Vedanta Dipa · Section 15 of 17
||atha chathurtha:dhya:ye: dvithi:yah pa:dah||
Original Sanskrit · click to toggle
४८९ वाङ्-मनसि दर्शनाच् छब्दाच् च॥४।२।१॥
Link copiedअस्य सोम्य पुरुषस्य प्रयतो वाङ्-मनसि सम्पद्यते मनः प्राणे, इत्य् आदिकोत्क्रान्ति-विषया आम्नायते। तत्र किं वाग्-इन्द्रियं मनसि सम्पद्यते, उत वाग्-वृत्ति-मात्रम् इति संशयः। वाचो मनः-प्रकृतित्वाभावात् स्वरूप-लयस् तत्र न सम्भवतीति वाग्-वृत्ति-मात्राभिप्रायम् इति पूर्वः पक्षः। राद्धान्तस् तु--- अकारणे सम्पत्त्य्-अभावस्य वाग्-वृत्ताव् अपि तुल्यत्व-दर्शनात्, वाङ्-मनसीति वाक्-स्वरूपस्यैव सम्पत्तिः। शब्दाच् च स्वरूपम् एव सम्पद्यते, वाङ्-मनसि सम्पद्यते इति वाक्-स्वरूप-सम्पत्ताव् एव हि शब्दः न वृत्ति-मात्र-सम्पत्तौ। अकारणे लयाभावात् सम्पत्ति-शब्दः संयोगाभिप्रायः। सूत्रं च व्याख्यातम्॥१॥
Link copied४९० अत एव सर्वाण्य् अनु॥४।२।२॥
Link copiedयतो वाचो मनसि संयोग-मात्रम् उच्यते न तु लयः। अत एव तदानीं--- सर्वाणीन्द्रियाणि वाचम् अनु मनसि सम्पद्यन्ते, इति वचनं, वाङ्-मनसि सम्पद्यत इति वचनवद् उपपन्नम्, तस्माद् उपशान्त-तेजाः--- पुनर्भवम् इन्द्रियैर् मनसि सम्पद्यमानैः, इति॥२॥ इति वाग्-अधिकरणम्॥१॥
Link copied४९१ तन् मनः प्राण उत्तरात्॥४।२।३॥
Link copiedमनः प्राणे, इत्य् अत्र किं प्राण-शब्देनाप उच्यन्ते, उत प्राण एवेति संशयः। प्राणस्य मनः-प्रकृतित्वाभावात्, अन्न-मय हि सोम्य मनः, इति मनसोऽन्न-मयत्व-श्रवणात्, अपां चान्न-प्रकृतित्वेन, तत्-सम्पत्तिर् उपपद्यत इति प्राण-शब्देनाप उच्यन्त इति पूर्वः पक्षः; आपो-मयः प्राणः इति ह्य् अम्-मयत्वात् प्राणस्य प्राण-शब्देनापो वक्तुं युज्यन्ते इति। राद्धान्तस् तु--- अन्न-मयं हि सोम्य मनः आपो-मयः प्राणः, इति मनः-प्राणयोर् न तत्-तत्-प्रकृतित्वम् उच्यते; अपि तु तद्-आप्यायनम्, आहङ्कारिकत्वान् मनसः, प्राणस्य चाकाश-प्रकृतित्वात्। अतः वाङ्-मनसीतिवत् तद्-उत्तरात्, मनः प्राणे इति शब्दात्, तत्-सर्वेन्द्रिय-संयुक्तं मनः प्राणे संयुज्यते॥३॥ इति मनोधिकरणम्॥२॥
Link copied४९२ सोऽध्यक्षे तद्-उपगमादिभ्यः॥४।२।४॥
Link copiedसः प्राणः किं तेजसि संयुज्यते, उत जीव इति संशयः। प्राणस् तेजसीति वचनात् तेजस्य् एवेति पूर्वः पक्षः। राद्धान्तस् तु--- उत्क्रान्तौ प्राणस्य जीवोपगमादि-श्रुतेः प्राणः करणाध्यक्षे जीवे संयुज्यते। एतद्-अविरोधाय जीवे संयुज्य पश्चात् तेजः संयोगं, प्राणस् तेजसीति वदति। श्रूयन्ते हि प्राणस्य जीवोपगमादयः, एवम् एवेमम् आत्मानम् अन्त-काले सर्वे प्राणा अभिसमायन्ति, तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति, कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि, इत्यादिषु॥४॥ इत्य् अध्यक्षाधिकरणम्॥३॥
Link copied४९३-४९४ भूतेषु तच्-छ्रुतेः॥४।२।५॥
Link copiedनैकस्मिन् दर्शयतो हि॥४।२।६॥
Link copiedप्राणस् तेजसीति किं तेजो-मात्रे प्राणः संयुज्यते, उत भूतान्तर-संसृष्ट इति संशयः तेजसीति वचनात् तेजो-मात्र इति पूर्वः पक्षः। पृथिवी-मयः, इत्य्-आदिना सञ्चरतो जीवस्य सर्व-भूत-मयत्व-श्रुते, त्रिवृत्-करण-श्रुति-स्मृतिभ्यां च तेजस एकस्य कार्याक्षमत्वाद् भूतान्तर-संसृष्ट इति राद्धान्तः। सूत्र-द्वयं व्याख्यातम्॥५-६॥ इति भूताधिकरणम्॥४॥
Link copied४९५ समाना चासृत्य्-उपक्रमाद् अमृतत्वं चानुपोष्य॥४।२।७॥
Link copiedइयम् उत्क्रान्तिः किं विद्वद्-अविदुषोः समाना, उताविदुष एवेति संशयः। विदुषोऽत्रैवामृतत्वप्राप्तिश्रुतेरविदुष एवेति पूर्वः पक्षः। श्रूयते हि विदुषोऽत्रैव ब्रह्म-प्राप्तिः--- यदा सर्वे प्रमुच्यन्ते कामायेऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतो भवति, अत्र ब्रह्म समश्नुते, इति। राद्धान्तस् तु--- विदुषोऽर्चिर्-आदिकयैव ब्रह्म-प्राप्तिः, अर्चिर्-आदि-गत्य्-उपक्रमात् प्राग् इयम् उत्क्रान्तिः समाना। गतिश् च मूर्धन्य-नाड्या, शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका, तयोर्ध्वम् आयन्न् अमृतत्वम् एति, इति श्रुतेः। यदा सर्वे प्रमुच्यन्ते, इत्य् अनेन गति-श्रुत्य्-अविरोधायामृतत्व-साधन-भूतोपासन-निष्पत्तिर् उच्यते, हृदि स्थिताः कामा यदा प्रमुच्यन्ते, तदैवोपासनारम्भान् मर्त्योऽमृतो भवतीति। काम-विमोक-पूर्वकोपासने स्थितोऽर्चिर्-आदिकया गत्या ब्रह्म समश्नुते इत्य् अर्थः। सूत्रार्थस् तु--- सृतिः गतिः, आगत्य्-उपक्रमाद् उत्क्रान्तिर् विदुषोऽपि समाना, विदुषोऽचिर्-आदि-गति-श्रुतेः, अथ मर्त्योऽमृतो भवति, इत्य् उच्यमानम् अमृतत्वम् अनुपोष्य च--- अदग्ध्वैव शरीरेन्द्रियादि-सम्बन्धम्, उपासनारम्भ-परिकर-रूपम् इत्य् अर्थः॥७॥
Link copied४९६ तद् आपीतेः संसार-व्यपदेशात्॥४।२।८॥
Link copiedतत्--- अमृतत्वम्, उक्त-प्रकारम् एव। कुतः। आपीतेः संसार-व्यपदेशात्। अपीतिः--- ब्रह्म-प्राप्तिः, अर्चिर्-आदिकया गत्या देश-विशेषं गत्वा यावद् ब्रह्म प्राप्यते तावत् संसारः--- शरीर-सम्बन्धो हि व्यपदिश्यते॥८॥
Link copiedगति-व्यपदेशाद् एव शरीराद् उत्क्रान्तस्य कथं शरीर-सम्बन्ध इत्य् अत्राह---
Link copied४९७ सूक्ष्मं प्रमाणतश् च तथोपलब्धेः॥४।२।९॥
Link copiedसूक्ष्म-शरीरम् अनुवर्तते, गति-व्यपदेशात्। न केवलं गति-व्यपदेशाद् एव, प्रमाणान्तरतश् च तथा--- सूक्ष्म-शरीरवत्त्वस्योपलब्धेश् च। विदुषोऽर्चिर्-आदिकया गत्या गच्छतश् चन्द्रमसा संवादोऽयम् उपदिश्यते, तं प्रतिब्रूयात्, सत्यं ब्रूयात्, इत्य् आदिना॥९॥
