Vedanta Dipa · Section 14 of 17
||atha chathurtha:dhya:ye: prathamah pa:dah||
Original Sanskrit · click to toggle
४७० आवृत्तिर् असकृद् उपदेशात्॥४।१।१॥
Link copiedब्रह्म-विद् आप्नोति परम्, तम् एवं विद्वान् अमृत इह भवति, इत्य् आदि वेदान्त-विहितं वेदनं किं सकृत् कृतम् एव शास्त्रार्थः, उतासकृद् आवृत्तम् इति संशयः। सकृत् कृतम् एवेति पूर्वः पक्षः, स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति, इत्य् आदौ वेदनस्यैव मुक्त्य्-उपायत्व-प्रतिपादनात्, सकृत् कृतेऽपि वेदने शास्त्रार्थ-निर्वृत्तेः, तस्यासकृद् आवृत्तौ प्रमाणाभावात्। राद्धान्तस् तु--- यस् तद् वेद यत् स वेद स मयैतद् उक्तः, इत्य् उपक्रम्य, अनु म एतां भगवो देवतां शाधि यां देवताम् उपाः से, इत्य् एकस्मिन् वाक्ये विद्युपास्योर् व्यतिकरेण प्रयोग-दर्शनात्, समानार्थेषु, ब्रह्म-विद् आप्नोति परम्, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, इत्य् आदिषु ध्यान-विद्योर् व्यतिकर-दर्शनाच् च, ध्यानोपासनादि-शब्द-वाच्यम् असकृद् आवृत्तं स्मृति-सन्तान-रूप-वेदनम् एव शास्त्रार्थ इति निश्चीयते। सूत्रार्थस् तु--- आवृत्तिर् असकृत्--- ब्रह्म-प्राप्ति-साधनं वेदनम् असकृद् आवृत्तम् एव शास्त्रार्थः, वेदनं ध्यान-शब्द-वाच्यम् इत्य् अर्थः। कुतः। उपदेशात्--- ओम् इत्य् एवं ध्यायथात्मानम्, निचाय्य तं मृत्यु-मुखात् प्रमुच्यते, आत्मानम् एव लोकम् उपासीत, आत्मा वा अरे द्रष्टव्यः, इत्य् आदिना उपासनोपसंहारोपदेशात्। उपासनं चाविच्छिन्न-स्मृति-सन्तान-रूपम् इति पूर्वम् एवोक्तम्॥१॥
Link copied४७१ लिङ्गाच् च॥४।१।२॥
Link copiedलिङ्गं--- स्मृतिः। स्मर्यते चायम् अर्थः--- मां ध्यायन्त उपासते, तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात्, ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते, तद्-रूप-प्रत्यये चैका सन्ततिश् चान्य-निस्पृहा। तद्-ध्यानं प्रथमैः षड्भिर् अङ्गैर् निष्पाद्यते तथा, इति॥२॥ इत्य् आवृत्त्य्-अधिकरणम्॥१॥
Link copied४७२ आत्मेति तूपगच्छन्ति ग्राहयन्ति च॥४।१।३॥
Link copiedकिम् उपास्यं ब्रह्मोपासितुर् अन्यत्वेनानुसन्धेयम्, उतात्मत्वेनेति संशयः। अधिकं तु भेद-निर्देशात्, अधिकोपदेशात्, इत्य् आदिषूपासितुर् उपास्यस्यार्थान्तरत्वेनैवोपपादनाद् यथावस्थितस्यैवोपास्यत्वाच् चान्यत्वेनोपास्यम् इति पूर्वः पक्षः। राद्धान्तस् तु--- त्वं वा अहम् अस्मि भगवो देवते अहं वै त्वम् असि भगवो देवते, इति पूर्वे उपासितारः उपास्यमात्मत्वेनोपगच्छन्ति। अत आत्मेत्य् एवोपास्यम्। तानुपासितॄन् प्रत्यर्थान्तर-भूतस्यापि ब्रह्मणः उपासितुरात्मत्वं ग्राहयन्ति शास्त्राणि, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः, इत्य् आरभ्योपासिता परमात्मनः शरीरम्, परमात्मा चोपासितुर् आत्मेति प्रतिपादनेन; तथा--- सर्वं खल्व् इदं ब्रह्म, तज् जलान् इति, सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः\॥॥ऐतदात्म्यम् इदं सर्वम् इति च तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तिता-प्रतिपादनेन च। एवम् उपासितुः स्वात्मनोऽप्य् आत्मत्वाद् ब्रह्मणः यथावस्थितस्व् आत्म-शरीरक-ब्रह्मानुसन्धानेऽहम् इत्य् एषानुसन्धेयम्। यथा मनुष्योऽहम् अस्मीति स्व-शरीरस्य स्व-प्रकारतक-स्वभावतया प्रकारिणि स्वात्मनि पर्यवसानम्; तथा स्वात्मनोऽहं-प्रत्ययोऽहं-शब्दश् च न केवल-स्वात्म-विषयौ, परमात्म-शरीरतया तद्-विशेषणत्वेनैव स्वात्मनोऽवस्थानात्। सूत्रम् अपि व्याख्यातम्॥३॥ इत्य् आत्मत्वोपासनाधिकरणम्॥२॥
Link copied४७३-४७४ न प्रतीके न हि सः॥४।१।४॥
Link copiedब्रह्म-दृष्टिर् उत्कर्षात्॥४।१।५॥
Link copiedमनो ब्रह्मेत्य् उपासीत, इत्य् आदिषु प्रतीकोपासनेष्व् अप्य् आत्मत्वेनानुसन्धानं कर्तव्यम् उत नेति संशयः। मनो ब्रह्मेत्य् उपासीतेति ब्रह्मोपासनत्व-विशेषाद् आत्मेत्य् एवानुसन्धानम् इति पूर्वः पक्षः। राद्धान्तस् तु--- न प्रतीके आत्मत्वानुसन्धानं कार्यम्। कुतः। न हि मन आदिर् उपासितुर् आत्मा न च तत्र ब्रह्मोपास्यम्, ब्रह्म-दृष्ट्या मन आदिर् उपास्यः। अपकृष्टे उत्कृष्ट-दृष्टिर् अभ्युदयाय भवति; यथा भृत्यादौ राज-दृष्टिः। सूत्र-द्वयं च व्याख्यातम्॥४-५॥ इति प्रतीकाधिकरणम्॥३॥
Link copied४७५ आदित्यादिमतयश् चाङ्ग उपपत्तेः॥४।१।६॥
Link copiedय एवासौ तपति तम् उद्गीथम् उपासीत, इत्य् आदिषु कर्माङ्गाश्रयोपासनेषु किम् उद्गीथादाव् आदित्यादि-दृष्टिः कार्या, उतादित्यादाव् उद्गीथादि-दृष्टिर् इति संशयः। कर्मणः फल-साधनतयोत्कर्षाद् आदित्यादेर् देवतात्वेन तद्-गुणत्वाच् चादित्यादाव् उद्गीथादि-दृष्टिः कार्येति पूर्वः पक्षः। राद्धान्तस् तु--- कर्मणोऽपि फल-साधनत्वम् आदित्यादि-देवताराधन-द्वारेणेत्य् आदित्यादेर् एवोत्कर्षोपपत्तेर् आदित्यादिमतय एव कर्माङ्गोद्गीथादौ कार्याः। सूत्रं च व्याख्यातम्॥६॥ इत्य् आदित्यादिमत्य्-अधिकरणम्॥४॥
