Vedanta Dipa · Section 16 of 17
||atha chathurtha:dhya:ye: thruthi:yah pa:dah||
Original Sanskrit · click to toggle
५०९ अर्चिर्-आदिना तत्-प्रथितेः॥४।३।१॥
Link copiedकिं विद्वान् अर्चिर्-आदिनैकेन मार्गेण गच्छति, उत तेन वान्येन वेत्य् अनियम इति संशयः। तद्-अर्थं परीक्ष्यते--- किं सर्वासु श्रुतिष्व्-अर्चिर्-आदिर् एक एव मार्ग आम्नायते, उत तत्र तत्रान्य इति। यदाचिर्-आदिर् एक एव सर्वत्रोक्तस् तदा तेनैव गच्छति। यदा तत्र तत्राम्नाता अन्ये, तदान्यैर् वानेन वेत्य् अनियम इति। छान्दोग्य-वाजसनेयकादिषु नाना-विधाः गति-प्रकाराः श्रूयन्ते। छान्दोग्ये--- यथा पुष्कर-पलाश आपो न श्लिप्यन्ते इत्य् उपक्रम्य, सर्वाणि \॥॥नयति, सर्वेषु लोकेषु भाति य एवं वेद, अथ यद् उ चैवास्मिञ् छव्यं कुर्वन्ति यद् उ च नार्चिषम् एवाभिसम्भवन्त्य् अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षड् उदङ्ङ् एति मासांस् तान् मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् आदित्याच् चन्द्रमसं चन्द्रमसो विद्युतं तत्-पुरुषोऽमानवस्य एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते इति। बृहदारण्यके--- य एवम् एतद् विदुर् ये चामी अरण्ये श्रद्धां सत्यम् इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षण् मासान् उदङ्ङ् आदित्य एति मासेभ्यो देव-लोकं देव-लोकाद् आदित्यम् आदित्याद् वैद्युतं वैद्युतात् पुरुषोऽमानवः स एत्य ब्रह्म-लोकान् गमयति, इति। तत्रैवान्यथा--- यदा वै पुरुषोऽस्माल् लोकात् प्रेति स वायु-लोकम् आगच्छति तस्मै स तत्र विजिहीते यथा रथ-चक्रस्य खं तेन स ऊर्ध्वम् आक्रमते स आदित्यम् आगच्छति तस्मै स तत्र विजिहीते यथाडम्बरस्य खं तेन स ऊर्ध्वम् आक्रमते स चन्द्रमसम् आगच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् इत्य् आदिषु। तेषां ब्रह्म-प्राप्तौ नैरपेक्ष्य-श्रवणात् तैर् वार्चिर्-आदिना वेति विकल्प इति पूर्वः पक्षः। राद्धान्तस् तु--- सर्वत्रार्चिर्-आद्य्-अन्तर्भूतादित्यादीनां दर्शनात् स एवेति प्रत्यभिज्ञानात्, अन्यत्रोक्तानाम् अन्यत्रोपसंहाराच् च, सर्वत्रार्चिर्-आदिर् एक एव मार्ग इति तेनैव गच्छति विद्वान्। सूत्रार्थस् तु--- अर्चिर्-आदिनैव गच्छति विद्वान्। कुतः। तत्-प्रथितेः। प्रथितिः--- प्रसिद्धिः; सर्वत्र तत्-प्रत्यभिज्ञानाद् इत्य् अर्थः॥१॥ इत्य् अर्चिर्-आद्य्-अधिकरणम्॥१॥
Link copied५१० वायुम् अब्दाद् अविशेष-विशेषाभ्याम्॥४।३।२॥
Link copiedतेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहर् अह्नः, इत्य् आरभ्य, मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् इति छान्दोग्ये श्रुतम्। तत्र संवत्सरादित्ययोर् मध्ये देव-लोको वायुश् च श्रुतौ श्रुत्य्-अन्तरे। द्वयोः प्रकरणयोः किं देव-लोको वायुश् चार्थान्तर-भूतौ, उत वायुर् एक एवेति संशयः। शब्द-भेदादर्थान्तर-भूताव् इति पूर्वः पक्षः। अर्थान्तरत्वे सति, देव-लोकाद् आदित्यम् इति देव-लोकस्य, तेन स ऊर्ध्वम् आक्रमते स आदित्यम् इति वायोश् चादित्यात् पूर्वत्वेन श्रौत-क्रम-निर्दिष्टत्वाद् देव-लोक-वायू यथेष्ट-क्रमेण निवेशयितन्यौ।
Link copiedराद्धान्तस् तु--- वायुर् एव देव-लोक-शब्देन निर्दिष्ट इति तस्माद् अनन्यः। देवानां लोक इति हि देव-लोकः, देवानां वासस्थानम् इत्य् अविशेषेण निर्दिष्टम्। योऽयं पवत एष एव देवानां गृहाः, इति वायोर् विशेषेण देवानां वासस्थानत्वेन श्रुतत्वाद् अविशेष-निर्दिष्टो देव-लोको वायुर् एवेति निश्चीयत इति। संवत्सराद् ऊर्ध्वं वायुर् वायोर् आदित्य इति क्रमश् च स्यात्॥
Link copiedसूत्रार्थस् तु--- अब्दात्--- संवत्सराद् ऊर्ध्वम् आदित्यात् पूर्वं वायुम् एकम् एव निवेशयेत्, देव-लोक-वायु-शब्दाभ्याम् अविशेष-विशेषाभ्यां वायोर् एकस्यैव निर्दिष्टत्वात्। देवानां वासस्थानम् इत्य् अविशेषेण हि देव-लोक-शब्दो वायु-देवानाम् आवास-स्थान-भूतम् अभिदधाति, वायु-शब्दस् तम् एव विशेषेणेति द्वयोः प्रकरण-द्वय-विहितयोर् एकत्वाद् इत्य् अर्थः॥२॥ इति वाय्व्-अधिकरणम्॥२॥
Link copied५११ तटितोऽधि वरुणः सम्बन्धात्॥४।३।३॥
Link copiedछान्दोग्य-वाजसनेयक-कौषीतकी-प्रभृतिष्व् आम्नातस्यार्चिर्-आदि-मार्गस्यार्चिर् अहर् आपूर्यमाण-पक्षोत्तरायण-संवत्सर-वाय्व्-आदित्य-चन्द्र-विद्युद्-वरुणेन्द्र-प्रजापति-रूपस्योपसंहारे वायु-पर्यन्तस्य श्रुत्यादिभिः क्रम-प्रकार उक्तः। वरुणेन्द्र-प्रजापतीनां किं विद्युत उपरि निवेशः, उत वायोर् उपरीति संशयः। स वायु-लोकं स वरुण-लोकम् इति कौषीतकी-पाठ-क्रमेण वायोर् उपरि वरुणस्य निवेशः। इन्द्रादेर् अपि वरुण-निवेशाय वाय्व्-आदित्ययोः क्रमस्य बाधितत्वात् तत्रैव वरुणोपरीति पूर्वः पक्षः।
Link copiedराद्धान्तस् तु--- विद्युतो मेधोदर-वर्तित्वेन विद्युद्-वरुणयोर् लोके वेदे च सम्बन्धावगमात् पाठ-क्रमाद् अर्थ-क्रमस्य बलीयस्त्वेन वरुणस्य विद्युत उपरि निवेशः कार्यः। इन्द्रादेर् अपि वरुण-निवेशाय विद्युतो व्यवधान-सहत्व-दर्शनाद् वरुणोपरि निवेशः। सूत्रं च व्याख्यातम्॥३॥ इति वरुणाधिकरणम्॥३॥
Link copied५१२ आतिवाहिकास् तल्-लिङ्गात्॥४।३।४॥
