयति, इत्य् आदि शब्दात्॥१३॥
Link copied२८२। तस्य च नित्यत्वात्॥२।४।१४॥
Link copiedसर्वेषाम् आत्मतयानुप्रविश्य, सर्व-नियमनस्य नित्यत्वात्--- परमात्मनः अवर्जनीयत्वाद् इत्य् अर्थः, तत् सृष्ट्वा, तद् एवानुप्राविशत्, इति श्रुतेः॥१४॥ इति ज्योतिर्-आद्य्-अधिष्ठानाधिकरणम्॥६॥
Link copied२८३। त इन्द्रियाणि तद्-व्यपदेशाद् अन्यत्र श्रेष्ठात्॥२।४।१५॥
Link copiedकिं प्राण-शब्द-निर्दिष्टाः सर्वम् एवेन्द्रियाणि, उत श्रेष्ठ-व्यतिरिक्ताः प्राणा इति संशयः। सर्व एवेति पूर्वः पक्षः; सर्वेषाम् अविशेषेण प्राण-शब्द-निर्देशात्, करणत्वाच् च। राद्धान्तस् तु--- श्रेष्ठ-व्यतिरिक्ताः प्राणा इन्द्रियाणि, तेष्व् एवेन्द्रिय-शब्द-निर्देशात्; इन्द्रियाणि दशैकं च, एकादशं मनश् चात्र, इति। एषाम् अपि प्राण-शब्द-निर्देशः प्राणाधीन-वृत्तित्वेन। तथा च श्रुतिः--- त एतस्यैव सर्वे रूपम् अभवन्, तस्माद् एत एतेनाख्यायन्ते, इति। रूपम् अभवन्--- शरीरम् अभवन्, तद्-अधीन-वृत्तयोऽभवन्न् इत्य् अर्थः। सूत्रार्थस् तु--- श्रेष्ठाद् अन्यत्र ये प्राणाः; त इन्द्रियाणि, तेष्व् एव तद्-व्यपदेशात्---इन्द्रिय-व्यपदेशात्॥१५॥
Link copied२८४। भेद-श्रुतेर् वैलक्षण्याच् च॥२।४।१६॥
Link copiedएतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि चेति समनस्केन्द्रियेभ्यो भेदेन प्राणस्योत्पत्ति-श्रुतेः, इन्द्रियेषूपरतेष्व् अपि प्राणवृत्तेर् वृत्ति-वैलक्षण्याच् च॥१६॥ इतीन्द्रियाधिकरणम्॥७॥
Link copied२८५। संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात्॥२।४।१७॥
Link copiedकिं प्रपञ्च-व्यष्टि-सृष्टिर् जीव-भूत-चतुर्मुखात्, उत तच्-छरीरकात् परमात्मन एवेति संशयः। केवलाच् चतुर्मुखाद् इति पूर्वः पक्षः, अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति व्यतिरेक-श्रुतेः। जीवस्य परमात्मांशत्वेन व्याकरवाणीत्य् उत्तम-पुरुष-निर्देशोऽपि कथञ्चिद् उपपद्यते। राद्धान्तस् तु--- नाम-रूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतम् एकैकां करवाणीति त्रिवृत्-करणं कुर्वत एव नाम-रूप-व्याक्रियोपदेशात् परमात्मन एव नाम-रूप-व्याकरण-रूप-व्यष्टि-सृष्टिः। त्रिवृत्-करणं तु न चतुर्मुखेन कर्तुं शक्यम्, अण्ड-सृष्ट्य्-उत्तर-काल-भावित्वाच् चतुर्मुखोत्पत्तेः, त्रिवृत्-कृतैर् एव तेजो-ऽब्-अन्नैर् अण्ड-सृष्टि-सम्भवाच् च। तद्-अण्डम् अभवद् धैमं सहस्रांशु-समप्रभम्। तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्व-लोक-पितामहः, इति हि स्मर्यते। नाना-वीर्याः पृथग्-भूतास् ततस् ते संहतिं विना। नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः॥ समेत्यान्योन्य-संयोगं परस्पर-समाश्रयाः। महद्-आदि-विशेषान्ता ह्य् अण्डम् उत्पादयन्ति ते, इति च। अतश् चतुर्मुख-शरीरकात् परमात्मन एव व्यष्टि-सृष्टिः। एवं सति व्याकरवाणीत्य् उत्तम-पुरुष-निर्देशः समञ्जसः। अनेन जीवेनेति व्यतिरेक-निर्देशोऽपि जीव-शरीरकेणात्मनेत्य् अन्वयात् समञ्जसः। जीव-शब्दस् तेजः-प्रभृति-शब्दवज् जीव-शरीरक-ब्रह्म-वाचीति ह्य् उक्तम्। अनेन जीवेनात्मनेति सामानाधिकरण्यं च मुख्यम्; अनुप्रविश्य नाम-रूपे व्याकरवाणीति समान-कर्तृकत्व-निर्देशश् च। सूत्रार्थस् तु--- संज्ञा-मूर्ति-कॢप्तिस् तु, तु-शब्दः शङ्का-व्यावृत्त्य्-अर्थः। नाम-रूप-कॢप्तिः परमात्मन एव। कुतः। त्रिवृत् कुर्वत उपदेशात्--- त्रिवृत्-करणं कुर्वत एव नाम-रूप-व्याकरणोपदेशात्। त्रिवृत्-करणं तु परमात्मन एव कर्मेत्य् उक्तम्॥१७॥
Link copiedअन्नम् अशितं त्रेधा विधीयते, इत्य् आदिना चतुर्मुख-सृष्ट-वस्तुषु त्रिवृत्-करण-प्रकारो ह्य् उपदिश्यते; अतश् चतुर्मुखेन केवलेन तच्-छक्यम् इत्य् आशङ्क्याह---
Link copied२८६। मांसादि भौमं यथाशब्दम् इतरयोश् च॥२।४।१८॥
Link copiedतासां त्रिवृतं त्रिवृतम् एकैकां करवाणीति निर्दिष्टं त्रिवृत्-करणम्, अन्नम् अशितं त्रेधा विधीयते, इत्य् आदिना नोपदिश्यते; तस्य यः स्थविष्ठो धातुस् तत् पुरीषं यो मध्यमस् तन् मांसं योऽणिष्टस् तन् मनः, इति मांसाद्य् अपि हि भौमम् एवोपदिश्यते। अन्नम् अशितं त्रेधेति प्रक्रमात्, अन्न-मयं हि सोम्य मनः, इति वाक्य-शेषाच् च। तेजो-ऽब्-अन्नानां त्रिवृत्-करण-प्रकारे ह्य् उपदिश्यमाने मांस-मनसोः पुरीषाद् भौमाद् अणीयस्त्वेनाप्यत्वं तैजसत्वं च प्रसज्यते। तथेतरयोर् अप्य् अप्-तेजः-पर्याययोः, आपः पीताः, तेजोऽशितम् इति त्रयाणां भागानां यथाशब्दम् आप्यत्वं तैजसत्वम् एवोपदिश्यते। तत्रापि हि--- आपः पीताः, तेजोऽशितम् इत्य् उपक्रमः; वाक्य-शेषश् च--- आपो-मयः प्राणः तेजो-मयी वाक्, इति। प्राग्-उक्त-त्रिवृत्-करण-प्रकारे हि मूत्र-प्राणयोः स्थविष्ठत्वाणीयस्त्वाभ्यां भौमत्व-तैजसत्व-प्रसक्तिः। तेजोऽशितम् इत्य् अत्रापि पूर्वयोर् भौमत्वाप्यत्व-प्रसक्तिः। अतोऽत्र प्राग् एव त्रिवृत्-कृतस्यान्नादेः स्वस्यैव त्रेधा परिणाम उपदिश्यते॥१८॥
