Vedanta Dipa · Section 13 of 17
||atha thruthi:ya:dhya:ye: chathurthah pa:dah||
Original Sanskrit · click to toggle
४१९। पुरुषार्थोऽतः शब्दाद् इति बादरायणः॥३।४।१॥
Link copiedकिं विद्यातः पुरुषार्थः, उत कर्मण इति संशयः। कर्मण इति पूर्वः पक्षः; कर्माङ्गत्वाद् विद्याया; कर्मसु कर्तृ-भूत-प्रत्यगात्मनो याथात्म्य-प्रतिपादन-पराणि वेदान्त-वाक्यानि। विद्यायाः कर्माङ्गत्वं च--- यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति श्रुत्यैवावगम्यते। न च प्रकृतोद्गीथोपासन-विषयत्वम् अस्य वक्तुं शक्यते, यद् एव विद्यया करोतीति श्रुत्यैव सर्व-कर्मसु विद्याया विनियुक्तत्वात्। श्रुतिश् च प्रकरणाद् बलीयसी। विद्यायाः कर्माङ्गत्वं कथम् इत्य् अपेक्षायां, तत् त्वम् असि, अयम् आत्मा ब्रह्मेति सामानाधिकरण्येन कर्माङ्ग-भूत-कर्तृ-याथात्म्यानुसन्धान-द्वारेण विद्यायाः कर्माङ्गत्वम् इत्य् अवगम्यते। अतः कर्तृ-संस्कार-रूपत्वाब्रह्म-विद्यायाः कर्मण एव पुरुषार्थः। तत्र तत्र फल-श्रुतिर् अर्थवादः स्यात्। विद्यायाः कर्माङ्गत्वे भूयांसि लिङ्गानि च दृश्यन्ते सर्व-वेदान्तेषु। राद्धान्तस् तु--- कर्मसु कर्तुः प्रत्यगात्मनोऽर्थान्तर-भूतस्य स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-लीलस्य निखिल-हेय-प्रत्यनीक-कल्याणैकतानानन्त-ज्ञानानन्दैक-स्वरूपस्य सर्वेश्वरस्य सत्य-सङ्कल्पस्य करणाधिप-रूप-प्रत्यगात्माधिपस्य वेद्यस्य वेदन-रूपाया विद्यायाः, ब्रह्म-विद् आप्नोति परम् इत्य् आदिषु ब्रह्म-प्राप्ति-रूप-फलोपदेशाद् विद्यात एव फलम्। यद् एव विद्यया करोतीति श्रुतिः प्रसिद्धवन् निर्देशात्; प्रसिद्धिश् च प्रकृतोद्गीथोपासनस्यैवेति, प्रस्तुतोद्गीथोपासन-विशेष-निष्ठा। तत् त्वम् असीति सामानाधिकरण्यं च तच्-छब्द-निर्दिष्टस्य स्व-सङ्कल्प-कृत-जगज्-जन्म-स्थिति-ध्वंसादिकस्य परस्य ब्रह्मणो न जीव-स्वरूपत्व-परम्; अपि तु जगत्-कारणस्य ब्रह्मणो जीव-शरीरकतया जीवस्यात्मत्व-परम् इति, अधिकं तु भेद-निर्देशाद् इत्य् आदिषूक्तम्। य आत्मति तिष्ठन् \॥॥यस्यात्मा शरीरम् इति च प्रत्यगात्मन आत्मत्वं परस्य ब्रह्मणः श्रुत्य्-अन्तरे व्यक्तम्। सूत्रार्थस् तु--- पुरुषार्थोऽतः, विद्यातः। कुतः। ब्रह्म-विद् आप्नोति परम् इत्य् आदि शब्दात्॥१॥
Link copied४२०। शेषत्वात् पुरुषार्थवादो यथान्येष्व् इति जैमिनिः॥३।४।२॥
Link copiedतत् त्वम् असीत्य् आदि सामानाधिकरण्येन ब्रह्मणः कर्मसु कर्तृ-स्वरूपत्वावगमाद् विद्यायाः कर्तृ-संस्कार-द्वारेण कर्म-शेषत्वात् तत्र पुरुषार्थवादोऽर्थवाद-मात्रम्; यथा अन्येषु द्रव्य-संस्कारादिष्व् इति जैमिनिर् आचार्यो मन्यते॥२॥
Link copied४२१। आचार-दर्शनात्॥३।४।३॥
Link copiedइतश् च विद्या कर्माङ्गम्; ब्रह्म-विदाम् आचारो हि कर्म-प्रधानो दृश्यते। यथाश्वपतिः केकयो ब्रह्म-विद्-अग्रेसरः--- यक्ष्यमाणो ह वै भगवन्तोऽहम् अस्मि, इत्य् आह। कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः, इति च स्मर्यते॥३॥
Link copiedलिङ्गम् इदम्; प्राप्तिर् उच्यताम् इत्य् अत्राह---
Link copied४२२। तच् छ्रुतेः॥३।४।४॥
Link copiedयद् एव विद्यया करोतीत्य् आदिकायाः श्रुतेर् विद्यायाः कर्माङ्गत्वम् अवगम्यते। न च दुर्बलेन प्रकरणेन श्रुतिर् विद्या-विशेषोद्गीथ-विषयोपासने व्यवस्थाप्यते॥४॥
Link copied४२३। समन्वारम्भणात्॥३।४।५॥
Link copiedतं विद्या-कर्मणी समन्वारभेते, इति विद्या-कर्मणोर् एकस्मिन् पुरुषे साहित्यं च विद्यायाः कर्माङ्गत्वे हि भवति॥५॥
Link copied४२४। तद्वतो विधानात्॥३।४।६॥
Link copiedविद्यावतः कर्म-विधानाच् च विद्या कर्माङ्गम्। आचार्य-कुलाद् वेदम् अधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे, इत्य् आदिनाध्ययनवतः कर्माणि विदधदर्थावबोध-पर्यन्तत्वाद् अध्ययनस्य विद्यावत एव कर्माणि विदधातीत्य् अवगम्यते॥६॥
Link copied४२५। नियमात्॥३।४।७॥
Link copiedकुर्वन्न् एवेह कर्माणि जिजीविषेच् छतं समाः, इत्य् आत्म-विदाम् आयुषः कर्मसु नियम-दर्शनाच् च कर्मण एव पुरुषार्थः; न विद्यात इत्य् अवगम्यते। अतश् च विद्या कर्माङ्गम्॥७॥
Link copied४२६। अधिकोपदेशात् तु बादरायणस्यैवं तद्-दर्शनात्॥३।४।८॥
Link copiedतु-शब्दात् पक्षो व्यावृत्तः। बादरायणस्यैवं--- विद्यातः फलम् इति मतम्। कुतः। अधिकोपदेशात्--- कर्मसु कर्तुः प्रत्यगात्मनोऽधिकस्य--- अर्थान्तरभूतस्य वेद्यस्य वेदन-भूत-विद्यायाः फल-साधनत्वोपदेशात्। तद्-दर्शनात्--- दृश्यते हि वेदान्त-वाक्येऽधिक-विषयत्वं विद्यायाः। एवम् एव हि--- तद् ऐक्षत बहु स्यां प्रजायेयेति, सोऽकामयत बहु स्यां प्रजायेयेत्य् आदिषु बहु-भवन-सङ्कल्प-पूर्वक-सृष्टयादेः कर्तुः सर्वेश्वरस्य करणाधिपाधिपस्यानवधिकातिशय-ज्ञानानन्दैक-स्वरूपस्य निखिल-हेय-प्रत्यनीकस्य वेद्यस्य विद्या ब्रह्म-प्राप्ति-फलाय विधीयते॥८॥
Link copied४२७। तुल्यं तु दर्शनम्॥३।४।९॥
Link copiedविद्यायाः प्रधानत्वेऽपि ब्रह्म-विदाम् आचार-दर्शनं तुल्यम्--- कर्मणाम् अनाचार-दर्शनम् अप्य् अस्तीत्य् अर्थः, ऋषयः कावषेयाः किम्-अर्था वयम् अध्येष्यामहे किम्-अर्था वयं यक्ष्यामहे, इत्य् आदौ। कर्मानुष्ठान-दर्शनं तु फलाभिसन्धि-रहितस्य कर्मणो विद्याङ्गत्वात्; त्यागस् तु फलाभिसन्धि-युक्तस्य विद्या-विरोधित्वाद् इत्य् अभिप्रायः॥९॥
Link copied४२८। असार्वत्रिकी॥३।४।१०॥
Link copiedयद् एव विद्यया करोतीति श्रुतिः सर्व-विद्यायाः कर्माङ्गत्वं विदधातीत्य् एतद् असङ्गतम्; अत्र विद्या-शब्दाभिहिता तु न सार्वत्रिक्री, अपि तूद्गीथ-विद्या। यत् करोति, तद् विद्ययेति नैवं पदान्वयः; अपि तु यद् एव विद्यया करोति, तद् एव वीर्यवत्तरम् इति। विद्यया क्रियमाणस्यान्यतोऽवगतस्य वीर्यवत्तरत्वं प्रतिसाधन-भावोऽवगम्यते, यद् एवेति प्रसिद्धवन् निर्देशात्। अन्यतोऽवगतिर् हि, उद्गीथम् उपासीतेति सन्निहितोद्गीथ-विद्यायाः॥१०॥
Link copied४२९। विभागः शतवत्॥३।४।११॥
Link copiedतं विद्या-कर्मणी समन्वारभेते, इत्य् अत्र विद्या च स्वस्मै फलाय कर्म च स्वस्मै फलायान्वारभत इति विभागो द्रष्टव्यः, यतो विद्या-कर्मणोर् भिन्न-फलत्वम् उक्तम्। शतवत्--- यथा क्षेत्र-रत्न-विक्रयिणं शत-द्वयम् अन्वेतीत्य् उक्ते, क्षेत्रार्थं शतम्, रत्नार्थं शतम् इति विभागोऽवगम्यते; तद्वत्॥११॥
Link copied४३०। अध्ययन-मात्रवतः॥३।४।१२॥
Link copiedवेदम् अधीत्येत्य् अध्ययन-मात्रवत एव कर्म-विधानाद् अनेन विद्याया न कर्माङ्गत्वम् अवगतम्। अध्ययन-विधिर् ह्य् आधानवन् नियमवद् अक्षर-राशि-ग्रहण-मात्रे पर्यवस्पति; गृहीतस्य स्वाध्यायस्य फलवद् अर्थावबोधित्व-दर्शनात् तन्-निर्णय-फल-मीमांसा-श्रवणे अधीत-वेदः पुरुषः स्वयम् एव प्रवर्तते। अर्थावबोध-पर्यन्तत्वेऽप्य् अर्थ-ज्ञानाद् अर्थान्तर-भूता स्मृति-प्रत्ययावृत्ति-रूपा, विद्यात्, उपासीतेति शास्त्र-विहिता विद्या न कर्माङ्गम्॥१२॥
Link copied४३१। नाविशेषात्॥३।४।१३॥
Link copiedकुर्वन्न् एवेह कर्माणि, इति ब्रह्म-विदाम् आयुषः कर्मणि नियमो दृश्यत इत्य् एतन् न सम्भवति, अविशेषात्--- विदुष एवेति विशेषाभावात् किम् इत्य् अविदुषो न स्यात्। विदुषस् त्व् आप्रयाणाद् उपासनानुवृत्ति-दर्शनाद् अर्थ-स्वभावाद् विदुष एवेत्य् अभिप्रायः॥१३॥
Link copied४३२। स्तुतयेऽनुमतिर् वा॥३।४।१४॥
Link copiedवा-शब्दोऽवधारणे। ईशावास्यम् इदं सर्वम् इति विद्या-प्रकरणाद् विद्या-स्तुतये कर्मानुमतिर् एव। विद्या-माहात्म्यात् सर्वदा कर्माणि कुर्वन्न् अपि तैर् न लिप्यत इति हि स्तुता भवति विद्या। वाक्य-शेषे च--- न कर्म लिप्यते नरे, इति श्रूयते॥१४॥
Link copied४३३। काम-कारेण चैके॥३।४।१५॥
Link copiedएके शाखिनः काम-कारेण च विद्या-निष्ठस्य गार्हस्थ्य-त्यागम् अधीयते। किं प्रजया करिष्यामो येषां नोऽयम् आत्मायं लोकः, इति गार्हस्थ्य-कर्म-त्यागं ब्रुवद् वाक्यं विद्या प्रधानम् इति दर्शयति॥१५॥
Link copied४३४। उपमर्दं च॥३।४।१६॥
Link copiedविद्यया सर्व-कर्मोपमर्दं चाधीयते--- क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे, इति; तद्-विद्यायाः कर्माङ्गत्वे न सङ्गच्छते॥१६॥
Link copied४३५। ऊर्ध्व-रेतःसु च शब्दे हि॥३।४।१७॥
Link copiedऊर्ध्व-रेतःस्व् आश्रमेषु ब्रह्म-विद्या-दर्शनात् तेषु चाग्निहोत्रादि-कर्माभावान् न विद्या कर्माङ्गम्। ते चात्राश्रमाः सन्त्य् एव; यतो वैदिके शब्दे तेऽपि दृश्यन्ते--- त्रयो धर्म-स्कन्धा यज्ञोऽध्ययनं दानम् इति, ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते, एतम् एव प्रवाजिनो लोकम् इच्छन्तः प्रव्रजन्ति, इत्य् आदौ। यावज्-जीवम् अग्निहोत्रम् इत्य् आदिका तु श्रुतिर् अविरक्त-विषया॥१७॥
Link copied४३६। परामर्शं जैमिनिर् अचोदनाच् चापवदति हि॥३।४।१८॥
Link copiedत्रयो धर्म-स्कन्धाः, इत्य् आदिषु तेषाम् आश्रमाणाम् अचोदनात्--- अविधानाद् उपासना-स्तुत्य्-अर्थं परामर्शम्--- अनुवादं जैमिनिर् आचार्यो मन्यते। अपि च, अपवदति हि श्रुतिर् आश्रमान्तरं--- वीरहा वा एष देवानां योऽग्निम् उद्वासयते, इत्य् आदिका। अतस् ते न सन्त्य् एव॥१९॥
Link copied४३७। अनुष्ठेयं बादरायणः साम्य-श्रुतेः॥३।४।१९॥
Link copiedगृहस्थाश्रमवद् आश्रमान्तरम् अप्य् अनुष्ठेयं भगवान् बादरायणो मन्यते। कुतः। तस्यापि तत्-साम्यश्रुतेः--- त्रयो धर्म-स्कन्धाः, इत्य् एवम् आदौ हि सर्वेषाम् आश्रमाणाम् एक-रूपं सङ्कीर्तनम्॥१९॥
Link copied४३८। विधिर् वा धारणवत्॥३।४।२०॥
Link copiedवा-शब्दोऽवधारणे; सर्वेषाम् आश्रमाणां विधिर् एवायम्। धारणवत्, यथा--- अधस्तात् समिधं धारयन्न् अनुद्रवेत्, उपरि हि देवेभ्यो धारयति, इत्य् अनुवाद-रूपेऽप्य् उपरिधारणस्याप्राप्तत्वेन विधिर् आश्रीयते; एवम् इहाश्रमाणाम् अपि। अत ऊर्ध्व-रेतःस्व् अपि विद्या-दर्शनाद् विद्यातः पुरुषार्थ इति॥२०॥ इति पुरुषार्थाधिकरणम्॥१॥
Link copied४३९-४४०। स्तुति-मात्रम् उपादानाद् इति चेन् नापूर्वत्वात्॥३।४।२१॥
Link copiedभाव-शब्दाच् च॥३।४।२२॥
Link copiedओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत, स एष रसानां रसतमः परमः परार्थ्योऽष्टमो यद् उद्गीथः, इत्य् एतज्-जातीयके किं कर्माङ्गाश्रयाणां दृष्टि-विशेषाणां विधिर् आस्थेयः, उतोद्गीथादि-स्तुति-मात्रम् इति संशयः। विधित्वे सिद्धे हि गो-दोहनादिवद् भवति; विधित्वम् एव न सम्भवतीति पूर्वः पक्षः। इयम् एव जुहूः स्वर्गो लोक आहवनीयः, कर्माङ्ग-भूतोद्गीथादि-सम्बन्धितयोपादानाद् रसतमत्वादेस् तत्-स्तुति-मात्रत्वम् एव; न रसतमत्वादि-दृष्टि-विधिः। राद्धान्तस् तु---जुह्व्-आदि-विधिवद् उद्गीथादि-विधेर् अत्रासन्निधानात्, रसतमत्वादेर् अप्राप्तत्वाच् च, उपासीतेति विधि-प्रत्ययेन च, न स्तुति-मात्रम्, तद्-दृष्टि-विधिर् एव। सूत्र-द्वयम् अपि व्याख्यातम्॥२१-२२॥ इति स्तुति-मात्राधिकरणम्॥२॥
Link copied४४१-४४२। पारिप्लवार्था इति चेन् न विशेषितत्वात्॥३।४।२३॥
Link copiedतथा चैक-वाक्योपबन्धात्॥३।४।२४॥
Link copiedप्रतर्दनो ह वै दैवोदासिः, इत्य् आदयो वेदान्तेष्व् आख्यान-विशेषाः किं पारिप्लव-प्रयोगार्थाः, उत तत्र तत्र विद्या-विशेष-प्रतिपादनार्थाः, इति संशयः। आख्यानानि शंसन्तीति पारिप्लवे विनियोगात् तद्-अर्थाः, इति पूर्वः पक्षः। राद्धान्तस् तु--- आख्यानानि शंसन्तीत्य् उक्त्वा, मनुर् वैवस्वतो राजा, इति मन्व्-आद्य्-आख्याने विनियोगस्य विशेषितत्वात्, तं माम् आयुर् अमृतम् इत्य् उपाःस्व, आत्मा वा अरे द्रष्टव्यः, इत्य् आदि विधिनैक-वाक्यत्वाच् च, सोऽरोदीत्, इत्य् आदिवद् विद्या-विध्य्-अर्था एव। सूत्र-द्वयम् अपि व्याख्यातम्॥२३-२४॥ इति पारिप्लवार्थाधिकरणम्॥३॥
