Vedanta Dipa · Section 17 of 17
||atha chathurtha:dhya:ye: chathurthah pa:dah||
Original Sanskrit · click to toggle
५२४ सम्पद्याविर्भावः स्वेन शब्दात्॥४।४।१॥
Link copiedएवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति किं परं ज्योतिर्-उपसम्पन्नस्य प्रत्यगात्मनः स्वरूपाविर्भावः प्रतिपाद्यते, उतान्येन साध्येन रूपेण सम्बन्ध इति संशयः। स्व-स्वरूपस्य सुषुप्त्य्-आदौ निरानन्दत्व-दर्शनात्, स्वरूप-मात्रस्य नित्याविर्भूतत्वाच् च, साध्येन सुखैकान्तेन रूपेण सम्बध्यते। एवं च--- अभिनिष्पद्यते इति वचनं सङ्गच्छते। परं ज्योतिर्-उपसम्पन्नस्य ह्य् आनन्दित्वं श्रूयते--- रसं ह्य् एवायं लब्ध्वानन्दी भवति, स एको ब्रह्मण आनन्दः, श्रोत्रियस्य चाकामहतस्य, इत्य् आदिषु। अतः साध्येन रूपेणेति पूर्वः पक्षः। राद्धान्तस् तु--- स्वेन रूपेणाभिनिष्पद्यते इति विशेषणात् स्वरूपाविर्भाव एव। स्वरूपस्य चापहत-पाप्मत्वादि-गुणकतया प्रजापति-वाक्योदितस्य कर्म-कृत-देह-सम्बन्ध-तत्-कृत-तिरोधानस्य पर-ज्योतिर्-उपसम्पत्त्या सूक्ष्म-देह-विनिर्मुक्तस्यासङ्कुचित-ज्ञानादि-गुणक-स्वरूपाविर्भावात् स्व-याथात्म्यानुभव-पूर्वकानवधिकातिशयानन्द-ब्रह्मानुभवः सम्पत्स्यत इति, अभिनिष्पद्यते, इति चोपपन्नतरम्। सूत्रार्थस् तु--- परं ज्योतिर् उपसम्पद्य स्व-स्वरूपाविर्भावः प्रतिपाद्यते। कुतः। स्वेन-शब्दात्--- साध्यस्यापि रूपस्य स्वासाधारणत्वेन स्वेनेति विशेषणं ह्य् अनर्थकम्॥१॥
Link copiedस्व-स्वरूप-मात्रस्य अहं जानामीति नित्याविर्भूतत्वेन, परं ज्योतिर् उपसम्पद्येत्य् अनर्थकम् इत्य् आशङ्क्याह---
Link copied५२५ मुक्तः प्रतिज्ञानात्॥४।४।२॥
Link copiedकर्म-सम्बन्ध-तत्-कृत-देहादेर् मुक्त-स्वरूपम् अत्र, स्वेन रूपेणाभिनिष्पद्यते इत्य् उच्यते। कथम् इदम् अवगम्यते। एतं त्व् एव ते भूयोऽनुव्याख्यास्यामि, इति कर्म-हेतुक-देह-सम्बन्ध-तत्-कृत-जागरिताद्य्-अवस्थाविनिर्मुक्त-स्वरूपस्यात्र वक्तव्यतया प्रतिज्ञानात्॥२॥
Link copiedएवम् अपि स्वरूप-मात्राविर्भावस्य पुरुषार्थत्वं न सिद्ध्यतीत्य् आशङ्क्य् आह---
Link copied५२६ आत्मा प्रकरणात्॥४।४।३॥
Link copiedदेहादि-विनिर्मुक्तः स्वरूपेणावस्थित आत्मा अपहत-पाप्मत्वादि-सत्य-सङ्कल्पत्व-पर्यन्त-गुणकः। तस्य ह्य् आविर्भाव उच्यते। कुतः। प्रकरणात्। य आत्मा अपहत-पाप्मा, इति प्रकृत्य हि, एतं त्व् एव ते भूयोऽनुव्याख्यास्यामीत्य् आदिनोच्यते। अतोऽपहत-पाप्मत्वादि-गुणक-स्वरूपस्य कर्माख्याविद्या-तिरोहितस्य परं ज्योतिर् उपसम्पद्य निवृत्त-तिरोधानस्याविर्भावः प्रतिपाद्यते॥३॥ इति सम्पद्याविर्भावाधिकरणम्॥१॥
Link copied५२७ अविभागेन दृष्टत्वात्॥४।४।४॥
Link copiedकिम् अयं मुक्तः आविर्भूत-स्वरूपः प्रत्यगात्मा परं ब्रह्म स्वात्मनो विभक्तम् अनुभवति, उत स्वात्मनोऽप्य् आत्मतयाविभागेन, अहं ब्रह्मास्मीतीति संशयः। निरञ्जनः परमं साम्यम् उपैति, सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चितेति, इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः, इति श्रुति-स्मृतिभ्यो विभक्तम् अनुभवतीति पूर्वः पक्षः। राद्धान्तस् तु--- सर्वं खल्व् इदं ब्रह्म, ऐतदात्म्यम् इदं सर्वम्\॥॥ तत्त्वम् असि, इत्य् आदिना सामानाधिकरण्येन, यः पृथिव्यां तिष्ठन्\॥॥यस्य पृथिवी शरीरं, य आत्मनि तिष्ठन्\॥॥यस्यात्मा शरीरम् इत्य् आदिषु सर्वस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरतया ब्रह्म-प्रकारत्वात् तत्-तद्-वस्तु-बुद्धि-शब्दास् तत्-पर्यन्त-विषया इत्य् अवगम्य, आत्मेति तूपगच्छन्तीति न्यायेन स्वात्मनोऽप्य् आत्मतया अहं ब्रह्मास्मीत्य् उपासनेन यथावस्थित-परमात्मात्मक-स्वात्मनो दृष्टत्वान् मुक्तः स्वात्मनोऽप्य् आत्म-भूतं ब्रह्म अहं ब्रह्मास्मीत्य् अविभागेनैवानुभवति॥
Link copiedसूत्रार्थस् तु--- अहं ब्रह्मास्मीत्य् अविभागेनैव ब्रह्मानुभवति मुक्तः, स्वात्मनोऽप्य् आत्मतयोपासनेन यथावस्थित-परमात्मात्मक-स्वरूपस्य दृष्टत्वात्। साधर्म्य-श्रुतिस् तु परमात्म-शरीर-भूतस्य साधर्म्य-श्रुतिस् तु परमात्म-शरीर-भूतस्य प्रत्यगात्मनोऽपहत-पाप्मत्वादि-गुणैस् तत्-साधर्म्यं प्रतिपादयति। सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चिता इति ब्रह्म-शरीरतया ब्रह्म-प्रकार-भूतत्वात् स्वात्म-भूतेन ब्रह्मणा सह तद्-गुणान् अनुभवतीति वदति। काम्यन्ते इति कामाः--- कल्याण-गुणाः, कल्याण-गुण-विशिष्टं ब्रह्मानुभवतीत्य् अर्थः॥४॥ इत्य् अविभागेन दृष्टत्वाधिकरणम्॥२॥
Link copied५२८ ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः॥४।४।५॥
Link copiedकिं जीवस्य स्वाभाविक रूपम् अपहत-पाप्मत्वादि-गुणकम् उत चैतन्य-मात्रम् उतोभयम् इति संशयः। अपहत-पाप्मत्वादि-गुणकम् इति प्रथमः पक्षः, य आत्मापहत-पाप्मा, इति प्रतिपादनात्। चैतन्य-मात्रम् इति द्वितीयः पक्षः, एवं वा अरेऽयम् आत्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञान-घन एव, विज्ञान-घन एव, इत्य् अवधारणात्। राद्धान्तस् तु--- ज्ञान-स्वरूपस्यैवापहत-पाप्मत्वादि-गुणकत्व-प्रतिपादनाद् अविरोधाच् चोभयं स्वरूपम्। न च, विज्ञान-घन एवेत्य् अवधारणं गुणान्तरासहं यथा सैन्धव-घनस्य, रस-घन एवेत्य् अवधारणेऽपि रसाश्रय-द्रव्यं रूप-स्पर्शादि-गुणान्तरं च सहते; रस-घन एवेत्य् अवधारणं तु रसवद् द्रवव्यान्तर-स्वभाव-व्यावृत्ति-परम्; द्रव्यान्तराणां हि स्वैकदेशे रसवत्त्वम्। सैन्धव-घनस्य तु सर्वत्र। एवम् अत्रापि जड-वस्तु-व्यावृत्त-स्व-स्वभावस्य सगुणस्यात्मनः स्व-प्रकाशतावधारणं, विज्ञान-घन एवेति क्रियते॥
Link copiedसूत्रार्थस् तु--- ब्राह्मेण अपहत-पाप्मत्वादिना स्वरूपाविर्भावः। अपहत-पाप्मत्वादयो दहर-वाक्ये ब्रह्म-गुणाः श्रुताः। उपन्यासादिभ्यः--- तेषां ब्रह्म-गुणानां प्रत्यगात्मन्य् अपि, य आत्मापहत-पाप्मा, इत्य् आदिनोपन्यासात्। आदि-शब्दात्, जक्षत् क्रीडन् रममाणः, इत्य् आदिभ्योऽपि सत्य-सङ्कल्पत्वादयोऽवगम्यन्त इति जैमिनिर् आचार्यो मन्यते॥५॥
Link copied५२९ चिति तन्-मात्रेण तदात्मकत्वाद् इत्य् औडलोमिः॥४।४।६॥
Link copiedचैतन्य-मात्रेण स्वरूपाविर्भावः, विज्ञान-घन एवेति तदात्मकत्वावधारणाद् इत्य् औडुलोमिर् आचार्यो मन्यते॥६॥
Link copied५३० एवम् अप्य् उपन्यासात् पूर्व-भावाद् अविरोधं बादरायणः॥४।४।७॥
Link copiedएवं- विज्ञान-स्वरूपस्यैव, स्व-प्रकाश-स्वरूपस्यैव पूर्वेषाम्--- अपहत-पाप्मत्वादि-सत्य-सङ्कल्पत्व-पर्यन्तानाम् अपि, य आत्मापहत-पाप्मा, इत्य् उपन्यासात् सद्-भावावगमाद् उभयोः स्वरूपयोर् अविरोधं भगवान् बादरायणो मन्यते। उभय-श्रुत्य्-अवगतस्येतरेतर-विरोधाभावान् नान्यतर-बाधे प्रमाणम् अस्तीत्य् अभिप्रायः॥७॥ इति ब्राह्माधिकरणम्॥३॥
Link copied५३१ सङ्कल्पाद् एव तच्-छ्रुतेः॥४।४।८॥
Link copiedपरं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा ज्ञातिभिर् वा, इत्य् आदिर् आम्नायते। किम् एते ज्ञात्य्-आदयो मुक्तस्य सङ्कल्पाद् एव भवन्ति, उत प्रयत्नान्तर-सव्यपेक्षात् सङ्कल्पाद् इति संशयः। लोके राजादीनां सत्य-सङ्कल्पत्वेन व्यवह्रियमाणानाम् अपि कार्ये प्रयत्नान्तर-सापेक्षत्व-दर्शनान् मुक्तस्यापि तथैव सापेक्षत्वाद् इति पूर्वः पक्षः, सङ्कल्पाद् एवेत्य् अवधारणं, विज्ञान-घन एवेतिवद् भविष्यति। राद्धान्तस् तु--- सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्तीत्य् अवधारणान् नान्यापेक्षत्वम्। न चेह सत्य-कामत्वाद्य्-उपन्यासवन् मुक्तस्यान्यापेक्षत्वे प्रमाणम् अस्ति। लोके सत्य-सङ्कल्पत्वाभावाद् एव प्रयत्नान्तरापेक्षत्वम्; न हि परम-पुरुष-व्यतिरिक्तः कश्चित् सत्य-सङ्कल्पोऽस्ति। मुक्तश् च तत्-प्रसादात् तत्-साम्यम् उपगतस् तथैव। सूत्रम् अपि व्याख्यातम्॥८॥