Link copiedप्राग् एव त्रिवृत्-कृतं चेत्, कथं केवलान्नादि-शब्दैर् उच्यते। इत्य् अत्राह---
Link copied२८७। वैशेष्यात् तु तद्-वादस् तद्-वादः॥२।४।१९॥
Link copiedवैशेष्यं--- विशेष-भावः। त्रिवृत्-कृतेऽप्य् एकैकस्मिंस् तत्र तत्रान्नाद्य्-आधिक्य-रूप-विशेष-भावाद् अन्नादि-वादः। द्विर् उक्तिर् अध्याय-परिसमाप्ति-द्योतनार्था॥१९॥ इति संज्ञा-मूर्ति-कॢप्त्य्-अधिकरणम्॥८॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे द्वितीयस्याध्यायस्य चतुर्थः पादः॥
Link copied॥समाप्तश् चाध्यायः॥
Link copied౨౬౯। తథా ప్రాణాః॥౨।౪।౧॥
Link copiedకిం జీవవద్ ఇన్ద్రియాణ్య్ అపి నోత్పద్యన్తే, ఉత వియద్-ఆదివద్ ఉత్పద్యన్త ఇతి సంశయః। నోత్పద్యన్త ఇతి పూర్వః పక్షః। ప్రలయ-కాలే అవస్థాన-శ్రుతేః; ఉత్పత్తి-వాదాః జీవోత్పత్తి-వాదవన్ నేయాః। అసద్ వా ఇదమ్ అగ్ర ఆసీత్\॥॥ ఋషయో వా వ తేఽగ్రే సద్ ఆసీత్ కే తే ఋషయ ఇతి ప్రాణా వా వ ఋషయః, ఇతీన్ద్రియాణాం తదానీం స్థితిః శ్రూయతే। రాద్ధాన్తస్ తు--- ప్రాక్సృష్టేర్ ఏకత్వావధారణాత్, ఇన్ద్రియాణామ్, ఏతస్మాజ్ జాయతే, ఇత్య్ ఉత్పత్తి-వాదాత్, ఉత్పత్తి-నిషేధ-నిత్యత్వ-వచనాభావాచ్ చ, వియద్-ఆదివద్ ఉత్పద్యన్తే। ప్రాణా వా వ ఋషయః, ఇతి। ప్రాణాశబ్ద-నిర్దిష్టః పరమాత్మా। సూత్రార్థస్ తు--- తథా ప్రాణాః--- యథా జీవా నోత్పద్యన్తే తథా ప్రాణా అపి॥౧॥ బహుత్వాసమ్భవాద్ బహు-వచన-శ్రుతిర్ గౌణీత్య్ ఆహ---
Link copied౨౭౦। గౌణ్య్-అసమ్భవాత్ తత్-ప్రాక్ శ్రుతేశ్ చ॥౨।౪।౨॥
Link copiedప్రాణా వా, ఇతి బహు-వచన-శ్రుతిర్ గౌణీ, తదానీం బహుత్వాసమ్భవాత్, తస్య పరమాత్మన ఏవ ప్రాగ్ అవస్థాన-శ్రుతేశ్ చ॥౨॥
Link copied[అత్ర పాఠాన్తరమ్]
Link copiedచస్ త్వ్-అర్థః; తు-శబ్దాత్ పక్షో వ్యావృత్తః। ఇన్ద్రియాణ్య్ ఉత్పద్యన్త ఏవ। కుతః। తత్-ప్రాక్ శ్రుతేః--- తస్య పరమాత్మన ఏవ ప్రాగ్ అవస్థాన-శ్రుతేః, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీత్, ఆత్మా వా ఇదమ్ ఏక ఏవాగ్ర ఆసీత్, ఏకో హ వై నారాయణ ఆసీత్, ఇతి। ప్రాణ-శబ్దస్య, ప్రాణమ్ అభిసంవిశన్తి, ఇతి పరమాత్మన్య్ అపి ప్రసిద్ధేః, ప్రాణా వా వ ఋషయః, ఇతి తస్యైవ ద్రష్టృత్వ-సమ్భవాత్॥౨॥
Link copied౨౭౧। తత్-పూర్వకత్వాద్ వాచః॥౨।౪।౩॥
Link copiedఇతశ్ చ; వాచః పరమాత్మ-వ్యతిరిక్తనామ్ అధేయస్య తత్-పూర్వకత్వాత్--- వియద్-ఆది-సృష్టి-పూర్వకత్వాద్ ఇత్య్ అర్థః; తద్ ధేదం తర్హ్య్ అవ్యాకృతమ్ ఆసీత్ తన్ నామ-రూపాభ్యాం వ్యాక్రియత, ఇత్య్ ఆది శ్రుతేః। అతః పరమాత్మైవ ప్రాణ-శబ్ద-నిర్దిష్టః॥౩॥ ఇతి ప్రాణోత్పత్త్య్-అధికరణమ్॥౧॥
Link copied౨౭౨। సప్త గతేర్ విశేషితత్వాచ్ చ॥౨।౪।౪॥
Link copiedకిమ్ ఇన్ద్రియాణి సప్తైవ, ఉతైకాదశేతి సంశయః। సప్తైవేతి పూర్వః పక్షః। సప్త ప్రాణాః ప్రభవన్తి, ఇత్య్ ఆదిషు సప్తానామ్ ఏవ జీవేన సహ సఞ్చార-శ్రవణాత్, యదా పఞ్చావతిష్ఠన్తే జ్ఞానాని మనసా సహ। బుద్ధిశ్ చ, ఇతి సప్తానామ్ ఏవ యోగ-కాలే జ్ఞానానీతి విశేషితత్వాచ్ చ; శ్రోత్రాదీని జ్ఞానేన్ద్రియాణి మనో బుద్ధిశ్ చేతి సప్తైవ। రాద్ధాన్తస్ తు--- శ్రోత్రాదీని జ్ఞానేన్ద్రియాణి వాగ్-ఆదీని చ కర్మేన్ద్రియాణి మన ఇత్య్ ఏకాదశ। కథమ్। వాగ్-ఘస్తాదీనామ్ అపి శ్రోత్రాదివత్ కార్య-భేదేన జీవోపకరణత్వావిశేషాత్, దశేమే పురుష ప్రాణా ఆత్మైకాదశః, ఇన్ద్రియాణి దశైకం చ, ఇత్య్ ఆది శ్రుతి-స్మృతిభ్యః। వాగ్-ఆదీనాం జీవేన సహ గమనాభావాత్ సప్తానామ్ ఏవ ప్రయాణ-కాలే గతి-శ్రవణమ్; యోగ-కాలే విశేషితత్వం చ జ్ఞానేన్ద్రియాణాం మనసస్ తద్-వృత్తి-రూప-బుద్ధేశ్ చ ప్రాధాన్యాత్। సూత్రార్థస్ తు--- సప్త-గతేర్ విశేషితత్వాచ్ చ--- సప్తానామ్ ఏవ గతి-శ్రవణాత్, జ్ఞానాని పఞ్చ మనో బుద్ధిశ్ చేతి విశేషితత్వాచ్ చ తాని సప్తైవ॥౪॥
Link copied౨౭౩। హస్తాదయస్ తు స్థితేఽతో నైవమ్॥౨।౪।౫॥
Link copiedనైవమ్--- న సప్తైవేన్ద్రియాణీత్య్ అర్థః; శ్రోత్రాదీని జ్ఞానేన్ద్రియాణి పఞ్చ వాగ్-ఘస్తాదీని చ కర్మేన్ద్రియాణి పఞ్చ మనశ్ చేత్య్ ఏకాదశ; తత్ర శ్రోత్రాదీని జీవేన సహ శరీరాన్తర-గమనేఽపి గచ్ఛన్తి; వాగ్-ఘస్తాదీని కర్మేన్ద్రియాణి తు స్థితే శరీరే తేనైవ సహోత్పత్తి-వినాశ-యోగీన్య్ ఉపకారకాణి; అతో నైవమ్ ఇత్య్ అన్వయః; ఏషాం జీవోపకారకత్వావిశేషాత్, దశేమే పురుషే ప్రాణా ఆత్మైకాదశః, ఇత్య్ ఆది వచనాచ్ చేత్య్ అభిప్రాయః॥౫॥ ఇతి సప్త-గత్య్-అధికరణమ్॥౨॥
Link copied౨౭౪। అణవశ్ చ॥౨।౪।౬॥