Link copied४४३। अत एव चाग्नीन्धनाद्य्-अनपेक्षा॥३।४।२५॥
Link copiedऊर्ध्व-रेतःस्व् आश्रमेषु ब्रह्म-विद्या सम्भवति, नेति संशयः। यज्ञाद्य्-अभावात् तेषां तद्-अङ्गिका विद्या न सम्भवतीति पूर्वः पक्षः। राद्धान्तस् तु--- यद् इच्छन्तो ब्रह्मचर्यं चरन्ति, एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, इत्य् आदि श्रुतेस् तेषां विद्यावत्त्वावगमात् तेष्व् अग्निहोत्राद्य्-अनपेक्षा विद्येति निश्चीयते। सूत्रार्थस् तु--- अत एव, विद्यावत्त्व-श्रुतेर् एव, आधानाद्य्-अनपेक्षा तेषु विद्या। अग्नीन्धनं ह्य् अग्न्य्-आधानम्॥२५॥ इत्य् अग्नीन्धनाद्य्-अधिकरणम्॥४॥
Link copied४४४। सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत्॥३।४।२६॥
Link copiedकर्मवत्सु गृहस्थेषु किं यज्ञादि-कर्मापेक्षा विद्या, उत तत्रापि केवलैवेति संशयः। ऊर्ध्व-रेतःसु यज्ञाद्य्-अनपेक्षैवामृतत्वं साधयति चेत् कर्म-निरपेक्षाया विद्याया एव साधनत्वम् अभ्युपगमनीयम्। तथा सति गृहस्थेष्व् अपि तन्-निरपेक्षैव साधयितुं समर्थेति पूर्वः पक्षः। न हि स्वर्गादि-साधन-भूतम् अग्निहोत्रादि-कर्म पुरुष-भेदेन नाना-विधाङ्गकं दृष्टम्। विविदिषन्तीति शब्दोऽपि वेदनेच्छायां कर्माणि विनियुङ्क्ते, न विद्यायाम्। राद्धान्तस् तु--- कर्मवत्सु गृहस्थेषु यज्ञादि-सर्व-कर्मापेक्षा विद्या। कुतः। यज्ञादि-श्रुतेः--- तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन, इति हि यज्ञादयो विद्याङ्गत्वेन विनियुज्यन्ते। अतो गृहस्थेषु कर्मापेक्षा विद्या। इच्छाया इष्यमाण-प्रधानत्वाद् विविदिषन्तीतीष्यमाणं ज्ञानम् एवेत्य् अवगम्यते। यथा गमन-साधन-भूतोऽश्वः स्व-परिकर-बन्ध-रूप-परिकर्मापेक्षः; एवं मोक्ष-साधन-भूता विद्यापि नित्य-नैमित्तिक-परिकर्मापेक्षा। ऊर्ध्व-रेतःसु च स्वाश्रम-विहितं कर्मैव परिकर्म भवतीति तेष्व् अपि विद्या-सम्बन्धः शास्त्राद् अवगम्यते। शास्त्रैक-समधिगम्ये हि यथाशास्त्रम् अभ्युपगमनीयम्। सूत्रम् अपि व्याख्यातम्॥२६॥ इति सर्वापेक्षाधिकरणम्॥५॥
Link copied४४५। शम-दमाद्य्-उपेतः स्यात् तथापि तु तद्-विधेस् तद्-अङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात्॥३।४।२७॥
Link copiedकिं विद्या-निर्वृत्तये गृहस्थैः शम-दमादय उपादेयाः, उत नेति संशयः। गृहस्थानाम् आन्तर-बाह्य-करण-व्यापार-रूप-कर्माङ्गकत्वाद् विद्यायाः, तद्-विपरीत-रूप-शम-दमाद्य्-उपादानासामर्थ्याद् ऊर्ध्व-रेतःसु कर्म-रहितेषु शमादि-विनियोगो भविष्यति, यथा यज्ञादि-विनियोगः कर्मवत्सु गृहस्थेषु। तस्माद् अनुपादेयाः शमादय इति पूर्वः पक्षः। राद्धान्तस् तु--- तस्माद् एवं-विच् छान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्येत्, इति सामान्येन विद्याङ्गतया विनियोगाद् गृहस्थैर् अप्य् उपादेयाः। न च कर्मवतां तेषां शमाद्य्-उपादानासामर्थ्यम्; भिन्न-विषयत्वाच् छमादेः। विहितेषु हि कर्मसु करण-व्यापारः; अविहितेषु प्रयोजन-शून्येषु च शम-दमादयः। अतः शमादि-विनियोगो यज्ञादि-विनियोगवन् न सङ्कोचम् अर्हतीति। सूत्रार्थस् तु--- यद्य् अपि गृहस्थो यज्ञादि-कर्मसु विनियुक्तः, तथापि तु शम-दमाद्य्-उपेतः स्यात्। कुतः। शान्तो दान्तः, इत्य् आदिना तद्-विधेस् तद्-अङ्गतया--- विद्याङ्गतया विद्या-निष्पत्तये तेषाम् अवश्यानुष्ठेयत्वाच् च। एकाग्रता-निष्पाद्यत्वाच् छम-दमादिभिर् एव विद्या-निष्पत्तिर् इत्य् अर्थः। यज्ञादि-कर्माण्य् अपि पाप-निबर्हण-द्वारेणैकाग्रताम् आपादयन्तीत्य् अभिप्रायः॥२७॥ इति शम-दमाद्य्-अधिकरणम्॥६॥
Link copied४४६। सर्वान्नानुमतिश् च प्राणात्यये तद्-दर्शनात्॥३।४।२८॥
Link copiedवाजिनां छन्दोगानां प्राण-विद्यायां, न ह वा एवं-विदि किञ्चनान्नं भवति, इति सर्वान्नानुमतिः सङ्कीर्त्यते। किं प्राण-विदः सर्वान्नानुमतिः सर्वदा, उत प्रणात्ययापत्ताव् इति संशयः। अविशेषासर्वदेति पुर्वः पक्षः। अतिशयित-शक्तेर् ब्रह्म-विदोऽप्य् उच्छिष्ट-परिग्रहण-भक्षणयोः प्राणात्ययापत्ताव् एव दर्शनाद् अल्प-शक्तेः प्राण-विदः किं पुनर् इति प्राणात्ययापत्ताव् एवेति राद्धान्तः। सुत्रर्थस् तु--- च-शब्दोऽवधरणे; प्राण-विदः सर्वन्नानुमतिः। प्राणात्यय एव। कुतः। तद्-दर्शनात्--- अतिशयित-शक्तेर् ब्रह्म-विदः प्राणात्यय एव सर्वन्नानुमति-दर्शनात्॥२८॥
Link copied४४७। अबाधाच् च॥३।४।२९॥
Link copiedआहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुवा स्मृतिः, इत्य् आहार-शुद्धि-विधेर् अबाधाच् च प्राणात्यय एव॥२९॥
Link copied४४८। अपि स्मर्यते॥३।४।३०॥
Link copiedप्राण-संशयम् आपन्नो योऽन्नम् अत्ति यतस् ततः। लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा, इति प्राण-संशय एव सर्वान्नानुमतिः स्मर्यते च॥३०॥
Link copied४४९। शब्दश् चातोऽकाम-कारे॥३।४।३१॥
Link copiedयतः सर्वान्नानुमतिः प्राणात्यये; अतोऽकाम-कारे शब्दश् च--- काम-कारस्य प्रतिषेधक-शब्दश् चोपपद्यत इत्य् अर्थः। अस्ति हि कठानां काम-कार-प्रतिषेधकः शब्दः, तस्माद् ब्राह्मणः सुरां न पिबति पाप्मना नोत्सृजा, इति। पाप्मना संस्पृष्टो न भवानीति मत्वा सुरां न पिबतीत्य् अर्थः॥३१॥
Link copiedइति सर्वान्नानुमत्य्-अधिकरणम्॥७॥
Link copied४५०। विहितत्वाच् चाश्रम-कर्मापि॥३।४।३२॥
Link copiedकिं यज्ञादयो विद्याङ्ग-भूताः केवलाश्रमस्याप्य् अङ्ग-भूताः, उत नेति संशयः। केवलाश्रमस्याप्य् अङ्गत्वे नित्यानित्य-संयोग-रूप-विरोधः प्रसज्यत इति नाङ्ग-भूताः केवलाश्रमस्येति पूर्वः पक्षः। राद्धान्तस् तु--- यदैकेनैव विनियोगेनोभयाङ्गत्वम् इष्यते तदा नित्यानित्य-संयोग-विरोधः। इह तु--- यावज्-जीवम् अग्निहोत्रं जुहुयात्, तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन, इति विनियोग पृथक्त्वेन विरोधः परिह्रियते; यथाग्निहोत्रादीनाम् एव कर्मणाम्। जीवनाधिकारकाम् अनाधिकारयोर् इवाधिकार-भेदस्यास्फुटत्वात् तत्-स्फुटीकरणाय पुनर् इह चिन्त्यते। सूत्रार्थस् तु--- यावज्-जीवम् अग्निहोत्रं जुहुयाद् इत्य् आदिना केवल-गृहस्थाश्रमिणो जीवन-निमित्ततया विहितत्वाद् एव यज्ञादि केवलाश्रम-कर्मापि॥३२॥
Link copied४५१। सहकारित्वेन च॥३।४।३३॥
Link copiedतम् एतं वेदानुवचनेनेत्य् आदिना विद्या-साधनत्वेन विहितत्वाच् च विद्या-सहकारित्वेन चानुष्ठेयं यज्ञादि-कर्म। विनियोग-पृथक्त्वेन विरोधः परिह्रियत इत्य् अभिप्रायः॥३३॥
Link copied४५२। सर्वथापि त एवोभय-लिङ्गात्॥३।४।३४॥
Link copiedसर्वथापि--- उभयत्र विनियोगेऽपि त एव यज्ञादयः। कुतः। उभय-लिङ्गात्--- उभयत्र प्रत्यभिज्ञानाख्यलिङ्गात्॥३४॥
Link copied४५३। अनभिभवं च दर्शयति॥३।४।३५॥
Link copiedधर्मेण पापम् अपनुदति, इत्य् आदिभिश् च यज्ञादि-धर्मान् निर्दिश्य तैर् विद्याया अनभिभवं--- पाप-कर्मभिर् उत्पत्ति-प्रतिबन्धाभावं दर्शयति। अत उभयत्र विनियोगात् केवलाश्रमिणां मुमुक्षूणां चानुष्ठेया यज्ञादयः॥३५॥ इति विहितत्वाधिकरणम्॥८॥
Link copied४५४। अन्तरा चापि तु तद्-दृष्टेः॥३।४।३६॥
Link copiedविधुरादीनाम् अनाश्रमिणां ब्रह्म-विद्यायाम् अधिकारोऽस्ति, नेति संशयः। आश्रम-धर्मेतिकर्तव्यताकत्वाद् विद्यायास् तद्-अभावात् तेषाम् अनधिकार इति पूर्वः पक्षः। राद्धान्तस् तु--- ऊर्ध्व-रेतःस्व् इव रैक्वादिष्व् अनाश्रमिषु विद्या-निष्ठत्व-दर्शनाद् आश्रमानियतैर् जपोपवास-दानादिभिर् एव तेषां विद्यानुग्रहो भवतीत्य् अस्त्य् एवाधिकारः। सूत्रार्थस् तु--- तु-शब्दात् पक्षो व्यावृत्तः। च-शब्दोऽवधारणे। अन्तरापि--- आश्रमानन्तरा वर्तमानानाम् अनाश्रमिणाम् अप्य् अधिकारोऽस्त्य् एव। कुतः। तद्-दृष्टेः--- रैक्वादिषु विद्या-निष्ठत्व-दृष्टेः॥३६॥
Link copied४५५। अपि स्मर्यते॥३।४।३७॥
Link copiedअपि च अनाश्रमिणाम् अपि जपादिभिर् एव विद्यानुग्रहः स्मर्यते--- जप्येनापि च संसिध्येद् ब्रह्मणो नात्र संशयः, इत्य् आदिना॥३७॥
Link copied४५६। विशेषानुग्रहश् च॥३।४।३८॥
Link copiedआश्रमानियत-धर्म-विशेषेण विद्यानुग्रहः श्रूयते च--- तपसा ब्रह्मचर्येण श्रद्धया विद्यया चात्मानम् अन्विच्छेत्, इति॥३८॥
Link copied४५७। अतस् त्व् इतरज् ज्यायो लिङ्गाच् च॥३।४।३९॥
Link copiedअतः--- अनाश्रमित्वादितरत्, आश्रमित्वं ज्यायः, धर्म-भूयस्त्वात्; लिङ्गाच् च स्मृतेश् चेत्य् अर्थः। अनाश्रमी न तिष्ठेत् तु दिनम् एकम् अपि द्विजः, इति हि स्मर्यते। तस्माद् अनाश्रमित्वेन विद्या-निष्ठत्वम् आपद्-विषयम् इत्य् अभिप्रायः॥३९॥ इति विधुराधिकरणम्॥९॥
Link copied४५८। तद्-भूतस्य तु नातद्-भावो जैमिनेर् अपि नियमात् तद्-रूपाभावेभ्यः॥३।४।४०॥
Link copiedनैष्ठिक-वैखानस-परिव्राजकानां स्वाश्रमेभ्यः प्रच्युतानाम् अपि विद्याधिकारोऽस्ति, नेति संशयः। विधुरादिवज् जपादिभिर् अनुग्रह-सम्भवाद् अस्त्य् एवाधिकार इति पूर्वः पक्षः। राद्धान्तस् तु--- नैष्ठिकादीनां स्वाश्रम-भ्रष्टानां प्रायश्चित्ताभाव-स्मरणाच् छिष्ट-बहिष्कृतत्वाच् च तेषाम् अनधिकारः, इति। सूत्रार्थस् तु--- तद्-भूतस्य तु नातद्-भावः--- नैष्ठिकादि-भूतस्यातथाभावो न सम्भवति। कुतः। तद्-रूपाभावेभ्यः शास्त्रैर् नियमात्, तद्-रूपाभावा नैष्ठिकाद्य्-आश्रम-धर्माभावाः; तेभ्यो नियच्छन्ति हि शास्त्राणि। ब्रह्मचार्याचार्य-कुल-वासी तृतीयोऽत्यन्तम् आत्मानम् आचार्य-कुलेऽवसादयन्, इति नैष्ठिकस्य तत्रैव नियमः; अरण्यम् इयात् ततो न पुनर् एयात्, इति च वैखानसस्य; सन्न्यस्याग्निं न पुनर् आवर्तयेत्, इति च परिव्राजकस्य। अत एव तेषाम् अनाश्रमित्वेनावस्थानाभावाद् विद्याधिकारो न सम्भवति। जैमिनेर् अप्य् अविगीतोऽयम्॥४०॥
Link copied४५९। न चाधिकारिकम् अपि पतनानुमानात् तद्-अयोगात्॥३।४।४१॥
Link copiedआधिकारिकम्--- अधिकार-लक्षणोक्तम्, अवकीर्णि पशुश् च तद्वत्, इत्य् एतत् प्रायश्चित्तं नैष्ठिकस्य न सम्भवति। कुतः। पतनानुमानान् नैष्ठिकस्य तद्-अयोगात्। तस्य हि पतनं स्मर्यते प्रायश्चित्ताभाव-वचनेन, आरूढो नैष्ठिकं धर्मं यस् तु प्रच्यवते द्विजः। प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महा, इति। अत उपकुर्वाण-ब्रह्मचारि-विषयमाधिकारिकम्॥४१॥
Link copied४६०। उपपूर्वम् अपीत्य् एके भावम् अशनवत् तद् उक्तम्॥३।४।४२॥
Link copiedएके प्रायश्चित्त-भावम् अपि मन्यन्ते, यत उपपूर्वम्--- उपपातकम् इदम्; अशनवत्--- मध्व्-अशनादि-निषेध-तत्-प्रायश्चित्तवद् भवतीत्य् अर्थः। अत उपकुर्वाणस्य ब्रह्मचारिण उक्तम् आधिकारिकम् अस्यापि भवतीति। तद् उक्तं स्मृति-कारैः, उत्तरेषां चैतद्-अविरोधि, इति। उपकुर्वाणे ब्रह्मचारिण्य् उक्तो धर्म उत्तरेषां चाश्रमिणां स्वाश्रमाविरोधी भवत्य् एवेत्य् अर्थः॥४२॥
Link copied४६१। बहिस् तूभयधापि स्मृतेर् आचाराच् च॥३।४।४३॥
Link copiedउभयधापि--- उपपातकत्वे महा-पातकत्वेऽपि नैष्ठिकात् प्रच्युतो बहिर् भूतः कर्माधिकारात्, प्रायश्चित्तं न पश्यामि, इति स्मृतेः, आचाराच् च--- वर्जयन्ति ह्य् एनं शिष्टा विद्योपदेशादौ। यद्य् अपि कल्मष-निबर्हणाय कैश्चित् प्रायश्चित्तम् उच्यते; तथापि कर्माधिकारापादिनी शुद्धिस् तेषां न सम्भवतीत्य् अभिप्रायः॥४३॥ इति तद्-भताधिकरणम्॥१०॥