Link copied५३२ अत एव चानन्याधिपतिः॥४।४।९॥
Link copiedअतः--- श्रुतेर् एव मुक्तोऽनन्याधिपतिश् च। अन्याधिपतित्वं--- कर्माधीनत्वम्। अपहत-पाप्मा\॥॥सत्य-सङ्कल्पः, इति श्रूयते। अतोऽनन्याधिपतिः॥९॥ इति सङ्कल्पाधिकरणम्॥४॥
Link copied५३३ अभावं बादरिर् आह ह्य् एवम्॥४।४।१०॥
Link copiedकिं मुक्तस्य शरीरेन्द्रियाद्य् अस्ति, उत न, अथ यथासङ्कल्पम् अस्ति च नेति संशयः। न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्त्य् अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः, इति मुक्तस्याशरीरत्व-श्रवणान् नास्त्य् एवेत्य् एकः पक्षः। स एकधा भवति त्रिधा भवति, इति सशरीरत्व-श्रुतेर् अशरीरत्व-श्रुतिः कर्म-गृहीत-शरीर-विषयेति शरीरेन्द्रियाद्य् अस्त्य् एवेति द्वितीयः पक्षः। राद्धान्तस् तु--- मनसैतान् कामान् पश्यन् रमते य एते ब्रह्म-लोके, इत्य् अशरीरस्यैव भोग-श्रुतेः, स एकधा भवति त्रिधा भवति, इति श्रुतेश् च यथासङ्कल्पम् अस्ति च न चेति। सूत्रार्थस् तु--- शरीराभावं बादरिर् मेने; एवम् आह हि श्रुतिः--- अशरीरं वाव सन्तम् इति॥१०॥
Link copied५३४ भावं जैमिनिर् विकल्पामननात्॥४।४।११॥
Link copiedशरीरादि-भावं जैमिनिर् मेने। कुतः। विकल्पामननात्--- विविधः कल्पः--- विकल्पः, स एकधा भवति त्रिधा भवतीत्य् आदिना मुक्तस्य हि विविध-कल्पनम् आम्नायते आत्मन एक-रूपस्याच्छेद्यस्य वैविध्यासम्भवाच् छरीर-द्वारेणैव हि विज्ञायते वैविध्यम्॥११॥
Link copied५३५ द्वादशाहवद् उभय-विधं बादरायणोऽतः॥४।४।१२॥
Link copiedअतः--- उभय-श्रुतेर् इच्छातः, उभय-विधम्, शरीरवत्त्वम् अशरीरत्वं च भगवान् बादरायणो मेने; द्वादशाहवत्--- यथा द्वादशाह उभय-श्रुतेः सत्रम् अहीनं च, द्वादशाहम् ऋद्धि-कामा उपेयुः, इति सत्रं भवति, द्वादशाहेन प्रजा-कामं याजयेत्, इत्य् अहीनम्॥१२॥
Link copied५३६ तन्व्-अभावे सन्ध्यवद् उपपत्तेः॥४।४।१३॥
Link copiedस्वेनैव सृष्ट-तनु-प्रभृत्य्-उपकरणाभावे परम-पुरुष-सृष्टैर् उपकरणैर् भोगोपपत्तेः सत्य-सङ्कल्पोऽपि स्वयं न सृजति, सन्ध्यवत्--- यथा स्वप्ने, अथ रथान्, इत्य् आरभ्य, स हि कर्ता, इति, य एष सुप्तेषु, इत्य् आरभ्य, तद् उ नात्येति कश्चन, इति चेश्वर-सृष्टैर् उपकरणैर् जीवो भुङ्क्ते; तथा मुक्तोऽपि लीला-प्रवृत्तेश्वर-सृष्टैः पितृ-लोकादिभिर् लीला-रसं भुङ्क्ते॥१३॥
Link copied५३७ भावे जाग्रद्वत्॥४।४।१४॥
Link copiedस्व-सङ्कल्प-सृष्ट-तनु-प्रभृत्य्-उपकरण-सद्-भावे जाग्रत्-पुरुष-भोगवन् मुक्तो लीला-रसं भुङ्क्ते, परम-पुरुषोऽपि दशरथ-वसुदेवादि-पितृ-लोकादिकम् आत्मनः सृष्ट्वा तैर् मनुष्य-धर्म-लीला-रसं भुङ्क्ते; तथा मुक्तश् च सत्य-सङ्कल्पत्वात् परम-पुरुष-लीलान्तर्गत-स्व-पितृ-लोकादिकं स्वयम् एव सृष्ट्वा तैर् लीला-रसम् अनुभवति॥१४॥
Link copiedनन्व् आत्माणु-परिमाण इत्य् उक्तम्, कथम् अनेक-शरीरेष्वेकस्याणोर् आत्माभिमान-सम्भव इत्य् अत्राह---
Link copied५३८ प्रदीपवद् आवेशस् तथा हि दर्शयति॥४।४।१५॥
Link copiedयथा प्रदीपस्यैकस्यैकदेश-वर्तिनः स्वया प्रभयानेक-देश-प्रवेशः, तद्वद् आत्मनोऽप्य् एक-देश-स्थस्य स्व-प्रभा-रूपेण ज्ञानेन सर्व-देहेषु यथासङ्कल्पम् आत्माभिमानानुगुणा व्याप्तिः सम्भवति। यथैकस्मिन् देहे हृदयादि-देशे वर्तमानस्याणोर् अपि सर्वस्मिन् देहे अहम् इत्य् अभिमानानुगुण-व्याप्तिः स्व-प्रभा-रूप-चैतन्येन तद्वत्। तथा दर्शयति हि श्रुतिः--- बालाग्र-शत-भागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते, इति। प्रत्यगात्मनोऽणुत्वम् एव स्वरूपम् इति सूत्र-कार-मतम्, नाणुर् अतच्-छ्रुतेर् इति चेन् नेतराधिकारात्, इति परस्यैव महत्त्व-वचनात्॥१५॥
Link copiedननु परं ब्रह्म प्राप्तस्यान्तर-बाह्य-ज्ञान-लोपं दर्शयति श्रुतिः--- प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् इति; तत् कथं मुक्तस्य ज्ञानानन्त्यम् उच्यत इत्य् अत्राह---
Link copied५३९ स्वाप्यय-सम्पत्त्योर् अन्यतरापेक्षम् आविष्कृतं हि॥४।४।१६॥
Link copiedनेदं मुक्त-विषयम्; सुषुप्ति-मरणयोर् अन्यतरापेक्षम्। आविष्कृतं हि श्रुत्या सुषुप्ति-मरणयोर् निःसम्बोधत्वम्, मोक्ष-दशायां सर्वज्ञत्वं च। सुषुप्तौ तावत्, ना ह खल्व् अयम् एवं सम्प्रत्यात्मानं जानात्य् अयम् अहम् अस्मीति नो एवेमानि भूतानि विनाशम् एवापीतो भवति, विनाशम्--- अदर्शनम् इत्य् अर्थः। मरणे च--- एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानु विनश्यति, इति। विनश्यति--- न पश्यतीत्य् अर्थः। मोक्षे तु--- स वा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्म-लोके, इति; सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः, इति च॥१६॥ इत्य् अभावाधिकरणम्॥५॥
Link copied५४० जगद्-व्यापार-वर्जं प्रकरणाद् असन्निहितत्वाच् च॥४।४।१७॥
Link copiedकिं मुक्तस्य भोगः निखिल-हेय-प्रत्यनीक-कल्याणैकतान-सकलेतर-विलक्षणानवधिकातिशयानन्द-महा-विभूति-रूप-परब्रह्मानुभव एव। उत जगत्-सृष्ट्य्-आदि-जगन्-नियमन-रूप-लीलापीति संशयः। निरञ्जनः परमं साम्यम् उपैति, इत्य् आदि श्रुतेर् जगन्-नियमन-रूप-लीलापीति पूर्वः पक्षः। राद्धान्तस् तु--- यतो वा इमानि भूतानि जायन्ते, सद् एव सोम्येदम् अग्र आसीद् इदम् एक एवाग्र आसीत्, आत्मा वा इदम् एक एवाग्र आसीत्, एको ह वै नारायण आसीत्, इत्य् आदिषु परं ब्रह्म प्रकृत्यैव जगद्-व्यापारः श्रूयते। तत्र तत्र प्रकरणे न मुक्तस्य सन्निधिर् अप्य् अस्ति। अतो जगन्-नियमन-रूप-धुरावर्जं, सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता, स एको ब्रह्मण आनन्दः, श्रोत्रियस्य चाकामहतस्य, इत्य् अनवधिकातिशयानन्द-ब्रह्मानुभवे मुक्तस्य साम्यम्। ब्रह्म हि स्वस्य परस्य चानुभूयमानम् अविशेषेणानवधिकातिशयानन्दं भवति, आनन्द-स्वरूपत्वाविशेषात्। सूत्रम् अपि व्याख्यातम्॥१७॥
Link copied५४१ प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिक-मण्डल-स्थोक्तेः॥४।४।१८॥
Link copiedप्रत्यक्षं--- श्रुतिः; तस्य सर्वेषु लोकेषु काम-चारो भवति, इमांल् लोकान् कामान्नी काम-रूप्य् अनुसञ्चरन्, इत्य् आदि श्रुत्या मुक्तस्य जगद्-व्यापारोपदेशात् सोऽपीति चेत् तन् न, आधिकारिक-मण्डल-स्थोक्तेः, आधिकारिकाः--- परम-पुरुषेण लोक-नियमनाधिकारे नियुक्ता हिरण्यगर्भादयः; मण्डलानि--- तेषां लोकाः; तत्-स्थ-भोगेषु मुक्तस्य यद् ईच्छा वर्तते, तत्र तत्र यथाकामं परम-पुरुषानुग्रहेण वर्तमानस् तत्र-स्थान् भोगान् भुङ्क्ते, इति तया श्रुत्योक्तेः। कामान्नी, काम-चारो भवति, इति हि श्रूयते; न नियुङ्क्त इति॥१८॥
Link copiedउत्पत्त्य्-आदि-विकारवर्ती हेय-मिश्रोऽत्यल्पश् च कथं मुक्तस्य भोगो भवति, यद्-इच्छातः सर्वेषु लोकेषु काम-चार उच्यत इत्य् अत्राह---
Link copied५४२ विकारावर्ति च तथा हि स्थितिम् आह॥४।४।१९॥