Link copied४७६ आसीनः सम्भवात्॥४।१।७॥
Link copiedकिम् इदं ब्रह्मोपासनम् आसीनः कुर्यात्, उतासीनः शयानस् तिष्ठन् गच्छन् वेत्य् अनियमः, इति संशयः। विशेषाश्रवणाद् अनियम इति पूर्वः पक्षः। राद्धान्तस् तु--- आसीनस्यैवैकाग्रतासम्भवात्, एकाग्रता-मूलत्वाच् चोपासनस्य, आसीनः कुर्यात्। सूत्रम् अपि व्याख्यातम्॥७॥
Link copied४७७ ध्यानाच् च॥४।१।८॥
Link copiedनिदिध्यासितव्यः, इत्य् उपासनस्य ध्यान-रूपत्वाच् चैकाग्र-चित्ततावश्यम्भाविनी। ध्यानं हि विजातीय-प्रत्ययान्तराव्यवहितं तैलधारावद् अविच्छिन्न-स्मृति-सन्तति-रूपम्॥८॥
Link copied४७८ अचलत्वं चापेक्ष्य॥४।१।९॥
Link copiedनिश्चलत्वं चापेक्ष्य ध्यान-वाचो-युक्तिः पृथिव्य्-आदिषु दृश्यते, ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षं, ध्यायतीव द्यौः, इत्य् आदिका। अतो ध्यायतः पृथिव्यादिवद् अचलत्वम् आसीनस्यैव सम्भवति॥९॥
Link copied४७९ स्मरन्ति च॥४।१।१०॥
Link copiedस्मरन्ति चासीनस्यैव ध्यानम्--- उपविश्यासने युज्यायोगम् आत्म-विशुद्धये, इति॥१०॥
Link copied४८० यत्रैकाग्रता तत्राविशेषात्॥४।१।११॥
Link copiedयस्मिन् देशे यस्मिंश् च काले मनस एकाग्रता, तत्र देशे काले चोपासनं कार्यम्; शर्करादि-रहिते मनो-ऽनुकूले शुचौ देशे, इत्य् एतद्-अतिरिक्त-विशेषाग्रहणात्। यथा देश-कालयोर् एकाग्रतायाम् अविशेषः, न तथा स्थिति-गत्य्-आदौ, आसीनस्य तु विशेषोऽस्तीत्य् अभिप्रायः॥११॥
Link copiedइत्य् आसीनाधिकरणम्॥५॥
Link copied४८१ आप्रयाणात् तत्रापि हि दृष्टम्॥४।१।१२॥
Link copiedतद् इदम् अपवर्ग-साधनम् उपासनम् एकस्मिन्न् अहनि कार्यम् उत प्रत्यहम् आप्रयाणाद् अनुवर्तनीयम् इति संशयः। एकस्मिन्न् एवाहनि शास्त्रार्थस्य कृतत्वात् तावतैव परिसमापनीयम्। यावद् आयुषम् इति तु वचनं विधि-शब्दस्याभावाद् विद्यायाः फलेनोपसंहार-परम् इति पूर्वः पक्षः। राद्धान्तस् तु--- आप्रयाणाद् अनुवर्तनीयम्। कुतः। तत्रापि हि दृष्टं--- स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्म-लोकम् अभिसम्पद्यते, इति। अप्राप्तत्वेनानुवादत्वासम्भवाद् विधिर् एवायम् इति॥१२॥ इत्य् आप्रयाणाधिकरणम्॥६॥
Link copied४८२ तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशात्॥४।१।१३॥
Link copiedविदुष उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ किं सम्भवतः, उत नेति संशयः। नाभुक्तं क्षीयते कर्म कल्प-कोटि-शतैर् अपि, इति भोगाद् एव कर्म-क्षय-श्रवणाद् अश्लेष-विनाश-श्रुतिः कथञ्चिद् विद्या-स्तुत्य्-अर्थतया नेयेति पूर्वः पक्षः। राद्धान्तस् तु--- द्वयोः शास्त्रयोर् भिन्न-विषयत्वेन विरोधाभावात् सम्भवत एव; कर्मणां फल-जनन-सामर्थ्यं द्रढयति--- नाभुक्तं क्षीयते, इति। एवम् एवंविदि पापं कर्म न श्लिष्यते, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते, इति च श्रुतिर् विद्यायास् तत्-सामर्थ्य-निवारण-शक्ति-विषयेति यथा अप्-तेजसोः शीत-जनन-तन्-निवारण-शक्ति-विषये प्रमाणे न विरुध्येते इति। सूत्रम् अपि व्याख्यातम्॥१३॥ इति तद्-अधिगमाधिकरणम्॥७॥
Link copied४८३ इतरस्याप्य् एवम् असंश्लेषः पाते तु॥४।१।१४॥
Link copiedकिम् असंश्लेष-विनाशौ पुण्य-कर्मणोऽपि समानौ, उत नेति संशयः। पुण्य-कर्म-फलस्य सुख-रूपत्वेन विदुषोऽनिष्टत्वाभावान् न समानाव् इति पूर्वः पक्षः। राद्धान्तस् तु---मुमुक्षोर् मोक्ष-विरोधित्वेनानिष्टत्व-साम्याद् अश्लेष-विनाशौ समानाव् एव। सूत्रार्थस् तु--- इतरस्य्--- पुण्यस्याप्य् अनिष्ट-फलत्व-साम्याद् एवम्--- अश्लेष-विनाशौ; विद्यानुगुणस्य तु वृष्ट्य्-अन्नारोग्यादि-फलस्य शरीर-पाताद् ऊर्ध्वम् अनिष्टत्वाद् अश्लेषः॥१४॥ इति इतराधिकरणम्॥८॥
Link copied४८४ अनारब्ध-कार्ये एव तु पूर्वे तद्-अवधेः॥४।१।१५॥
Link copiedविद्योत्पत्तेः पूर्व-कृतयोः पुण्य-पापयोर् अविशेषेण विनाशः, उतानारब्ध-कार्ययोर् एवेति संशयः। सर्वे पाप्मानः प्रदूयन्ते, इति विशेषाभावाद् अविशेषेणेति पूर्वः पक्षः। राद्धान्तस् तु--- तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इत्य् उत्पन्न-विद्यस्यापि शरीर-मोक्षावधित्व-श्रुतेः, सर्व-विनाशे शरीर-स्थित्य्-अनुपपत्तेश् चानारब्ध-कार्ययोर् एव विनाशः। सूत्रं च व्याख्यातम्॥१५॥
Link copiedइत्य् अनारब्ध-कार्याधिकरणम्॥९॥
Link copied४८५ अग्निहोत्रादि तु तत्-कार्यायैव तद्-दर्शनात्॥४।१।१६॥