Link copiedఇన్ద్రియాణి కిం సర్వ-గతాని, ఉతాణు-పరిమాణానీతి సంశయః। సర్వ-గతానీతి పూర్వః పక్షః; త ఏతే సర్వ ఏవ సమాః సర్వేఽనన్తాః, ఇతి ప్రాణానామ్ ఆనన్త్య-శ్రవణాత్। రాద్ధాన్తస్ తు--- ప్రాణమ్ అనూత్క్రామన్తం సర్వే ప్రాణా అనూత్క్రామన్తి, ఇతి శ్రవణాత్, పరిమితత్వే సత్య్ అప్రత్యక్షత్వాద్ అణవః। ఆనన్త్య-శ్రుతిస్తు--- అథ యో హైతాననన్తానుపాస్తే, ఇత్య్ ఉపాసన-విధానాద్ ఉపాసన-ఫల-బాహుల్య-విషయా॥౬॥
Link copied౨౭౫। శ్రేష్ఠశ్ చ॥౨।౪।౭॥
Link copiedశ్రేష్ఠః ప్రాణశ్ చోత్పద్యతే। నాత్ర న్యాయాతిదేశః, అధికాశఙ్కాభావాత్। పృథగ్-యోగ-కరణమ్ ఉత్తర-చిన్తార్థమ్। శ్రేష్ఠః పఞ్చ-వృత్తిః ప్రాణః। ప్రాణ-శ్రైష్ఠ్యం తు ప్రాణ-సంవాదే తస్య శ్రేష్ఠ్యాభిధానాత్॥౭॥ ఇతి ప్రాణాణుత్వాధికరణమ్॥౩॥
Link copied౨౭౬। న వాయు-క్రియే పృథగ్ ఉపదేశాత్॥౨।౪।౮॥
Link copiedకిమ్ అయం శ్రేష్ఠ-ప్రాణో వాయు-మాత్రమ్, ఉత తత్-క్రియా, అథ వాయుర్ ఏవ కఞ్చన విశేషమ్ ఆపన్నః। ఇతి సంశయః। వాయు-మాత్రమ్ ఇతి ప్రథమః పక్షః, యః ప్రాణః స వాయుః, ఇతి వ్యపదేశాత్। వాయు-మాత్రే ప్రాణ-ప్రసిద్ధ్య్-అభావాత్, ఉచ్ఛ్వాస-నిశ్వాస-రూప-వాయు-క్రియాయాం ప్రాణ-ప్రసిద్ధేః, వాయోః, క్రియా-విశేష ఏవ ప్రాణ ఇతి ద్వితీయః పక్షః। రాద్ధాన్తస్ తు--- న వాయు-మాత్రం తత్-క్రియా వా ప్రాణః; అపి తు దేహ-ధారణ-యోగ్యతాది-రూప-విశేషమ్ ఆపన్నో వాయుః, ఏతస్మాజ్ జాయతే ప్రాణో మనః సర్వేన్ద్రియాణి చ, ఖం వాయుః, ఇతి వాయు-ప్రాణయోః పృథగ్-ఉత్పత్త్య్-ఉపదేశాత్। క్రియాయాశ్ చ పృథగ్-ఉపదేశో న సమ్భవతి, తేజః-ప్రభృతిష్వ్ అదర్శనాత్। చక్షుర్-ఆది-కరణైః సహ జీవోపకరణతయోపదేశాత్, దేహేన్ద్రియ-ధారణ-రూపోపకారాధిక్యాచ్ చక్షుర్-ఆదిభ్యః ప్రాధాన్య-వచనాచ్ చ న క్రియా-మాత్రమ్। సూత్రార్థస్ తు--- న వాయు-క్రియే పృథగ్ ఉపదేశాత్--- వాయు-మాత్రం తత్-క్రియా వా న ప్రాణః; పృథగ్ ఉపదేశాత్--- ప్రాణో జాయతే, స్వం వాయుర్ ఇతి హి పృథగ్ ఉత్పత్తిర్ ఉపదిశ్యతే॥౮॥
Link copiedవాయోః పృథగ్-ఉపదిష్టతయా తస్మాద్ అన్యోఽయం ప్రాణః కిమ్ అగ్న్య్-ఆదివద్ భూతాన్తరమ్ ఇత్య్ ఆశఙ్క్యాహ---
Link copied౨౭౭। చక్షుర్-ఆదివత్ తు తత్-సహశిష్ట్యాదిభ్యః॥౨।౪।౯॥
Link copiedతు-శబ్దః శఙ్కా-నివృత్త్య్-అర్థః; ప్రాణో నాకాశాదివద్ భూతాన్తరమ్; అపి తు వాయుర్ ఏవావస్థాన్తరమ్ ఆపన్నశ్ చక్షుర్-ఆదివజ్ జీవోపకరణమ్। తచ్ చోపకరణత్వమ్ ఉపకరణ-భూతైర్ ఇన్ద్రియైః సహశిష్ట్యాదిభ్యోఽవగమ్యతే। శిష్టిః--- శాసనమ్, ఉపదేశః। ఉపదిశ్యతే హ్య్ అయం ప్రాణశ్ చక్షుర్-ఆదిభిః సహ ప్రాణ-సంవాదాదిషు। తత్-సజాతీయత్వే హ్య్ ఏతద్ ఉపపద్యతే। ప్రాణ-శబ్ద-గృహీతేషు కరణేష్వ్ అస్య--- అథ హ య ఏవాయం ముఖ్యః ప్రాణః, ఇతి విశిష్యాభిధానమ్ ఆది-శబ్దేనోక్తమ్। తద్ అపి తత్-సజాతీయత్వే హి సమ్భవతి॥౯॥
Link copied౨౭౮। అకరణత్వాచ్ చ న దోషస్ తథా హి దర్శయతి॥౨।౪।౧౦॥
Link copiedఅకరణత్వాత్--- కరణం క్రియా, అకరణత్వం క్రియా-రహితత్వమ్। అక్రియత్వాద్ అస్య ప్రాణస్య జీవం ప్రత్యుపకార-విశేష-రూప-క్రియా-రహితత్వాచ్ చ యో దోష ఉద్భావ్యతే; స నాస్తి। యత ఉపకార-విశేష-రూపాం శరీరేన్ద్రియ-ధారణాత్మక-క్రియాం దర్శయతి శ్రుతిః--- యస్మిన్న్ ఉత్క్రాన్త ఇదం శరీరం పాపిష్ఠతరమ్ ఇవ దృశ్యతే స వః శ్రేష్ఠః, ఇతి వాగ్-ఆది-ముఖ్య-ప్రాణ-పర్యన్తాని కరణాని ప్రత్యేకమ్ అభిధాయ ప్రాణోత్క్రమణే శరీరేన్ద్రియ-శైథిల్యాభిధానాత్॥౧౦॥
Link copiedప్రాణాపానాదినామ్ అభేదేన పఞ్చధావస్థిత ఏక ఏవ ప్రాణ ఇత్య్ ఆహ---
Link copied౨౭౯। పఞ్చ-వృత్తిర్ మనోవద్ వ్యపదిశ్యతే॥౨।౪।౧౧॥
Link copiedప్రాణాపానాది-వృత్తి-భేదాత్ ప్రాణ ఏవ పఞ్చధా వ్యపదిశ్యతేః; మనోవత్--- యథైకమ్ ఏవ మనః కామాది-వృత్తి-భేదేన తైః శబ్దైర్ అభిధీయత ఇతి శ్రుతిర్ ఆహ--- కామః సఙ్కల్పః, ఇత్య్ ఆరభ్య, హ్రీర్ ధీర్ భీర్ ఇత్య్ ఏతత్ సర్వం మన ఏవ, ఇతి। అపానాది సమాన-పర్యన్తం వ్యపదిశ్య, ఏతత్ సర్వం ప్రాణ ఏవ, ఇతి వ్యపదేశాత్ ప్రాణ ఏవ పఞ్చ-వృత్తిర్ ఇత్య్ అవగమ్యతే॥౧౧॥ ఇతి వాయు-క్రియాధికరణమ్॥౪॥
Link copied౨౮౦। అణుశ్ చ॥౨।౪।౧౨॥
Link copiedకిమ్ అయం ప్రాణః సర్వ-గతః, ఉతాణుర్ ఇతి సంశయః। సర్వ-గత ఇతి పూర్వః పక్షః; సమ ఏభిస్ త్రిభిర్ లోకైః సమః, ఇత్య్ ఆదినా ప్రాణస్యానన్త్య-వ్యపదేశాత్। రాద్ధాన్తస్ తు--- తమ్ ఉత్క్రామన్తం ప్రాణోఽనుత్క్రామతి, ఇత్య్ ఉత్క్రాన్తి-వచనాద్ ఇన్ద్రియవత్ ప్రాణశ్ చాణుః। ఏవమ్ అణుత్వే నిశ్చితే సతి సర్వస్య ప్రాణాయత్త-స్థితిత్వేన వైభవ-వాదః। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧౨॥ ఇతి శ్రేష్ఠాణుత్వాధికరణమ్॥౫॥
Link copied౨౮౧। జ్యోతిర్-ఆద్య్-అధిష్ఠానం తు తద్-ఆమననాత్ ప్రాణవతా శబ్దాత్॥౨।౪।౧౩॥
