Skip to content

Vedanta Dipa · Section 10 of 17

||atha thruthi:ya:dhya:ye: prathamah pa:dah||

Original Sanskrit · click to toggle

२८८। तद्-अन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्न-निरूपणाभ्याम्॥३।१।१॥

Link copied

देही देहान्तर-गमने देह-कारण-भूतैर् भूत-सूक्ष्मैः संयुक्तो गच्छति, नेति संशयः। न संयुक्तो गच्छतीति पूर्वः पक्षः, देहारम्भाय तत्र तत्र भूत-सूक्ष्माणां सुलभत्वात्। राद्धान्तस् तु--- पञ्चाग्नि-विद्यायां, वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति, इति तु पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति, इति प्रश्न-प्रतिवचने आम्नायेते। देहारम्भिका आपस् त्रिवृत्-करणेन भूतान्तर-संसृष्टाः द्यु-लोक-पर्जन्य-पृथिवी-पुरुष-रूपाग्निषु जीवेन सह प्रविष्टाः पञ्चम्याम् आहुतौ योषिद्-अग्नि-प्रवेश-वेलायां पुरुष-शब्दाभिलपनीया भवन्तीति प्रतीयते; पुरुषाकारतां भजन्त इत्य् अर्थः। अतो भूत-सूक्ष्मैः सम्परिष्वक्त एव गच्छतीति। सूत्रार्थं तु--- तद्-अन्तर-प्रतिपत्तौ, संज्ञा-मूर्ति-कॢप्तिर् इत्य् अत्र मूर्ति-शब्देन देहः प्रस्तुतस् तच्-छब्देन परामृश्यते; देहान्तर-प्रतिपत्तौ। रंहति सम्परिष्वक्तः--- जीवो भूत-सूक्ष्मैः सम्परिष्वक्तो गच्छति। कुत। प्रश्न-निरूपणभ्यां पञ्चाग्नि-विद्यान्तर्गत-प्रश्न-प्रतिवचनाभ्यां तथावगम्यत इत्य् अर्थः॥१॥

Link copied

कथम् अविशेषेणाप्-शब्देन सर्वेषाम् अभिधानम् इत्य् आशङ्क्याह---

Link copied

२८९। त्र्य्-आत्मकत्वात् तु भूयस्त्वात्॥३।१।२॥

Link copied

तु-शब्दः शङ्का-निवृत्त्य्-अर्थः। अपां त्रिवृत्-करणेन व्यात्मकत्वाद् आप इति भूतान्तर-संसृष्टा अपोऽभिधीयन्ते; अपां भूयस्त्वाद् आधिक्याद् अप्-शब्देनाभिधानम्॥२॥

Link copied

२९०। प्राण-गतेश् च॥३।१।३॥

Link copied

इतश् च भूत-सूक्ष्मैः संयुक्तो याति। तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति, इति प्राणानाम् इन्द्रियाणां जीवेन सह गमन-श्रुतेर् इन्द्रियाणां देहाश्रयत्वेन देहोऽपि भूत-सूक्ष्म-रूपेण गच्छतीति गम्यते। स्मर्यते च--- मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति, इत्य् आदिना॥३॥

Link copied

२९१। अग्न्य्-आदि-गति-श्रुतेर् इति चेन् न भाक्तत्वात्॥३।१।४॥

Link copied

यत्रास्य पुरुषस्य मृतस्याग्निं वाग् अप्य् एति वातं प्राणश् चक्षुर् आदित्यम् इति मरण-वेलायां वाग्-आदीनाम् अग्न्य्-आदिष्व् अप्यय-श्रुतेर् जीवेन सह गमन-श्रुतिर् अन्यथा नेयेति चेत्; तन् न, भाक्तत्वात् तत्रा वाग्-आदि-शब्दानाम्। वाग्-आद्य्-अभिमानि-देवतासु हि तत्र वाग्-आदयः शब्दाः; ओषधीर् लोमानि वनस्पतीन् केशाः, इत्य् अनपियद्भिर् लोमादिभिः सहपाठात्॥४॥