Link copiedकिम् अर्चिर्-आदयो विदुषो ब्रह्म-प्रेप्सोर् मार्ग-चिह्न-भूताः, उत गमयितार इति संशयः। अमुकं वृक्षम् अमुकां नदीम् अमुकं पर्वत-पार्श्वं गत्वामुकं ग्रामं गच्छ, इत्य् आदि देशिकोपदेश-प्रकार-दर्शनान् मार्ग-चिह्न-भूताः, इति पूर्वः पक्षः। राद्धान्तस् तु--- स एनान् ब्रह्म गमयति, इति वैद्युत-पुरुषस्य गमयितृत्व-दर्शनाद् इतरेषां चाविशेष-निर्दिष्टानां स एव सम्बन्ध इति निश्चीयते। अग्नि-लोकम् इत्य् आदि लोक-शब्दोऽपि मध्ये भोगाभावाद् गमयितृत्व एवोपपद्यते। सूत्रार्थस् तु--- आतिवाहिकाः--- विदुषाम् अतिवाहे परम-पुरुषेण नियुक्ताः, अर्चिर्-आद्य्-अभिमानि-देवता-विशेषाः गमयितार इत्य् अर्थः। स एनान् ब्रह्म गमयतीति लिङ्गात्॥४॥
Link copied५१३ वैद्युतेनैव ततस् तच्-छ्रुतेः॥४।३।५॥
Link copiedततः--- विद्युत उपरि, वैद्युतेन विदुषो गमनम्, तच्-छ्रुतेः--- स एनान् ब्रह्म गमयतीति तस्यैव श्रुतेः। वरुणादीनां तद्-अनुग्राहकत्वेन गमयितृत्वम् इति निश्चीयत इत्य् अर्थः॥५॥
Link copiedइत्य् आतिवाहिकाधिकरणम्॥४॥
Link copied५१४ कार्यं बादरिर् अस्य गत्य्-उपपत्तेः॥४।३।६॥
Link copiedकिम् अर्चिर्-आदिको गणः कार्यं हिरण्यगर्भम् उपासीनान् नयति, उत परं ब्रह्मोपासीनान्, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश् चेति संशयः। कार्यं--- हिरण्यगर्भम् उपासीनान् इति पूर्वः पक्षः, तेषाम् एव गत्य्-उपपत्तेः। न हि परिपूर्णं सर्व-गतं परं ब्रह्मोपासीनानां तत्-प्राप्तये गतिर् उपपद्यते, नित्य-प्राप्तत्वात्। अविद्या-निवृत्तिर् एव हि कार्या। परम् एवोपासीनान् इत्य् अपरः पक्षः, स एनान् ब्रह्म गमयतीति ब्रह्म-शब्दस्य तत्रैव मुख्यत्वात्। अविद्या-निवृत्तेः फलाभिसन्धि-रहित-यज्ञाद्य्-अपेक्षावत् श्रवणाद्य्-अपेक्षावच् च गति-श्रुत्या देश-विशेषापेक्षा च विद्यत इति निश्चीयते। राद्धान्तस् तु--- परम् उपासीनान् अन्यान् अपि नयति, तद् य इत्थं विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्ति, इति पञ्चाग्नि-विदां परं ब्रह्मोपासीनानां चार्चिर्-आदि-गति-श्रुतेः। पञ्चाग्नि-विदो हि प्रकृति-विमुक्त-ब्रह्मात्मकात्म-स्वरूप-विदः। ते च तत् प्राप्य पुनर् न निवर्तन्ते। परं ब्रह्मोपासीनास् तु यथावस्थितं परिपूर्णं परं ब्रह्मैव प्राप्य पुनर् न निवर्तन्ते। तद् य इत्थं विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्ति * इत्य् उभय-विधान् भेदेनोपादायार्चिर्-आदि-गति-श्रुतेर् अपुनर्-आवृत्ति-श्रुतेश् चैवम् इति निश्चीयते॥
Link copiedसूत्रार्थस् तु--- कार्यं--- हिरण्यगर्भम् उपासीनम् आतिवाहिको गणो नयतीति बादरिर् आचार्यो मन्यते, अस्यैव गत्य्-उपपत्तेः। परम् उपासीनस्य हि न तत्-प्राप्तये गतिर् उपपद्यते, सर्व-गतत्वात् परस्य ब्रह्मणः॥६॥
Link copied५१५ विशेषितत्वाच् च॥४।३।७॥
Link copiedपुरुषोऽमानव एत्य ब्रह्म-लोकान् गमयति, इति, प्रजापतेः सभां वेश्म प्रपद्ये इति च प्राप्य-स्थानस्य विशेषितत्वाच् च हिरण्यगर्भम् उपासीनम् एव नयति॥७॥
Link copied५१६ सामीप्यात् तु तद्-व्यपदेशः॥४।३।८॥
Link copiedएवं निश्चिते सति, स एनान् ब्रह्म गमयतीति हिरण्यगर्भस्य ब्रह्म-शब्द-व्यपदेशो ब्रह्म-सामीप्यात्। यो ब्रह्माणं विदधाति पूर्वम् इति प्रथमजत्वेन ब्रह्म-सामीप्यं हि विद्यते॥८॥
Link copied५१७ कार्यात्यये तद्-अध्यक्षेण सहातः परम् अभिधानात्॥४।३।९॥
Link copiedहिरण्यगर्भ-प्राप्ताव् अप्य् अपुनर्-आवृत्तिर् उपपद्यते। कार्यस्य--- हिरण्यगर्भ-लोकस्यात्यये, तद्-अध्यक्षेण--- हिरण्यगर्भेणाधिकारिक-पुरुषेण विदुषा सह पर-प्राप्त्य्-अभिधानात्, ते ब्रह्म-लोके तु परान्त-काले परामृतात् परिमुच्यन्ति सर्वे इति॥९॥
Link copied५१८ स्मृतेश् च॥४।३।१०॥
Link copiedब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्॥ इति स्मृतेश् चावगम्यते॥१०॥
Link copied५१९ परं जैमिनि-मुख्यत्वात्॥४।३।११॥
Link copiedपरं ब्रह्मोपासीनम् एव नयत्य् आतिवाहिको गण इति जैमिनिर् आचार्यो मन्यते, ब्रह्म गमयतीति ब्रह्म-शब्दस्य तत्रैव मुख्यत्वात्। ब्रह्म-लोकान् इति शब्दश् च ब्रह्मैव लोको ब्रह्म-लोक इति कर्मधारय-परिग्रहस्यैव न्याय्यत्वाद् उपपद्यते। एवं निश्चिते सति बहुवचनं च, अदितिः पाशान् इतिवद् उपपन्नम्॥११॥
Link copied५२० दर्शनाच् च॥४।३।१२॥
Link copiedअस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, इत्य् अर्चिर्-आदिना गतस्य परब्रह्म-प्राप्तिं दर्शयति च॥१२॥
Link copied५२१ न च कार्ये प्रत्यभिसन्धिः॥४।३।१३॥
Link copiedप्रजापतेः सभां वेश्म प्रपद्ये इति प्रत्यभिसन्धिश् च न कार्ये, धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्म-लोकम् अभिसम्भवामि, इत्य् अकृतं ब्रह्म-लोकम् इति तत्रैव विशेषितत्वात्, यशोऽहं भवामि ब्राह्मणानाम् इति सर्वात्म-भावाभिसन्धानाच् च॥१३॥
Link copied५२२ अप्रतीकालम्बनान् नयतीति बादरायण उभयधा च दोषात् तत्-क्रतुश् च॥४।३।१४॥
Link copiedकार्यम् उपासीनानेवेति नायं नियमः, परम् एवोपासीनान् इत्य् अयम् अपि नियमो न सम्भवति। कुतः। उभयथा च दोषात्--- कार्यम् उपासीनान् एवेति नियमे, अस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इत्य् आदिकाः श्रुतयः, ये चेमेऽरण्ये श्रद्धा तपः, इति च प्रकुप्येयुः; परम् एति नियमे, तद् य इत्थं विदुः, इति प्रकुप्येत्। तस्माद् अप्रतीकालम्बनान् नयतीति भगवान् बादरायणो मन्यते। प्रतीकालम्बनास् तु--- अचिन्-मिश्रम्, केवलम् अचिद्-वस्तु च "सिंहो देवदत्तः" इतिवत् ब्रह्म-दृष्ट्या स्वरूपेण वा तद् वस्तु य उपासते, ते; अप्रतीकालम्बनाः--- तद्-व्यतिरिक्ताः। सर्व-ज्ञं सर्व-कारणं सत्य-सङ्कल्पं निखिल-हेय-प्रत्यनीकानवधिकातिशयानन्द-स्वरूपं ब्रह्मोपासते ये ये च प्रत्यगात्मनं भूत-सूक्ष्मैः सम्परिष्वक्तं सर्वत्र वर्तमानं भूत-सूक्ष्म-व्यतिरिक्तं ज्ञानक-स्वरूपं नित्यं निर्विकारं, य आत्मनि तिष्ठन्न् इत्य् आदिनावगत-ब्रह्मात्म-भावं पञ्चाग्नि-विद्योदितम् उपासते, तान् उभय-विधान् नयति, तद् य इत्थं विदुर् ये चेमेऽरण्ये इत्य् उभय-विषय-श्रुतेः। तत्-क्रतुश् च--- यथाक्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति, इत्य् उभयेषाम् एवापुनर्-आवृत्तिः सम्भवति। अचिन्-मिश्रं केवलम् अचिद्-वस्तु चोपासीनानां तत्-क्रतु-न्यायाद् एव पुनर्-आवृत्तिर् अवर्जनीया॥१४॥