Link copiedఅగ్న్య్-ఆదీనాం జీవస్య చేన్ద్రియాధిష్ఠానం పరమాత్మాయత్తమ్ ఇతి, పరాత్ తు తచ్-ఛ్రుతేర్ ఇత్య్ ఉక్తమ్ ఏవ స్మారయతి విషమ-వ్యాప్తి-జ్ఞాపనాయ। ప్రాణవతా--- జీవేన సహ, జ్యోతిరాదేః--- అగ్న్య్-ఆదేర్ వాగ్-ఆద్య్-అధిష్ఠానమ్, తద్-ఆమననాత్--- పరమాత్మామననాద్ భవతి। ఆమననమ్--- ఆభిముఖ్యేన మననమ్; తత్-సఙ్కల్పాద్ ఏవ భవతీత్య్ అర్థః; యోఽగ్నౌ తిష్ఠన్\॥॥ యోఽగ్నిమ్ అన్తరో యమయతి, ఇత్య్ ఆది శబ్దాత్॥౧౩॥
Link copied౨౮౨। తస్య చ నిత్యత్వాత్॥౨।౪।౧౪॥
Link copiedసర్వేషామ్ ఆత్మతయానుప్రవిశ్య, సర్వ-నియమనస్య నిత్యత్వాత్--- పరమాత్మనః అవర్జనీయత్వాద్ ఇత్య్ అర్థః, తత్ సృష్ట్వా, తద్ ఏవానుప్రావిశత్, ఇతి శ్రుతేః॥౧౪॥ ఇతి జ్యోతిర్-ఆద్య్-అధిష్ఠానాధికరణమ్॥౬॥
Link copied౨౮౩। త ఇన్ద్రియాణి తద్-వ్యపదేశాద్ అన్యత్ర శ్రేష్ఠాత్॥౨।౪।౧౫॥
Link copiedకిం ప్రాణ-శబ్ద-నిర్దిష్టాః సర్వమ్ ఏవేన్ద్రియాణి, ఉత శ్రేష్ఠ-వ్యతిరిక్తాః ప్రాణా ఇతి సంశయః। సర్వ ఏవేతి పూర్వః పక్షః; సర్వేషామ్ అవిశేషేణ ప్రాణ-శబ్ద-నిర్దేశాత్, కరణత్వాచ్ చ। రాద్ధాన్తస్ తు--- శ్రేష్ఠ-వ్యతిరిక్తాః ప్రాణా ఇన్ద్రియాణి, తేష్వ్ ఏవేన్ద్రియ-శబ్ద-నిర్దేశాత్; ఇన్ద్రియాణి దశైకం చ, ఏకాదశం మనశ్ చాత్ర, ఇతి। ఏషామ్ అపి ప్రాణ-శబ్ద-నిర్దేశః ప్రాణాధీన-వృత్తిత్వేన। తథా చ శ్రుతిః--- త ఏతస్యైవ సర్వే రూపమ్ అభవన్, తస్మాద్ ఏత ఏతేనాఖ్యాయన్తే, ఇతి। రూపమ్ అభవన్--- శరీరమ్ అభవన్, తద్-అధీన-వృత్తయోఽభవన్న్ ఇత్య్ అర్థః। సూత్రార్థస్ తు--- శ్రేష్ఠాద్ అన్యత్ర యే ప్రాణాః; త ఇన్ద్రియాణి, తేష్వ్ ఏవ తద్-వ్యపదేశాత్---ఇన్ద్రియ-వ్యపదేశాత్॥౧౫॥
Link copied౨౮౪। భేద-శ్రుతేర్ వైలక్షణ్యాచ్ చ॥౨।౪।౧౬॥
Link copiedఏతస్మాజ్ జాయతే ప్రాణో మనః సర్వేన్ద్రియాణి చేతి సమనస్కేన్ద్రియేభ్యో భేదేన ప్రాణస్యోత్పత్తి-శ్రుతేః, ఇన్ద్రియేషూపరతేష్వ్ అపి ప్రాణవృత్తేర్ వృత్తి-వైలక్షణ్యాచ్ చ॥౧౬॥ ఇతీన్ద్రియాధికరణమ్॥౭॥
Link copied౨౮౫। సంజ్ఞా-మూర్తి-కౢప్తిస్ తు త్రివృత్ కుర్వత ఉపదేశాత్॥౨।౪।౧౭॥
Link copiedకిం ప్రపఞ్చ-వ్యష్టి-సృష్టిర్ జీవ-భూత-చతుర్ముఖాత్, ఉత తచ్-ఛరీరకాత్ పరమాత్మన ఏవేతి సంశయః। కేవలాచ్ చతుర్ముఖాద్ ఇతి పూర్వః పక్షః, అనేన జీవేనాత్మనానుప్రవిశ్య నామ-రూపే వ్యాకరవాణీతి వ్యతిరేక-శ్రుతేః। జీవస్య పరమాత్మాంశత్వేన వ్యాకరవాణీత్య్ ఉత్తమ-పురుష-నిర్దేశోఽపి కథఞ్చిద్ ఉపపద్యతే। రాద్ధాన్తస్ తు--- నామ-రూపే వ్యాకరవాణి తాసాం త్రివృతం త్రివృతమ్ ఏకైకాం కరవాణీతి త్రివృత్-కరణం కుర్వత ఏవ నామ-రూప-వ్యాక్రియోపదేశాత్ పరమాత్మన ఏవ నామ-రూప-వ్యాకరణ-రూప-వ్యష్టి-సృష్టిః। త్రివృత్-కరణం తు న చతుర్ముఖేన కర్తుం శక్యమ్, అణ్డ-సృష్ట్య్-ఉత్తర-కాల-భావిత్వాచ్ చతుర్ముఖోత్పత్తేః, త్రివృత్-కృతైర్ ఏవ తేజో-ఽబ్-అన్నైర్ అణ్డ-సృష్టి-సమ్భవాచ్ చ। తద్-అణ్డమ్ అభవద్ ధైమం సహస్రాంశు-సమప్రభమ్। తస్మిఞ్ జజ్ఞే స్వయం బ్రహ్మా సర్వ-లోక-పితామహః, ఇతి హి స్మర్యతే। నానా-వీర్యాః పృథగ్-భూతాస్ తతస్ తే సంహతిం వినా। నాశక్నువన్ ప్రజాః స్రష్టుమ్ అసమాగమ్య కృత్స్నశః॥ సమేత్యాన్యోన్య-సంయోగం పరస్పర-సమాశ్రయాః। మహద్-ఆది-విశేషాన్తా హ్య్ అణ్డమ్ ఉత్పాదయన్తి తే, ఇతి చ। అతశ్ చతుర్ముఖ-శరీరకాత్ పరమాత్మన ఏవ వ్యష్టి-సృష్టిః। ఏవం సతి వ్యాకరవాణీత్య్ ఉత్తమ-పురుష-నిర్దేశః సమఞ్జసః। అనేన జీవేనేతి వ్యతిరేక-నిర్దేశోఽపి జీవ-శరీరకేణాత్మనేత్య్ అన్వయాత్ సమఞ్జసః। జీవ-శబ్దస్ తేజః-ప్రభృతి-శబ్దవజ్ జీవ-శరీరక-బ్రహ్మ-వాచీతి హ్య్ ఉక్తమ్। అనేన జీవేనాత్మనేతి సామానాధికరణ్యం చ ముఖ్యమ్; అనుప్రవిశ్య నామ-రూపే వ్యాకరవాణీతి సమాన-కర్తృకత్వ-నిర్దేశశ్ చ। సూత్రార్థస్ తు--- సంజ్ఞా-మూర్తి-కౢప్తిస్ తు, తు-శబ్దః శఙ్కా-వ్యావృత్త్య్-అర్థః। నామ-రూప-కౢప్తిః పరమాత్మన ఏవ। కుతః। త్రివృత్ కుర్వత ఉపదేశాత్--- త్రివృత్-కరణం కుర్వత ఏవ నామ-రూప-వ్యాకరణోపదేశాత్। త్రివృత్-కరణం తు పరమాత్మన ఏవ కర్మేత్య్ ఉక్తమ్॥౧౭॥
Link copiedఅన్నమ్ అశితం త్రేధా విధీయతే, ఇత్య్ ఆదినా చతుర్ముఖ-సృష్ట-వస్తుషు త్రివృత్-కరణ-ప్రకారో హ్య్ ఉపదిశ్యతే; అతశ్ చతుర్ముఖేన కేవలేన తచ్-ఛక్యమ్ ఇత్య్ ఆశఙ్క్యాహ---
Link copied౨౮౬। మాంసాది భౌమం యథాశబ్దమ్ ఇతరయోశ్ చ॥౨।౪।౧౮॥
Link copiedతాసాం త్రివృతం త్రివృతమ్ ఏకైకాం కరవాణీతి నిర్దిష్టం త్రివృత్-కరణమ్, అన్నమ్ అశితం త్రేధా విధీయతే, ఇత్య్ ఆదినా నోపదిశ్యతే; తస్య యః స్థవిష్ఠో ధాతుస్ తత్ పురీషం యో మధ్యమస్ తన్ మాంసం యోఽణిష్టస్ తన్ మనః, ఇతి మాంసాద్య్ అపి హి భౌమమ్ ఏవోపదిశ్యతే। అన్నమ్ అశితం త్రేధేతి ప్రక్రమాత్, అన్న-మయం హి సోమ్య మనః, ఇతి వాక్య-శేషాచ్ చ। తేజో-ఽబ్-అన్నానాం త్రివృత్-కరణ-ప్రకారే హ్య్ ఉపదిశ్యమానే మాంస-మనసోః పురీషాద్ భౌమాద్ అణీయస్త్వేనాప్యత్వం తైజసత్వం చ ప్రసజ్యతే। తథేతరయోర్ అప్య్ అప్-తేజః-పర్యాయయోః, ఆపః పీతాః, తేజోఽశితమ్ ఇతి త్రయాణాం భాగానాం యథాశబ్దమ్ ఆప్యత్వం తైజసత్వమ్ ఏవోపదిశ్యతే। తత్రాపి హి--- ఆపః పీతాః, తేజోఽశితమ్ ఇత్య్ ఉపక్రమః; వాక్య-శేషశ్ చ--- ఆపో-మయః ప్రాణః తేజో-మయీ వాక్, ఇతి। ప్రాగ్-ఉక్త-త్రివృత్-కరణ-ప్రకారే హి మూత్ర-ప్రాణయోః స్థవిష్ఠత్వాణీయస్త్వాభ్యాం భౌమత్వ-తైజసత్వ-ప్రసక్తిః। తేజోఽశితమ్ ఇత్య్ అత్రాపి పూర్వయోర్ భౌమత్వాప్యత్వ-ప్రసక్తిః। అతోఽత్ర ప్రాగ్ ఏవ త్రివృత్-కృతస్యాన్నాదేః స్వస్యైవ త్రేధా పరిణామ ఉపదిశ్యతే॥౧౮॥