Link copied

२९२। प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः॥३।१।५॥

Link copied

प्रथमे--- द्यु-लोकाग्निहोमे अपाम् अश्रवणाद् आपो भूतान्तर-संसृष्टा गच्छन्तीति वक्तुं न शक्यते; तत्र हि--- तस्मिन्न् एतस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति, इति श्रद्धैव होम्यत्वेन श्रूयत इति चेन् न, ताः--- आप एव हि श्रद्धा-शब्देनोच्यन्ते, प्रतिवचनस्य प्रश्नानुगुण्योपपत्तेः। वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति, इत्य् अपां पुरुष-वचस्त्व-प्रकारे पृष्टे स एव हि प्रतिवक्तव्यः; अतः श्रद्धा-शब्देन ता आप एवोच्यन्ते। श्रद्धा वा आपः, इति श्रूयते॥५॥

Link copied

२९३। अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः॥३।१।६॥

Link copied

आपः पुरुष-वचसो भवन्ति, श्रद्धां जुह्वति, इति द्युलो-कादिष्व् आप एव हि गच्छन्तीति श्रूयते; न तत्-परिष्वक्तो जीवः। अतः प्रश्न-प्रतिवचनयोर् जीवस्याश्रुतत्वात् तत्-संयुक्तो जीवो गच्छतीति न शक्यते वक्तुम् इति चेत् तन् न, इष्टादि-कारिणां प्रतीतेः--- उत्तरत्र, अथ य इमे ग्रामे इष्टापूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति, इत्य् आदौ इष्टादि-कारिणां जीवानां द्यु-लोकादि-गमन-पुनर्-आवृत्ति-प्रकार-वचने द्यु-लोकाग्नि-सम्बन्धस्याप्-शब्द-वाच्यस्य सोमम् आपन्नस्य प्रत्यभिज्ञानाद् अत्राप इति तत्-संयुक्तो जीव एवोच्यते॥६॥

Link copied

आकाशाच् चन्द्रमसम् एष सोमो राजा तद् देवानाम् अन्नं तं देवा भक्षयन्ति, इति धूमादिना गतस्य देवैर् भक्ष्यमाणत्व-श्रवणात्, जीवस्यानदनीयत्वाच् च न जीवस् तत्रोक्त इत्य् आशङ्क्याह---

Link copied

२९४। भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति॥३।१।७॥

Link copied

वा-शब्दः शङ्का-व्यावृत्त्य्-अर्थः। तं देवा भक्षयन्ति, इति भक्ष्यत्व-वचनं भाक्तम्--- केवलेष्टादि-कारिणाम् अनात्मवित्त्वाद् देवोपकरणत्वाभिप्रायम्। अनात्मविदः केवलेन्द्रादि-देव-याजिनो हि देवान् प्राप्य तद्-उपकरणं भवन्ति। तथा हि दर्शयति श्रुतिः--- यथा पशुर् एवं स देवानाम् इति। अतो भूत-सूक्ष्मैः सम्परिष्वक्तो जीवो रंहति॥७॥ इति तद्-अन्तर-प्रतिपत्त्य्-अधिकरणम्॥१॥