Link copied४९८ नोपमर्दनातः॥४।२।१०॥
Link copiedअतः--- उक्ताद् धेतु-कलापात्, अथ मर्त्योऽमृतो भवतीति वचनं न देह-सम्बन्धोपमर्देनामृतत्वं वदति, अपि तूक्तम् एवोपासनारम्भ-रूपं वदतीत्य् अथः॥१०॥
Link copied४९९ अस्यैव चोपपत्तेर् ऊष्मा॥४।२।११॥
Link copiedअस्य--- सूक्ष्म-शरीरस्य विद्यमानत्वोपपत्तेश् च न देह-सम्बन्धोपमर्द्रेन। उपलभ्यते ह्य् उत्क्रममाणस्य विदुषः क्वचिद् ऊष्मा सूक्ष्म-देह-गुणः; न चायं स्थूल-देह-गुणः, अन्यत्रानुपलब्धेः। अतो विद्वान् सूक्ष्म-शरीरेणोत्क्रामति॥११॥
Link copied५०० प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्य् एकेषाम्॥४।२।१२॥
Link copiedस एतास् तेजो-मात्राः इत्य् आरभ्य, इति तु कामयमानः इत्य् अन्तेनाविदुषः उत्क्रान्ति-प्रकारं लोकान्तर-गमनं पुनर्-आवृत्तिं चाभिधाय, अथाकामयमानः इत्य् आदिना, न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्मायेति इति विदुष उत्क्रान्ति-प्रतिषेधाद् उक्त-प्रकारो नोपपद्यत इति चेत् तन् न, शारीरात् प्राणानाम् अविश्लेषोऽनेनोच्यते। तस्य अकामयमानस्य विदुषः शारीरस्य, प्राणाः स्वस्मान् नोत्क्रामन्ति। देवयानेन गमनाय सहैव तिष्ठन्ति। अयम् अर्थः स्पष्टो ह्य् एकेषां--- माध्यन्दिन-शाखिनां पाठे, योऽकामो निष्काम आप्त-काम आत्म-कामो न तस्मात् प्राणा उत्क्रामन्ति, इति॥१२॥
Link copied५०१ स्मर्यते च॥४।२।१३॥
Link copiedस्मर्यते च विदुषोऽपि मूर्धन्य-नाड्योत्क्रान्तिः--- ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्य-मण्डलम्। ब्रह्म-लोकम् अतिक्रम्य तेन याति परां गतिम् इति॥१३॥ इत्य् आमृत्युपक्रमाधिकरणम्॥५॥
Link copied५०२ तानि परे तथा ह्य् आह॥४।२।१४॥
Link copiedप्राणस् तेजसीति तेजः-शब्द-निर्दिष्टानि भूतानि जीव-परिष्वरक्तानि परस्यां देवतायां सम्पद्यन्ते, उत यथाकर्म यथाविद्यं च गच्छन्तीति संशयः। तदानीं सुख-दुःखोप-भोगाद्य्-अभावेन पर-सम्पत्तौ प्रयोजनाभावाद् यथाकर्म यथाविद्यम् इति पूर्वः पक्षः। सर्वस्य पर-देवता-कार्यत्वेन तदात्मकत्वाद् गन्तव्य-स्थानम् इदं, परस्यां देवतायाम् इत्य् उच्यते। राद्धान्तस् तु--- तानि परे--- परस्मिन् ब्रह्मणि सम्पद्यन्ते; तेजः परस्यां देवतायाम् इति ह्य् आह श्रुतिः। यथाश्रुति विश्रम-स्थानत्वेन कार्यं परिकल्प्यम् इत्य् अर्थः सूत्रं च व्याख्यातम्॥१४॥ इति पर-सम्पत्त्य्-अधिकरणम्॥६॥
Link copied५०३ अविभागो वचनात्॥४।२।१५॥
Link copiedसेयं परमात्मनि सम्पत्तिः किं प्राकृत-प्रलयवत् कारणापत्ति-रूपा, उत मनः-प्रभृति-सम्पत्तिवद् अविश्लेष-मात्रम् इति संशयः। परमात्मनः कारणत्वात्, तत्-सम्पत्ति-वचनाच् च कारणापत्तिर् एवेति पूर्वः पक्षः। राद्धान्तस् तु--- वाङ्-मनसि सम्पद्यते इति श्रुतस्यैव सम्पत्ति-वचनस्य सर्वत्रानुषङ्गाद् अत्रानुषक्तस्य चाभिधान-वैरूप्यासम्भवाद् अत्राप्य् अविभागः--- अविश्लेष एवोच्यते। सूत्रम् अपि व्याख्यातम्॥१५॥ इत्य् अविभागाधिकरणम्॥७॥
Link copied५०४ तद् ओकोऽग्र-ज्वलनं तत्-प्रकाशित-द्वारो विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च हार्दानुगृहीतः शताधिकया॥४।२।१६॥
Link copiedशतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका। तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवन्ति, इति शताधिकया मूर्धन्यया नाड्या विदुषो गमनम् इति नियमः सम्भवति, नेति संशयः। नाडीनाम् अतिसूक्ष्मत्वेन दुर्विवेचत्वान् नियमो न सम्भवतीति यादृच्छिकीं तया गतिम् अनुवदतीदं वचनम् इति पूर्वः पक्षः। राद्धान्तस् तु--- परम-पुरुषाराधन-भूतया विद्यया तद्-अङ्ग-भूत-गति-चिन्तनेन च प्रीतेन परम-पुरुषेणानुगृहीतो जीवस् तत्-प्रसाद-प्रकाशित-द्वारस् तयैव मूर्धन्यया नाड्या गच्छतीति॥
Link copiedसूत्रार्थस् तु--- हार्द-परम-पुरुषाराधन-रूप-विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च प्रीत-हार्दानुगृहीतो भवति जीवः, ततः तद्-ओकः--- जीवस्य स्थानं हृदयम्, अग्र-ज्वलनम्--- प्रकाशिताग्रं भवति। एवं परम-पुरुष-प्रकाशित-द्वारः शताधिकया गच्छति; तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः, सर्वस्य चाहं हृदि सन्निविष्टः, इति हार्दः परमात्मा॥१६॥ इति तद्-ओकोधिकरणम्॥८॥
Link copied५०५ रश्म्य्-अनुसारी॥४।२।१७॥
Link copiedअथ यत्रैतद् अस्माच् छरीराद् उत्क्रामत्य् अथैतैर् एव रश्मिभिर् ऊर्ध्वम् आक्रमते इति विद्वान् रश्म्य्-अनुसारी गच्छतीति नियमः सम्भवति नेति संशयः। निशि मृतस्य विदुषः आदित्य-रश्म्य्-अनुसारासम्भवाद् अनियम इति पूर्वः पक्षः। वचनं तु पक्ष-प्राप्तम् अनुवदति। राद्धान्तस् तु--- वचनस्य पक्ष-प्राप्त्य्-अनुवादित्वे, अथैतैर् एवेत्य् अवधारण-विरोधः। न च निशि रश्मयो न सन्तीति निश्य् अपि निदाघ-समये ऊष्मोपलब्धेः सूक्ष्माः सन्त्य् एवेति रश्म्य्-अनुसार्य् एव गच्छति। हेमन्तेऽनुपलब्धिर् दुर्दिन इव हिमाभिभवात्॥१७॥ इति रश्म्य्-अनुसाराधिकरणम्॥९॥
Link copied५०६ निशि नेति चेन् न सम्बन्धस्य यावद् देह-भावित्वाद् दर्शयति च॥४।२।१८॥
