Skip to content

Vedanta Dipa · Section 16 of 17

||atha chathurtha:dhya:ye: thruthi:yah pa:dah||

Original Sanskrit · click to toggle

५०९ अर्चिर्-आदिना तत्-प्रथितेः॥४।३।१॥

Link copied

किं विद्वान् अर्चिर्-आदिनैकेन मार्गेण गच्छति, उत तेन वान्येन वेत्य् अनियम इति संशयः। तद्-अर्थं परीक्ष्यते--- किं सर्वासु श्रुतिष्व्-अर्चिर्-आदिर् एक एव मार्ग आम्नायते, उत तत्र तत्रान्य इति। यदाचिर्-आदिर् एक एव सर्वत्रोक्तस् तदा तेनैव गच्छति। यदा तत्र तत्राम्नाता अन्ये, तदान्यैर् वानेन वेत्य् अनियम इति। छान्दोग्य-वाजसनेयकादिषु नाना-विधाः गति-प्रकाराः श्रूयन्ते। छान्दोग्ये--- यथा पुष्कर-पलाश आपो न श्लिप्यन्ते इत्य् उपक्रम्य, सर्वाणि \॥॥नयति, सर्वेषु लोकेषु भाति य एवं वेद, अथ यद् उ चैवास्मिञ् छव्यं कुर्वन्ति यद् उ च नार्चिषम् एवाभिसम्भवन्त्य् अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षड् उदङ्ङ् एति मासांस् तान् मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् आदित्याच् चन्द्रमसं चन्द्रमसो विद्युतं तत्-पुरुषोऽमानवस्य एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते इति। बृहदारण्यके--- य एवम् एतद् विदुर् ये चामी अरण्ये श्रद्धां सत्यम् इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षण् मासान् उदङ्ङ् आदित्य एति मासेभ्यो देव-लोकं देव-लोकाद् आदित्यम् आदित्याद् वैद्युतं वैद्युतात् पुरुषोऽमानवः स एत्य ब्रह्म-लोकान् गमयति, इति। तत्रैवान्यथा--- यदा वै पुरुषोऽस्माल् लोकात् प्रेति स वायु-लोकम् आगच्छति तस्मै स तत्र विजिहीते यथा रथ-चक्रस्य खं तेन स ऊर्ध्वम् आक्रमते स आदित्यम् आगच्छति तस्मै स तत्र विजिहीते यथाडम्बरस्य खं तेन स ऊर्ध्वम् आक्रमते स चन्द्रमसम् आगच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् इत्य् आदिषु। तेषां ब्रह्म-प्राप्तौ नैरपेक्ष्य-श्रवणात् तैर् वार्चिर्-आदिना वेति विकल्प इति पूर्वः पक्षः। राद्धान्तस् तु--- सर्वत्रार्चिर्-आद्य्-अन्तर्भूतादित्यादीनां दर्शनात् स एवेति प्रत्यभिज्ञानात्, अन्यत्रोक्तानाम् अन्यत्रोपसंहाराच् च, सर्वत्रार्चिर्-आदिर् एक एव मार्ग इति तेनैव गच्छति विद्वान्। सूत्रार्थस् तु--- अर्चिर्-आदिनैव गच्छति विद्वान्। कुतः। तत्-प्रथितेः। प्रथितिः--- प्रसिद्धिः; सर्वत्र तत्-प्रत्यभिज्ञानाद् इत्य् अर्थः॥१॥ इत्य् अर्चिर्-आद्य्-अधिकरणम्॥१॥

Link copied

५१० वायुम् अब्दाद् अविशेष-विशेषाभ्याम्॥४।३।२॥

Link copied

तेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहर् अह्नः, इत्य् आरभ्य, मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् इति छान्दोग्ये श्रुतम्। तत्र संवत्सरादित्ययोर् मध्ये देव-लोको वायुश् च श्रुतौ श्रुत्य्-अन्तरे। द्वयोः प्रकरणयोः किं देव-लोको वायुश् चार्थान्तर-भूतौ, उत वायुर् एक एवेति संशयः। शब्द-भेदादर्थान्तर-भूताव् इति पूर्वः पक्षः। अर्थान्तरत्वे सति, देव-लोकाद् आदित्यम् इति देव-लोकस्य, तेन स ऊर्ध्वम् आक्रमते स आदित्यम् इति वायोश् चादित्यात् पूर्वत्वेन श्रौत-क्रम-निर्दिष्टत्वाद् देव-लोक-वायू यथेष्ट-क्रमेण निवेशयितन्यौ।