Link copied५२३ विशेषं च दर्शयति॥४।३।१५॥
Link copiedप्रतीकाद्य्-उक्त-लक्षणम् अचिन्-मिश्रं केवलम् अचिद्-वस्तु चोपासीनानां सर्वेषां गत्य्-अनपेक्षं परिमित-फल-विशेषं च दर्शयति श्रुतिः--- यावन्न् आम्नो गतं तत्रास्य यथाकाम-चारो भवति, इत्य् आदिका। अतः--- ब्रह्मणा सह ते सर्वे इति वचनं नार्चिर्-आदिना गतानां गति-प्रकार-विषयम्; अर्चिरादिना गतानां देहावसान-समय एव सुकृत-दुष्कृतयोर् हानाद् धिरण्यगर्भ-लोकावाप्ति-तद्-वास-तत्र-स्थ-भोगानुभव-हेत्व्-अभावात्, तत्-क्रतु-न्याय-विरोधात्, तदानीम् एव ब्रह्म-प्राप्ति-श्रुति-विरोधाच् च। ब्रह्मणा सह ते सर्वे इति वचनं तु पुण्य-कर्म-विशेषेण हिरण्यगर्भ-लोकं प्राप्तानां, तद्-उपर्य् अपि बादरायणः, इति न्यायेन तत्रैव निष्पन्न-विद्यानां गति-प्रकार-विषयम्। ते ब्रह्म-लोके, इति तु ब्रह्म-लोक-शब्दस्य कर्मधारय-वृत्त्या ब्रह्म-विषयत्वाद् ब्रह्मण्य् उपास्ये वर्तमानाः परान्त-काले चरम-देहावसान-समये परामृतात्--- परस्माद् ब्रह्मण उपासन-प्रीताद् धेतोः, परिमुच्यन्ति सर्वे सर्वस्माद् बन्धाद् विमुच्यन्त इति, वेदान्त-विज्ञान-सुनिश्चितार्थाः, इति प्रकरणाद् अवगम्यते। तद् य इत्थं विदुर् इति पञ्चाग्नि-विदां ब्रह्म-प्राप्त्य्-अपुनर्-आवृत्ति-श्रवणात् तत्-क्रतु-न्यायेनाचिद्-वियुक्त-ब्रह्मात्मकात्मक-स्वरूपोपासनं विवक्षितम् इति निश्चीयते तथैव तत्र श्रुतिर् अपि, इति तु पञ्चम्याम् आहुतावापः पुरुष-वचसो भवन्ति, इति, रमणीय-चरणाः इति च कर्म-हेतुक-मनुष्यादि-भावोऽपाम् एव भूतान्तर-संसृष्टानाम् इति चिद्-अचिद्-विवेकं प्रतिपाद्य, तद् य इत्थं विदुः, इति भूत-सूक्ष्म-व्यतिरिक्तात्म-स्वरूपोपासनम् एव विदधाति॥१५॥ इति कार्याधिकरणम्॥५॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य तृतीयः पादः॥
Link copied౫౦౯ అర్చిర్-ఆదినా తత్-ప్రథితేః॥౪।౩।౧॥
Link copiedకిం విద్వాన్ అర్చిర్-ఆదినైకేన మార్గేణ గచ్ఛతి, ఉత తేన వాన్యేన వేత్య్ అనియమ ఇతి సంశయః। తద్-అర్థం పరీక్ష్యతే--- కిం సర్వాసు శ్రుతిష్వ్-అర్చిర్-ఆదిర్ ఏక ఏవ మార్గ ఆమ్నాయతే, ఉత తత్ర తత్రాన్య ఇతి। యదాచిర్-ఆదిర్ ఏక ఏవ సర్వత్రోక్తస్ తదా తేనైవ గచ్ఛతి। యదా తత్ర తత్రామ్నాతా అన్యే, తదాన్యైర్ వానేన వేత్య్ అనియమ ఇతి। ఛాన్దోగ్య-వాజసనేయకాదిషు నానా-విధాః గతి-ప్రకారాః శ్రూయన్తే। ఛాన్దోగ్యే--- యథా పుష్కర-పలాశ ఆపో న శ్లిప్యన్తే ఇత్య్ ఉపక్రమ్య, సర్వాణి \॥॥నయతి, సర్వేషు లోకేషు భాతి య ఏవం వేద, అథ యద్ ఉ చైవాస్మిఞ్ ఛవ్యం కుర్వన్తి యద్ ఉ చ నార్చిషమ్ ఏవాభిసమ్భవన్త్య్ అర్చిషోఽహర్ అహ్న ఆపూర్యమాణ-పక్షమ్ ఆపూర్యమాణ-పక్షాద్యాన్ షడ్ ఉదఙ్ఙ్ ఏతి మాసాంస్ తాన్ మాసేభ్యః సంవత్సరం సంవత్సరాద్ ఆదిత్యమ్ ఆదిత్యాచ్ చన్ద్రమసం చన్ద్రమసో విద్యుతం తత్-పురుషోఽమానవస్య ఏనాన్ బ్రహ్మ గమయత్య్ ఏష దేవ-పథో బ్రహ్మ-పథ ఏతేన ప్రతిపద్యమానా ఇమం మానవమ్ ఆవర్తం నావర్తన్తే ఇతి। బృహదారణ్యకే--- య ఏవమ్ ఏతద్ విదుర్ యే చామీ అరణ్యే శ్రద్ధాం సత్యమ్ ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్త్య్ అర్చిషోఽహర్ అహ్న ఆపూర్యమాణ-పక్షమ్ ఆపూర్యమాణ-పక్షాద్యాన్ షణ్ మాసాన్ ఉదఙ్ఙ్ ఆదిత్య ఏతి మాసేభ్యో దేవ-లోకం దేవ-లోకాద్ ఆదిత్యమ్ ఆదిత్యాద్ వైద్యుతం వైద్యుతాత్ పురుషోఽమానవః స ఏత్య బ్రహ్మ-లోకాన్ గమయతి, ఇతి। తత్రైవాన్యథా--- యదా వై పురుషోఽస్మాల్ లోకాత్ ప్రేతి స వాయు-లోకమ్ ఆగచ్ఛతి తస్మై స తత్ర విజిహీతే యథా రథ-చక్రస్య ఖం తేన స ఊర్ధ్వమ్ ఆక్రమతే స ఆదిత్యమ్ ఆగచ్ఛతి తస్మై స తత్ర విజిహీతే యథాడమ్బరస్య ఖం తేన స ఊర్ధ్వమ్ ఆక్రమతే స చన్ద్రమసమ్ ఆగచ్ఛతి తస్మై స తత్ర విజిహీతే యథా దున్దుభేః ఖమ్ ఇత్య్ ఆదిషు। తేషాం బ్రహ్మ-ప్రాప్తౌ నైరపేక్ష్య-శ్రవణాత్ తైర్ వార్చిర్-ఆదినా వేతి వికల్ప ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- సర్వత్రార్చిర్-ఆద్య్-అన్తర్భూతాదిత్యాదీనాం దర్శనాత్ స ఏవేతి ప్రత్యభిజ్ఞానాత్, అన్యత్రోక్తానామ్ అన్యత్రోపసంహారాచ్ చ, సర్వత్రార్చిర్-ఆదిర్ ఏక ఏవ మార్గ ఇతి తేనైవ గచ్ఛతి విద్వాన్। సూత్రార్థస్ తు--- అర్చిర్-ఆదినైవ గచ్ఛతి విద్వాన్। కుతః। తత్-ప్రథితేః। ప్రథితిః--- ప్రసిద్ధిః; సర్వత్ర తత్-ప్రత్యభిజ్ఞానాద్ ఇత్య్ అర్థః॥౧॥ ఇత్య్ అర్చిర్-ఆద్య్-అధికరణమ్॥౧॥
Link copied౫౧౦ వాయుమ్ అబ్దాద్ అవిశేష-విశేషాభ్యామ్॥౪।౩।౨॥
Link copiedతేఽర్చిషమ్ అభిసమ్భవన్త్య్ అర్చిషోఽహర్ అహ్నః, ఇత్య్ ఆరభ్య, మాసేభ్యః సంవత్సరం సంవత్సరాద్ ఆదిత్యమ్ ఇతి ఛాన్దోగ్యే శ్రుతమ్। తత్ర సంవత్సరాదిత్యయోర్ మధ్యే దేవ-లోకో వాయుశ్ చ శ్రుతౌ శ్రుత్య్-అన్తరే। ద్వయోః ప్రకరణయోః కిం దేవ-లోకో వాయుశ్ చార్థాన్తర-భూతౌ, ఉత వాయుర్ ఏక ఏవేతి సంశయః। శబ్ద-భేదాదర్థాన్తర-భూతావ్ ఇతి పూర్వః పక్షః। అర్థాన్తరత్వే సతి, దేవ-లోకాద్ ఆదిత్యమ్ ఇతి దేవ-లోకస్య, తేన స ఊర్ధ్వమ్ ఆక్రమతే స ఆదిత్యమ్ ఇతి వాయోశ్ చాదిత్యాత్ పూర్వత్వేన శ్రౌత-క్రమ-నిర్దిష్టత్వాద్ దేవ-లోక-వాయూ యథేష్ట-క్రమేణ నివేశయితన్యౌ।