Link copiedविदुषो निशि मृतस्य ब्रह्म-प्राप्तिर् अस्ति, नेति संशयः। दिवा च शुक्ल-पक्षश् च उत्तरायणम् एव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम्, इति निशा-मरणस्य गर्हितत्वेन अधो-गति-हेतुत्वान् न ब्रह्म-प्राप्तिः सम्भवतीति पूर्वः पक्षः। राद्धान्तस् तु---विद्या-माहात्म्याद् उत्तर-पूर्वाघयोर् अश्लेष-विनाश-श्रुतेर् अश्लिष्ट-विनष्टत्वात्, प्रारब्धस्यापि कर्मणः चरम-देहावधित्वाच् च, बन्ध-हेत्व्-अभावान् निशि मृतस्यापि ब्रह्म-प्राप्तिर् अस्त्य् एवेति। अविद्वद्-विषया निशा-मरण-निन्दा॥
Link copiedसूत्रार्थस् तु--- निशा-मरण-निन्दया निशि मृतस्य न ब्रह्म-प्राप्तिर् इति चेत्; तन् न, सम्बन्धस्य यावद् देह-भावित्वाद् अनारब्ध-कार्य-कर्म-सम्बन्धस्य विद्यया विनष्टत्वात् प्रारब्ध-कार्य-कर्म-सम्बन्धस्यापि यावच् चरम-देह-भावित्वाद् बन्ध-हेत्वभावेन ब्रह्म-प्राप्तिर् अस्त्य् एवेत्य् अर्थः। तद् एतच् छ्रुतिश् च दर्शयति--- तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ सम्पत्स्ये इति॥१८॥ इति निशाधिकरणम्॥१०॥
Link copied५०७ अतश् चायनेऽपि दक्षिणे॥४।२।१९॥
Link copiedदक्षिणायने मृतस्य विदुषो ब्रह्म-प्राप्तिर् अस्ति नेति संशयः। अथ यो दक्षिणे प्रमीयते पितृणाम् एव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छति, इति विदुषो दक्षिणायने मृतस्य चन्द्र-सायुज्य-श्रवणात्, चन्द्रं प्राप्तानाम्--- अथैतम् एवाध्वानं पुनर् निवर्तन्ते इति वचनाच् च, दक्षिणायन-मृतस्य ब्रह्म-प्राप्ति न सम्भवतीति पूर्वः पक्षः। राधान्तस् तु--- पूर्वोक्ताद् बन्ध-हेत्व्-अभावाद् विदुषश् चन्द्रं प्राप्तस्यापि पुनर्-आवृत्तिर् न सम्भवति। चन्द्र-सायुज्य-वचनं विदुषो ब्रह्म-प्रेप्सोर् विश्रम-स्थान-मात्र-वियषम्। आवृत्ति-वचनं त्व् अविदुषाम् एव। सूत्रार्थस् तु--- यतो हेतोर् निशि मृतस्यापि ब्रह्म-प्राप्तिः, तत एव बन्ध-हेत्व्-अभावाद् दक्षिणायने मृतस्यापि ब्रह्म-प्राप्तिर् अस्त्य् एव॥१९॥
Link copiedयत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः, इति मरण-काल-विशेषः स्मर्यत इति चेत् तत्राह---
Link copied५०८ योगिनः प्रति स्मर्येते स्मार्ते चैते॥४।२।२०॥
Link copiedयोगिनः--- ब्रह्म-विद्या-निष्ठान् प्रत्य् एते--- देवयान-पितृयाण-गती, स्मार्ते स्मर्येते, स्मार्ते--- स्मृति-विषय-भूते अहर् अहः स्मर्तव्ये स्मयेते इत्य् अर्थः। यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः, इत्यादिना, नैते सृती पार्थ जानन् योगी मुह्यति कश्चन। तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन, इत्य् अन्तेन। न मुमूर्षुन् प्रति काल-विशेषोपादानं स्मर्यते। आतिवाहिक-गणस्य कालाभिमानि-देवता-विशेष-भूयस्त्वेन, यत्र काले इत्य् उच्यते॥२०॥ इति दक्षिणायनाधिकरणम्॥११॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य द्वितीयः पादः॥
Link copied౪౮౯ వాఙ్-మనసి దర్శనాచ్ ఛబ్దాచ్ చ॥౪।౨।౧॥
Link copiedఅస్య సోమ్య పురుషస్య ప్రయతో వాఙ్-మనసి సమ్పద్యతే మనః ప్రాణే, ఇత్య్ ఆదికోత్క్రాన్తి-విషయా ఆమ్నాయతే। తత్ర కిం వాగ్-ఇన్ద్రియం మనసి సమ్పద్యతే, ఉత వాగ్-వృత్తి-మాత్రమ్ ఇతి సంశయః। వాచో మనః-ప్రకృతిత్వాభావాత్ స్వరూప-లయస్ తత్ర న సమ్భవతీతి వాగ్-వృత్తి-మాత్రాభిప్రాయమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- అకారణే సమ్పత్త్య్-అభావస్య వాగ్-వృత్తావ్ అపి తుల్యత్వ-దర్శనాత్, వాఙ్-మనసీతి వాక్-స్వరూపస్యైవ సమ్పత్తిః। శబ్దాచ్ చ స్వరూపమ్ ఏవ సమ్పద్యతే, వాఙ్-మనసి సమ్పద్యతే ఇతి వాక్-స్వరూప-సమ్పత్తావ్ ఏవ హి శబ్దః న వృత్తి-మాత్ర-సమ్పత్తౌ। అకారణే లయాభావాత్ సమ్పత్తి-శబ్దః సంయోగాభిప్రాయః। సూత్రం చ వ్యాఖ్యాతమ్॥౧॥
Link copied౪౯౦ అత ఏవ సర్వాణ్య్ అను॥౪।౨।౨॥
Link copiedయతో వాచో మనసి సంయోగ-మాత్రమ్ ఉచ్యతే న తు లయః। అత ఏవ తదానీం--- సర్వాణీన్ద్రియాణి వాచమ్ అను మనసి సమ్పద్యన్తే, ఇతి వచనం, వాఙ్-మనసి సమ్పద్యత ఇతి వచనవద్ ఉపపన్నమ్, తస్మాద్ ఉపశాన్త-తేజాః--- పునర్భవమ్ ఇన్ద్రియైర్ మనసి సమ్పద్యమానైః, ఇతి॥౨॥ ఇతి వాగ్-అధికరణమ్॥౧॥
Link copied౪౯౧ తన్ మనః ప్రాణ ఉత్తరాత్॥౪।౨।౩॥
Link copiedమనః ప్రాణే, ఇత్య్ అత్ర కిం ప్రాణ-శబ్దేనాప ఉచ్యన్తే, ఉత ప్రాణ ఏవేతి సంశయః। ప్రాణస్య మనః-ప్రకృతిత్వాభావాత్, అన్న-మయ హి సోమ్య మనః, ఇతి మనసోఽన్న-మయత్వ-శ్రవణాత్, అపాం చాన్న-ప్రకృతిత్వేన, తత్-సమ్పత్తిర్ ఉపపద్యత ఇతి ప్రాణ-శబ్దేనాప ఉచ్యన్త ఇతి పూర్వః పక్షః; ఆపో-మయః ప్రాణః ఇతి హ్య్ అమ్-మయత్వాత్ ప్రాణస్య ప్రాణ-శబ్దేనాపో వక్తుం యుజ్యన్తే ఇతి। రాద్ధాన్తస్ తు--- అన్న-మయం హి సోమ్య మనః ఆపో-మయః ప్రాణః, ఇతి మనః-ప్రాణయోర్ న తత్-తత్-ప్రకృతిత్వమ్ ఉచ్యతే; అపి తు తద్-ఆప్యాయనమ్, ఆహఙ్కారికత్వాన్ మనసః, ప్రాణస్య చాకాశ-ప్రకృతిత్వాత్। అతః వాఙ్-మనసీతివత్ తద్-ఉత్తరాత్, మనః ప్రాణే ఇతి శబ్దాత్, తత్-సర్వేన్ద్రియ-సంయుక్తం మనః ప్రాణే సంయుజ్యతే॥౩॥ ఇతి మనోధికరణమ్॥౨॥
Link copied౪౯౨ సోఽధ్యక్షే తద్-ఉపగమాదిభ్యః॥౪।౨।౪॥
Link copiedసః ప్రాణః కిం తేజసి సంయుజ్యతే, ఉత జీవ ఇతి సంశయః। ప్రాణస్ తేజసీతి వచనాత్ తేజస్య్ ఏవేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఉత్క్రాన్తౌ ప్రాణస్య జీవోపగమాది-శ్రుతేః ప్రాణః కరణాధ్యక్షే జీవే సంయుజ్యతే। ఏతద్-అవిరోధాయ జీవే సంయుజ్య పశ్చాత్ తేజః సంయోగం, ప్రాణస్ తేజసీతి వదతి। శ్రూయన్తే హి ప్రాణస్య జీవోపగమాదయః, ఏవమ్ ఏవేమమ్ ఆత్మానమ్ అన్త-కాలే సర్వే ప్రాణా అభిసమాయన్తి, తమ్ ఉత్క్రామన్తం ప్రాణోఽనూత్క్రామతి, కస్మిన్ వా ప్రతిష్ఠితే ప్రతిష్ఠాస్యామి, ఇత్యాదిషు॥౪॥ ఇత్య్ అధ్యక్షాధికరణమ్॥౩॥
Link copied౪౯౩-౪౯౪ భూతేషు తచ్-ఛ్రుతేః॥౪।౨।౫॥
