Vedanta Dipa · Section 10 of 17
||atha thruthi:ya:dhya:ye: prathamah pa:dah||
Original Sanskrit · click to toggle
२८८। तद्-अन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्न-निरूपणाभ्याम्॥३।१।१॥
Link copiedदेही देहान्तर-गमने देह-कारण-भूतैर् भूत-सूक्ष्मैः संयुक्तो गच्छति, नेति संशयः। न संयुक्तो गच्छतीति पूर्वः पक्षः, देहारम्भाय तत्र तत्र भूत-सूक्ष्माणां सुलभत्वात्। राद्धान्तस् तु--- पञ्चाग्नि-विद्यायां, वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति, इति तु पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति, इति प्रश्न-प्रतिवचने आम्नायेते। देहारम्भिका आपस् त्रिवृत्-करणेन भूतान्तर-संसृष्टाः द्यु-लोक-पर्जन्य-पृथिवी-पुरुष-रूपाग्निषु जीवेन सह प्रविष्टाः पञ्चम्याम् आहुतौ योषिद्-अग्नि-प्रवेश-वेलायां पुरुष-शब्दाभिलपनीया भवन्तीति प्रतीयते; पुरुषाकारतां भजन्त इत्य् अर्थः। अतो भूत-सूक्ष्मैः सम्परिष्वक्त एव गच्छतीति। सूत्रार्थं तु--- तद्-अन्तर-प्रतिपत्तौ, संज्ञा-मूर्ति-कॢप्तिर् इत्य् अत्र मूर्ति-शब्देन देहः प्रस्तुतस् तच्-छब्देन परामृश्यते; देहान्तर-प्रतिपत्तौ। रंहति सम्परिष्वक्तः--- जीवो भूत-सूक्ष्मैः सम्परिष्वक्तो गच्छति। कुत। प्रश्न-निरूपणभ्यां पञ्चाग्नि-विद्यान्तर्गत-प्रश्न-प्रतिवचनाभ्यां तथावगम्यत इत्य् अर्थः॥१॥
Link copiedकथम् अविशेषेणाप्-शब्देन सर्वेषाम् अभिधानम् इत्य् आशङ्क्याह---
Link copied२८९। त्र्य्-आत्मकत्वात् तु भूयस्त्वात्॥३।१।२॥
Link copiedतु-शब्दः शङ्का-निवृत्त्य्-अर्थः। अपां त्रिवृत्-करणेन व्यात्मकत्वाद् आप इति भूतान्तर-संसृष्टा अपोऽभिधीयन्ते; अपां भूयस्त्वाद् आधिक्याद् अप्-शब्देनाभिधानम्॥२॥
Link copied२९०। प्राण-गतेश् च॥३।१।३॥
Link copiedइतश् च भूत-सूक्ष्मैः संयुक्तो याति। तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति, इति प्राणानाम् इन्द्रियाणां जीवेन सह गमन-श्रुतेर् इन्द्रियाणां देहाश्रयत्वेन देहोऽपि भूत-सूक्ष्म-रूपेण गच्छतीति गम्यते। स्मर्यते च--- मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति, इत्य् आदिना॥३॥
Link copied२९१। अग्न्य्-आदि-गति-श्रुतेर् इति चेन् न भाक्तत्वात्॥३।१।४॥
Link copiedयत्रास्य पुरुषस्य मृतस्याग्निं वाग् अप्य् एति वातं प्राणश् चक्षुर् आदित्यम् इति मरण-वेलायां वाग्-आदीनाम् अग्न्य्-आदिष्व् अप्यय-श्रुतेर् जीवेन सह गमन-श्रुतिर् अन्यथा नेयेति चेत्; तन् न, भाक्तत्वात् तत्रा वाग्-आदि-शब्दानाम्। वाग्-आद्य्-अभिमानि-देवतासु हि तत्र वाग्-आदयः शब्दाः; ओषधीर् लोमानि वनस्पतीन् केशाः, इत्य् अनपियद्भिर् लोमादिभिः सहपाठात्॥४॥
Link copied२९२। प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः॥३।१।५॥
Link copiedप्रथमे--- द्यु-लोकाग्निहोमे अपाम् अश्रवणाद् आपो भूतान्तर-संसृष्टा गच्छन्तीति वक्तुं न शक्यते; तत्र हि--- तस्मिन्न् एतस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति, इति श्रद्धैव होम्यत्वेन श्रूयत इति चेन् न, ताः--- आप एव हि श्रद्धा-शब्देनोच्यन्ते, प्रतिवचनस्य प्रश्नानुगुण्योपपत्तेः। वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति, इत्य् अपां पुरुष-वचस्त्व-प्रकारे पृष्टे स एव हि प्रतिवक्तव्यः; अतः श्रद्धा-शब्देन ता आप एवोच्यन्ते। श्रद्धा वा आपः, इति श्रूयते॥५॥
Link copied२९३। अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः॥३।१।६॥
Link copiedआपः पुरुष-वचसो भवन्ति, श्रद्धां जुह्वति, इति द्युलो-कादिष्व् आप एव हि गच्छन्तीति श्रूयते; न तत्-परिष्वक्तो जीवः। अतः प्रश्न-प्रतिवचनयोर् जीवस्याश्रुतत्वात् तत्-संयुक्तो जीवो गच्छतीति न शक्यते वक्तुम् इति चेत् तन् न, इष्टादि-कारिणां प्रतीतेः--- उत्तरत्र, अथ य इमे ग्रामे इष्टापूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति, इत्य् आदौ इष्टादि-कारिणां जीवानां द्यु-लोकादि-गमन-पुनर्-आवृत्ति-प्रकार-वचने द्यु-लोकाग्नि-सम्बन्धस्याप्-शब्द-वाच्यस्य सोमम् आपन्नस्य प्रत्यभिज्ञानाद् अत्राप इति तत्-संयुक्तो जीव एवोच्यते॥६॥
Link copiedआकाशाच् चन्द्रमसम् एष सोमो राजा तद् देवानाम् अन्नं तं देवा भक्षयन्ति, इति धूमादिना गतस्य देवैर् भक्ष्यमाणत्व-श्रवणात्, जीवस्यानदनीयत्वाच् च न जीवस् तत्रोक्त इत्य् आशङ्क्याह---
Link copied२९४। भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति॥३।१।७॥
Link copiedवा-शब्दः शङ्का-व्यावृत्त्य्-अर्थः। तं देवा भक्षयन्ति, इति भक्ष्यत्व-वचनं भाक्तम्--- केवलेष्टादि-कारिणाम् अनात्मवित्त्वाद् देवोपकरणत्वाभिप्रायम्। अनात्मविदः केवलेन्द्रादि-देव-याजिनो हि देवान् प्राप्य तद्-उपकरणं भवन्ति। तथा हि दर्शयति श्रुतिः--- यथा पशुर् एवं स देवानाम् इति। अतो भूत-सूक्ष्मैः सम्परिष्वक्तो जीवो रंहति॥७॥ इति तद्-अन्तर-प्रतिपत्त्य्-अधिकरणम्॥१॥
Link copied२९५। कृतात्ययेऽनुशयवान् दृष्ट-स्मृतिभ्यां यथेतम् अनेवं च॥३।१।८॥
Link copiedधूमादिनां गतो निवर्तमानो जीवः सानुशयो निवर्तते, उत नेति संशयः। नेति पूर्वः पक्षः। अनुशयो हि भुक्त-शिष्टं कर्म। यावत् सम्पातम् उषित्वा, प्राप्यान्तं कर्मणः, इत्य् आदि श्रुतिभ्यः कृत्स्नस्य कर्मणोऽनुभूतता-प्रतीतेर् नानुशयवान् निवर्तते। राद्धान्तस् तु--- तद् य इह रमणीय-चरणा अभ्याशो ह यत् ते रमणीयां योनिम् आपद्येरन् ब्राह्मण-योनिं क्षत्रिय-योनिं वैश्य-योनिं वा अथ य इह कपूय-चरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरन् श्व-योनिं वा सूकर-योनिं वा चण्डाल-योनिं वा, इति रमणीय-चरणा ब्राह्मणादि-योनिं, कपूय-चरणाः--- कुत्सित-कर्माणः श्व-सूकरादि-योनिं प्रतिपद्यन्त इति श्रुतेः, प्राप्यान्तं कर्मणः, इत्य् आदि श्रुतिः फल-प्रदान-प्रवृत्त-कर्म-विषयेति सानुशयो निवर्तते। सूत्रार्थस् तु--- कृतात्यये, कृतस्य पूर्व-कर्मणोऽत्यये, अनुशयवान्--- भुक्त-शिष्ट-कर्मवान् निवर्तते। कुतः। दृष्ट-स्मृतिभ्याम्--- श्रुति-स्मृतिभ्याम् अवगम्यते। तद् य इह रमणीय-चरणाः, इत्य् आदि श्रुतिः। ततः परिवृत्तौ कर्म-फल-शेषेण जातिं रूपम् इत्य् आदिका स्मृतिः, यथेतम् अनेवं च--- आरोहण-प्रकारेण प्रकारान्तरेण च निवर्तन्ते। चन्द्रमसः स्थानाद् आकाशम् इत्य् आरोहण-क्रमेणावरोहन्ति, वायु-धूमाभ्रादिना प्रकारान्तरेण च॥८॥