Link copiedరాద్ధాన్తస్ తు--- వాయుర్ ఏవ దేవ-లోక-శబ్దేన నిర్దిష్ట ఇతి తస్మాద్ అనన్యః। దేవానాం లోక ఇతి హి దేవ-లోకః, దేవానాం వాసస్థానమ్ ఇత్య్ అవిశేషేణ నిర్దిష్టమ్। యోఽయం పవత ఏష ఏవ దేవానాం గృహాః, ఇతి వాయోర్ విశేషేణ దేవానాం వాసస్థానత్వేన శ్రుతత్వాద్ అవిశేష-నిర్దిష్టో దేవ-లోకో వాయుర్ ఏవేతి నిశ్చీయత ఇతి। సంవత్సరాద్ ఊర్ధ్వం వాయుర్ వాయోర్ ఆదిత్య ఇతి క్రమశ్ చ స్యాత్॥
Link copiedసూత్రార్థస్ తు--- అబ్దాత్--- సంవత్సరాద్ ఊర్ధ్వమ్ ఆదిత్యాత్ పూర్వం వాయుమ్ ఏకమ్ ఏవ నివేశయేత్, దేవ-లోక-వాయు-శబ్దాభ్యామ్ అవిశేష-విశేషాభ్యాం వాయోర్ ఏకస్యైవ నిర్దిష్టత్వాత్। దేవానాం వాసస్థానమ్ ఇత్య్ అవిశేషేణ హి దేవ-లోక-శబ్దో వాయు-దేవానామ్ ఆవాస-స్థాన-భూతమ్ అభిదధాతి, వాయు-శబ్దస్ తమ్ ఏవ విశేషేణేతి ద్వయోః ప్రకరణ-ద్వయ-విహితయోర్ ఏకత్వాద్ ఇత్య్ అర్థః॥౨॥ ఇతి వాయ్వ్-అధికరణమ్॥౨॥
Link copied౫౧౧ తటితోఽధి వరుణః సమ్బన్ధాత్॥౪।౩।౩॥
Link copiedఛాన్దోగ్య-వాజసనేయక-కౌషీతకీ-ప్రభృతిష్వ్ ఆమ్నాతస్యార్చిర్-ఆది-మార్గస్యార్చిర్ అహర్ ఆపూర్యమాణ-పక్షోత్తరాయణ-సంవత్సర-వాయ్వ్-ఆదిత్య-చన్ద్ర-విద్యుద్-వరుణేన్ద్ర-ప్రజాపతి-రూపస్యోపసంహారే వాయు-పర్యన్తస్య శ్రుత్యాదిభిః క్రమ-ప్రకార ఉక్తః। వరుణేన్ద్ర-ప్రజాపతీనాం కిం విద్యుత ఉపరి నివేశః, ఉత వాయోర్ ఉపరీతి సంశయః। స వాయు-లోకం స వరుణ-లోకమ్ ఇతి కౌషీతకీ-పాఠ-క్రమేణ వాయోర్ ఉపరి వరుణస్య నివేశః। ఇన్ద్రాదేర్ అపి వరుణ-నివేశాయ వాయ్వ్-ఆదిత్యయోః క్రమస్య బాధితత్వాత్ తత్రైవ వరుణోపరీతి పూర్వః పక్షః।
Link copiedరాద్ధాన్తస్ తు--- విద్యుతో మేధోదర-వర్తిత్వేన విద్యుద్-వరుణయోర్ లోకే వేదే చ సమ్బన్ధావగమాత్ పాఠ-క్రమాద్ అర్థ-క్రమస్య బలీయస్త్వేన వరుణస్య విద్యుత ఉపరి నివేశః కార్యః। ఇన్ద్రాదేర్ అపి వరుణ-నివేశాయ విద్యుతో వ్యవధాన-సహత్వ-దర్శనాద్ వరుణోపరి నివేశః। సూత్రం చ వ్యాఖ్యాతమ్॥౩॥ ఇతి వరుణాధికరణమ్॥౩॥
Link copied౫౧౨ ఆతివాహికాస్ తల్-లిఙ్గాత్॥౪।౩।౪॥
Link copiedకిమ్ అర్చిర్-ఆదయో విదుషో బ్రహ్మ-ప్రేప్సోర్ మార్గ-చిహ్న-భూతాః, ఉత గమయితార ఇతి సంశయః। అముకం వృక్షమ్ అముకాం నదీమ్ అముకం పర్వత-పార్శ్వం గత్వాముకం గ్రామం గచ్ఛ, ఇత్య్ ఆది దేశికోపదేశ-ప్రకార-దర్శనాన్ మార్గ-చిహ్న-భూతాః, ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- స ఏనాన్ బ్రహ్మ గమయతి, ఇతి వైద్యుత-పురుషస్య గమయితృత్వ-దర్శనాద్ ఇతరేషాం చావిశేష-నిర్దిష్టానాం స ఏవ సమ్బన్ధ ఇతి నిశ్చీయతే। అగ్ని-లోకమ్ ఇత్య్ ఆది లోక-శబ్దోఽపి మధ్యే భోగాభావాద్ గమయితృత్వ ఏవోపపద్యతే। సూత్రార్థస్ తు--- ఆతివాహికాః--- విదుషామ్ అతివాహే పరమ-పురుషేణ నియుక్తాః, అర్చిర్-ఆద్య్-అభిమాని-దేవతా-విశేషాః గమయితార ఇత్య్ అర్థః। స ఏనాన్ బ్రహ్మ గమయతీతి లిఙ్గాత్॥౪॥
Link copied౫౧౩ వైద్యుతేనైవ తతస్ తచ్-ఛ్రుతేః॥౪।౩।౫॥
Link copiedతతః--- విద్యుత ఉపరి, వైద్యుతేన విదుషో గమనమ్, తచ్-ఛ్రుతేః--- స ఏనాన్ బ్రహ్మ గమయతీతి తస్యైవ శ్రుతేః। వరుణాదీనాం తద్-అనుగ్రాహకత్వేన గమయితృత్వమ్ ఇతి నిశ్చీయత ఇత్య్ అర్థః॥౫॥
Link copiedఇత్య్ ఆతివాహికాధికరణమ్॥౪॥
Link copied౫౧౪ కార్యం బాదరిర్ అస్య గత్య్-ఉపపత్తేః॥౪।౩।౬॥
Link copiedకిమ్ అర్చిర్-ఆదికో గణః కార్యం హిరణ్యగర్భమ్ ఉపాసీనాన్ నయతి, ఉత పరం బ్రహ్మోపాసీనాన్, అథ పరం బ్రహ్మోపాసీనాన్ ప్రత్యగాత్మానం బ్రహ్మాత్మకతయోపాసీనాంశ్ చేతి సంశయః। కార్యం--- హిరణ్యగర్భమ్ ఉపాసీనాన్ ఇతి పూర్వః పక్షః, తేషామ్ ఏవ గత్య్-ఉపపత్తేః। న హి పరిపూర్ణం సర్వ-గతం పరం బ్రహ్మోపాసీనానాం తత్-ప్రాప్తయే గతిర్ ఉపపద్యతే, నిత్య-ప్రాప్తత్వాత్। అవిద్యా-నివృత్తిర్ ఏవ హి కార్యా। పరమ్ ఏవోపాసీనాన్ ఇత్య్ అపరః పక్షః, స ఏనాన్ బ్రహ్మ గమయతీతి బ్రహ్మ-శబ్దస్య తత్రైవ ముఖ్యత్వాత్। అవిద్యా-నివృత్తేః ఫలాభిసన్ధి-రహిత-యజ్ఞాద్య్-అపేక్షావత్ శ్రవణాద్య్-అపేక్షావచ్ చ గతి-శ్రుత్యా దేశ-విశేషాపేక్షా చ విద్యత ఇతి నిశ్చీయతే। రాద్ధాన్తస్ తు--- పరమ్ ఉపాసీనాన్ అన్యాన్ అపి నయతి, తద్ య ఇత్థం విదుర్ యే చేమేఽరణ్యే శ్రద్ధా తప ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్తి, ఇతి పఞ్చాగ్ని-విదాం పరం బ్రహ్మోపాసీనానాం చార్చిర్-ఆది-గతి-శ్రుతేః। పఞ్చాగ్ని-విదో హి ప్రకృతి-విముక్త-బ్రహ్మాత్మకాత్మ-స్వరూప-విదః। తే చ తత్ ప్రాప్య పునర్ న నివర్తన్తే। పరం బ్రహ్మోపాసీనాస్ తు యథావస్థితం పరిపూర్ణం పరం బ్రహ్మైవ ప్రాప్య పునర్ న నివర్తన్తే। తద్ య ఇత్థం విదుర్ యే చేమేఽరణ్యే శ్రద్ధా తప ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్తి * ఇత్య్ ఉభయ-విధాన్ భేదేనోపాదాయార్చిర్-ఆది-గతి-శ్రుతేర్ అపునర్-ఆవృత్తి-శ్రుతేశ్ చైవమ్ ఇతి నిశ్చీయతే॥
Link copiedసూత్రార్థస్ తు--- కార్యం--- హిరణ్యగర్భమ్ ఉపాసీనమ్ ఆతివాహికో గణో నయతీతి బాదరిర్ ఆచార్యో మన్యతే, అస్యైవ గత్య్-ఉపపత్తేః। పరమ్ ఉపాసీనస్య హి న తత్-ప్రాప్తయే గతిర్ ఉపపద్యతే, సర్వ-గతత్వాత్ పరస్య బ్రహ్మణః॥౬॥
Link copied౫౧౫ విశేషితత్వాచ్ చ॥౪।౩।౭॥
Link copiedపురుషోఽమానవ ఏత్య బ్రహ్మ-లోకాన్ గమయతి, ఇతి, ప్రజాపతేః సభాం వేశ్మ ప్రపద్యే ఇతి చ ప్రాప్య-స్థానస్య విశేషితత్వాచ్ చ హిరణ్యగర్భమ్ ఉపాసీనమ్ ఏవ నయతి॥౭॥
Link copied౫౧౬ సామీప్యాత్ తు తద్-వ్యపదేశః॥౪।౩।౮॥
Link copiedఏవం నిశ్చితే సతి, స ఏనాన్ బ్రహ్మ గమయతీతి హిరణ్యగర్భస్య బ్రహ్మ-శబ్ద-వ్యపదేశో బ్రహ్మ-సామీప్యాత్। యో బ్రహ్మాణం విదధాతి పూర్వమ్ ఇతి ప్రథమజత్వేన బ్రహ్మ-సామీప్యం హి విద్యతే॥౮॥