Link copiedనైకస్మిన్ దర్శయతో హి॥౪।౨।౬॥
Link copiedప్రాణస్ తేజసీతి కిం తేజో-మాత్రే ప్రాణః సంయుజ్యతే, ఉత భూతాన్తర-సంసృష్ట ఇతి సంశయః తేజసీతి వచనాత్ తేజో-మాత్ర ఇతి పూర్వః పక్షః। పృథివీ-మయః, ఇత్య్-ఆదినా సఞ్చరతో జీవస్య సర్వ-భూత-మయత్వ-శ్రుతే, త్రివృత్-కరణ-శ్రుతి-స్మృతిభ్యాం చ తేజస ఏకస్య కార్యాక్షమత్వాద్ భూతాన్తర-సంసృష్ట ఇతి రాద్ధాన్తః। సూత్ర-ద్వయం వ్యాఖ్యాతమ్॥౫-౬॥ ఇతి భూతాధికరణమ్॥౪॥
Link copied౪౯౫ సమానా చాసృత్య్-ఉపక్రమాద్ అమృతత్వం చానుపోష్య॥౪।౨।౭॥
Link copiedఇయమ్ ఉత్క్రాన్తిః కిం విద్వద్-అవిదుషోః సమానా, ఉతావిదుష ఏవేతి సంశయః। విదుషోఽత్రైవామృతత్వప్రాప్తిశ్రుతేరవిదుష ఏవేతి పూర్వః పక్షః। శ్రూయతే హి విదుషోఽత్రైవ బ్రహ్మ-ప్రాప్తిః--- యదా సర్వే ప్రముచ్యన్తే కామాయేఽస్య హృది స్థితాః। అథ మర్త్యోఽమృతో భవతి, అత్ర బ్రహ్మ సమశ్నుతే, ఇతి। రాద్ధాన్తస్ తు--- విదుషోఽర్చిర్-ఆదికయైవ బ్రహ్మ-ప్రాప్తిః, అర్చిర్-ఆది-గత్య్-ఉపక్రమాత్ ప్రాగ్ ఇయమ్ ఉత్క్రాన్తిః సమానా। గతిశ్ చ మూర్ధన్య-నాడ్యా, శతం చైకా చ హృదయస్య నాడ్యస్ తాసాం మూర్ధానమ్ అభినిఃసృతైకా, తయోర్ధ్వమ్ ఆయన్న్ అమృతత్వమ్ ఏతి, ఇతి శ్రుతేః। యదా సర్వే ప్రముచ్యన్తే, ఇత్య్ అనేన గతి-శ్రుత్య్-అవిరోధాయామృతత్వ-సాధన-భూతోపాసన-నిష్పత్తిర్ ఉచ్యతే, హృది స్థితాః కామా యదా ప్రముచ్యన్తే, తదైవోపాసనారమ్భాన్ మర్త్యోఽమృతో భవతీతి। కామ-విమోక-పూర్వకోపాసనే స్థితోఽర్చిర్-ఆదికయా గత్యా బ్రహ్మ సమశ్నుతే ఇత్య్ అర్థః। సూత్రార్థస్ తు--- సృతిః గతిః, ఆగత్య్-ఉపక్రమాద్ ఉత్క్రాన్తిర్ విదుషోఽపి సమానా, విదుషోఽచిర్-ఆది-గతి-శ్రుతేః, అథ మర్త్యోఽమృతో భవతి, ఇత్య్ ఉచ్యమానమ్ అమృతత్వమ్ అనుపోష్య చ--- అదగ్ధ్వైవ శరీరేన్ద్రియాది-సమ్బన్ధమ్, ఉపాసనారమ్భ-పరికర-రూపమ్ ఇత్య్ అర్థః॥౭॥
Link copied౪౯౬ తద్ ఆపీతేః సంసార-వ్యపదేశాత్॥౪।౨।౮॥
Link copiedతత్--- అమృతత్వమ్, ఉక్త-ప్రకారమ్ ఏవ। కుతః। ఆపీతేః సంసార-వ్యపదేశాత్। అపీతిః--- బ్రహ్మ-ప్రాప్తిః, అర్చిర్-ఆదికయా గత్యా దేశ-విశేషం గత్వా యావద్ బ్రహ్మ ప్రాప్యతే తావత్ సంసారః--- శరీర-సమ్బన్ధో హి వ్యపదిశ్యతే॥౮॥
Link copiedగతి-వ్యపదేశాద్ ఏవ శరీరాద్ ఉత్క్రాన్తస్య కథం శరీర-సమ్బన్ధ ఇత్య్ అత్రాహ---
Link copied౪౯౭ సూక్ష్మం ప్రమాణతశ్ చ తథోపలబ్ధేః॥౪।౨।౯॥
Link copiedసూక్ష్మ-శరీరమ్ అనువర్తతే, గతి-వ్యపదేశాత్। న కేవలం గతి-వ్యపదేశాద్ ఏవ, ప్రమాణాన్తరతశ్ చ తథా--- సూక్ష్మ-శరీరవత్త్వస్యోపలబ్ధేశ్ చ। విదుషోఽర్చిర్-ఆదికయా గత్యా గచ్ఛతశ్ చన్ద్రమసా సంవాదోఽయమ్ ఉపదిశ్యతే, తం ప్రతిబ్రూయాత్, సత్యం బ్రూయాత్, ఇత్య్ ఆదినా॥౯॥
Link copied౪౯౮ నోపమర్దనాతః॥౪।౨।౧౦॥
Link copiedఅతః--- ఉక్తాద్ ధేతు-కలాపాత్, అథ మర్త్యోఽమృతో భవతీతి వచనం న దేహ-సమ్బన్ధోపమర్దేనామృతత్వం వదతి, అపి తూక్తమ్ ఏవోపాసనారమ్భ-రూపం వదతీత్య్ అథః॥౧౦॥
Link copied౪౯౯ అస్యైవ చోపపత్తేర్ ఊష్మా॥౪।౨।౧౧॥
Link copiedఅస్య--- సూక్ష్మ-శరీరస్య విద్యమానత్వోపపత్తేశ్ చ న దేహ-సమ్బన్ధోపమర్ద్రేన। ఉపలభ్యతే హ్య్ ఉత్క్రమమాణస్య విదుషః క్వచిద్ ఊష్మా సూక్ష్మ-దేహ-గుణః; న చాయం స్థూల-దేహ-గుణః, అన్యత్రానుపలబ్ధేః। అతో విద్వాన్ సూక్ష్మ-శరీరేణోత్క్రామతి॥౧౧॥
Link copied౫౦౦ ప్రతిషేధాద్ ఇతి చేన్ న శారీరాత్ స్పష్టో హ్య్ ఏకేషామ్॥౪।౨।౧౨॥
Link copiedస ఏతాస్ తేజో-మాత్రాః ఇత్య్ ఆరభ్య, ఇతి తు కామయమానః ఇత్య్ అన్తేనావిదుషః ఉత్క్రాన్తి-ప్రకారం లోకాన్తర-గమనం పునర్-ఆవృత్తిం చాభిధాయ, అథాకామయమానః ఇత్య్ ఆదినా, న తస్య ప్రాణా ఉత్క్రామన్తి బ్రహ్మైవ సన్ బ్రహ్మాయేతి ఇతి విదుష ఉత్క్రాన్తి-ప్రతిషేధాద్ ఉక్త-ప్రకారో నోపపద్యత ఇతి చేత్ తన్ న, శారీరాత్ ప్రాణానామ్ అవిశ్లేషోఽనేనోచ్యతే। తస్య అకామయమానస్య విదుషః శారీరస్య, ప్రాణాః స్వస్మాన్ నోత్క్రామన్తి। దేవయానేన గమనాయ సహైవ తిష్ఠన్తి। అయమ్ అర్థః స్పష్టో హ్య్ ఏకేషాం--- మాధ్యన్దిన-శాఖినాం పాఠే, యోఽకామో నిష్కామ ఆప్త-కామ ఆత్మ-కామో న తస్మాత్ ప్రాణా ఉత్క్రామన్తి, ఇతి॥౧౨॥
Link copied౫౦౧ స్మర్యతే చ॥౪।౨।౧౩॥
Link copiedస్మర్యతే చ విదుషోఽపి మూర్ధన్య-నాడ్యోత్క్రాన్తిః--- ఊర్ధ్వమ్ ఏకః స్థితస్ తేషాం యో భిత్త్వా సూర్య-మణ్డలమ్। బ్రహ్మ-లోకమ్ అతిక్రమ్య తేన యాతి పరాం గతిమ్ ఇతి॥౧౩॥ ఇత్య్ ఆమృత్యుపక్రమాధికరణమ్॥౫॥
Link copied౫౦౨ తాని పరే తథా హ్య్ ఆహ॥౪।౨।౧౪॥
Link copiedప్రాణస్ తేజసీతి తేజః-శబ్ద-నిర్దిష్టాని భూతాని జీవ-పరిష్వరక్తాని పరస్యాం దేవతాయాం సమ్పద్యన్తే, ఉత యథాకర్మ యథావిద్యం చ గచ్ఛన్తీతి సంశయః। తదానీం సుఖ-దుఃఖోప-భోగాద్య్-అభావేన పర-సమ్పత్తౌ ప్రయోజనాభావాద్ యథాకర్మ యథావిద్యమ్ ఇతి పూర్వః పక్షః। సర్వస్య పర-దేవతా-కార్యత్వేన తదాత్మకత్వాద్ గన్తవ్య-స్థానమ్ ఇదం, పరస్యాం దేవతాయామ్ ఇత్య్ ఉచ్యతే। రాద్ధాన్తస్ తు--- తాని పరే--- పరస్మిన్ బ్రహ్మణి సమ్పద్యన్తే; తేజః పరస్యాం దేవతాయామ్ ఇతి హ్య్ ఆహ శ్రుతిః। యథాశ్రుతి విశ్రమ-స్థానత్వేన కార్యం పరికల్ప్యమ్ ఇత్య్ అర్థః సూత్రం చ వ్యాఖ్యాతమ్॥౧౪॥ ఇతి పర-సమ్పత్త్య్-అధికరణమ్॥౬॥
Link copied౫౦౩ అవిభాగో వచనాత్॥౪।౨।౧౫॥
Link copiedసేయం పరమాత్మని సమ్పత్తిః కిం ప్రాకృత-ప్రలయవత్ కారణాపత్తి-రూపా, ఉత మనః-ప్రభృతి-సమ్పత్తివద్ అవిశ్లేష-మాత్రమ్ ఇతి సంశయః। పరమాత్మనః కారణత్వాత్, తత్-సమ్పత్తి-వచనాచ్ చ కారణాపత్తిర్ ఏవేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- వాఙ్-మనసి సమ్పద్యతే ఇతి శ్రుతస్యైవ సమ్పత్తి-వచనస్య సర్వత్రానుషఙ్గాద్ అత్రానుషక్తస్య చాభిధాన-వైరూప్యాసమ్భవాద్ అత్రాప్య్ అవిభాగః--- అవిశ్లేష ఏవోచ్యతే। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧౫॥ ఇత్య్ అవిభాగాధికరణమ్॥౭॥