Link copied२९६। चरणाद् इति चेन् न तद्-उपलक्षणार्थेति कार्ष्णाजिनिः॥३।१।९॥
Link copiedरमणीय-चरणाः, इति रमणीयाचारस्य स्मृति-विहितस्य ब्राह्मण्यादि-प्राप्ति-साधनत्व-श्रवणान् न स कर्मा प्रत्यवरोहतीति चेत् तन् न, चरण-श्रुतिः कर्मोपलक्षणार्थेति कार्ष्णाजिनिर् आचार्यो मन्यते, पुण्यस्यैव कर्मणः सुख-प्राप्ति-साधनत्वात्॥९॥
Link copied२९७। आनर्थक्यम् इति चेन् न तद्-उपेक्षत्वात्॥३।१।१०॥
Link copiedस्मृति-विहितस्याचारस्याकिञ्चित्करत्वेनानर्थक्यं प्रसज्यत इति चेन् न, तद्-अपेक्षत्वात्--- आचारापेक्षत्वात् सुख-साधन-भूत-पुण्य-कर्मणः; सन्ध्या-हीनोऽशुचिर् नित्यम् अनर्हः सर्व-कर्मसु, इति सर्वं हि पुण्य-कर्माचारापेक्षम् एवेति कार्ष्णाजिनेर् मतम्॥१०॥
Link copied२९८। सुकृत-दुष्कृते एवेति तु बादरिः॥३।१।११॥
Link copiedतु-शब्दः पूर्व-मत-व्यावृत्त्य्-अर्थः; रमणीय-चरणाः कपूयचरणाः, इति चरण-शब्देन सुकृत-दुष्कृते एव कर्मणी प्रतिपाद्यते; पुण्यं कर्माचरतीति चरतेः कर्मणि प्रसिद्धेः, न लक्षणा न्याय्येति बादरिर् मन्यते। इदम् एव सूत्र-काराभिप्रेतम्, तु-शब्देन पूर्व-मताद् व्यावृत्तेः सुकृत-दुष्कृते एवेति व्यावर्तनात्। आनर्थक्यम् इति चेन् न तद्-अपेक्षत्वाद् इति तु स्वीकृतम्॥११॥ इति कृतात्ययाधिकरणम्॥२॥
Link copied२९९। अनिष्टादि-कारिणाम् अपि च श्रुतम्॥३।१।१२॥
Link copiedविहिताकरण-प्रतिषिद्ध-सेवा-रताः पाप-कर्माणोऽपि धूमादिना चन्द्रमसं गत्वा निवर्तन्ते, उत नेति संशयः। गत्वैव निवर्तन्त इति पूर्वः पक्षः, ये वै के चास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वे गच्छन्तीति सर्वेषाम् अविशेषेण चन्द्रगमन-श्रुतेः। राद्धान्तस् तु--- अथ य इमे ग्रामे इष्टापूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्तीति धूमादिना चन्द्रगमनस्य पुण्य-कर्म-फलत्व-श्रवणात् तद्-रहिताः पाप-कर्माणो न गच्छन्तीति। ये वै के चेति वचनं सर्वेषां पुण्य-कर्मणां चन्द्र-गमन-विषयम्। सूत्रार्थस् तु--- अनिष्टादि-कारिणाम् अपि च श्रुतम्, अनिष्टादि-कारिणाम् अपि--- इष्टापूर्ताद्य् अकुर्वतां पापिनाम् अपि चन्द्र-गमनम् अस्ति, ये वै के चास्माल् लोकात् प्रयन्तीति यतोऽविशेषेण श्रुतम्॥१२॥
Link copied३००। संयमने त्व् अनुभूयेतरेषाम् आरोहावरोहौ तद्-गति-दर्शनात्॥३।१।१३॥
Link copiedइयांस् तु विशेषः संयमने--- यम-शासने पाप-फलम् अनुभूय इतरेषां पापिनां चन्द्रारोहावरोहौ। कुतः। तद्-गति-दर्शनात्--- पापिनां यम-सदन-गति-दर्शनात्, वैवस्वतं सङ्गमनं जनानाम् इत्य् आदौ॥१३॥
Link copied३०१। स्मरन्ति च॥३।१।१४॥
Link copiedसर्वे चैते वशं यान्ति यमस्य भगवन् किल, इति पराशरादयः स्मरन्ति च॥१४॥
Link copied३०२। अपि सप्त॥३।१।१५॥
Link copiedसप्तापि--- पाप-कर्मणां गन्तव्यत्वेन सप्तापि रौरवादि-नरकान् स्मरन्ति॥१५॥
Link copiedननु सप्तसु लोकेषु गच्छतां कथं यम-सदन-प्राप्तिः। तत्राह---
Link copied३०३। तत्रापि तद्-व्यापाराद् अविरोधः॥३।१।१६॥
Link copiedतेष्व् अपि सप्तसु रौरवादिलोकेषु तद्-व्यापारात्--- यमाज्ञयैव गमनाद् अविरोधः। अतोऽनिष्टादि-कारिणाम् अपि यम-लोकं प्राप्य यमयातनाश्वानुभूय पश्चाच् चन्द्रारोहावरोहौ भवतः॥१६॥
Link copiedइति प्राप्त उच्यते---
Link copied३०४। विश्वाकर्मणोर् इति तु प्रकृतत्वात्॥३।१।१७॥
Link copiedतु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। न च पाप-कर्मणाम् अर्चिर्-आदिना ब्रह्म-गमनं, धूमादिना चन्द्र-गमनं च सम्भवति, तयोर् विद्या-कर्मणोः फलत्वात्। कथम् इदम् अवगम्यते तत्-फलत्वम्। इति प्रकृतत्वात्--- इत्थं प्रकृतत्वात्। विद्या-कर्मणी हि प्रकृत्य तत्-फलत्वेन गति-द्वयं प्रतिपाद्यते, तद् य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्तीति, अथ य इमे ग्राम इष्टापूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्तीति च। पापिनां विद्या-रहितत्वेन ब्रह्म-गमनाभाववत् पुण्य-कर्म-रहितत्वेन चन्द्र-गमनम् अपि न सम्भवतीत्य् अर्थः॥१७॥
Link copiedपञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्तीति पञ्चमाहुत्या देहारम्भ-श्रवणात् तस्याश् चन्द्र-गमन-पूर्वकत्वेन पापिनाम् अपि देहारम्भाय चन्द्र-गमनम् अवश्यम्भावीत्य् आशङ्क्याह---
Link copied३०५। न तृतीये तथोपलब्धेः॥३।१।१८॥
Link copiedकेवल-पाप-कर्माणः। तृतीय-स्थानम्, न तृतीये स्थाने देहारम्भाय पञ्चमाहुत्य्-अपेक्षास्ति; तथोपलब्धेः--- वेत्थ यथा केनासौ लोको न सम्पूर्यते, इति द्यु-लोकस्याप्राप्ता क इति प्रश्नस्य प्रतिवचने, अथैतयोः पथोर् न कतरेण च तानीमानि क्षुद्राण्य् असकृद्-आवर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्य् एतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते, इति तृतीयस्य स्थानस्य द्यु-लोकाप्राप्ति-श्रवणात् तस्य देहारम्भे पञ्चमाहुत्य्-अनपेक्षत्वं ह्य् उपलभ्यते॥१८॥
Link copied३०६। स्मर्यतेऽपि च लोके॥३।१।१९॥
Link copiedपुण्य-कर्मणाम् अपि केषाञ्चिद् द्रौपद्य्-आदीनां देहारम्भे पञ्चमाहुत्य्-अनपेक्षत्वं शिष्ट-लोकेऽपि च स्मर्यते॥१९॥
Link copied३०७। दर्शनाच् च॥३।१।२०॥
Link copiedश्रुताव् अपि दृश्यते केषाञ्चिद् देहारम्भे पञ्चमाहुत्य्-अनपेक्षत्वं--- तेषां खल्व् एषां भूतानां त्रीण्य् एव बीजानि भवन्त्य् आण्डजं जीवजम् उद्भिज्जम् इति स्वेदजोद्भिज्जयोर् देहारम्भे पञ्चमाहुत्य्-अनपेक्षत्वम्। आण्डजं जीवजम् उद्भिज्जम् इत्य् अत्र स्वेदजस्य ग्रहणं न दृश्यत इत्य् आशङ्क्याह---
Link copied३०८। तृतीय-शब्दावरोधः संशोकजस्य॥३।१।२१॥
Link copiedआण्डजं जीवजम् उद्भिज्जम् इत्य् अत्र तृतीयेनोद्भिज्ज-शब्देन संशोकजस्य स्वेदजस्य अवरोधः--- सङ्ग्रह इत्य् अर्थः। अतः केवल-पाप-कर्मणां चन्द्रारोहावरोहौ न सम्भवतः॥२१॥ इत्य् अनिष्टादि-कार्य्-अधिकरणम्॥३॥
Link copied३०९। तत्-स्वाभाव्यापत्तिर् उपपत्तेः॥३।१।२२॥
Link copiedधूमादिना चन्द्रमसं प्राप्तस्य प्रत्यवरोह-प्रकार आम्नायते--- यथेतम् आकाशम् आकाशाद् वायुं वायुर् भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्य् अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति, इति। अत्राकाशादि-भावः, किं देव-मनुष्यादि-भाववद् आकाशादि-शरीरत्वम्, उत तत्-सादृश्यापत्तिर् इति संशयः। आकाशादि-शरीरत्वम् इति पूर्वः पक्षः, श्रद्धावस्थस्य सोमराज-भाववत् तत्र तच्-छरीरत्वम् एवोच्यते। राद्धान्तस् तु--- आकाशादि-प्राप्तौ सुख-दुःखानुभवाभावात् तत्-सादृश्यापत्तिर् एव। सुख-दुःखानुभवाय हि सोमादि-शरीरत्वम्। सूत्रार्थस् तु--- तत्-स्वाभाव्यापत्तिः, आकाशादि-सादृश्यापत्तिः, उपपत्तेः--- सुख-दुःखानुभवाभावोपपत्तेः॥२२॥