Link copied४६२। स्वामिनः फल-श्रुतेर् इत्य् आत्रेयः॥३।४।४४॥
Link copiedउद्गीथाद्य्-उपासनं किं यजमानेनानुष्ठेयम्, उत ऋत्विजेति संशयः। यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति क्रतु-वीर्यवत्तरत्व-फलं यजमानस्येति दहरोपासनादिवद् यजमानेनानुष्ठेयम् इति पूर्वः पक्षः। कर्माङ्गाश्रयत्वाद् अस्योपासनस्य कर्मणश् चार्त्विज्यत्वेन एतद् अपि ऋत्विजानुष्ठेयं, गो-दोहनादिवद् इति राद्धान्तः। सूत्रार्थस् तु--- स्वामिनः, यजमानस्योद्गीथाद्य्-उपासने कर्तृत्वम्। कुतः। तस्यैव फल-श्रुतेर् इत्य् आत्रेयो मन्यते॥४४॥
Link copied४६३। आर्त्विज्यम् इत्य् औडुलोमिस् तस्मै हि परिक्रियते॥३।४।४५॥
Link copiedक्रत्व्-अङ्गाश्रयत्वेन क्रत्व्-अधिकृतस्यैवास्मिन्न् उपासनेऽधिकारात् क्रतोश् चार्त्विज्यत्वेन एतद् अप्य् आर्त्विज्यम् इत्य् औडुलोमिर् आचार्यो मन्यते, यजमान-फल-साधनत्वेऽपि क्रतोस् तद्-अनुष्ठानाय हि ऋत्विक् परिक्रियते॥४५॥ इति स्वाम्य्-अधिकरणम्॥११॥
Link copied४६४। सहकार्यन्तर-विधिः पक्षेण तृतीयं तद्वतो विध्य्-आदिवत्॥३।४।४६॥
Link copiedतस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्, बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः, इत्य् अत्र मौनं विद्याङ्गतया विधीयते, उतानूद्यत इति संशयः। मौनस्य मनन-रूपत्वात्, श्रोतव्यो मन्तव्यः, इति च प्राप्तत्वेनानूद्यत इति पूर्वः पक्षः। राद्धान्तस् तु--- मुनि-शब्दस्य प्रकृष्ट-मनन-शीले प्रसिद्धेः, प्रकृष्ट-मननम् उपास्य-विषयाभ्यास-रूपं विद्या-निष्पत्तये विधीयत इति। सूत्रार्थस् तु--- तद्वतः, विद्यावतः, सहकार्यन्तरं--- मौनं विधिः, विधीयत इति विधिर् इति मौनं विधिर् इत्य् उक्तम्। विध्यादिवत्--- अत्रापि विधीयत इति विधिर् यज्ञ-दान-प्रभृत्य्-आश्रम-धर्मः, आदि-शब्दाच् छ्रवण-मनने गृह्येते। आश्रम-धर्मवच् छ्रवण-मननवच् च पाण्डित्य-बाल्ययोस् तृतीयम् इदं सहकार्यन्तरं मौनम् अपूर्वं विधीयते। कुत इत्य् अत आह--- पक्षेणेति। मुनि-शब्दस्य प्रकृष्ट-मनन-युक्ते पक्षेण--- प्रसिद्धेर् इत्य् अर्थः॥४६॥
Link copied४६५। कृत्स्न-भावात् तु गृहिणोपसंहारः॥३।४।४७॥
Link copiedसर्वाश्रमिणां विद्यावत्त्वेऽपि छान्दोग्ये--- स खल्व् एवं वर्तयन् यावद्-आयुषं ब्रह्म-लोकम् अभिसम्पद्यते, इति गृहस्थ-धर्मेणोपसंहारः। कुतः। कृत्स्न-भावात्--- कृत्स्नेषु भावात्--- कृत्स्नेष्व् आश्रमिषु विद्यायाः सद्-भावाद् इत्य् अर्थः॥४७॥
Link copied४६६। मौनवद् इतरेषाम् अप्य् उपदेशात्॥३।४।४८॥
Link copiedअथ मुनिः, इत्य् अस्मिन् वाक्ये, अथ भिक्षाचर्यं चरति, इति पारिव्राज्यैकान्त-धर्मेणोपसंहारोऽपि सर्वाश्रम-धर्म-प्रदर्शनार्थः, भिक्षाचर्य-मौनादिवद् इतरेषाम् आश्रम-धर्माणां यज्ञादीनाम् अप्य् उपदेशात्॥४८॥ इति सहकार्यन्तर-विध्य्-अधिकरणम्॥१२॥
Link copied४६७। अनाविष्कुर्वन्न् अन्वयात्॥३।४।४९॥
Link copiedतस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः, इत्य् अत्र किं बालस्य कर्म काम-चारादिकं सर्वं विदुषोपादेयम्, उत विद्या-माहात्म्यानाविष्कार इति संशयः। बाल्येन तिष्ठासेद् इत्य् अविशेष-विधानात् काम-चारादिकं सर्वम् अप्य् उपादेयम् इति पूर्वः पक्षः; विदुषो विशेष-विधानात्, विद्या-माहात्म्याच् च, निषेध-श्रुतयो बाधिता भवेयुर् इति। राद्धान्तस् तु--- पाण्डित्य-प्रयुक्त-स्व-माहात्म्यानाविष्कार एव विद्यान्वय-योग्यतयोपादेयः; इतरस्य काम-चारादेः, नाविरतो दुश्चरितात्, इत्य् आदि शस्त्रैर् विद्योत्पत्ति-विरोधित्वावगमात्। अतो यथा बालः स्वाभिजनाद्य् अनाविष्कुर्वन् वर्तते; तथा विद्वान् वर्तेतेत्य् एतद् एव युक्तम्। सूत्रम् अपि व्याख्यातम्॥४९॥ इत्य् अनाविष्काराधिकरणम्॥१३॥
Link copied४६८। ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात्॥३।४।५०॥
Link copiedमोक्ष-व्यतिरिक्ताभ्युदय-फलम् उपासनं किं स्व-साधन-भूत-पुण्य-कर्मानन्तरम् एवोत्पद्यते, उतानन्तरम् अन्यदा वेत्य् अनियम इति संशयः। साधन-निर्वृत्तौ विलम्ब-हेत्व्-अभावाद् अनन्तरम् एवेति पूर्वः पक्षः। राद्धान्तस् तु--- अप्रस्तुते--- प्रबल-कर्मान्तर-प्रतिबन्धे सत्य् अनन्तरम्, प्रस्तुते तद्-उत्तर-कालम् इत्य् अनियमः। दृश्यते हि प्रबल-कर्मान्तरेण फल-प्रतिबन्धः, यद् एव विद्यया करोति तद् एव वीर्यवत्तरम् इत्य् उद्गीथोपासनस्य क्र्तोः कर्मान्तरेण फलाप्रतिबन्धः फलम् इति, पृथग् घ्य् अप्रतिबन्धः फलम् इत्य् अभ्युपगमात्। सूत्रम् अपि व्याख्यातम्। ऐहिकम्--- अभ्युदय-फलम् इत्य् अर्थः॥५०॥
Link copiedइत्य् ऐहिकाधिकरणम्॥१४॥
Link copied४६९। एवं मुक्ति-फलानियमस् तद्-अवस्थावधृतेस् तद्-अवस्थावधृतेः॥३।४।५१॥
Link copiedकिं मुक्ति-फलान्य् उपासनानि स्व-साधन-भूतातिशयित-पुण्य-कर्मानन्तरम् उत्पद्यन्ते, उत पूर्ववद् अनियम इति संशयः। मुक्ति-फलोपासन-साधन-भूत-कर्मणां सर्व-कर्मभ्यो बलवत्तरत्वेन प्रतिबन्धाभावाद् अनन्तरम् एवोत्पद्यत इति पूर्वः पक्षः। तत्रापि ब्रह्म-विद्-अपचारस्य ततोऽपि बलवत्तरत्वेन प्रतिबन्ध-सम्भवाद् अनियम एवेति राद्धान्तः। सूत्रार्थस् तु--- मुक्ति-फलानाम् अप्य् एवम् अनियमः। कुतः। तद्-अवस्थावधृतेः--- प्रतिबन्धाभावे सति फलावधृतेः। द्विर्-उक्तिर् अध्याय-परिसमाप्तिं द्योतयति॥५१॥ इति मुक्ति-फलाधिकरणम्॥१५॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे तृतीयस्याध्यायस्य चतुर्थः पादः॥
Link copied॥ समाप्तश् चाध्यायः॥
Link copied౪౧౯। పురుషార్థోఽతః శబ్దాద్ ఇతి బాదరాయణః॥౩।౪।౧॥
Link copiedకిం విద్యాతః పురుషార్థః, ఉత కర్మణ ఇతి సంశయః। కర్మణ ఇతి పూర్వః పక్షః; కర్మాఙ్గత్వాద్ విద్యాయా; కర్మసు కర్తృ-భూత-ప్రత్యగాత్మనో యాథాత్మ్య-ప్రతిపాదన-పరాణి వేదాన్త-వాక్యాని। విద్యాయాః కర్మాఙ్గత్వం చ--- యద్ ఏవ విద్యయా కరోతి\॥॥తద్ ఏవ వీర్యవత్తరమ్ ఇతి శ్రుత్యైవావగమ్యతే। న చ ప్రకృతోద్గీథోపాసన-విషయత్వమ్ అస్య వక్తుం శక్యతే, యద్ ఏవ విద్యయా కరోతీతి శ్రుత్యైవ సర్వ-కర్మసు విద్యాయా వినియుక్తత్వాత్। శ్రుతిశ్ చ ప్రకరణాద్ బలీయసీ। విద్యాయాః కర్మాఙ్గత్వం కథమ్ ఇత్య్ అపేక్షాయాం, తత్ త్వమ్ అసి, అయమ్ ఆత్మా బ్రహ్మేతి సామానాధికరణ్యేన కర్మాఙ్గ-భూత-కర్తృ-యాథాత్మ్యానుసన్ధాన-ద్వారేణ విద్యాయాః కర్మాఙ్గత్వమ్ ఇత్య్ అవగమ్యతే। అతః కర్తృ-సంస్కార-రూపత్వాబ్రహ్మ-విద్యాయాః కర్మణ ఏవ పురుషార్థః। తత్ర తత్ర ఫల-శ్రుతిర్ అర్థవాదః స్యాత్। విద్యాయాః కర్మాఙ్గత్వే భూయాంసి లిఙ్గాని చ దృశ్యన్తే సర్వ-వేదాన్తేషు। రాద్ధాన్తస్ తు--- కర్మసు కర్తుః ప్రత్యగాత్మనోఽర్థాన్తర-భూతస్య స్వ-సఙ్కల్ప-కృత-జగద్-ఉదయ-విభవ-లయ-లీలస్య నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైకతానానన్త-జ్ఞానానన్దైక-స్వరూపస్య సర్వేశ్వరస్య సత్య-సఙ్కల్పస్య కరణాధిప-రూప-ప్రత్యగాత్మాధిపస్య వేద్యస్య వేదన-రూపాయా విద్యాయాః, బ్రహ్మ-విద్ ఆప్నోతి పరమ్ ఇత్య్ ఆదిషు బ్రహ్మ-ప్రాప్తి-రూప-ఫలోపదేశాద్ విద్యాత ఏవ ఫలమ్। యద్ ఏవ విద్యయా కరోతీతి శ్రుతిః ప్రసిద్ధవన్ నిర్దేశాత్; ప్రసిద్ధిశ్ చ ప్రకృతోద్గీథోపాసనస్యైవేతి, ప్రస్తుతోద్గీథోపాసన-విశేష-నిష్ఠా। తత్ త్వమ్ అసీతి సామానాధికరణ్యం చ తచ్-ఛబ్ద-నిర్దిష్టస్య స్వ-సఙ్కల్ప-కృత-జగజ్-జన్మ-స్థితి-ధ్వంసాదికస్య పరస్య బ్రహ్మణో న జీవ-స్వరూపత్వ-పరమ్; అపి తు జగత్-కారణస్య బ్రహ్మణో జీవ-శరీరకతయా జీవస్యాత్మత్వ-పరమ్ ఇతి, అధికం తు భేద-నిర్దేశాద్ ఇత్య్ ఆదిషూక్తమ్। య ఆత్మతి తిష్ఠన్ \॥॥యస్యాత్మా శరీరమ్ ఇతి చ ప్రత్యగాత్మన ఆత్మత్వం పరస్య బ్రహ్మణః శ్రుత్య్-అన్తరే వ్యక్తమ్। సూత్రార్థస్ తు--- పురుషార్థోఽతః, విద్యాతః। కుతః। బ్రహ్మ-విద్ ఆప్నోతి పరమ్ ఇత్య్ ఆది శబ్దాత్॥౧॥
Link copied౪౨౦। శేషత్వాత్ పురుషార్థవాదో యథాన్యేష్వ్ ఇతి జైమినిః॥౩।౪।౨॥
Link copiedతత్ త్వమ్ అసీత్య్ ఆది సామానాధికరణ్యేన బ్రహ్మణః కర్మసు కర్తృ-స్వరూపత్వావగమాద్ విద్యాయాః కర్తృ-సంస్కార-ద్వారేణ కర్మ-శేషత్వాత్ తత్ర పురుషార్థవాదోఽర్థవాద-మాత్రమ్; యథా అన్యేషు ద్రవ్య-సంస్కారాదిష్వ్ ఇతి జైమినిర్ ఆచార్యో మన్యతే॥౨॥
Link copied౪౨౧। ఆచార-దర్శనాత్॥౩।౪।౩॥
Link copiedఇతశ్ చ విద్యా కర్మాఙ్గమ్; బ్రహ్మ-విదామ్ ఆచారో హి కర్మ-ప్రధానో దృశ్యతే। యథాశ్వపతిః కేకయో బ్రహ్మ-విద్-అగ్రేసరః--- యక్ష్యమాణో హ వై భగవన్తోఽహమ్ అస్మి, ఇత్య్ ఆహ। కర్మణైవ హి సంసిద్ధిమ్ ఆస్థితా జనకాదయః, ఇతి చ స్మర్యతే॥౩॥
Link copiedలిఙ్గమ్ ఇదమ్; ప్రాప్తిర్ ఉచ్యతామ్ ఇత్య్ అత్రాహ---
Link copied౪౨౨। తచ్ ఛ్రుతేః॥౩।౪।౪॥
Link copiedయద్ ఏవ విద్యయా కరోతీత్య్ ఆదికాయాః శ్రుతేర్ విద్యాయాః కర్మాఙ్గత్వమ్ అవగమ్యతే। న చ దుర్బలేన ప్రకరణేన శ్రుతిర్ విద్యా-విశేషోద్గీథ-విషయోపాసనే వ్యవస్థాప్యతే॥౪॥
Link copied౪౨౩। సమన్వారమ్భణాత్॥౩।౪।౫॥
Link copiedతం విద్యా-కర్మణీ సమన్వారభేతే, ఇతి విద్యా-కర్మణోర్ ఏకస్మిన్ పురుషే సాహిత్యం చ విద్యాయాః కర్మాఙ్గత్వే హి భవతి॥౫॥
Link copied౪౨౪। తద్వతో విధానాత్॥౩।౪।౬॥
Link copiedవిద్యావతః కర్మ-విధానాచ్ చ విద్యా కర్మాఙ్గమ్। ఆచార్య-కులాద్ వేదమ్ అధీత్య యథావిధానం గురోః కర్మాతిశేషేణాభిసమావృత్య కుటుమ్బే, ఇత్య్ ఆదినాధ్యయనవతః కర్మాణి విదధదర్థావబోధ-పర్యన్తత్వాద్ అధ్యయనస్య విద్యావత ఏవ కర్మాణి విదధాతీత్య్ అవగమ్యతే॥౬॥
Link copied౪౨౫। నియమాత్॥౩।౪।౭॥
Link copiedకుర్వన్న్ ఏవేహ కర్మాణి జిజీవిషేచ్ ఛతం సమాః, ఇత్య్ ఆత్మ-విదామ్ ఆయుషః కర్మసు నియమ-దర్శనాచ్ చ కర్మణ ఏవ పురుషార్థః; న విద్యాత ఇత్య్ అవగమ్యతే। అతశ్ చ విద్యా కర్మాఙ్గమ్॥౭॥
Link copied౪౨౬। అధికోపదేశాత్ తు బాదరాయణస్యైవం తద్-దర్శనాత్॥౩।౪।౮॥
Link copiedతు-శబ్దాత్ పక్షో వ్యావృత్తః। బాదరాయణస్యైవం--- విద్యాతః ఫలమ్ ఇతి మతమ్। కుతః। అధికోపదేశాత్--- కర్మసు కర్తుః ప్రత్యగాత్మనోఽధికస్య--- అర్థాన్తరభూతస్య వేద్యస్య వేదన-భూత-విద్యాయాః ఫల-సాధనత్వోపదేశాత్। తద్-దర్శనాత్--- దృశ్యతే హి వేదాన్త-వాక్యేఽధిక-విషయత్వం విద్యాయాః। ఏవమ్ ఏవ హి--- తద్ ఐక్షత బహు స్యాం ప్రజాయేయేతి, సోఽకామయత బహు స్యాం ప్రజాయేయేత్య్ ఆదిషు బహు-భవన-సఙ్కల్ప-పూర్వక-సృష్టయాదేః కర్తుః సర్వేశ్వరస్య కరణాధిపాధిపస్యానవధికాతిశయ-జ్ఞానానన్దైక-స్వరూపస్య నిఖిల-హేయ-ప్రత్యనీకస్య వేద్యస్య విద్యా బ్రహ్మ-ప్రాప్తి-ఫలాయ విధీయతే॥౮॥
Link copied౪౨౭। తుల్యం తు దర్శనమ్॥౩।౪।౯॥
Link copiedవిద్యాయాః ప్రధానత్వేఽపి బ్రహ్మ-విదామ్ ఆచార-దర్శనం తుల్యమ్--- కర్మణామ్ అనాచార-దర్శనమ్ అప్య్ అస్తీత్య్ అర్థః, ఋషయః కావషేయాః కిమ్-అర్థా వయమ్ అధ్యేష్యామహే కిమ్-అర్థా వయం యక్ష్యామహే, ఇత్య్ ఆదౌ। కర్మానుష్ఠాన-దర్శనం తు ఫలాభిసన్ధి-రహితస్య కర్మణో విద్యాఙ్గత్వాత్; త్యాగస్ తు ఫలాభిసన్ధి-యుక్తస్య విద్యా-విరోధిత్వాద్ ఇత్య్ అభిప్రాయః॥౯॥
Link copied౪౨౮। అసార్వత్రికీ॥౩।౪।౧౦॥
Link copiedయద్ ఏవ విద్యయా కరోతీతి శ్రుతిః సర్వ-విద్యాయాః కర్మాఙ్గత్వం విదధాతీత్య్ ఏతద్ అసఙ్గతమ్; అత్ర విద్యా-శబ్దాభిహితా తు న సార్వత్రిక్రీ, అపి తూద్గీథ-విద్యా। యత్ కరోతి, తద్ విద్యయేతి నైవం పదాన్వయః; అపి తు యద్ ఏవ విద్యయా కరోతి, తద్ ఏవ వీర్యవత్తరమ్ ఇతి। విద్యయా క్రియమాణస్యాన్యతోఽవగతస్య వీర్యవత్తరత్వం ప్రతిసాధన-భావోఽవగమ్యతే, యద్ ఏవేతి ప్రసిద్ధవన్ నిర్దేశాత్। అన్యతోఽవగతిర్ హి, ఉద్గీథమ్ ఉపాసీతేతి సన్నిహితోద్గీథ-విద్యాయాః॥౧౦॥
Link copied౪౨౯। విభాగః శతవత్॥౩।౪।౧౧॥