Link copiedच-शब्दोऽवधारणे; उत्पत्त्य्-आदि-विकारेषु न वर्तत इति विकारावर्ति परं ब्रह्मैव। निर्धूत-निखिल-विकारं निखिल-हेय-प्रत्यनीक-कल्याणैकतानं निरतिशयानन्दं परब्रह्म सविभूति सकल-कल्याण-गुणं मुक्तस्य भोग्यम्; तद्-विभूत्य्-अन्तर्गतत्वेन विकार-वर्तिनां लोकानाम् अपि मुक्त-भोग्यत्वम्। तथा हि परस्मिन् ब्रह्मणि मुक्तस्यानुभवितृत्वेन स्थितिम् आह श्रुतिः--- यदा ह्य् एवैष एतस्मिन्न् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवति, रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति, ब्रह्म-निष्ठो ब्रह्मैव लब्ध्वानन्दी भवतीत्य् अर्थः। ब्रह्म हि निरतिशय-कल्याणानन्त-गुणकम् अनन्त-महा-विभूति च। तत्र सविभूतिक-ब्रह्मानुभवाय विभूत्य्-एकदेश-भूत-लोकेषु सञ्चरतस् तत्र तत्र काम-चारो भवतीत्य् उच्यते॥१९॥
Link copied५४३ दर्शयतश् चैवं प्रत्यक्षानुमाने॥४।४।२०॥
Link copiedउत्पत्त्य्-आदि-जगन्-नियमनं परस्यैव; मुक्तस्य तु परब्रह्मानुभव एव भोग इत्य् उक्तम् एवार्थं प्रत्यक्षानुमाने--- श्रुति-स्मृती दर्शयतः, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः, भीषास्माद् वातः पवते, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, इत्य् आदिका श्रुतिः; स्मृतिर् अपि--- अहं सर्वस्य प्रभवः, अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा, विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्, मत्तः सर्वं प्रवर्तते, सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः प्रशासितारं सर्वेषाम्, इत्य् आदिका पर-विषया। अथाकामयमानो योऽकामो निष्काम आप्त-काम आत्म-कामः, इत्य् आदिका श्रुतिः। स्मृतिर् अपि--- प्रियो हि ज्ञानिनोऽत्यर्थम् अहम्, आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम्, वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः, मां च योऽव्यभिचारेण भक्ति-योगेन सेवते। स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते॥ ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च, इत्य् आदिका मुक्त-विषया॥२०॥
Link copied५४४ भोग-मात्र-साम्य-लिङ्गाच् च॥४।४।२१॥
Link copiedसोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता, इति मुक्तस्य ब्रह्मानुभव-भोग-मात्र-ब्रह्म-साम्य-वचनाल् लिङ्गाच् च जगद्-व्यापार-वर्जम् इति निश्चीयते॥२१॥
Link copiedयदि नियन्तृत्वं परस्यैव, एवं तर्हि स्वतन्त्रत्वेन मुक्तं परः कदाचित् पुनर् आवर्तयिष्यतीत्य् आशङ्क्याह---
Link copied५४५ अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात्॥४।४।२२॥
Link copiedअस्य मुक्तस्यानावृत्तिः शब्दाद् अवगम्यते--- यतो वा इमानि भूतानि जायन्ते, सोऽकामयत बहु स्यां प्रजायेयेति, यः पृथिवीम् अन्तरो यमयति, य आत्मानम् अन्तरो यमयति, इति शब्दात् परम-पुरुषस्य स्रष्टुत्वं नियन्तृत्वं चावगम्यते। तथा--- एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते, स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्तते, माम् उपेत्य पुनर् जन्म दुःखालयम् अशाश्वतम्। नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥ आब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनोऽर्जुन। माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते, इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च, इति शब्दाद् एवैनं कदाचिद् अपि नावर्तयतीत्य् अवगम्यते। सूत्रावृत्तिस् तु शास्त्र-परिसमाप्तिं द्योतयतीति सर्वं समञ्जसम्॥२२॥ इति जगद्-व्यापार-वर्जाधिकरणम्॥८॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य चतुर्थः पादः॥
Link copied॥समाप्तश् चाध्यायः॥
Link copiedशास्त्रं च परिसमाप्तम्॥
Link copied౫౨౪ సమ్పద్యావిర్భావః స్వేన శబ్దాత్॥౪।౪।౧॥
Link copiedఏవమ్ ఏవైష సమ్ప్రసాదోఽస్మాచ్ ఛరీరాత్ సముత్థాయ పరం జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే ఇతి కిం పరం జ్యోతిర్-ఉపసమ్పన్నస్య ప్రత్యగాత్మనః స్వరూపావిర్భావః ప్రతిపాద్యతే, ఉతాన్యేన సాధ్యేన రూపేణ సమ్బన్ధ ఇతి సంశయః। స్వ-స్వరూపస్య సుషుప్త్య్-ఆదౌ నిరానన్దత్వ-దర్శనాత్, స్వరూప-మాత్రస్య నిత్యావిర్భూతత్వాచ్ చ, సాధ్యేన సుఖైకాన్తేన రూపేణ సమ్బధ్యతే। ఏవం చ--- అభినిష్పద్యతే ఇతి వచనం సఙ్గచ్ఛతే। పరం జ్యోతిర్-ఉపసమ్పన్నస్య హ్య్ ఆనన్దిత్వం శ్రూయతే--- రసం హ్య్ ఏవాయం లబ్ధ్వానన్దీ భవతి, స ఏకో బ్రహ్మణ ఆనన్దః, శ్రోత్రియస్య చాకామహతస్య, ఇత్య్ ఆదిషు। అతః సాధ్యేన రూపేణేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- స్వేన రూపేణాభినిష్పద్యతే ఇతి విశేషణాత్ స్వరూపావిర్భావ ఏవ। స్వరూపస్య చాపహత-పాప్మత్వాది-గుణకతయా ప్రజాపతి-వాక్యోదితస్య కర్మ-కృత-దేహ-సమ్బన్ధ-తత్-కృత-తిరోధానస్య పర-జ్యోతిర్-ఉపసమ్పత్త్యా సూక్ష్మ-దేహ-వినిర్ముక్తస్యాసఙ్కుచిత-జ్ఞానాది-గుణక-స్వరూపావిర్భావాత్ స్వ-యాథాత్మ్యానుభవ-పూర్వకానవధికాతిశయానన్ద-బ్రహ్మానుభవః సమ్పత్స్యత ఇతి, అభినిష్పద్యతే, ఇతి చోపపన్నతరమ్। సూత్రార్థస్ తు--- పరం జ్యోతిర్ ఉపసమ్పద్య స్వ-స్వరూపావిర్భావః ప్రతిపాద్యతే। కుతః। స్వేన-శబ్దాత్--- సాధ్యస్యాపి రూపస్య స్వాసాధారణత్వేన స్వేనేతి విశేషణం హ్య్ అనర్థకమ్॥౧॥
Link copiedస్వ-స్వరూప-మాత్రస్య అహం జానామీతి నిత్యావిర్భూతత్వేన, పరం జ్యోతిర్ ఉపసమ్పద్యేత్య్ అనర్థకమ్ ఇత్య్ ఆశఙ్క్యాహ---
Link copied౫౨౫ ముక్తః ప్రతిజ్ఞానాత్॥౪।౪।౨॥
Link copiedకర్మ-సమ్బన్ధ-తత్-కృత-దేహాదేర్ ముక్త-స్వరూపమ్ అత్ర, స్వేన రూపేణాభినిష్పద్యతే ఇత్య్ ఉచ్యతే। కథమ్ ఇదమ్ అవగమ్యతే। ఏతం త్వ్ ఏవ తే భూయోఽనువ్యాఖ్యాస్యామి, ఇతి కర్మ-హేతుక-దేహ-సమ్బన్ధ-తత్-కృత-జాగరితాద్య్-అవస్థావినిర్ముక్త-స్వరూపస్యాత్ర వక్తవ్యతయా ప్రతిజ్ఞానాత్॥౨॥
Link copiedఏవమ్ అపి స్వరూప-మాత్రావిర్భావస్య పురుషార్థత్వం న సిద్ధ్యతీత్య్ ఆశఙ్క్య్ ఆహ---
Link copied౫౨౬ ఆత్మా ప్రకరణాత్॥౪।౪।౩॥
Link copiedదేహాది-వినిర్ముక్తః స్వరూపేణావస్థిత ఆత్మా అపహత-పాప్మత్వాది-సత్య-సఙ్కల్పత్వ-పర్యన్త-గుణకః। తస్య హ్య్ ఆవిర్భావ ఉచ్యతే। కుతః। ప్రకరణాత్। య ఆత్మా అపహత-పాప్మా, ఇతి ప్రకృత్య హి, ఏతం త్వ్ ఏవ తే భూయోఽనువ్యాఖ్యాస్యామీత్య్ ఆదినోచ్యతే। అతోఽపహత-పాప్మత్వాది-గుణక-స్వరూపస్య కర్మాఖ్యావిద్యా-తిరోహితస్య పరం జ్యోతిర్ ఉపసమ్పద్య నివృత్త-తిరోధానస్యావిర్భావః ప్రతిపాద్యతే॥౩॥ ఇతి సమ్పద్యావిర్భావాధికరణమ్॥౧॥
Link copied౫౨౭ అవిభాగేన దృష్టత్వాత్॥౪।౪।౪॥
Link copiedకిమ్ అయం ముక్తః ఆవిర్భూత-స్వరూపః ప్రత్యగాత్మా పరం బ్రహ్మ స్వాత్మనో విభక్తమ్ అనుభవతి, ఉత స్వాత్మనోఽప్య్ ఆత్మతయావిభాగేన, అహం బ్రహ్మాస్మీతీతి సంశయః। నిరఞ్జనః పరమం సామ్యమ్ ఉపైతి, సోఽశ్నుతే సర్వాన్ కామాన్ సహ, బ్రహ్మణా విపశ్చితేతి, ఇదం జ్ఞానమ్ ఉపాశ్రిత్య మమ సాధర్మ్యమ్ ఆగతాః, ఇతి శ్రుతి-స్మృతిభ్యో విభక్తమ్ అనుభవతీతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- సర్వం ఖల్వ్ ఇదం బ్రహ్మ, ఐతదాత్మ్యమ్ ఇదం సర్వమ్\॥॥ తత్త్వమ్ అసి, ఇత్య్ ఆదినా సామానాధికరణ్యేన, యః పృథివ్యాం తిష్ఠన్\॥॥యస్య పృథివీ శరీరం, య ఆత్మని తిష్ఠన్\॥॥యస్యాత్మా శరీరమ్ ఇత్య్ ఆదిషు సర్వస్య చిద్-అచిద్-వస్తునో బ్రహ్మ-శరీరతయా బ్రహ్మ-ప్రకారత్వాత్ తత్-తద్-వస్తు-బుద్ధి-శబ్దాస్ తత్-పర్యన్త-విషయా ఇత్య్ అవగమ్య, ఆత్మేతి తూపగచ్ఛన్తీతి న్యాయేన స్వాత్మనోఽప్య్ ఆత్మతయా అహం బ్రహ్మాస్మీత్య్ ఉపాసనేన యథావస్థిత-పరమాత్మాత్మక-స్వాత్మనో దృష్టత్వాన్ ముక్తః స్వాత్మనోఽప్య్ ఆత్మ-భూతం బ్రహ్మ అహం బ్రహ్మాస్మీత్య్ అవిభాగేనైవానుభవతి॥