Link copied

राद्धान्तस् तु--- वायुर् एव देव-लोक-शब्देन निर्दिष्ट इति तस्माद् अनन्यः। देवानां लोक इति हि देव-लोकः, देवानां वासस्थानम् इत्य् अविशेषेण निर्दिष्टम्। योऽयं पवत एष एव देवानां गृहाः, इति वायोर् विशेषेण देवानां वासस्थानत्वेन श्रुतत्वाद् अविशेष-निर्दिष्टो देव-लोको वायुर् एवेति निश्चीयत इति। संवत्सराद् ऊर्ध्वं वायुर् वायोर् आदित्य इति क्रमश् च स्यात्॥

Link copied

सूत्रार्थस् तु--- अब्दात्--- संवत्सराद् ऊर्ध्वम् आदित्यात् पूर्वं वायुम् एकम् एव निवेशयेत्, देव-लोक-वायु-शब्दाभ्याम् अविशेष-विशेषाभ्यां वायोर् एकस्यैव निर्दिष्टत्वात्। देवानां वासस्थानम् इत्य् अविशेषेण हि देव-लोक-शब्दो वायु-देवानाम् आवास-स्थान-भूतम् अभिदधाति, वायु-शब्दस् तम् एव विशेषेणेति द्वयोः प्रकरण-द्वय-विहितयोर् एकत्वाद् इत्य् अर्थः॥२॥ इति वाय्व्-अधिकरणम्॥२॥

Link copied

५११ तटितोऽधि वरुणः सम्बन्धात्॥४।३।३॥

Link copied

छान्दोग्य-वाजसनेयक-कौषीतकी-प्रभृतिष्व् आम्नातस्यार्चिर्-आदि-मार्गस्यार्चिर् अहर् आपूर्यमाण-पक्षोत्तरायण-संवत्सर-वाय्व्-आदित्य-चन्द्र-विद्युद्-वरुणेन्द्र-प्रजापति-रूपस्योपसंहारे वायु-पर्यन्तस्य श्रुत्यादिभिः क्रम-प्रकार उक्तः। वरुणेन्द्र-प्रजापतीनां किं विद्युत उपरि निवेशः, उत वायोर् उपरीति संशयः। स वायु-लोकं स वरुण-लोकम् इति कौषीतकी-पाठ-क्रमेण वायोर् उपरि वरुणस्य निवेशः। इन्द्रादेर् अपि वरुण-निवेशाय वाय्व्-आदित्ययोः क्रमस्य बाधितत्वात् तत्रैव वरुणोपरीति पूर्वः पक्षः।

Link copied

राद्धान्तस् तु--- विद्युतो मेधोदर-वर्तित्वेन विद्युद्-वरुणयोर् लोके वेदे च सम्बन्धावगमात् पाठ-क्रमाद् अर्थ-क्रमस्य बलीयस्त्वेन वरुणस्य विद्युत उपरि निवेशः कार्यः। इन्द्रादेर् अपि वरुण-निवेशाय विद्युतो व्यवधान-सहत्व-दर्शनाद् वरुणोपरि निवेशः। सूत्रं च व्याख्यातम्॥३॥ इति वरुणाधिकरणम्॥३॥