Link copiedअग्निहोत्राद्य्-आश्रम-धर्मः किं विदुषोऽनुष्ठेयः, उत नेति संशयः। सुकृत-दुष्कृतयोर् अश्लेष-विनाशाभिधानाद् आश्रम-धर्मस्यापि सुकृतत्व-साम्येन कार्याश्लेषाद् अननुष्ठेय इति पूर्वः पक्षः। राद्धान्तस् तु--- आश्रम-धर्मस्य तु विद्योत्पत्तिर् एव कार्यम् इति तत्-कार्यायैवानुष्ठेयः। दृश्यते हि--- तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्तीत्य् आदिना विद्योत्पत्ति-कार्यत्वम्। विद्या चाप्रयाणाद् अहर् अहर् अभ्यासाधेयातिशयोत्पाद्यैव। सूत्रं च व्याख्यातम्॥१६॥
Link copiedयद्य् अग्निहोत्रादि-साधु-कृत्या विद्योत्पत्त्य्-अर्था, पूर्व-कृता च साधु-कृत्या अनुभूत-फला प्रारब्ध-फला च, सुहृदः साधु-कृत्याम् इत्य् अस्य विषयः क इत्य् आशङ्क्याह---
Link copied४८६ अतोऽन्यापि ह्य् एकेषाम् उभयोः॥४।१।१७॥
Link copiedअतः--- अग्निहोत्रादि-साधु-कृत्यायाः अन्यापि विद्याधिगमात् पूर्वोत्तरयोः पुण्य-कर्मणोर् उभयोश् च कारीर्य्-आदिका वृष्ट्य्-अन्नाद्य्-अर्थतया विदुषानुष्ठिता, विद्योत्पत्तेः पूर्वं कृतानादि-काल-प्रवृत्ता च प्रबल-कर्मान्तर-प्रतिबद्ध-फला, साधु-कृत्यास्ति हि। अत एकेषां शाखिनां--- सुहृदः साधु-कृत्याम् इति वचनं तद्-विषयम्; विद्ययाश्लेष-विनाश-श्रुतिश् च तद्-विषया॥१७॥
Link copiedअनुष्ठितस्य कर्मणः प्रबल-कर्म-प्रतिबन्ध-सम्भवं पूर्वोक्तं स्मारयति---
Link copied४८७ यद् एव विद्ययेति हि॥४।१।१८॥
Link copiedउक्तं ह्य् उद्गीथ-विद्यायाः क्रतोः कर्मान्तर-प्रतिबन्धाभावः फलम् इति; अतः प्रतिबद्ध-फल-साधु-कृत्यस्यैव सुहृत्-सङ्क्रमणम्॥१८॥ इत्य् अग्निहोत्राद्य्-अधिकरणम्॥१०॥
Link copied४८८ भोगेन त्व् इतरे क्षपयित्वाथ सम्पद्यते॥४।१।१९॥
Link copiedइतरे--- आरब्ध-कार्ये पुण्य-पापे, किं विद्या-योनि-शरीरावसान एव विनश्येते, उत तच्-छरीरावसाने शरीरान्तरावसाने वेत्यनियम इति संशयः। यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इति सम्पत्तेः शरीर-विमोक्ष-विलम्ब-मात्र-श्रुतेस् तच्-छरीरावसान इति पूर्वः पक्षः। राद्धान्तस् तु--- प्रारब्ध-फलयोः कर्मणोः भोगेनैव क्षपयितव्यत्वाभिप्रायेण, यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इत्य् उच्यते, न शरीर-मात्रम्। कर्म-विषयौ हि बन्ध-मोक्षौ। अतः प्रारब्ध-फले पुण्य-पापे यावता शरीरेण समापनीये, तावता क्षपयित्वा अथ सम्पद्यत इत्य् अनियम एव। सूत्रं च व्याख्यातम्॥१९॥ इति इतर-क्षपणाधिकरणम्॥११॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य प्रथमः पादः॥
Link copied౪౭౦ ఆవృత్తిర్ అసకృద్ ఉపదేశాత్॥౪।౧।౧॥
Link copiedబ్రహ్మ-విద్ ఆప్నోతి పరమ్, తమ్ ఏవం విద్వాన్ అమృత ఇహ భవతి, ఇత్య్ ఆది వేదాన్త-విహితం వేదనం కిం సకృత్ కృతమ్ ఏవ శాస్త్రార్థః, ఉతాసకృద్ ఆవృత్తమ్ ఇతి సంశయః। సకృత్ కృతమ్ ఏవేతి పూర్వః పక్షః, స యో హ వై తత్ పరమం బ్రహ్మ వేద బ్రహ్మైవ భవతి, ఇత్య్ ఆదౌ వేదనస్యైవ ముక్త్య్-ఉపాయత్వ-ప్రతిపాదనాత్, సకృత్ కృతేఽపి వేదనే శాస్త్రార్థ-నిర్వృత్తేః, తస్యాసకృద్ ఆవృత్తౌ ప్రమాణాభావాత్। రాద్ధాన్తస్ తు--- యస్ తద్ వేద యత్ స వేద స మయైతద్ ఉక్తః, ఇత్య్ ఉపక్రమ్య, అను మ ఏతాం భగవో దేవతాం శాధి యాం దేవతామ్ ఉపాః సే, ఇత్య్ ఏకస్మిన్ వాక్యే విద్యుపాస్యోర్ వ్యతికరేణ ప్రయోగ-దర్శనాత్, సమానార్థేషు, బ్రహ్మ-విద్ ఆప్నోతి పరమ్, ఆత్మా వా అరే ద్రష్టవ్యః శ్రోతవ్యో మన్తవ్యో నిదిధ్యాసితవ్యః, ఇత్య్ ఆదిషు ధ్యాన-విద్యోర్ వ్యతికర-దర్శనాచ్ చ, ధ్యానోపాసనాది-శబ్ద-వాచ్యమ్ అసకృద్ ఆవృత్తం స్మృతి-సన్తాన-రూప-వేదనమ్ ఏవ శాస్త్రార్థ ఇతి నిశ్చీయతే। సూత్రార్థస్ తు--- ఆవృత్తిర్ అసకృత్--- బ్రహ్మ-ప్రాప్తి-సాధనం వేదనమ్ అసకృద్ ఆవృత్తమ్ ఏవ శాస్త్రార్థః, వేదనం ధ్యాన-శబ్ద-వాచ్యమ్ ఇత్య్ అర్థః। కుతః। ఉపదేశాత్--- ఓమ్ ఇత్య్ ఏవం ధ్యాయథాత్మానమ్, నిచాయ్య తం మృత్యు-ముఖాత్ ప్రముచ్యతే, ఆత్మానమ్ ఏవ లోకమ్ ఉపాసీత, ఆత్మా వా అరే ద్రష్టవ్యః, ఇత్య్ ఆదినా ఉపాసనోపసంహారోపదేశాత్। ఉపాసనం చావిచ్ఛిన్న-స్మృతి-సన్తాన-రూపమ్ ఇతి పూర్వమ్ ఏవోక్తమ్॥౧॥
Link copied౪౭౧ లిఙ్గాచ్ చ॥౪।౧।౨॥
Link copiedలిఙ్గం--- స్మృతిః। స్మర్యతే చాయమ్ అర్థః--- మాం ధ్యాయన్త ఉపాసతే, తేషామ్ అహం సముద్ధర్తా మృత్యు-సంసార-సాగరాత్, యే త్వ్ అక్షరమ్ అనిర్దేశ్యమ్ అవ్యక్తం పర్యుపాసతే, తద్-రూప-ప్రత్యయే చైకా సన్తతిశ్ చాన్య-నిస్పృహా। తద్-ధ్యానం ప్రథమైః షడ్భిర్ అఙ్గైర్ నిష్పాద్యతే తథా, ఇతి॥౨॥ ఇత్య్ ఆవృత్త్య్-అధికరణమ్॥౧॥
Link copied౪౭౨ ఆత్మేతి తూపగచ్ఛన్తి గ్రాహయన్తి చ॥౪।౧।౩॥