Link copied३१०। नातिचिरेण विशेषात्॥३।१।२३॥
Link copiedआकाश-वायु-धूमाभ्र-मेघ-वर्ष-प्राप्तौ किं तत्र तत्र नातिचिरं तिष्ठति, उतानियम इति संशयः। अनियम इति पूर्वः पक्षः, नातिचिरेणेति विशेष-वचनाभावात्। राद्धान्तस् तु--- उत्तरत्र व्रीह्य्-आदि-भावे, अतो वै खलु दुर्निष्प्रपतरम् इति विशिष्य चिरेण गमन-वचनं ततः प्राचीनेष्व् अचिर-गमनं द्योतयतीत्य् आकाशादि यावद्-व्रीह्य्-आदि-भाव-प्राप्ति नातिचिरं तिष्ठतीति। सूत्रम् अपि व्याख्यातम्॥२३॥ इति नातिचिराधिकरणम्॥५॥
Link copied३११। अन्याधिष्टिते पूर्ववद् अभिलापात्॥३।१।२४॥
Link copiedअवरोहन्तो जीवा व्रीह्य्-आदि-भावेन जायन्त इति श्रूयते--- मेघो भूत्वा प्रवर्षति त इह व्रीहि-यवा ओषधि-वनस्पतयस् तिल-माषा इति जायन्ते, इति। ते किं व्रीह्य्-आदि-शरीरा जायन्ते, उतान्यैः क्षेत्रज्ञैर् व्रीह्यादि-शरीरैर् अधिष्ठितान् व्रीह्य्-आदीन् आश्लिष्यन्तीति संशयः। जायन्ते इति वचनाद् व्रीह्य्-आदि-शरीर-भोक्तारो जायन्त एवेति पूर्वः पक्षः। राद्धान्तस् तु--- व्रीह्य्-आदि-जन्म-हेतु-भूत-कर्म-विशेषाश्रवणाद् व्रीह्य्-आदि-संश्लेष-मात्रम् एव। जायन्ते इति जन्म-वचनम् औपचारिकम्। ब्राह्मणादि-शरीर-भावे हि--- रमणीय-चरणाः\॥॥ कपूयचरणाः, इति जन्म-हेतु-भूतं पुण्य-पाप-रूपं कर्म श्रूयते। सूत्रार्थस् तु--- अन्याधिष्ठिते--- अन्य-क्षेत्रज्ञाधिष्ठिते व्रीह्य्-आदौ, संश्लेष-मात्रम्। कुतः। पूर्ववद् अभिलापात्--- आकाशादि-भाववत् केवल-व्रीह्य्-आदि-भावाभिलापात्; जन्म-हेतु-भूत-कर्मानभिलापाद् इत्य् अर्थः॥२४॥
Link copied३१२। अशुद्धम् इति चेन् न शब्दात्॥३।१।२५॥
Link copiedयद्य् अपि व्रीह्य्-आदि-भावेन जायन्त इत्य् अत्र जन्म-हेतु-भूतं कर्म न श्रुतम्; तथापि पूर्व-श्रुतम् इष्टादि-कर्माग्नीषोमीयादि-हिंसा-गर्भत्वेनाशुद्धम्। हिंसात्वेनाशुचि-व्रीह्य्-आदि-जन्मनोऽपि हेतुर् भवतीति चेन् न, अहिंसात्व-शब्दात् पशोर् हि संज्ञपनस्य स्वर्गावाप्ति-साधन-भाव-वादि-शब्दः श्रूयते--- हिरण्य-शरीर ऊर्ध्व-स्वर्गं लोकम् एति, न वा उ वै तन् म्रियसे न रिष्यसि, इत्य् आदिः॥२५॥
Link copied३१३। रेतः-सिग्-योगोऽथ॥३।१।२६॥
Link copiedततश् च व्रीह्य्-आदि-संश्लेष-मात्रम्, व्रीह्य्-आदि-भावानन्तरं रेतः-सिग्-योगः श्रूयते--- यो यो ह्य् अन्नम् अत्ति यो रेतः सिञ्चति तद् भूय एव भवति, इति। अत्र हि पुरुष-संश्लेष-मात्रम् एव श्रुतम्; एवम् एव व्रीह्य्-आदि-भावेऽपीत्य् अर्थः॥२६॥
Link copied३१४। योनेः शरीरम्॥३।१।२७॥
Link copiedयोनि-प्राप्तेः पश्चाद् एवावरोहतो जीवस्य शरीर-प्राप्तिः, तत्रैव सुख-दुःखोपभोगात्। ततः प्राग्-आकाशादिषु तत्-तत्-संश्लेष-मात्रम् एवेत्य् अभिप्रायः॥२७॥ इत्य् अन्याधिष्ठिताधिकरणम्॥६॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे तृतीयस्याध्यायस्य प्रथमः पादः॥
Link copied౨౮౮। తద్-అన్తర-ప్రతిపత్తౌ రంహతి సమ్పరిష్వక్తః ప్రశ్న-నిరూపణాభ్యామ్॥౩।౧।౧॥
Link copiedదేహీ దేహాన్తర-గమనే దేహ-కారణ-భూతైర్ భూత-సూక్ష్మైః సంయుక్తో గచ్ఛతి, నేతి సంశయః। న సంయుక్తో గచ్ఛతీతి పూర్వః పక్షః, దేహారమ్భాయ తత్ర తత్ర భూత-సూక్ష్మాణాం సులభత్వాత్। రాద్ధాన్తస్ తు--- పఞ్చాగ్ని-విద్యాయాం, వేత్థ యథా పఞ్చమ్యామ్ ఆహుతావ్ ఆపః పురుష-వచసో భవన్తి, ఇతి తు పఞ్చమ్యామ్ ఆహుతావ్ ఆపః పురుష-వచసో భవన్తి, ఇతి ప్రశ్న-ప్రతివచనే ఆమ్నాయేతే। దేహారమ్భికా ఆపస్ త్రివృత్-కరణేన భూతాన్తర-సంసృష్టాః ద్యు-లోక-పర్జన్య-పృథివీ-పురుష-రూపాగ్నిషు జీవేన సహ ప్రవిష్టాః పఞ్చమ్యామ్ ఆహుతౌ యోషిద్-అగ్ని-ప్రవేశ-వేలాయాం పురుష-శబ్దాభిలపనీయా భవన్తీతి ప్రతీయతే; పురుషాకారతాం భజన్త ఇత్య్ అర్థః। అతో భూత-సూక్ష్మైః సమ్పరిష్వక్త ఏవ గచ్ఛతీతి। సూత్రార్థం తు--- తద్-అన్తర-ప్రతిపత్తౌ, సంజ్ఞా-మూర్తి-కౢప్తిర్ ఇత్య్ అత్ర మూర్తి-శబ్దేన దేహః ప్రస్తుతస్ తచ్-ఛబ్దేన పరామృశ్యతే; దేహాన్తర-ప్రతిపత్తౌ। రంహతి సమ్పరిష్వక్తః--- జీవో భూత-సూక్ష్మైః సమ్పరిష్వక్తో గచ్ఛతి। కుత। ప్రశ్న-నిరూపణభ్యాం పఞ్చాగ్ని-విద్యాన్తర్గత-ప్రశ్న-ప్రతివచనాభ్యాం తథావగమ్యత ఇత్య్ అర్థః॥౧॥
Link copiedకథమ్ అవిశేషేణాప్-శబ్దేన సర్వేషామ్ అభిధానమ్ ఇత్య్ ఆశఙ్క్యాహ---
Link copied౨౮౯। త్ర్య్-ఆత్మకత్వాత్ తు భూయస్త్వాత్॥౩।౧।౨॥
Link copiedతు-శబ్దః శఙ్కా-నివృత్త్య్-అర్థః। అపాం త్రివృత్-కరణేన వ్యాత్మకత్వాద్ ఆప ఇతి భూతాన్తర-సంసృష్టా అపోఽభిధీయన్తే; అపాం భూయస్త్వాద్ ఆధిక్యాద్ అప్-శబ్దేనాభిధానమ్॥౨॥
Link copied౨౯౦। ప్రాణ-గతేశ్ చ॥౩।౧।౩॥
Link copiedఇతశ్ చ భూత-సూక్ష్మైః సంయుక్తో యాతి। తమ్ ఉత్క్రామన్తం ప్రాణోఽనూత్క్రామతి ప్రాణమ్ అనూత్క్రామన్తం సర్వే ప్రాణా అనూత్క్రామన్తి, ఇతి ప్రాణానామ్ ఇన్ద్రియాణాం జీవేన సహ గమన-శ్రుతేర్ ఇన్ద్రియాణాం దేహాశ్రయత్వేన దేహోఽపి భూత-సూక్ష్మ-రూపేణ గచ్ఛతీతి గమ్యతే। స్మర్యతే చ--- మనః షష్ఠానీన్ద్రియాణి ప్రకృతిస్థాని కర్షతి, ఇత్య్ ఆదినా॥౩॥
Link copied౨౯౧। అగ్న్య్-ఆది-గతి-శ్రుతేర్ ఇతి చేన్ న భాక్తత్వాత్॥౩।౧।౪॥
Link copiedయత్రాస్య పురుషస్య మృతస్యాగ్నిం వాగ్ అప్య్ ఏతి వాతం ప్రాణశ్ చక్షుర్ ఆదిత్యమ్ ఇతి మరణ-వేలాయాం వాగ్-ఆదీనామ్ అగ్న్య్-ఆదిష్వ్ అప్యయ-శ్రుతేర్ జీవేన సహ గమన-శ్రుతిర్ అన్యథా నేయేతి చేత్; తన్ న, భాక్తత్వాత్ తత్రా వాగ్-ఆది-శబ్దానామ్। వాగ్-ఆద్య్-అభిమాని-దేవతాసు హి తత్ర వాగ్-ఆదయః శబ్దాః; ఓషధీర్ లోమాని వనస్పతీన్ కేశాః, ఇత్య్ అనపియద్భిర్ లోమాదిభిః సహపాఠాత్॥౪॥
Link copied౨౯౨। ప్రథమేఽశ్రవణాద్ ఇతి చేన్ న తా ఏవ హ్య్ ఉపపత్తేః॥౩।౧।౫॥
Link copiedప్రథమే--- ద్యు-లోకాగ్నిహోమే అపామ్ అశ్రవణాద్ ఆపో భూతాన్తర-సంసృష్టా గచ్ఛన్తీతి వక్తుం న శక్యతే; తత్ర హి--- తస్మిన్న్ ఏతస్మిన్న్ అగ్నౌ దేవాః శ్రద్ధాం జుహ్వతి, ఇతి శ్రద్ధైవ హోమ్యత్వేన శ్రూయత ఇతి చేన్ న, తాః--- ఆప ఏవ హి శ్రద్ధా-శబ్దేనోచ్యన్తే, ప్రతివచనస్య ప్రశ్నానుగుణ్యోపపత్తేః। వేత్థ యథా పఞ్చమ్యామ్ ఆహుతావ్ ఆపః పురుష-వచసో భవన్తి, ఇత్య్ అపాం పురుష-వచస్త్వ-ప్రకారే పృష్టే స ఏవ హి ప్రతివక్తవ్యః; అతః శ్రద్ధా-శబ్దేన తా ఆప ఏవోచ్యన్తే। శ్రద్ధా వా ఆపః, ఇతి శ్రూయతే॥౫॥
Link copied౨౯౩। అశ్రుతత్వాద్ ఇతి చేన్ నేష్టాదికారిణాం ప్రతీతేః॥౩।౧।౬॥