Link copied

५१२ आतिवाहिकास् तल्-लिङ्गात्॥४।३।४॥

Link copied

किम् अर्चिर्-आदयो विदुषो ब्रह्म-प्रेप्सोर् मार्ग-चिह्न-भूताः, उत गमयितार इति संशयः। अमुकं वृक्षम् अमुकां नदीम् अमुकं पर्वत-पार्श्वं गत्वामुकं ग्रामं गच्छ, इत्य् आदि देशिकोपदेश-प्रकार-दर्शनान् मार्ग-चिह्न-भूताः, इति पूर्वः पक्षः। राद्धान्तस् तु--- स एनान् ब्रह्म गमयति, इति वैद्युत-पुरुषस्य गमयितृत्व-दर्शनाद् इतरेषां चाविशेष-निर्दिष्टानां स एव सम्बन्ध इति निश्चीयते। अग्नि-लोकम् इत्य् आदि लोक-शब्दोऽपि मध्ये भोगाभावाद् गमयितृत्व एवोपपद्यते। सूत्रार्थस् तु--- आतिवाहिकाः--- विदुषाम् अतिवाहे परम-पुरुषेण नियुक्ताः, अर्चिर्-आद्य्-अभिमानि-देवता-विशेषाः गमयितार इत्य् अर्थः। स एनान् ब्रह्म गमयतीति लिङ्गात्॥४॥

Link copied

५१३ वैद्युतेनैव ततस् तच्-छ्रुतेः॥४।३।५॥

Link copied

ततः--- विद्युत उपरि, वैद्युतेन विदुषो गमनम्, तच्-छ्रुतेः--- स एनान् ब्रह्म गमयतीति तस्यैव श्रुतेः। वरुणादीनां तद्-अनुग्राहकत्वेन गमयितृत्वम् इति निश्चीयत इत्य् अर्थः॥५॥

Link copied

इत्य् आतिवाहिकाधिकरणम्॥४॥

Link copied

५१४ कार्यं बादरिर् अस्य गत्य्-उपपत्तेः॥४।३।६॥

Link copied

किम् अर्चिर्-आदिको गणः कार्यं हिरण्यगर्भम् उपासीनान् नयति, उत परं ब्रह्मोपासीनान्, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश् चेति संशयः। कार्यं--- हिरण्यगर्भम् उपासीनान् इति पूर्वः पक्षः, तेषाम् एव गत्य्-उपपत्तेः। न हि परिपूर्णं सर्व-गतं परं ब्रह्मोपासीनानां तत्-प्राप्तये गतिर् उपपद्यते, नित्य-प्राप्तत्वात्। अविद्या-निवृत्तिर् एव हि कार्या। परम् एवोपासीनान् इत्य् अपरः पक्षः, स एनान् ब्रह्म गमयतीति ब्रह्म-शब्दस्य तत्रैव मुख्यत्वात्। अविद्या-निवृत्तेः फलाभिसन्धि-रहित-यज्ञाद्य्-अपेक्षावत् श्रवणाद्य्-अपेक्षावच् च गति-श्रुत्या देश-विशेषापेक्षा च विद्यत इति निश्चीयते। राद्धान्तस् तु--- परम् उपासीनान् अन्यान् अपि नयति, तद् य इत्थं विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्ति, इति पञ्चाग्नि-विदां परं ब्रह्मोपासीनानां चार्चिर्-आदि-गति-श्रुतेः। पञ्चाग्नि-विदो हि प्रकृति-विमुक्त-ब्रह्मात्मकात्म-स्वरूप-विदः। ते च तत् प्राप्य पुनर् न निवर्तन्ते। परं ब्रह्मोपासीनास् तु यथावस्थितं परिपूर्णं परं ब्रह्मैव प्राप्य पुनर् न निवर्तन्ते। तद् य इत्थं विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्ति * इत्य् उभय-विधान् भेदेनोपादायार्चिर्-आदि-गति-श्रुतेर् अपुनर्-आवृत्ति-श्रुतेश् चैवम् इति निश्चीयते॥

Link copied

सूत्रार्थस् तु--- कार्यं--- हिरण्यगर्भम् उपासीनम् आतिवाहिको गणो नयतीति बादरिर् आचार्यो मन्यते, अस्यैव गत्य्-उपपत्तेः। परम् उपासीनस्य हि न तत्-प्राप्तये गतिर् उपपद्यते, सर्व-गतत्वात् परस्य ब्रह्मणः॥६॥

Link copied

५१५ विशेषितत्वाच् च॥४।३।७॥

Link copied

पुरुषोऽमानव एत्य ब्रह्म-लोकान् गमयति, इति, प्रजापतेः सभां वेश्म प्रपद्ये इति च प्राप्य-स्थानस्य विशेषितत्वाच् च हिरण्यगर्भम् उपासीनम् एव नयति॥७॥