Link copiedకిమ్ ఉపాస్యం బ్రహ్మోపాసితుర్ అన్యత్వేనానుసన్ధేయమ్, ఉతాత్మత్వేనేతి సంశయః। అధికం తు భేద-నిర్దేశాత్, అధికోపదేశాత్, ఇత్య్ ఆదిషూపాసితుర్ ఉపాస్యస్యార్థాన్తరత్వేనైవోపపాదనాద్ యథావస్థితస్యైవోపాస్యత్వాచ్ చాన్యత్వేనోపాస్యమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- త్వం వా అహమ్ అస్మి భగవో దేవతే అహం వై త్వమ్ అసి భగవో దేవతే, ఇతి పూర్వే ఉపాసితారః ఉపాస్యమాత్మత్వేనోపగచ్ఛన్తి। అత ఆత్మేత్య్ ఏవోపాస్యమ్। తానుపాసితౄన్ ప్రత్యర్థాన్తర-భూతస్యాపి బ్రహ్మణః ఉపాసితురాత్మత్వం గ్రాహయన్తి శాస్త్రాణి, య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద యస్యాత్మా శరీరం య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః, ఇత్య్ ఆరభ్యోపాసితా పరమాత్మనః శరీరమ్, పరమాత్మా చోపాసితుర్ ఆత్మేతి ప్రతిపాదనేన; తథా--- సర్వం ఖల్వ్ ఇదం బ్రహ్మ, తజ్ జలాన్ ఇతి, సన్-మూలాః సోమ్యేమాః సర్వాః ప్రజాః సద్-ఆయతనాః సత్-ప్రతిష్ఠాః\॥॥ఐతదాత్మ్యమ్ ఇదం సర్వమ్ ఇతి చ తద్-ఆయత్త-స్వరూప-స్థితి-ప్రవృత్తితా-ప్రతిపాదనేన చ। ఏవమ్ ఉపాసితుః స్వాత్మనోఽప్య్ ఆత్మత్వాద్ బ్రహ్మణః యథావస్థితస్వ్ ఆత్మ-శరీరక-బ్రహ్మానుసన్ధానేఽహమ్ ఇత్య్ ఏషానుసన్ధేయమ్। యథా మనుష్యోఽహమ్ అస్మీతి స్వ-శరీరస్య స్వ-ప్రకారతక-స్వభావతయా ప్రకారిణి స్వాత్మని పర్యవసానమ్; తథా స్వాత్మనోఽహం-ప్రత్యయోఽహం-శబ్దశ్ చ న కేవల-స్వాత్మ-విషయౌ, పరమాత్మ-శరీరతయా తద్-విశేషణత్వేనైవ స్వాత్మనోఽవస్థానాత్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౩॥ ఇత్య్ ఆత్మత్వోపాసనాధికరణమ్॥౨॥
Link copied౪౭౩-౪౭౪ న ప్రతీకే న హి సః॥౪।౧।౪॥
Link copiedబ్రహ్మ-దృష్టిర్ ఉత్కర్షాత్॥౪।౧।౫॥
Link copiedమనో బ్రహ్మేత్య్ ఉపాసీత, ఇత్య్ ఆదిషు ప్రతీకోపాసనేష్వ్ అప్య్ ఆత్మత్వేనానుసన్ధానం కర్తవ్యమ్ ఉత నేతి సంశయః। మనో బ్రహ్మేత్య్ ఉపాసీతేతి బ్రహ్మోపాసనత్వ-విశేషాద్ ఆత్మేత్య్ ఏవానుసన్ధానమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- న ప్రతీకే ఆత్మత్వానుసన్ధానం కార్యమ్। కుతః। న హి మన ఆదిర్ ఉపాసితుర్ ఆత్మా న చ తత్ర బ్రహ్మోపాస్యమ్, బ్రహ్మ-దృష్ట్యా మన ఆదిర్ ఉపాస్యః। అపకృష్టే ఉత్కృష్ట-దృష్టిర్ అభ్యుదయాయ భవతి; యథా భృత్యాదౌ రాజ-దృష్టిః। సూత్ర-ద్వయం చ వ్యాఖ్యాతమ్॥౪-౫॥ ఇతి ప్రతీకాధికరణమ్॥౩॥
Link copied౪౭౫ ఆదిత్యాదిమతయశ్ చాఙ్గ ఉపపత్తేః॥౪।౧।౬॥
Link copiedయ ఏవాసౌ తపతి తమ్ ఉద్గీథమ్ ఉపాసీత, ఇత్య్ ఆదిషు కర్మాఙ్గాశ్రయోపాసనేషు కిమ్ ఉద్గీథాదావ్ ఆదిత్యాది-దృష్టిః కార్యా, ఉతాదిత్యాదావ్ ఉద్గీథాది-దృష్టిర్ ఇతి సంశయః। కర్మణః ఫల-సాధనతయోత్కర్షాద్ ఆదిత్యాదేర్ దేవతాత్వేన తద్-గుణత్వాచ్ చాదిత్యాదావ్ ఉద్గీథాది-దృష్టిః కార్యేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- కర్మణోఽపి ఫల-సాధనత్వమ్ ఆదిత్యాది-దేవతారాధన-ద్వారేణేత్య్ ఆదిత్యాదేర్ ఏవోత్కర్షోపపత్తేర్ ఆదిత్యాదిమతయ ఏవ కర్మాఙ్గోద్గీథాదౌ కార్యాః। సూత్రం చ వ్యాఖ్యాతమ్॥౬॥ ఇత్య్ ఆదిత్యాదిమత్య్-అధికరణమ్॥౪॥
Link copied౪౭౬ ఆసీనః సమ్భవాత్॥౪।౧।౭॥
Link copiedకిమ్ ఇదం బ్రహ్మోపాసనమ్ ఆసీనః కుర్యాత్, ఉతాసీనః శయానస్ తిష్ఠన్ గచ్ఛన్ వేత్య్ అనియమః, ఇతి సంశయః। విశేషాశ్రవణాద్ అనియమ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఆసీనస్యైవైకాగ్రతాసమ్భవాత్, ఏకాగ్రతా-మూలత్వాచ్ చోపాసనస్య, ఆసీనః కుర్యాత్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౭॥
Link copied౪౭౭ ధ్యానాచ్ చ॥౪।౧।౮॥
Link copiedనిదిధ్యాసితవ్యః, ఇత్య్ ఉపాసనస్య ధ్యాన-రూపత్వాచ్ చైకాగ్ర-చిత్తతావశ్యమ్భావినీ। ధ్యానం హి విజాతీయ-ప్రత్యయాన్తరావ్యవహితం తైలధారావద్ అవిచ్ఛిన్న-స్మృతి-సన్తతి-రూపమ్॥౮॥
Link copied౪౭౮ అచలత్వం చాపేక్ష్య॥౪।౧।౯॥
Link copiedనిశ్చలత్వం చాపేక్ష్య ధ్యాన-వాచో-యుక్తిః పృథివ్య్-ఆదిషు దృశ్యతే, ధ్యాయతీవ పృథివీ, ధ్యాయతీవాన్తరిక్షం, ధ్యాయతీవ ద్యౌః, ఇత్య్ ఆదికా। అతో ధ్యాయతః పృథివ్యాదివద్ అచలత్వమ్ ఆసీనస్యైవ సమ్భవతి॥౯॥
Link copied౪౭౯ స్మరన్తి చ॥౪।౧।౧౦॥
Link copiedస్మరన్తి చాసీనస్యైవ ధ్యానమ్--- ఉపవిశ్యాసనే యుజ్యాయోగమ్ ఆత్మ-విశుద్ధయే, ఇతి॥౧౦॥
Link copied౪౮౦ యత్రైకాగ్రతా తత్రావిశేషాత్॥౪।౧।౧౧॥
Link copiedయస్మిన్ దేశే యస్మింశ్ చ కాలే మనస ఏకాగ్రతా, తత్ర దేశే కాలే చోపాసనం కార్యమ్; శర్కరాది-రహితే మనో-ఽనుకూలే శుచౌ దేశే, ఇత్య్ ఏతద్-అతిరిక్త-విశేషాగ్రహణాత్। యథా దేశ-కాలయోర్ ఏకాగ్రతాయామ్ అవిశేషః, న తథా స్థితి-గత్య్-ఆదౌ, ఆసీనస్య తు విశేషోఽస్తీత్య్ అభిప్రాయః॥౧౧॥
Link copiedఇత్య్ ఆసీనాధికరణమ్॥౫॥
Link copied౪౮౧ ఆప్రయాణాత్ తత్రాపి హి దృష్టమ్॥౪।౧।౧౨॥
Link copiedతద్ ఇదమ్ అపవర్గ-సాధనమ్ ఉపాసనమ్ ఏకస్మిన్న్ అహని కార్యమ్ ఉత ప్రత్యహమ్ ఆప్రయాణాద్ అనువర్తనీయమ్ ఇతి సంశయః। ఏకస్మిన్న్ ఏవాహని శాస్త్రార్థస్య కృతత్వాత్ తావతైవ పరిసమాపనీయమ్। యావద్ ఆయుషమ్ ఇతి తు వచనం విధి-శబ్దస్యాభావాద్ విద్యాయాః ఫలేనోపసంహార-పరమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఆప్రయాణాద్ అనువర్తనీయమ్। కుతః। తత్రాపి హి దృష్టం--- స ఖల్వ్ ఏవం వర్తయన్ యావద్ ఆయుషం బ్రహ్మ-లోకమ్ అభిసమ్పద్యతే, ఇతి। అప్రాప్తత్వేనానువాదత్వాసమ్భవాద్ విధిర్ ఏవాయమ్ ఇతి॥౧౨॥ ఇత్య్ ఆప్రయాణాధికరణమ్॥౬॥
Link copied౪౮౨ తద్-అధిగమ ఉత్తర-పూర్వాఘయోర్ అశ్లేష-వినాశౌ తద్-వ్యపదేశాత్॥౪।౧।౧౩॥