Link copied౫౦౪ తద్ ఓకోఽగ్ర-జ్వలనం తత్-ప్రకాశిత-ద్వారో విద్యా-సామర్థ్యాత్ తచ్-ఛేష-గత్య్-అనుస్మృతి-యోగాచ్ చ హార్దానుగృహీతః శతాధికయా॥౪।౨।౧౬॥
Link copiedశతం చైకా చ హృదయస్య నాడ్యస్ తాసాం మూర్ధానమ్ అభినిఃసృతైకా। తయోర్ధ్వమ్ ఆయన్న్ అమృతత్వమ్ ఏతి విష్వఙ్ఙ్ అన్యా ఉత్క్రమణే భవన్తి, ఇతి శతాధికయా మూర్ధన్యయా నాడ్యా విదుషో గమనమ్ ఇతి నియమః సమ్భవతి, నేతి సంశయః। నాడీనామ్ అతిసూక్ష్మత్వేన దుర్వివేచత్వాన్ నియమో న సమ్భవతీతి యాదృచ్ఛికీం తయా గతిమ్ అనువదతీదం వచనమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- పరమ-పురుషారాధన-భూతయా విద్యయా తద్-అఙ్గ-భూత-గతి-చిన్తనేన చ ప్రీతేన పరమ-పురుషేణానుగృహీతో జీవస్ తత్-ప్రసాద-ప్రకాశిత-ద్వారస్ తయైవ మూర్ధన్యయా నాడ్యా గచ్ఛతీతి॥
Link copiedసూత్రార్థస్ తు--- హార్ద-పరమ-పురుషారాధన-రూప-విద్యా-సామర్థ్యాత్ తచ్-ఛేష-గత్య్-అనుస్మృతి-యోగాచ్ చ ప్రీత-హార్దానుగృహీతో భవతి జీవః, తతః తద్-ఓకః--- జీవస్య స్థానం హృదయమ్, అగ్ర-జ్వలనమ్--- ప్రకాశితాగ్రం భవతి। ఏవం పరమ-పురుష-ప్రకాశిత-ద్వారః శతాధికయా గచ్ఛతి; తస్యాః శిఖాయా మధ్యే పరమాత్మా వ్యవస్థితః, సర్వస్య చాహం హృది సన్నివిష్టః, ఇతి హార్దః పరమాత్మా॥౧౬॥ ఇతి తద్-ఓకోధికరణమ్॥౮॥
Link copied౫౦౫ రశ్మ్య్-అనుసారీ॥౪।౨।౧౭॥
Link copiedఅథ యత్రైతద్ అస్మాచ్ ఛరీరాద్ ఉత్క్రామత్య్ అథైతైర్ ఏవ రశ్మిభిర్ ఊర్ధ్వమ్ ఆక్రమతే ఇతి విద్వాన్ రశ్మ్య్-అనుసారీ గచ్ఛతీతి నియమః సమ్భవతి నేతి సంశయః। నిశి మృతస్య విదుషః ఆదిత్య-రశ్మ్య్-అనుసారాసమ్భవాద్ అనియమ ఇతి పూర్వః పక్షః। వచనం తు పక్ష-ప్రాప్తమ్ అనువదతి। రాద్ధాన్తస్ తు--- వచనస్య పక్ష-ప్రాప్త్య్-అనువాదిత్వే, అథైతైర్ ఏవేత్య్ అవధారణ-విరోధః। న చ నిశి రశ్మయో న సన్తీతి నిశ్య్ అపి నిదాఘ-సమయే ఊష్మోపలబ్ధేః సూక్ష్మాః సన్త్య్ ఏవేతి రశ్మ్య్-అనుసార్య్ ఏవ గచ్ఛతి। హేమన్తేఽనుపలబ్ధిర్ దుర్దిన ఇవ హిమాభిభవాత్॥౧౭॥ ఇతి రశ్మ్య్-అనుసారాధికరణమ్॥౯॥
Link copied౫౦౬ నిశి నేతి చేన్ న సమ్బన్ధస్య యావద్ దేహ-భావిత్వాద్ దర్శయతి చ॥౪।౨।౧౮॥
Link copiedవిదుషో నిశి మృతస్య బ్రహ్మ-ప్రాప్తిర్ అస్తి, నేతి సంశయః। దివా చ శుక్ల-పక్షశ్ చ ఉత్తరాయణమ్ ఏవ చ। ముమూర్షతాం ప్రశస్తాని విపరీతం తు గర్హితమ్, ఇతి నిశా-మరణస్య గర్హితత్వేన అధో-గతి-హేతుత్వాన్ న బ్రహ్మ-ప్రాప్తిః సమ్భవతీతి పూర్వః పక్షః। రాద్ధాన్తస్ తు---విద్యా-మాహాత్మ్యాద్ ఉత్తర-పూర్వాఘయోర్ అశ్లేష-వినాశ-శ్రుతేర్ అశ్లిష్ట-వినష్టత్వాత్, ప్రారబ్ధస్యాపి కర్మణః చరమ-దేహావధిత్వాచ్ చ, బన్ధ-హేత్వ్-అభావాన్ నిశి మృతస్యాపి బ్రహ్మ-ప్రాప్తిర్ అస్త్య్ ఏవేతి। అవిద్వద్-విషయా నిశా-మరణ-నిన్దా॥
Link copiedసూత్రార్థస్ తు--- నిశా-మరణ-నిన్దయా నిశి మృతస్య న బ్రహ్మ-ప్రాప్తిర్ ఇతి చేత్; తన్ న, సమ్బన్ధస్య యావద్ దేహ-భావిత్వాద్ అనారబ్ధ-కార్య-కర్మ-సమ్బన్ధస్య విద్యయా వినష్టత్వాత్ ప్రారబ్ధ-కార్య-కర్మ-సమ్బన్ధస్యాపి యావచ్ చరమ-దేహ-భావిత్వాద్ బన్ధ-హేత్వభావేన బ్రహ్మ-ప్రాప్తిర్ అస్త్య్ ఏవేత్య్ అర్థః। తద్ ఏతచ్ ఛ్రుతిశ్ చ దర్శయతి--- తస్య తావద్ ఏవ చిరం యావన్ న విమోక్ష్యే అథ సమ్పత్స్యే ఇతి॥౧౮॥ ఇతి నిశాధికరణమ్॥౧౦॥
Link copied౫౦౭ అతశ్ చాయనేఽపి దక్షిణే॥౪।౨।౧౯॥
Link copiedదక్షిణాయనే మృతస్య విదుషో బ్రహ్మ-ప్రాప్తిర్ అస్తి నేతి సంశయః। అథ యో దక్షిణే ప్రమీయతే పితృణామ్ ఏవ మహిమానం గత్వా చన్ద్రమసః సాయుజ్యం గచ్ఛతి, ఇతి విదుషో దక్షిణాయనే మృతస్య చన్ద్ర-సాయుజ్య-శ్రవణాత్, చన్ద్రం ప్రాప్తానామ్--- అథైతమ్ ఏవాధ్వానం పునర్ నివర్తన్తే ఇతి వచనాచ్ చ, దక్షిణాయన-మృతస్య బ్రహ్మ-ప్రాప్తి న సమ్భవతీతి పూర్వః పక్షః। రాధాన్తస్ తు--- పూర్వోక్తాద్ బన్ధ-హేత్వ్-అభావాద్ విదుషశ్ చన్ద్రం ప్రాప్తస్యాపి పునర్-ఆవృత్తిర్ న సమ్భవతి। చన్ద్ర-సాయుజ్య-వచనం విదుషో బ్రహ్మ-ప్రేప్సోర్ విశ్రమ-స్థాన-మాత్ర-వియషమ్। ఆవృత్తి-వచనం త్వ్ అవిదుషామ్ ఏవ। సూత్రార్థస్ తు--- యతో హేతోర్ నిశి మృతస్యాపి బ్రహ్మ-ప్రాప్తిః, తత ఏవ బన్ధ-హేత్వ్-అభావాద్ దక్షిణాయనే మృతస్యాపి బ్రహ్మ-ప్రాప్తిర్ అస్త్య్ ఏవ॥౧౯॥
Link copiedయత్ర కాలే త్వ్ అనావృత్తిమ్ ఆవృత్తిం చైవ యోగినః, ఇతి మరణ-కాల-విశేషః స్మర్యత ఇతి చేత్ తత్రాహ---
Link copied౫౦౮ యోగినః ప్రతి స్మర్యేతే స్మార్తే చైతే॥౪।౨।౨౦॥
Link copiedయోగినః--- బ్రహ్మ-విద్యా-నిష్ఠాన్ ప్రత్య్ ఏతే--- దేవయాన-పితృయాణ-గతీ, స్మార్తే స్మర్యేతే, స్మార్తే--- స్మృతి-విషయ-భూతే అహర్ అహః స్మర్తవ్యే స్మయేతే ఇత్య్ అర్థః। యత్ర కాలే త్వ్ అనావృత్తిమ్ ఆవృత్తిం చైవ యోగినః, ఇత్యాదినా, నైతే సృతీ పార్థ జానన్ యోగీ ముహ్యతి కశ్చన। తస్మాత్ సర్వేషు కాలేషు యోగ-యుక్తో భవార్జున, ఇత్య్ అన్తేన। న ముమూర్షున్ ప్రతి కాల-విశేషోపాదానం స్మర్యతే। ఆతివాహిక-గణస్య కాలాభిమాని-దేవతా-విశేష-భూయస్త్వేన, యత్ర కాలే ఇత్య్ ఉచ్యతే॥౨౦॥ ఇతి దక్షిణాయనాధికరణమ్॥౧౧॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే చతుర్థస్యాధ్యాయస్య ద్వితీయః పాదః॥
Link copied489 va:n manasi darsana:ch chhabda:ch cha||4|2|1||