Link copied౫౧౭ కార్యాత్యయే తద్-అధ్యక్షేణ సహాతః పరమ్ అభిధానాత్॥౪।౩।౯॥
Link copiedహిరణ్యగర్భ-ప్రాప్తావ్ అప్య్ అపునర్-ఆవృత్తిర్ ఉపపద్యతే। కార్యస్య--- హిరణ్యగర్భ-లోకస్యాత్యయే, తద్-అధ్యక్షేణ--- హిరణ్యగర్భేణాధికారిక-పురుషేణ విదుషా సహ పర-ప్రాప్త్య్-అభిధానాత్, తే బ్రహ్మ-లోకే తు పరాన్త-కాలే పరామృతాత్ పరిముచ్యన్తి సర్వే ఇతి॥౯॥
Link copied౫౧౮ స్మృతేశ్ చ॥౪।౩।౧౦॥
Link copiedబ్రహ్మణా సహ తే సర్వే సమ్ప్రాప్తే ప్రతిసఞ్చరే। పరస్యాన్తే కృతాత్మానః ప్రవిశన్తి పరం పదమ్॥ ఇతి స్మృతేశ్ చావగమ్యతే॥౧౦॥
Link copied౫౧౯ పరం జైమిని-ముఖ్యత్వాత్॥౪।౩।౧౧॥
Link copiedపరం బ్రహ్మోపాసీనమ్ ఏవ నయత్య్ ఆతివాహికో గణ ఇతి జైమినిర్ ఆచార్యో మన్యతే, బ్రహ్మ గమయతీతి బ్రహ్మ-శబ్దస్య తత్రైవ ముఖ్యత్వాత్। బ్రహ్మ-లోకాన్ ఇతి శబ్దశ్ చ బ్రహ్మైవ లోకో బ్రహ్మ-లోక ఇతి కర్మధారయ-పరిగ్రహస్యైవ న్యాయ్యత్వాద్ ఉపపద్యతే। ఏవం నిశ్చితే సతి బహువచనం చ, అదితిః పాశాన్ ఇతివద్ ఉపపన్నమ్॥౧౧॥
Link copied౫౨౦ దర్శనాచ్ చ॥౪।౩।౧౨॥
Link copiedఅస్మాచ్ ఛరీరాత్ సముత్థాయ పరం జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే, ఇత్య్ అర్చిర్-ఆదినా గతస్య పరబ్రహ్మ-ప్రాప్తిం దర్శయతి చ॥౧౨॥
Link copied౫౨౧ న చ కార్యే ప్రత్యభిసన్ధిః॥౪।౩।౧౩॥
Link copiedప్రజాపతేః సభాం వేశ్మ ప్రపద్యే ఇతి ప్రత్యభిసన్ధిశ్ చ న కార్యే, ధూత్వా శరీరమ్ అకృతం కృతాత్మా బ్రహ్మ-లోకమ్ అభిసమ్భవామి, ఇత్య్ అకృతం బ్రహ్మ-లోకమ్ ఇతి తత్రైవ విశేషితత్వాత్, యశోఽహం భవామి బ్రాహ్మణానామ్ ఇతి సర్వాత్మ-భావాభిసన్ధానాచ్ చ॥౧౩॥
Link copied౫౨౨ అప్రతీకాలమ్బనాన్ నయతీతి బాదరాయణ ఉభయధా చ దోషాత్ తత్-క్రతుశ్ చ॥౪।౩।౧౪॥
Link copiedకార్యమ్ ఉపాసీనానేవేతి నాయం నియమః, పరమ్ ఏవోపాసీనాన్ ఇత్య్ అయమ్ అపి నియమో న సమ్భవతి। కుతః। ఉభయథా చ దోషాత్--- కార్యమ్ ఉపాసీనాన్ ఏవేతి నియమే, అస్మాచ్ ఛరీరాత్ సముత్థాయ పరం జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే ఇత్య్ ఆదికాః శ్రుతయః, యే చేమేఽరణ్యే శ్రద్ధా తపః, ఇతి చ ప్రకుప్యేయుః; పరమ్ ఏతి నియమే, తద్ య ఇత్థం విదుః, ఇతి ప్రకుప్యేత్। తస్మాద్ అప్రతీకాలమ్బనాన్ నయతీతి భగవాన్ బాదరాయణో మన్యతే। ప్రతీకాలమ్బనాస్ తు--- అచిన్-మిశ్రమ్, కేవలమ్ అచిద్-వస్తు చ "సింహో దేవదత్తః" ఇతివత్ బ్రహ్మ-దృష్ట్యా స్వరూపేణ వా తద్ వస్తు య ఉపాసతే, తే; అప్రతీకాలమ్బనాః--- తద్-వ్యతిరిక్తాః। సర్వ-జ్ఞం సర్వ-కారణం సత్య-సఙ్కల్పం నిఖిల-హేయ-ప్రత్యనీకానవధికాతిశయానన్ద-స్వరూపం బ్రహ్మోపాసతే యే యే చ ప్రత్యగాత్మనం భూత-సూక్ష్మైః సమ్పరిష్వక్తం సర్వత్ర వర్తమానం భూత-సూక్ష్మ-వ్యతిరిక్తం జ్ఞానక-స్వరూపం నిత్యం నిర్వికారం, య ఆత్మని తిష్ఠన్న్ ఇత్య్ ఆదినావగత-బ్రహ్మాత్మ-భావం పఞ్చాగ్ని-విద్యోదితమ్ ఉపాసతే, తాన్ ఉభయ-విధాన్ నయతి, తద్ య ఇత్థం విదుర్ యే చేమేఽరణ్యే ఇత్య్ ఉభయ-విషయ-శ్రుతేః। తత్-క్రతుశ్ చ--- యథాక్రతుర్ అస్మింల్ లోకే పురుషో భవతి తథేతః ప్రేత్య భవతి, ఇత్య్ ఉభయేషామ్ ఏవాపునర్-ఆవృత్తిః సమ్భవతి। అచిన్-మిశ్రం కేవలమ్ అచిద్-వస్తు చోపాసీనానాం తత్-క్రతు-న్యాయాద్ ఏవ పునర్-ఆవృత్తిర్ అవర్జనీయా॥౧౪॥
Link copied౫౨౩ విశేషం చ దర్శయతి॥౪।౩।౧౫॥
Link copiedప్రతీకాద్య్-ఉక్త-లక్షణమ్ అచిన్-మిశ్రం కేవలమ్ అచిద్-వస్తు చోపాసీనానాం సర్వేషాం గత్య్-అనపేక్షం పరిమిత-ఫల-విశేషం చ దర్శయతి శ్రుతిః--- యావన్న్ ఆమ్నో గతం తత్రాస్య యథాకామ-చారో భవతి, ఇత్య్ ఆదికా। అతః--- బ్రహ్మణా సహ తే సర్వే ఇతి వచనం నార్చిర్-ఆదినా గతానాం గతి-ప్రకార-విషయమ్; అర్చిరాదినా గతానాం దేహావసాన-సమయ ఏవ సుకృత-దుష్కృతయోర్ హానాద్ ధిరణ్యగర్భ-లోకావాప్తి-తద్-వాస-తత్ర-స్థ-భోగానుభవ-హేత్వ్-అభావాత్, తత్-క్రతు-న్యాయ-విరోధాత్, తదానీమ్ ఏవ బ్రహ్మ-ప్రాప్తి-శ్రుతి-విరోధాచ్ చ। బ్రహ్మణా సహ తే సర్వే ఇతి వచనం తు పుణ్య-కర్మ-విశేషేణ హిరణ్యగర్భ-లోకం ప్రాప్తానాం, తద్-ఉపర్య్ అపి బాదరాయణః, ఇతి న్యాయేన తత్రైవ నిష్పన్న-విద్యానాం గతి-ప్రకార-విషయమ్। తే బ్రహ్మ-లోకే, ఇతి తు బ్రహ్మ-లోక-శబ్దస్య కర్మధారయ-వృత్త్యా బ్రహ్మ-విషయత్వాద్ బ్రహ్మణ్య్ ఉపాస్యే వర్తమానాః పరాన్త-కాలే చరమ-దేహావసాన-సమయే పరామృతాత్--- పరస్మాద్ బ్రహ్మణ ఉపాసన-ప్రీతాద్ ధేతోః, పరిముచ్యన్తి సర్వే సర్వస్మాద్ బన్ధాద్ విముచ్యన్త ఇతి, వేదాన్త-విజ్ఞాన-సునిశ్చితార్థాః, ఇతి ప్రకరణాద్ అవగమ్యతే। తద్ య ఇత్థం విదుర్ ఇతి పఞ్చాగ్ని-విదాం బ్రహ్మ-ప్రాప్త్య్-అపునర్-ఆవృత్తి-శ్రవణాత్ తత్-క్రతు-న్యాయేనాచిద్-వియుక్త-బ్రహ్మాత్మకాత్మక-స్వరూపోపాసనం వివక్షితమ్ ఇతి నిశ్చీయతే తథైవ తత్ర శ్రుతిర్ అపి, ఇతి తు పఞ్చమ్యామ్ ఆహుతావాపః పురుష-వచసో భవన్తి, ఇతి, రమణీయ-చరణాః ఇతి చ కర్మ-హేతుక-మనుష్యాది-భావోఽపామ్ ఏవ భూతాన్తర-సంసృష్టానామ్ ఇతి చిద్-అచిద్-వివేకం ప్రతిపాద్య, తద్ య ఇత్థం విదుః, ఇతి భూత-సూక్ష్మ-వ్యతిరిక్తాత్మ-స్వరూపోపాసనమ్ ఏవ విదధాతి॥౧౫॥ ఇతి కార్యాధికరణమ్॥౫॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే చతుర్థస్యాధ్యాయస్య తృతీయః పాదః॥
Link copied509 archir a:dina: thath prathithe:h||4|3|1||