Link copiedవిదుష ఉత్తర-పూర్వాఘయోర్ అశ్లేష-వినాశౌ కిం సమ్భవతః, ఉత నేతి సంశయః। నాభుక్తం క్షీయతే కర్మ కల్ప-కోటి-శతైర్ అపి, ఇతి భోగాద్ ఏవ కర్మ-క్షయ-శ్రవణాద్ అశ్లేష-వినాశ-శ్రుతిః కథఞ్చిద్ విద్యా-స్తుత్య్-అర్థతయా నేయేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ద్వయోః శాస్త్రయోర్ భిన్న-విషయత్వేన విరోధాభావాత్ సమ్భవత ఏవ; కర్మణాం ఫల-జనన-సామర్థ్యం ద్రఢయతి--- నాభుక్తం క్షీయతే, ఇతి। ఏవమ్ ఏవంవిది పాపం కర్మ న శ్లిష్యతే, ఏవం హాస్య సర్వే పాప్మానః ప్రదూయన్తే, ఇతి చ శ్రుతిర్ విద్యాయాస్ తత్-సామర్థ్య-నివారణ-శక్తి-విషయేతి యథా అప్-తేజసోః శీత-జనన-తన్-నివారణ-శక్తి-విషయే ప్రమాణే న విరుధ్యేతే ఇతి। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧౩॥ ఇతి తద్-అధిగమాధికరణమ్॥౭॥
Link copied౪౮౩ ఇతరస్యాప్య్ ఏవమ్ అసంశ్లేషః పాతే తు॥౪।౧।౧౪॥
Link copiedకిమ్ అసంశ్లేష-వినాశౌ పుణ్య-కర్మణోఽపి సమానౌ, ఉత నేతి సంశయః। పుణ్య-కర్మ-ఫలస్య సుఖ-రూపత్వేన విదుషోఽనిష్టత్వాభావాన్ న సమానావ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు---ముముక్షోర్ మోక్ష-విరోధిత్వేనానిష్టత్వ-సామ్యాద్ అశ్లేష-వినాశౌ సమానావ్ ఏవ। సూత్రార్థస్ తు--- ఇతరస్య్--- పుణ్యస్యాప్య్ అనిష్ట-ఫలత్వ-సామ్యాద్ ఏవమ్--- అశ్లేష-వినాశౌ; విద్యానుగుణస్య తు వృష్ట్య్-అన్నారోగ్యాది-ఫలస్య శరీర-పాతాద్ ఊర్ధ్వమ్ అనిష్టత్వాద్ అశ్లేషః॥౧౪॥ ఇతి ఇతరాధికరణమ్॥౮॥
Link copied౪౮౪ అనారబ్ధ-కార్యే ఏవ తు పూర్వే తద్-అవధేః॥౪।౧।౧౫॥
Link copiedవిద్యోత్పత్తేః పూర్వ-కృతయోః పుణ్య-పాపయోర్ అవిశేషేణ వినాశః, ఉతానారబ్ధ-కార్యయోర్ ఏవేతి సంశయః। సర్వే పాప్మానః ప్రదూయన్తే, ఇతి విశేషాభావాద్ అవిశేషేణేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- తస్య తావద్ ఏవ చిరం యావన్ న విమోక్ష్యే అథ సమ్పత్స్యే, ఇత్య్ ఉత్పన్న-విద్యస్యాపి శరీర-మోక్షావధిత్వ-శ్రుతేః, సర్వ-వినాశే శరీర-స్థిత్య్-అనుపపత్తేశ్ చానారబ్ధ-కార్యయోర్ ఏవ వినాశః। సూత్రం చ వ్యాఖ్యాతమ్॥౧౫॥
Link copiedఇత్య్ అనారబ్ధ-కార్యాధికరణమ్॥౯॥
Link copied౪౮౫ అగ్నిహోత్రాది తు తత్-కార్యాయైవ తద్-దర్శనాత్॥౪।౧।౧౬॥
Link copiedఅగ్నిహోత్రాద్య్-ఆశ్రమ-ధర్మః కిం విదుషోఽనుష్ఠేయః, ఉత నేతి సంశయః। సుకృత-దుష్కృతయోర్ అశ్లేష-వినాశాభిధానాద్ ఆశ్రమ-ధర్మస్యాపి సుకృతత్వ-సామ్యేన కార్యాశ్లేషాద్ అననుష్ఠేయ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఆశ్రమ-ధర్మస్య తు విద్యోత్పత్తిర్ ఏవ కార్యమ్ ఇతి తత్-కార్యాయైవానుష్ఠేయః। దృశ్యతే హి--- తమ్ ఏతం వేదానువచనేన బ్రాహ్మణా వివిదిషన్తీత్య్ ఆదినా విద్యోత్పత్తి-కార్యత్వమ్। విద్యా చాప్రయాణాద్ అహర్ అహర్ అభ్యాసాధేయాతిశయోత్పాద్యైవ। సూత్రం చ వ్యాఖ్యాతమ్॥౧౬॥
Link copiedయద్య్ అగ్నిహోత్రాది-సాధు-కృత్యా విద్యోత్పత్త్య్-అర్థా, పూర్వ-కృతా చ సాధు-కృత్యా అనుభూత-ఫలా ప్రారబ్ధ-ఫలా చ, సుహృదః సాధు-కృత్యామ్ ఇత్య్ అస్య విషయః క ఇత్య్ ఆశఙ్క్యాహ---
Link copied౪౮౬ అతోఽన్యాపి హ్య్ ఏకేషామ్ ఉభయోః॥౪।౧।౧౭॥
Link copiedఅతః--- అగ్నిహోత్రాది-సాధు-కృత్యాయాః అన్యాపి విద్యాధిగమాత్ పూర్వోత్తరయోః పుణ్య-కర్మణోర్ ఉభయోశ్ చ కారీర్య్-ఆదికా వృష్ట్య్-అన్నాద్య్-అర్థతయా విదుషానుష్ఠితా, విద్యోత్పత్తేః పూర్వం కృతానాది-కాల-ప్రవృత్తా చ ప్రబల-కర్మాన్తర-ప్రతిబద్ధ-ఫలా, సాధు-కృత్యాస్తి హి। అత ఏకేషాం శాఖినాం--- సుహృదః సాధు-కృత్యామ్ ఇతి వచనం తద్-విషయమ్; విద్యయాశ్లేష-వినాశ-శ్రుతిశ్ చ తద్-విషయా॥౧౭॥
Link copiedఅనుష్ఠితస్య కర్మణః ప్రబల-కర్మ-ప్రతిబన్ధ-సమ్భవం పూర్వోక్తం స్మారయతి---
Link copied౪౮౭ యద్ ఏవ విద్యయేతి హి॥౪।౧।౧౮॥
Link copiedఉక్తం హ్య్ ఉద్గీథ-విద్యాయాః క్రతోః కర్మాన్తర-ప్రతిబన్ధాభావః ఫలమ్ ఇతి; అతః ప్రతిబద్ధ-ఫల-సాధు-కృత్యస్యైవ సుహృత్-సఙ్క్రమణమ్॥౧౮॥ ఇత్య్ అగ్నిహోత్రాద్య్-అధికరణమ్॥౧౦॥
Link copied౪౮౮ భోగేన త్వ్ ఇతరే క్షపయిత్వాథ సమ్పద్యతే॥౪।౧।౧౯॥
Link copiedఇతరే--- ఆరబ్ధ-కార్యే పుణ్య-పాపే, కిం విద్యా-యోని-శరీరావసాన ఏవ వినశ్యేతే, ఉత తచ్-ఛరీరావసానే శరీరాన్తరావసానే వేత్యనియమ ఇతి సంశయః। యావన్ న విమోక్ష్యే అథ సమ్పత్స్యే, ఇతి సమ్పత్తేః శరీర-విమోక్ష-విలమ్బ-మాత్ర-శ్రుతేస్ తచ్-ఛరీరావసాన ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ప్రారబ్ధ-ఫలయోః కర్మణోః భోగేనైవ క్షపయితవ్యత్వాభిప్రాయేణ, యావన్ న విమోక్ష్యే అథ సమ్పత్స్యే, ఇత్య్ ఉచ్యతే, న శరీర-మాత్రమ్। కర్మ-విషయౌ హి బన్ధ-మోక్షౌ। అతః ప్రారబ్ధ-ఫలే పుణ్య-పాపే యావతా శరీరేణ సమాపనీయే, తావతా క్షపయిత్వా అథ సమ్పద్యత ఇత్య్ అనియమ ఏవ। సూత్రం చ వ్యాఖ్యాతమ్॥౧౯॥ ఇతి ఇతర-క్షపణాధికరణమ్॥౧౧॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే చతుర్థస్యాధ్యాయస్య ప్రథమః పాదః॥
Link copied470 a:vruththir asakrud upade:sa:th||4|1|1||