Link copiedasya so:mya purushasya prayatho: va:n manasi sampadyathe: manah pra:ne:, ithy a:diko:thkra:nthi vishaya: a:mna:yathe:| thathra kim va:g indriyam manasi sampadyathe:, utha va:g vruththi ma:thram ithi samsayah| va:cho: manah prakruthithva:bha:va:th svaru:pa layas thathra na sambhavathi:thi va:g vruththi ma:thra:bhipra:yam ithi pu:rvah pakshah| ra:ddha:nthas thu--- aka:rane: sampaththy abha:vasya va:g vruththa:v api thulyathva darsana:th, va:n manasi:thi va:k svaru:pasyaiva sampaththih| sabda:ch cha svaru:pam e:va sampadyathe:, va:n manasi sampadyathe: ithi va:k svaru:pa sampaththa:v e:va hi sabdah na vruththi ma:thra sampaththau| aka:rane: laya:bha:va:th sampaththi sabdah samyo:ga:bhipra:yah| su:thram cha vya:khya:tham||1||
Link copied490 atha e:va sarva:ny anu||4|2|2||
Link copiedyatho: va:cho: manasi samyo:ga ma:thram uchyathe: na thu layah| atha e:va thada:ni:m--- sarva:ni:ndriya:ni va:cham anu manasi sampadyanthe:, ithi vachanam, va:n manasi sampadyatha ithi vachanavad upapannam, thasma:d upasa:ntha the:ja:h--- punarbhavam indriyair manasi sampadyama:naih, ithi||2|| ithi va:g adhikaranam||1||
Link copied491 than manah pra:na uththara:th||4|2|3||
Link copiedmanah pra:ne:, ithy athra kim pra:na sabde:na:pa uchyanthe:, utha pra:na e:ve:thi samsayah| pra:nasya manah prakruthithva:bha:va:th, anna maya hi so:mya manah, ithi manaso:'nna mayathva sravana:th, apa:m cha:nna prakruthithve:na, thath sampaththir upapadyatha ithi pra:na sabde:na:pa uchyantha ithi pu:rvah pakshah; a:po: mayah pra:nah ithi hy am mayathva:th pra:nasya pra:na sabde:na:po: vakthum yujyanthe: ithi| ra:ddha:nthas thu--- anna mayam hi so:mya manah a:po: mayah pra:nah, ithi manah pra:nayo:r na thath thath prakruthithvam uchyathe:; api thu thad a:pya:yanam, a:hanka:rikathva:n manasah, pra:nasya cha:ka:sa prakruthithva:th| athah va:n manasi:thivath thad uththara:th, manah pra:ne: ithi sabda:th, thath sarve:ndriya samyuktham manah pra:ne: samyujyathe:||3|| ithi mano:dhikaranam||2||
Link copied492 so:'dhyakshe: thad upagama:dibhyah||4|2|4||
Link copiedsah pra:nah kim the:jasi samyujyathe:, utha ji:va ithi samsayah| pra:nas the:jasi:thi vachana:th the:jasy e:ve:thi pu:rvah pakshah| ra:ddha:nthas thu--- uthkra:nthau pra:nasya ji:vo:pagama:di sruthe:h pra:nah karana:dhyakshe: ji:ve: samyujyathe:| e:thad aviro:dha:ya ji:ve: samyujya pascha:th the:jah samyo:gam, pra:nas the:jasi:thi vadathi| sru:yanthe: hi pra:nasya ji:vo:pagama:dayah, e:vam e:ve:mam a:thma:nam antha ka:le: sarve: pra:na: abhisama:yanthi, tham uthkra:mantham pra:no:'nu:thkra:mathi, kasmin va: prathishthithe: prathishtha:sya:mi, ithya:dishu||4|| ithy adhyaksha:dhikaranam||3||
Link copied493-494 bhu:the:shu thach chhruthe:h||4|2|5||
Link copiednaikasmin darsayatho: hi||4|2|6||
Link copiedpra:nas the:jasi:thi kim the:jo: ma:thre: pra:nah samyujyathe:, utha bhu:tha:nthara samsrushta ithi samsayah the:jasi:thi vachana:th the:jo: ma:thra ithi pu:rvah pakshah| pruthivi: mayah, ithy a:dina: sancharatho: ji:vasya sarva bhu:tha mayathva sruthe:, thrivruth karana sruthi smruthibhya:m cha the:jasa e:kasya ka:rya:kshamathva:d bhu:tha:nthara samsrushta ithi ra:ddha:nthah| su:thra dvayam vya:khya:tham||5-6|| ithi bhu:tha:dhikaranam||4||
Link copied495 sama:na: cha:sruthy upakrama:d amruthathvam cha:nupo:shya||4|2|7||
Link copiediyam uthkra:nthih kim vidvad avidusho:h sama:na:, utha:vidusha e:ve:thi samsayah| vidusho:'thraiva:mruthathvapra:pthisruthe:ravidusha e:ve:thi pu:rvah pakshah| sru:yathe: hi vidusho:'thraiva brahma pra:pthih--- yada: sarve: pramuchyanthe: ka:ma:ye:'sya hrudi sthitha:h| atha marthyo:'mrutho: bhavathi, athra brahma samasnuthe:, ithi| ra:ddha:nthas thu--- vidusho:'rchir a:dikayaiva brahma pra:pthih, archir a:di gathy upakrama:th pra:g iyam uthkra:nthih sama:na:| gathis cha mu:rdhanya na:dya:, satham chaika: cha hrudayasya na:dyas tha:sa:m mu:rdha:nam abhinihsruthaika:, thayo:rdhvam a:yann amruthathvam e:thi, ithi sruthe:h| yada: sarve: pramuchyanthe:, ithy ane:na gathi sruthy aviro:dha:ya:mruthathva sa:dhana bhu:tho:pa:sana nishpaththir uchyathe:, hrudi sthitha:h ka:ma: yada: pramuchyanthe:, thadaivo:pa:sana:rambha:n marthyo:'mrutho: bhavathi:thi| ka:ma vimo:ka pu:rvako:pa:sane: sthitho:'rchir a:dikaya: gathya: brahma samasnuthe: ithy arthah| su:thra:rthas thu--- sruthih gathih, a:gathy upakrama:d uthkra:nthir vidusho:'pi sama:na:, vidusho:'chir a:di gathi sruthe:h, atha marthyo:'mrutho: bhavathi, ithy uchyama:nam amruthathvam anupo:shya cha--- adagdhvaiva sari:re:ndriya:di sambandham, upa:sana:rambha parikara ru:pam ithy arthah||7||
Link copied496 thad a:pi:the:h samsa:ra vyapade:sa:th||4|2|8||