Link copiedఆపః పురుష-వచసో భవన్తి, శ్రద్ధాం జుహ్వతి, ఇతి ద్యులో-కాదిష్వ్ ఆప ఏవ హి గచ్ఛన్తీతి శ్రూయతే; న తత్-పరిష్వక్తో జీవః। అతః ప్రశ్న-ప్రతివచనయోర్ జీవస్యాశ్రుతత్వాత్ తత్-సంయుక్తో జీవో గచ్ఛతీతి న శక్యతే వక్తుమ్ ఇతి చేత్ తన్ న, ఇష్టాది-కారిణాం ప్రతీతేః--- ఉత్తరత్ర, అథ య ఇమే గ్రామే ఇష్టాపూర్తే దత్తమ్ ఇత్య్ ఉపాసతే తే ధూమమ్ అభిసమ్భవన్తి, ఇత్య్ ఆదౌ ఇష్టాది-కారిణాం జీవానాం ద్యు-లోకాది-గమన-పునర్-ఆవృత్తి-ప్రకార-వచనే ద్యు-లోకాగ్ని-సమ్బన్ధస్యాప్-శబ్ద-వాచ్యస్య సోమమ్ ఆపన్నస్య ప్రత్యభిజ్ఞానాద్ అత్రాప ఇతి తత్-సంయుక్తో జీవ ఏవోచ్యతే॥౬॥
Link copiedఆకాశాచ్ చన్ద్రమసమ్ ఏష సోమో రాజా తద్ దేవానామ్ అన్నం తం దేవా భక్షయన్తి, ఇతి ధూమాదినా గతస్య దేవైర్ భక్ష్యమాణత్వ-శ్రవణాత్, జీవస్యానదనీయత్వాచ్ చ న జీవస్ తత్రోక్త ఇత్య్ ఆశఙ్క్యాహ---
Link copied౨౯౪। భాక్తం వానాత్మవిత్త్వాత్ తథా హి దర్శయతి॥౩।౧।౭॥
Link copiedవా-శబ్దః శఙ్కా-వ్యావృత్త్య్-అర్థః। తం దేవా భక్షయన్తి, ఇతి భక్ష్యత్వ-వచనం భాక్తమ్--- కేవలేష్టాది-కారిణామ్ అనాత్మవిత్త్వాద్ దేవోపకరణత్వాభిప్రాయమ్। అనాత్మవిదః కేవలేన్ద్రాది-దేవ-యాజినో హి దేవాన్ ప్రాప్య తద్-ఉపకరణం భవన్తి। తథా హి దర్శయతి శ్రుతిః--- యథా పశుర్ ఏవం స దేవానామ్ ఇతి। అతో భూత-సూక్ష్మైః సమ్పరిష్వక్తో జీవో రంహతి॥౭॥ ఇతి తద్-అన్తర-ప్రతిపత్త్య్-అధికరణమ్॥౧॥
Link copied౨౯౫। కృతాత్యయేఽనుశయవాన్ దృష్ట-స్మృతిభ్యాం యథేతమ్ అనేవం చ॥౩।౧।౮॥
Link copiedధూమాదినాం గతో నివర్తమానో జీవః సానుశయో నివర్తతే, ఉత నేతి సంశయః। నేతి పూర్వః పక్షః। అనుశయో హి భుక్త-శిష్టం కర్మ। యావత్ సమ్పాతమ్ ఉషిత్వా, ప్రాప్యాన్తం కర్మణః, ఇత్య్ ఆది శ్రుతిభ్యః కృత్స్నస్య కర్మణోఽనుభూతతా-ప్రతీతేర్ నానుశయవాన్ నివర్తతే। రాద్ధాన్తస్ తు--- తద్ య ఇహ రమణీయ-చరణా అభ్యాశో హ యత్ తే రమణీయాం యోనిమ్ ఆపద్యేరన్ బ్రాహ్మణ-యోనిం క్షత్రియ-యోనిం వైశ్య-యోనిం వా అథ య ఇహ కపూయ-చరణా అభ్యాశో హ యత్ తే కపూయాం యోనిమ్ ఆపద్యేరన్ శ్వ-యోనిం వా సూకర-యోనిం వా చణ్డాల-యోనిం వా, ఇతి రమణీయ-చరణా బ్రాహ్మణాది-యోనిం, కపూయ-చరణాః--- కుత్సిత-కర్మాణః శ్వ-సూకరాది-యోనిం ప్రతిపద్యన్త ఇతి శ్రుతేః, ప్రాప్యాన్తం కర్మణః, ఇత్య్ ఆది శ్రుతిః ఫల-ప్రదాన-ప్రవృత్త-కర్మ-విషయేతి సానుశయో నివర్తతే। సూత్రార్థస్ తు--- కృతాత్యయే, కృతస్య పూర్వ-కర్మణోఽత్యయే, అనుశయవాన్--- భుక్త-శిష్ట-కర్మవాన్ నివర్తతే। కుతః। దృష్ట-స్మృతిభ్యామ్--- శ్రుతి-స్మృతిభ్యామ్ అవగమ్యతే। తద్ య ఇహ రమణీయ-చరణాః, ఇత్య్ ఆది శ్రుతిః। తతః పరివృత్తౌ కర్మ-ఫల-శేషేణ జాతిం రూపమ్ ఇత్య్ ఆదికా స్మృతిః, యథేతమ్ అనేవం చ--- ఆరోహణ-ప్రకారేణ ప్రకారాన్తరేణ చ నివర్తన్తే। చన్ద్రమసః స్థానాద్ ఆకాశమ్ ఇత్య్ ఆరోహణ-క్రమేణావరోహన్తి, వాయు-ధూమాభ్రాదినా ప్రకారాన్తరేణ చ॥౮॥
Link copied౨౯౬। చరణాద్ ఇతి చేన్ న తద్-ఉపలక్షణార్థేతి కార్ష్ణాజినిః॥౩।౧।౯॥
Link copiedరమణీయ-చరణాః, ఇతి రమణీయాచారస్య స్మృతి-విహితస్య బ్రాహ్మణ్యాది-ప్రాప్తి-సాధనత్వ-శ్రవణాన్ న స కర్మా ప్రత్యవరోహతీతి చేత్ తన్ న, చరణ-శ్రుతిః కర్మోపలక్షణార్థేతి కార్ష్ణాజినిర్ ఆచార్యో మన్యతే, పుణ్యస్యైవ కర్మణః సుఖ-ప్రాప్తి-సాధనత్వాత్॥౯॥
Link copied౨౯౭। ఆనర్థక్యమ్ ఇతి చేన్ న తద్-ఉపేక్షత్వాత్॥౩।౧।౧౦॥
Link copiedస్మృతి-విహితస్యాచారస్యాకిఞ్చిత్కరత్వేనానర్థక్యం ప్రసజ్యత ఇతి చేన్ న, తద్-అపేక్షత్వాత్--- ఆచారాపేక్షత్వాత్ సుఖ-సాధన-భూత-పుణ్య-కర్మణః; సన్ధ్యా-హీనోఽశుచిర్ నిత్యమ్ అనర్హః సర్వ-కర్మసు, ఇతి సర్వం హి పుణ్య-కర్మాచారాపేక్షమ్ ఏవేతి కార్ష్ణాజినేర్ మతమ్॥౧౦॥
Link copied౨౯౮। సుకృత-దుష్కృతే ఏవేతి తు బాదరిః॥౩।౧।౧౧॥
Link copiedతు-శబ్దః పూర్వ-మత-వ్యావృత్త్య్-అర్థః; రమణీయ-చరణాః కపూయచరణాః, ఇతి చరణ-శబ్దేన సుకృత-దుష్కృతే ఏవ కర్మణీ ప్రతిపాద్యతే; పుణ్యం కర్మాచరతీతి చరతేః కర్మణి ప్రసిద్ధేః, న లక్షణా న్యాయ్యేతి బాదరిర్ మన్యతే। ఇదమ్ ఏవ సూత్ర-కారాభిప్రేతమ్, తు-శబ్దేన పూర్వ-మతాద్ వ్యావృత్తేః సుకృత-దుష్కృతే ఏవేతి వ్యావర్తనాత్। ఆనర్థక్యమ్ ఇతి చేన్ న తద్-అపేక్షత్వాద్ ఇతి తు స్వీకృతమ్॥౧౧॥ ఇతి కృతాత్యయాధికరణమ్॥౨॥
Link copied౨౯౯। అనిష్టాది-కారిణామ్ అపి చ శ్రుతమ్॥౩।౧।౧౨॥
Link copiedవిహితాకరణ-ప్రతిషిద్ధ-సేవా-రతాః పాప-కర్మాణోఽపి ధూమాదినా చన్ద్రమసం గత్వా నివర్తన్తే, ఉత నేతి సంశయః। గత్వైవ నివర్తన్త ఇతి పూర్వః పక్షః, యే వై కే చాస్మాల్ లోకాత్ ప్రయన్తి చన్ద్రమసమ్ ఏవ తే సర్వే గచ్ఛన్తీతి సర్వేషామ్ అవిశేషేణ చన్ద్రగమన-శ్రుతేః। రాద్ధాన్తస్ తు--- అథ య ఇమే గ్రామే ఇష్టాపూర్తే దత్తమ్ ఇత్య్ ఉపాసతే తే ధూమమ్ అభిసమ్భవన్తీతి ధూమాదినా చన్ద్రగమనస్య పుణ్య-కర్మ-ఫలత్వ-శ్రవణాత్ తద్-రహితాః పాప-కర్మాణో న గచ్ఛన్తీతి। యే వై కే చేతి వచనం సర్వేషాం పుణ్య-కర్మణాం చన్ద్ర-గమన-విషయమ్। సూత్రార్థస్ తు--- అనిష్టాది-కారిణామ్ అపి చ శ్రుతమ్, అనిష్టాది-కారిణామ్ అపి--- ఇష్టాపూర్తాద్య్ అకుర్వతాం పాపినామ్ అపి చన్ద్ర-గమనమ్ అస్తి, యే వై కే చాస్మాల్ లోకాత్ ప్రయన్తీతి యతోఽవిశేషేణ శ్రుతమ్॥౧౨॥
Link copied౩౦౦। సంయమనే త్వ్ అనుభూయేతరేషామ్ ఆరోహావరోహౌ తద్-గతి-దర్శనాత్॥౩।౧।౧౩॥
Link copiedఇయాంస్ తు విశేషః సంయమనే--- యమ-శాసనే పాప-ఫలమ్ అనుభూయ ఇతరేషాం పాపినాం చన్ద్రారోహావరోహౌ। కుతః। తద్-గతి-దర్శనాత్--- పాపినాం యమ-సదన-గతి-దర్శనాత్, వైవస్వతం సఙ్గమనం జనానామ్ ఇత్య్ ఆదౌ॥౧౩॥
Link copied౩౦౧। స్మరన్తి చ॥౩।౧।౧౪॥
Link copiedసర్వే చైతే వశం యాన్తి యమస్య భగవన్ కిల, ఇతి పరాశరాదయః స్మరన్తి చ॥౧౪॥
Link copied౩౦౨। అపి సప్త॥౩।౧।౧౫॥
Link copiedసప్తాపి--- పాప-కర్మణాం గన్తవ్యత్వేన సప్తాపి రౌరవాది-నరకాన్ స్మరన్తి॥౧౫॥
Link copiedనను సప్తసు లోకేషు గచ్ఛతాం కథం యమ-సదన-ప్రాప్తిః। తత్రాహ---
Link copied౩౦౩। తత్రాపి తద్-వ్యాపారాద్ అవిరోధః॥౩।౧।౧౬॥
Link copiedతేష్వ్ అపి సప్తసు రౌరవాదిలోకేషు తద్-వ్యాపారాత్--- యమాజ్ఞయైవ గమనాద్ అవిరోధః। అతోఽనిష్టాది-కారిణామ్ అపి యమ-లోకం ప్రాప్య యమయాతనాశ్వానుభూయ పశ్చాచ్ చన్ద్రారోహావరోహౌ భవతః॥౧౬॥
Link copiedఇతి ప్రాప్త ఉచ్యతే---
Link copied౩౦౪। విశ్వాకర్మణోర్ ఇతి తు ప్రకృతత్వాత్॥౩।౧।౧౭॥