Link copiedప్రాగ్ ఏవ త్రివృత్-కృతం చేత్, కథం కేవలాన్నాది-శబ్దైర్ ఉచ్యతే। ఇత్య్ అత్రాహ---
Link copied౨౮౭। వైశేష్యాత్ తు తద్-వాదస్ తద్-వాదః॥౨।౪।౧౯॥
Link copiedవైశేష్యం--- విశేష-భావః। త్రివృత్-కృతేఽప్య్ ఏకైకస్మింస్ తత్ర తత్రాన్నాద్య్-ఆధిక్య-రూప-విశేష-భావాద్ అన్నాది-వాదః। ద్విర్ ఉక్తిర్ అధ్యాయ-పరిసమాప్తి-ద్యోతనార్థా॥౧౯॥ ఇతి సంజ్ఞా-మూర్తి-కౢప్త్య్-అధికరణమ్॥౮॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే ద్వితీయస్యాధ్యాయస్య చతుర్థః పాదః॥
Link copied॥సమాప్తశ్ చాధ్యాయః॥
Link copied269. thatha: pra:na:h||2|4|1||
Link copiedkim ji:vavad indriya:ny api no:thpadyanthe:, utha viyad a:divad uthpadyantha ithi samsayah| no:thpadyantha ithi pu:rvah pakshah| pralaya ka:le: avastha:na sruthe:h; uthpaththi va:da:h ji:vo:thpaththi va:davan ne:ya:h| asad va: idam agra a:si:th.... rushayo: va: va the:'gre: sad a:si:th ke: the: rushaya ithi pra:na: va: va rushayah, ithi:ndriya:na:m thada:ni:m sthithih sru:yathe:| ra:ddha:nthas thu--- pra:ksrushte:r e:kathva:vadha:rana:th, indriya:na:m, e:thasma:j ja:yathe:, ithy uthpaththi va:da:th, uthpaththi nishe:dha nithyathva vachana:bha:va:ch cha, viyad a:divad uthpadyanthe:| pra:na: va: va rushayah, ithi| pra:na:sabda nirdishtah parama:thma:| su:thra:rthas thu--- thatha: pra:na:h--- yatha: ji:va: no:thpadyanthe: thatha: pra:na: api||1|| bahuthva:sambhava:d bahu vachana sruthir gauni:thy a:ha---
Link copied270. gauny asambhava:th thath pra:k sruthe:s cha||2|4|2||
Link copiedpra:na: va:, ithi bahu vachana sruthir gauni:, thada:ni:m bahuthva:sambhava:th, thasya parama:thmana e:va pra:g avastha:na sruthe:s cha||2||
Link copied[athra pa:tha:ntharam]
Link copiedchas thv arthah; thu sabda:th paksho: vya:vruththah| indriya:ny uthpadyantha e:va| kuthah| thath pra:k sruthe:h--- thasya parama:thmana e:va pra:g avastha:na sruthe:h, sad e:va so:mye:dam agra a:si:th, a:thma: va: idam e:ka e:va:gra a:si:th, e:ko: ha vai na:ra:yana a:si:th, ithi| pra:na sabdasya, pra:nam abhisamvisanthi, ithi parama:thmany api prasiddhe:h, pra:na: va: va rushayah, ithi thasyaiva drashtruthva sambhava:th||2||
Link copied271. thath pu:rvakathva:d va:chah||2|4|3||
Link copiedithas cha; va:chah parama:thma vyathirikthana:m adhe:yasya thath pu:rvakathva:th--- viyad a:di srushti pu:rvakathva:d ithy arthah; thad dhe:dam tharhy avya:krutham a:si:th than na:ma ru:pa:bhya:m vya:kriyatha, ithy a:di sruthe:h| athah parama:thmaiva pra:na sabda nirdishtah||3|| ithi pra:no:thpaththy adhikaranam||1||
Link copied272. saptha gathe:r vise:shithathva:ch cha||2|4|4||
Link copiedkim indriya:ni sapthaiva, uthaika:dase:thi samsayah| sapthaive:thi pu:rvah pakshah| saptha pra:na:h prabhavanthi, ithy a:dishu saptha:na:m e:va ji:ve:na saha sancha:ra sravana:th, yada: pancha:vathishthanthe: jna:na:ni manasa: saha| buddhis cha, ithi saptha:na:m e:va yo:ga ka:le: jna:na:ni:thi vise:shithathva:ch cha; sro:thra:di:ni jna:ne:ndriya:ni mano: buddhis che:thi sapthaiva| ra:ddha:nthas thu--- sro:thra:di:ni jna:ne:ndriya:ni va:g a:di:ni cha karme:ndriya:ni mana ithy e:ka:dasa| katham| va:g ghastha:di:na:m api sro:thra:divath ka:rya bhe:de:na ji:vo:pakaranathva:vise:sha:th, dase:me: purusha pra:na: a:thmaika:dasah, indriya:ni dasaikam cha, ithy a:di sruthi smruthibhyah| va:g a:di:na:m ji:ve:na saha gamana:bha:va:th saptha:na:m e:va praya:na ka:le: gathi sravanam; yo:ga ka:le: vise:shithathvam cha jna:ne:ndriya:na:m manasas thad vruththi ru:pa buddhe:s cha pra:dha:nya:th| su:thra:rthas thu--- saptha gathe:r vise:shithathva:ch cha--- saptha:na:m e:va gathi sravana:th, jna:na:ni pancha mano: buddhis che:thi vise:shithathva:ch cha tha:ni sapthaiva||4||