Link copied

२९५। कृतात्ययेऽनुशयवान् दृष्ट-स्मृतिभ्यां यथेतम् अनेवं च॥३।१।८॥

Link copied

धूमादिनां गतो निवर्तमानो जीवः सानुशयो निवर्तते, उत नेति संशयः। नेति पूर्वः पक्षः। अनुशयो हि भुक्त-शिष्टं कर्म। यावत् सम्पातम् उषित्वा, प्राप्यान्तं कर्मणः, इत्य् आदि श्रुतिभ्यः कृत्स्नस्य कर्मणोऽनुभूतता-प्रतीतेर् नानुशयवान् निवर्तते। राद्धान्तस् तु--- तद् य इह रमणीय-चरणा अभ्याशो ह यत् ते रमणीयां योनिम् आपद्येरन् ब्राह्मण-योनिं क्षत्रिय-योनिं वैश्य-योनिं वा अथ य इह कपूय-चरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरन् श्व-योनिं वा सूकर-योनिं वा चण्डाल-योनिं वा, इति रमणीय-चरणा ब्राह्मणादि-योनिं, कपूय-चरणाः--- कुत्सित-कर्माणः श्व-सूकरादि-योनिं प्रतिपद्यन्त इति श्रुतेः, प्राप्यान्तं कर्मणः, इत्य् आदि श्रुतिः फल-प्रदान-प्रवृत्त-कर्म-विषयेति सानुशयो निवर्तते। सूत्रार्थस् तु--- कृतात्यये, कृतस्य पूर्व-कर्मणोऽत्यये, अनुशयवान्--- भुक्त-शिष्ट-कर्मवान् निवर्तते। कुतः। दृष्ट-स्मृतिभ्याम्--- श्रुति-स्मृतिभ्याम् अवगम्यते। तद् य इह रमणीय-चरणाः, इत्य् आदि श्रुतिः। ततः परिवृत्तौ कर्म-फल-शेषेण जातिं रूपम् इत्य् आदिका स्मृतिः, यथेतम् अनेवं च--- आरोहण-प्रकारेण प्रकारान्तरेण च निवर्तन्ते। चन्द्रमसः स्थानाद् आकाशम् इत्य् आरोहण-क्रमेणावरोहन्ति, वायु-धूमाभ्रादिना प्रकारान्तरेण च॥८॥

Link copied

२९६। चरणाद् इति चेन् न तद्-उपलक्षणार्थेति कार्ष्णाजिनिः॥३।१।९॥

Link copied

रमणीय-चरणाः, इति रमणीयाचारस्य स्मृति-विहितस्य ब्राह्मण्यादि-प्राप्ति-साधनत्व-श्रवणान् न स कर्मा प्रत्यवरोहतीति चेत् तन् न, चरण-श्रुतिः कर्मोपलक्षणार्थेति कार्ष्णाजिनिर् आचार्यो मन्यते, पुण्यस्यैव कर्मणः सुख-प्राप्ति-साधनत्वात्॥९॥

Link copied

२९७। आनर्थक्यम् इति चेन् न तद्-उपेक्षत्वात्॥३।१।१०॥

Link copied

स्मृति-विहितस्याचारस्याकिञ्चित्करत्वेनानर्थक्यं प्रसज्यत इति चेन् न, तद्-अपेक्षत्वात्--- आचारापेक्षत्वात् सुख-साधन-भूत-पुण्य-कर्मणः; सन्ध्या-हीनोऽशुचिर् नित्यम् अनर्हः सर्व-कर्मसु, इति सर्वं हि पुण्य-कर्माचारापेक्षम् एवेति कार्ष्णाजिनेर् मतम्॥१०॥

Link copied

२९८। सुकृत-दुष्कृते एवेति तु बादरिः॥३।१।११॥

Link copied

तु-शब्दः पूर्व-मत-व्यावृत्त्य्-अर्थः; रमणीय-चरणाः कपूयचरणाः, इति चरण-शब्देन सुकृत-दुष्कृते एव कर्मणी प्रतिपाद्यते; पुण्यं कर्माचरतीति चरतेः कर्मणि प्रसिद्धेः, न लक्षणा न्याय्येति बादरिर् मन्यते। इदम् एव सूत्र-काराभिप्रेतम्, तु-शब्देन पूर्व-मताद् व्यावृत्तेः सुकृत-दुष्कृते एवेति व्यावर्तनात्। आनर्थक्यम् इति चेन् न तद्-अपेक्षत्वाद् इति तु स्वीकृतम्॥११॥ इति कृतात्ययाधिकरणम्॥२॥