Link copiedkim vidva:n archir a:dinaike:na ma:rge:na gachchhathi, utha the:na va:nye:na ve:thy aniyama ithi samsayah| thad artham pari:kshyathe:--- kim sarva:su sruthishv archir a:dir e:ka e:va ma:rga a:mna:yathe:, utha thathra thathra:nya ithi| yada:chir a:dir e:ka e:va sarvathro:kthas thada: the:naiva gachchhathi| yada: thathra thathra:mna:tha: anye:, thada:nyair va:ne:na ve:thy aniyama ithi| chha:ndo:gya va:jasane:yaka:dishu na:na: vidha:h gathi praka:ra:h sru:yanthe:| chha:ndo:gye:--- yatha: pushkara pala:sa a:po: na slipyanthe: ithy upakramya, sarva:ni ....nayathi, sarve:shu lo:ke:shu bha:thi ya e:vam ve:da, atha yad u chaiva:smin chhavyam kurvanthi yad u cha na:rchisham e:va:bhisambhavanthy archisho:'har ahna a:pu:ryama:na paksham a:pu:ryama:na paksha:dya:n shad udann e:thi ma:sa:ms tha:n ma:se:bhyah samvathsaram samvathsara:d a:dithyam a:dithya:ch chandramasam chandramaso: vidyutham thath purusho:'ma:navasya e:na:n brahma gamayathy e:sha de:va patho: brahma patha e:the:na prathipadyama:na: imam ma:navam a:vartham na:varthanthe: ithi| bruhada:ranyake:--- ya e:vam e:thad vidur ye: cha:mi: aranye: sraddha:m sathyam ithy upa:sathe: the:'rchisham abhisambhavanthy archisho:'har ahna a:pu:ryama:na paksham a:pu:ryama:na paksha:dya:n shan ma:sa:n udann a:dithya e:thi ma:se:bhyo: de:va lo:kam de:va lo:ka:d a:dithyam a:dithya:d vaidyutham vaidyutha:th purusho:'ma:navah sa e:thya brahma lo:ka:n gamayathi, ithi| thathraiva:nyatha:--- yada: vai purusho:'sma:l lo:ka:th pre:thi sa va:yu lo:kam a:gachchhathi thasmai sa thathra vijihi:the: yatha: ratha chakrasya kham the:na sa u:rdhvam a:kramathe: sa a:dithyam a:gachchhathi thasmai sa thathra vijihi:the: yatha:dambarasya kham the:na sa u:rdhvam a:kramathe: sa chandramasam a:gachchhathi thasmai sa thathra vijihi:the: yatha: dundubhe:h kham ithy a:dishu| the:sha:m brahma pra:pthau nairape:kshya sravana:th thair va:rchir a:dina: ve:thi vikalpa ithi pu:rvah pakshah| ra:ddha:nthas thu--- sarvathra:rchir a:dy antharbhu:tha:dithya:di:na:m darsana:th sa e:ve:thi prathyabhijna:na:th, anyathro:ktha:na:m anyathro:pasamha:ra:ch cha, sarvathra:rchir a:dir e:ka e:va ma:rga ithi the:naiva gachchhathi vidva:n| su:thra:rthas thu--- archir a:dinaiva gachchhathi vidva:n| kuthah| thath prathithe:h| prathithih--- prasiddhih; sarvathra thath prathyabhijna:na:d ithy arthah||1|| ithy archir a:dy adhikaranam||1||
Link copied510 va:yum abda:d avise:sha vise:sha:bhya:m||4|3|2||
Link copiedthe:'rchisham abhisambhavanthy archisho:'har ahnah, ithy a:rabhya, ma:se:bhyah samvathsaram samvathsara:d a:dithyam ithi chha:ndo:gye: srutham| thathra samvathsara:dithyayo:r madhye: de:va lo:ko: va:yus cha sruthau sruthy anthare:| dvayo:h prakaranayo:h kim de:va lo:ko: va:yus cha:rtha:nthara bhu:thau, utha va:yur e:ka e:ve:thi samsayah| sabda bhe:da:dartha:nthara bhu:tha:v ithi pu:rvah pakshah| artha:ntharathve: sathi, de:va lo:ka:d a:dithyam ithi de:va lo:kasya, the:na sa u:rdhvam a:kramathe: sa a:dithyam ithi va:yo:s cha:dithya:th pu:rvathve:na srautha krama nirdishtathva:d de:va lo:ka va:yu: yathe:shta krame:na nive:sayithanyau|
Link copiedra:ddha:nthas thu--- va:yur e:va de:va lo:ka sabde:na nirdishta ithi thasma:d ananyah| de:va:na:m lo:ka ithi hi de:va lo:kah, de:va:na:m va:sastha:nam ithy avise:she:na nirdishtam| yo:'yam pavatha e:sha e:va de:va:na:m gruha:h, ithi va:yo:r vise:she:na de:va:na:m va:sastha:nathve:na sruthathva:d avise:sha nirdishto: de:va lo:ko: va:yur e:ve:thi nischi:yatha ithi| samvathsara:d u:rdhvam va:yur va:yo:r a:dithya ithi kramas cha sya:th||
Link copiedsu:thra:rthas thu--- abda:th--- samvathsara:d u:rdhvam a:dithya:th pu:rvam va:yum e:kam e:va nive:saye:th, de:va lo:ka va:yu sabda:bhya:m avise:sha vise:sha:bhya:m va:yo:r e:kasyaiva nirdishtathva:th| de:va:na:m va:sastha:nam ithy avise:she:na hi de:va lo:ka sabdo: va:yu de:va:na:m a:va:sa stha:na bhu:tham abhidadha:thi, va:yu sabdas tham e:va vise:she:ne:thi dvayo:h prakarana dvaya vihithayo:r e:kathva:d ithy arthah||2|| ithi va:yv adhikaranam||2||
Link copied511 thatitho:'dhi varunah sambandha:th||4|3|3||
Link copiedchha:ndo:gya va:jasane:yaka kaushi:thaki: prabhruthishv a:mna:thasya:rchir a:di ma:rgasya:rchir ahar a:pu:ryama:na paksho:ththara:yana samvathsara va:yv a:dithya chandra vidyud varune:ndra praja:pathi ru:pasyo:pasamha:re: va:yu paryanthasya sruthya:dibhih krama praka:ra ukthah| varune:ndra praja:pathi:na:m kim vidyutha upari nive:sah, utha va:yo:r upari:thi samsayah| sa va:yu lo:kam sa varuna lo:kam ithi kaushi:thaki: pa:tha krame:na va:yo:r upari varunasya nive:sah| indra:de:r api varuna nive:sa:ya va:yv a:dithyayo:h kramasya ba:dhithathva:th thathraiva varuno:pari:thi pu:rvah pakshah|