Link copied273. hastha:dayas thu sthithe:'tho: naivam||2|4|5||
Link copiednaivam--- na sapthaive:ndriya:ni:thy arthah; sro:thra:di:ni jna:ne:ndriya:ni pancha va:g ghastha:di:ni cha karme:ndriya:ni pancha manas che:thy e:ka:dasa; thathra sro:thra:di:ni ji:ve:na saha sari:ra:nthara gamane:'pi gachchhanthi; va:g ghastha:di:ni karme:ndriya:ni thu sthithe: sari:re: the:naiva saho:thpaththi vina:sa yo:gi:ny upaka:raka:ni; atho: naivam ithy anvayah; e:sha:m ji:vo:paka:rakathva:vise:sha:th, dase:me: purushe: pra:na: a:thmaika:dasah, ithy a:di vachana:ch che:thy abhipra:yah||5|| ithi saptha gathy adhikaranam||2||
Link copied274. anavas cha||2|4|6||
Link copiedindriya:ni kim sarva gatha:ni, utha:nu parima:na:ni:thi samsayah| sarva gatha:ni:thi pu:rvah pakshah; tha e:the: sarva e:va sama:h sarve:'nantha:h, ithi pra:na:na:m a:nanthya sravana:th| ra:ddha:nthas thu--- pra:nam anu:thkra:mantham sarve: pra:na: anu:thkra:manthi, ithi sravana:th, parimithathve: sathy aprathyakshathva:d anavah| a:nanthya sruthisthu--- atha yo: haitha:nanantha:nupa:sthe:, ithy upa:sana vidha:na:d upa:sana phala ba:hulya vishaya:||6||
Link copied275. sre:shthas cha||2|4|7||
Link copiedsre:shthah pra:nas cho:thpadyathe:| na:thra nya:ya:thide:sah, adhika:sanka:bha:va:th| pruthag yo:ga karanam uththara chintha:rtham| sre:shthah pancha vruththih pra:nah| pra:na sraishthyam thu pra:na samva:de: thasya sre:shthya:bhidha:na:th||7|| ithi pra:na:nuthva:dhikaranam||3||
Link copied276. na va:yu kriye: pruthag upade:sa:th||2|4|8||
Link copiedkim ayam sre:shtha pra:no: va:yu ma:thram, utha thath kriya:, atha va:yur e:va kanchana vise:sham a:pannah| ithi samsayah| va:yu ma:thram ithi prathamah pakshah, yah pra:nah sa va:yuh, ithi vyapade:sa:th| va:yu ma:thre: pra:na prasiddhy abha:va:th, uchchhva:sa nisva:sa ru:pa va:yu kriya:ya:m pra:na prasiddhe:h, va:yo:h, kriya: vise:sha e:va pra:na ithi dvithi:yah pakshah| ra:ddha:nthas thu--- na va:yu ma:thram thath kriya: va: pra:nah; api thu de:ha dha:rana yo:gyatha:di ru:pa vise:sham a:panno: va:yuh, e:thasma:j ja:yathe: pra:no: manah sarve:ndriya:ni cha, kham va:yuh, ithi va:yu pra:nayo:h pruthag uthpaththy upade:sa:th| kriya:ya:s cha pruthag upade:so: na sambhavathi, the:jah prabhruthishv adarsana:th| chakshur a:di karanaih saha ji:vo:pakaranathayo:pade:sa:th, de:he:ndriya dha:rana ru:po:paka:ra:dhikya:ch chakshur a:dibhyah pra:dha:nya vachana:ch cha na kriya: ma:thram| su:thra:rthas thu--- na va:yu kriye: pruthag upade:sa:th--- va:yu ma:thram thath kriya: va: na pra:nah; pruthag upade:sa:th--- pra:no: ja:yathe:, svam va:yur ithi hi pruthag uthpaththir upadisyathe:||8||
Link copiedva:yo:h pruthag upadishtathaya: thasma:d anyo:'yam pra:nah kim agny a:divad bhu:tha:ntharam ithy a:sankya:ha---
Link copied277. chakshur a:divath thu thath sahasishtya:dibhyah||2|4|9||
Link copiedthu sabdah sanka: nivruththy arthah; pra:no: na:ka:sa:divad bhu:tha:ntharam; api thu va:yur e:va:vastha:ntharam a:pannas chakshur a:divaj ji:vo:pakaranam| thach cho:pakaranathvam upakarana bhu:thair indriyaih sahasishtya:dibhyo:'vagamyathe:| sishtih--- sa:sanam, upade:sah| upadisyathe: hy ayam pra:nas chakshur a:dibhih saha pra:na samva:da:dishu| thath saja:thi:yathve: hy e:thad upapadyathe:| pra:na sabda gruhi:the:shu karane:shv asya--- atha ha ya e:va:yam mukhyah pra:nah, ithi visishya:bhidha:nam a:di sabde:no:ktham| thad api thath saja:thi:yathve: hi sambhavathi||9||
Link copied278. akaranathva:ch cha na do:shas thatha: hi darsayathi||2|4|10||