Link copiedతు-శబ్దః పక్ష-వ్యావృత్త్య్-అర్థః। న చ పాప-కర్మణామ్ అర్చిర్-ఆదినా బ్రహ్మ-గమనం, ధూమాదినా చన్ద్ర-గమనం చ సమ్భవతి, తయోర్ విద్యా-కర్మణోః ఫలత్వాత్। కథమ్ ఇదమ్ అవగమ్యతే తత్-ఫలత్వమ్। ఇతి ప్రకృతత్వాత్--- ఇత్థం ప్రకృతత్వాత్। విద్యా-కర్మణీ హి ప్రకృత్య తత్-ఫలత్వేన గతి-ద్వయం ప్రతిపాద్యతే, తద్ య ఇత్థం విదుర్యే చేమేఽరణ్యే శ్రద్ధా తప ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్తీతి, అథ య ఇమే గ్రామ ఇష్టాపూర్తే దత్తమ్ ఇత్య్ ఉపాసతే తే ధూమమ్ అభిసమ్భవన్తీతి చ। పాపినాం విద్యా-రహితత్వేన బ్రహ్మ-గమనాభావవత్ పుణ్య-కర్మ-రహితత్వేన చన్ద్ర-గమనమ్ అపి న సమ్భవతీత్య్ అర్థః॥౧౭॥
Link copiedపఞ్చమ్యామ్ ఆహుతావ్ ఆపః పురుష-వచసో భవన్తీతి పఞ్చమాహుత్యా దేహారమ్భ-శ్రవణాత్ తస్యాశ్ చన్ద్ర-గమన-పూర్వకత్వేన పాపినామ్ అపి దేహారమ్భాయ చన్ద్ర-గమనమ్ అవశ్యమ్భావీత్య్ ఆశఙ్క్యాహ---
Link copied౩౦౫। న తృతీయే తథోపలబ్ధేః॥౩।౧।౧౮॥
Link copiedకేవల-పాప-కర్మాణః। తృతీయ-స్థానమ్, న తృతీయే స్థానే దేహారమ్భాయ పఞ్చమాహుత్య్-అపేక్షాస్తి; తథోపలబ్ధేః--- వేత్థ యథా కేనాసౌ లోకో న సమ్పూర్యతే, ఇతి ద్యు-లోకస్యాప్రాప్తా క ఇతి ప్రశ్నస్య ప్రతివచనే, అథైతయోః పథోర్ న కతరేణ చ తానీమాని క్షుద్రాణ్య్ అసకృద్-ఆవర్తీని భూతాని భవన్తి జాయస్వ మ్రియస్వేత్య్ ఏతత్ తృతీయం స్థానం తేనాసౌ లోకో న సమ్పూర్యతే, ఇతి తృతీయస్య స్థానస్య ద్యు-లోకాప్రాప్తి-శ్రవణాత్ తస్య దేహారమ్భే పఞ్చమాహుత్య్-అనపేక్షత్వం హ్య్ ఉపలభ్యతే॥౧౮॥
Link copied౩౦౬। స్మర్యతేఽపి చ లోకే॥౩।౧।౧౯॥
Link copiedపుణ్య-కర్మణామ్ అపి కేషాఞ్చిద్ ద్రౌపద్య్-ఆదీనాం దేహారమ్భే పఞ్చమాహుత్య్-అనపేక్షత్వం శిష్ట-లోకేఽపి చ స్మర్యతే॥౧౯॥
Link copied౩౦౭। దర్శనాచ్ చ॥౩।౧।౨౦॥
Link copiedశ్రుతావ్ అపి దృశ్యతే కేషాఞ్చిద్ దేహారమ్భే పఞ్చమాహుత్య్-అనపేక్షత్వం--- తేషాం ఖల్వ్ ఏషాం భూతానాం త్రీణ్య్ ఏవ బీజాని భవన్త్య్ ఆణ్డజం జీవజమ్ ఉద్భిజ్జమ్ ఇతి స్వేదజోద్భిజ్జయోర్ దేహారమ్భే పఞ్చమాహుత్య్-అనపేక్షత్వమ్। ఆణ్డజం జీవజమ్ ఉద్భిజ్జమ్ ఇత్య్ అత్ర స్వేదజస్య గ్రహణం న దృశ్యత ఇత్య్ ఆశఙ్క్యాహ---
Link copied౩౦౮। తృతీయ-శబ్దావరోధః సంశోకజస్య॥౩।౧।౨౧॥
Link copiedఆణ్డజం జీవజమ్ ఉద్భిజ్జమ్ ఇత్య్ అత్ర తృతీయేనోద్భిజ్జ-శబ్దేన సంశోకజస్య స్వేదజస్య అవరోధః--- సఙ్గ్రహ ఇత్య్ అర్థః। అతః కేవల-పాప-కర్మణాం చన్ద్రారోహావరోహౌ న సమ్భవతః॥౨౧॥ ఇత్య్ అనిష్టాది-కార్య్-అధికరణమ్॥౩॥
Link copied౩౦౯। తత్-స్వాభావ్యాపత్తిర్ ఉపపత్తేః॥౩।౧।౨౨॥
Link copiedధూమాదినా చన్ద్రమసం ప్రాప్తస్య ప్రత్యవరోహ-ప్రకార ఆమ్నాయతే--- యథేతమ్ ఆకాశమ్ ఆకాశాద్ వాయుం వాయుర్ భూత్వా ధూమో భవతి ధూమో భూత్వాభ్రం భవత్య్ అభ్రం భూత్వా మేఘో భవతి మేఘో భూత్వా ప్రవర్షతి, ఇతి। అత్రాకాశాది-భావః, కిం దేవ-మనుష్యాది-భావవద్ ఆకాశాది-శరీరత్వమ్, ఉత తత్-సాదృశ్యాపత్తిర్ ఇతి సంశయః। ఆకాశాది-శరీరత్వమ్ ఇతి పూర్వః పక్షః, శ్రద్ధావస్థస్య సోమరాజ-భావవత్ తత్ర తచ్-ఛరీరత్వమ్ ఏవోచ్యతే। రాద్ధాన్తస్ తు--- ఆకాశాది-ప్రాప్తౌ సుఖ-దుఃఖానుభవాభావాత్ తత్-సాదృశ్యాపత్తిర్ ఏవ। సుఖ-దుఃఖానుభవాయ హి సోమాది-శరీరత్వమ్। సూత్రార్థస్ తు--- తత్-స్వాభావ్యాపత్తిః, ఆకాశాది-సాదృశ్యాపత్తిః, ఉపపత్తేః--- సుఖ-దుఃఖానుభవాభావోపపత్తేః॥౨౨॥
Link copied౩౧౦। నాతిచిరేణ విశేషాత్॥౩।౧।౨౩॥
Link copiedఆకాశ-వాయు-ధూమాభ్ర-మేఘ-వర్ష-ప్రాప్తౌ కిం తత్ర తత్ర నాతిచిరం తిష్ఠతి, ఉతానియమ ఇతి సంశయః। అనియమ ఇతి పూర్వః పక్షః, నాతిచిరేణేతి విశేష-వచనాభావాత్। రాద్ధాన్తస్ తు--- ఉత్తరత్ర వ్రీహ్య్-ఆది-భావే, అతో వై ఖలు దుర్నిష్ప్రపతరమ్ ఇతి విశిష్య చిరేణ గమన-వచనం తతః ప్రాచీనేష్వ్ అచిర-గమనం ద్యోతయతీత్య్ ఆకాశాది యావద్-వ్రీహ్య్-ఆది-భావ-ప్రాప్తి నాతిచిరం తిష్ఠతీతి। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౨౩॥ ఇతి నాతిచిరాధికరణమ్॥౫॥
Link copied౩౧౧। అన్యాధిష్టితే పూర్వవద్ అభిలాపాత్॥౩।౧।౨౪॥
Link copiedఅవరోహన్తో జీవా వ్రీహ్య్-ఆది-భావేన జాయన్త ఇతి శ్రూయతే--- మేఘో భూత్వా ప్రవర్షతి త ఇహ వ్రీహి-యవా ఓషధి-వనస్పతయస్ తిల-మాషా ఇతి జాయన్తే, ఇతి। తే కిం వ్రీహ్య్-ఆది-శరీరా జాయన్తే, ఉతాన్యైః క్షేత్రజ్ఞైర్ వ్రీహ్యాది-శరీరైర్ అధిష్ఠితాన్ వ్రీహ్య్-ఆదీన్ ఆశ్లిష్యన్తీతి సంశయః। జాయన్తే ఇతి వచనాద్ వ్రీహ్య్-ఆది-శరీర-భోక్తారో జాయన్త ఏవేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- వ్రీహ్య్-ఆది-జన్మ-హేతు-భూత-కర్మ-విశేషాశ్రవణాద్ వ్రీహ్య్-ఆది-సంశ్లేష-మాత్రమ్ ఏవ। జాయన్తే ఇతి జన్మ-వచనమ్ ఔపచారికమ్। బ్రాహ్మణాది-శరీర-భావే హి--- రమణీయ-చరణాః\॥॥ కపూయచరణాః, ఇతి జన్మ-హేతు-భూతం పుణ్య-పాప-రూపం కర్మ శ్రూయతే। సూత్రార్థస్ తు--- అన్యాధిష్ఠితే--- అన్య-క్షేత్రజ్ఞాధిష్ఠితే వ్రీహ్య్-ఆదౌ, సంశ్లేష-మాత్రమ్। కుతః। పూర్వవద్ అభిలాపాత్--- ఆకాశాది-భావవత్ కేవల-వ్రీహ్య్-ఆది-భావాభిలాపాత్; జన్మ-హేతు-భూత-కర్మానభిలాపాద్ ఇత్య్ అర్థః॥౨౪॥
Link copied౩౧౨। అశుద్ధమ్ ఇతి చేన్ న శబ్దాత్॥౩।౧।౨౫॥
Link copiedయద్య్ అపి వ్రీహ్య్-ఆది-భావేన జాయన్త ఇత్య్ అత్ర జన్మ-హేతు-భూతం కర్మ న శ్రుతమ్; తథాపి పూర్వ-శ్రుతమ్ ఇష్టాది-కర్మాగ్నీషోమీయాది-హింసా-గర్భత్వేనాశుద్ధమ్। హింసాత్వేనాశుచి-వ్రీహ్య్-ఆది-జన్మనోఽపి హేతుర్ భవతీతి చేన్ న, అహింసాత్వ-శబ్దాత్ పశోర్ హి సంజ్ఞపనస్య స్వర్గావాప్తి-సాధన-భావ-వాది-శబ్దః శ్రూయతే--- హిరణ్య-శరీర ఊర్ధ్వ-స్వర్గం లోకమ్ ఏతి, న వా ఉ వై తన్ మ్రియసే న రిష్యసి, ఇత్య్ ఆదిః॥౨౫॥
Link copied౩౧౩। రేతః-సిగ్-యోగోఽథ॥౩।౧।౨౬॥
Link copiedతతశ్ చ వ్రీహ్య్-ఆది-సంశ్లేష-మాత్రమ్, వ్రీహ్య్-ఆది-భావానన్తరం రేతః-సిగ్-యోగః శ్రూయతే--- యో యో హ్య్ అన్నమ్ అత్తి యో రేతః సిఞ్చతి తద్ భూయ ఏవ భవతి, ఇతి। అత్ర హి పురుష-సంశ్లేష-మాత్రమ్ ఏవ శ్రుతమ్; ఏవమ్ ఏవ వ్రీహ్య్-ఆది-భావేఽపీత్య్ అర్థః॥౨౬॥
Link copied౩౧౪। యోనేః శరీరమ్॥౩।౧।౨౭॥
Link copiedయోని-ప్రాప్తేః పశ్చాద్ ఏవావరోహతో జీవస్య శరీర-ప్రాప్తిః, తత్రైవ సుఖ-దుఃఖోపభోగాత్। తతః ప్రాగ్-ఆకాశాదిషు తత్-తత్-సంశ్లేష-మాత్రమ్ ఏవేత్య్ అభిప్రాయః॥౨౭॥ ఇత్య్ అన్యాధిష్ఠితాధికరణమ్॥౬॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే తృతీయస్యాధ్యాయస్య ప్రథమః పాదః॥
Link copied288. thad anthara prathipaththau ramhathi samparishvakthah prasna niru:pana:bhya:m||3|1|1||