Link copiedసూత్రార్థస్ తు--- అహం బ్రహ్మాస్మీత్య్ అవిభాగేనైవ బ్రహ్మానుభవతి ముక్తః, స్వాత్మనోఽప్య్ ఆత్మతయోపాసనేన యథావస్థిత-పరమాత్మాత్మక-స్వరూపస్య దృష్టత్వాత్। సాధర్మ్య-శ్రుతిస్ తు పరమాత్మ-శరీర-భూతస్య సాధర్మ్య-శ్రుతిస్ తు పరమాత్మ-శరీర-భూతస్య ప్రత్యగాత్మనోఽపహత-పాప్మత్వాది-గుణైస్ తత్-సాధర్మ్యం ప్రతిపాదయతి। సోఽశ్నుతే సర్వాన్ కామాన్ సహ, బ్రహ్మణా విపశ్చితా ఇతి బ్రహ్మ-శరీరతయా బ్రహ్మ-ప్రకార-భూతత్వాత్ స్వాత్మ-భూతేన బ్రహ్మణా సహ తద్-గుణాన్ అనుభవతీతి వదతి। కామ్యన్తే ఇతి కామాః--- కల్యాణ-గుణాః, కల్యాణ-గుణ-విశిష్టం బ్రహ్మానుభవతీత్య్ అర్థః॥౪॥ ఇత్య్ అవిభాగేన దృష్టత్వాధికరణమ్॥౨॥
Link copied౫౨౮ బ్రాహ్మేణ జైమినిర్ ఉపన్యాసాదిభ్యః॥౪।౪।౫॥
Link copiedకిం జీవస్య స్వాభావిక రూపమ్ అపహత-పాప్మత్వాది-గుణకమ్ ఉత చైతన్య-మాత్రమ్ ఉతోభయమ్ ఇతి సంశయః। అపహత-పాప్మత్వాది-గుణకమ్ ఇతి ప్రథమః పక్షః, య ఆత్మాపహత-పాప్మా, ఇతి ప్రతిపాదనాత్। చైతన్య-మాత్రమ్ ఇతి ద్వితీయః పక్షః, ఏవం వా అరేఽయమ్ ఆత్మానన్తరోఽబాహ్యః కృత్స్నః ప్రజ్ఞాన-ఘన ఏవ, విజ్ఞాన-ఘన ఏవ, ఇత్య్ అవధారణాత్। రాద్ధాన్తస్ తు--- జ్ఞాన-స్వరూపస్యైవాపహత-పాప్మత్వాది-గుణకత్వ-ప్రతిపాదనాద్ అవిరోధాచ్ చోభయం స్వరూపమ్। న చ, విజ్ఞాన-ఘన ఏవేత్య్ అవధారణం గుణాన్తరాసహం యథా సైన్ధవ-ఘనస్య, రస-ఘన ఏవేత్య్ అవధారణేఽపి రసాశ్రయ-ద్రవ్యం రూప-స్పర్శాది-గుణాన్తరం చ సహతే; రస-ఘన ఏవేత్య్ అవధారణం తు రసవద్ ద్రవవ్యాన్తర-స్వభావ-వ్యావృత్తి-పరమ్; ద్రవ్యాన్తరాణాం హి స్వైకదేశే రసవత్త్వమ్। సైన్ధవ-ఘనస్య తు సర్వత్ర। ఏవమ్ అత్రాపి జడ-వస్తు-వ్యావృత్త-స్వ-స్వభావస్య సగుణస్యాత్మనః స్వ-ప్రకాశతావధారణం, విజ్ఞాన-ఘన ఏవేతి క్రియతే॥
Link copiedసూత్రార్థస్ తు--- బ్రాహ్మేణ అపహత-పాప్మత్వాదినా స్వరూపావిర్భావః। అపహత-పాప్మత్వాదయో దహర-వాక్యే బ్రహ్మ-గుణాః శ్రుతాః। ఉపన్యాసాదిభ్యః--- తేషాం బ్రహ్మ-గుణానాం ప్రత్యగాత్మన్య్ అపి, య ఆత్మాపహత-పాప్మా, ఇత్య్ ఆదినోపన్యాసాత్। ఆది-శబ్దాత్, జక్షత్ క్రీడన్ రమమాణః, ఇత్య్ ఆదిభ్యోఽపి సత్య-సఙ్కల్పత్వాదయోఽవగమ్యన్త ఇతి జైమినిర్ ఆచార్యో మన్యతే॥౫॥
Link copied౫౨౯ చితి తన్-మాత్రేణ తదాత్మకత్వాద్ ఇత్య్ ఔడలోమిః॥౪।౪।౬॥
Link copiedచైతన్య-మాత్రేణ స్వరూపావిర్భావః, విజ్ఞాన-ఘన ఏవేతి తదాత్మకత్వావధారణాద్ ఇత్య్ ఔడులోమిర్ ఆచార్యో మన్యతే॥౬॥
Link copied౫౩౦ ఏవమ్ అప్య్ ఉపన్యాసాత్ పూర్వ-భావాద్ అవిరోధం బాదరాయణః॥౪।౪।౭॥
Link copiedఏవం- విజ్ఞాన-స్వరూపస్యైవ, స్వ-ప్రకాశ-స్వరూపస్యైవ పూర్వేషామ్--- అపహత-పాప్మత్వాది-సత్య-సఙ్కల్పత్వ-పర్యన్తానామ్ అపి, య ఆత్మాపహత-పాప్మా, ఇత్య్ ఉపన్యాసాత్ సద్-భావావగమాద్ ఉభయోః స్వరూపయోర్ అవిరోధం భగవాన్ బాదరాయణో మన్యతే। ఉభయ-శ్రుత్య్-అవగతస్యేతరేతర-విరోధాభావాన్ నాన్యతర-బాధే ప్రమాణమ్ అస్తీత్య్ అభిప్రాయః॥౭॥ ఇతి బ్రాహ్మాధికరణమ్॥౩॥
Link copied౫౩౧ సఙ్కల్పాద్ ఏవ తచ్-ఛ్రుతేః॥౪।౪।౮॥
Link copiedపరం జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే స ఉత్తమః పురుషః స తత్ర పర్యేతి జక్షత్ క్రీడన్ రమమాణః స్త్రీభిర్ వా యానైర్ వా జ్ఞాతిభిర్ వా, ఇత్య్ ఆదిర్ ఆమ్నాయతే। కిమ్ ఏతే జ్ఞాత్య్-ఆదయో ముక్తస్య సఙ్కల్పాద్ ఏవ భవన్తి, ఉత ప్రయత్నాన్తర-సవ్యపేక్షాత్ సఙ్కల్పాద్ ఇతి సంశయః। లోకే రాజాదీనాం సత్య-సఙ్కల్పత్వేన వ్యవహ్రియమాణానామ్ అపి కార్యే ప్రయత్నాన్తర-సాపేక్షత్వ-దర్శనాన్ ముక్తస్యాపి తథైవ సాపేక్షత్వాద్ ఇతి పూర్వః పక్షః, సఙ్కల్పాద్ ఏవేత్య్ అవధారణం, విజ్ఞాన-ఘన ఏవేతివద్ భవిష్యతి। రాద్ధాన్తస్ తు--- సఙ్కల్పాద్ ఏవాస్య పితరః సముత్తిష్ఠన్తీత్య్ అవధారణాన్ నాన్యాపేక్షత్వమ్। న చేహ సత్య-కామత్వాద్య్-ఉపన్యాసవన్ ముక్తస్యాన్యాపేక్షత్వే ప్రమాణమ్ అస్తి। లోకే సత్య-సఙ్కల్పత్వాభావాద్ ఏవ ప్రయత్నాన్తరాపేక్షత్వమ్; న హి పరమ-పురుష-వ్యతిరిక్తః కశ్చిత్ సత్య-సఙ్కల్పోఽస్తి। ముక్తశ్ చ తత్-ప్రసాదాత్ తత్-సామ్యమ్ ఉపగతస్ తథైవ। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౮॥
Link copied౫౩౨ అత ఏవ చానన్యాధిపతిః॥౪।౪।౯॥
Link copiedఅతః--- శ్రుతేర్ ఏవ ముక్తోఽనన్యాధిపతిశ్ చ। అన్యాధిపతిత్వం--- కర్మాధీనత్వమ్। అపహత-పాప్మా\॥॥సత్య-సఙ్కల్పః, ఇతి శ్రూయతే। అతోఽనన్యాధిపతిః॥౯॥ ఇతి సఙ్కల్పాధికరణమ్॥౪॥
Link copied౫౩౩ అభావం బాదరిర్ ఆహ హ్య్ ఏవమ్॥౪।౪।౧౦॥
Link copiedకిం ముక్తస్య శరీరేన్ద్రియాద్య్ అస్తి, ఉత న, అథ యథాసఙ్కల్పమ్ అస్తి చ నేతి సంశయః। న హ వై సశరీరస్య సతః ప్రియాప్రియయోర్ అపహతిర్ అస్త్య్ అశరీరం వావ సన్తం న ప్రియాప్రియే స్పృశతః, ఇతి ముక్తస్యాశరీరత్వ-శ్రవణాన్ నాస్త్య్ ఏవేత్య్ ఏకః పక్షః। స ఏకధా భవతి త్రిధా భవతి, ఇతి సశరీరత్వ-శ్రుతేర్ అశరీరత్వ-శ్రుతిః కర్మ-గృహీత-శరీర-విషయేతి శరీరేన్ద్రియాద్య్ అస్త్య్ ఏవేతి ద్వితీయః పక్షః। రాద్ధాన్తస్ తు--- మనసైతాన్ కామాన్ పశ్యన్ రమతే య ఏతే బ్రహ్మ-లోకే, ఇత్య్ అశరీరస్యైవ భోగ-శ్రుతేః, స ఏకధా భవతి త్రిధా భవతి, ఇతి శ్రుతేశ్ చ యథాసఙ్కల్పమ్ అస్తి చ న చేతి। సూత్రార్థస్ తు--- శరీరాభావం బాదరిర్ మేనే; ఏవమ్ ఆహ హి శ్రుతిః--- అశరీరం వావ సన్తమ్ ఇతి॥౧౦॥
Link copied౫౩౪ భావం జైమినిర్ వికల్పామననాత్॥౪।౪।౧౧॥
Link copiedశరీరాది-భావం జైమినిర్ మేనే। కుతః। వికల్పామననాత్--- వివిధః కల్పః--- వికల్పః, స ఏకధా భవతి త్రిధా భవతీత్య్ ఆదినా ముక్తస్య హి వివిధ-కల్పనమ్ ఆమ్నాయతే ఆత్మన ఏక-రూపస్యాచ్ఛేద్యస్య వైవిధ్యాసమ్భవాచ్ ఛరీర-ద్వారేణైవ హి విజ్ఞాయతే వైవిధ్యమ్॥౧౧॥
Link copied౫౩౫ ద్వాదశాహవద్ ఉభయ-విధం బాదరాయణోఽతః॥౪।౪।౧౨॥
Link copiedఅతః--- ఉభయ-శ్రుతేర్ ఇచ్ఛాతః, ఉభయ-విధమ్, శరీరవత్త్వమ్ అశరీరత్వం చ భగవాన్ బాదరాయణో మేనే; ద్వాదశాహవత్--- యథా ద్వాదశాహ ఉభయ-శ్రుతేః సత్రమ్ అహీనం చ, ద్వాదశాహమ్ ఋద్ధి-కామా ఉపేయుః, ఇతి సత్రం భవతి, ద్వాదశాహేన ప్రజా-కామం యాజయేత్, ఇత్య్ అహీనమ్॥౧౨॥
Link copied౫౩౬ తన్వ్-అభావే సన్ధ్యవద్ ఉపపత్తేః॥౪।౪।౧౩॥
Link copiedస్వేనైవ సృష్ట-తను-ప్రభృత్య్-ఉపకరణాభావే పరమ-పురుష-సృష్టైర్ ఉపకరణైర్ భోగోపపత్తేః సత్య-సఙ్కల్పోఽపి స్వయం న సృజతి, సన్ధ్యవత్--- యథా స్వప్నే, అథ రథాన్, ఇత్య్ ఆరభ్య, స హి కర్తా, ఇతి, య ఏష సుప్తేషు, ఇత్య్ ఆరభ్య, తద్ ఉ నాత్యేతి కశ్చన, ఇతి చేశ్వర-సృష్టైర్ ఉపకరణైర్ జీవో భుఙ్క్తే; తథా ముక్తోఽపి లీలా-ప్రవృత్తేశ్వర-సృష్టైః పితృ-లోకాదిభిర్ లీలా-రసం భుఙ్క్తే॥౧౩॥
Link copied౫౩౭ భావే జాగ్రద్వత్॥౪।౪।౧౪॥
Link copiedస్వ-సఙ్కల్ప-సృష్ట-తను-ప్రభృత్య్-ఉపకరణ-సద్-భావే జాగ్రత్-పురుష-భోగవన్ ముక్తో లీలా-రసం భుఙ్క్తే, పరమ-పురుషోఽపి దశరథ-వసుదేవాది-పితృ-లోకాదికమ్ ఆత్మనః సృష్ట్వా తైర్ మనుష్య-ధర్మ-లీలా-రసం భుఙ్క్తే; తథా ముక్తశ్ చ సత్య-సఙ్కల్పత్వాత్ పరమ-పురుష-లీలాన్తర్గత-స్వ-పితృ-లోకాదికం స్వయమ్ ఏవ సృష్ట్వా తైర్ లీలా-రసమ్ అనుభవతి॥౧౪॥
Link copiedనన్వ్ ఆత్మాణు-పరిమాణ ఇత్య్ ఉక్తమ్, కథమ్ అనేక-శరీరేష్వేకస్యాణోర్ ఆత్మాభిమాన-సమ్భవ ఇత్య్ అత్రాహ---
Link copied౫౩౮ ప్రదీపవద్ ఆవేశస్ తథా హి దర్శయతి॥౪।౪।౧౫॥
Link copiedయథా ప్రదీపస్యైకస్యైకదేశ-వర్తినః స్వయా ప్రభయానేక-దేశ-ప్రవేశః, తద్వద్ ఆత్మనోఽప్య్ ఏక-దేశ-స్థస్య స్వ-ప్రభా-రూపేణ జ్ఞానేన సర్వ-దేహేషు యథాసఙ్కల్పమ్ ఆత్మాభిమానానుగుణా వ్యాప్తిః సమ్భవతి। యథైకస్మిన్ దేహే హృదయాది-దేశే వర్తమానస్యాణోర్ అపి సర్వస్మిన్ దేహే అహమ్ ఇత్య్ అభిమానానుగుణ-వ్యాప్తిః స్వ-ప్రభా-రూప-చైతన్యేన తద్వత్। తథా దర్శయతి హి శ్రుతిః--- బాలాగ్ర-శత-భాగస్య శతధా కల్పితస్య చ। భాగో జీవః స విజ్ఞేయః స చానన్త్యాయ కల్పతే, ఇతి। ప్రత్యగాత్మనోఽణుత్వమ్ ఏవ స్వరూపమ్ ఇతి సూత్ర-కార-మతమ్, నాణుర్ అతచ్-ఛ్రుతేర్ ఇతి చేన్ నేతరాధికారాత్, ఇతి పరస్యైవ మహత్త్వ-వచనాత్॥౧౫॥