Link copied

५१६ सामीप्यात् तु तद्-व्यपदेशः॥४।३।८॥

Link copied

एवं निश्चिते सति, स एनान् ब्रह्म गमयतीति हिरण्यगर्भस्य ब्रह्म-शब्द-व्यपदेशो ब्रह्म-सामीप्यात्। यो ब्रह्माणं विदधाति पूर्वम् इति प्रथमजत्वेन ब्रह्म-सामीप्यं हि विद्यते॥८॥

Link copied

५१७ कार्यात्यये तद्-अध्यक्षेण सहातः परम् अभिधानात्॥४।३।९॥

Link copied

हिरण्यगर्भ-प्राप्ताव् अप्य् अपुनर्-आवृत्तिर् उपपद्यते। कार्यस्य--- हिरण्यगर्भ-लोकस्यात्यये, तद्-अध्यक्षेण--- हिरण्यगर्भेणाधिकारिक-पुरुषेण विदुषा सह पर-प्राप्त्य्-अभिधानात्, ते ब्रह्म-लोके तु परान्त-काले परामृतात् परिमुच्यन्ति सर्वे इति॥९॥

Link copied

५१८ स्मृतेश् च॥४।३।१०॥

Link copied

ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्॥ इति स्मृतेश् चावगम्यते॥१०॥

Link copied

५१९ परं जैमिनि-मुख्यत्वात्॥४।३।११॥

Link copied

परं ब्रह्मोपासीनम् एव नयत्य् आतिवाहिको गण इति जैमिनिर् आचार्यो मन्यते, ब्रह्म गमयतीति ब्रह्म-शब्दस्य तत्रैव मुख्यत्वात्। ब्रह्म-लोकान् इति शब्दश् च ब्रह्मैव लोको ब्रह्म-लोक इति कर्मधारय-परिग्रहस्यैव न्याय्यत्वाद् उपपद्यते। एवं निश्चिते सति बहुवचनं च, अदितिः पाशान् इतिवद् उपपन्नम्॥११॥

Link copied

५२० दर्शनाच् च॥४।३।१२॥

Link copied

अस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, इत्य् अर्चिर्-आदिना गतस्य परब्रह्म-प्राप्तिं दर्शयति च॥१२॥

Link copied

५२१ न च कार्ये प्रत्यभिसन्धिः॥४।३।१३॥

Link copied

प्रजापतेः सभां वेश्म प्रपद्ये इति प्रत्यभिसन्धिश् च न कार्ये, धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्म-लोकम् अभिसम्भवामि, इत्य् अकृतं ब्रह्म-लोकम् इति तत्रैव विशेषितत्वात्, यशोऽहं भवामि ब्राह्मणानाम् इति सर्वात्म-भावाभिसन्धानाच् च॥१३॥