Link copiedde:hi: de:ha:nthara gamane: de:ha ka:rana bhu:thair bhu:tha su:kshmaih samyuktho: gachchhathi, ne:thi samsayah| na samyuktho: gachchhathi:thi pu:rvah pakshah, de:ha:rambha:ya thathra thathra bhu:tha su:kshma:na:m sulabhathva:th| ra:ddha:nthas thu--- pancha:gni vidya:ya:m, ve:ththa yatha: panchamya:m a:hutha:v a:pah purusha vachaso: bhavanthi, ithi thu panchamya:m a:hutha:v a:pah purusha vachaso: bhavanthi, ithi prasna prathivachane: a:mna:ye:the:| de:ha:rambhika: a:pas thrivruth karane:na bhu:tha:nthara samsrushta:h dyu lo:ka parjanya pruthivi: purusha ru:pa:gnishu ji:ve:na saha pravishta:h panchamya:m a:huthau yo:shid agni prave:sa ve:la:ya:m purusha sabda:bhilapani:ya: bhavanthi:thi prathi:yathe:; purusha:ka:ratha:m bhajantha ithy arthah| atho: bhu:tha su:kshmaih samparishvaktha e:va gachchhathi:thi| su:thra:rtham thu--- thad anthara prathipaththau, samjna: mu:rthi klupthir ithy athra mu:rthi sabde:na de:hah prasthuthas thach chhabde:na para:mrusyathe:; de:ha:nthara prathipaththau| ramhathi samparishvakthah--- ji:vo: bhu:tha su:kshmaih samparishvaktho: gachchhathi| kutha| prasna niru:panabhya:m pancha:gni vidya:nthargatha prasna prathivachana:bhya:m thatha:vagamyatha ithy arthah||1||
Link copiedkatham avise:she:na:p sabde:na sarve:sha:m abhidha:nam ithy a:sankya:ha---
Link copied289. thry a:thmakathva:th thu bhu:yasthva:th||3|1|2||
Link copiedthu sabdah sanka: nivruththy arthah| apa:m thrivruth karane:na vya:thmakathva:d a:pa ithi bhu:tha:nthara samsrushta: apo:'bhidhi:yanthe:; apa:m bhu:yasthva:d a:dhikya:d ap sabde:na:bhidha:nam||2||
Link copied290. pra:na gathe:s cha||3|1|3||
Link copiedithas cha bhu:tha su:kshmaih samyuktho: ya:thi| tham uthkra:mantham pra:no:'nu:thkra:mathi pra:nam anu:thkra:mantham sarve: pra:na: anu:thkra:manthi, ithi pra:na:na:m indriya:na:m ji:ve:na saha gamana sruthe:r indriya:na:m de:ha:srayathve:na de:ho:'pi bhu:tha su:kshma ru:pe:na gachchhathi:thi gamyathe:| smaryathe: cha--- manah shashtha:ni:ndriya:ni prakruthistha:ni karshathi, ithy a:dina:||3||
Link copied291. agny a:di gathi sruthe:r ithi che:n na bha:kthathva:th||3|1|4||
Link copiedyathra:sya purushasya mruthasya:gnim va:g apy e:thi va:tham pra:nas chakshur a:dithyam ithi marana ve:la:ya:m va:g a:di:na:m agny a:dishv apyaya sruthe:r ji:ve:na saha gamana sruthir anyatha: ne:ye:thi che:th; than na, bha:kthathva:th thathra: va:g a:di sabda:na:m| va:g a:dy abhima:ni de:vatha:su hi thathra va:g a:dayah sabda:h; o:shadhi:r lo:ma:ni vanaspathi:n ke:sa:h, ithy anapiyadbhir lo:ma:dibhih sahapa:tha:th||4||
Link copied292. prathame:'sravana:d ithi che:n na tha: e:va hy upapaththe:h||3|1|5||
Link copiedprathame:--- dyu lo:ka:gniho:me: apa:m asravana:d a:po: bhu:tha:nthara samsrushta: gachchhanthi:thi vakthum na sakyathe:; thathra hi--- thasminn e:thasminn agnau de:va:h sraddha:m juhvathi, ithi sraddhaiva ho:myathve:na sru:yatha ithi che:n na, tha:h--- a:pa e:va hi sraddha: sabde:no:chyanthe:, prathivachanasya prasna:nugunyo:papaththe:h| ve:ththa yatha: panchamya:m a:hutha:v a:pah purusha vachaso: bhavanthi, ithy apa:m purusha vachasthva praka:re: prushte: sa e:va hi prathivakthavyah; athah sraddha: sabde:na tha: a:pa e:vo:chyanthe:| sraddha: va: a:pah, ithi sru:yathe:||5||
Link copied293. asruthathva:d ithi che:n ne:shta:dika:rina:m prathi:the:h||3|1|6||
Link copieda:pah purusha vachaso: bhavanthi, sraddha:m juhvathi, ithi dyulo: ka:dishv a:pa e:va hi gachchhanthi:thi sru:yathe:; na thath parishvaktho: ji:vah| athah prasna prathivachanayo:r ji:vasya:sruthathva:th thath samyuktho: ji:vo: gachchhathi:thi na sakyathe: vakthum ithi che:th than na, ishta:di ka:rina:m prathi:the:h--- uththarathra, atha ya ime: gra:me: ishta:pu:rthe: daththam ithy upa:sathe: the: dhu:mam abhisambhavanthi, ithy a:dau ishta:di ka:rina:m ji:va:na:m dyu lo:ka:di gamana punar a:vruththi praka:ra vachane: dyu lo:ka:gni sambandhasya:p sabda va:chyasya so:mam a:pannasya prathyabhijna:na:d athra:pa ithi thath samyuktho: ji:va e:vo:chyathe:||6||
Link copieda:ka:sa:ch chandramasam e:sha so:mo: ra:ja: thad de:va:na:m annam tham de:va: bhakshayanthi, ithi dhu:ma:dina: gathasya de:vair bhakshyama:nathva sravana:th, ji:vasya:nadani:yathva:ch cha na ji:vas thathro:ktha ithy a:sankya:ha---
Link copied294. bha:ktham va:na:thmaviththva:th thatha: hi darsayathi||3|1|7||
Link copiedva: sabdah sanka: vya:vruththy arthah| tham de:va: bhakshayanthi, ithi bhakshyathva vachanam bha:ktham--- ke:vale:shta:di ka:rina:m ana:thmaviththva:d de:vo:pakaranathva:bhipra:yam| ana:thmavidah ke:vale:ndra:di de:va ya:jino: hi de:va:n pra:pya thad upakaranam bhavanthi| thatha: hi darsayathi sruthih--- yatha: pasur e:vam sa de:va:na:m ithi| atho: bhu:tha su:kshmaih samparishvaktho: ji:vo: ramhathi||7|| ithi thad anthara prathipaththy adhikaranam||1||
Link copied295. krutha:thyaye:'nusayava:n drushta smruthibhya:m yathe:tham ane:vam cha||3|1|8||