Link copiedthath--- amruthathvam, uktha praka:ram e:va| kuthah| a:pi:the:h samsa:ra vyapade:sa:th| api:thih--- brahma pra:pthih, archir a:dikaya: gathya: de:sa vise:sham gathva: ya:vad brahma pra:pyathe: tha:vath samsa:rah--- sari:ra sambandho: hi vyapadisyathe:||8||
Link copiedgathi vyapade:sa:d e:va sari:ra:d uthkra:nthasya katham sari:ra sambandha ithy athra:ha---
Link copied497 su:kshmam prama:nathas cha thatho:palabdhe:h||4|2|9||
Link copiedsu:kshma sari:ram anuvarthathe:, gathi vyapade:sa:th| na ke:valam gathi vyapade:sa:d e:va, prama:na:ntharathas cha thatha:--- su:kshma sari:ravaththvasyo:palabdhe:s cha| vidusho:'rchir a:dikaya: gathya: gachchhathas chandramasa: samva:do:'yam upadisyathe:, tham prathibru:ya:th, sathyam bru:ya:th, ithy a:dina:||9||
Link copied498 no:pamardana:thah||4|2|10||
Link copiedathah--- uktha:d dhe:thu kala:pa:th, atha marthyo:'mrutho: bhavathi:thi vachanam na de:ha sambandho:pamarde:na:mruthathvam vadathi, api thu:ktham e:vo:pa:sana:rambha ru:pam vadathi:thy athah||10||
Link copied499 asyaiva cho:papaththe:r u:shma:||4|2|11||
Link copiedasya--- su:kshma sari:rasya vidyama:nathvo:papaththe:s cha na de:ha sambandho:pamardre:na| upalabhyathe: hy uthkramama:nasya vidushah kvachid u:shma: su:kshma de:ha gunah; na cha:yam sthu:la de:ha gunah, anyathra:nupalabdhe:h| atho: vidva:n su:kshma sari:re:no:thkra:mathi||11||
Link copied500 prathishe:dha:d ithi che:n na sa:ri:ra:th spashto: hy e:ke:sha:m||4|2|12||
Link copiedsa e:tha:s the:jo: ma:thra:h ithy a:rabhya, ithi thu ka:mayama:nah ithy anthe:na:vidushah uthkra:nthi praka:ram lo:ka:nthara gamanam punar a:vruththim cha:bhidha:ya, atha:ka:mayama:nah ithy a:dina:, na thasya pra:na: uthkra:manthi brahmaiva san brahma:ye:thi ithi vidusha uthkra:nthi prathishe:dha:d uktha praka:ro: no:papadyatha ithi che:th than na, sa:ri:ra:th pra:na:na:m avisle:sho:'ne:no:chyathe:| thasya aka:mayama:nasya vidushah sa:ri:rasya, pra:na:h svasma:n no:thkra:manthi| de:vaya:ne:na gamana:ya sahaiva thishthanthi| ayam arthah spashto: hy e:ke:sha:m--- ma:dhyandina sa:khina:m pa:the:, yo:'ka:mo: nishka:ma a:ptha ka:ma a:thma ka:mo: na thasma:th pra:na: uthkra:manthi, ithi||12||
Link copied501 smaryathe: cha||4|2|13||
Link copiedsmaryathe: cha vidusho:'pi mu:rdhanya na:dyo:thkra:nthih--- u:rdhvam e:kah sthithas the:sha:m yo: bhiththva: su:rya mandalam| brahma lo:kam athikramya the:na ya:thi para:m gathim ithi||13|| ithy a:mruthyupakrama:dhikaranam||5||
Link copied502 tha:ni pare: thatha: hy a:ha||4|2|14||
Link copiedpra:nas the:jasi:thi the:jah sabda nirdishta:ni bhu:tha:ni ji:va parishvaraktha:ni parasya:m de:vatha:ya:m sampadyanthe:, utha yatha:karma yatha:vidyam cha gachchhanthi:thi samsayah| thada:ni:m sukha duhkho:pa bho:ga:dy abha:ve:na para sampaththau prayo:jana:bha:va:d yatha:karma yatha:vidyam ithi pu:rvah pakshah| sarvasya para de:vatha: ka:ryathve:na thada:thmakathva:d ganthavya stha:nam idam, parasya:m de:vatha:ya:m ithy uchyathe:| ra:ddha:nthas thu--- tha:ni pare:--- parasmin brahmani sampadyanthe:; the:jah parasya:m de:vatha:ya:m ithi hy a:ha sruthih| yatha:sruthi visrama stha:nathve:na ka:ryam parikalpyam ithy arthah su:thram cha vya:khya:tham||14|| ithi para sampaththy adhikaranam||6||
Link copied503 avibha:go: vachana:th||4|2|15||
Link copiedse:yam parama:thmani sampaththih kim pra:krutha pralayavath ka:rana:paththi ru:pa:, utha manah prabhruthi sampaththivad avisle:sha ma:thram ithi samsayah| parama:thmanah ka:ranathva:th, thath sampaththi vachana:ch cha ka:rana:paththir e:ve:thi pu:rvah pakshah| ra:ddha:nthas thu--- va:n manasi sampadyathe: ithi sruthasyaiva sampaththi vachanasya sarvathra:nushanga:d athra:nushakthasya cha:bhidha:na vairu:pya:sambhava:d athra:py avibha:gah--- avisle:sha e:vo:chyathe:| su:thram api vya:khya:tham||15|| ithy avibha:ga:dhikaranam||7||
Link copied504 thad o:ko:'gra jvalanam thath praka:sitha dva:ro: vidya: sa:marthya:th thach chhe:sha gathy anusmruthi yo:ga:ch cha ha:rda:nugruhi:thah satha:dhikaya:||4|2|16||
Link copiedsatham chaika: cha hrudayasya na:dyas tha:sa:m mu:rdha:nam abhinihsruthaika:| thayo:rdhvam a:yann amruthathvam e:thi vishvann anya: uthkramane: bhavanthi, ithi satha:dhikaya: mu:rdhanyaya: na:dya: vidusho: gamanam ithi niyamah sambhavathi, ne:thi samsayah| na:di:na:m athisu:kshmathve:na durvive:chathva:n niyamo: na sambhavathi:thi ya:druchchhiki:m thaya: gathim anuvadathi:dam vachanam ithi pu:rvah pakshah| ra:ddha:nthas thu--- parama purusha:ra:dhana bhu:thaya: vidyaya: thad anga bhu:tha gathi chinthane:na cha pri:the:na parama purushe:na:nugruhi:tho: ji:vas thath prasa:da praka:sitha dva:ras thayaiva mu:rdhanyaya: na:dya: gachchhathi:thi||