Link copied

५२२ अप्रतीकालम्बनान् नयतीति बादरायण उभयधा च दोषात् तत्-क्रतुश् च॥४।३।१४॥

Link copied

कार्यम् उपासीनानेवेति नायं नियमः, परम् एवोपासीनान् इत्य् अयम् अपि नियमो न सम्भवति। कुतः। उभयथा च दोषात्--- कार्यम् उपासीनान् एवेति नियमे, अस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इत्य् आदिकाः श्रुतयः, ये चेमेऽरण्ये श्रद्धा तपः, इति च प्रकुप्येयुः; परम् एति नियमे, तद् य इत्थं विदुः, इति प्रकुप्येत्। तस्माद् अप्रतीकालम्बनान् नयतीति भगवान् बादरायणो मन्यते। प्रतीकालम्बनास् तु--- अचिन्-मिश्रम्, केवलम् अचिद्-वस्तु च "सिंहो देवदत्तः" इतिवत् ब्रह्म-दृष्ट्या स्वरूपेण वा तद् वस्तु य उपासते, ते; अप्रतीकालम्बनाः--- तद्-व्यतिरिक्ताः। सर्व-ज्ञं सर्व-कारणं सत्य-सङ्कल्पं निखिल-हेय-प्रत्यनीकानवधिकातिशयानन्द-स्वरूपं ब्रह्मोपासते ये ये च प्रत्यगात्मनं भूत-सूक्ष्मैः सम्परिष्वक्तं सर्वत्र वर्तमानं भूत-सूक्ष्म-व्यतिरिक्तं ज्ञानक-स्वरूपं नित्यं निर्विकारं, य आत्मनि तिष्ठन्न् इत्य् आदिनावगत-ब्रह्मात्म-भावं पञ्चाग्नि-विद्योदितम् उपासते, तान् उभय-विधान् नयति, तद् य इत्थं विदुर् ये चेमेऽरण्ये इत्य् उभय-विषय-श्रुतेः। तत्-क्रतुश् च--- यथाक्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति, इत्य् उभयेषाम् एवापुनर्-आवृत्तिः सम्भवति। अचिन्-मिश्रं केवलम् अचिद्-वस्तु चोपासीनानां तत्-क्रतु-न्यायाद् एव पुनर्-आवृत्तिर् अवर्जनीया॥१४॥

Link copied

५२३ विशेषं च दर्शयति॥४।३।१५॥

Link copied

प्रतीकाद्य्-उक्त-लक्षणम् अचिन्-मिश्रं केवलम् अचिद्-वस्तु चोपासीनानां सर्वेषां गत्य्-अनपेक्षं परिमित-फल-विशेषं च दर्शयति श्रुतिः--- यावन्न् आम्नो गतं तत्रास्य यथाकाम-चारो भवति, इत्य् आदिका। अतः--- ब्रह्मणा सह ते सर्वे इति वचनं नार्चिर्-आदिना गतानां गति-प्रकार-विषयम्; अर्चिरादिना गतानां देहावसान-समय एव सुकृत-दुष्कृतयोर् हानाद् धिरण्यगर्भ-लोकावाप्ति-तद्-वास-तत्र-स्थ-भोगानुभव-हेत्व्-अभावात्, तत्-क्रतु-न्याय-विरोधात्, तदानीम् एव ब्रह्म-प्राप्ति-श्रुति-विरोधाच् च। ब्रह्मणा सह ते सर्वे इति वचनं तु पुण्य-कर्म-विशेषेण हिरण्यगर्भ-लोकं प्राप्तानां, तद्-उपर्य् अपि बादरायणः, इति न्यायेन तत्रैव निष्पन्न-विद्यानां गति-प्रकार-विषयम्। ते ब्रह्म-लोके, इति तु ब्रह्म-लोक-शब्दस्य कर्मधारय-वृत्त्या ब्रह्म-विषयत्वाद् ब्रह्मण्य् उपास्ये वर्तमानाः परान्त-काले चरम-देहावसान-समये परामृतात्--- परस्माद् ब्रह्मण उपासन-प्रीताद् धेतोः, परिमुच्यन्ति सर्वे सर्वस्माद् बन्धाद् विमुच्यन्त इति, वेदान्त-विज्ञान-सुनिश्चितार्थाः, इति प्रकरणाद् अवगम्यते। तद् य इत्थं विदुर् इति पञ्चाग्नि-विदां ब्रह्म-प्राप्त्य्-अपुनर्-आवृत्ति-श्रवणात् तत्-क्रतु-न्यायेनाचिद्-वियुक्त-ब्रह्मात्मकात्मक-स्वरूपोपासनं विवक्षितम् इति निश्चीयते तथैव तत्र श्रुतिर् अपि, इति तु पञ्चम्याम् आहुतावापः पुरुष-वचसो भवन्ति, इति, रमणीय-चरणाः इति च कर्म-हेतुक-मनुष्यादि-भावोऽपाम् एव भूतान्तर-संसृष्टानाम् इति चिद्-अचिद्-विवेकं प्रतिपाद्य, तद् य इत्थं विदुः, इति भूत-सूक्ष्म-व्यतिरिक्तात्म-स्वरूपोपासनम् एव विदधाति॥१५॥ इति कार्याधिकरणम्॥५॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य तृतीयः पादः॥

Link copied
Join our community