Link copiedakaranathva:th--- karanam kriya:, akaranathvam kriya: rahithathvam| akriyathva:d asya pra:nasya ji:vam prathyupaka:ra vise:sha ru:pa kriya: rahithathva:ch cha yo: do:sha udbha:vyathe:; sa na:sthi| yatha upaka:ra vise:sha ru:pa:m sari:re:ndriya dha:rana:thmaka kriya:m darsayathi sruthih--- yasminn uthkra:ntha idam sari:ram pa:pishthatharam iva drusyathe: sa vah sre:shthah, ithi va:g a:di mukhya pra:na paryantha:ni karana:ni prathye:kam abhidha:ya pra:no:thkramane: sari:re:ndriya saithilya:bhidha:na:th||10||
Link copiedpra:na:pa:na:dina:m abhe:de:na panchadha:vasthitha e:ka e:va pra:na ithy a:ha---
Link copied279. pancha vruththir mano:vad vyapadisyathe:||2|4|11||
Link copiedpra:na:pa:na:di vruththi bhe:da:th pra:na e:va panchadha: vyapadisyathe:h; mano:vath--- yathaikam e:va manah ka:ma:di vruththi bhe:de:na thaih sabdair abhidhi:yatha ithi sruthir a:ha--- ka:mah sankalpah, ithy a:rabhya, hri:r dhi:r bhi:r ithy e:thath sarvam mana e:va, ithi| apa:na:di sama:na paryantham vyapadisya, e:thath sarvam pra:na e:va, ithi vyapade:sa:th pra:na e:va pancha vruththir ithy avagamyathe:||11|| ithi va:yu kriya:dhikaranam||4||
Link copied280. anus cha||2|4|12||
Link copiedkim ayam pra:nah sarva gathah, utha:nur ithi samsayah| sarva gatha ithi pu:rvah pakshah; sama e:bhis thribhir lo:kaih samah, ithy a:dina: pra:nasya:nanthya vyapade:sa:th| ra:ddha:nthas thu--- tham uthkra:mantham pra:no:'nuthkra:mathi, ithy uthkra:nthi vachana:d indriyavath pra:nas cha:nuh| e:vam anuthve: nischithe: sathi sarvasya pra:na:yaththa sthithithve:na vaibhava va:dah| su:thram api vya:khya:tham||12|| ithi sre:shtha:nuthva:dhikaranam||5||
Link copied281. jyo:thir a:dy adhishtha:nam thu thad a:manana:th pra:navatha: sabda:th||2|4|13||
Link copiedagny a:di:na:m ji:vasya che:ndriya:dhishtha:nam parama:thma:yaththam ithi, para:th thu thach chhruthe:r ithy uktham e:va sma:rayathi vishama vya:pthi jna:pana:ya| pra:navatha:--- ji:ve:na saha, jyo:thira:de:h--- agny a:de:r va:g a:dy adhishtha:nam, thad a:manana:th--- parama:thma:manana:d bhavathi| a:mananam--- a:bhimukhye:na mananam; thath sankalpa:d e:va bhavathi:thy arthah; yo:'gnau thishthan.... yo:'gnim antharo: yamayathi, ithy a:di sabda:th||13||
Link copied282. thasya cha nithyathva:th||2|4|14||
Link copiedsarve:sha:m a:thmathaya:nupravisya, sarva niyamanasya nithyathva:th--- parama:thmanah avarjani:yathva:d ithy arthah, thath srushtva:, thad e:va:nupra:visath, ithi sruthe:h||14|| ithi jyo:thir a:dy adhishtha:na:dhikaranam||6||
Link copied283. tha indriya:ni thad vyapade:sa:d anyathra sre:shtha:th||2|4|15||
Link copiedkim pra:na sabda nirdishta:h sarvam e:ve:ndriya:ni, utha sre:shtha vyathiriktha:h pra:na: ithi samsayah| sarva e:ve:thi pu:rvah pakshah; sarve:sha:m avise:she:na pra:na sabda nirde:sa:th, karanathva:ch cha| ra:ddha:nthas thu--- sre:shtha vyathiriktha:h pra:na: indriya:ni, the:shv e:ve:ndriya sabda nirde:sa:th; indriya:ni dasaikam cha, e:ka:dasam manas cha:thra, ithi| e:sha:m api pra:na sabda nirde:sah pra:na:dhi:na vruththithve:na| thatha: cha sruthih--- tha e:thasyaiva sarve: ru:pam abhavan, thasma:d e:tha e:the:na:khya:yanthe:, ithi| ru:pam abhavan--- sari:ram abhavan, thad adhi:na vruththayo:'bhavann ithy arthah| su:thra:rthas thu--- sre:shtha:d anyathra ye: pra:na:h; tha indriya:ni, the:shv e:va thad vyapade:sa:th---indriya vyapade:sa:th||15||
Link copied284. bhe:da sruthe:r vailakshanya:ch cha||2|4|16||
Link copiede:thasma:j ja:yathe: pra:no: manah sarve:ndriya:ni che:thi samanaske:ndriye:bhyo: bhe:de:na pra:nasyo:thpaththi sruthe:h, indriye:shu:parathe:shv api pra:navruththe:r vruththi vailakshanya:ch cha||16|| ithi:ndriya:dhikaranam||7||
Link copied285. samjna: mu:rthi klupthis thu thrivruth kurvatha upade:sa:th||2|4|17||