Link copiedనను పరం బ్రహ్మ ప్రాప్తస్యాన్తర-బాహ్య-జ్ఞాన-లోపం దర్శయతి శ్రుతిః--- ప్రాజ్ఞేనాత్మనా సమ్పరిష్వక్తో న బాహ్యం కిఞ్చన వేద నాన్తరమ్ ఇతి; తత్ కథం ముక్తస్య జ్ఞానానన్త్యమ్ ఉచ్యత ఇత్య్ అత్రాహ---
Link copied౫౩౯ స్వాప్యయ-సమ్పత్త్యోర్ అన్యతరాపేక్షమ్ ఆవిష్కృతం హి॥౪।౪।౧౬॥
Link copiedనేదం ముక్త-విషయమ్; సుషుప్తి-మరణయోర్ అన్యతరాపేక్షమ్। ఆవిష్కృతం హి శ్రుత్యా సుషుప్తి-మరణయోర్ నిఃసమ్బోధత్వమ్, మోక్ష-దశాయాం సర్వజ్ఞత్వం చ। సుషుప్తౌ తావత్, నా హ ఖల్వ్ అయమ్ ఏవం సమ్ప్రత్యాత్మానం జానాత్య్ అయమ్ అహమ్ అస్మీతి నో ఏవేమాని భూతాని వినాశమ్ ఏవాపీతో భవతి, వినాశమ్--- అదర్శనమ్ ఇత్య్ అర్థః। మరణే చ--- ఏతేభ్యో భూతేభ్యః సముత్థాయ తాన్య్ ఏవాను వినశ్యతి, ఇతి। వినశ్యతి--- న పశ్యతీత్య్ అర్థః। మోక్షే తు--- స వా ఏష దివ్యేన చక్షుషా మనసైతాన్ కామాన్ పశ్యన్ రమతే య ఏతే బ్రహ్మ-లోకే, ఇతి; సర్వం హ పశ్యః పశ్యతి సర్వమ్ ఆప్నోతి సర్వశః, ఇతి చ॥౧౬॥ ఇత్య్ అభావాధికరణమ్॥౫॥
Link copied౫౪౦ జగద్-వ్యాపార-వర్జం ప్రకరణాద్ అసన్నిహితత్వాచ్ చ॥౪।౪।౧౭॥
Link copiedకిం ముక్తస్య భోగః నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైకతాన-సకలేతర-విలక్షణానవధికాతిశయానన్ద-మహా-విభూతి-రూప-పరబ్రహ్మానుభవ ఏవ। ఉత జగత్-సృష్ట్య్-ఆది-జగన్-నియమన-రూప-లీలాపీతి సంశయః। నిరఞ్జనః పరమం సామ్యమ్ ఉపైతి, ఇత్య్ ఆది శ్రుతేర్ జగన్-నియమన-రూప-లీలాపీతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- యతో వా ఇమాని భూతాని జాయన్తే, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఇదమ్ ఏక ఏవాగ్ర ఆసీత్, ఆత్మా వా ఇదమ్ ఏక ఏవాగ్ర ఆసీత్, ఏకో హ వై నారాయణ ఆసీత్, ఇత్య్ ఆదిషు పరం బ్రహ్మ ప్రకృత్యైవ జగద్-వ్యాపారః శ్రూయతే। తత్ర తత్ర ప్రకరణే న ముక్తస్య సన్నిధిర్ అప్య్ అస్తి। అతో జగన్-నియమన-రూప-ధురావర్జం, సోఽశ్నుతే సర్వాన్ కామాన్ సహ బ్రహ్మణా విపశ్చితా, స ఏకో బ్రహ్మణ ఆనన్దః, శ్రోత్రియస్య చాకామహతస్య, ఇత్య్ అనవధికాతిశయానన్ద-బ్రహ్మానుభవే ముక్తస్య సామ్యమ్। బ్రహ్మ హి స్వస్య పరస్య చానుభూయమానమ్ అవిశేషేణానవధికాతిశయానన్దం భవతి, ఆనన్ద-స్వరూపత్వావిశేషాత్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧౭॥
Link copied౫౪౧ ప్రత్యక్షోపదేశాద్ ఇతి చేన్ నాధికారిక-మణ్డల-స్థోక్తేః॥౪।౪।౧౮॥
Link copiedప్రత్యక్షం--- శ్రుతిః; తస్య సర్వేషు లోకేషు కామ-చారో భవతి, ఇమాంల్ లోకాన్ కామాన్నీ కామ-రూప్య్ అనుసఞ్చరన్, ఇత్య్ ఆది శ్రుత్యా ముక్తస్య జగద్-వ్యాపారోపదేశాత్ సోఽపీతి చేత్ తన్ న, ఆధికారిక-మణ్డల-స్థోక్తేః, ఆధికారికాః--- పరమ-పురుషేణ లోక-నియమనాధికారే నియుక్తా హిరణ్యగర్భాదయః; మణ్డలాని--- తేషాం లోకాః; తత్-స్థ-భోగేషు ముక్తస్య యద్ ఈచ్ఛా వర్తతే, తత్ర తత్ర యథాకామం పరమ-పురుషానుగ్రహేణ వర్తమానస్ తత్ర-స్థాన్ భోగాన్ భుఙ్క్తే, ఇతి తయా శ్రుత్యోక్తేః। కామాన్నీ, కామ-చారో భవతి, ఇతి హి శ్రూయతే; న నియుఙ్క్త ఇతి॥౧౮॥
Link copiedఉత్పత్త్య్-ఆది-వికారవర్తీ హేయ-మిశ్రోఽత్యల్పశ్ చ కథం ముక్తస్య భోగో భవతి, యద్-ఇచ్ఛాతః సర్వేషు లోకేషు కామ-చార ఉచ్యత ఇత్య్ అత్రాహ---
Link copied౫౪౨ వికారావర్తి చ తథా హి స్థితిమ్ ఆహ॥౪।౪।౧౯॥
Link copiedచ-శబ్దోఽవధారణే; ఉత్పత్త్య్-ఆది-వికారేషు న వర్తత ఇతి వికారావర్తి పరం బ్రహ్మైవ। నిర్ధూత-నిఖిల-వికారం నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైకతానం నిరతిశయానన్దం పరబ్రహ్మ సవిభూతి సకల-కల్యాణ-గుణం ముక్తస్య భోగ్యమ్; తద్-విభూత్య్-అన్తర్గతత్వేన వికార-వర్తినాం లోకానామ్ అపి ముక్త-భోగ్యత్వమ్। తథా హి పరస్మిన్ బ్రహ్మణి ముక్తస్యానుభవితృత్వేన స్థితిమ్ ఆహ శ్రుతిః--- యదా హ్య్ ఏవైష ఏతస్మిన్న్ అదృశ్యేఽనాత్మ్యేఽనిరుక్తేఽనిలయనేఽభయం ప్రతిష్ఠాం విన్దతే, అథ సోఽభయం గతో భవతి, రసో వై సః, రసం హ్య్ ఏవాయం లబ్ధ్వానన్దీ భవతి, బ్రహ్మ-నిష్ఠో బ్రహ్మైవ లబ్ధ్వానన్దీ భవతీత్య్ అర్థః। బ్రహ్మ హి నిరతిశయ-కల్యాణానన్త-గుణకమ్ అనన్త-మహా-విభూతి చ। తత్ర సవిభూతిక-బ్రహ్మానుభవాయ విభూత్య్-ఏకదేశ-భూత-లోకేషు సఞ్చరతస్ తత్ర తత్ర కామ-చారో భవతీత్య్ ఉచ్యతే॥౧౯॥
Link copied౫౪౩ దర్శయతశ్ చైవం ప్రత్యక్షానుమానే॥౪।౪।౨౦॥
Link copiedఉత్పత్త్య్-ఆది-జగన్-నియమనం పరస్యైవ; ముక్తస్య తు పరబ్రహ్మానుభవ ఏవ భోగ ఇత్య్ ఉక్తమ్ ఏవార్థం ప్రత్యక్షానుమానే--- శ్రుతి-స్మృతీ దర్శయతః, తస్మాద్ వా ఏతస్మాద్ ఆత్మన ఆకాశః సమ్భూతః, భీషాస్మాద్ వాతః పవతే, ఏతస్య వా అక్షరస్య ప్రశాసనే గార్గి సూర్యాచన్ద్రమసౌ విధృతౌ తిష్ఠతః, ఇత్య్ ఆదికా శ్రుతిః; స్మృతిర్ అపి--- అహం సర్వస్య ప్రభవః, అహం కృత్స్నస్య జగతః ప్రభవః ప్రలయస్ తథా, విష్టభ్యాహమ్ ఇదం కృత్స్నమ్ ఏకాంశేన స్థితో జగత్, మత్తః సర్వం ప్రవర్తతే, సోఽభిధ్యాయ శరీరాత్ స్వాత్ సిసృక్షుర్ వివిధాః ప్రజాః ప్రశాసితారం సర్వేషామ్, ఇత్య్ ఆదికా పర-విషయా। అథాకామయమానో యోఽకామో నిష్కామ ఆప్త-కామ ఆత్మ-కామః, ఇత్య్ ఆదికా శ్రుతిః। స్మృతిర్ అపి--- ప్రియో హి జ్ఞానినోఽత్యర్థమ్ అహమ్, ఆస్థితః స హి యుక్తాత్మా మామ్ ఏవానుత్తమాం గతిమ్, వాసుదేవః సర్వమ్ ఇతి స మహాత్మా సుదుర్లభః, మాం చ యోఽవ్యభిచారేణ భక్తి-యోగేన సేవతే। స గుణాన్ సమతీత్యైతాన్ బ్రహ్మ-భూయాయ కల్పతే॥ బ్రహ్మణో హి ప్రతిష్ఠాహమ్ అమృతస్యావ్యయస్య చ। శాశ్వతస్య చ ధర్మస్య సుఖస్యైకాన్తికస్య చ, ఇత్య్ ఆదికా ముక్త-విషయా॥౨౦॥
Link copied౫౪౪ భోగ-మాత్ర-సామ్య-లిఙ్గాచ్ చ॥౪।౪।౨౧॥
Link copiedసోఽశ్నుతే సర్వాన్ కామాన్ సహ బ్రహ్మణా విపశ్చితా, ఇతి ముక్తస్య బ్రహ్మానుభవ-భోగ-మాత్ర-బ్రహ్మ-సామ్య-వచనాల్ లిఙ్గాచ్ చ జగద్-వ్యాపార-వర్జమ్ ఇతి నిశ్చీయతే॥౨౧॥
Link copiedయది నియన్తృత్వం పరస్యైవ, ఏవం తర్హి స్వతన్త్రత్వేన ముక్తం పరః కదాచిత్ పునర్ ఆవర్తయిష్యతీత్య్ ఆశఙ్క్యాహ---
Link copied౫౪౫ అనావృత్తిః శబ్దాద్ అనావృత్తిః శబ్దాత్॥౪।౪।౨౨॥
Link copiedఅస్య ముక్తస్యానావృత్తిః శబ్దాద్ అవగమ్యతే--- యతో వా ఇమాని భూతాని జాయన్తే, సోఽకామయత బహు స్యాం ప్రజాయేయేతి, యః పృథివీమ్ అన్తరో యమయతి, య ఆత్మానమ్ అన్తరో యమయతి, ఇతి శబ్దాత్ పరమ-పురుషస్య స్రష్టుత్వం నియన్తృత్వం చావగమ్యతే। తథా--- ఏతేన ప్రతిపద్యమానా ఇమం మానవమ్ ఆవర్తం నావర్తన్తే, స ఖల్వ్ ఏవం వర్తయన్ యావద్ ఆయుషం బ్రహ్మ-లోకమ్ అభిసమ్పద్యతే న చ పునర్ ఆవర్తతే, మామ్ ఉపేత్య పునర్ జన్మ దుఃఖాలయమ్ అశాశ్వతమ్। నాప్నువన్తి మహాత్మానః సంసిద్ధిం పరమాం గతాః॥ ఆబ్రహ్మ-భువనాల్ లోకాః పునర్ ఆవర్తినోఽర్జున। మామ్ ఉపేత్య తు కౌన్తేయ పునర్ జన్మ న విద్యతే, ఇదం జ్ఞానమ్ ఉపాశ్రిత్య మమ సాధర్మ్యమ్ ఆగతాః। సర్గేఽపి నోపజాయన్తే ప్రలయే న వ్యథన్తి చ, ఇతి శబ్దాద్ ఏవైనం కదాచిద్ అపి నావర్తయతీత్య్ అవగమ్యతే। సూత్రావృత్తిస్ తు శాస్త్ర-పరిసమాప్తిం ద్యోతయతీతి సర్వం సమఞ్జసమ్॥౨౨॥ ఇతి జగద్-వ్యాపార-వర్జాధికరణమ్॥౮॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే చతుర్థస్యాధ్యాయస్య చతుర్థః పాదః॥
Link copied॥సమాప్తశ్ చాధ్యాయః॥
Link copiedశాస్త్రం చ పరిసమాప్తమ్॥
Link copied524 sampadya:virbha:vah sve:na sabda:th||4|4|1||