Link copiedra:ddha:nthas thu--- vidyutho: me:dho:dara varthithve:na vidyud varunayo:r lo:ke: ve:de: cha sambandha:vagama:th pa:tha krama:d artha kramasya bali:yasthve:na varunasya vidyutha upari nive:sah ka:ryah| indra:de:r api varuna nive:sa:ya vidyutho: vyavadha:na sahathva darsana:d varuno:pari nive:sah| su:thram cha vya:khya:tham||3|| ithi varuna:dhikaranam||3||
Link copied512 a:thiva:hika:s thal linga:th||4|3|4||
Link copiedkim archir a:dayo: vidusho: brahma pre:pso:r ma:rga chihna bhu:tha:h, utha gamayitha:ra ithi samsayah| amukam vruksham amuka:m nadi:m amukam parvatha pa:rsvam gathva:mukam gra:mam gachchha, ithy a:di de:siko:pade:sa praka:ra darsana:n ma:rga chihna bhu:tha:h, ithi pu:rvah pakshah| ra:ddha:nthas thu--- sa e:na:n brahma gamayathi, ithi vaidyutha purushasya gamayithruthva darsana:d ithare:sha:m cha:vise:sha nirdishta:na:m sa e:va sambandha ithi nischi:yathe:| agni lo:kam ithy a:di lo:ka sabdo:'pi madhye: bho:ga:bha:va:d gamayithruthva e:vo:papadyathe:| su:thra:rthas thu--- a:thiva:hika:h--- vidusha:m athiva:he: parama purushe:na niyuktha:h, archir a:dy abhima:ni de:vatha: vise:sha:h gamayitha:ra ithy arthah| sa e:na:n brahma gamayathi:thi linga:th||4||
Link copied513 vaidyuthe:naiva thathas thach chhruthe:h||4|3|5||
Link copiedthathah--- vidyutha upari, vaidyuthe:na vidusho: gamanam, thach chhruthe:h--- sa e:na:n brahma gamayathi:thi thasyaiva sruthe:h| varuna:di:na:m thad anugra:hakathve:na gamayithruthvam ithi nischi:yatha ithy arthah||5||
Link copiedithy a:thiva:hika:dhikaranam||4||
Link copied514 ka:ryam ba:darir asya gathy upapaththe:h||4|3|6||
Link copiedkim archir a:diko: ganah ka:ryam hiranyagarbham upa:si:na:n nayathi, utha param brahmo:pa:si:na:n, atha param brahmo:pa:si:na:n prathyaga:thma:nam brahma:thmakathayo:pa:si:na:ms che:thi samsayah| ka:ryam--- hiranyagarbham upa:si:na:n ithi pu:rvah pakshah, the:sha:m e:va gathy upapaththe:h| na hi paripu:rnam sarva gatham param brahmo:pa:si:na:na:m thath pra:pthaye: gathir upapadyathe:, nithya pra:pthathva:th| avidya: nivruththir e:va hi ka:rya:| param e:vo:pa:si:na:n ithy aparah pakshah, sa e:na:n brahma gamayathi:thi brahma sabdasya thathraiva mukhyathva:th| avidya: nivruththe:h phala:bhisandhi rahitha yajna:dy ape:ksha:vath sravana:dy ape:ksha:vach cha gathi sruthya: de:sa vise:sha:pe:ksha: cha vidyatha ithi nischi:yathe:| ra:ddha:nthas thu--- param upa:si:na:n anya:n api nayathi, thad ya iththam vidur ye: che:me:'ranye: sraddha: thapa ithy upa:sathe: the:'rchisham abhisambhavanthi, ithi pancha:gni vida:m param brahmo:pa:si:na:na:m cha:rchir a:di gathi sruthe:h| pancha:gni vido: hi prakruthi vimuktha brahma:thmaka:thma svaru:pa vidah| the: cha thath pra:pya punar na nivarthanthe:| param brahmo:pa:si:na:s thu yatha:vasthitham paripu:rnam param brahmaiva pra:pya punar na nivarthanthe:| thad ya iththam vidur ye: che:me:'ranye: sraddha: thapa ithy upa:sathe: the:'rchisham abhisambhavanthi * ithy ubhaya vidha:n bhe:de:no:pa:da:ya:rchir a:di gathi sruthe:r apunar a:vruththi sruthe:s chaivam ithi nischi:yathe:||
Link copiedsu:thra:rthas thu--- ka:ryam--- hiranyagarbham upa:si:nam a:thiva:hiko: gano: nayathi:thi ba:darir a:cha:ryo: manyathe:, asyaiva gathy upapaththe:h| param upa:si:nasya hi na thath pra:pthaye: gathir upapadyathe:, sarva gathathva:th parasya brahmanah||6||
Link copied515 vise:shithathva:ch cha||4|3|7||
Link copiedpurusho:'ma:nava e:thya brahma lo:ka:n gamayathi, ithi, praja:pathe:h sabha:m ve:sma prapadye: ithi cha pra:pya stha:nasya vise:shithathva:ch cha hiranyagarbham upa:si:nam e:va nayathi||7||
Link copied516 sa:mi:pya:th thu thad vyapade:sah||4|3|8||
Link copiede:vam nischithe: sathi, sa e:na:n brahma gamayathi:thi hiranyagarbhasya brahma sabda vyapade:so: brahma sa:mi:pya:th| yo: brahma:nam vidadha:thi pu:rvam ithi prathamajathve:na brahma sa:mi:pyam hi vidyathe:||8||
Link copied517 ka:rya:thyaye: thad adhyakshe:na saha:thah param abhidha:na:th||4|3|9||
Link copiedhiranyagarbha pra:ptha:v apy apunar a:vruththir upapadyathe:| ka:ryasya--- hiranyagarbha lo:kasya:thyaye:, thad adhyakshe:na--- hiranyagarbhe:na:dhika:rika purushe:na vidusha: saha para pra:pthy abhidha:na:th, the: brahma lo:ke: thu para:ntha ka:le: para:mrutha:th parimuchyanthi sarve: ithi||9||
Link copied518 smruthe:s cha||4|3|10||
Link copiedbrahmana: saha the: sarve: sampra:pthe: prathisanchare:| parasya:nthe: krutha:thma:nah pravisanthi param padam|| ithi smruthe:s cha:vagamyathe:||10||
Link copied519 param jaimini mukhyathva:th||4|3|11||