Link copieddhu:ma:dina:m gatho: nivarthama:no: ji:vah sa:nusayo: nivarthathe:, utha ne:thi samsayah| ne:thi pu:rvah pakshah| anusayo: hi bhuktha sishtam karma| ya:vath sampa:tham ushithva:, pra:pya:ntham karmanah, ithy a:di sruthibhyah kruthsnasya karmano:'nubhu:thatha: prathi:the:r na:nusayava:n nivarthathe:| ra:ddha:nthas thu--- thad ya iha ramani:ya charana: abhya:so: ha yath the: ramani:ya:m yo:nim a:padye:ran bra:hmana yo:nim kshathriya yo:nim vaisya yo:nim va: atha ya iha kapu:ya charana: abhya:so: ha yath the: kapu:ya:m yo:nim a:padye:ran sva yo:nim va: su:kara yo:nim va: chanda:la yo:nim va:, ithi ramani:ya charana: bra:hmana:di yo:nim, kapu:ya charana:h--- kuthsitha karma:nah sva su:kara:di yo:nim prathipadyantha ithi sruthe:h, pra:pya:ntham karmanah, ithy a:di sruthih phala prada:na pravruththa karma vishaye:thi sa:nusayo: nivarthathe:| su:thra:rthas thu--- krutha:thyaye:, kruthasya pu:rva karmano:'thyaye:, anusayava:n--- bhuktha sishta karmava:n nivarthathe:| kuthah| drushta smruthibhya:m--- sruthi smruthibhya:m avagamyathe:| thad ya iha ramani:ya charana:h, ithy a:di sruthih| thathah parivruththau karma phala se:she:na ja:thim ru:pam ithy a:dika: smruthih, yathe:tham ane:vam cha--- a:ro:hana praka:re:na praka:ra:nthare:na cha nivarthanthe:| chandramasah stha:na:d a:ka:sam ithy a:ro:hana krame:na:varo:hanthi, va:yu dhu:ma:bhra:dina: praka:ra:nthare:na cha||8||
Link copied296. charana:d ithi che:n na thad upalakshana:rthe:thi ka:rshna:jinih||3|1|9||
Link copiedramani:ya charana:h, ithi ramani:ya:cha:rasya smruthi vihithasya bra:hmanya:di pra:pthi sa:dhanathva sravana:n na sa karma: prathyavaro:hathi:thi che:th than na, charana sruthih karmo:palakshana:rthe:thi ka:rshna:jinir a:cha:ryo: manyathe:, punyasyaiva karmanah sukha pra:pthi sa:dhanathva:th||9||
Link copied297. a:narthakyam ithi che:n na thad upe:kshathva:th||3|1|10||
Link copiedsmruthi vihithasya:cha:rasya:kinchithkarathve:na:narthakyam prasajyatha ithi che:n na, thad ape:kshathva:th--- a:cha:ra:pe:kshathva:th sukha sa:dhana bhu:tha punya karmanah; sandhya: hi:no:'suchir nithyam anarhah sarva karmasu, ithi sarvam hi punya karma:cha:ra:pe:ksham e:ve:thi ka:rshna:jine:r matham||10||
Link copied298. sukrutha dushkruthe: e:ve:thi thu ba:darih||3|1|11||
Link copiedthu sabdah pu:rva matha vya:vruththy arthah; ramani:ya charana:h kapu:yacharana:h, ithi charana sabde:na sukrutha dushkruthe: e:va karmani: prathipa:dyathe:; punyam karma:charathi:thi charathe:h karmani prasiddhe:h, na lakshana: nya:yye:thi ba:darir manyathe:| idam e:va su:thra ka:ra:bhipre:tham, thu sabde:na pu:rva matha:d vya:vruththe:h sukrutha dushkruthe: e:ve:thi vya:varthana:th| a:narthakyam ithi che:n na thad ape:kshathva:d ithi thu svi:krutham||11|| ithi krutha:thyaya:dhikaranam||2||
Link copied299. anishta:di ka:rina:m api cha srutham||3|1|12||
Link copiedvihitha:karana prathishiddha se:va: ratha:h pa:pa karma:no:'pi dhu:ma:dina: chandramasam gathva: nivarthanthe:, utha ne:thi samsayah| gathvaiva nivarthantha ithi pu:rvah pakshah, ye: vai ke: cha:sma:l lo:ka:th prayanthi chandramasam e:va the: sarve: gachchhanthi:thi sarve:sha:m avise:she:na chandragamana sruthe:h| ra:ddha:nthas thu--- atha ya ime: gra:me: ishta:pu:rthe: daththam ithy upa:sathe: the: dhu:mam abhisambhavanthi:thi dhu:ma:dina: chandragamanasya punya karma phalathva sravana:th thad rahitha:h pa:pa karma:no: na gachchhanthi:thi| ye: vai ke: che:thi vachanam sarve:sha:m punya karmana:m chandra gamana vishayam| su:thra:rthas thu--- anishta:di ka:rina:m api cha srutham, anishta:di ka:rina:m api--- ishta:pu:rtha:dy akurvatha:m pa:pina:m api chandra gamanam asthi, ye: vai ke: cha:sma:l lo:ka:th prayanthi:thi yatho:'vise:she:na srutham||12||
Link copied300. samyamane: thv anubhu:ye:thare:sha:m a:ro:ha:varo:hau thad gathi darsana:th||3|1|13||
Link copiediya:ms thu vise:shah samyamane:--- yama sa:sane: pa:pa phalam anubhu:ya ithare:sha:m pa:pina:m chandra:ro:ha:varo:hau| kuthah| thad gathi darsana:th--- pa:pina:m yama sadana gathi darsana:th, vaivasvatham sangamanam jana:na:m ithy a:dau||13||
Link copied301. smaranthi cha||3|1|14||
Link copiedsarve: chaithe: vasam ya:nthi yamasya bhagavan kila, ithi para:sara:dayah smaranthi cha||14||
Link copied302. api saptha||3|1|15||
Link copiedsaptha:pi--- pa:pa karmana:m ganthavyathve:na saptha:pi raurava:di naraka:n smaranthi||15||
Link copiednanu sapthasu lo:ke:shu gachchhatha:m katham yama sadana pra:pthih| thathra:ha---
Link copied303. thathra:pi thad vya:pa:ra:d aviro:dhah||3|1|16||
Link copiedthe:shv api sapthasu raurava:dilo:ke:shu thad vya:pa:ra:th--- yama:jnayaiva gamana:d aviro:dhah| atho:'nishta:di ka:rina:m api yama lo:kam pra:pya yamaya:thana:sva:nubhu:ya pascha:ch chandra:ro:ha:varo:hau bhavathah||16||
Link copiedithi pra:ptha uchyathe:---
Link copied304. visva:karmano:r ithi thu prakruthathva:th||3|1|17||
Link copiedthu sabdah paksha vya:vruththy arthah| na cha pa:pa karmana:m archir a:dina: brahma gamanam, dhu:ma:dina: chandra gamanam cha sambhavathi, thayo:r vidya: karmano:h phalathva:th| katham idam avagamyathe: thath phalathvam| ithi prakruthathva:th--- iththam prakruthathva:th| vidya: karmani: hi prakruthya thath phalathve:na gathi dvayam prathipa:dyathe:, thad ya iththam vidurye: che:me:'ranye: sraddha: thapa ithy upa:sathe: the:'rchisham abhisambhavanthi:thi, atha ya ime: gra:ma ishta:pu:rthe: daththam ithy upa:sathe: the: dhu:mam abhisambhavanthi:thi cha| pa:pina:m vidya: rahithathve:na brahma gamana:bha:vavath punya karma rahithathve:na chandra gamanam api na sambhavathi:thy arthah||17||
Link copiedpanchamya:m a:hutha:v a:pah purusha vachaso: bhavanthi:thi panchama:huthya: de:ha:rambha sravana:th thasya:s chandra gamana pu:rvakathve:na pa:pina:m api de:ha:rambha:ya chandra gamanam avasyambha:vi:thy a:sankya:ha---
Link copied305. na thruthi:ye: thatho:palabdhe:h||3|1|18||