Link copiede:vam e:vaisha samprasa:do:'sma:ch chhari:ra:th samuththa:ya param jyo:thir upasampadya sve:na ru:pe:na:bhinishpadyathe: ithi kim param jyo:thir upasampannasya prathyaga:thmanah svaru:pa:virbha:vah prathipa:dyathe:, utha:nye:na sa:dhye:na ru:pe:na sambandha ithi samsayah| sva svaru:pasya sushupthy a:dau nira:nandathva darsana:th, svaru:pa ma:thrasya nithya:virbhu:thathva:ch cha, sa:dhye:na sukhaika:nthe:na ru:pe:na sambadhyathe:| e:vam cha--- abhinishpadyathe: ithi vachanam sangachchhathe:| param jyo:thir upasampannasya hy a:nandithvam sru:yathe:--- rasam hy e:va:yam labdhva:nandi: bhavathi, sa e:ko: brahmana a:nandah, sro:thriyasya cha:ka:mahathasya, ithy a:dishu| athah sa:dhye:na ru:pe:ne:thi pu:rvah pakshah| ra:ddha:nthas thu--- sve:na ru:pe:na:bhinishpadyathe: ithi vise:shana:th svaru:pa:virbha:va e:va| svaru:pasya cha:pahatha pa:pmathva:di gunakathaya: praja:pathi va:kyo:dithasya karma krutha de:ha sambandha thath krutha thiro:dha:nasya para jyo:thir upasampaththya: su:kshma de:ha vinirmukthasya:sankuchitha jna:na:di gunaka svaru:pa:virbha:va:th sva ya:tha:thmya:nubhava pu:rvaka:navadhika:thisaya:nanda brahma:nubhavah sampathsyatha ithi, abhinishpadyathe:, ithi cho:papannatharam| su:thra:rthas thu--- param jyo:thir upasampadya sva svaru:pa:virbha:vah prathipa:dyathe:| kuthah| sve:na sabda:th--- sa:dhyasya:pi ru:pasya sva:sa:dha:ranathve:na sve:ne:thi vise:shanam hy anarthakam||1||
Link copiedsva svaru:pa ma:thrasya aham ja:na:mi:thi nithya:virbhu:thathve:na, param jyo:thir upasampadye:thy anarthakam ithy a:sankya:ha---
Link copied525 mukthah prathijna:na:th||4|4|2||
Link copiedkarma sambandha thath krutha de:ha:de:r muktha svaru:pam athra, sve:na ru:pe:na:bhinishpadyathe: ithy uchyathe:| katham idam avagamyathe:| e:tham thv e:va the: bhu:yo:'nuvya:khya:sya:mi, ithi karma he:thuka de:ha sambandha thath krutha ja:garitha:dy avastha:vinirmuktha svaru:pasya:thra vakthavyathaya: prathijna:na:th||2||
Link copiede:vam api svaru:pa ma:thra:virbha:vasya purusha:rthathvam na siddhyathi:thy a:sanky a:ha---
Link copied526 a:thma: prakarana:th||4|4|3||
Link copiedde:ha:di vinirmukthah svaru:pe:na:vasthitha a:thma: apahatha pa:pmathva:di sathya sankalpathva paryantha gunakah| thasya hy a:virbha:va uchyathe:| kuthah| prakarana:th| ya a:thma: apahatha pa:pma:, ithi prakruthya hi, e:tham thv e:va the: bhu:yo:'nuvya:khya:sya:mi:thy a:dino:chyathe:| atho:'pahatha pa:pmathva:di gunaka svaru:pasya karma:khya:vidya: thiro:hithasya param jyo:thir upasampadya nivruththa thiro:dha:nasya:virbha:vah prathipa:dyathe:||3|| ithi sampadya:virbha:va:dhikaranam||1||
Link copied527 avibha:ge:na drushtathva:th||4|4|4||
Link copiedkim ayam mukthah a:virbhu:tha svaru:pah prathyaga:thma: param brahma sva:thmano: vibhaktham anubhavathi, utha sva:thmano:'py a:thmathaya:vibha:ge:na, aham brahma:smi:thi:thi samsayah| niranjanah paramam sa:myam upaithi, so:'snuthe: sarva:n ka:ma:n saha, brahmana: vipaschithe:thi, idam jna:nam upa:srithya mama sa:dharmyam a:gatha:h, ithi sruthi smruthibhyo: vibhaktham anubhavathi:thi pu:rvah pakshah| ra:ddha:nthas thu--- sarvam khalv idam brahma, aithada:thmyam idam sarvam.... thaththvam asi, ithy a:dina: sa:ma:na:dhikaranye:na, yah pruthivya:m thishthan....yasya pruthivi: sari:ram, ya a:thmani thishthan....yasya:thma: sari:ram ithy a:dishu sarvasya chid achid vasthuno: brahma sari:rathaya: brahma praka:rathva:th thath thad vasthu buddhi sabda:s thath paryantha vishaya: ithy avagamya, a:thme:thi thu:pagachchhanthi:thi nya:ye:na sva:thmano:'py a:thmathaya: aham brahma:smi:thy upa:sane:na yatha:vasthitha parama:thma:thmaka sva:thmano: drushtathva:n mukthah sva:thmano:'py a:thma bhu:tham brahma aham brahma:smi:thy avibha:ge:naiva:nubhavathi||
Link copiedsu:thra:rthas thu--- aham brahma:smi:thy avibha:ge:naiva brahma:nubhavathi mukthah, sva:thmano:'py a:thmathayo:pa:sane:na yatha:vasthitha parama:thma:thmaka svaru:pasya drushtathva:th| sa:dharmya sruthis thu parama:thma sari:ra bhu:thasya sa:dharmya sruthis thu parama:thma sari:ra bhu:thasya prathyaga:thmano:'pahatha pa:pmathva:di gunais thath sa:dharmyam prathipa:dayathi| so:'snuthe: sarva:n ka:ma:n saha, brahmana: vipaschitha: ithi brahma sari:rathaya: brahma praka:ra bhu:thathva:th sva:thma bhu:the:na brahmana: saha thad guna:n anubhavathi:thi vadathi| ka:myanthe: ithi ka:ma:h--- kalya:na guna:h, kalya:na guna visishtam brahma:nubhavathi:thy arthah||4|| ithy avibha:ge:na drushtathva:dhikaranam||2||
Link copied528 bra:hme:na jaiminir upanya:sa:dibhyah||4|4|5||
Link copiedkim ji:vasya sva:bha:vika ru:pam apahatha pa:pmathva:di gunakam utha chaithanya ma:thram utho:bhayam ithi samsayah| apahatha pa:pmathva:di gunakam ithi prathamah pakshah, ya a:thma:pahatha pa:pma:, ithi prathipa:dana:th| chaithanya ma:thram ithi dvithi:yah pakshah, e:vam va: are:'yam a:thma:nantharo:'ba:hyah kruthsnah prajna:na ghana e:va, vijna:na ghana e:va, ithy avadha:rana:th| ra:ddha:nthas thu--- jna:na svaru:pasyaiva:pahatha pa:pmathva:di gunakathva prathipa:dana:d aviro:dha:ch cho:bhayam svaru:pam| na cha, vijna:na ghana e:ve:thy avadha:ranam guna:nthara:saham yatha: saindhava ghanasya, rasa ghana e:ve:thy avadha:rane:'pi rasa:sraya dravyam ru:pa sparsa:di guna:ntharam cha sahathe:; rasa ghana e:ve:thy avadha:ranam thu rasavad dravavya:nthara svabha:va vya:vruththi param; dravya:nthara:na:m hi svaikade:se: rasavaththvam| saindhava ghanasya thu sarvathra| e:vam athra:pi jada vasthu vya:vruththa sva svabha:vasya sagunasya:thmanah sva praka:satha:vadha:ranam, vijna:na ghana e:ve:thi kriyathe:||
Link copiedsu:thra:rthas thu--- bra:hme:na apahatha pa:pmathva:dina: svaru:pa:virbha:vah| apahatha pa:pmathva:dayo: dahara va:kye: brahma guna:h srutha:h| upanya:sa:dibhyah--- the:sha:m brahma guna:na:m prathyaga:thmany api, ya a:thma:pahatha pa:pma:, ithy a:dino:panya:sa:th| a:di sabda:th, jakshath kri:dan ramama:nah, ithy a:dibhyo:'pi sathya sankalpathva:dayo:'vagamyantha ithi jaiminir a:cha:ryo: manyathe:||5||
Link copied529 chithi than ma:thre:na thada:thmakathva:d ithy audalo:mih||4|4|6||
Link copiedchaithanya ma:thre:na svaru:pa:virbha:vah, vijna:na ghana e:ve:thi thada:thmakathva:vadha:rana:d ithy audulo:mir a:cha:ryo: manyathe:||6||
Link copied530 e:vam apy upanya:sa:th pu:rva bha:va:d aviro:dham ba:dara:yanah||4|4|7||