Link copied

२९९। अनिष्टादि-कारिणाम् अपि च श्रुतम्॥३।१।१२॥

Link copied

विहिताकरण-प्रतिषिद्ध-सेवा-रताः पाप-कर्माणोऽपि धूमादिना चन्द्रमसं गत्वा निवर्तन्ते, उत नेति संशयः। गत्वैव निवर्तन्त इति पूर्वः पक्षः, ये वै के चास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वे गच्छन्तीति सर्वेषाम् अविशेषेण चन्द्रगमन-श्रुतेः। राद्धान्तस् तु--- अथ य इमे ग्रामे इष्टापूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्तीति धूमादिना चन्द्रगमनस्य पुण्य-कर्म-फलत्व-श्रवणात् तद्-रहिताः पाप-कर्माणो न गच्छन्तीति। ये वै के चेति वचनं सर्वेषां पुण्य-कर्मणां चन्द्र-गमन-विषयम्। सूत्रार्थस् तु--- अनिष्टादि-कारिणाम् अपि च श्रुतम्, अनिष्टादि-कारिणाम् अपि--- इष्टापूर्ताद्य् अकुर्वतां पापिनाम् अपि चन्द्र-गमनम् अस्ति, ये वै के चास्माल् लोकात् प्रयन्तीति यतोऽविशेषेण श्रुतम्॥१२॥

Link copied

३००। संयमने त्व् अनुभूयेतरेषाम् आरोहावरोहौ तद्-गति-दर्शनात्॥३।१।१३॥

Link copied

इयांस् तु विशेषः संयमने--- यम-शासने पाप-फलम् अनुभूय इतरेषां पापिनां चन्द्रारोहावरोहौ। कुतः। तद्-गति-दर्शनात्--- पापिनां यम-सदन-गति-दर्शनात्, वैवस्वतं सङ्गमनं जनानाम् इत्य् आदौ॥१३॥

Link copied

३०१। स्मरन्ति च॥३।१।१४॥

Link copied

सर्वे चैते वशं यान्ति यमस्य भगवन् किल, इति पराशरादयः स्मरन्ति च॥१४॥

Link copied

३०२। अपि सप्त॥३।१।१५॥

Link copied

सप्तापि--- पाप-कर्मणां गन्तव्यत्वेन सप्तापि रौरवादि-नरकान् स्मरन्ति॥१५॥

Link copied

ननु सप्तसु लोकेषु गच्छतां कथं यम-सदन-प्राप्तिः। तत्राह---

Link copied

३०३। तत्रापि तद्-व्यापाराद् अविरोधः॥३।१।१६॥

Link copied

तेष्व् अपि सप्तसु रौरवादिलोकेषु तद्-व्यापारात्--- यमाज्ञयैव गमनाद् अविरोधः। अतोऽनिष्टादि-कारिणाम् अपि यम-लोकं प्राप्य यमयातनाश्वानुभूय पश्चाच् चन्द्रारोहावरोहौ भवतः॥१६॥

Link copied

इति प्राप्त उच्यते---

Link copied

३०४। विश्वाकर्मणोर् इति तु प्रकृतत्वात्॥३।१।१७॥

Link copied

तु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। न च पाप-कर्मणाम् अर्चिर्-आदिना ब्रह्म-गमनं, धूमादिना चन्द्र-गमनं च सम्भवति, तयोर् विद्या-कर्मणोः फलत्वात्। कथम् इदम् अवगम्यते तत्-फलत्वम्। इति प्रकृतत्वात्--- इत्थं प्रकृतत्वात्। विद्या-कर्मणी हि प्रकृत्य तत्-फलत्वेन गति-द्वयं प्रतिपाद्यते, तद् य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्तीति, अथ य इमे ग्राम इष्टापूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्तीति च। पापिनां विद्या-रहितत्वेन ब्रह्म-गमनाभाववत् पुण्य-कर्म-रहितत्वेन चन्द्र-गमनम् अपि न सम्भवतीत्य् अर्थः॥१७॥

Link copied

पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्तीति पञ्चमाहुत्या देहारम्भ-श्रवणात् तस्याश् चन्द्र-गमन-पूर्वकत्वेन पापिनाम् अपि देहारम्भाय चन्द्र-गमनम् अवश्यम्भावीत्य् आशङ्क्याह---