Link copiedbrahma vid a:pno:thi param, tham e:vam vidva:n amrutha iha bhavathi, ithy a:di ve:da:ntha vihitham ve:danam kim sakruth krutham e:va sa:sthra:rthah, utha:sakrud a:vruththam ithi samsayah| sakruth krutham e:ve:thi pu:rvah pakshah, sa yo: ha vai thath paramam brahma ve:da brahmaiva bhavathi, ithy a:dau ve:danasyaiva mukthy upa:yathva prathipa:dana:th, sakruth kruthe:'pi ve:dane: sa:sthra:rtha nirvruththe:h, thasya:sakrud a:vruththau prama:na:bha:va:th| ra:ddha:nthas thu--- yas thad ve:da yath sa ve:da sa mayaithad ukthah, ithy upakramya, anu ma e:tha:m bhagavo: de:vatha:m sa:dhi ya:m de:vatha:m upa:h se:, ithy e:kasmin va:kye: vidyupa:syo:r vyathikare:na prayo:ga darsana:th, sama:na:rthe:shu, brahma vid a:pno:thi param, a:thma: va: are: drashtavyah sro:thavyo: manthavyo: nididhya:sithavyah, ithy a:dishu dhya:na vidyo:r vyathikara darsana:ch cha, dhya:no:pa:sana:di sabda va:chyam asakrud a:vruththam smruthi santha:na ru:pa ve:danam e:va sa:sthra:rtha ithi nischi:yathe:| su:thra:rthas thu--- a:vruththir asakruth--- brahma pra:pthi sa:dhanam ve:danam asakrud a:vruththam e:va sa:sthra:rthah, ve:danam dhya:na sabda va:chyam ithy arthah| kuthah| upade:sa:th--- o:m ithy e:vam dhya:yatha:thma:nam, nicha:yya tham mruthyu mukha:th pramuchyathe:, a:thma:nam e:va lo:kam upa:si:tha, a:thma: va: are: drashtavyah, ithy a:dina: upa:sano:pasamha:ro:pade:sa:th| upa:sanam cha:vichchhinna smruthi santha:na ru:pam ithi pu:rvam e:vo:ktham||1||
Link copied471 linga:ch cha||4|1|2||
Link copiedlingam--- smruthih| smaryathe: cha:yam arthah--- ma:m dhya:yantha upa:sathe:, the:sha:m aham samuddhartha: mruthyu samsa:ra sa:gara:th, ye: thv aksharam anirde:syam avyaktham paryupa:sathe:, thad ru:pa prathyaye: chaika: santhathis cha:nya nispruha:| thad dhya:nam prathamaih shadbhir angair nishpa:dyathe: thatha:, ithi||2|| ithy a:vruththy adhikaranam||1||
Link copied472 a:thme:thi thu:pagachchhanthi gra:hayanthi cha||4|1|3||
Link copiedkim upa:syam brahmo:pa:sithur anyathve:na:nusandhe:yam, utha:thmathve:ne:thi samsayah| adhikam thu bhe:da nirde:sa:th, adhiko:pade:sa:th, ithy a:dishu:pa:sithur upa:syasya:rtha:ntharathve:naivo:papa:dana:d yatha:vasthithasyaivo:pa:syathva:ch cha:nyathve:no:pa:syam ithi pu:rvah pakshah| ra:ddha:nthas thu--- thvam va: aham asmi bhagavo: de:vathe: aham vai thvam asi bhagavo: de:vathe:, ithi pu:rve: upa:sitha:rah upa:syama:thmathve:no:pagachchhanthi| atha a:thme:thy e:vo:pa:syam| tha:nupa:sithru:n prathyartha:nthara bhu:thasya:pi brahmanah upa:sithura:thmathvam gra:hayanthi sa:sthra:ni, ya a:thmani thishthann a:thmano:'ntharo: yam a:thma: na ve:da yasya:thma: sari:ram ya a:thma:nam antharo: yamayathi sa tha a:thma:ntharya:my amruthah, ithy a:rabhyo:pa:sitha: parama:thmanah sari:ram, parama:thma: cho:pa:sithur a:thme:thi prathipa:dane:na; thatha:--- sarvam khalv idam brahma, thaj jala:n ithi, san mu:la:h so:mye:ma:h sarva:h praja:h sad a:yathana:h sath prathishtha:h....aithada:thmyam idam sarvam ithi cha thad a:yaththa svaru:pa sthithi pravruththitha: prathipa:dane:na cha| e:vam upa:sithuh sva:thmano:'py a:thmathva:d brahmanah yatha:vasthithasv a:thma sari:raka brahma:nusandha:ne:'ham ithy e:sha:nusandhe:yam| yatha: manushyo:'ham asmi:thi sva sari:rasya sva praka:rathaka svabha:vathaya: praka:rini sva:thmani paryavasa:nam; thatha: sva:thmano:'ham prathyayo:'ham sabdas cha na ke:vala sva:thma vishayau, parama:thma sari:rathaya: thad vise:shanathve:naiva sva:thmano:'vastha:na:th| su:thram api vya:khya:tham||3|| ithy a:thmathvo:pa:sana:dhikaranam||2||
Link copied473-474 na prathi:ke: na hi sah||4|1|4||
Link copiedbrahma drushtir uthkarsha:th||4|1|5||
Link copiedmano: brahme:thy upa:si:tha, ithy a:dishu prathi:ko:pa:sane:shv apy a:thmathve:na:nusandha:nam karthavyam utha ne:thi samsayah| mano: brahme:thy upa:si:the:thi brahmo:pa:sanathva vise:sha:d a:thme:thy e:va:nusandha:nam ithi pu:rvah pakshah| ra:ddha:nthas thu--- na prathi:ke: a:thmathva:nusandha:nam ka:ryam| kuthah| na hi mana a:dir upa:sithur a:thma: na cha thathra brahmo:pa:syam, brahma drushtya: mana a:dir upa:syah| apakrushte: uthkrushta drushtir abhyudaya:ya bhavathi; yatha: bhruthya:dau ra:ja drushtih| su:thra dvayam cha vya:khya:tham||4-5|| ithi prathi:ka:dhikaranam||3||