Link copiedతం విద్యా-కర్మణీ సమన్వారభేతే, ఇత్య్ అత్ర విద్యా చ స్వస్మై ఫలాయ కర్మ చ స్వస్మై ఫలాయాన్వారభత ఇతి విభాగో ద్రష్టవ్యః, యతో విద్యా-కర్మణోర్ భిన్న-ఫలత్వమ్ ఉక్తమ్। శతవత్--- యథా క్షేత్ర-రత్న-విక్రయిణం శత-ద్వయమ్ అన్వేతీత్య్ ఉక్తే, క్షేత్రార్థం శతమ్, రత్నార్థం శతమ్ ఇతి విభాగోఽవగమ్యతే; తద్వత్॥౧౧॥
Link copied౪౩౦। అధ్యయన-మాత్రవతః॥౩।౪।౧౨॥
Link copiedవేదమ్ అధీత్యేత్య్ అధ్యయన-మాత్రవత ఏవ కర్మ-విధానాద్ అనేన విద్యాయా న కర్మాఙ్గత్వమ్ అవగతమ్। అధ్యయన-విధిర్ హ్య్ ఆధానవన్ నియమవద్ అక్షర-రాశి-గ్రహణ-మాత్రే పర్యవస్పతి; గృహీతస్య స్వాధ్యాయస్య ఫలవద్ అర్థావబోధిత్వ-దర్శనాత్ తన్-నిర్ణయ-ఫల-మీమాంసా-శ్రవణే అధీత-వేదః పురుషః స్వయమ్ ఏవ ప్రవర్తతే। అర్థావబోధ-పర్యన్తత్వేఽప్య్ అర్థ-జ్ఞానాద్ అర్థాన్తర-భూతా స్మృతి-ప్రత్యయావృత్తి-రూపా, విద్యాత్, ఉపాసీతేతి శాస్త్ర-విహితా విద్యా న కర్మాఙ్గమ్॥౧౨॥
Link copied౪౩౧। నావిశేషాత్॥౩।౪।౧౩॥
Link copiedకుర్వన్న్ ఏవేహ కర్మాణి, ఇతి బ్రహ్మ-విదామ్ ఆయుషః కర్మణి నియమో దృశ్యత ఇత్య్ ఏతన్ న సమ్భవతి, అవిశేషాత్--- విదుష ఏవేతి విశేషాభావాత్ కిమ్ ఇత్య్ అవిదుషో న స్యాత్। విదుషస్ త్వ్ ఆప్రయాణాద్ ఉపాసనానువృత్తి-దర్శనాద్ అర్థ-స్వభావాద్ విదుష ఏవేత్య్ అభిప్రాయః॥౧౩॥
Link copied౪౩౨। స్తుతయేఽనుమతిర్ వా॥౩।౪।౧౪॥
Link copiedవా-శబ్దోఽవధారణే। ఈశావాస్యమ్ ఇదం సర్వమ్ ఇతి విద్యా-ప్రకరణాద్ విద్యా-స్తుతయే కర్మానుమతిర్ ఏవ। విద్యా-మాహాత్మ్యాత్ సర్వదా కర్మాణి కుర్వన్న్ అపి తైర్ న లిప్యత ఇతి హి స్తుతా భవతి విద్యా। వాక్య-శేషే చ--- న కర్మ లిప్యతే నరే, ఇతి శ్రూయతే॥౧౪॥
Link copied౪౩౩। కామ-కారేణ చైకే॥౩।౪।౧౫॥
Link copiedఏకే శాఖినః కామ-కారేణ చ విద్యా-నిష్ఠస్య గార్హస్థ్య-త్యాగమ్ అధీయతే। కిం ప్రజయా కరిష్యామో యేషాం నోఽయమ్ ఆత్మాయం లోకః, ఇతి గార్హస్థ్య-కర్మ-త్యాగం బ్రువద్ వాక్యం విద్యా ప్రధానమ్ ఇతి దర్శయతి॥౧౫॥
Link copied౪౩౪। ఉపమర్దం చ॥౩।౪।౧౬॥
Link copiedవిద్యయా సర్వ-కర్మోపమర్దం చాధీయతే--- క్షీయన్తే చాస్య కర్మాణి తస్మిన్ దృష్టే పరావరే, ఇతి; తద్-విద్యాయాః కర్మాఙ్గత్వే న సఙ్గచ్ఛతే॥౧౬॥
Link copied౪౩౫। ఊర్ధ్వ-రేతఃసు చ శబ్దే హి॥౩।౪।౧౭॥
Link copiedఊర్ధ్వ-రేతఃస్వ్ ఆశ్రమేషు బ్రహ్మ-విద్యా-దర్శనాత్ తేషు చాగ్నిహోత్రాది-కర్మాభావాన్ న విద్యా కర్మాఙ్గమ్। తే చాత్రాశ్రమాః సన్త్య్ ఏవ; యతో వైదికే శబ్దే తేఽపి దృశ్యన్తే--- త్రయో ధర్మ-స్కన్ధా యజ్ఞోఽధ్యయనం దానమ్ ఇతి, యే చేమేఽరణ్యే శ్రద్ధా తప ఇత్య్ ఉపాసతే, ఏతమ్ ఏవ ప్రవాజినో లోకమ్ ఇచ్ఛన్తః ప్రవ్రజన్తి, ఇత్య్ ఆదౌ। యావజ్-జీవమ్ అగ్నిహోత్రమ్ ఇత్య్ ఆదికా తు శ్రుతిర్ అవిరక్త-విషయా॥౧౭॥
Link copied౪౩౬। పరామర్శం జైమినిర్ అచోదనాచ్ చాపవదతి హి॥౩।౪।౧౮॥
Link copiedత్రయో ధర్మ-స్కన్ధాః, ఇత్య్ ఆదిషు తేషామ్ ఆశ్రమాణామ్ అచోదనాత్--- అవిధానాద్ ఉపాసనా-స్తుత్య్-అర్థం పరామర్శమ్--- అనువాదం జైమినిర్ ఆచార్యో మన్యతే। అపి చ, అపవదతి హి శ్రుతిర్ ఆశ్రమాన్తరం--- వీరహా వా ఏష దేవానాం యోఽగ్నిమ్ ఉద్వాసయతే, ఇత్య్ ఆదికా। అతస్ తే న సన్త్య్ ఏవ॥౧౯॥
Link copied౪౩౭। అనుష్ఠేయం బాదరాయణః సామ్య-శ్రుతేః॥౩।౪।౧౯॥
Link copiedగృహస్థాశ్రమవద్ ఆశ్రమాన్తరమ్ అప్య్ అనుష్ఠేయం భగవాన్ బాదరాయణో మన్యతే। కుతః। తస్యాపి తత్-సామ్యశ్రుతేః--- త్రయో ధర్మ-స్కన్ధాః, ఇత్య్ ఏవమ్ ఆదౌ హి సర్వేషామ్ ఆశ్రమాణామ్ ఏక-రూపం సఙ్కీర్తనమ్॥౧౯॥
Link copied౪౩౮। విధిర్ వా ధారణవత్॥౩।౪।౨౦॥
Link copiedవా-శబ్దోఽవధారణే; సర్వేషామ్ ఆశ్రమాణాం విధిర్ ఏవాయమ్। ధారణవత్, యథా--- అధస్తాత్ సమిధం ధారయన్న్ అనుద్రవేత్, ఉపరి హి దేవేభ్యో ధారయతి, ఇత్య్ అనువాద-రూపేఽప్య్ ఉపరిధారణస్యాప్రాప్తత్వేన విధిర్ ఆశ్రీయతే; ఏవమ్ ఇహాశ్రమాణామ్ అపి। అత ఊర్ధ్వ-రేతఃస్వ్ అపి విద్యా-దర్శనాద్ విద్యాతః పురుషార్థ ఇతి॥౨౦॥ ఇతి పురుషార్థాధికరణమ్॥౧॥
Link copied౪౩౯-౪౪౦। స్తుతి-మాత్రమ్ ఉపాదానాద్ ఇతి చేన్ నాపూర్వత్వాత్॥౩।౪।౨౧॥
Link copiedభావ-శబ్దాచ్ చ॥౩।౪।౨౨॥
Link copiedఓమ్ ఇత్య్ ఏతద్ అక్షరమ్ ఉద్గీథమ్ ఉపాసీత, స ఏష రసానాం రసతమః పరమః పరార్థ్యోఽష్టమో యద్ ఉద్గీథః, ఇత్య్ ఏతజ్-జాతీయకే కిం కర్మాఙ్గాశ్రయాణాం దృష్టి-విశేషాణాం విధిర్ ఆస్థేయః, ఉతోద్గీథాది-స్తుతి-మాత్రమ్ ఇతి సంశయః। విధిత్వే సిద్ధే హి గో-దోహనాదివద్ భవతి; విధిత్వమ్ ఏవ న సమ్భవతీతి పూర్వః పక్షః। ఇయమ్ ఏవ జుహూః స్వర్గో లోక ఆహవనీయః, కర్మాఙ్గ-భూతోద్గీథాది-సమ్బన్ధితయోపాదానాద్ రసతమత్వాదేస్ తత్-స్తుతి-మాత్రత్వమ్ ఏవ; న రసతమత్వాది-దృష్టి-విధిః। రాద్ధాన్తస్ తు---జుహ్వ్-ఆది-విధివద్ ఉద్గీథాది-విధేర్ అత్రాసన్నిధానాత్, రసతమత్వాదేర్ అప్రాప్తత్వాచ్ చ, ఉపాసీతేతి విధి-ప్రత్యయేన చ, న స్తుతి-మాత్రమ్, తద్-దృష్టి-విధిర్ ఏవ। సూత్ర-ద్వయమ్ అపి వ్యాఖ్యాతమ్॥౨౧-౨౨॥ ఇతి స్తుతి-మాత్రాధికరణమ్॥౨॥
Link copied౪౪౧-౪౪౨। పారిప్లవార్థా ఇతి చేన్ న విశేషితత్వాత్॥౩।౪।౨౩॥
Link copiedతథా చైక-వాక్యోపబన్ధాత్॥౩।౪।౨౪॥
Link copiedప్రతర్దనో హ వై దైవోదాసిః, ఇత్య్ ఆదయో వేదాన్తేష్వ్ ఆఖ్యాన-విశేషాః కిం పారిప్లవ-ప్రయోగార్థాః, ఉత తత్ర తత్ర విద్యా-విశేష-ప్రతిపాదనార్థాః, ఇతి సంశయః। ఆఖ్యానాని శంసన్తీతి పారిప్లవే వినియోగాత్ తద్-అర్థాః, ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఆఖ్యానాని శంసన్తీత్య్ ఉక్త్వా, మనుర్ వైవస్వతో రాజా, ఇతి మన్వ్-ఆద్య్-ఆఖ్యానే వినియోగస్య విశేషితత్వాత్, తం మామ్ ఆయుర్ అమృతమ్ ఇత్య్ ఉపాఃస్వ, ఆత్మా వా అరే ద్రష్టవ్యః, ఇత్య్ ఆది విధినైక-వాక్యత్వాచ్ చ, సోఽరోదీత్, ఇత్య్ ఆదివద్ విద్యా-విధ్య్-అర్థా ఏవ। సూత్ర-ద్వయమ్ అపి వ్యాఖ్యాతమ్॥౨౩-౨౪॥ ఇతి పారిప్లవార్థాధికరణమ్॥౩॥
Link copied౪౪౩। అత ఏవ చాగ్నీన్ధనాద్య్-అనపేక్షా॥౩।౪।౨౫॥
Link copiedఊర్ధ్వ-రేతఃస్వ్ ఆశ్రమేషు బ్రహ్మ-విద్యా సమ్భవతి, నేతి సంశయః। యజ్ఞాద్య్-అభావాత్ తేషాం తద్-అఙ్గికా విద్యా న సమ్భవతీతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- యద్ ఇచ్ఛన్తో బ్రహ్మచర్యం చరన్తి, ఏతమ్ ఏవ ప్రవ్రాజినో లోకమ్ ఇచ్ఛన్తః ప్రవ్రజన్తి, ఇత్య్ ఆది శ్రుతేస్ తేషాం విద్యావత్త్వావగమాత్ తేష్వ్ అగ్నిహోత్రాద్య్-అనపేక్షా విద్యేతి నిశ్చీయతే। సూత్రార్థస్ తు--- అత ఏవ, విద్యావత్త్వ-శ్రుతేర్ ఏవ, ఆధానాద్య్-అనపేక్షా తేషు విద్యా। అగ్నీన్ధనం హ్య్ అగ్న్య్-ఆధానమ్॥౨౫॥ ఇత్య్ అగ్నీన్ధనాద్య్-అధికరణమ్॥౪॥
Link copied౪౪౪। సర్వాపేక్షా చ యజ్ఞాది-శ్రుతేర్ అశ్వవత్॥౩।౪।౨౬॥
Link copiedకర్మవత్సు గృహస్థేషు కిం యజ్ఞాది-కర్మాపేక్షా విద్యా, ఉత తత్రాపి కేవలైవేతి సంశయః। ఊర్ధ్వ-రేతఃసు యజ్ఞాద్య్-అనపేక్షైవామృతత్వం సాధయతి చేత్ కర్మ-నిరపేక్షాయా విద్యాయా ఏవ సాధనత్వమ్ అభ్యుపగమనీయమ్। తథా సతి గృహస్థేష్వ్ అపి తన్-నిరపేక్షైవ సాధయితుం సమర్థేతి పూర్వః పక్షః। న హి స్వర్గాది-సాధన-భూతమ్ అగ్నిహోత్రాది-కర్మ పురుష-భేదేన నానా-విధాఙ్గకం దృష్టమ్। వివిదిషన్తీతి శబ్దోఽపి వేదనేచ్ఛాయాం కర్మాణి వినియుఙ్క్తే, న విద్యాయామ్। రాద్ధాన్తస్ తు--- కర్మవత్సు గృహస్థేషు యజ్ఞాది-సర్వ-కర్మాపేక్షా విద్యా। కుతః। యజ్ఞాది-శ్రుతేః--- తమ్ ఏతం వేదానువచనేన బ్రాహ్మణా వివిదిషన్తి యజ్ఞేన దానేన, ఇతి హి యజ్ఞాదయో విద్యాఙ్గత్వేన వినియుజ్యన్తే। అతో గృహస్థేషు కర్మాపేక్షా విద్యా। ఇచ్ఛాయా ఇష్యమాణ-ప్రధానత్వాద్ వివిదిషన్తీతీష్యమాణం జ్ఞానమ్ ఏవేత్య్ అవగమ్యతే। యథా గమన-సాధన-భూతోఽశ్వః స్వ-పరికర-బన్ధ-రూప-పరికర్మాపేక్షః; ఏవం మోక్ష-సాధన-భూతా విద్యాపి నిత్య-నైమిత్తిక-పరికర్మాపేక్షా। ఊర్ధ్వ-రేతఃసు చ స్వాశ్రమ-విహితం కర్మైవ పరికర్మ భవతీతి తేష్వ్ అపి విద్యా-సమ్బన్ధః శాస్త్రాద్ అవగమ్యతే। శాస్త్రైక-సమధిగమ్యే హి యథాశాస్త్రమ్ అభ్యుపగమనీయమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౨౬॥ ఇతి సర్వాపేక్షాధికరణమ్॥౫॥
Link copied౪౪౫। శమ-దమాద్య్-ఉపేతః స్యాత్ తథాపి తు తద్-విధేస్ తద్-అఙ్గతయా తేషామ్ అప్య్ అవశ్యానుష్ఠేయత్వాత్॥౩।౪।౨౭॥
Link copiedకిం విద్యా-నిర్వృత్తయే గృహస్థైః శమ-దమాదయ ఉపాదేయాః, ఉత నేతి సంశయః। గృహస్థానామ్ ఆన్తర-బాహ్య-కరణ-వ్యాపార-రూప-కర్మాఙ్గకత్వాద్ విద్యాయాః, తద్-విపరీత-రూప-శమ-దమాద్య్-ఉపాదానాసామర్థ్యాద్ ఊర్ధ్వ-రేతఃసు కర్మ-రహితేషు శమాది-వినియోగో భవిష్యతి, యథా యజ్ఞాది-వినియోగః కర్మవత్సు గృహస్థేషు। తస్మాద్ అనుపాదేయాః శమాదయ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- తస్మాద్ ఏవం-విచ్ ఛాన్తో దాన్త ఉపరతస్ తితిక్షుః సమాహితో భూత్వాత్మన్య్ ఏవాత్మానం పశ్యేత్, ఇతి సామాన్యేన విద్యాఙ్గతయా వినియోగాద్ గృహస్థైర్ అప్య్ ఉపాదేయాః। న చ కర్మవతాం తేషాం శమాద్య్-ఉపాదానాసామర్థ్యమ్; భిన్న-విషయత్వాచ్ ఛమాదేః। విహితేషు హి కర్మసు కరణ-వ్యాపారః; అవిహితేషు ప్రయోజన-శూన్యేషు చ శమ-దమాదయః। అతః శమాది-వినియోగో యజ్ఞాది-వినియోగవన్ న సఙ్కోచమ్ అర్హతీతి। సూత్రార్థస్ తు--- యద్య్ అపి గృహస్థో యజ్ఞాది-కర్మసు వినియుక్తః, తథాపి తు శమ-దమాద్య్-ఉపేతః స్యాత్। కుతః। శాన్తో దాన్తః, ఇత్య్ ఆదినా తద్-విధేస్ తద్-అఙ్గతయా--- విద్యాఙ్గతయా విద్యా-నిష్పత్తయే తేషామ్ అవశ్యానుష్ఠేయత్వాచ్ చ। ఏకాగ్రతా-నిష్పాద్యత్వాచ్ ఛమ-దమాదిభిర్ ఏవ విద్యా-నిష్పత్తిర్ ఇత్య్ అర్థః। యజ్ఞాది-కర్మాణ్య్ అపి పాప-నిబర్హణ-ద్వారేణైకాగ్రతామ్ ఆపాదయన్తీత్య్ అభిప్రాయః॥౨౭॥ ఇతి శమ-దమాద్య్-అధికరణమ్॥౬॥
Link copied౪౪౬। సర్వాన్నానుమతిశ్ చ ప్రాణాత్యయే తద్-దర్శనాత్॥౩।౪।౨౮॥
Link copiedవాజినాం ఛన్దోగానాం ప్రాణ-విద్యాయాం, న హ వా ఏవం-విది కిఞ్చనాన్నం భవతి, ఇతి సర్వాన్నానుమతిః సఙ్కీర్త్యతే। కిం ప్రాణ-విదః సర్వాన్నానుమతిః సర్వదా, ఉత ప్రణాత్యయాపత్తావ్ ఇతి సంశయః। అవిశేషాసర్వదేతి పుర్వః పక్షః। అతిశయిత-శక్తేర్ బ్రహ్మ-విదోఽప్య్ ఉచ్ఛిష్ట-పరిగ్రహణ-భక్షణయోః ప్రాణాత్యయాపత్తావ్ ఏవ దర్శనాద్ అల్ప-శక్తేః ప్రాణ-విదః కిం పునర్ ఇతి ప్రాణాత్యయాపత్తావ్ ఏవేతి రాద్ధాన్తః। సుత్రర్థస్ తు--- చ-శబ్దోఽవధరణే; ప్రాణ-విదః సర్వన్నానుమతిః। ప్రాణాత్యయ ఏవ। కుతః। తద్-దర్శనాత్--- అతిశయిత-శక్తేర్ బ్రహ్మ-విదః ప్రాణాత్యయ ఏవ సర్వన్నానుమతి-దర్శనాత్॥౨౮॥
Link copied౪౪౭। అబాధాచ్ చ॥౩।౪।౨౯॥
Link copiedఆహార-శుద్ధౌ సత్త్వ-శుద్ధిః సత్త్వ-శుద్ధౌ ధ్రువా స్మృతిః, ఇత్య్ ఆహార-శుద్ధి-విధేర్ అబాధాచ్ చ ప్రాణాత్యయ ఏవ॥౨౯॥
Link copied౪౪౮। అపి స్మర్యతే॥౩।౪।౩౦॥
Link copiedప్రాణ-సంశయమ్ ఆపన్నో యోఽన్నమ్ అత్తి యతస్ తతః। లిప్యతే న స పాపేన పద్మ-పత్రమ్ ఇవామ్భసా, ఇతి ప్రాణ-సంశయ ఏవ సర్వాన్నానుమతిః స్మర్యతే చ॥౩౦॥
Link copied౪౪౯। శబ్దశ్ చాతోఽకామ-కారే॥౩।౪।౩౧॥
Link copiedయతః సర్వాన్నానుమతిః ప్రాణాత్యయే; అతోఽకామ-కారే శబ్దశ్ చ--- కామ-కారస్య ప్రతిషేధక-శబ్దశ్ చోపపద్యత ఇత్య్ అర్థః। అస్తి హి కఠానాం కామ-కార-ప్రతిషేధకః శబ్దః, తస్మాద్ బ్రాహ్మణః సురాం న పిబతి పాప్మనా నోత్సృజా, ఇతి। పాప్మనా సంస్పృష్టో న భవానీతి మత్వా సురాం న పిబతీత్య్ అర్థః॥౩౧॥
Link copiedఇతి సర్వాన్నానుమత్య్-అధికరణమ్॥౭॥
Link copied౪౫౦। విహితత్వాచ్ చాశ్రమ-కర్మాపి॥౩।౪।౩౨॥
Link copiedకిం యజ్ఞాదయో విద్యాఙ్గ-భూతాః కేవలాశ్రమస్యాప్య్ అఙ్గ-భూతాః, ఉత నేతి సంశయః। కేవలాశ్రమస్యాప్య్ అఙ్గత్వే నిత్యానిత్య-సంయోగ-రూప-విరోధః ప్రసజ్యత ఇతి నాఙ్గ-భూతాః కేవలాశ్రమస్యేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- యదైకేనైవ వినియోగేనోభయాఙ్గత్వమ్ ఇష్యతే తదా నిత్యానిత్య-సంయోగ-విరోధః। ఇహ తు--- యావజ్-జీవమ్ అగ్నిహోత్రం జుహుయాత్, తమ్ ఏతం వేదానువచనేన బ్రాహ్మణా వివిదిషన్తి యజ్ఞేన దానేన, ఇతి వినియోగ పృథక్త్వేన విరోధః పరిహ్రియతే; యథాగ్నిహోత్రాదీనామ్ ఏవ కర్మణామ్। జీవనాధికారకామ్ అనాధికారయోర్ ఇవాధికార-భేదస్యాస్ఫుటత్వాత్ తత్-స్ఫుటీకరణాయ పునర్ ఇహ చిన్త్యతే। సూత్రార్థస్ తు--- యావజ్-జీవమ్ అగ్నిహోత్రం జుహుయాద్ ఇత్య్ ఆదినా కేవల-గృహస్థాశ్రమిణో జీవన-నిమిత్తతయా విహితత్వాద్ ఏవ యజ్ఞాది కేవలాశ్రమ-కర్మాపి॥౩౨॥