Link copied

३०५। न तृतीये तथोपलब्धेः॥३।१।१८॥

Link copied

केवल-पाप-कर्माणः। तृतीय-स्थानम्, न तृतीये स्थाने देहारम्भाय पञ्चमाहुत्य्-अपेक्षास्ति; तथोपलब्धेः--- वेत्थ यथा केनासौ लोको न सम्पूर्यते, इति द्यु-लोकस्याप्राप्ता क इति प्रश्नस्य प्रतिवचने, अथैतयोः पथोर् न कतरेण च तानीमानि क्षुद्राण्य् असकृद्-आवर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्य् एतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते, इति तृतीयस्य स्थानस्य द्यु-लोकाप्राप्ति-श्रवणात् तस्य देहारम्भे पञ्चमाहुत्य्-अनपेक्षत्वं ह्य् उपलभ्यते॥१८॥

Link copied

३०६। स्मर्यतेऽपि च लोके॥३।१।१९॥

Link copied

पुण्य-कर्मणाम् अपि केषाञ्चिद् द्रौपद्य्-आदीनां देहारम्भे पञ्चमाहुत्य्-अनपेक्षत्वं शिष्ट-लोकेऽपि च स्मर्यते॥१९॥

Link copied

३०७। दर्शनाच् च॥३।१।२०॥

Link copied

श्रुताव् अपि दृश्यते केषाञ्चिद् देहारम्भे पञ्चमाहुत्य्-अनपेक्षत्वं--- तेषां खल्व् एषां भूतानां त्रीण्य् एव बीजानि भवन्त्य् आण्डजं जीवजम् उद्भिज्जम् इति स्वेदजोद्भिज्जयोर् देहारम्भे पञ्चमाहुत्य्-अनपेक्षत्वम्। आण्डजं जीवजम् उद्भिज्जम् इत्य् अत्र स्वेदजस्य ग्रहणं न दृश्यत इत्य् आशङ्क्याह---

Link copied

३०८। तृतीय-शब्दावरोधः संशोकजस्य॥३।१।२१॥

Link copied

आण्डजं जीवजम् उद्भिज्जम् इत्य् अत्र तृतीयेनोद्भिज्ज-शब्देन संशोकजस्य स्वेदजस्य अवरोधः--- सङ्ग्रह इत्य् अर्थः। अतः केवल-पाप-कर्मणां चन्द्रारोहावरोहौ न सम्भवतः॥२१॥ इत्य् अनिष्टादि-कार्य्-अधिकरणम्॥३॥

Link copied

३०९। तत्-स्वाभाव्यापत्तिर् उपपत्तेः॥३।१।२२॥

Link copied

धूमादिना चन्द्रमसं प्राप्तस्य प्रत्यवरोह-प्रकार आम्नायते--- यथेतम् आकाशम् आकाशाद् वायुं वायुर् भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्य् अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति, इति। अत्राकाशादि-भावः, किं देव-मनुष्यादि-भाववद् आकाशादि-शरीरत्वम्, उत तत्-सादृश्यापत्तिर् इति संशयः। आकाशादि-शरीरत्वम् इति पूर्वः पक्षः, श्रद्धावस्थस्य सोमराज-भाववत् तत्र तच्-छरीरत्वम् एवोच्यते। राद्धान्तस् तु--- आकाशादि-प्राप्तौ सुख-दुःखानुभवाभावात् तत्-सादृश्यापत्तिर् एव। सुख-दुःखानुभवाय हि सोमादि-शरीरत्वम्। सूत्रार्थस् तु--- तत्-स्वाभाव्यापत्तिः, आकाशादि-सादृश्यापत्तिः, उपपत्तेः--- सुख-दुःखानुभवाभावोपपत्तेः॥२२॥

Link copied

३१०। नातिचिरेण विशेषात्॥३।१।२३॥

Link copied

आकाश-वायु-धूमाभ्र-मेघ-वर्ष-प्राप्तौ किं तत्र तत्र नातिचिरं तिष्ठति, उतानियम इति संशयः। अनियम इति पूर्वः पक्षः, नातिचिरेणेति विशेष-वचनाभावात्। राद्धान्तस् तु--- उत्तरत्र व्रीह्य्-आदि-भावे, अतो वै खलु दुर्निष्प्रपतरम् इति विशिष्य चिरेण गमन-वचनं ततः प्राचीनेष्व् अचिर-गमनं द्योतयतीत्य् आकाशादि यावद्-व्रीह्य्-आदि-भाव-प्राप्ति नातिचिरं तिष्ठतीति। सूत्रम् अपि व्याख्यातम्॥२३॥ इति नातिचिराधिकरणम्॥५॥