Link copied475 a:dithya:dimathayas cha:nga upapaththe:h||4|1|6||
Link copiedya e:va:sau thapathi tham udgi:tham upa:si:tha, ithy a:dishu karma:nga:srayo:pa:sane:shu kim udgi:tha:da:v a:dithya:di drushtih ka:rya:, utha:dithya:da:v udgi:tha:di drushtir ithi samsayah| karmanah phala sa:dhanathayo:thkarsha:d a:dithya:de:r de:vatha:thve:na thad gunathva:ch cha:dithya:da:v udgi:tha:di drushtih ka:rye:thi pu:rvah pakshah| ra:ddha:nthas thu--- karmano:'pi phala sa:dhanathvam a:dithya:di de:vatha:ra:dhana dva:re:ne:thy a:dithya:de:r e:vo:thkarsho:papaththe:r a:dithya:dimathaya e:va karma:ngo:dgi:tha:dau ka:rya:h| su:thram cha vya:khya:tham||6|| ithy a:dithya:dimathy adhikaranam||4||
Link copied476 a:si:nah sambhava:th||4|1|7||
Link copiedkim idam brahmo:pa:sanam a:si:nah kurya:th, utha:si:nah saya:nas thishthan gachchhan ve:thy aniyamah, ithi samsayah| vise:sha:sravana:d aniyama ithi pu:rvah pakshah| ra:ddha:nthas thu--- a:si:nasyaivaika:gratha:sambhava:th, e:ka:gratha: mu:lathva:ch cho:pa:sanasya, a:si:nah kurya:th| su:thram api vya:khya:tham||7||
Link copied477 dhya:na:ch cha||4|1|8||
Link copiednididhya:sithavyah, ithy upa:sanasya dhya:na ru:pathva:ch chaika:gra chiththatha:vasyambha:vini:| dhya:nam hi vija:thi:ya prathyaya:nthara:vyavahitham thailadha:ra:vad avichchhinna smruthi santhathi ru:pam||8||
Link copied478 achalathvam cha:pe:kshya||4|1|9||
Link copiednischalathvam cha:pe:kshya dhya:na va:cho: yukthih pruthivy a:dishu drusyathe:, dhya:yathi:va pruthivi:, dhya:yathi:va:nthariksham, dhya:yathi:va dyauh, ithy a:dika:| atho: dhya:yathah pruthivya:divad achalathvam a:si:nasyaiva sambhavathi||9||
Link copied479 smaranthi cha||4|1|10||
Link copiedsmaranthi cha:si:nasyaiva dhya:nam--- upavisya:sane: yujya:yo:gam a:thma visuddhaye:, ithi||10||
Link copied480 yathraika:gratha: thathra:vise:sha:th||4|1|11||
Link copiedyasmin de:se: yasmims cha ka:le: manasa e:ka:gratha:, thathra de:se: ka:le: cho:pa:sanam ka:ryam; sarkara:di rahithe: mano:-'nuku:le: suchau de:se:, ithy e:thad athiriktha vise:sha:grahana:th| yatha: de:sa ka:layo:r e:ka:gratha:ya:m avise:shah, na thatha: sthithi gathy a:dau, a:si:nasya thu vise:sho:'sthi:thy abhipra:yah||11||
Link copiedithy a:si:na:dhikaranam||5||
Link copied481 a:praya:na:th thathra:pi hi drushtam||4|1|12||
Link copiedthad idam apavarga sa:dhanam upa:sanam e:kasminn ahani ka:ryam utha prathyaham a:praya:na:d anuvarthani:yam ithi samsayah| e:kasminn e:va:hani sa:sthra:rthasya kruthathva:th tha:vathaiva parisama:pani:yam| ya:vad a:yusham ithi thu vachanam vidhi sabdasya:bha:va:d vidya:ya:h phale:no:pasamha:ra param ithi pu:rvah pakshah| ra:ddha:nthas thu--- a:praya:na:d anuvarthani:yam| kuthah| thathra:pi hi drushtam--- sa khalv e:vam varthayan ya:vad a:yusham brahma lo:kam abhisampadyathe:, ithi| apra:pthathve:na:nuva:dathva:sambhava:d vidhir e:va:yam ithi||12|| ithy a:praya:na:dhikaranam||6||
Link copied482 thad adhigama uththara pu:rva:ghayo:r asle:sha vina:sau thad vyapade:sa:th||4|1|13||
Link copiedvidusha uththara pu:rva:ghayo:r asle:sha vina:sau kim sambhavathah, utha ne:thi samsayah| na:bhuktham kshi:yathe: karma kalpa ko:ti sathair api, ithi bho:ga:d e:va karma kshaya sravana:d asle:sha vina:sa sruthih kathanchid vidya: sthuthy arthathaya: ne:ye:thi pu:rvah pakshah| ra:ddha:nthas thu--- dvayo:h sa:sthrayo:r bhinna vishayathve:na viro:dha:bha:va:th sambhavatha e:va; karmana:m phala janana sa:marthyam dradhayathi--- na:bhuktham kshi:yathe:, ithi| e:vam e:vamvidi pa:pam karma na slishyathe:, e:vam ha:sya sarve: pa:pma:nah pradu:yanthe:, ithi cha sruthir vidya:ya:s thath sa:marthya niva:rana sakthi vishaye:thi yatha: ap the:jaso:h si:tha janana than niva:rana sakthi vishaye: prama:ne: na virudhye:the: ithi| su:thram api vya:khya:tham||13|| ithi thad adhigama:dhikaranam||7||