Link copied౪౫౧। సహకారిత్వేన చ॥౩।౪।౩౩॥
Link copiedతమ్ ఏతం వేదానువచనేనేత్య్ ఆదినా విద్యా-సాధనత్వేన విహితత్వాచ్ చ విద్యా-సహకారిత్వేన చానుష్ఠేయం యజ్ఞాది-కర్మ। వినియోగ-పృథక్త్వేన విరోధః పరిహ్రియత ఇత్య్ అభిప్రాయః॥౩౩॥
Link copied౪౫౨। సర్వథాపి త ఏవోభయ-లిఙ్గాత్॥౩।౪।౩౪॥
Link copiedసర్వథాపి--- ఉభయత్ర వినియోగేఽపి త ఏవ యజ్ఞాదయః। కుతః। ఉభయ-లిఙ్గాత్--- ఉభయత్ర ప్రత్యభిజ్ఞానాఖ్యలిఙ్గాత్॥౩౪॥
Link copied౪౫౩। అనభిభవం చ దర్శయతి॥౩।౪।౩౫॥
Link copiedధర్మేణ పాపమ్ అపనుదతి, ఇత్య్ ఆదిభిశ్ చ యజ్ఞాది-ధర్మాన్ నిర్దిశ్య తైర్ విద్యాయా అనభిభవం--- పాప-కర్మభిర్ ఉత్పత్తి-ప్రతిబన్ధాభావం దర్శయతి। అత ఉభయత్ర వినియోగాత్ కేవలాశ్రమిణాం ముముక్షూణాం చానుష్ఠేయా యజ్ఞాదయః॥౩౫॥ ఇతి విహితత్వాధికరణమ్॥౮॥
Link copied౪౫౪। అన్తరా చాపి తు తద్-దృష్టేః॥౩।౪।౩౬॥
Link copiedవిధురాదీనామ్ అనాశ్రమిణాం బ్రహ్మ-విద్యాయామ్ అధికారోఽస్తి, నేతి సంశయః। ఆశ్రమ-ధర్మేతికర్తవ్యతాకత్వాద్ విద్యాయాస్ తద్-అభావాత్ తేషామ్ అనధికార ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఊర్ధ్వ-రేతఃస్వ్ ఇవ రైక్వాదిష్వ్ అనాశ్రమిషు విద్యా-నిష్ఠత్వ-దర్శనాద్ ఆశ్రమానియతైర్ జపోపవాస-దానాదిభిర్ ఏవ తేషాం విద్యానుగ్రహో భవతీత్య్ అస్త్య్ ఏవాధికారః। సూత్రార్థస్ తు--- తు-శబ్దాత్ పక్షో వ్యావృత్తః। చ-శబ్దోఽవధారణే। అన్తరాపి--- ఆశ్రమానన్తరా వర్తమానానామ్ అనాశ్రమిణామ్ అప్య్ అధికారోఽస్త్య్ ఏవ। కుతః। తద్-దృష్టేః--- రైక్వాదిషు విద్యా-నిష్ఠత్వ-దృష్టేః॥౩౬॥
Link copied౪౫౫। అపి స్మర్యతే॥౩।౪।౩౭॥
Link copiedఅపి చ అనాశ్రమిణామ్ అపి జపాదిభిర్ ఏవ విద్యానుగ్రహః స్మర్యతే--- జప్యేనాపి చ సంసిధ్యేద్ బ్రహ్మణో నాత్ర సంశయః, ఇత్య్ ఆదినా॥౩౭॥
Link copied౪౫౬। విశేషానుగ్రహశ్ చ॥౩।౪।౩౮॥
Link copiedఆశ్రమానియత-ధర్మ-విశేషేణ విద్యానుగ్రహః శ్రూయతే చ--- తపసా బ్రహ్మచర్యేణ శ్రద్ధయా విద్యయా చాత్మానమ్ అన్విచ్ఛేత్, ఇతి॥౩౮॥
Link copied౪౫౭। అతస్ త్వ్ ఇతరజ్ జ్యాయో లిఙ్గాచ్ చ॥౩।౪।౩౯॥
Link copiedఅతః--- అనాశ్రమిత్వాదితరత్, ఆశ్రమిత్వం జ్యాయః, ధర్మ-భూయస్త్వాత్; లిఙ్గాచ్ చ స్మృతేశ్ చేత్య్ అర్థః। అనాశ్రమీ న తిష్ఠేత్ తు దినమ్ ఏకమ్ అపి ద్విజః, ఇతి హి స్మర్యతే। తస్మాద్ అనాశ్రమిత్వేన విద్యా-నిష్ఠత్వమ్ ఆపద్-విషయమ్ ఇత్య్ అభిప్రాయః॥౩౯॥ ఇతి విధురాధికరణమ్॥౯॥
Link copied౪౫౮। తద్-భూతస్య తు నాతద్-భావో జైమినేర్ అపి నియమాత్ తద్-రూపాభావేభ్యః॥౩।౪।౪౦॥
Link copiedనైష్ఠిక-వైఖానస-పరివ్రాజకానాం స్వాశ్రమేభ్యః ప్రచ్యుతానామ్ అపి విద్యాధికారోఽస్తి, నేతి సంశయః। విధురాదివజ్ జపాదిభిర్ అనుగ్రహ-సమ్భవాద్ అస్త్య్ ఏవాధికార ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- నైష్ఠికాదీనాం స్వాశ్రమ-భ్రష్టానాం ప్రాయశ్చిత్తాభావ-స్మరణాచ్ ఛిష్ట-బహిష్కృతత్వాచ్ చ తేషామ్ అనధికారః, ఇతి। సూత్రార్థస్ తు--- తద్-భూతస్య తు నాతద్-భావః--- నైష్ఠికాది-భూతస్యాతథాభావో న సమ్భవతి। కుతః। తద్-రూపాభావేభ్యః శాస్త్రైర్ నియమాత్, తద్-రూపాభావా నైష్ఠికాద్య్-ఆశ్రమ-ధర్మాభావాః; తేభ్యో నియచ్ఛన్తి హి శాస్త్రాణి। బ్రహ్మచార్యాచార్య-కుల-వాసీ తృతీయోఽత్యన్తమ్ ఆత్మానమ్ ఆచార్య-కులేఽవసాదయన్, ఇతి నైష్ఠికస్య తత్రైవ నియమః; అరణ్యమ్ ఇయాత్ తతో న పునర్ ఏయాత్, ఇతి చ వైఖానసస్య; సన్న్యస్యాగ్నిం న పునర్ ఆవర్తయేత్, ఇతి చ పరివ్రాజకస్య। అత ఏవ తేషామ్ అనాశ్రమిత్వేనావస్థానాభావాద్ విద్యాధికారో న సమ్భవతి। జైమినేర్ అప్య్ అవిగీతోఽయమ్॥౪౦॥
Link copied౪౫౯। న చాధికారికమ్ అపి పతనానుమానాత్ తద్-అయోగాత్॥౩।౪।౪౧॥
Link copiedఆధికారికమ్--- అధికార-లక్షణోక్తమ్, అవకీర్ణి పశుశ్ చ తద్వత్, ఇత్య్ ఏతత్ ప్రాయశ్చిత్తం నైష్ఠికస్య న సమ్భవతి। కుతః। పతనానుమానాన్ నైష్ఠికస్య తద్-అయోగాత్। తస్య హి పతనం స్మర్యతే ప్రాయశ్చిత్తాభావ-వచనేన, ఆరూఢో నైష్ఠికం ధర్మం యస్ తు ప్రచ్యవతే ద్విజః। ప్రాయశ్చిత్తం న పశ్యామి యేన శుధ్యేత్ స ఆత్మహా, ఇతి। అత ఉపకుర్వాణ-బ్రహ్మచారి-విషయమాధికారికమ్॥౪౧॥
Link copied౪౬౦। ఉపపూర్వమ్ అపీత్య్ ఏకే భావమ్ అశనవత్ తద్ ఉక్తమ్॥౩।౪।౪౨॥
Link copiedఏకే ప్రాయశ్చిత్త-భావమ్ అపి మన్యన్తే, యత ఉపపూర్వమ్--- ఉపపాతకమ్ ఇదమ్; అశనవత్--- మధ్వ్-అశనాది-నిషేధ-తత్-ప్రాయశ్చిత్తవద్ భవతీత్య్ అర్థః। అత ఉపకుర్వాణస్య బ్రహ్మచారిణ ఉక్తమ్ ఆధికారికమ్ అస్యాపి భవతీతి। తద్ ఉక్తం స్మృతి-కారైః, ఉత్తరేషాం చైతద్-అవిరోధి, ఇతి। ఉపకుర్వాణే బ్రహ్మచారిణ్య్ ఉక్తో ధర్మ ఉత్తరేషాం చాశ్రమిణాం స్వాశ్రమావిరోధీ భవత్య్ ఏవేత్య్ అర్థః॥౪౨॥
Link copied౪౬౧। బహిస్ తూభయధాపి స్మృతేర్ ఆచారాచ్ చ॥౩।౪।౪౩॥
Link copiedఉభయధాపి--- ఉపపాతకత్వే మహా-పాతకత్వేఽపి నైష్ఠికాత్ ప్రచ్యుతో బహిర్ భూతః కర్మాధికారాత్, ప్రాయశ్చిత్తం న పశ్యామి, ఇతి స్మృతేః, ఆచారాచ్ చ--- వర్జయన్తి హ్య్ ఏనం శిష్టా విద్యోపదేశాదౌ। యద్య్ అపి కల్మష-నిబర్హణాయ కైశ్చిత్ ప్రాయశ్చిత్తమ్ ఉచ్యతే; తథాపి కర్మాధికారాపాదినీ శుద్ధిస్ తేషాం న సమ్భవతీత్య్ అభిప్రాయః॥౪౩॥ ఇతి తద్-భతాధికరణమ్॥౧౦॥
Link copied౪౬౨। స్వామినః ఫల-శ్రుతేర్ ఇత్య్ ఆత్రేయః॥౩।౪।౪౪॥
Link copiedఉద్గీథాద్య్-ఉపాసనం కిం యజమానేనానుష్ఠేయమ్, ఉత ఋత్విజేతి సంశయః। యద్ ఏవ విద్యయా కరోతి\॥॥తద్ ఏవ వీర్యవత్తరమ్ ఇతి క్రతు-వీర్యవత్తరత్వ-ఫలం యజమానస్యేతి దహరోపాసనాదివద్ యజమానేనానుష్ఠేయమ్ ఇతి పూర్వః పక్షః। కర్మాఙ్గాశ్రయత్వాద్ అస్యోపాసనస్య కర్మణశ్ చార్త్విజ్యత్వేన ఏతద్ అపి ఋత్విజానుష్ఠేయం, గో-దోహనాదివద్ ఇతి రాద్ధాన్తః। సూత్రార్థస్ తు--- స్వామినః, యజమానస్యోద్గీథాద్య్-ఉపాసనే కర్తృత్వమ్। కుతః। తస్యైవ ఫల-శ్రుతేర్ ఇత్య్ ఆత్రేయో మన్యతే॥౪౪॥
Link copied౪౬౩। ఆర్త్విజ్యమ్ ఇత్య్ ఔడులోమిస్ తస్మై హి పరిక్రియతే॥౩।౪।౪౫॥
Link copiedక్రత్వ్-అఙ్గాశ్రయత్వేన క్రత్వ్-అధికృతస్యైవాస్మిన్న్ ఉపాసనేఽధికారాత్ క్రతోశ్ చార్త్విజ్యత్వేన ఏతద్ అప్య్ ఆర్త్విజ్యమ్ ఇత్య్ ఔడులోమిర్ ఆచార్యో మన్యతే, యజమాన-ఫల-సాధనత్వేఽపి క్రతోస్ తద్-అనుష్ఠానాయ హి ఋత్విక్ పరిక్రియతే॥౪౫॥ ఇతి స్వామ్య్-అధికరణమ్॥౧౧॥
Link copied౪౬౪। సహకార్యన్తర-విధిః పక్షేణ తృతీయం తద్వతో విధ్య్-ఆదివత్॥౩।౪।౪౬॥
Link copiedతస్మాద్ బ్రాహ్మణః పాణ్డిత్యం నిర్విద్య బాల్యేన తిష్ఠాసేత్, బాల్యం చ పాణ్డిత్యం చ నిర్విద్యాథ మునిః, ఇత్య్ అత్ర మౌనం విద్యాఙ్గతయా విధీయతే, ఉతానూద్యత ఇతి సంశయః। మౌనస్య మనన-రూపత్వాత్, శ్రోతవ్యో మన్తవ్యః, ఇతి చ ప్రాప్తత్వేనానూద్యత ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ముని-శబ్దస్య ప్రకృష్ట-మనన-శీలే ప్రసిద్ధేః, ప్రకృష్ట-మననమ్ ఉపాస్య-విషయాభ్యాస-రూపం విద్యా-నిష్పత్తయే విధీయత ఇతి। సూత్రార్థస్ తు--- తద్వతః, విద్యావతః, సహకార్యన్తరం--- మౌనం విధిః, విధీయత ఇతి విధిర్ ఇతి మౌనం విధిర్ ఇత్య్ ఉక్తమ్। విధ్యాదివత్--- అత్రాపి విధీయత ఇతి విధిర్ యజ్ఞ-దాన-ప్రభృత్య్-ఆశ్రమ-ధర్మః, ఆది-శబ్దాచ్ ఛ్రవణ-మననే గృహ్యేతే। ఆశ్రమ-ధర్మవచ్ ఛ్రవణ-మననవచ్ చ పాణ్డిత్య-బాల్యయోస్ తృతీయమ్ ఇదం సహకార్యన్తరం మౌనమ్ అపూర్వం విధీయతే। కుత ఇత్య్ అత ఆహ--- పక్షేణేతి। ముని-శబ్దస్య ప్రకృష్ట-మనన-యుక్తే పక్షేణ--- ప్రసిద్ధేర్ ఇత్య్ అర్థః॥౪౬॥
Link copied౪౬౫। కృత్స్న-భావాత్ తు గృహిణోపసంహారః॥౩।౪।౪౭॥
Link copiedసర్వాశ్రమిణాం విద్యావత్త్వేఽపి ఛాన్దోగ్యే--- స ఖల్వ్ ఏవం వర్తయన్ యావద్-ఆయుషం బ్రహ్మ-లోకమ్ అభిసమ్పద్యతే, ఇతి గృహస్థ-ధర్మేణోపసంహారః। కుతః। కృత్స్న-భావాత్--- కృత్స్నేషు భావాత్--- కృత్స్నేష్వ్ ఆశ్రమిషు విద్యాయాః సద్-భావాద్ ఇత్య్ అర్థః॥౪౭॥
Link copied౪౬౬। మౌనవద్ ఇతరేషామ్ అప్య్ ఉపదేశాత్॥౩।౪।౪౮॥
Link copiedఅథ మునిః, ఇత్య్ అస్మిన్ వాక్యే, అథ భిక్షాచర్యం చరతి, ఇతి పారివ్రాజ్యైకాన్త-ధర్మేణోపసంహారోఽపి సర్వాశ్రమ-ధర్మ-ప్రదర్శనార్థః, భిక్షాచర్య-మౌనాదివద్ ఇతరేషామ్ ఆశ్రమ-ధర్మాణాం యజ్ఞాదీనామ్ అప్య్ ఉపదేశాత్॥౪౮॥ ఇతి సహకార్యన్తర-విధ్య్-అధికరణమ్॥౧౨॥
Link copied౪౬౭। అనావిష్కుర్వన్న్ అన్వయాత్॥౩।౪।౪౯॥
Link copiedతస్మాద్ బ్రాహ్మణః పాణ్డిత్యం నిర్విద్య బాల్యేన తిష్ఠాసేత్ బాల్యం చ పాణ్డిత్యం చ నిర్విద్యాథ మునిః, ఇత్య్ అత్ర కిం బాలస్య కర్మ కామ-చారాదికం సర్వం విదుషోపాదేయమ్, ఉత విద్యా-మాహాత్మ్యానావిష్కార ఇతి సంశయః। బాల్యేన తిష్ఠాసేద్ ఇత్య్ అవిశేష-విధానాత్ కామ-చారాదికం సర్వమ్ అప్య్ ఉపాదేయమ్ ఇతి పూర్వః పక్షః; విదుషో విశేష-విధానాత్, విద్యా-మాహాత్మ్యాచ్ చ, నిషేధ-శ్రుతయో బాధితా భవేయుర్ ఇతి। రాద్ధాన్తస్ తు--- పాణ్డిత్య-ప్రయుక్త-స్వ-మాహాత్మ్యానావిష్కార ఏవ విద్యాన్వయ-యోగ్యతయోపాదేయః; ఇతరస్య కామ-చారాదేః, నావిరతో దుశ్చరితాత్, ఇత్య్ ఆది శస్త్రైర్ విద్యోత్పత్తి-విరోధిత్వావగమాత్। అతో యథా బాలః స్వాభిజనాద్య్ అనావిష్కుర్వన్ వర్తతే; తథా విద్వాన్ వర్తేతేత్య్ ఏతద్ ఏవ యుక్తమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౪౯॥ ఇత్య్ అనావిష్కారాధికరణమ్॥౧౩॥
Link copied౪౬౮। ఐహికమ్ అప్రస్తుత-ప్రతిబన్ధే తద్-దర్శనాత్॥౩।౪।౫౦॥
Link copiedమోక్ష-వ్యతిరిక్తాభ్యుదయ-ఫలమ్ ఉపాసనం కిం స్వ-సాధన-భూత-పుణ్య-కర్మానన్తరమ్ ఏవోత్పద్యతే, ఉతానన్తరమ్ అన్యదా వేత్య్ అనియమ ఇతి సంశయః। సాధన-నిర్వృత్తౌ విలమ్బ-హేత్వ్-అభావాద్ అనన్తరమ్ ఏవేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- అప్రస్తుతే--- ప్రబల-కర్మాన్తర-ప్రతిబన్ధే సత్య్ అనన్తరమ్, ప్రస్తుతే తద్-ఉత్తర-కాలమ్ ఇత్య్ అనియమః। దృశ్యతే హి ప్రబల-కర్మాన్తరేణ ఫల-ప్రతిబన్ధః, యద్ ఏవ విద్యయా కరోతి తద్ ఏవ వీర్యవత్తరమ్ ఇత్య్ ఉద్గీథోపాసనస్య క్ర్తోః కర్మాన్తరేణ ఫలాప్రతిబన్ధః ఫలమ్ ఇతి, పృథగ్ ఘ్య్ అప్రతిబన్ధః ఫలమ్ ఇత్య్ అభ్యుపగమాత్। సూత్రమ్ అపి వ్యాఖ్యాతమ్। ఐహికమ్--- అభ్యుదయ-ఫలమ్ ఇత్య్ అర్థః॥౫౦॥
Link copiedఇత్య్ ఐహికాధికరణమ్॥౧౪॥
Link copied౪౬౯। ఏవం ముక్తి-ఫలానియమస్ తద్-అవస్థావధృతేస్ తద్-అవస్థావధృతేః॥౩।౪।౫౧॥
Link copiedకిం ముక్తి-ఫలాన్య్ ఉపాసనాని స్వ-సాధన-భూతాతిశయిత-పుణ్య-కర్మానన్తరమ్ ఉత్పద్యన్తే, ఉత పూర్వవద్ అనియమ ఇతి సంశయః। ముక్తి-ఫలోపాసన-సాధన-భూత-కర్మణాం సర్వ-కర్మభ్యో బలవత్తరత్వేన ప్రతిబన్ధాభావాద్ అనన్తరమ్ ఏవోత్పద్యత ఇతి పూర్వః పక్షః। తత్రాపి బ్రహ్మ-విద్-అపచారస్య తతోఽపి బలవత్తరత్వేన ప్రతిబన్ధ-సమ్భవాద్ అనియమ ఏవేతి రాద్ధాన్తః। సూత్రార్థస్ తు--- ముక్తి-ఫలానామ్ అప్య్ ఏవమ్ అనియమః। కుతః। తద్-అవస్థావధృతేః--- ప్రతిబన్ధాభావే సతి ఫలావధృతేః। ద్విర్-ఉక్తిర్ అధ్యాయ-పరిసమాప్తిం ద్యోతయతి॥౫౧॥ ఇతి ముక్తి-ఫలాధికరణమ్॥౧౫॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే తృతీయస్యాధ్యాయస్య చతుర్థః పాదః॥
Link copied॥ సమాప్తశ్ చాధ్యాయః॥
Link copied419. purusha:rtho:'thah sabda:d ithi ba:dara:yanah||3|4|1||