Link copiedkim prapancha vyashti srushtir ji:va bhu:tha chathurmukha:th, utha thach chhari:raka:th parama:thmana e:ve:thi samsayah| ke:vala:ch chathurmukha:d ithi pu:rvah pakshah, ane:na ji:ve:na:thmana:nupravisya na:ma ru:pe: vya:karava:ni:thi vyathire:ka sruthe:h| ji:vasya parama:thma:msathve:na vya:karava:ni:thy uththama purusha nirde:so:'pi kathanchid upapadyathe:| ra:ddha:nthas thu--- na:ma ru:pe: vya:karava:ni tha:sa:m thrivrutham thrivrutham e:kaika:m karava:ni:thi thrivruth karanam kurvatha e:va na:ma ru:pa vya:kriyo:pade:sa:th parama:thmana e:va na:ma ru:pa vya:karana ru:pa vyashti srushtih| thrivruth karanam thu na chathurmukhe:na karthum sakyam, anda srushty uththara ka:la bha:vithva:ch chathurmukho:thpaththe:h, thrivruth kruthair e:va the:jo:-'b annair anda srushti sambhava:ch cha| thad andam abhavad dhaimam sahasra:msu samaprabham| thasmin jajne: svayam brahma: sarva lo:ka pitha:mahah, ithi hi smaryathe:| na:na: vi:rya:h pruthag bhu:tha:s thathas the: samhathim vina:| na:saknuvan praja:h srashtum asama:gamya kruthsnasah|| same:thya:nyo:nya samyo:gam paraspara sama:sraya:h| mahad a:di vise:sha:ntha: hy andam uthpa:dayanthi the:, ithi cha| athas chathurmukha sari:raka:th parama:thmana e:va vyashti srushtih| e:vam sathi vya:karava:ni:thy uththama purusha nirde:sah samanjasah| ane:na ji:ve:ne:thi vyathire:ka nirde:so:'pi ji:va sari:rake:na:thmane:thy anvaya:th samanjasah| ji:va sabdas the:jah prabhruthi sabdavaj ji:va sari:raka brahma va:chi:thi hy uktham| ane:na ji:ve:na:thmane:thi sa:ma:na:dhikaranyam cha mukhyam; anupravisya na:ma ru:pe: vya:karava:ni:thi sama:na karthrukathva nirde:sas cha| su:thra:rthas thu--- samjna: mu:rthi klupthis thu, thu sabdah sanka: vya:vruththy arthah| na:ma ru:pa klupthih parama:thmana e:va| kuthah| thrivruth kurvatha upade:sa:th--- thrivruth karanam kurvatha e:va na:ma ru:pa vya:karano:pade:sa:th| thrivruth karanam thu parama:thmana e:va karme:thy uktham||17||
Link copiedannam asitham thre:dha: vidhi:yathe:, ithy a:dina: chathurmukha srushta vasthushu thrivruth karana praka:ro: hy upadisyathe:; athas chathurmukhe:na ke:vale:na thach chhakyam ithy a:sankya:ha---
Link copied286. ma:msa:di bhaumam yatha:sabdam itharayo:s cha||2|4|18||
Link copiedtha:sa:m thrivrutham thrivrutham e:kaika:m karava:ni:thi nirdishtam thrivruth karanam, annam asitham thre:dha: vidhi:yathe:, ithy a:dina: no:padisyathe:; thasya yah sthavishtho: dha:thus thath puri:sham yo: madhyamas than ma:msam yo:'nishtas than manah, ithi ma:msa:dy api hi bhaumam e:vo:padisyathe:| annam asitham thre:dhe:thi prakrama:th, anna mayam hi so:mya manah, ithi va:kya se:sha:ch cha| the:jo:-'b anna:na:m thrivruth karana praka:re: hy upadisyama:ne: ma:msa manaso:h puri:sha:d bhauma:d ani:yasthve:na:pyathvam thaijasathvam cha prasajyathe:| thathe:tharayo:r apy ap the:jah parya:yayo:h, a:pah pi:tha:h, the:jo:'sitham ithi thraya:na:m bha:ga:na:m yatha:sabdam a:pyathvam thaijasathvam e:vo:padisyathe:| thathra:pi hi--- a:pah pi:tha:h, the:jo:'sitham ithy upakramah; va:kya se:shas cha--- a:po: mayah pra:nah the:jo: mayi: va:k, ithi| pra:g uktha thrivruth karana praka:re: hi mu:thra pra:nayo:h sthavishthathva:ni:yasthva:bhya:m bhaumathva thaijasathva prasakthih| the:jo:'sitham ithy athra:pi pu:rvayo:r bhaumathva:pyathva prasakthih| atho:'thra pra:g e:va thrivruth kruthasya:nna:de:h svasyaiva thre:dha: parina:ma upadisyathe:||18||
Link copiedpra:g e:va thrivruth krutham che:th, katham ke:vala:nna:di sabdair uchyathe:| ithy athra:ha---
Link copied287. vaise:shya:th thu thad va:das thad va:dah||2|4|19||
Link copiedvaise:shyam--- vise:sha bha:vah| thrivruth kruthe:'py e:kaikasmims thathra thathra:nna:dy a:dhikya ru:pa vise:sha bha:va:d anna:di va:dah| dvir ukthir adhya:ya parisama:pthi dyo:thana:rtha:||19|| ithi samjna: mu:rthi klupthy adhikaranam||8||
Link copiedithi sri: ra:ma:nuja:cha:rya virachithe: sri: ve:da:nthadi:pe: dvithi:yasya:dhya:yasya chathurthah pa:dah||
Link copied||sama:pthas cha:dhya:yah||
Link copied