Link copiede:vam- vijna:na svaru:pasyaiva, sva praka:sa svaru:pasyaiva pu:rve:sha:m--- apahatha pa:pmathva:di sathya sankalpathva paryantha:na:m api, ya a:thma:pahatha pa:pma:, ithy upanya:sa:th sad bha:va:vagama:d ubhayo:h svaru:payo:r aviro:dham bhagava:n ba:dara:yano: manyathe:| ubhaya sruthy avagathasye:thare:thara viro:dha:bha:va:n na:nyathara ba:dhe: prama:nam asthi:thy abhipra:yah||7|| ithi bra:hma:dhikaranam||3||
Link copied531 sankalpa:d e:va thach chhruthe:h||4|4|8||
Link copiedparam jyo:thir upasampadya sve:na ru:pe:na:bhinishpadyathe: sa uththamah purushah sa thathra parye:thi jakshath kri:dan ramama:nah sthri:bhir va: ya:nair va: jna:thibhir va:, ithy a:dir a:mna:yathe:| kim e:the: jna:thy a:dayo: mukthasya sankalpa:d e:va bhavanthi, utha prayathna:nthara savyape:ksha:th sankalpa:d ithi samsayah| lo:ke: ra:ja:di:na:m sathya sankalpathve:na vyavahriyama:na:na:m api ka:rye: prayathna:nthara sa:pe:kshathva darsana:n mukthasya:pi thathaiva sa:pe:kshathva:d ithi pu:rvah pakshah, sankalpa:d e:ve:thy avadha:ranam, vijna:na ghana e:ve:thivad bhavishyathi| ra:ddha:nthas thu--- sankalpa:d e:va:sya pitharah samuththishthanthi:thy avadha:rana:n na:nya:pe:kshathvam| na che:ha sathya ka:mathva:dy upanya:savan mukthasya:nya:pe:kshathve: prama:nam asthi| lo:ke: sathya sankalpathva:bha:va:d e:va prayathna:nthara:pe:kshathvam; na hi parama purusha vyathirikthah kaschith sathya sankalpo:'sthi| mukthas cha thath prasa:da:th thath sa:myam upagathas thathaiva| su:thram api vya:khya:tham||8||
Link copied532 atha e:va cha:nanya:dhipathih||4|4|9||
Link copiedathah--- sruthe:r e:va muktho:'nanya:dhipathis cha| anya:dhipathithvam--- karma:dhi:nathvam| apahatha pa:pma:....sathya sankalpah, ithi sru:yathe:| atho:'nanya:dhipathih||9|| ithi sankalpa:dhikaranam||4||
Link copied533 abha:vam ba:darir a:ha hy e:vam||4|4|10||
Link copiedkim mukthasya sari:re:ndriya:dy asthi, utha na, atha yatha:sankalpam asthi cha ne:thi samsayah| na ha vai sasari:rasya sathah priya:priyayo:r apahathir asthy asari:ram va:va santham na priya:priye: sprusathah, ithi mukthasya:sari:rathva sravana:n na:sthy e:ve:thy e:kah pakshah| sa e:kadha: bhavathi thridha: bhavathi, ithi sasari:rathva sruthe:r asari:rathva sruthih karma gruhi:tha sari:ra vishaye:thi sari:re:ndriya:dy asthy e:ve:thi dvithi:yah pakshah| ra:ddha:nthas thu--- manasaitha:n ka:ma:n pasyan ramathe: ya e:the: brahma lo:ke:, ithy asari:rasyaiva bho:ga sruthe:h, sa e:kadha: bhavathi thridha: bhavathi, ithi sruthe:s cha yatha:sankalpam asthi cha na che:thi| su:thra:rthas thu--- sari:ra:bha:vam ba:darir me:ne:; e:vam a:ha hi sruthih--- asari:ram va:va santham ithi||10||
Link copied534 bha:vam jaiminir vikalpa:manana:th||4|4|11||
Link copiedsari:ra:di bha:vam jaiminir me:ne:| kuthah| vikalpa:manana:th--- vividhah kalpah--- vikalpah, sa e:kadha: bhavathi thridha: bhavathi:thy a:dina: mukthasya hi vividha kalpanam a:mna:yathe: a:thmana e:ka ru:pasya:chchhe:dyasya vaividhya:sambhava:ch chhari:ra dva:re:naiva hi vijna:yathe: vaividhyam||11||
Link copied535 dva:dasa:havad ubhaya vidham ba:dara:yano:'thah||4|4|12||
Link copiedathah--- ubhaya sruthe:r ichchha:thah, ubhaya vidham, sari:ravaththvam asari:rathvam cha bhagava:n ba:dara:yano: me:ne:; dva:dasa:havath--- yatha: dva:dasa:ha ubhaya sruthe:h sathram ahi:nam cha, dva:dasa:ham ruddhi ka:ma: upe:yuh, ithi sathram bhavathi, dva:dasa:he:na praja: ka:mam ya:jaye:th, ithy ahi:nam||12||
Link copied536 thanv abha:ve: sandhyavad upapaththe:h||4|4|13||
Link copiedsve:naiva srushta thanu prabhruthy upakarana:bha:ve: parama purusha srushtair upakaranair bho:go:papaththe:h sathya sankalpo:'pi svayam na srujathi, sandhyavath--- yatha: svapne:, atha ratha:n, ithy a:rabhya, sa hi kartha:, ithi, ya e:sha supthe:shu, ithy a:rabhya, thad u na:thye:thi kaschana, ithi che:svara srushtair upakaranair ji:vo: bhunkthe:; thatha: muktho:'pi li:la: pravruththe:svara srushtaih pithru lo:ka:dibhir li:la: rasam bhunkthe:||13||
Link copied537 bha:ve: ja:gradvath||4|4|14||
Link copiedsva sankalpa srushta thanu prabhruthy upakarana sad bha:ve: ja:grath purusha bho:gavan muktho: li:la: rasam bhunkthe:, parama purusho:'pi dasaratha vasude:va:di pithru lo:ka:dikam a:thmanah srushtva: thair manushya dharma li:la: rasam bhunkthe:; thatha: mukthas cha sathya sankalpathva:th parama purusha li:la:nthargatha sva pithru lo:ka:dikam svayam e:va srushtva: thair li:la: rasam anubhavathi||14||
Link copiednanv a:thma:nu parima:na ithy uktham, katham ane:ka sari:re:shve:kasya:no:r a:thma:bhima:na sambhava ithy athra:ha---
Link copied538 pradi:pavad a:ve:sas thatha: hi darsayathi||4|4|15||
Link copiedyatha: pradi:pasyaikasyaikade:sa varthinah svaya: prabhaya:ne:ka de:sa prave:sah, thadvad a:thmano:'py e:ka de:sa sthasya sva prabha: ru:pe:na jna:ne:na sarva de:he:shu yatha:sankalpam a:thma:bhima:na:nuguna: vya:pthih sambhavathi| yathaikasmin de:he: hrudaya:di de:se: varthama:nasya:no:r api sarvasmin de:he: aham ithy abhima:na:nuguna vya:pthih sva prabha: ru:pa chaithanye:na thadvath| thatha: darsayathi hi sruthih--- ba:la:gra satha bha:gasya sathadha: kalpithasya cha| bha:go: ji:vah sa vijne:yah sa cha:nanthya:ya kalpathe:, ithi| prathyaga:thmano:'nuthvam e:va svaru:pam ithi su:thra ka:ra matham, na:nur athach chhruthe:r ithi che:n ne:thara:dhika:ra:th, ithi parasyaiva mahaththva vachana:th||15||
Link copiednanu param brahma pra:pthasya:nthara ba:hya jna:na lo:pam darsayathi sruthih--- pra:jne:na:thmana: samparishvaktho: na ba:hyam kinchana ve:da na:ntharam ithi; thath katham mukthasya jna:na:nanthyam uchyatha ithy athra:ha---
Link copied539 sva:pyaya sampaththyo:r anyathara:pe:ksham a:vishkrutham hi||4|4|16||
Link copiedne:dam muktha vishayam; sushupthi maranayo:r anyathara:pe:ksham| a:vishkrutham hi sruthya: sushupthi maranayo:r nihsambo:dhathvam, mo:ksha dasa:ya:m sarvajnathvam cha| sushupthau tha:vath, na: ha khalv ayam e:vam samprathya:thma:nam ja:na:thy ayam aham asmi:thi no: e:ve:ma:ni bhu:tha:ni vina:sam e:va:pi:tho: bhavathi, vina:sam--- adarsanam ithy arthah| marane: cha--- e:the:bhyo: bhu:the:bhyah samuththa:ya tha:ny e:va:nu vinasyathi, ithi| vinasyathi--- na pasyathi:thy arthah| mo:kshe: thu--- sa va: e:sha divye:na chakshusha: manasaitha:n ka:ma:n pasyan ramathe: ya e:the: brahma lo:ke:, ithi; sarvam ha pasyah pasyathi sarvam a:pno:thi sarvasah, ithi cha||16|| ithy abha:va:dhikaranam||5||