Link copiedkim vidya:thah purusha:rthah, utha karmana ithi samsayah| karmana ithi pu:rvah pakshah; karma:ngathva:d vidya:ya:; karmasu karthru bhu:tha prathyaga:thmano: ya:tha:thmya prathipa:dana para:ni ve:da:ntha va:kya:ni| vidya:ya:h karma:ngathvam cha--- yad e:va vidyaya: karo:thi....thad e:va vi:ryavaththaram ithi sruthyaiva:vagamyathe:| na cha prakrutho:dgi:tho:pa:sana vishayathvam asya vakthum sakyathe:, yad e:va vidyaya: karo:thi:thi sruthyaiva sarva karmasu vidya:ya: viniyukthathva:th| sruthis cha prakarana:d bali:yasi:| vidya:ya:h karma:ngathvam katham ithy ape:ksha:ya:m, thath thvam asi, ayam a:thma: brahme:thi sa:ma:na:dhikaranye:na karma:nga bhu:tha karthru ya:tha:thmya:nusandha:na dva:re:na vidya:ya:h karma:ngathvam ithy avagamyathe:| athah karthru samska:ra ru:pathva:brahma vidya:ya:h karmana e:va purusha:rthah| thathra thathra phala sruthir arthava:dah sya:th| vidya:ya:h karma:ngathve: bhu:ya:msi linga:ni cha drusyanthe: sarva ve:da:nthe:shu| ra:ddha:nthas thu--- karmasu karthuh prathyaga:thmano:'rtha:nthara bhu:thasya sva sankalpa krutha jagad udaya vibhava laya li:lasya nikhila he:ya prathyani:ka kalya:naikatha:na:nantha jna:na:nandaika svaru:pasya sarve:svarasya sathya sankalpasya karana:dhipa ru:pa prathyaga:thma:dhipasya ve:dyasya ve:dana ru:pa:ya: vidya:ya:h, brahma vid a:pno:thi param ithy a:dishu brahma pra:pthi ru:pa phalo:pade:sa:d vidya:tha e:va phalam| yad e:va vidyaya: karo:thi:thi sruthih prasiddhavan nirde:sa:th; prasiddhis cha prakrutho:dgi:tho:pa:sanasyaive:thi, prasthutho:dgi:tho:pa:sana vise:sha nishtha:| thath thvam asi:thi sa:ma:na:dhikaranyam cha thach chhabda nirdishtasya sva sankalpa krutha jagaj janma sthithi dhvamsa:dikasya parasya brahmano: na ji:va svaru:pathva param; api thu jagath ka:ranasya brahmano: ji:va sari:rakathaya: ji:vasya:thmathva param ithi, adhikam thu bhe:da nirde:sa:d ithy a:dishu:ktham| ya a:thmathi thishthan ....yasya:thma: sari:ram ithi cha prathyaga:thmana a:thmathvam parasya brahmanah sruthy anthare: vyaktham| su:thra:rthas thu--- purusha:rtho:'thah, vidya:thah| kuthah| brahma vid a:pno:thi param ithy a:di sabda:th||1||
Link copied420. se:shathva:th purusha:rthava:do: yatha:nye:shv ithi jaiminih||3|4|2||
Link copiedthath thvam asi:thy a:di sa:ma:na:dhikaranye:na brahmanah karmasu karthru svaru:pathva:vagama:d vidya:ya:h karthru samska:ra dva:re:na karma se:shathva:th thathra purusha:rthava:do:'rthava:da ma:thram; yatha: anye:shu dravya samska:ra:dishv ithi jaiminir a:cha:ryo: manyathe:||2||
Link copied421. a:cha:ra darsana:th||3|4|3||
Link copiedithas cha vidya: karma:ngam; brahma vida:m a:cha:ro: hi karma pradha:no: drusyathe:| yatha:svapathih ke:kayo: brahma vid agre:sarah--- yakshyama:no: ha vai bhagavantho:'ham asmi, ithy a:ha| karmanaiva hi samsiddhim a:sthitha: janaka:dayah, ithi cha smaryathe:||3||
Link copiedlingam idam; pra:pthir uchyatha:m ithy athra:ha---
Link copied422. thach chhruthe:h||3|4|4||
Link copiedyad e:va vidyaya: karo:thi:thy a:dika:ya:h sruthe:r vidya:ya:h karma:ngathvam avagamyathe:| na cha durbale:na prakarane:na sruthir vidya: vise:sho:dgi:tha vishayo:pa:sane: vyavastha:pyathe:||4||
Link copied423. samanva:rambhana:th||3|4|5||
Link copiedtham vidya: karmani: samanva:rabhe:the:, ithi vidya: karmano:r e:kasmin purushe: sa:hithyam cha vidya:ya:h karma:ngathve: hi bhavathi||5||
Link copied424. thadvatho: vidha:na:th||3|4|6||
Link copiedvidya:vathah karma vidha:na:ch cha vidya: karma:ngam| a:cha:rya kula:d ve:dam adhi:thya yatha:vidha:nam guro:h karma:thise:she:na:bhisama:vruthya kutumbe:, ithy a:dina:dhyayanavathah karma:ni vidadhadartha:vabo:dha paryanthathva:d adhyayanasya vidya:vatha e:va karma:ni vidadha:thi:thy avagamyathe:||6||
Link copied425. niyama:th||3|4|7||
Link copiedkurvann e:ve:ha karma:ni jiji:vishe:ch chhatham sama:h, ithy a:thma vida:m a:yushah karmasu niyama darsana:ch cha karmana e:va purusha:rthah; na vidya:tha ithy avagamyathe:| athas cha vidya: karma:ngam||7||
Link copied426. adhiko:pade:sa:th thu ba:dara:yanasyaivam thad darsana:th||3|4|8||
Link copiedthu sabda:th paksho: vya:vruththah| ba:dara:yanasyaivam--- vidya:thah phalam ithi matham| kuthah| adhiko:pade:sa:th--- karmasu karthuh prathyaga:thmano:'dhikasya--- artha:ntharabhu:thasya ve:dyasya ve:dana bhu:tha vidya:ya:h phala sa:dhanathvo:pade:sa:th| thad darsana:th--- drusyathe: hi ve:da:ntha va:kye:'dhika vishayathvam vidya:ya:h| e:vam e:va hi--- thad aikshatha bahu sya:m praja:ye:ye:thi, so:'ka:mayatha bahu sya:m praja:ye:ye:thy a:dishu bahu bhavana sankalpa pu:rvaka srushtaya:de:h karthuh sarve:svarasya karana:dhipa:dhipasya:navadhika:thisaya jna:na:nandaika svaru:pasya nikhila he:ya prathyani:kasya ve:dyasya vidya: brahma pra:pthi phala:ya vidhi:yathe:||8||
Link copied427. thulyam thu darsanam||3|4|9||
Link copiedvidya:ya:h pradha:nathve:'pi brahma vida:m a:cha:ra darsanam thulyam--- karmana:m ana:cha:ra darsanam apy asthi:thy arthah, rushayah ka:vashe:ya:h kim artha: vayam adhye:shya:mahe: kim artha: vayam yakshya:mahe:, ithy a:dau| karma:nushtha:na darsanam thu phala:bhisandhi rahithasya karmano: vidya:ngathva:th; thya:gas thu phala:bhisandhi yukthasya vidya: viro:dhithva:d ithy abhipra:yah||9||
Link copied428. asa:rvathriki:||3|4|10||
Link copiedyad e:va vidyaya: karo:thi:thi sruthih sarva vidya:ya:h karma:ngathvam vidadha:thi:thy e:thad asangatham; athra vidya: sabda:bhihitha: thu na sa:rvathrikri:, api thu:dgi:tha vidya:| yath karo:thi, thad vidyaye:thi naivam pada:nvayah; api thu yad e:va vidyaya: karo:thi, thad e:va vi:ryavaththaram ithi| vidyaya: kriyama:nasya:nyatho:'vagathasya vi:ryavaththarathvam prathisa:dhana bha:vo:'vagamyathe:, yad e:ve:thi prasiddhavan nirde:sa:th| anyatho:'vagathir hi, udgi:tham upa:si:the:thi sannihitho:dgi:tha vidya:ya:h||10||
Link copied429. vibha:gah sathavath||3|4|11||
Link copiedtham vidya: karmani: samanva:rabhe:the:, ithy athra vidya: cha svasmai phala:ya karma cha svasmai phala:ya:nva:rabhatha ithi vibha:go: drashtavyah, yatho: vidya: karmano:r bhinna phalathvam uktham| sathavath--- yatha: kshe:thra rathna vikrayinam satha dvayam anve:thi:thy ukthe:, kshe:thra:rtham satham, rathna:rtham satham ithi vibha:go:'vagamyathe:; thadvath||11||
Link copied430. adhyayana ma:thravathah||3|4|12||
Link copiedve:dam adhi:thye:thy adhyayana ma:thravatha e:va karma vidha:na:d ane:na vidya:ya: na karma:ngathvam avagatham| adhyayana vidhir hy a:dha:navan niyamavad akshara ra:si grahana ma:thre: paryavaspathi; gruhi:thasya sva:dhya:yasya phalavad artha:vabo:dhithva darsana:th than nirnaya phala mi:ma:msa: sravane: adhi:tha ve:dah purushah svayam e:va pravarthathe:| artha:vabo:dha paryanthathve:'py artha jna:na:d artha:nthara bhu:tha: smruthi prathyaya:vruththi ru:pa:, vidya:th, upa:si:the:thi sa:sthra vihitha: vidya: na karma:ngam||12||
Link copied431. na:vise:sha:th||3|4|13||
Link copiedkurvann e:ve:ha karma:ni, ithi brahma vida:m a:yushah karmani niyamo: drusyatha ithy e:than na sambhavathi, avise:sha:th--- vidusha e:ve:thi vise:sha:bha:va:th kim ithy avidusho: na sya:th| vidushas thv a:praya:na:d upa:sana:nuvruththi darsana:d artha svabha:va:d vidusha e:ve:thy abhipra:yah||13||
Link copied432. sthuthaye:'numathir va:||3|4|14||
Link copiedva: sabdo:'vadha:rane:| i:sa:va:syam idam sarvam ithi vidya: prakarana:d vidya: sthuthaye: karma:numathir e:va| vidya: ma:ha:thmya:th sarvada: karma:ni kurvann api thair na lipyatha ithi hi sthutha: bhavathi vidya:| va:kya se:she: cha--- na karma lipyathe: nare:, ithi sru:yathe:||14||
Link copied433. ka:ma ka:re:na chaike:||3|4|15||
Link copiede:ke: sa:khinah ka:ma ka:re:na cha vidya: nishthasya ga:rhasthya thya:gam adhi:yathe:| kim prajaya: karishya:mo: ye:sha:m no:'yam a:thma:yam lo:kah, ithi ga:rhasthya karma thya:gam bruvad va:kyam vidya: pradha:nam ithi darsayathi||15||
Link copied434. upamardam cha||3|4|16||
Link copiedvidyaya: sarva karmo:pamardam cha:dhi:yathe:--- kshi:yanthe: cha:sya karma:ni thasmin drushte: para:vare:, ithi; thad vidya:ya:h karma:ngathve: na sangachchhathe:||16||
Link copied435. u:rdhva re:thahsu cha sabde: hi||3|4|17||
Link copiedu:rdhva re:thahsv a:srame:shu brahma vidya: darsana:th the:shu cha:gniho:thra:di karma:bha:va:n na vidya: karma:ngam| the: cha:thra:srama:h santhy e:va; yatho: vaidike: sabde: the:'pi drusyanthe:--- thrayo: dharma skandha: yajno:'dhyayanam da:nam ithi, ye: che:me:'ranye: sraddha: thapa ithy upa:sathe:, e:tham e:va prava:jino: lo:kam ichchhanthah pravrajanthi, ithy a:dau| ya:vaj ji:vam agniho:thram ithy a:dika: thu sruthir aviraktha vishaya:||17||
Link copied436. para:marsam jaiminir acho:dana:ch cha:pavadathi hi||3|4|18||
Link copiedthrayo: dharma skandha:h, ithy a:dishu the:sha:m a:srama:na:m acho:dana:th--- avidha:na:d upa:sana: sthuthy artham para:marsam--- anuva:dam jaiminir a:cha:ryo: manyathe:| api cha, apavadathi hi sruthir a:srama:ntharam--- vi:raha: va: e:sha de:va:na:m yo:'gnim udva:sayathe:, ithy a:dika:| athas the: na santhy e:va||19||
Link copied437. anushthe:yam ba:dara:yanah sa:mya sruthe:h||3|4|19||
Link copiedgruhastha:sramavad a:srama:ntharam apy anushthe:yam bhagava:n ba:dara:yano: manyathe:| kuthah| thasya:pi thath sa:myasruthe:h--- thrayo: dharma skandha:h, ithy e:vam a:dau hi sarve:sha:m a:srama:na:m e:ka ru:pam sanki:rthanam||19||
Link copied438. vidhir va: dha:ranavath||3|4|20||
Link copiedva: sabdo:'vadha:rane:; sarve:sha:m a:srama:na:m vidhir e:va:yam| dha:ranavath, yatha:--- adhastha:th samidham dha:rayann anudrave:th, upari hi de:ve:bhyo: dha:rayathi, ithy anuva:da ru:pe:'py uparidha:ranasya:pra:pthathve:na vidhir a:sri:yathe:; e:vam iha:srama:na:m api| atha u:rdhva re:thahsv api vidya: darsana:d vidya:thah purusha:rtha ithi||20|| ithi purusha:rtha:dhikaranam||1||