Link copiedparam brahmo:pa:si:nam e:va nayathy a:thiva:hiko: gana ithi jaiminir a:cha:ryo: manyathe:, brahma gamayathi:thi brahma sabdasya thathraiva mukhyathva:th| brahma lo:ka:n ithi sabdas cha brahmaiva lo:ko: brahma lo:ka ithi karmadha:raya parigrahasyaiva nya:yyathva:d upapadyathe:| e:vam nischithe: sathi bahuvachanam cha, adithih pa:sa:n ithivad upapannam||11||
Link copied520 darsana:ch cha||4|3|12||
Link copiedasma:ch chhari:ra:th samuththa:ya param jyo:thir upasampadya sve:na ru:pe:na:bhinishpadyathe:, ithy archir a:dina: gathasya parabrahma pra:pthim darsayathi cha||12||
Link copied521 na cha ka:rye: prathyabhisandhih||4|3|13||
Link copiedpraja:pathe:h sabha:m ve:sma prapadye: ithi prathyabhisandhis cha na ka:rye:, dhu:thva: sari:ram akrutham krutha:thma: brahma lo:kam abhisambhava:mi, ithy akrutham brahma lo:kam ithi thathraiva vise:shithathva:th, yaso:'ham bhava:mi bra:hmana:na:m ithi sarva:thma bha:va:bhisandha:na:ch cha||13||
Link copied522 aprathi:ka:lambana:n nayathi:thi ba:dara:yana ubhayadha: cha do:sha:th thath krathus cha||4|3|14||
Link copiedka:ryam upa:si:na:ne:ve:thi na:yam niyamah, param e:vo:pa:si:na:n ithy ayam api niyamo: na sambhavathi| kuthah| ubhayatha: cha do:sha:th--- ka:ryam upa:si:na:n e:ve:thi niyame:, asma:ch chhari:ra:th samuththa:ya param jyo:thir upasampadya sve:na ru:pe:na:bhinishpadyathe: ithy a:dika:h sruthayah, ye: che:me:'ranye: sraddha: thapah, ithi cha prakupye:yuh; param e:thi niyame:, thad ya iththam viduh, ithi prakupye:th| thasma:d aprathi:ka:lambana:n nayathi:thi bhagava:n ba:dara:yano: manyathe:| prathi:ka:lambana:s thu--- achin misram, ke:valam achid vasthu cha "simho: de:vadaththah" ithivath brahma drushtya: svaru:pe:na va: thad vasthu ya upa:sathe:, the:; aprathi:ka:lambana:h--- thad vyathiriktha:h| sarva jnam sarva ka:ranam sathya sankalpam nikhila he:ya prathyani:ka:navadhika:thisaya:nanda svaru:pam brahmo:pa:sathe: ye: ye: cha prathyaga:thmanam bhu:tha su:kshmaih samparishvaktham sarvathra varthama:nam bhu:tha su:kshma vyathiriktham jna:naka svaru:pam nithyam nirvika:ram, ya a:thmani thishthann ithy a:dina:vagatha brahma:thma bha:vam pancha:gni vidyo:ditham upa:sathe:, tha:n ubhaya vidha:n nayathi, thad ya iththam vidur ye: che:me:'ranye: ithy ubhaya vishaya sruthe:h| thath krathus cha--- yatha:krathur asmiml lo:ke: purusho: bhavathi thathe:thah pre:thya bhavathi, ithy ubhaye:sha:m e:va:punar a:vruththih sambhavathi| achin misram ke:valam achid vasthu cho:pa:si:na:na:m thath krathu nya:ya:d e:va punar a:vruththir avarjani:ya:||14||
Link copied523 vise:sham cha darsayathi||4|3|15||
Link copiedprathi:ka:dy uktha lakshanam achin misram ke:valam achid vasthu cho:pa:si:na:na:m sarve:sha:m gathy anape:ksham parimitha phala vise:sham cha darsayathi sruthih--- ya:vann a:mno: gatham thathra:sya yatha:ka:ma cha:ro: bhavathi, ithy a:dika:| athah--- brahmana: saha the: sarve: ithi vachanam na:rchir a:dina: gatha:na:m gathi praka:ra vishayam; archira:dina: gatha:na:m de:ha:vasa:na samaya e:va sukrutha dushkruthayo:r ha:na:d dhiranyagarbha lo:ka:va:pthi thad va:sa thathra stha bho:ga:nubhava he:thv abha:va:th, thath krathu nya:ya viro:dha:th, thada:ni:m e:va brahma pra:pthi sruthi viro:dha:ch cha| brahmana: saha the: sarve: ithi vachanam thu punya karma vise:she:na hiranyagarbha lo:kam pra:ptha:na:m, thad upary api ba:dara:yanah, ithi nya:ye:na thathraiva nishpanna vidya:na:m gathi praka:ra vishayam| the: brahma lo:ke:, ithi thu brahma lo:ka sabdasya karmadha:raya vruththya: brahma vishayathva:d brahmany upa:sye: varthama:na:h para:ntha ka:le: charama de:ha:vasa:na samaye: para:mrutha:th--- parasma:d brahmana upa:sana pri:tha:d dhe:tho:h, parimuchyanthi sarve: sarvasma:d bandha:d vimuchyantha ithi, ve:da:ntha vijna:na sunischitha:rtha:h, ithi prakarana:d avagamyathe:| thad ya iththam vidur ithi pancha:gni vida:m brahma pra:pthy apunar a:vruththi sravana:th thath krathu nya:ye:na:chid viyuktha brahma:thmaka:thmaka svaru:po:pa:sanam vivakshitham ithi nischi:yathe: thathaiva thathra sruthir api, ithi thu panchamya:m a:hutha:va:pah purusha vachaso: bhavanthi, ithi, ramani:ya charana:h ithi cha karma he:thuka manushya:di bha:vo:'pa:m e:va bhu:tha:nthara samsrushta:na:m ithi chid achid vive:kam prathipa:dya, thad ya iththam viduh, ithi bhu:tha su:kshma vyathiriktha:thma svaru:po:pa:sanam e:va vidadha:thi||15|| ithi ka:rya:dhikaranam||5||
Link copiedithi sri: ra:ma:nuja:cha:rya virachithe: sri: ve:da:nthadi:pe: chathurthasya:dhya:yasya thruthi:yah pa:dah||
Link copied