Link copied540 jagad vya:pa:ra varjam prakarana:d asannihithathva:ch cha||4|4|17||
Link copiedkim mukthasya bho:gah nikhila he:ya prathyani:ka kalya:naikatha:na sakale:thara vilakshana:navadhika:thisaya:nanda maha: vibhu:thi ru:pa parabrahma:nubhava e:va| utha jagath srushty a:di jagan niyamana ru:pa li:la:pi:thi samsayah| niranjanah paramam sa:myam upaithi, ithy a:di sruthe:r jagan niyamana ru:pa li:la:pi:thi pu:rvah pakshah| ra:ddha:nthas thu--- yatho: va: ima:ni bhu:tha:ni ja:yanthe:, sad e:va so:mye:dam agra a:si:d idam e:ka e:va:gra a:si:th, a:thma: va: idam e:ka e:va:gra a:si:th, e:ko: ha vai na:ra:yana a:si:th, ithy a:dishu param brahma prakruthyaiva jagad vya:pa:rah sru:yathe:| thathra thathra prakarane: na mukthasya sannidhir apy asthi| atho: jagan niyamana ru:pa dhura:varjam, so:'snuthe: sarva:n ka:ma:n saha brahmana: vipaschitha:, sa e:ko: brahmana a:nandah, sro:thriyasya cha:ka:mahathasya, ithy anavadhika:thisaya:nanda brahma:nubhave: mukthasya sa:myam| brahma hi svasya parasya cha:nubhu:yama:nam avise:she:na:navadhika:thisaya:nandam bhavathi, a:nanda svaru:pathva:vise:sha:th| su:thram api vya:khya:tham||17||
Link copied541 prathyaksho:pade:sa:d ithi che:n na:dhika:rika mandala stho:kthe:h||4|4|18||
Link copiedprathyaksham--- sruthih; thasya sarve:shu lo:ke:shu ka:ma cha:ro: bhavathi, ima:ml lo:ka:n ka:ma:nni: ka:ma ru:py anusancharan, ithy a:di sruthya: mukthasya jagad vya:pa:ro:pade:sa:th so:'pi:thi che:th than na, a:dhika:rika mandala stho:kthe:h, a:dhika:rika:h--- parama purushe:na lo:ka niyamana:dhika:re: niyuktha: hiranyagarbha:dayah; mandala:ni--- the:sha:m lo:ka:h; thath stha bho:ge:shu mukthasya yad i:chchha: varthathe:, thathra thathra yatha:ka:mam parama purusha:nugrahe:na varthama:nas thathra stha:n bho:ga:n bhunkthe:, ithi thaya: sruthyo:kthe:h| ka:ma:nni:, ka:ma cha:ro: bhavathi, ithi hi sru:yathe:; na niyunktha ithi||18||
Link copieduthpaththy a:di vika:ravarthi: he:ya misro:'thyalpas cha katham mukthasya bho:go: bhavathi, yad ichchha:thah sarve:shu lo:ke:shu ka:ma cha:ra uchyatha ithy athra:ha---
Link copied542 vika:ra:varthi cha thatha: hi sthithim a:ha||4|4|19||
Link copiedcha sabdo:'vadha:rane:; uthpaththy a:di vika:re:shu na varthatha ithi vika:ra:varthi param brahmaiva| nirdhu:tha nikhila vika:ram nikhila he:ya prathyani:ka kalya:naikatha:nam nirathisaya:nandam parabrahma savibhu:thi sakala kalya:na gunam mukthasya bho:gyam; thad vibhu:thy anthargathathve:na vika:ra varthina:m lo:ka:na:m api muktha bho:gyathvam| thatha: hi parasmin brahmani mukthasya:nubhavithruthve:na sthithim a:ha sruthih--- yada: hy e:vaisha e:thasminn adrusye:'na:thmye:'nirukthe:'nilayane:'bhayam prathishtha:m vindathe:, atha so:'bhayam gatho: bhavathi, raso: vai sah, rasam hy e:va:yam labdhva:nandi: bhavathi, brahma nishtho: brahmaiva labdhva:nandi: bhavathi:thy arthah| brahma hi nirathisaya kalya:na:nantha gunakam anantha maha: vibhu:thi cha| thathra savibhu:thika brahma:nubhava:ya vibhu:thy e:kade:sa bhu:tha lo:ke:shu sancharathas thathra thathra ka:ma cha:ro: bhavathi:thy uchyathe:||19||
Link copied543 darsayathas chaivam prathyaksha:numa:ne:||4|4|20||
Link copieduthpaththy a:di jagan niyamanam parasyaiva; mukthasya thu parabrahma:nubhava e:va bho:ga ithy uktham e:va:rtham prathyaksha:numa:ne:--- sruthi smruthi: darsayathah, thasma:d va: e:thasma:d a:thmana a:ka:sah sambhu:thah, bhi:sha:sma:d va:thah pavathe:, e:thasya va: aksharasya prasa:sane: ga:rgi su:rya:chandramasau vidhruthau thishthathah, ithy a:dika: sruthih; smruthir api--- aham sarvasya prabhavah, aham kruthsnasya jagathah prabhavah pralayas thatha:, vishtabhya:ham idam kruthsnam e:ka:mse:na sthitho: jagath, maththah sarvam pravarthathe:, so:'bhidhya:ya sari:ra:th sva:th sisrukshur vividha:h praja:h prasa:sitha:ram sarve:sha:m, ithy a:dika: para vishaya:| atha:ka:mayama:no: yo:'ka:mo: nishka:ma a:ptha ka:ma a:thma ka:mah, ithy a:dika: sruthih| smruthir api--- priyo: hi jna:nino:'thyartham aham, a:sthithah sa hi yuktha:thma: ma:m e:va:nuththama:m gathim, va:sude:vah sarvam ithi sa maha:thma: sudurlabhah, ma:m cha yo:'vyabhicha:re:na bhakthi yo:ge:na se:vathe:| sa guna:n samathi:thyaitha:n brahma bhu:ya:ya kalpathe:|| brahmano: hi prathishtha:ham amruthasya:vyayasya cha| sa:svathasya cha dharmasya sukhasyaika:nthikasya cha, ithy a:dika: muktha vishaya:||20||
Link copied544 bho:ga ma:thra sa:mya linga:ch cha||4|4|21||
Link copiedso:'snuthe: sarva:n ka:ma:n saha brahmana: vipaschitha:, ithi mukthasya brahma:nubhava bho:ga ma:thra brahma sa:mya vachana:l linga:ch cha jagad vya:pa:ra varjam ithi nischi:yathe:||21||
Link copiedyadi niyanthruthvam parasyaiva, e:vam tharhi svathanthrathve:na muktham parah kada:chith punar a:varthayishyathi:thy a:sankya:ha---
Link copied545 ana:vruththih sabda:d ana:vruththih sabda:th||4|4|22||
Link copiedasya mukthasya:na:vruththih sabda:d avagamyathe:--- yatho: va: ima:ni bhu:tha:ni ja:yanthe:, so:'ka:mayatha bahu sya:m praja:ye:ye:thi, yah pruthivi:m antharo: yamayathi, ya a:thma:nam antharo: yamayathi, ithi sabda:th parama purushasya srashtuthvam niyanthruthvam cha:vagamyathe:| thatha:--- e:the:na prathipadyama:na: imam ma:navam a:vartham na:varthanthe:, sa khalv e:vam varthayan ya:vad a:yusham brahma lo:kam abhisampadyathe: na cha punar a:varthathe:, ma:m upe:thya punar janma duhkha:layam asa:svatham| na:pnuvanthi maha:thma:nah samsiddhim parama:m gatha:h|| a:brahma bhuvana:l lo:ka:h punar a:varthino:'rjuna| ma:m upe:thya thu kaunthe:ya punar janma na vidyathe:, idam jna:nam upa:srithya mama sa:dharmyam a:gatha:h| sarge:'pi no:paja:yanthe: pralaye: na vyathanthi cha, ithi sabda:d e:vainam kada:chid api na:varthayathi:thy avagamyathe:| su:thra:vruththis thu sa:sthra parisama:pthim dyo:thayathi:thi sarvam samanjasam||22|| ithi jagad vya:pa:ra varja:dhikaranam||8||
Link copiedithi sri: ra:ma:nuja:cha:rya virachithe: sri: ve:da:nthadi:pe: chathurthasya:dhya:yasya chathurthah pa:dah||
Link copied||sama:pthas cha:dhya:yah||
Link copiedsa:sthram cha parisama:ptham||
Link copied