Link copied439-440. sthuthi ma:thram upa:da:na:d ithi che:n na:pu:rvathva:th||3|4|21||
Link copiedbha:va sabda:ch cha||3|4|22||
Link copiedo:m ithy e:thad aksharam udgi:tham upa:si:tha, sa e:sha rasa:na:m rasathamah paramah para:rthyo:'shtamo: yad udgi:thah, ithy e:thaj ja:thi:yake: kim karma:nga:sraya:na:m drushti vise:sha:na:m vidhir a:sthe:yah, utho:dgi:tha:di sthuthi ma:thram ithi samsayah| vidhithve: siddhe: hi go: do:hana:divad bhavathi; vidhithvam e:va na sambhavathi:thi pu:rvah pakshah| iyam e:va juhu:h svargo: lo:ka a:havani:yah, karma:nga bhu:tho:dgi:tha:di sambandhithayo:pa:da:na:d rasathamathva:de:s thath sthuthi ma:thrathvam e:va; na rasathamathva:di drushti vidhih| ra:ddha:nthas thu---juhv a:di vidhivad udgi:tha:di vidhe:r athra:sannidha:na:th, rasathamathva:de:r apra:pthathva:ch cha, upa:si:the:thi vidhi prathyaye:na cha, na sthuthi ma:thram, thad drushti vidhir e:va| su:thra dvayam api vya:khya:tham||21-22|| ithi sthuthi ma:thra:dhikaranam||2||
Link copied441-442. pa:riplava:rtha: ithi che:n na vise:shithathva:th||3|4|23||
Link copiedthatha: chaika va:kyo:pabandha:th||3|4|24||
Link copiedprathardano: ha vai daivo:da:sih, ithy a:dayo: ve:da:nthe:shv a:khya:na vise:sha:h kim pa:riplava prayo:ga:rtha:h, utha thathra thathra vidya: vise:sha prathipa:dana:rtha:h, ithi samsayah| a:khya:na:ni samsanthi:thi pa:riplave: viniyo:ga:th thad artha:h, ithi pu:rvah pakshah| ra:ddha:nthas thu--- a:khya:na:ni samsanthi:thy ukthva:, manur vaivasvatho: ra:ja:, ithi manv a:dy a:khya:ne: viniyo:gasya vise:shithathva:th, tham ma:m a:yur amrutham ithy upa:hsva, a:thma: va: are: drashtavyah, ithy a:di vidhinaika va:kyathva:ch cha, so:'ro:di:th, ithy a:divad vidya: vidhy artha: e:va| su:thra dvayam api vya:khya:tham||23-24|| ithi pa:riplava:rtha:dhikaranam||3||
Link copied443. atha e:va cha:gni:ndhana:dy anape:ksha:||3|4|25||
Link copiedu:rdhva re:thahsv a:srame:shu brahma vidya: sambhavathi, ne:thi samsayah| yajna:dy abha:va:th the:sha:m thad angika: vidya: na sambhavathi:thi pu:rvah pakshah| ra:ddha:nthas thu--- yad ichchhantho: brahmacharyam charanthi, e:tham e:va pravra:jino: lo:kam ichchhanthah pravrajanthi, ithy a:di sruthe:s the:sha:m vidya:vaththva:vagama:th the:shv agniho:thra:dy anape:ksha: vidye:thi nischi:yathe:| su:thra:rthas thu--- atha e:va, vidya:vaththva sruthe:r e:va, a:dha:na:dy anape:ksha: the:shu vidya:| agni:ndhanam hy agny a:dha:nam||25|| ithy agni:ndhana:dy adhikaranam||4||
Link copied444. sarva:pe:ksha: cha yajna:di sruthe:r asvavath||3|4|26||
Link copiedkarmavathsu gruhasthe:shu kim yajna:di karma:pe:ksha: vidya:, utha thathra:pi ke:valaive:thi samsayah| u:rdhva re:thahsu yajna:dy anape:kshaiva:mruthathvam sa:dhayathi che:th karma nirape:ksha:ya: vidya:ya: e:va sa:dhanathvam abhyupagamani:yam| thatha: sathi gruhasthe:shv api than nirape:kshaiva sa:dhayithum samarthe:thi pu:rvah pakshah| na hi svarga:di sa:dhana bhu:tham agniho:thra:di karma purusha bhe:de:na na:na: vidha:ngakam drushtam| vividishanthi:thi sabdo:'pi ve:dane:chchha:ya:m karma:ni viniyunkthe:, na vidya:ya:m| ra:ddha:nthas thu--- karmavathsu gruhasthe:shu yajna:di sarva karma:pe:ksha: vidya:| kuthah| yajna:di sruthe:h--- tham e:tham ve:da:nuvachane:na bra:hmana: vividishanthi yajne:na da:ne:na, ithi hi yajna:dayo: vidya:ngathve:na viniyujyanthe:| atho: gruhasthe:shu karma:pe:ksha: vidya:| ichchha:ya: ishyama:na pradha:nathva:d vividishanthi:thi:shyama:nam jna:nam e:ve:thy avagamyathe:| yatha: gamana sa:dhana bhu:tho:'svah sva parikara bandha ru:pa parikarma:pe:kshah; e:vam mo:ksha sa:dhana bhu:tha: vidya:pi nithya naimiththika parikarma:pe:ksha:| u:rdhva re:thahsu cha sva:srama vihitham karmaiva parikarma bhavathi:thi the:shv api vidya: sambandhah sa:sthra:d avagamyathe:| sa:sthraika samadhigamye: hi yatha:sa:sthram abhyupagamani:yam| su:thram api vya:khya:tham||26|| ithi sarva:pe:ksha:dhikaranam||5||
Link copied445. sama dama:dy upe:thah sya:th thatha:pi thu thad vidhe:s thad angathaya: the:sha:m apy avasya:nushthe:yathva:th||3|4|27||
Link copiedkim vidya: nirvruththaye: gruhasthaih sama dama:daya upa:de:ya:h, utha ne:thi samsayah| gruhastha:na:m a:nthara ba:hya karana vya:pa:ra ru:pa karma:ngakathva:d vidya:ya:h, thad vipari:tha ru:pa sama dama:dy upa:da:na:sa:marthya:d u:rdhva re:thahsu karma rahithe:shu sama:di viniyo:go: bhavishyathi, yatha: yajna:di viniyo:gah karmavathsu gruhasthe:shu| thasma:d anupa:de:ya:h sama:daya ithi pu:rvah pakshah| ra:ddha:nthas thu--- thasma:d e:vam vich chha:ntho: da:ntha uparathas thithikshuh sama:hitho: bhu:thva:thmany e:va:thma:nam pasye:th, ithi sa:ma:nye:na vidya:ngathaya: viniyo:ga:d gruhasthair apy upa:de:ya:h| na cha karmavatha:m the:sha:m sama:dy upa:da:na:sa:marthyam; bhinna vishayathva:ch chhama:de:h| vihithe:shu hi karmasu karana vya:pa:rah; avihithe:shu prayo:jana su:nye:shu cha sama dama:dayah| athah sama:di viniyo:go: yajna:di viniyo:gavan na sanko:cham arhathi:thi| su:thra:rthas thu--- yady api gruhastho: yajna:di karmasu viniyukthah, thatha:pi thu sama dama:dy upe:thah sya:th| kuthah| sa:ntho: da:nthah, ithy a:dina: thad vidhe:s thad angathaya:--- vidya:ngathaya: vidya: nishpaththaye: the:sha:m avasya:nushthe:yathva:ch cha| e:ka:gratha: nishpa:dyathva:ch chhama dama:dibhir e:va vidya: nishpaththir ithy arthah| yajna:di karma:ny api pa:pa nibarhana dva:re:naika:gratha:m a:pa:dayanthi:thy abhipra:yah||27|| ithi sama dama:dy adhikaranam||6||
Link copied446. sarva:nna:numathis cha pra:na:thyaye: thad darsana:th||3|4|28||
Link copiedva:jina:m chhando:ga:na:m pra:na vidya:ya:m, na ha va: e:vam vidi kinchana:nnam bhavathi, ithi sarva:nna:numathih sanki:rthyathe:| kim pra:na vidah sarva:nna:numathih sarvada:, utha prana:thyaya:paththa:v ithi samsayah| avise:sha:sarvade:thi purvah pakshah| athisayitha sakthe:r brahma vido:'py uchchhishta parigrahana bhakshanayo:h pra:na:thyaya:paththa:v e:va darsana:d alpa sakthe:h pra:na vidah kim punar ithi pra:na:thyaya:paththa:v e:ve:thi ra:ddha:nthah| suthrarthas thu--- cha sabdo:'vadharane:; pra:na vidah sarvanna:numathih| pra:na:thyaya e:va| kuthah| thad darsana:th--- athisayitha sakthe:r brahma vidah pra:na:thyaya e:va sarvanna:numathi darsana:th||28||
Link copied447. aba:dha:ch cha||3|4|29||
Link copieda:ha:ra suddhau saththva suddhih saththva suddhau dhruva: smruthih, ithy a:ha:ra suddhi vidhe:r aba:dha:ch cha pra:na:thyaya e:va||29||
Link copied448. api smaryathe:||3|4|30||
Link copiedpra:na samsayam a:panno: yo:'nnam aththi yathas thathah| lipyathe: na sa pa:pe:na padma pathram iva:mbhasa:, ithi pra:na samsaya e:va sarva:nna:numathih smaryathe: cha||30||
Link copied449. sabdas cha:tho:'ka:ma ka:re:||3|4|31||
Link copiedyathah sarva:nna:numathih pra:na:thyaye:; atho:'ka:ma ka:re: sabdas cha--- ka:ma ka:rasya prathishe:dhaka sabdas cho:papadyatha ithy arthah| asthi hi katha:na:m ka:ma ka:ra prathishe:dhakah sabdah, thasma:d bra:hmanah sura:m na pibathi pa:pmana: no:thsruja:, ithi| pa:pmana: samsprushto: na bhava:ni:thi mathva: sura:m na pibathi:thy arthah||31||
Link copiedithi sarva:nna:numathy adhikaranam||7||
Link copied450. vihithathva:ch cha:srama karma:pi||3|4|32||
Link copiedkim yajna:dayo: vidya:nga bhu:tha:h ke:vala:sramasya:py anga bhu:tha:h, utha ne:thi samsayah| ke:vala:sramasya:py angathve: nithya:nithya samyo:ga ru:pa viro:dhah prasajyatha ithi na:nga bhu:tha:h ke:vala:sramasye:thi pu:rvah pakshah| ra:ddha:nthas thu--- yadaike:naiva viniyo:ge:no:bhaya:ngathvam ishyathe: thada: nithya:nithya samyo:ga viro:dhah| iha thu--- ya:vaj ji:vam agniho:thram juhuya:th, tham e:tham ve:da:nuvachane:na bra:hmana: vividishanthi yajne:na da:ne:na, ithi viniyo:ga pruthakthve:na viro:dhah parihriyathe:; yatha:gniho:thra:di:na:m e:va karmana:m| ji:vana:dhika:raka:m ana:dhika:rayo:r iva:dhika:ra bhe:dasya:sphutathva:th thath sphuti:karana:ya punar iha chinthyathe:| su:thra:rthas thu--- ya:vaj ji:vam agniho:thram juhuya:d ithy a:dina: ke:vala gruhastha:sramino: ji:vana nimiththathaya: vihithathva:d e:va yajna:di ke:vala:srama karma:pi||32||
Link copied451. sahaka:rithve:na cha||3|4|33||
Link copiedtham e:tham ve:da:nuvachane:ne:thy a:dina: vidya: sa:dhanathve:na vihithathva:ch cha vidya: sahaka:rithve:na cha:nushthe:yam yajna:di karma| viniyo:ga pruthakthve:na viro:dhah parihriyatha ithy abhipra:yah||33||
Link copied452. sarvatha:pi tha e:vo:bhaya linga:th||3|4|34||
Link copiedsarvatha:pi--- ubhayathra viniyo:ge:'pi tha e:va yajna:dayah| kuthah| ubhaya linga:th--- ubhayathra prathyabhijna:na:khyalinga:th||34||
Link copied453. anabhibhavam cha darsayathi||3|4|35||
Link copieddharme:na pa:pam apanudathi, ithy a:dibhis cha yajna:di dharma:n nirdisya thair vidya:ya: anabhibhavam--- pa:pa karmabhir uthpaththi prathibandha:bha:vam darsayathi| atha ubhayathra viniyo:ga:th ke:vala:sramina:m mumukshu:na:m cha:nushthe:ya: yajna:dayah||35|| ithi vihithathva:dhikaranam||8||
Link copied454. anthara: cha:pi thu thad drushte:h||3|4|36||
Link copiedvidhura:di:na:m ana:sramina:m brahma vidya:ya:m adhika:ro:'sthi, ne:thi samsayah| a:srama dharme:thikarthavyatha:kathva:d vidya:ya:s thad abha:va:th the:sha:m anadhika:ra ithi pu:rvah pakshah| ra:ddha:nthas thu--- u:rdhva re:thahsv iva raikva:dishv ana:sramishu vidya: nishthathva darsana:d a:srama:niyathair japo:pava:sa da:na:dibhir e:va the:sha:m vidya:nugraho: bhavathi:thy asthy e:va:dhika:rah| su:thra:rthas thu--- thu sabda:th paksho: vya:vruththah| cha sabdo:'vadha:rane:| anthara:pi--- a:srama:nanthara: varthama:na:na:m ana:sramina:m apy adhika:ro:'sthy e:va| kuthah| thad drushte:h--- raikva:dishu vidya: nishthathva drushte:h||36||