Link copiedke:vala pa:pa karma:nah| thruthi:ya stha:nam, na thruthi:ye: stha:ne: de:ha:rambha:ya panchama:huthy ape:ksha:sthi; thatho:palabdhe:h--- ve:ththa yatha: ke:na:sau lo:ko: na sampu:ryathe:, ithi dyu lo:kasya:pra:ptha: ka ithi prasnasya prathivachane:, athaithayo:h patho:r na kathare:na cha tha:ni:ma:ni kshudra:ny asakrud a:varthi:ni bhu:tha:ni bhavanthi ja:yasva mriyasve:thy e:thath thruthi:yam stha:nam the:na:sau lo:ko: na sampu:ryathe:, ithi thruthi:yasya stha:nasya dyu lo:ka:pra:pthi sravana:th thasya de:ha:rambhe: panchama:huthy anape:kshathvam hy upalabhyathe:||18||
Link copied306. smaryathe:'pi cha lo:ke:||3|1|19||
Link copiedpunya karmana:m api ke:sha:nchid draupady a:di:na:m de:ha:rambhe: panchama:huthy anape:kshathvam sishta lo:ke:'pi cha smaryathe:||19||
Link copied307. darsana:ch cha||3|1|20||
Link copiedsrutha:v api drusyathe: ke:sha:nchid de:ha:rambhe: panchama:huthy anape:kshathvam--- the:sha:m khalv e:sha:m bhu:tha:na:m thri:ny e:va bi:ja:ni bhavanthy a:ndajam ji:vajam udbhijjam ithi sve:dajo:dbhijjayo:r de:ha:rambhe: panchama:huthy anape:kshathvam| a:ndajam ji:vajam udbhijjam ithy athra sve:dajasya grahanam na drusyatha ithy a:sankya:ha---
Link copied308. thruthi:ya sabda:varo:dhah samso:kajasya||3|1|21||
Link copieda:ndajam ji:vajam udbhijjam ithy athra thruthi:ye:no:dbhijja sabde:na samso:kajasya sve:dajasya avaro:dhah--- sangraha ithy arthah| athah ke:vala pa:pa karmana:m chandra:ro:ha:varo:hau na sambhavathah||21|| ithy anishta:di ka:ry adhikaranam||3||
Link copied309. thath sva:bha:vya:paththir upapaththe:h||3|1|22||
Link copieddhu:ma:dina: chandramasam pra:pthasya prathyavaro:ha praka:ra a:mna:yathe:--- yathe:tham a:ka:sam a:ka:sa:d va:yum va:yur bhu:thva: dhu:mo: bhavathi dhu:mo: bhu:thva:bhram bhavathy abhram bhu:thva: me:gho: bhavathi me:gho: bhu:thva: pravarshathi, ithi| athra:ka:sa:di bha:vah, kim de:va manushya:di bha:vavad a:ka:sa:di sari:rathvam, utha thath sa:drusya:paththir ithi samsayah| a:ka:sa:di sari:rathvam ithi pu:rvah pakshah, sraddha:vasthasya so:mara:ja bha:vavath thathra thach chhari:rathvam e:vo:chyathe:| ra:ddha:nthas thu--- a:ka:sa:di pra:pthau sukha duhkha:nubhava:bha:va:th thath sa:drusya:paththir e:va| sukha duhkha:nubhava:ya hi so:ma:di sari:rathvam| su:thra:rthas thu--- thath sva:bha:vya:paththih, a:ka:sa:di sa:drusya:paththih, upapaththe:h--- sukha duhkha:nubhava:bha:vo:papaththe:h||22||
Link copied310. na:thichire:na vise:sha:th||3|1|23||
Link copieda:ka:sa va:yu dhu:ma:bhra me:gha varsha pra:pthau kim thathra thathra na:thichiram thishthathi, utha:niyama ithi samsayah| aniyama ithi pu:rvah pakshah, na:thichire:ne:thi vise:sha vachana:bha:va:th| ra:ddha:nthas thu--- uththarathra vri:hy a:di bha:ve:, atho: vai khalu durnishprapatharam ithi visishya chire:na gamana vachanam thathah pra:chi:ne:shv achira gamanam dyo:thayathi:thy a:ka:sa:di ya:vad vri:hy a:di bha:va pra:pthi na:thichiram thishthathi:thi| su:thram api vya:khya:tham||23|| ithi na:thichira:dhikaranam||5||
Link copied311. anya:dhishtithe: pu:rvavad abhila:pa:th||3|1|24||
Link copiedavaro:hantho: ji:va: vri:hy a:di bha:ve:na ja:yantha ithi sru:yathe:--- me:gho: bhu:thva: pravarshathi tha iha vri:hi yava: o:shadhi vanaspathayas thila ma:sha: ithi ja:yanthe:, ithi| the: kim vri:hy a:di sari:ra: ja:yanthe:, utha:nyaih kshe:thrajnair vri:hya:di sari:rair adhishthitha:n vri:hy a:di:n a:slishyanthi:thi samsayah| ja:yanthe: ithi vachana:d vri:hy a:di sari:ra bho:ktha:ro: ja:yantha e:ve:thi pu:rvah pakshah| ra:ddha:nthas thu--- vri:hy a:di janma he:thu bhu:tha karma vise:sha:sravana:d vri:hy a:di samsle:sha ma:thram e:va| ja:yanthe: ithi janma vachanam aupacha:rikam| bra:hmana:di sari:ra bha:ve: hi--- ramani:ya charana:h.... kapu:yacharana:h, ithi janma he:thu bhu:tham punya pa:pa ru:pam karma sru:yathe:| su:thra:rthas thu--- anya:dhishthithe:--- anya kshe:thrajna:dhishthithe: vri:hy a:dau, samsle:sha ma:thram| kuthah| pu:rvavad abhila:pa:th--- a:ka:sa:di bha:vavath ke:vala vri:hy a:di bha:va:bhila:pa:th; janma he:thu bhu:tha karma:nabhila:pa:d ithy arthah||24||
Link copied312. asuddham ithi che:n na sabda:th||3|1|25||
Link copiedyady api vri:hy a:di bha:ve:na ja:yantha ithy athra janma he:thu bhu:tham karma na srutham; thatha:pi pu:rva srutham ishta:di karma:gni:sho:mi:ya:di himsa: garbhathve:na:suddham| himsa:thve:na:suchi vri:hy a:di janmano:'pi he:thur bhavathi:thi che:n na, ahimsa:thva sabda:th paso:r hi samjnapanasya svarga:va:pthi sa:dhana bha:va va:di sabdah sru:yathe:--- hiranya sari:ra u:rdhva svargam lo:kam e:thi, na va: u vai than mriyase: na rishyasi, ithy a:dih||25||
Link copied313. re:thah sig yo:go:'tha||3|1|26||
Link copiedthathas cha vri:hy a:di samsle:sha ma:thram, vri:hy a:di bha:va:nantharam re:thah sig yo:gah sru:yathe:--- yo: yo: hy annam aththi yo: re:thah sinchathi thad bhu:ya e:va bhavathi, ithi| athra hi purusha samsle:sha ma:thram e:va srutham; e:vam e:va vri:hy a:di bha:ve:'pi:thy arthah||26||
Link copied314. yo:ne:h sari:ram||3|1|27||
Link copiedyo:ni pra:pthe:h pascha:d e:va:varo:hatho: ji:vasya sari:ra pra:pthih, thathraiva sukha duhkho:pabho:ga:th| thathah pra:g a:ka:sa:dishu thath thath samsle:sha ma:thram e:ve:thy abhipra:yah||27|| ithy anya:dhishthitha:dhikaranam||6||
Link copiedithi sri: ra:ma:nuja:cha:rya virachithe: sri: ve:da:nthadi:pe: thruthi:yasya:dhya:yasya prathamah pa:dah||
Link copied