Link copied

३११। अन्याधिष्टिते पूर्ववद् अभिलापात्॥३।१।२४॥

Link copied

अवरोहन्तो जीवा व्रीह्य्-आदि-भावेन जायन्त इति श्रूयते--- मेघो भूत्वा प्रवर्षति त इह व्रीहि-यवा ओषधि-वनस्पतयस् तिल-माषा इति जायन्ते, इति। ते किं व्रीह्य्-आदि-शरीरा जायन्ते, उतान्यैः क्षेत्रज्ञैर् व्रीह्यादि-शरीरैर् अधिष्ठितान् व्रीह्य्-आदीन् आश्लिष्यन्तीति संशयः। जायन्ते इति वचनाद् व्रीह्य्-आदि-शरीर-भोक्तारो जायन्त एवेति पूर्वः पक्षः। राद्धान्तस् तु--- व्रीह्य्-आदि-जन्म-हेतु-भूत-कर्म-विशेषाश्रवणाद् व्रीह्य्-आदि-संश्लेष-मात्रम् एव। जायन्ते इति जन्म-वचनम् औपचारिकम्। ब्राह्मणादि-शरीर-भावे हि--- रमणीय-चरणाः\॥॥ कपूयचरणाः, इति जन्म-हेतु-भूतं पुण्य-पाप-रूपं कर्म श्रूयते। सूत्रार्थस् तु--- अन्याधिष्ठिते--- अन्य-क्षेत्रज्ञाधिष्ठिते व्रीह्य्-आदौ, संश्लेष-मात्रम्। कुतः। पूर्ववद् अभिलापात्--- आकाशादि-भाववत् केवल-व्रीह्य्-आदि-भावाभिलापात्; जन्म-हेतु-भूत-कर्मानभिलापाद् इत्य् अर्थः॥२४॥

Link copied

३१२। अशुद्धम् इति चेन् न शब्दात्॥३।१।२५॥

Link copied

यद्य् अपि व्रीह्य्-आदि-भावेन जायन्त इत्य् अत्र जन्म-हेतु-भूतं कर्म न श्रुतम्; तथापि पूर्व-श्रुतम् इष्टादि-कर्माग्नीषोमीयादि-हिंसा-गर्भत्वेनाशुद्धम्। हिंसात्वेनाशुचि-व्रीह्य्-आदि-जन्मनोऽपि हेतुर् भवतीति चेन् न, अहिंसात्व-शब्दात् पशोर् हि संज्ञपनस्य स्वर्गावाप्ति-साधन-भाव-वादि-शब्दः श्रूयते--- हिरण्य-शरीर ऊर्ध्व-स्वर्गं लोकम् एति, न वा उ वै तन् म्रियसे न रिष्यसि, इत्य् आदिः॥२५॥

Link copied

३१३। रेतः-सिग्-योगोऽथ॥३।१।२६॥

Link copied

ततश् च व्रीह्य्-आदि-संश्लेष-मात्रम्, व्रीह्य्-आदि-भावानन्तरं रेतः-सिग्-योगः श्रूयते--- यो यो ह्य् अन्नम् अत्ति यो रेतः सिञ्चति तद् भूय एव भवति, इति। अत्र हि पुरुष-संश्लेष-मात्रम् एव श्रुतम्; एवम् एव व्रीह्य्-आदि-भावेऽपीत्य् अर्थः॥२६॥

Link copied

३१४। योनेः शरीरम्॥३।१।२७॥

Link copied

योनि-प्राप्तेः पश्चाद् एवावरोहतो जीवस्य शरीर-प्राप्तिः, तत्रैव सुख-दुःखोपभोगात्। ततः प्राग्-आकाशादिषु तत्-तत्-संश्लेष-मात्रम् एवेत्य् अभिप्रायः॥२७॥ इत्य् अन्याधिष्ठिताधिकरणम्॥६॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे तृतीयस्याध्यायस्य प्रथमः पादः॥

Link copied
Join our community