Link copied455. api smaryathe:||3|4|37||
Link copiedapi cha ana:sramina:m api japa:dibhir e:va vidya:nugrahah smaryathe:--- japye:na:pi cha samsidhye:d brahmano: na:thra samsayah, ithy a:dina:||37||
Link copied456. vise:sha:nugrahas cha||3|4|38||
Link copieda:srama:niyatha dharma vise:she:na vidya:nugrahah sru:yathe: cha--- thapasa: brahmacharye:na sraddhaya: vidyaya: cha:thma:nam anvichchhe:th, ithi||38||
Link copied457. athas thv itharaj jya:yo: linga:ch cha||3|4|39||
Link copiedathah--- ana:sramithva:ditharath, a:sramithvam jya:yah, dharma bhu:yasthva:th; linga:ch cha smruthe:s che:thy arthah| ana:srami: na thishthe:th thu dinam e:kam api dvijah, ithi hi smaryathe:| thasma:d ana:sramithve:na vidya: nishthathvam a:pad vishayam ithy abhipra:yah||39|| ithi vidhura:dhikaranam||9||
Link copied458. thad bhu:thasya thu na:thad bha:vo: jaimine:r api niyama:th thad ru:pa:bha:ve:bhyah||3|4|40||
Link copiednaishthika vaikha:nasa parivra:jaka:na:m sva:srame:bhyah prachyutha:na:m api vidya:dhika:ro:'sthi, ne:thi samsayah| vidhura:divaj japa:dibhir anugraha sambhava:d asthy e:va:dhika:ra ithi pu:rvah pakshah| ra:ddha:nthas thu--- naishthika:di:na:m sva:srama bhrashta:na:m pra:yaschiththa:bha:va smarana:ch chhishta bahishkruthathva:ch cha the:sha:m anadhika:rah, ithi| su:thra:rthas thu--- thad bhu:thasya thu na:thad bha:vah--- naishthika:di bhu:thasya:thatha:bha:vo: na sambhavathi| kuthah| thad ru:pa:bha:ve:bhyah sa:sthrair niyama:th, thad ru:pa:bha:va: naishthika:dy a:srama dharma:bha:va:h; the:bhyo: niyachchhanthi hi sa:sthra:ni| brahmacha:rya:cha:rya kula va:si: thruthi:yo:'thyantham a:thma:nam a:cha:rya kule:'vasa:dayan, ithi naishthikasya thathraiva niyamah; aranyam iya:th thatho: na punar e:ya:th, ithi cha vaikha:nasasya; sannyasya:gnim na punar a:varthaye:th, ithi cha parivra:jakasya| atha e:va the:sha:m ana:sramithve:na:vastha:na:bha:va:d vidya:dhika:ro: na sambhavathi| jaimine:r apy avigi:tho:'yam||40||
Link copied459. na cha:dhika:rikam api pathana:numa:na:th thad ayo:ga:th||3|4|41||
Link copieda:dhika:rikam--- adhika:ra lakshano:ktham, avaki:rni pasus cha thadvath, ithy e:thath pra:yaschiththam naishthikasya na sambhavathi| kuthah| pathana:numa:na:n naishthikasya thad ayo:ga:th| thasya hi pathanam smaryathe: pra:yaschiththa:bha:va vachane:na, a:ru:dho: naishthikam dharmam yas thu prachyavathe: dvijah| pra:yaschiththam na pasya:mi ye:na sudhye:th sa a:thmaha:, ithi| atha upakurva:na brahmacha:ri vishayama:dhika:rikam||41||
Link copied460. upapu:rvam api:thy e:ke: bha:vam asanavath thad uktham||3|4|42||
Link copiede:ke: pra:yaschiththa bha:vam api manyanthe:, yatha upapu:rvam--- upapa:thakam idam; asanavath--- madhv asana:di nishe:dha thath pra:yaschiththavad bhavathi:thy arthah| atha upakurva:nasya brahmacha:rina uktham a:dhika:rikam asya:pi bhavathi:thi| thad uktham smruthi ka:raih, uththare:sha:m chaithad aviro:dhi, ithi| upakurva:ne: brahmacha:riny uktho: dharma uththare:sha:m cha:sramina:m sva:srama:viro:dhi: bhavathy e:ve:thy arthah||42||
Link copied461. bahis thu:bhayadha:pi smruthe:r a:cha:ra:ch cha||3|4|43||
Link copiedubhayadha:pi--- upapa:thakathve: maha: pa:thakathve:'pi naishthika:th prachyutho: bahir bhu:thah karma:dhika:ra:th, pra:yaschiththam na pasya:mi, ithi smruthe:h, a:cha:ra:ch cha--- varjayanthi hy e:nam sishta: vidyo:pade:sa:dau| yady api kalmasha nibarhana:ya kaischith pra:yaschiththam uchyathe:; thatha:pi karma:dhika:ra:pa:dini: suddhis the:sha:m na sambhavathi:thy abhipra:yah||43|| ithi thad bhatha:dhikaranam||10||
Link copied462. sva:minah phala sruthe:r ithy a:thre:yah||3|4|44||
Link copiedudgi:tha:dy upa:sanam kim yajama:ne:na:nushthe:yam, utha ruthvije:thi samsayah| yad e:va vidyaya: karo:thi....thad e:va vi:ryavaththaram ithi krathu vi:ryavaththarathva phalam yajama:nasye:thi daharo:pa:sana:divad yajama:ne:na:nushthe:yam ithi pu:rvah pakshah| karma:nga:srayathva:d asyo:pa:sanasya karmanas cha:rthvijyathve:na e:thad api ruthvija:nushthe:yam, go: do:hana:divad ithi ra:ddha:nthah| su:thra:rthas thu--- sva:minah, yajama:nasyo:dgi:tha:dy upa:sane: karthruthvam| kuthah| thasyaiva phala sruthe:r ithy a:thre:yo: manyathe:||44||
Link copied463. a:rthvijyam ithy audulo:mis thasmai hi parikriyathe:||3|4|45||
Link copiedkrathv anga:srayathve:na krathv adhikruthasyaiva:sminn upa:sane:'dhika:ra:th kratho:s cha:rthvijyathve:na e:thad apy a:rthvijyam ithy audulo:mir a:cha:ryo: manyathe:, yajama:na phala sa:dhanathve:'pi kratho:s thad anushtha:na:ya hi ruthvik parikriyathe:||45|| ithi sva:my adhikaranam||11||
Link copied464. sahaka:ryanthara vidhih pakshe:na thruthi:yam thadvatho: vidhy a:divath||3|4|46||
Link copiedthasma:d bra:hmanah pa:ndithyam nirvidya ba:lye:na thishtha:se:th, ba:lyam cha pa:ndithyam cha nirvidya:tha munih, ithy athra maunam vidya:ngathaya: vidhi:yathe:, utha:nu:dyatha ithi samsayah| maunasya manana ru:pathva:th, sro:thavyo: manthavyah, ithi cha pra:pthathve:na:nu:dyatha ithi pu:rvah pakshah| ra:ddha:nthas thu--- muni sabdasya prakrushta manana si:le: prasiddhe:h, prakrushta mananam upa:sya vishaya:bhya:sa ru:pam vidya: nishpaththaye: vidhi:yatha ithi| su:thra:rthas thu--- thadvathah, vidya:vathah, sahaka:ryantharam--- maunam vidhih, vidhi:yatha ithi vidhir ithi maunam vidhir ithy uktham| vidhya:divath--- athra:pi vidhi:yatha ithi vidhir yajna da:na prabhruthy a:srama dharmah, a:di sabda:ch chhravana manane: gruhye:the:| a:srama dharmavach chhravana mananavach cha pa:ndithya ba:lyayo:s thruthi:yam idam sahaka:ryantharam maunam apu:rvam vidhi:yathe:| kutha ithy atha a:ha--- pakshe:ne:thi| muni sabdasya prakrushta manana yukthe: pakshe:na--- prasiddhe:r ithy arthah||46||
Link copied465. kruthsna bha:va:th thu gruhino:pasamha:rah||3|4|47||
Link copiedsarva:sramina:m vidya:vaththve:'pi chha:ndo:gye:--- sa khalv e:vam varthayan ya:vad a:yusham brahma lo:kam abhisampadyathe:, ithi gruhastha dharme:no:pasamha:rah| kuthah| kruthsna bha:va:th--- kruthsne:shu bha:va:th--- kruthsne:shv a:sramishu vidya:ya:h sad bha:va:d ithy arthah||47||
Link copied466. maunavad ithare:sha:m apy upade:sa:th||3|4|48||
Link copiedatha munih, ithy asmin va:kye:, atha bhiksha:charyam charathi, ithi pa:rivra:jyaika:ntha dharme:no:pasamha:ro:'pi sarva:srama dharma pradarsana:rthah, bhiksha:charya mauna:divad ithare:sha:m a:srama dharma:na:m yajna:di:na:m apy upade:sa:th||48|| ithi sahaka:ryanthara vidhy adhikaranam||12||
Link copied467. ana:vishkurvann anvaya:th||3|4|49||
Link copiedthasma:d bra:hmanah pa:ndithyam nirvidya ba:lye:na thishtha:se:th ba:lyam cha pa:ndithyam cha nirvidya:tha munih, ithy athra kim ba:lasya karma ka:ma cha:ra:dikam sarvam vidusho:pa:de:yam, utha vidya: ma:ha:thmya:na:vishka:ra ithi samsayah| ba:lye:na thishtha:se:d ithy avise:sha vidha:na:th ka:ma cha:ra:dikam sarvam apy upa:de:yam ithi pu:rvah pakshah; vidusho: vise:sha vidha:na:th, vidya: ma:ha:thmya:ch cha, nishe:dha sruthayo: ba:dhitha: bhave:yur ithi| ra:ddha:nthas thu--- pa:ndithya prayuktha sva ma:ha:thmya:na:vishka:ra e:va vidya:nvaya yo:gyathayo:pa:de:yah; itharasya ka:ma cha:ra:de:h, na:viratho: duscharitha:th, ithy a:di sasthrair vidyo:thpaththi viro:dhithva:vagama:th| atho: yatha: ba:lah sva:bhijana:dy ana:vishkurvan varthathe:; thatha: vidva:n varthe:the:thy e:thad e:va yuktham| su:thram api vya:khya:tham||49|| ithy ana:vishka:ra:dhikaranam||13||
Link copied468. aihikam aprasthutha prathibandhe: thad darsana:th||3|4|50||
Link copiedmo:ksha vyathiriktha:bhyudaya phalam upa:sanam kim sva sa:dhana bhu:tha punya karma:nantharam e:vo:thpadyathe:, utha:nantharam anyada: ve:thy aniyama ithi samsayah| sa:dhana nirvruththau vilamba he:thv abha:va:d anantharam e:ve:thi pu:rvah pakshah| ra:ddha:nthas thu--- aprasthuthe:--- prabala karma:nthara prathibandhe: sathy anantharam, prasthuthe: thad uththara ka:lam ithy aniyamah| drusyathe: hi prabala karma:nthare:na phala prathibandhah, yad e:va vidyaya: karo:thi thad e:va vi:ryavaththaram ithy udgi:tho:pa:sanasya krtho:h karma:nthare:na phala:prathibandhah phalam ithi, pruthag ghy aprathibandhah phalam ithy abhyupagama:th| su:thram api vya:khya:tham| aihikam--- abhyudaya phalam ithy arthah||50||
Link copiedithy aihika:dhikaranam||14||
Link copied469. e:vam mukthi phala:niyamas thad avastha:vadhruthe:s thad avastha:vadhruthe:h||3|4|51||
Link copiedkim mukthi phala:ny upa:sana:ni sva sa:dhana bhu:tha:thisayitha punya karma:nantharam uthpadyanthe:, utha pu:rvavad aniyama ithi samsayah| mukthi phalo:pa:sana sa:dhana bhu:tha karmana:m sarva karmabhyo: balavaththarathve:na prathibandha:bha:va:d anantharam e:vo:thpadyatha ithi pu:rvah pakshah| thathra:pi brahma vid apacha:rasya thatho:'pi balavaththarathve:na prathibandha sambhava:d aniyama e:ve:thi ra:ddha:nthah| su:thra:rthas thu--- mukthi phala:na:m apy e:vam aniyamah| kuthah| thad avastha:vadhruthe:h--- prathibandha:bha:ve: sathi phala:vadhruthe:h| dvir ukthir adhya:ya parisama:pthim dyo:thayathi||51|| ithi mukthi phala:dhikaranam||15||
Link copiedithi sri: ra:ma:nuja:cha:rya virachithe: sri: ve:da:nthadi:pe: thruthi:yasya:dhya:yasya chathurthah pa:dah||
Link copied|| sama:pthas cha:dhya:yah||
Link copied