Link copiedsu:thra:rthas thu--- ha:rda parama purusha:ra:dhana ru:pa vidya: sa:marthya:th thach chhe:sha gathy anusmruthi yo:ga:ch cha pri:tha ha:rda:nugruhi:tho: bhavathi ji:vah, thathah thad o:kah--- ji:vasya stha:nam hrudayam, agra jvalanam--- praka:sitha:gram bhavathi| e:vam parama purusha praka:sitha dva:rah satha:dhikaya: gachchhathi; thasya:h sikha:ya: madhye: parama:thma: vyavasthithah, sarvasya cha:ham hrudi sannivishtah, ithi ha:rdah parama:thma:||16|| ithi thad o:ko:dhikaranam||8||
Link copied505 rasmy anusa:ri:||4|2|17||
Link copiedatha yathraithad asma:ch chhari:ra:d uthkra:mathy athaithair e:va rasmibhir u:rdhvam a:kramathe: ithi vidva:n rasmy anusa:ri: gachchhathi:thi niyamah sambhavathi ne:thi samsayah| nisi mruthasya vidushah a:dithya rasmy anusa:ra:sambhava:d aniyama ithi pu:rvah pakshah| vachanam thu paksha pra:ptham anuvadathi| ra:ddha:nthas thu--- vachanasya paksha pra:pthy anuva:dithve:, athaithair e:ve:thy avadha:rana viro:dhah| na cha nisi rasmayo: na santhi:thi nisy api nida:gha samaye: u:shmo:palabdhe:h su:kshma:h santhy e:ve:thi rasmy anusa:ry e:va gachchhathi| he:manthe:'nupalabdhir durdina iva hima:bhibhava:th||17|| ithi rasmy anusa:ra:dhikaranam||9||
Link copied506 nisi ne:thi che:n na sambandhasya ya:vad de:ha bha:vithva:d darsayathi cha||4|2|18||
Link copiedvidusho: nisi mruthasya brahma pra:pthir asthi, ne:thi samsayah| diva: cha sukla pakshas cha uththara:yanam e:va cha| mumu:rshatha:m prasastha:ni vipari:tham thu garhitham, ithi nisa: maranasya garhithathve:na adho: gathi he:thuthva:n na brahma pra:pthih sambhavathi:thi pu:rvah pakshah| ra:ddha:nthas thu---vidya: ma:ha:thmya:d uththara pu:rva:ghayo:r asle:sha vina:sa sruthe:r aslishta vinashtathva:th, pra:rabdhasya:pi karmanah charama de:ha:vadhithva:ch cha, bandha he:thv abha:va:n nisi mruthasya:pi brahma pra:pthir asthy e:ve:thi| avidvad vishaya: nisa: marana ninda:||
Link copiedsu:thra:rthas thu--- nisa: marana nindaya: nisi mruthasya na brahma pra:pthir ithi che:th; than na, sambandhasya ya:vad de:ha bha:vithva:d ana:rabdha ka:rya karma sambandhasya vidyaya: vinashtathva:th pra:rabdha ka:rya karma sambandhasya:pi ya:vach charama de:ha bha:vithva:d bandha he:thvabha:ve:na brahma pra:pthir asthy e:ve:thy arthah| thad e:thach chhruthis cha darsayathi--- thasya tha:vad e:va chiram ya:van na vimo:kshye: atha sampathsye: ithi||18|| ithi nisa:dhikaranam||10||
Link copied507 athas cha:yane:'pi dakshine:||4|2|19||
Link copieddakshina:yane: mruthasya vidusho: brahma pra:pthir asthi ne:thi samsayah| atha yo: dakshine: prami:yathe: pithruna:m e:va mahima:nam gathva: chandramasah sa:yujyam gachchhathi, ithi vidusho: dakshina:yane: mruthasya chandra sa:yujya sravana:th, chandram pra:ptha:na:m--- athaitham e:va:dhva:nam punar nivarthanthe: ithi vachana:ch cha, dakshina:yana mruthasya brahma pra:pthi na sambhavathi:thi pu:rvah pakshah| ra:dha:nthas thu--- pu:rvo:ktha:d bandha he:thv abha:va:d vidushas chandram pra:pthasya:pi punar a:vruththir na sambhavathi| chandra sa:yujya vachanam vidusho: brahma pre:pso:r visrama stha:na ma:thra viyasham| a:vruththi vachanam thv avidusha:m e:va| su:thra:rthas thu--- yatho: he:tho:r nisi mruthasya:pi brahma pra:pthih, thatha e:va bandha he:thv abha:va:d dakshina:yane: mruthasya:pi brahma pra:pthir asthy e:va||19||
Link copiedyathra ka:le: thv ana:vruththim a:vruththim chaiva yo:ginah, ithi marana ka:la vise:shah smaryatha ithi che:th thathra:ha---
Link copied508 yo:ginah prathi smarye:the: sma:rthe: chaithe:||4|2|20||
Link copiedyo:ginah--- brahma vidya: nishtha:n prathy e:the:--- de:vaya:na pithruya:na gathi:, sma:rthe: smarye:the:, sma:rthe:--- smruthi vishaya bhu:the: ahar ahah smarthavye: smaye:the: ithy arthah| yathra ka:le: thv ana:vruththim a:vruththim chaiva yo:ginah, ithya:dina:, naithe: sruthi: pa:rtha ja:nan yo:gi: muhyathi kaschana| thasma:th sarve:shu ka:le:shu yo:ga yuktho: bhava:rjuna, ithy anthe:na| na mumu:rshun prathi ka:la vise:sho:pa:da:nam smaryathe:| a:thiva:hika ganasya ka:la:bhima:ni de:vatha: vise:sha bhu:yasthve:na, yathra ka:le: ithy uchyathe:||20|| ithi dakshina:yana:dhikaranam||11||
Link copiedithi sri: ra:ma:nuja:cha:rya virachithe: sri: ve:da:nthadi:pe: chathurthasya:dhya:yasya dvithi:yah pa:dah||
Link copied