Link copied483 itharasya:py e:vam asamsle:shah pa:the: thu||4|1|14||
Link copiedkim asamsle:sha vina:sau punya karmano:'pi sama:nau, utha ne:thi samsayah| punya karma phalasya sukha ru:pathve:na vidusho:'nishtathva:bha:va:n na sama:na:v ithi pu:rvah pakshah| ra:ddha:nthas thu---mumuksho:r mo:ksha viro:dhithve:na:nishtathva sa:mya:d asle:sha vina:sau sama:na:v e:va| su:thra:rthas thu--- itharasy--- punyasya:py anishta phalathva sa:mya:d e:vam--- asle:sha vina:sau; vidya:nugunasya thu vrushty anna:ro:gya:di phalasya sari:ra pa:tha:d u:rdhvam anishtathva:d asle:shah||14|| ithi ithara:dhikaranam||8||
Link copied484 ana:rabdha ka:rye: e:va thu pu:rve: thad avadhe:h||4|1|15||
Link copiedvidyo:thpaththe:h pu:rva kruthayo:h punya pa:payo:r avise:she:na vina:sah, utha:na:rabdha ka:ryayo:r e:ve:thi samsayah| sarve: pa:pma:nah pradu:yanthe:, ithi vise:sha:bha:va:d avise:she:ne:thi pu:rvah pakshah| ra:ddha:nthas thu--- thasya tha:vad e:va chiram ya:van na vimo:kshye: atha sampathsye:, ithy uthpanna vidyasya:pi sari:ra mo:ksha:vadhithva sruthe:h, sarva vina:se: sari:ra sthithy anupapaththe:s cha:na:rabdha ka:ryayo:r e:va vina:sah| su:thram cha vya:khya:tham||15||
Link copiedithy ana:rabdha ka:rya:dhikaranam||9||
Link copied485 agniho:thra:di thu thath ka:rya:yaiva thad darsana:th||4|1|16||
Link copiedagniho:thra:dy a:srama dharmah kim vidusho:'nushthe:yah, utha ne:thi samsayah| sukrutha dushkruthayo:r asle:sha vina:sa:bhidha:na:d a:srama dharmasya:pi sukruthathva sa:mye:na ka:rya:sle:sha:d ananushthe:ya ithi pu:rvah pakshah| ra:ddha:nthas thu--- a:srama dharmasya thu vidyo:thpaththir e:va ka:ryam ithi thath ka:rya:yaiva:nushthe:yah| drusyathe: hi--- tham e:tham ve:da:nuvachane:na bra:hmana: vividishanthi:thy a:dina: vidyo:thpaththi ka:ryathvam| vidya: cha:praya:na:d ahar ahar abhya:sa:dhe:ya:thisayo:thpa:dyaiva| su:thram cha vya:khya:tham||16||
Link copiedyady agniho:thra:di sa:dhu kruthya: vidyo:thpaththy artha:, pu:rva krutha: cha sa:dhu kruthya: anubhu:tha phala: pra:rabdha phala: cha, suhrudah sa:dhu kruthya:m ithy asya vishayah ka ithy a:sankya:ha---
Link copied486 atho:'nya:pi hy e:ke:sha:m ubhayo:h||4|1|17||
Link copiedathah--- agniho:thra:di sa:dhu kruthya:ya:h anya:pi vidya:dhigama:th pu:rvo:ththarayo:h punya karmano:r ubhayo:s cha ka:ri:ry a:dika: vrushty anna:dy arthathaya: vidusha:nushthitha:, vidyo:thpaththe:h pu:rvam krutha:na:di ka:la pravruththa: cha prabala karma:nthara prathibaddha phala:, sa:dhu kruthya:sthi hi| atha e:ke:sha:m sa:khina:m--- suhrudah sa:dhu kruthya:m ithi vachanam thad vishayam; vidyaya:sle:sha vina:sa sruthis cha thad vishaya:||17||
Link copiedanushthithasya karmanah prabala karma prathibandha sambhavam pu:rvo:ktham sma:rayathi---
Link copied487 yad e:va vidyaye:thi hi||4|1|18||
Link copieduktham hy udgi:tha vidya:ya:h kratho:h karma:nthara prathibandha:bha:vah phalam ithi; athah prathibaddha phala sa:dhu kruthyasyaiva suhruth sankramanam||18|| ithy agniho:thra:dy adhikaranam||10||
Link copied488 bho:ge:na thv ithare: kshapayithva:tha sampadyathe:||4|1|19||
Link copiedithare:--- a:rabdha ka:rye: punya pa:pe:, kim vidya: yo:ni sari:ra:vasa:na e:va vinasye:the:, utha thach chhari:ra:vasa:ne: sari:ra:nthara:vasa:ne: ve:thyaniyama ithi samsayah| ya:van na vimo:kshye: atha sampathsye:, ithi sampaththe:h sari:ra vimo:ksha vilamba ma:thra sruthe:s thach chhari:ra:vasa:na ithi pu:rvah pakshah| ra:ddha:nthas thu--- pra:rabdha phalayo:h karmano:h bho:ge:naiva kshapayithavyathva:bhipra:ye:na, ya:van na vimo:kshye: atha sampathsye:, ithy uchyathe:, na sari:ra ma:thram| karma vishayau hi bandha mo:kshau| athah pra:rabdha phale: punya pa:pe: ya:vatha: sari:re:na sama:pani:ye:, tha:vatha: kshapayithva: atha sampadyatha ithy aniyama e:va| su:thram cha vya:khya:tham||19|| ithi ithara kshapana:dhikaranam||11||
Link copiedithi sri: ra:ma:nuja:cha:rya virachithe: sri: ve:da:nthadi:pe: chathurthasya:dhya:yasya prathamah pa:dah||
Link copied